Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 3/6

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Chưa xếp loại

सर्वतथागततत्त्वसंग्रह

Thông tin
GRETIL — Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

वज्रबन्धं दृढीकृत्य मध्यमाद्वयसन्धिता / चतुरन्त्यमुखासक्ता पापस्फोटेति कीर्तिता //

अथ ते त्र्यपायगतिचक्रान्तरस्थिताः सर्वसत्वा वज्रपाणिसकाशादिमां मुद्रां दृष्ट्वा, सर्वदुर्गतिभ्यश्च्युत्वा, भगवतो वैरोचनस्य पादमूले उपपन्नाः / ते चापाया महासमुद्रे पतिता इति /

अथ वज्रपाणिर्महाबोधिसत्त्वः पुनरपि भगवन्तमेतदवोचत् / "अहं भगवन्नशेषानवशेषत्वधातुपरित्राणसर्वहितसुखानुभवनार्थ यावत्सर्वतथागतत्वोत्तमसिद्धिफलावाप्तिहेतोः सर्वतथागतसिद्धिवज्रं दत्वा, सर्वतथागतैरध्यिष्टः /तत्साधु आज्ञापयन्तु मे भग[वन्तः] सर्वतथागता अथैषां मनुष्याणां किङ्करोमी-"ति /

अथ सर्वतथागताः पुनः समाजमागम्येदमवोचन् ओं वज्रपाणि महा[मण्डले] प्रवेशय, सर्वान् दुष्टरौद्रान् निवारय, पापेभ्यः प्रमोक्षय, दुर्दृष्टिपर्यापन्नान् विशोधय नाशय विनाशय ह ह ह ह हूं //

अथ वज्रपाणिः सर्वतथागताज्ञावचनमुपश्रुत्य, अशेषानवशेषसत्वधातुपरित्राणसर्वहितसुखोत्तमसिद्धिनिमित्तं यावत् सर्वतथागतज्ञानाभिज्ञावाप्तिफलहेतोरिदं सर्वतथागतमहावज्रसमयभूतं त्रिलोकविजयन्नाम महामण्डलमभाषत् /

अथातः संप्रवक्ष्यामि महामण्डलमुत्तमं / वज्रधातुप्रतीकाशं सर्वसिद्धिकरं परं // 1 //

त्रिलोकविजयन्नाम समयं वज्रसंभवं / बुद्धबोधिप्रवर्तारं सर्वदुष्टविनाशनं // 2 //

तत्रानेन मन्त्रण सूत्रयेत् ओं वज्रसमय सूत्रं मातिक्रम //

चतुरस्त्रं चतुर्द्वारं चतुस्तोरणशोभितं / चतुःसूत्रसमायुक्तं पट्टमालासुशोभितं // 1 //

सर्वमण्डलकोणेषु द्वारनिर्यूहसन्धिषु / स्वचित्तं वज्ररत्नैस्तु सूत्रयेद्बाह्यमण्डलं // 2 //

तस्याभ्यन्तरतः प्राज्ञो वज्ररत्नविभूषितं / चतुरस्त्रं चतुर्द्वारमष्टस्तम्भसतोरणं // 3 //

वज्रस्तम्भाग्रसंस्थेषु पञ्चमण्डलमण्डितं / सूत्रयेन्मण्डलस्तत्र सूत्रं रङ्गैः प्रपूरयेत् // 4 //

तत्रायं रङ्गजापः ओं वज्रचित्र समय हूं //

ततो मध्यस्थितो भूत्वा वज्राचार्यः समाहितः / मनसोद्घाटयेच्चैव वज्रद्वारचतुष्टयं //

तत्रायं द्वारोद्घाटनमन्त्रः ओं वज्रोद्घाटय समय प्रवेशय हूं //

सौवर्णे राजते वापि मृण्मये वा सुचित्रिते / इष्टके चतुरस्त्रे तु बुद्धबिम्बन्निवेशयेत् //

तत्रेदं सर्वतथागताकर्षणहृदयं भवति / ओं वज्र ज्वालाग्निप्रदीप्ताकर्षय सर्वतथागतान् महावज्र समय हूं जः //

बुद्धस्य पुरतो वज्रं ज्वालामध्ये निवेशयेत् / ज्वालामध्ये लिखेद् रत्नं पद्मं विश्वायुधन्तथा //

अथासां वज्रसमयमुद्राणां निवेशहृदयानि भवन्ति /

हूं सत्ववज्र ज्वालामाल हूं फट् //

ओं रत्नवज्र ज्वालामाल हूं त्रः //

ओं धर्मवज्र ज्वालामाल हूं ह्रीः //

हूं कर्मवज्र ज्वालामाल हूं हः //

वज्रवेगेन निःक्रम्य बुद्धस्य पुरतस्तथा / संलिखेद्विधिवत्प्राज्ञो वज्रहुंकारमण्डलम् //

तत्रेदं वज्रवेगहृदयं भवति ओं वज्रवेगाक्रम हूं //

एवं वज्रधात्वादिषु सर्वमण्डलेषु सूत्रमाक्रम्य, सर्वतो गच्छेदिति //

अथास्य मुद्रा भवति /

मनोत्क्षिप्य रेखात्तु वज्रसूत्रमथापि वा / प्रविशन्ति क्रमत्वापि भ्रम्यते समयान्न सः // 1 //

तत्र मध्ये महासत्वं व[ज्रपा]णिं समालिखेत् / महानीलोत्पलरुचं वज्र-हूं-कारसंग्रहं // 2 //

ईषद् दंष्ट्राकरालास्यं सरोषहसिताननं / प्रत्यालीढस[माक्रान्तं ज्वा]लामालाकुलप्रभं // 3 //

वामपादसमाक्रान्तस्तेन कार्य महेश्वरः / दक्षिणं तु लिखेत्पादमुमास्तनभरस्थितं // 4 //

तत्रास्य हृद[यं भवति हूं //]

तस्य पार्श्वेषु सर्वेषु वज्रक्रोधान्निवेशयेत् / क्रुद्धदंष्ट्राकरालांस्तु ज्वालामालाकुलप्रभान् //

अथैषां हृदयानि भवन्ति / [हूं //

ओं वज्रसत्व]क्रोध हूं फट् //

ओं वज्रक्रोधाकर्षय हूं फट् //

ओं वज्रकाम क्रोध रागाय हूं फट् //

ओं वज्रतुष्टिक्रोध साधु साधु हूं फट् //

वज्रवेगे[न चा]क्रम्य द्वितीयं मण्डलोत्तमं / तत्रा वज्राभिषेकं तु लिखेत्क्रोधैः परिवृतं //

अथैषां हृदयानि भवन्ति / त्रः //

ओं वज्रभृकुटि क्रोध हर हर हुं फट् //

ओं वज्रसूर्य महाज्वालामाल क्रोध ज्वालय सर्व हुं फट् //

ओं वज्र क्रोध केतु देहि हुं फट् //

ओं वज्राट्टहास क्रोध हः हः हः हः हुं फट् //

वज्रवेगेन चाक्रम्य तृतीयं मण्डलात्तमं / वज्रसेनं समालेख्यं वृतं क्रोधैर्महात्मभिः //

