Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Chưa xếp loại
संयुक्तागम (966-972 according to the Chinese canon)
- Thông tin
- GRETIL — the following editions: SĀ(Hos1) = N. Hosoda, "Sanskrit Fragments from the Parivrājakasaṃyukta of the Saṃyuktāgama (I)", Indian Philosophy and Buddhism, Essays in Honour of Professor Kotatsu Fujita, Kyḥto 1989. pp. 185-206. SĀ(Hos2) = N. Hosoda, "Bonbun 'Zḥagongyḥ'; Busshosetsuhon Gedḥsḥḥ (II)" ['Sanskrit Fragments from the Parivrājakasaṃyukta of the Saṃyuktāgama (2)'], Hokkaidḥ Journal of Indological and Buddhist Studies 4 (1989), pp. 140-153. SĀ(Hos3) = N. Hosoda, "Bonbun 'Zḥagongyḥ'; Busshosetsuhon Gedḥsḥḥ (III)" ['Sanskrit Fragments from the Parivrājakasaṃyukta of the Saṃyuktāgama
संयुक्तागम (966-972 according to the Chinese canon)
ब्ल्. 157व्1-र्5 पूर्णिक सा(hos1) 4. अथायुष्मान् पूर्णिको ऽचिरप्रक्रान्तान् संबहुलान् अन्यतीर्थिकपरिव्राजकान् विदित्वा येन भगवांस् तेनोपजगाम. उपेत्य भगवत्पादौ शिरसा वन्दित्वा, एकान्ते न्यषीदत्. एकान्तनिषन्न आयुष्मान् पूर्णिको यावद् एवास्याभूत्. संबहुलैर् अन्यतीर्थिकपरिव्राजकैः सार्धम् अन्तराकथासमुदाहारस् तत् सर्वं भगवतो विस्तरेणारोचयति. एवं चाह. 5. कच्चिद् अहं भदन्त एवं व्याकुर्वाणो नो च भगवन्तम् अभ्याचक्षे. नातिसराम्य् उक्तवादी चाहं भगवतो धर्मवादी च धर्मस्य चानुधर्मं व्याकरोमि. न च मे कश्चिद् आगच्छेत् परतः सह धर्मेण वादानुवादं गर्हस्थानीयो धर्मः. 6. तत्थ्यं त्वं पूर्णिक व्याकुर्वाणो नो च माम् अभ्याचक्षसे. नातिसरास्य् उक्तवादी च त्वं मम धर्मवादी च धर्मस्य चानुधर्मं व्याकरोसि. न च ते कश्चिद् आगच्छेत् परतः सह धर्मेण वादानुवादं गर्हस्थानीयो धर्मः / 7. तत् कस्माद् धेतोः. पूर्वं पूर्णिक ......... अनभिसमयात्* श्वांत्रकुलजाता गुडगुंजिजाता मुंजबल्बजजाता आजवंजवसमापन्ना अस्माल् लोकात् परं लोकं पराल् लोकाद् इमं लोकं सन्धावंति संसरंति संसारान् न व्यतिवर्तंते. 8. मिथ्यामानेषु पूर्णिक ....... अपरिशेषम् अध्यस्तं परिक्षयं पर्यादानं गच्छेत् सर्वस्याः प्रजाया दीर्घरात्रम् अर्थाय हिताय सुखाय //
ब्ल्. 157र्5-159व्2: कोकनद सा(hos1) 1. भगवान् राजगृहे विहरति वेणुवने कलन्दकनिवापे. अथायुष्मान् आनन्दः स रात्र्या पश्चिमे यामे व्युत्थाय येन नदी तपोदा तेनोपजगाम. उपेत्य नद्यास् तपोदायास् तीरे चीवरकाण्य् उपनिक्षिप्य नदीं तपोदाम् अभ्यवगाह्य गात्राणि परिषिच्य नदीं तपोदां प्रत्युत्थाय, एकचीवरक अस्थाद् गात्राण्य् आवापयमानः 2. तेन खलु समयेन कोकनदः परिव्राजको येन नदी तपोदा तेनोपजगाम. अश्रौषीद् आयुष्मान् आनन्दः कोकनदस्य परिव्राजकस्य परिषिञ्चनशब्दम्. श्रुत्वा च पुनर् आयुष्मतानन्देनोत्काशनशब्दः कृतः. अश्रौषीत् कोकनदः परिव्राजको तस्योत्काशनशब्दं. श्रुत्वा च पुनर् एवम् आह. 3. को ऽस्य् आयुष्मन्. अहं श्रमणो ऽस्मि. कतमेषां श्रमणानाम्. शाक्यपुत्रीयाणाम्. पृच्छेयम् अहम् आयुष्मां कञ्चिद् एव प्रदेशामि सचेद् अवकाशं कुर्याः प्रश्नस्य व्याकरणाय. पृच्छायुष्मन्. श्रुत्व ते वेदयिष्यामि. 