अथैषां हृदयानि भवन्ति / ह्रीः //

ओं वज्रधर्म क्रोध विनाशय विशोधय हुं फट् //

ओं वज्रतीक्ष्ण क्रोध च्छिन्द च्छिन्द हुं फट् //

ओं वज्रहेतु क्रोध प्रविश प्रवेशय मण्डलं सर्वा हुं फट् //

ओं वज्रक्रोध भाष वद वद हुं फट् //

वज्रवेगेन चाक्रम्य चतुरथं मण्डलोत्तमं / वज्रावेशं समालेख्यं वज्रक्रोधगणैर्वृतं //

तत्रैषां हृदयानि भवन्ति / अः //

ओं वज्रकर्म //

ओं वज्रकवच क्रोध रक्ष रक्ष हुं फट् //

ओं वज्रयक्ष क्रोध खाद खाद हुं फट् //

हुं वज्रक्रोध मुष्टि साधय समय हुं फट् //

मण्डलस्य तु कोणेषु यथावदनुपूर्वता / वज्रधातुप्रयोगेण गुह्यपूजां समालिखेत् //

अथासां हृदयमुद्रा भवन्ति / ओं वज्रलास्ये रागय हूं फट् //

ओं वज्रमाले ऽभिषिञ्च हुं फट् //

ओं वज्रगीते गाद गाद हूं फट् //

ओं वज्रनृत्ये वशीकुरु हुं फट् //

वज्रवेगेन निःक्रम्य बाह्यमण्डलमुत्तमं / तत्र कोणेषु कर्तव्यं पूजादेवीचतुष्टयं //

अथासां हृदयमुद्रा भवन्ति / ओं वज्रधूपपूजास्फरणसमये हुं फट् //

ओं वज्रपुष्पपूजास्फरणसमये हुं फट् //

ओं वज्रालोकपूजास्फरणसमये हुं फट् //

ओं वज्रगन्धपूजास्फरणसमये हुं फट् //

अङ्कुशाद्यास्तु कर्तव्या द्वारमध्यचतुष्टये / बाह्यमण्डलसंस्थेषु बाह्यवज्रकुलानि तु //

अथासां हृदयमुद्रा भवन्ति / ओं वज्राङ्कुश महाक्रोधाकर्षय सर्वसमयान् हूं ज्जः //

ओं वज्रपाश महाक्रोध प्रवेशय सर्वसमयान् हुं हूं //

ओं वज्रस्फोट महाक्रोध बन्ध बन्ध सर्वसमयान् हुं वं //

ओं वज्रावेश महाक्रोधावेशय सर्वसमयान् हुं अः //

initiation into the mandala

अथात्र त्रिलोकविजयमहामण्डले प्रवेशविधिविस्तरो भवति /

तत्रादित एव तावत्स्वयं वज्रा [चार्यो व]ज्रकोधतेरिन्तिरिमुद्रां बध्वा प्रविशेत् / प्रविष्ट्वा सर्वतथागतां विज्ञापयेत् / "अहं भगवन्तस्तथागताः क्रोधवशं यास्यामि [निग्रहीतव्यां] निग्रहीष्यामि संग्रहीतव्यां संग्रहीष्यामि / तन्मे भगवन्त आज्ञापयन्तु, कथं प्रतिपद्यामी"ति कृत्वा, वज्रक्रोधतेरिन्तिरिमुद्रां स्व[हृदये य]थावत्स्थाप्य, वज्राङ्कुशादिभिः कर्माणि कृत्वा, पुनः सर्वसमयमुद्रां बन्धयेत्; ततः सर्वे सान्निध्यङ्कल्पयन्ति / ततो गुह्यपूजाचतुष्टयं कृत्वा तथा धूपादिभिश्च //

ततो वज्रशिष्यां प्रवेशयेदनेन विधिना स्वयं वज्राचार्यो वज्रकोधतिरिन्तिरिमुद्रां बध्वा, शिष्याय बन्धयेदनेन हृदयेन ओं गृण्ह वज्र समय हुं वं //

ततो नीलवस्त्रान्तरीयनीलोष्णीषावबन्धशिराः, नीलरक्तकेन मुखं बध्वा, प्रवेशयेदनेन मन्त्रेण ओं वज्र समयं प्रविशामि // ततः प्रवेश्य वज्रावेशसमयमुद्रयास्यावेशमुत्पादयेदनेन हृदयेन वज्रावेश अः //

ततः समाविशति / तेनावेशेन सर्वतथागतैरधिष्ठ्यते / सर्वं चातीतानागतप्रत्युत्पन्नन्निमिषादेव जानाति / अवध्यश्च भवति सर्वसत्वेभ्यः, अधृष्यः / हुंकारेण च सर्वसत्वनिग्रहानुग्रहसमर्थीभवति / वज्रपाणिश्चास्य नित्यं सर्वकार्याणि साधयतीति //

ततः शपथहृदयं दद्यात् / ततो यथावत् मुखबन्धं मुक्त्वा, महामण्डलं दर्शयेत् / मण्डले दृष्टमात्रे तु सर्वपापैर्विमुच्यते, सकलत्रिलोकविजयसमर्थो भवति / हुंकारेण च महादेवादिसर्वदेवाकर्षणप्रवेशनबन्धनवशीकरणपातनक्षमो भवति / सर्वतथागताधिष्ठानाच्च वज्रपाणिर्महाबोधिसत्वः सततानुद्धः स्वकीयाः सिद्धीर्ददाति //

ततो ऽस्य वज्राभिषेकेणाभिषिच्य, तीक्ष्णस्ववज्रचिन्हं यथावत् पाणिभ्यां दातव्यमनेन मन्त्रेण ओं वज्रपाणि वज्रकर्मकरो भव //

ततो वज्रनामाभिषेकन्दद्यादनेन मन्त्रेण / ओं वज्रक्रोध त्वामभिषिंचामि वज्रनामाभिषेकतः हेवज्र नाम // ततो यस्य यन्नाम कुर्यात् तस्य हेशब्दः प्रयोक्तव्य इति //

ततो ज्ञानान्युत्पादयेत् /

वज्रबिम्बं समालिख्य हृदि वालाकुलप्रभं / वज्रक्रोधसमापत्त्या सर्व आवेशयेज्जगत् // 1 //

वज्ररत्नं ललाटे तु समालिख्य तथैव च / वज्रक्रोधसमापत्त्या सर्वसत्वान् वशन्नयेत् // 2 //

वज्रपद्मं गले कृत्वा ज्वालामालाकुलप्रभं / वज्रक्रोधसमापत्त्या सर्वसत्वां स नाशयेत् // 3 //

सत्ववज्रं प्रतिष्ठाप्य मूर्ध्नि ज्वालाकुल[प्रभं] / वज्रक्रोधसमापत्त्या रक्षेत् सर्वमिदं जगत् // 4 //

अथासां ज्ञानमुद्राणां हृदयानि भवन्ति / हुं सत्व वज्र क्रोधाविश अः //

हो रत्न [वज्रक्रोध] त्रः //

हुं धर्म वज्रक्रोध फट् //

हं कर्म वज्रक्रोध रक्ष //

मुद्र

ततो देवाद्याकर्षणमुद्राज्ञानं शिक्षयेत् /

वज्राङ्कुशं समा[लिख्य ताले हूंक]रसंज्ञितं / अङ्गुलीं चालयेत्क्रुद्धो देवाकर्षणमुत्तमं // 1 //