4. किन् न्व् आयुष्मन् भवति तथागतः परं मरणात्. अव्याकृतं भगवता भवति तथागतः परं मरणात्. किन् न्व् आयुष्मन् न भवति भवति च न भवति नैव भवति नैव न भवति तथागतः परं मरणात्. अव्याकृतं भगवता न भवति भवति च न न भवति नैव भवति नैव न भवति तथागतः परं मरणात्. 5. किन् न्व् आयुष्मन् भवति तथागतः परं मरणाद् इति पृष्ट अव्याकृतम् इति वदसि. न भवति भवति च न न भवति नैव भवति नैव न भवति तथागतः परं मरणाद् इति पृष्टः अव्याकृतम् इति वदसि. किन्व् आयुष्मन् न जानासि न पश्यसि. नाहम् आयुष्मन् न जानामि न पश्यामि. जानाम्य् अहं पष्यामि. किन् न्व् आयुष्मन् जानासि पश्यसि. 6. ........ दृष्टिर् दृष्टिस्थानं दृष्टिस्थान ...... तम् अहं जानामि तम् अहं पश्यामि. एवं चाहम् आयुष्मन् जानाम्य् एवं पश्यामि. किन् न्व् अहं न जानामि न पश्यामि. 7. को नामायुष्मं. आनन्द इति. आश्चर्यं यावन् महाचार्यस्य श्रावकेण सार्धम् अन्तराकथासमुदाहारः. सचेद् अहं सञ्जानीयाम् आयुष्मान् आनन्द इति एतावत् प्रतिभास्य न हंत भ्. ...... एवम् उक्त्वा प्रक्रान्तः //
ब्ल्. 159व्2-162व्1: अनाथपिण्डद सा(hos1) 1. //
भगवान् श्रावस्त्यां विहरति जेतवने अनाथपिण्डदस्यारामे. तेन खलु समयेन अनाथपिण्डदो गृहपतिर् दिवादितः श्रावस्त्या निष्क्रमति भगवद्दर्शनाय भगवन्तं पर्युपासनायै. 2. अथानाथपिण्डदस्य गृहपतेर् एतद् अभवत्*. अतिप्रातस् तावद् एतर्हि भगवद्दर्शनाय भगवन्तं पर्युपासनायै. भगवाञ् च भिक्षवश् च प्रतिसंलीना भवन्ति. यन् न्व् अहं येनान्यतीर्थिकपरिव्राजकानाम् आरामः तेनोपगच्छेयम्. 3. अथानाथपिण्डदो गृहपतिर् येनान्यतीर्थिकपरिव्राजकानाम् आरामः तेनोपजगाम. उपेत्यान्यतीर्थिकपरिव्राजकैः सार्धं संमुखं संमोदनीं संरञ्जनीं कथां विविधान् उपसंहृत्य, एकान्ते न्यषीदत्. 4. अथान्यतीर्थिकपरिव्राजका इदम् अवोचन्. गृहपते श्रमणस्य गौतमस्य दृष्टिं वदसि. का गौतमस्य दृष्टिः किं पश्यति गौतमः. नाहम् अपि भवन्तो जानामि का भगवतो दृष्टिः किं पश्यति भगवां. तेन हि गृहपते भिक्षुसंघस्य दृष्टिं वदसि. का भिक्षुसंघस्य दृष्टिः किं पश्यति भिक्षुसंघः. नाहम् अपि भवन्तो जानामि का भिक्षुसंघस्य दृष्टिः किं पश्यति भिक्षुसंघः. तेन हि गृहपते का गृहपतेर् दृष्टिः किं पश्यति गृहपतिर्. अङ्ग भवन्तस् तावत्* स्वकस्वकां दृष्टिं व्याकुर्वन्तु. पश्चान् मम दृष्टिं व्याकरोतुं न दुष्करं भविष्यति. 5. अथान्यतरो ऽन्यतीर्तिकपरिव्राजको ऽनाथपिण्डदं गृहपतिम् इदम् अवोचत्. मम दृष्टिः शास्वतो लोक इदं सत्यं मोहम् अन्यत्. अपर एवम् आह मम दृष्टिऋ अशाश्वतो लोक इदं सत्यं मोहं अन्यत्* अपर एवम् आह शाश्वतश् चाशाश्वतश् च लोक. अपर एवम् आह नैव शाश्वतो नाशाश्वतश् च लोकः. अन्तवान् लोकः. अनन्तवान्. अन्तवांश् चानन्तवांश् च.