वज्राङ्कुशं समालिख्य स्वपादतलमध्यतः / लिङ्गमाक्रम्य तेनैव दे[वा समाकर्षे]द् ध्रुवं // 2 //

वज्राङ्कुशं समालिख्य स्वमेढ्रे तु समुत्थिते / चालयंस्तु समाकर्षेदुमाद्याः सर्वयोषितः // 3 //

वज्राङ्कुशं समालिख्ये गुदे कुदे तथा / तेनाक्रमीत यं देवं तस्याकर्षणमुत्तमं // 4 //

तत्रैषां हृदयानि भवन्ति / ओं वज्र क्रोधाग्राकर्षय हुं फट् //

ओं वज्र क्रमाङ्कुशक्रोधाकर्षय हुं फट् //

ओं वज्र क्रोधदण्डाग्राकर्षय हुं फट् //

ओं वज्रक्रोधासनागच्छाकर्षयामि ते वज्र समयमनुस्मर हुं फट् //

ततश्चतुर्विधमुद्राज्ञानं शिक्षयेत् /

प्रत्यालीढं समास्थाय वज्रावेशप्रयोगतः / क्षणाद्धुंकारमात्रेण सर्वमावेशयेज्जगत् // 1 //

वज्रवाचा वदेत्सम्यग् चतुर्हुंकारसंयुतं / हृदयं सर्वबुद्धानां सर्वमप्यानयेद्ध्रुवं // 2 //

वज्रक्रोधसमापत्त्या वज्रक्रोधाग्रदृष्टितः / मारयेत जगत्सर्व वज्रहुंकारयोगतः // 3 //

मनसा वर्मयेत्कायमात्मनस्तु परस्य वा / महाकवचयोगेन रक्षेत्सर्वमिदं जगद् // इति // 4 //

अथैषां हृदयानि भवन्ति / ओं वज्र क्रोध कायावेशय हुं अः //

ओं वज्र विद्योत्तम महाक्रोधानय हो भगवन् वज्र हुं फट् //

ओं वज्र क्रोध दृष्टि हन दह पच विनाशय हुङ्कारेण पातय वज्र समय हुं फट् //

ओं मनोदृढ वज्र कवच क्रोध रक्ष हुं फट् //

ततः सर्वसत्वमुद्रणमुद्राज्ञानं शिक्षयेत् /

वज्रक्रोधसमापत्त्या यस्य यस्य परिष्वजेत् / वज्रहुंकारजापेन मुद्रितो भवते स तु // 1 //

संलपन्महता वाचा ट्टक्कि हूं फट् सकृद्वदेत् / यस्य क्रुद्धः स दीप्तेन वज्रेणाभिहतो भवेत् // 2 //

वज्रदृष्टया निरीक्षेद्वै वज्रक्रोधसमाधिना / यस्य यस्य तु सत्वस्य सो सो मरणमाप्नुयात् // 3 //

मनसा मारयामीति वज्रं हृदि तु भावयेत् / हुंकारेणैव सर्वेषां मुद्रयत्यभितः स्वयम् // इति // 4 //

यस्य सत्वस्य येनैव मनसा मुद्रयत्यसौ / आभिर्मुद्राभिरभ्यर्थ सर्वकर्माणि साधयेद् // इति // 5 //

अथैषां हृदयानि भवन्ति / टक्कि अः //

टक्कि ज्जः //

टक्कि हुं //

टक्कि हं //

एकैकया तु मुद्रया चतुर्षु कर्मसु चत्वारि मुद्राहृदयानि प्रयुञ्चेदिति //

ततो रहस्यक्रोधमुद्राज्ञानं शिक्षयेत् /

सर्वाङ्गतः परिष्वज्य हुंकारमस्य योजयेत् / द्वयेन्द्रियसमापत्त्या तस्य नश्येत जीवितं // 1 //

चुम्बंस्तु दशनैरोष्ठं गृह्य हुङ्कारयोगतः / द्वयेन्द्रियसमापत्त्या यस्य तस्य मुखं पतेत् // 2 //

हुं-कारं यः प्रयुञ्जीत सुखं ह्यनुभवन्नसौ / द्वयेन्द्रियसमापत्त्या यस्य सो दुःखमाप्नुयात् // 3 //

हुंकारं यः प्रयुञ्जीत सर्वाङ्गेन तु पीडयन् / द्वये[न्द्रियस]मापत्त्या तस्य सर्वतनुः पतेद् // इति // 4 //

अथात्र हृदयानि भवन्ति / हुं अः //

हुं ज्जः //

हुं होः //

हुं हं //

ततस्त्रिलोकविजयमहामण्डलसमयतत्वमुद्राज्ञानं शिक्षयेत् /

वज्रधातुप्रयोगेण बुद्धानुस्मृतिमान् भवेत् / यस्तु सत्वहितार्थाय स तु बुद्धत्वमाप्नुयात् // 1 //

महेश्वरमुमांश्चैव भूमौ लिख्य तथाक्रमेत् / यथालेख्यानुसारेण सत्वमुद्रां समाधयेत् // 2 //

अनया बद्धमात्रया त्रिलोकविजयी स तु / सिद्धविद्यो भवेत्क्षिप्रं बज्रहुंकारसन्निभः // 3 //

ज्वालामण्डलमध्यस्था यथा लेख्यानुसारतः / कायवाक्चित्तवज्रैस्तु सत्वमुद्रास्तु बन्धयेत् // 4 //

अथासां कर्म वक्ष्यामि वज्रकर्ममनुत्तरं / बुद्धानुस्मृतिसंसिद्धः शीघ्रं बुद्धत्वमाप्नुयाद् // इति // 5 //

त्रिलोकविजयां बध्वा त्रिलोकविजयी भवेत् / वज्रायुः सर्वगामी तु वज्रहुंकारसन्निभः // 6 //

वज्राभिषेका राज्यत्वं लोकैश्वर्यं सुधर्मिणी / कर्मवज्रमहाक्रोधा वज्रकर्मकरी भवेत् // 7 //

सत्वक्रोधा महादाढ्र्यं क्रोधाङ्कुश्या समाव्हान / रागयेत्क्रोधरागा तु साधुक्रोधा तु तुष्टिदा // 8 //

भृकुट्या नाशयेत्सर्वं क्रोधसूर्या सुतेजतां / केतुक्रोधा हरेदर्थान् अट्टहासा तु मारयेत् // 9 //

धर्मक्रोधा हरेद् धर्मान् च्छिन्देद्वै क्रोधवज्रया / हेतुक्रोधा हरेद् दुःखान् वाग्घरेत् क्रोधभाषया // 10 //

कर्मक्रोधा सुकर्माणि कुर्याद् रक्षां तु रक्षया / क्रोधयक्षा रिपुं खादेत् क्रोधमुष्टिस्तु सिद्धिदा // इति // 11 //

अथ वज्रसमयमुद्राबन्धी भवति /

वज्र[द्विकस]मुद्भूताः समयाग्र्यास्तु कीर्तिताः / तासां बन्धं प्रवक्ष्यामि क्रोधबन्धमनुत्तरं // 1 //