नैवान्तवां नानन्तवां. यो जीवस् तच् छरीरम्. अन्यो जीवो ऽन्यच् छरीरम्. भवति तथागतः परं मरणात्. न भवति. भवति च न भवति च. अपर एवम् आह मम दृष्टिर् नैव भवति नैव न भवति तथागतः परं मरणात्. इदं सत्यं मोहम् अन्यत्. 6. अथान्यतीर्थिकपरिव्राजका अनाथपिण्डदं गृहपतिम् इदम् अवोचन्* व्याकुर्वाम वयं गृहपते स्वकस्वकां दृष्टिम्. व्याकरोतु गृहपते का गृहपतेर् दृष्टिः किं पश्यति गृहपतिर्. 7. मम भवन्तो दृष्टिर् भूतं संस्कृतं चेतयितं प्रतीत्यसमुत्पन्नं यद् भूतं संस्कृतं चेतयितं प्रतीत्यसमुत्पन्नं तद् अनित्यं यद् अनित्यं तद् दुःखं. एवं विदित्वा तस्माद् अहम् इमां दृष्टिं सर्वेण सर्वं नाभ्युपगतम्. 8. ........ दृष्टिः शाश्वतो लोक इदं सत्यं मोहम् अन्यत्. इमा दृष्टिर् भूतं संस्कृतं चेतयितं प्रतीत्यसमुत्पन्नं यद् भूतं संस्कृतं चेतयितं प्रतीत्यसमुत्पन्नं तद् अनित्यं यद् अनित्यं तद् दुःखम्. तस्माद् अयम् आयुष्मां दुःखम् एवालीनः. दुःखम् एवाध्युपगतः. दुःखम् एवाधिनिविष्टः. दुःखम् एव प्रतिपन्नः. 9. ............ एवंवादी शाश्वतो लोक इदम् एव सत्यं मोहम् अन्यत्. एव्ं दोषं भवति. पूर्ववद् यावत्, नैव भवति नैव न भवति तथागतः परं मरणात्. इदं सत्यं मोहम् अन्यत्* इमा दृष्टिर् भूतं संस्कृतं चेतयितं प्रतीत्यसमुत्पन्नं यद् भूतं संस्कृतं चेतयितं प्रतीत्यसमुत्पन्नं तद् अनित्यं यद् अनित्यं तद् दुःखं. तस्माद् अयम् आयुष्मां दुःखम् एवालीनः. दुःखम् एवाध्युपगतः. दुःखम् एवाधिनिविष्टः. दुःखम् एव प्रतिपन्नः. ............ एवंवादी नैव भवति नैव न भवति तथागतः परं मरणात्. इदं
सत्यं मोहम् अन्यत्. 10. अथान्यतरो ऽन्यतीर्थिकपरिव्राजको ऽनाथपिण्डदं गृहपतिम् इदम् अवोचत्*. ननु गृहपतेर् अपि दृष्टिर् भूतं संस्कृतं चेतयितं प्रतीत्यसमुत्पन्नं यद् भूतं संस्कृतं चेतयितं प्रतीत्यसमुत्पन्नं तद् अनित्यं यद् अनित्यं तद् दुःखं. तस्माद् गृहपतिर् अपि दुःखम् एवालीनः दुःखम् एवाध्युपगतः. दुःखम् एवाधिनिविष्टः. दुःखम् एव प्रतिपन्नः. 11. मम भवन्तो दृष्टिर् भूतं संस्कृतं चेतयितं प्रतीत्यसमुत्पन्नं यद् भूतं संस्कृतं चेतयितं प्रतीत्यसमुत्पन्नं तद् अनित्यं यद् अनित्यं तद् दुःखं. एवं विदित्वा तस्माद् अहम् इमां दृष्टिं सर्वेण सर्वं नाभ्युपगतम्. एवम् एव गृहपते. 12. अथानाथपिण्डदो गृहपतिर् अन्यतीर्थिकपरिव्राजकानाम् आरामे परप्रतिवादां निगृह्य स्वकं वादं दीपयित्वा परिषदि सिंहनादं नदित्वा, उत्थायासनात् प्रक्रान्तः. अथानाथपिण्डदो गृहपतिर् येन भगवांस् तेनोपजगाम. उपेत्य भगवत्पादौ शिरसा वन्दित्वा एकान्ते न्यषीदत्. एकान्तनिषण्णो ऽनाथपिण्डदो गृहपतिर् यावद् एवास्याभूत्. संबहुलैर् अन्यतीर्थिकपरिव्राजकैः सार्धम् अन्तराकथासमुदाहारस् तत् सर्वं भगवतो विस्तरेणारोचयति. 13. एवम् उक्तो भगवान् अनाथपिण्डदं गृहपतिम् इदम् अवोचत्*. साधु साधु गृहपते कालेन कालं ..........
ब्ल्. 162व्2-166र्5: दीर्घनख सा(hos2) 1. //
भगवां राजगृहे विहरति वेणुवने कलन्दकनिवापे. अथ दीर्घनखः परिव्राजको येन भगवांस् तेनोपजगाम. उपेत्य भगवता सार्धं संमुखं संमोदनीं संरंजनीं कथां विविधाम् उपसंहृत्य, एकान्ते न्यषीदद्. एकान्तनिषण्णो दीर्घनखः परिव्राजको भगवन्तम् इदम् अवोचत्. 2. सर्वं मे भो गौतम न क्षमति. एषापि ते, अग्निवैश्यायन दृष्टिर् न क्षमति येयं दृष्टिः सर्वं मे न क्षमति, एषापि मे दृष्टिर् न क्षमति, येयं मे दृष्टिः सर्वं मे न क्षमति. 3. अपि नु ते अग्निवैश्यायन, एवं जानत एवं पश्यतो ऽस्याश् च दृष्टेः प्रहाणं भविष्यति प्रतिनिःसर्गो व्यन्तिभावः, अन्यस्याश् च दृष्टेर् अप्रतिसन्धिर् अनुपादानम् अप्रादुर्भावः. अपि मे भो गौतम, एवं जानत एवं पश्यतो ऽस्याश् च दृष्टेः प्रहाणं भविष्यति प्रतिनिःसर्गो व्यन्तिभावः, अन्यस्याश् च दृष्टेर् अप्रतिसन्धिर् अनुपादानम् अप्रादुर्भावः. 4. बहुजनेन ते, अग्निवैश्यायन संस्यदिष्यति, बहुजनो ऽपि एवंदृष्टिर् भवति, एवंवादी. त्वम् अपि स्यात् तादृश एव ये केचिद् अग्निवैश्यायन श्रमणा वा ब्राह्मणा वा इमां च दृष्टिं प्रतिनिःसृजन्त्य् अन्यां च दृष्टिं नोपादन्ते. इम उच्यन्ते श्रमणा वा ब्राह्मणा वा तनुभ्यस् तनुतरा लोके. 5. त्रय इमे, अग्निवैश्यायन दृष्टिसंनिश्रयाः. कतमे त्रयः. इहाग्निवैश्यायन, एक एवंदृष्टिर् भवति. एवंवादी. सर्वं मे क्षमति. पुनर् अपरम् इहैक एवंदृष्टिर् भवति, एवंवादी. सर्वं मे न क्षमति. पुनर् अपरम् इहैक एवंदृष्टिर् भवति, एवंवादी. एकत्यं मे क्षमति. एकत्यं मे न क्षमति. 6. तत्राग्निवैश्यायन येयं दृष्टिः सर्वं मे क्षमति. इयं दृष्टिः संरागाय संवर्तते नासंरागाय संद्वेषाय
नासंद्वेषाय संमोहाय नासंमोहाय संयोगाय नासंयोगाय संक्लेशाय न व्यवदानाय संचयाय नापचयाय, अभिनन्दनायोपादानाय, अध्यवसानाय संवर्तते. 7. येयं दृष्टिः सर्वं मे न क्षमति. इयं दृष्टिर् असंरागाय संवर्तते न संरागाय. असंद्वेषाय न संद्वेषाय, असंमोहाय न संमोहाय, असंयोगाय न संयोगाय, व्यवदानाय न संक्लेशाय, असंचयाय न संचयाय. अनभिनन्दनायानुपादानाय, अनध्यवसानाय संवर्तते. 8. तत्राग्निवैश्यायन येयं दृष्टिः एकत्यं मे क्षमति. एकत्यं मे न क्षमति यत् तावद् अस्य क्षमति तत् संरागाय संवर्तते नासंरागाय पूर्ववद् यावद् अध्यवसानाय संवर्तते यद् अस्य न क्षमति तद् असंरागाय संवर्तते न संरागाय पूर्ववद् यावद् अनध्यवसानाय संवर्तते. 9. तत्र श्रुतवान् आर्यश्रावक इतः प्रतिसंशिक्षति. अहं चेद् एवंदृष्टिः स्याम् एवंवादी सर्वं मे क्षमति, द्वाभ्यां मे सार्धं स्याद् विग्रहः स्याद् विवादः. यश् चैवंदृष्टिर् एवंवादी सर्वं मे न क्षमति. यश् चैवंदृष्टिर् एवंवादी, एकत्यं मे क्षमति, एकत्यं न मे क्षमति, विग्रहे सति विवादो विवादे सति विहिंसा. इति स विग्रहं च विवादं च व्हिंसाञ् च समनुपश्यन्न् इमां च दृष्टिं प्रतिनिसृजत्य् अन्यां च दृष्टिं नोपादत्ते. एवम् अस्याश् च दृष्टेर् प्रहाणं भवति प्रतिनिःसर्गो व्यन्तिभाव अन्यस्याश् च दृष्टेर् अप्रतिसन्धिर् अनुपादानम् अप्रादुर्भावः. 10. तत्र श्रुतवान् आर्यश्रावक इतः प्रतिसंशिक्षति, अहं चेद् एवंदृष्टिः स्याम् एवंवादी सर्वं मे न क्षमति, द्वाभ्यां मे सार्धं स्याद् विग्रहः स्याद् विवादः. यश् चैवंदृष्टिर् एवंवादी सर्वं मे क्षमति. यश् चैवंदृष्टिर् एवंवादी. एकत्यं मे क्षमति.
एकत्यं मे न क्षमति. विग्रहे सति विवादो विवादे सति विहिंसा पूर्ववद् यावद् अप्रतिसन्धिर् अनुपादानम् अप्रादुर्भावः. 11. तत्र श्रुतवान् आर्यश्रावक इतः प्रतिसंशिक्षति, अहं चेद् एवंदृष्टिः स्याम् एवंवादी, एकत्यं मे क्षमति, एकत्यं मे न कमति, द्वाभ्यां मे सार्धं स्याद् विग्रहः स्याद् विवादो यश् चैवंदृष्टिर् एवंवादी सर्वं मे क्षमति यश् चैवंदृष्टिर् एवंवादी सर्वं मे न क्षमति. विग्रहे सति विवादः पूर्ववद् यावद् अप्रतिसन्धिर् अनुपादानम् अप्रादुर्भावः. 12. अयं खल्व् अग्निवैश्यायन कायो रूपी औदारिकश् चातुर्महाभूतिक आर्यश्रावकेण, अभीक्षणम् अनित्यानुपश्यिना विहर्तव्यम् व्ययानुपश्यिना विरागानुपश्यिना निरोधानुपश्यिना प्रतिनिःसर्गानुपश्यिना विहर्तव्यम्. यत्रार्यश्रावकस्यानित्यानुपश्यिनो विहरतो व्ययानुपश्यिनो विरागानुपश्यिनो निरोधानुपश्यिनः प्रतिनिःसर्गानुपश्यिनो विहरतो यो ऽस्य भवति काये कायच्छन्दः कायस्नेहः कायप्रेमा कायालयः कायविषक्तिः कायाध्यवसानं तच् चास्य चित्तं न पर्यादाय तिष्ठति. 