बाहुवज्रं समाधाय कनिष्ठाङ्कुशं बन्धिता / त्रिलोकविजया नाम तर्जनीद्वयतर्जनी // 2 //

तथैवाग्र्या मुखासंगान्मणिस्तु प्रविकुञ्चिता / समोत्थमध्यपद्मा तु मध्याग्र्यद्वयवर्जिते // ति // 3 //

तर्जनीद्वयवज्रा तु दक्षिणाङ्कुञ्चिताङ्कुशी / तयैव ग्रस्तहुंकारा साधुकारा तथव हि // 4 //

द्व्यग्रा संस्था भृकुट्यान्तु हृदि सूर्याग्रमण्डला / प्रसारितभुजा मूर्ध्नि तर्जनीमुखहासिनी // 5 //

तर्जनीनखसंसक्ता कोशमुष्टिस्तु दक्षिणा / सममध्याग्र्योत्थचक्रा तु मुखतः प्रविनिः सृताः // 6 //

तर्जनीमध्यवज्रा च ग्रीवा वेष्टिततर्जनी / अग्र्याधिकमहादंष्ट्रा ग्रस्ताग्रा वज्रा मुष्टिने- //ति // 7 //

वज्रलास्यादिसन्धीनां मुद्रास्ता एव हुंकृताः / धर्ममुद्रास्तु ता एव हुंकारैः सहिताः पुनः // 8 //

अथ वज्रसमयधर्ममुद्रा भवन्ति /

हुंकारो बुद्धवज्रिभ्यां त्रःकारो वज्रगर्भतः / ह्रीःकारो वज्रसेनस्य अःकारो वज्रविश्वन // इति //

[अतः परं धर्ममुद्राः समासत एवं भवन्ति /] हुं हेः त्रां तं, हि हीः देः हः, धिक् खीः हूं ग्रं, कृ वं दृ अः /

धर्ममुद्रा सुसिद्धास्तु वज्रक्रोधगणस्य हि // इति //

ततो वज्रसमयकर्ममुद्रा भवन्ति /

क्रोधमुष्टिं द्विधीकृत्य वज्रगर्वादियोगतः / कर्ममुद्राः समासेन महवज्रकुले स्मृताः // 1 //

यस्या [य]स्यास्तु मुद्राया यद्यत्पार्श्वं च कर्मणः / तत्र तत्र तु वै वेष्ट्य तां तां मुद्रां प्रयोजयेत् // 2 //

सर्वमुद्राविधिः //

अथात्र त्रिलोकविजयम[हामण्डल]साधारणमुद्राबन्धो भवति /

त्रिलोकविजया मुद्रा वज्राग्रसमयस्य तु / वज्रहुंकारमन्त्रस्य सर्वसिद्धिप्रदा क्षणात् // 1 //

कनिष्ठाग्र्याङ्कुशैर्बन्धेद्वज्रौ द्वावधरोत्तरौ / समयाङ्कुशमुद्रेयं सर्वमाकर्षयेत्क्षणात् // 2 //

सर्वविद्योत्तमानां तु त्रिलोकविजया स्मृता / [घातनी चैव] सर्वस्य सर्वकर्मकरी तथा // 3 //

द्विवज्राग्र्याङ्गुली सम्यक्सन्धाय सुसमाहितः / उत्थापयेन्मृतं सर्व वज्रोत्तिष्ठेति संज्ञिता // 4 //

द्विवज्राग्र्याङ्गुली सम्यक् वज्रबन्धेन बन्धयेत् / परिवर्त्य स्थापेन्मूर्ध्नि आयुरारोग्यवर्धनी // 5 //

वज्रबन्धं दृढीकृत्य समाङ्गुष्ठप्रवेशिता / तर्जनी दृढं संकोचा वलिता पादकर्षणी // 6 // //

त्रिलोकविजयां बध्वा यस्य बिम्बं समाक्रमेत् / वामपादेन तं सत्वं मासादर्धेन सिद्ध्यति // 7 //

वज्रमुद्राद्विकं बध्वा ताडयेत परस्परं / यस्य वै रात्वकायं तु समाविष्टस्तु ताडयेत् // 8 //

वज्रमुद्राद्विकं बध्वा कवचं स्वं परस्य वा / ग्रन्थनन् तर्जनीभ्यां तु रक्षा भवती शाश्वती // 9 //

वज्रबन्धं तले कृत्वाच्छादयेत्क्रुद्धमानसः / गाढमङ्गुष्ठ [वज्रेण] सिद्ध्येद्वज्रकुलं महत् // 10 //

सत्ववज्रं दृढीकृत्य द्व्यङ्गुष्ठग्रस्तमध्यमे / कनिष्ठा वज्रमुखतो तीक्ष्ण[आन्तु समय]ग्रहां // 11 //

वज्रमुद्राद्विकं बध्वा कुञ्चिताग्र्या निबन्धितं / वलितोद्वलितं कुर्वन् देवाकर्षणमुत्तमं // 12 //

वज्रबन्धं दृढीकृत्य कुञ्चिताग्र्या सुयन्त्रितं / सन्धायाङ्गुष्ठयुगलं पीड्य मध्ये ऽन्तरीक्षिणां // 13 //

कनिष्ठाङ्गुलिमध्यन्तु वज्रमुद्राद्विकस्य तु / पृष्ठतो ऽग्र्याङ्गुलिग्रस्तं परिवर्त्य खचारिणां // 14 //

वज्ररक्षां दृढीकृत्य वज्रबन्धं तु पीडयेत् / भौमानां समयो ह्येष सर्वकृद् दुरतिक्रमः // 15 //

वज्रमुद्राद्विकं बध्वा वामवज्राग्र्यपीडिता / अन्त्याङ्गुलिसमास्फोटा पाताताकर्षणी त्वियं // 16 //

ग्रन्थितं वज्रबन्धेन दृढन्तर्जनिकाद्वयं / मध्यमाङ्गुष्ठवज्रं तु दुष्टमुद्राप्रभञ्जकं // 17 //

वज्रमुद्राद्वयं बध्वा हृदि स्थाप्य समाहितः / पीडयेत्क्रोधमुष्टिं तु बाह्यमण्डलनाशनी // 18 //

वामवज्राङ्गुलिं गृह्य दक्षिणाकुञ्चिताग्र्यया / आस्फोटयं सुसंक्रुद्धः सुमेरुमपि पातयेत् // 19 //

वामवज्राङ्गुलिं गृह्य दक्षिणाग्र्याङ्कु शेन तु / आकर्षयत्सुसंक्रुद्धो ग्रहां सर्वान् वशन्नयेत् // 20 //

वज्रबन्धं समाधाय बाहुभ्यां सुदृढं हृदि / वज्राग्र्याभ्यां स्वकुक्षौ तु कुशंस्तु हृदयं हृदि // 21 //

अ[ग्र्याङ्गु]लिमुखाभ्यां तु पीडयेत्क्रुद्धमानसः / अङ्गुष्ठद्वयमूलन्तु ज्वराकर्षणमुत्तमं // 22 //

वज्राञ्जलिं दृढीकृत्य तर्जनीद्वय [कुञ्चिता] / सुसन्धितसमाङ्गुष्ठयन्त्रिता पापहारिणी // 23 //