13. तिस्र इमा अग्निवैश्यायन वेदनाः. कतमास् तिस्रः. सुखा वेदना दुःखा वेदना, अदुःखासुखा वेदना च. इतीमास् तिस्रो वेदनाः किंनिदानाः किंसमुदयाः किंजातीयाः किंप्रभवाः. इतीमा वेदना स्पर्शनिदानाः स्पर्शसमुदयाः स्पर्शजातीयाः स्पर्शप्रभवास् तस्य तस्य स्पर्शस्य समुदयात् तास् ता वेदनाः समुदयन्ति. तस्य तस्य स्पर्शस्य निरोधात् तास् ता वेदना निरुध्यन्ते व्युपशमन्ति शीतीभवन्ति अस्तंगच्छन्ति. 14. स यां कांचिद् वेदनां वेदयति सुखां वा दुःखां वा, अदुःखासुखां वा तासां वेदनानां समुदयं चास्तंगमं चास्वादं चादीनवं च निःसरणं च यथाभूतं
प्रजानामीति. स तासां वेदनानां समुदयम् चास्तंगमं चास्वादं चादीनवं च निःसरणं च यथाभूतं प्रजानं तासु उत्पन्नासु वेदनास्व् अनित्यानुपश्यी विहरति व्ययानुपश्यी विरागानुपश्यी निरोधानुपश्यी प्रतिनिःसर्गानुपश्यी विहरति. 15. स कायपर्यन्तिकां वेदनां वेदयानः कायपर्यन्तिकां वेदनां वेदयामीति यथाभूतं प्रजानाति. जीवितपर्यन्तिकां वेदनां वेदयानो जीवितपर्यन्तिकां वेदनां वेदयामीति यथाभूतं प्रजानाति. भेदाच् च कायस्योर्ध्वं जीवितपर्यादानाद् इहैवास्य सर्वाणि वेदयितान्य् अपरिशेषं निरुध्यन्ते. अपरिशेषम् अध्यस्तं परिक्षयं पर्यादानं गच्छन्ति. 16. तस्यैवं भवति सुखाम् अपि वेदनां वेदयानो भेदात् कायस्य भविष्यति, एष एवान्तो दुःखस्य. दुःखाम् अप्य् अदुःखासुखाम् अपि वेदनां वेदयानो भेदात् कायस्य भविष्यति, एषैवान्तो दुःखस्य. स सुखाम् अपि वेदनां वेदयति विसंयुक्तो वेदयति न संयुक्तः. दुःखाम् अप्य् अदुःखासुखाम् अपि वेदनां वेदयति विसंयुक्तो वेदयति न संयुक्तः. केन विसंयुक्तः. विसंयुक्तो रागेण द्वेषेण मोहेन विसंयुक्तो जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासेभ्यो विसंयुक्तो दुःखाद् इति वदामि. 17. तेन खलु समयेनायुष्माञ् छारिपुत्रो ऽर्धमासोपसंपन्नो भगवतः पृष्ठतः स्थितो ऽभूद् व्यजनं गृहीत्वा भगवन्तं वीजयन्. अथायुष्मतः शारिपुत्रस्यैतद् अभवत्. भगवांस् तेषां धर्माणां प्रहाणम् एव वर्णयति विरागम् एव निरोधम् एव प्रतिनिःसर्गम् एव वर्णयति. अथायुष्मतः शारिपुत्रस्यैषां धर्माणाम् अनित्यतानुपश्यिनः विहरतो व्ययानुपश्यिनो विरागानुपश्यिनो निरोधानुपश्यिनः प्रतिनिःसर्गानुपश्यिनो विहरतः.
अनुपादायास्रवेभश् चित्तं विमुक्तं. 18. दीर्घनखस्य च परिव्राजकस्य विरजो विगतमलं धर्मेषु धर्मचक्षुर् उत्पन्नम्. अथ दीर्घनखः परिव्राजको दृष्टधर्मा प्राप्तधर्मा विदितधर्मा पर्यवगाढधर्मा तीर्णकांक्षस् तीर्णविचिकित्सो ऽपरप्रत्ययो ऽनन्यनेयः शास्तुः शासने धर्मेषु वैशारद्यप्राप्त उत्थायासनाद् एकांसम् उत्तरासङ्गं कृत्वा येन भगवांस् तेनाञ्जलिं प्रणम्य भगवन्तम् इदम् अवोचत्*. 19. लभेयाहं भदन्त स्वाख्याते धर्मविनये प्रव्रज्याम् उपसंपदं भिक्षुभावम्. चरेयम् अहं भगवतो ऽन्तिके ब्रह्मचर्यं. लब्धवां दीर्घनखः परिव्राजकः स्वाख्याते धर्मविनये प्रव्रज्याम् उपसंपदं भिक्षुभावम्. एवं प्रव्रजितः स आयुष्मां यस्यार्थे कुलपुत्राः केशश्मश्रूण्य् अवतार्य काषायाणि वस्त्राण्य् आच्छाद्य सम्यग् एव श्रद्धयागाराद् अनगारिकां प्रव्रजन्ति. पूर्ववद् यावद् अर्हन् बभूव सुविमुक्तचित्तः. ......... अपि नु तव जानतो ......... ......... योगः शारिपुत्रेण ........