अग्र्याङ्गु लिद्वयं बध्वा वज्रमुद्राद्विकान्तरात् / समुत्क्षिपेत् क्षणादूर्ध्वं पतितोत्क्षे[पकोत्तमं] // 24 //

वज्रबन्धं दृढीकृत्य मध्यमामुखसन्धिता / चतुरन्त्यमुखासङ्गात् पापं स्फोटयति क्षणात् // 25 //

अथ सर्वतथागतमण्डल[साधन]मुद्राबन्धो भवति /

सूत्रयन्मण्डलं पूर्व वज्रमुद्राग्रहेण तु / सूत्रं तु धारयेत्पश्चात् यथावत् सूत्रणं स्मृतं // 1 //

सुसन्धितसमाग्र्यन्तु वज्रमुद्राद्विकस्य तु / कृत्वा तु सर्वरङ्गाणि दीप्तदृष्ट्या समाव्हयेत् // 2 //

द्विवज्राग्र्याङ्गुली सम्यक् सन्धायोत्तानतो दृढं / विवारयेत संक्रुद्धो द्वारोद्धाटनमुत्तमम् // इति // 3 //

अथ सर्ववज्रकुलसर्वमुद्रासाधनं भवति / प्रत्यालीढकृतिङ्कृत्वा क्रोधवाचा प्रवर्तयन् / क्रोधदृष्ट्या तु संक्रुद्धः सर्वकर्माणि साधयेद् // इति //

सर्वतथागतवज्रसमयान्महाकल्पराजात् त्रिलोकविजयमहामण्डलविधिविस्तरः समाप्तः //

chapter 7 krodha-guhya-mudra-mandala-vidhi-vistara emanation of deities form samadhi

अथ भगवान् पुनरपि वज्रधारणीसमयसंभववज्राधिष्ठानं नाम समाधिं समापद्येमां स्वविद्योत्तमामभाषत् ओं सर्ववज्रिणि वज्रमाते आनय सर्व वज्रसत्येन हूं ज्जः //

अथास्यां भाषितमात्रायां वज्रपाणिहृदयात्स एव भगवान् वज्रापाणिः वज्रपाणिसदृशसर्वात्मभावाः समन्तज्वालागर्भा वज्रक्रोधसमयमुद्रा देवता भूत्वा विनिःसृत्य, सर्वलोकधातुषु सर्वतथागतार्थान् निष्पाद्य, भगवतो वज्रसत्वस्य गुह्यभार्यताप्रच्छादनार्थ कायवाक्चित्तवज्रमुद्राबिम्बानि भूत्वा, भगवतो वैरोचनस्य त्रिलोकविजयमहामण्डलयोगेन चन्द्रमण्डलाश्रिता भूत्वेदमुदानमुदानयिंसुः /

अहो हि सर्वबुद्धानां गुह्यज्ञानमनुत्तरं / यत् तथागतसौख्यार्थं भार्यात्वमपि कुर्वते // ति //

हीः //

delineation of the mandala

अथ वज्रापाणिः पुनरपि स्वकुलसमयमुद्रामण्डलवज्रसमयगुह्यन्नाममभाषत् /

अथातः संप्रवक्ष्यामि वज्रमण्डलमुत्तमं / वज्रधातुप्रतीकाशं क्रोधगुह्यमिति स्मृतं // 1 //

महामण्डलयोगेन सूत्रयेत्सर्वमण्डलं / पञ्चमण्डलसंस्थेषु गुह्यमुद्रान्निवेशयेत् // 2 //

वज्रमण्डलमध्ये ऽस्मिं बुद्धबिम्बन्निवेशयेत् / बुद्धस्य क्रोधसमयान् यथावत्तु लिखेद्बुधः // 3 //

वज्रवेगेन निःक्रम्य वज्रपाणेस्तु मण्डलं / तत्र मध्ये लिखेत् तिर्यक् शूलवज्रं प्रतिष्ठितं // 4 //

ज्वालामध्ये लिखेत् तस्य यथावदनुपूर्वशः / वज्रं वज्राङ्कुशं चैव वाणं तुष्टिस्तथैव च // 5 //

वज्र[वेगे]न चाक्रम्य द्वितीयं मण्डलोत्तमं / वज्ररत्नं लिखेत् चैव चक्रमध्ये प्रतिष्ठितं // 6 //

वज्रभृकुटिमध्ये [वज्रसूर्यं त]था ध्वजं / दन्तपंक्ती तथा वज्रैतस्य पार्श्वेषु संलिखेत् // 7 //

वज्रवेगेन चाक्रम्य तृतीयं मण्ड[लोत्तमं / वज्रपद्मं लिखेद् दिव्यं पद्ममध्ये प्रति]ष्ठितं // 8 //

ज्वालामध्ये लिखेत्पद्मं खङ्गं चक्रन्तथैव च / वज्रजिव्हां यथावत् तु तस्याः पार्श्वेषु स[र्वेषु // 9 //

वज्रवेगेन चाक्रम्य चतुर्थ मण्डलोत्त]मं / तिर्यग्वज्रे लिखेद् वज्रं वृतं वज्रैर्महाप्रभैः // 10 //

तस्याः पार्श्वेषु सर्वेषु सर्वज्वालाकुलप्रभाः / [विश्ववज्रं सुकवचं वज्रदंष्ट्रमुष्टिं लिखेत् //]11 //

कोणेषु बाह्यसंस्थेषु यथावत्तु लिखेन्नयं / अतः परं प्रवक्ष्यामि मुद्राविद्याः समासतः // 12 //

[सिः //

ओं वज्रक्रोधसमये सिः //

ओं वज्र]रोषाङ्कुश्यानय सर्व सिः //

ओं वज्ररोषे कामवज्रिणि वशं मे आनय हि सिः //

ओं वज्रतुष्टि[क्रोधे तोष्य सर्वाणि सिः //

वज्रसिंकारम]ण्डले //]

जिः //

ओं वज्रभृकुटिक्रोधे हर सर्वार्थ जिः //

ओं वज्रज्वालामालप्रभे महाक्रोधा[ग्नि ज्वालय सर्व विरोषे जिः //

ओं वज्र]ध्वजाग्रकेयूरमहाक्रोधे देहि मे सर्वं जिः //

ओं वज्राट्टहासनि हस हसाट्टाट्टहासेन [मारय जिः //

वज्रजिंकारमण्डले //]

दिः //

ओं वज्रशुद्धक्रोधे हन मारय दुष्टान् दिः //

ओं वज्रतीक्ष्णक्रोधेच्छिन्द वज्रकोशेन सर्वान् दिः //

ओं [वज्रहेतुमहा क्रोधे प्रवेश चक्र प्रवेशय सर्वान्] दिः //

ओं वज्रजिव्हे महाक्रोधभाषे वाचं मुञ्च दिः //

वज्रदिंकारमण्डले //]

न्हिः //

ओं सर्व मुखे [कर्मवज्रिणि महाक्रोधे कुरु सर्वान् न्हिः //

ओं वज्र] कवचक्रोधे रक्ष मां न्हिः //

ओं वज्रचण्डक्रोधे महायक्षिणि वज्रदंष्ट्राकरालभीषणि भीषा[पय न्हिः //

ओं वज्रक्रोधे मुष्टिबन्ध न्हिः //

वज्रन्हिं]कारमण्डले //]