ब्ल्. 167व्1-170व्3: शरभ सा(hos3) 1. //
भगवान् राजगृहे विहरति वेणुवने कलन्दकनिवापे. तेन खलु समयेन तस्मिन् राजगृहे शरभो नामः परिव्राजकः प्रतिवसति सुमागधायाः पुष्करण्यास् तीरे. ....... स एवं परिषदि वाचं भाषते. आज्ञातो मे श्रमणानां शाक्यपुत्रीयाणां धर्मः. आज्ञायैवाहं तस्माद् धर्मविनयाद् अपक्रान्तः. 2. अथ संबहुला भिक्षवः पूर्वाह्ने निवास्य पात्रचीवरम् आदाय राजगृहं पिण्डाय प्राविशन्. अश्रौषुः संबहुला भिक्षवो राजगृहं पिण्डाय चरन्तः. अस्मिं राजगृहे शरभो नामः परिव्राजकः प्रतिवसति. स एवं परिषदि वाचं भाषते. पूर्ववत्. श्रुत्वा च पुनर् राजगृहं पिण्डाय चरित्वा कृतभक्तकृत्याः पश्चाद्भक्तपिण्डपातः प्रतिक्रान्ताः पात्रचीवरं प्रतिशम्य पादौ प्रक्षाल्य येन भगवांस् तेनोपजग्मुः. उपेत्य भगवत्पादौ शिरसा वन्दित्वा एकान्ते न्यषीदन्. एकांतनिषण्णाः संबहुला भिक्षवो भगवन्तम् इदम् अवोचन्. 3. इह वयं भदन्त संबहुला भिक्षवः पूर्वाह्णे निवास्य पात्रचीवरम् आदाय राजगृहं पिण्डाय प्राविशाम. अश्रौष्म वयं संबहुला भिक्षवो राजगृहं पिण्डाय चरन्तः. अस्मिं राजगृहे शरभो नामः परिव्राजकः प्रतिवसति. स एवं परिषदि वाचं भाषते. पूर्ववत्. साधु भगवान् येन सुमागधायाः पुष्करण्यास् तीरं तेनोपसंक्रमेत अनुकम्पाम् उपादाय. अधिवासयति भगवान् संबहुलानां भिक्षूणां तूष्णींभवेन. 4. अथ भगवान् सायाह्ने प्रतिसंलयनाद् व्युत्थाय येन शरभः परिव्राजकः सुमागधायाः पुष्करण्यास् तीरे तेनोपजगाम. अद्राक्षीच् छरभः परिव्राजको भगवन्तं दूरत एव. दृष्ट्वा च पुनर् भगवतो ऽर्थायासनं प्रज्ञपयत्य् एवं चाह. निषीदतां भगवान् प्रज्ञप्त
एवासने. न्यषीदद् भगवान् प्रज्ञप्त एवासने. निषद्य भगवां शरभं परिव्राजकम् इदम् अवोचत्. 5. सत्यं खलु त्वं शरभ, एवं वदसि. आज्ञातो मे श्रमणानां शाक्यपुत्रीयाणां धर्मः. आज्ञायैवाहं तस्माद् धर्मविनयाद् अपक्रान्त. 6. एवम् उक्तः शरभः परिव्राजकः तूष्णीम् एवाभूत्. ........ त्वं शरभ किम् असि तूष्णीं. सचेत् ते परिपूर्णं भविष्यति वयम् अनुमोदयिष्यामः. सचेत् ते अपरिपूर्णं भविष्यति वयं ते परिपूर्णयिष्यामः. अपीदानीं शरभः परिव्राजको ..... तूष्णीम् एवाभूत्. द्विर् अपि त्रिर् अपि शरभः परिव्राजकः तूष्णीम् एवाभूत्. 7. अथ शरभस्य परिव्राजकस्य स्वकाः सब्रह्मचारिणः शरभं परिव्राजकम् इदम् अवोचन्. यद् एव त्वं श्रमणं गौतमम् उपसंक्रम्येयैव तद् एव ते श्रमणः गौतम उपसंक्रम्यैवं वदति व्याकुरु व्याकुरु ... सचेत् ते परिपूर्णं भविष्यति वयम् अनुमोदयिष्यामः सचेत् ते अपरिपूर्णं भविष्यति वयं ते परिपूर्णयिष्यामः. त्वं शरभ किम् असि तूष्णीं. ... अपीदानीं शरभः परिव्राजको ... तूष्णीम् एवाभूद् द्विर् अपि त्रिर् अपि शरभः परिव्राजकः तूष्णीम् एवाभूत्. 8. अथ भगवान् शरभं परिव्राजकम् इदम् अवोचत्. यो मे सचेद् एवं वदेत्, न श्रमणस्य गौतमस्य तथागतः सम्यक्संबुद्धस्. तम् अहं साधु च सुष्ठु च समनुयुञ्ज्यां समनुगाह्यां. तस्य साधु च सुष्ठु च समनुयुञ्ज्यमानस्य समनुगाह्यमानस्य, अन्येनान्यं प्रतिसरेत बहिर्धा ... कोपं च दोषं चाप्रत्ययं च प्रादुष्कुर्यात्. ... तूष्णींभूतो वा स्यान् मद्गुभूतः स्रस्तस्कन्धः, अधोमुखो निष्प्रतिभानः प्रध्यानपरमः तद्यथा त्वम् एतर्हि शरभ. 9. यो मे सचेद् एवं वदेत्* न
श्रमणस्य गौतमस्य धर्मविनयः, तम् अहं साधु च सुष्ठु च समनुयुञ्ज्यां समनुगाह्यां. पूर्ववद् यावत् तद्यथा त्वम् एतर्हि शरभ. यो मे सचेद् एवं वदेत्, न श्रमणस्य गौतमस्य श्रावकः सुप्रतिपन्नः, तम् अहं साधु च सुष्ट्ःउ च समनुयुञ्ज्यां समनुगाह्यां पूर्ववत्* यावत् तद्यथा त्वम् एतर्हि शरभ. ... 10. अथ भगवान् सुमागधायाः पुष्करण्यास् तीरे परिषदि सम्यक्सिंहनादं नदित्वा उत्थायासनात् प्रक्रान्तः. 11. अथ शरभस्य परिव्राजकस्य स्वकाः सब्रह्मचारिणः शरभं परिव्राजकम् इदम् अवोचन्*. तद्यथा शरभ. ऋषभश् छिन्नविषाणः शून्यायां गोशालायां महानादं नदितव्यं मन्येत, एवम् एव त्वम् अन्यत्र श्रमणाद् गौतमात् परिषदि सिंहनादं नदितव्यं मन्यसे. तद्यथा शरभ भड्डलिका पुंरुतकं रविष्यामीति भड्डलिकारुतकम् एव रवति. ... न भड्डलिकावद् असि .. त्वम् अन्यत्र श्रमणाद् गौतमात् परिषदि सिंहनादं नदितव्यं मन्यसे. तद्यथा शरभ शृगालो भेरण्डाकारवितकं v. रविष्यामीति शृगालरवितकं रवति. एवम् एव त्वम् अन्यत्र श्रमणाद् गौतमात् परिशदि सिंहनादं मन्यसे. 12. अथ शरभस्य परिव्राजकस्य स्वकाः सब्रह्मचारिणः ... चोत्थायासनात् प्रक्रान्ताः. शरभ इति सूत्रं //
ब्ल्. 170व्3-172व्2: पीठ सा(hos3) 1. // भगवान् राजगृहे विहरति वेणुवने कलन्दकनिवापे. तेन खलु समयेन तस्मिन् राजगृहे पीठो नामः परिव्राजकः प्रतिवसति सुमागधायाः पुष्करिण्यास् -हिएर् इम्मेर् पुष्करण्यास् एर्ग्.- तीरे. स एवं परिषदि वाचं भाषते. ... यो मे सचेत् तां गाथां गीतम् अनुगास्यति तस्याहम् अन्तिके ब्रह्मचर्यं चरिष्यामीति. 2. अथ संबहुला भिक्षवः पूर्वाह्णे निवास्य पात्रचीवरम् आदाय राजगृहं पिण्डाय प्राविशन्. अश्रौषुः संबहुला भिक्षवो राजगृहं पिण्डाय चरन्तः, अस्मिं राजगृहे सुमागधायाः पुष्करण्यास् तीरे पीठो नामः परिव्राजकः प्रतिवसति. स एवं परिषदि वाचं भाषते. पूर्ववत्. एकान्ते न्यषीदन्. एकान्तनिषण्णाः संबहुला भिक्षवो भगवन्तम् इदम् अवोचन्* 3. इह वयं भदन्त पूर्ववत्. अधिवासयति भगवान् संबहुलानां भिक्षूणां तूष्णींभवेन. 4. अथ भगवान् सायाह्ने प्रतिसंलयनाद् व्युत्थाय येन पीठः परिव्राजकः सुमागधायाः पुष्करण्यास् तीरे तेनोपजगाम. अद्राक्षीत् पीठः परिव्राजको भगवन्तं दूरत एव. दृष्ट्वा च पुनर् भगवतो ऽर्थायासनं प्रज्ञपयत्य् एवं चाह. निषीदतां भगवान् प्रज्ञप्त एवासने. न्यषीदद् भगवान् प्रज्ञप्त एवासने. निषद्य भगवां पीठं परिव्राजकम् इदम् अवोचत्. 5. सत्यं खलु त्वं पीठ, एवं वदसि. ... यो मे सचेत् तां गाथां गीतम् अनुगास्यति तस्याहम् अन्तिके ब्रह्मचर्यं चरिष्यामीति. .. अहं तां गाथां गीतम् अनुगास्यामि. 6. अथ पीठः परिव्राजकाः पीठस्योपरि पीठं ... तस्यां वेलायां गाथां बभाषे // ... न विहेठयेत् प्राणिनः / कांश्चिद् वि .... ... दुष्कृतम्* संवृतस् त्रिषु स्थानेषु ... 7. अथ भगवां चेतसा पीठस्य परिव्राजकस्य चित्तम् आज्ञाय तस्यां वेलायां गाथां बभाषे //
य + + + + + + + + + + + + + + + / + + + + + + + + + + + + + + + + // ... मा च विहेठय प्राणिनः / कां ... यस्य कायेन वाचा च मनसा नास्ति दुष्कृतम्* संवृतस् त्रिषु स्थानेषु + + + + + + + + // 8. अथ पीठस्य परिव्राजकस्य एतद् अभवद् इति मे श्रमणो गौतमश् चेतसा चित्तम् आजानाति. ... येन भगवांस् तेनाञ्जलिं प्रणम्य भगवन्तम् इदम् अवोचत्. 9. लभेयाहं भो गौतम स्वाख्याते धर्मविनये प्रव्रज्याम् उपसंपदं भिक्षुभावम्. लब्धवां ते स्वाख्याते धर्मविनये प्रव्रज्याम् उपसंपदं भिक्षुभावम्. एवं प्रव्रजितः स पीठः परिव्राजकः यस्यार्थे कुलपुत्राः केशश्मश्रूण्य् अवतार्य काषायाणि वस्त्राण्य् आच्छाद्य सम्यग् एव श्रद्धयागाराद् अनगारिकां प्रव्रजन्ति. पूर्ववद् यावद् अर्हन् बभूव सुविमुक्तचित्तः. पीठ इति सूत्रं //