ततः कोणमण्डलेषु वज्रनृत्यगुह्यपूजाविद्याहृदयानि भवन्ति / वज्र हूं र्ख्ने //

वज्र हूं घूं //

वज्र हूं र्ते //

वज्र हूं स्तें //

बहिःकोणेषु तूर्यपूजाहृदयानि भवन्ति / वज्र ती ते //

वज्र टं टः //

वज्र धा धू //

वज्र धौ धः //

द्वारपालानां पूजाहृदयानि भवन्ति / वज्र जः ज्जः //

वज्र हूं हूं //

वज्र वं वं //

वज्र अः अः //

initiation into the mandala

अथास्मिन् वज्रकुलगुह्यमण्डले प्रवेशविधिविस्तरो भवति / तत्रादित एव तावत् त्रिलोकविजयमहामण्डलप्रवेशविधिना प्रविश्य, वज्रगुह्यवज्रकुलसमयमुद्राप्रतिमुद्रोपमुद्राज्ञानमुद्राभिः वज्रधरपूजार्थ नृत्योपहारः कर्तव्य इति /

तत्रेदं नृत्यप्रतिनृत्योपनृत्यज्ञाननृत्योपहारमुद्राज्ञानं भवति / [तत्रादित एव वज्रधातुसंग्रहहृदयं वज्रगीतेन गायन् सर्वतथागतानां स्तोत्रोपहारङ्कृत्वा, वज्राचार्येण सत्ववज्रिमुद्रा स्फोटयितव्या, ततो यथा प्र[विष्ट]मुद्राभिः समाविशन्ति /

वज्रनृत्यप्रयोगेण वज्रक्रोधाङ्गुलिद्वयं / वज्रहुंकारमुद्रां तु हृदये तु निबन्धयेत् // 1 //

ततस्तु नृत्यविधि[ना वज्र]क्रोधाङ्कुशेन तु / आकर्षयत् सर्वबुद्धान् वज्रवाणां परिक्षिपेत् // 2 //

वज्रवाणपरिक्षेपाद् वज्रतुष्ट्या तु साधयेत् / मुक्त्वा मुद्रां यथा[विधि]तालया चैव बन्धयेत् // 3 //

अनेन पूजाविधिना वज्रपाणिन्तु तोषयेत् / तुष्टः सत् सर्वकार्याणि साधयेद् रुचितः क्षणात् // 4 //

तत्रैतानि नृत्यहृदयानि भवन्ति / सिद्ध्य वज्र //

आनय वज्र //

रागय वज्र //

साधु वज्र //

ततः प्रतिनृत्योपहारः कर्तव्यः /

तथैव नृत्यन् वामां तु गृह्य दक्षिणमुष्टिना / परिवर्त्य ललाटो तु निवेश्याग्र्या मुखेन तु // 1 //

तथैव नृत्यं सूर्यान्तु परिवर्त समाव्हयेत् / वज्रकेतुं समुत्क्षिप्य हसेद् वज्राट्टहासया // 2 //

अनेन पूजाविधिना राजादीन् सर्वमानुषान् / वशित्वाच्च सुतेजस्त्वाद् दानाच्चाशाच्च तोषयेत् // 3 //

तत्रैतानि प्रतिमुद्राहृदयानि भवन्ति / आहि वज्र //

ज्वालय वज्र //

देहि वज्र //

हस हस वज्र //

तथैव नृत्यं मुक्त्वा तु समकुड्मलसन्धिते / अग्राङ्गुली हृदि स्थाप्य नमेदाशयकंपितैः // 1 //

तथैव नृत्यं छिन्देद् वै वज्रकोशेन नाशकान् / अलातचक्रभ्रमया भ्रामयेच्चक्रमण्डलन् // 2 //

गायन् वै वज्रवाचा तु पूजयेद् वज्रपाणिनं / अनेन पूजाविधिना सर्व भवति शाश्वतं // 3 //

तत्रैतान्युपमुद्राहृदयानि भवन्ति //

कामय वज्र //

च्छिन्दय वज्र //

भ्रामय वज्र //

ब्रूहि वज्र //

वज्रक्रोधाङ्गुली सम्यगुत्तानमुखसन्धिता / परिवर्त्य तथोष्णीषे तर्जनी मुखसंस्थिता // 1 //

वज्रकर्मप्रयोगेण सर्वकार्याग्रमण्डलं / दर्शयन् नृत्यविधिना हृदये प्रतिशामयेत् // 2 //

तथैव नृत्यविधिना वज्ररक्षां तु बन्धयेत् / वज्रदंष्ट्रे समाधाय वज्रमुष्ट्या तु पीडयेत् // 3 //

अनेन पूजाविधिना सर्वकर्मक्षमो भवेत् / कृत्वा चतुर्विधां पूजां मुद्रां मुञ्चेद् यथाविधिर् // इति // 4 //

तत्रैतानि हृदयानि भवन्ति / नृत्य वज्र //

रक्ष वज्र //

खाद वज्र //

बन्ध वज्र //

ततः क्रोधगुह्यमुद्राज्ञानं शिक्षयेत् /

वज्रं गृह्य तु पाणिभ्यां स्फोटयेत् क्रुद्धमानसः / यस्य नाम्ना तु हृदयं स्फुटेत् तस्य जनस्य हि // 1 //

अधोष्ठं दशनैर्गृह्य यस्य नाम्ना तु पीडयेत् / शिरस्तस्य स्फुटेच्छीघ्रं यद्याज्ञां समतिक्रमेत् // 2 //

वज्रक्रोधमहादृष्ट्या चक्षुषी तु निमीलयेत् / निरीक्षत् यस्य नाम्ना तु स्फुटेत् एतस्य चाक्षिणी // 3 //

वज्रक्रोधसमापत्त्या हृदयं स्वयमात्मना / पीडयेद् वज्रबन्धेन तस्य चित्तं परिस्फुटेद् // इति // 4 //

तत्रैतानि हृदयानि भवन्ति / हुं वज्रस्फोट ठः //

हुं मुखवज्र ठः //

हुं वज्रनेत्र ठः //

हुं मनोवज्र ठः //

ततो महावज्रकुलगुह्यमुद्राज्ञानं शिक्षयेत् / तत्र प्रथमं तावन्महामुद्राबन्धो भवति /

कनिष्ठाङ्कुशबन्धेन वज्रक्रोधान्निवेशयेत् / वामत्रिशूलपृष्ठे तु त्रिलोकविजया स्मृता // 1 //

सुप्रसारितवामाग्र्या तथैवोत्तानवारिजा / परिवर्त्य तथा चैव वामवज्रा प्रतिष्ठिते // ति // 2 //

वज्रबन्धन्तले कृत्वा च्छादयेत्क्रुद्धमानसः / गाढमङ्गुष्ठवज्रेण क्रोधतेरिन्तिरिः स्मृता // 3 //

कुञ्चिताग्र्याङ्कुशी चैव तर्जनीमुखवज्रिणी / साधुकारा तथाग्र्याभ्यां अग्रवज्रा मुखस्थिता // 4 //

हृदये सूर्यसंदर्शा समाग्र्या मूर्ध्नि संस्थिता / परिवर्त्य स्मितस्था तु समाग्र्या कुड्मला तथा // 5 //

खङ्गमुष्टिग्रहद्वाभ्यामग्र्या चक्रा निबन्धनः / समाग्र्या मुखतोद्धान्ता तर्जनी संप्रसारिता // 6 //

तर्जनी गले बन्धा तु ताभ्यां दंष्ट्रा मुखस्थिता / गाढमुष्टिनिबन्धाश्च महामुद्राः प्रकल्पिता // 7 // इति //

अथ वज्रकुलगुह्यसमयमुद्राबन्धो भवति /

गुह्यमुष्टिसमुद्भूताः समयाग्र्यः प्रकीर्तिताः / तासां बन्धं प्रवक्ष्यामि वज्र[बन्ध]मनुत्तरं // 1 //

हृदिस्था वलिता पार्श्वे वाणाकर्षा तु वामतः / हृदयाच्च समुद्धान्ता भृकुटिः परिवर्त्य वै // 2 //

सूर्यमण्डलसंदर्शा मूर्ध्नि बाहुप्रसारिता / परिवर्त्य स्मितस्था तु मुखमध्यसुसंस्थिता // 3 //

कोशग्रप्रहराकारा चक्रनिक्षेपदर्शिका / मुखतश्च समुद्धान्ता मूर्ध्नि कायाग्रमण्डला // 4 //

स्कन्धयोर्हृदि पार्श्वाभ्यां वज्ररक्षाकृतिस्तथा / दंष्ट्रासंस्थानयोगाच्च गाढमुष्टिनिपीडिता // 5 //

बाह्यमण्डलमुद्रास्तु बन्धेच्चिह्नानुसारतः / समया वज्रबन्धेन तथास्या वज्रमुष्टिना // 6 // इति //

अथ वज्रकुलगुह्यधर्ममुद्रा भवन्ति / फ ट्टः / श ट्टः / म ट्टः / स ट्टः / र ट्टः / त ट्टः / घृ ट्टः / ह ट्टः / प ट्टः / त्र ट्टः / क ट्टः / ध ट्टः / कु ट्टः / रि ट्टः / ख ट्टः / व ट्टः //

अथ वज्रकुलगुह्यकर्ममुद्राबन्धो भवति / कर्ममुद्राः समासेन वज्रमुष्टिर्द्विधीकृता / यथा स्थानेषु संस्थेया क्रोधदुष्ट्या सुरोषवान् // इति //

सर्वतथागतवज्रसमयान्महाकल्पराजात् क्रोधगुह्यमुद्रामण्डलविधिविस्तरः परिसमाप्तः //

छप्तेर् 8 वज्र-कुल-धर्म-ज्नन-समय-मन्दल-विधि-विस्तर

emanation of deities from samadhi

अथ भगवान् पुनरपि सर्वतथागतवज्रकुलसमाधिज्ञानमुद्राधिष्ठानं नाम समाधिं समापद्येमं सविद्योत्तममभाषत् ओं सर्वतथागतसूक्ष्मवज्रक्रोध हूं फट् /

अथ वज्रपाणिर्महाक्रोधराजा त्रिलोकविजयसूक्ष्मवज्रविद्योत्तममभाषत् ओं सूक्ष्मवज्रक्रोधाक्रम हूं फट् //

अथ वज्रगर्भो [बोधि]सत्व इमं त्रिलोकविजयसूक्ष्मवज्रविद्योत्तमभाषत् ओं सूक्ष्मवज्ररत्नाक्रम हूं फट् //

अथ वज्रनेत्रो बोधिसत्व इमं त्रिलोकविजयसूक्ष्मवज्रविद्योत्तममभाषत् ओं सूक्ष्मवज्रपद्मक्रोधाक्रम हूं फट् //

अथ वज्रविश्वो बोधिसत्व इमं त्रिलोकविजयसूक्ष्मवज्रविद्योत्तममभाषत् ओं सूक्ष्मवज्रकर्मक्रोधाक्रम हूं फट् //

अथ वज्रपाणिर्महाबोधिसत्वः पुनरपि स्वकुलमुत्साद्य, वज्रधातुमहामण्डलयोगेन सन्निवेश्यैतानि स्वहृदयान्यभाषत् / ओं वज्रसत्व सूक्ष्मज्ञान क्रोध हूं फट् // 1 //ओं सूक्ष्मवज्राङ्कुशाकर्षय महाक्रोध हूं फट् // 2 //ओं वज्रसूक्ष्मरागक्रोधानुरागय तीव्रं हूं फट् // 3 //ओं सूक्ष्मवज्रतुष्टिक्रोध हूं फट् // 4 //ओं सूक्ष्मवज्रभृकुटिक्रोध हर हर हूं फट् // 5 //ओं वज्रसूक्ष्मज्वालामण्डलक्रोध सूर्य ज्वालय हूं फट् // 6 //ओं सूक्ष्मवज्रध्वजाग्रक्रोध सर्वार्थान् मे प्रयच्छ शीघ्रं हूं फट् // 7 //ओं वज्रसूक्ष्महासक्रोध ह ह ह ह हूं फट् // 8 //ओं सूक्ष्मवज्रधर्मक्रोध शोधय हूं फट् // 9 //ओं सूक्ष्मवज्रच्छेदक्रोध छिन्द भिन्द हुं फट् // 10 //ओं सूक्ष्मवज्रक्रोध महाचक्र छिन्द पातय शिरः प्रविश्य हृदयं भिन्द हूं फट् // 11 //ओं सूक्ष्मवज्रहूंकारक्रोध हन पातय वाङ्मात्रेण हूं फट् // 12 //ओं सूक्ष्मवज्रकर्मक्रोध सर्वकर्मकरो भव सर्वकार्याणि साधय हूं फट् // 13 //ओं वज्रसूक्ष्मकवचक्रोध रक्ष रक्ष हूं फट् // 14 //ओं सूक्ष्मवज्रयक्षक्रोध हन भक्षय सर्वदुष्टान् चिन्तितमात्रेण वज्रदंष्ट्र हूं फट् // 15 //ओं सूक्ष्मवज्रमुष्टिक्रोध बन्ध बन्ध हूं फट् // 16 // delineation of the mandala

अथ वज्रापाणिः पुनरपीदं वज्रकुलसूक्ष्मज्ञानसमयमण्डलमुदाजहार /

अथातः संप्रवक्ष्यामि धर्ममण्डलमुत्तमं / वज्रधातुप्रतीकाशं क्रोधज्ञानमिति स्मृतं // 1 //

महामण्डलयोगेन सूत्रयेत्सर्वमण्डलं / तस्य मध्ये लिखेद्बुद्धं ज्ञानवज्रस्य मध्यगं // 2 //

बुद्धस्य सर्वपार्श्वेषु मुद्रास्ता एव संलिखेत् / वज्रवेगेन निष्क्रम्य मण्डलानां चतुष्टये // 3 //