ब्ल्. 172व्2-173र्5: ब्राह्मणसत्यानि सा(hos3) 1. //
भगवान् राजगृहे विहरति वेणुवने कलन्दकनिवापे. अथ संबहुलानां ब्राह्मणपरिव्राजकानां सुमागधायाः पुष्करिण्यास् तीरे सन्निषण्णानां सन्निपतितानाम् अयं एवंरूपो ऽभूद् अन्तराकथासमुदाहार इत्य् अपि ब्राह्मणसत्यानि. इत्य् अपि ब्राह्मणसत्यानि. 2. अश्रौषीद् भगवांस् तेषां संबहुलानां ब्राह्मणपरिव्राजकानां सुमागधायाः पुष्करिण्यास् तीरे सन्निषण्णानां सन्निपतितानाम् अयम् एवंरूपो ऽभूद् अन्तराकथासमुदाहारो दिवाविहारोपगतो दिव्येन श्रोत्रेण विशुद्धेनातिक्रान्तमानुषेण. श्रुत्वा च पुनर् येन सुमागधायाः पुष्करिण्यास् तीरं तेनोपजगाम. 3. अद्राक्षुः संबहुला ब्राह्मणपरिव्राजका भगवन्तं दूरत एव. दृष्ट्वा च पुनर् भगवतो ऽर्थायासनं प्रज्ञपयन्त्य् एवं चाहुर्. निषीदतं भगवान् प्रज्ञप्त एवासने. न्यषीदद् भगवान् प्रज्ञप्त एवासने. निषद्य भगवान् संबहुलान् ब्राह्मणपरिव्राजकान् इदम् अवोचत्. 4. का नु युष्माकं संबहुलानां ब्राह्मणपरिव्राजकानां सुमागधायाः पुष्करिण्यास् तीरे सन्निषन्नानां सन्निपतितानाम् अन्तराकथा विप्रकृता. कया चाथ कथयैतर्हि सन्निषण्णाः सन्निपतिताः. इहास्माकं भो गौतम संबहुलानां ब्राह्मणपरिव्राजकानां सुमागधायाः पुष्करिण्यास् तीरे सन्निषण्णानां सन्निपतितानाम् अयम् एवंरूपो ऽभूद् अन्तराकथासमुदाहार इत्य् अपि ब्राह्मणसत्यानि. इत्य् अपि ब्राह्मणसत्यानि. इयम् अस्माकं भो गौतम संबहुलानां ब्राह्मणपरिव्राजकानां सुमागधायाः पुष्करिण्यास् तीरे सन्निषण्णानां सन्निपतितानाम् अन्तराकथा विप्रकृता. तया च भो गौतम कथयैतर्हि सन्निषण्णाः संनिपतिताः 5. त्रीणि इमानि ब्राह्मणसत्यानि. यानि मया स्वयम् अभिज्ञाय साक्षीकृत्वोपसंपद्य प्रवेदितानि.
कतमानि त्रीणि. 6. ब्राह्मणा एवम् आहुः. सर्वे प्राणिनो ऽवधा इति वदमाना ब्राह्मणाः सत्यम् आहुर् न मृशा. श्रेयांसः स्म इति मन्यन्ते सदृशा स्म इति मन्यन्ते हीना स्म इति मन्यन्ते यद् अत्र सत्यं तद् अनभिनिवेश्य सर्वलोके मैत्रासहगतेन चित्तेन विहरन्ति. इदं प्रथमं ब्राह्मणसत्यं यन् मया स्वयम् अभिज्ञाय साक्षीकृत्वोपसंपद्य प्रवेदितं. 7. ब्राह्मणा एवम् आहुः. यत् किंचित् समुदयधर्मं सर्वं निरोधधर्मकम् इति वदमाना ब्राह्मणाः सत्यम् आहुर् न मृशा. पूर्ववद् यावद् इति यद् अत्र सत्यं तद् अनभिनिविश्य सर्वलोके उदयव्ययानुदर्शिनो विहरंति. इदं द्वितीयं ब्राह्मणसत्यं यन् मया स्वयम् अभिज्ञाय साक्षीकृत्वोपसंपद्य प्रवेदितं. 8. ब्राह्मणा एवम् आहुर्. न मम क्वचन कश्चन किञ्चनम् अस्ति नास्य क्वचन कश्चन किञ्चनम् अस्तीति वदमाना ब्राह्मणाः सत्यम् आहुर् न मृशा. पूर्ववद् यावद् इति यद् अत्र सत्यं तद् अनभिनिविश्य सर्वलोके अममायन्तो विहरंति. इदं त्रितीयं ब्राह्मणसत्यं यन् मया स्वयम् अभिज्ञाय साक्षीकृत्वोपसंपद्य प्रवेदितं.
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