त्रिलोकविजयाभ्यांस्तु यथावत् तु निवेशयेत् / तेषां तु सर्वपार्श्वेभ्यो वज्रक्रोधान् यथाविधिर् // 4 // इति //

initiation into the mandala

अथात्र वज्रकुलसूक्ष्मज्ञानमण्डले यथावद् विधिविस्तरो भवति / तत्रादित एव तावत्प्रवेश्य ब्रूयाद्"अद्य त्वं सर्वतथागतवज्रक्रोधतायां वज्रपाणिना भगवताभिषि[क्तं] तत्साधु; प्रतिपद्यस्वाशेषानवशेषसत्वधातुपरित्राण यावत् सर्वतथागतहितसुखोत्तमसिद्ध्यवाप्तिफलहेतोर्वज्रक्रोधे[ण सर्व]सत्वानपि संशोधननिमित्तं मारयितुं; कः पुनर्वादः सर्वदुष्टान्" इति / इदमुक्त्वा मुखबन्धं मुञ्चेत् / ततः सर्वमण्डलं दर्शयित्वा, [वज्रं] यथावत्पाणौ दत्वा, ततो वज्रक्रोधसूक्ष्मज्ञानानि शिक्षयेत् /

सूक्ष्मवज्रं दृढीकृत्य वज्रहुंकारयोगतः / हुंकारं योजयेद्यस्य तस्य नश्यति जीवितं // 1 //

सूक्ष्मवज्रं दृढीकृत्य स्फरयेत यथाविधि / यावत्तः स्फरते तं तु तावन्नश्यत्यसौ रिपुः // 2 //

सूक्ष्मवज्रविधिं योज्य वज्रहुंकारयोगतः / स्फरयेत् क्रोधवान् यावत् तावत् सत्वान् विनाशयेत् // 3 //

तथैव संहरेत् तत्तु यावदिच्छेत योगवान् / सर्वं वापि हि निःशेष पुनरदयात् तु जीवितम् // 4 // // इति //

तत्रैषां हृदयानि भवन्ति / हुं //

हुंनाशय वज्र //

हुं विनाशय सर्वान् वज्र //

ओं सूक्ष्मवज्र प्रत्यानय शीघ्रं हुं //

वज्रं तु यस्य सत्वस्य सहभूत्वा महादृढं / मैत्रीस्फरणतायोगात्स्फरन् वैरेण नाशयेत् // 1 //

वैरस्फरणतायोगात् कारुण्यं यस्य कस्यचित् / तेन कारुण्ययोगेन सर्वदुष्टान् स नाशयेत् // 2 //

अधर्मा यदि वा धर्माः प्रकृत्या तु प्रभास्वराः / एवं तु भावयं सत्वां हुंकारेण तु नाशयेत् // 3 //

दुर्दुरूटा हि ये सत्वा बुद्धबोधावभाजनाः / तेषां तु संशोधनार्थाय हुंकारेण तु नाशयेत् // 4 //

तत्रैषां हृदयानि भवन्ति / वैर वज्रक्रोध हुं फट् //

करुणा वज्रक्रोध हुं फट् //

हुं विशुद्ध वज्रक्रोध हूं फट् //

हुं विशोधन वज्रक्रोध हूं फट् //

वज्रबिम्बं समालिख्य मनसा यस्य कस्यचित् / पातयेद् गृहमध्ये तु तस्य तन्नश्यते कुलं // 1 //

तथैव सूक्ष्मविधानेन हृद्वज्रं परिभावयेत् / बोधिसत्वमहाबिम्बं पातयेन्नाशयेत्कुलं // 2 //

वज्रपाणिमहाबिम्बं भावयन् यत्र पातयेत् / तद् राज्यं विविधैर्दोषै राज्ञैव सह नश्यति // 3 //

सर्वाकारवरोपेतं बुद्धबिम्बं तु भावयन् / पातयेद्यत्र राज्ये तु तद् राज्यन्नश्यते ध्रुवम् // 4 // इति //

तत्रैतानि हृदयानि भवन्ति / हुं वज्र प्रपात //

हूं बोधिसत्त्व प्रपात //

हूं वज्रधर प्रपात //

हूं बुद्ध प्रपात //

सूक्ष्मवज्रप्रयोगेण चन्द्रबिम्बं स्वमात्मना / भावयं स्वयमात्मानं पतेद्यत्र पतेत्स तु // 1 //

चन्द्रे वज्रं स्वमात्मानं भावयं स्वयमात्मना / पतेद्यत्र सुसंक्रुद्धस्तत्कुलं पतति क्षणात् // 2 //

वज्रपाणिं स्वमात्मानं भावयं स्वयमात्मना / पतेद्यत्र हि तं देशमचिराद् विप्रणंक्ष्यते // 3 //

बुद्धबिम्बं स्वमात्मानं भावयं स्वयमात्मना / पतेद्यत्र तु तद् राज्यमचिरेणैब नश्यति // 4 // इति //

तत्रैतानि हृदयानि भवन्ति / बोध्यग्र प्रपातय हुं //

सर्ववज्र प्रपातय हुं //

वज्रसत्व प्रपातय हुं //

बुद्ध प्रपातय हुं //

मुद्र

ततो वज्रकुलधर्मरहस्यमुद्राज्ञानं शिक्षयेत् /

वज्र[क्रोधसमाप]त्या स्वकायं परिवेष्टयेत् / यस्य नाम्ना स म्रियते संवेष्टन् वज्रहुंकृतः // 1 //

सूक्ष्मवज्रं समापद्य सूक्ष्मनासिकया सकृतः / श्वासहुंकारयोगेन त्रयोक्यमपि पातयेत् // 2 //

सूक्ष्मवज्रविधिं योज्य क्रुद्धः सन् वज्रदृष्टितः / निरीक्षन्नन्धतां याति मरणं वातिगच्छति // 3 //

भगेन तु प्रविष्ट्या वै मनसा यस्य कस्यचित् / हृदयाकर्षणाद्याति वशं स्वं वा यमस्य वे- // इति 4 //

तत्रैषां हृदयानि भवन्ति / हुं वज्र वलित क्रोध मारय हुं फट् //

ओं वज्र सूक्ष्म श्वास विषं पातय हुं फट् //

ओं वज्र दृष्टि विषं नाशय हुं फट् //

हुं हृदयाकर्षण क्रोध प्रविश कायं हृदयं च्छिन्द भिन्द कड्ढाकड्ढ फट् //

ततो वज्रकुलधर्ममुद्राज्ञानं शिक्षयेत् / तत्र तावन्महामुद्राबन्धो भवति / वज्रज्ञानप्रयोगेण ज्वालामालाकुलप्रभान् / वज्रक्रोधान् स्वमात्मानं भावयं सिद्ध्यति क्षणाद् // इति //

ततो वज्रकुलधर्मसमयमुद्राज्ञानं शिक्षयेत् / समाधिज्ञानसमया द्वि-हुं-कारसमन्धिता / यथा स्थानेषु संस्थेया सर्वसिद्धिप्रदावरम् // इति //

ततो वज्रकुलधर्मसमयधर्ममुद्राज्ञानं शिक्षयेत् / फट् सट् मट् सट् रट् तट् धृट् हट् पट् त्रट् घट् भट् कृट् रिट् खट् वट्

इति च प्रोक्ता धर्ममुद्राः समासत इति //

ततो वज्रकुलधर्मसमयकर्ममुद्राज्ञानं शिक्षयेत् / धर्ममुष्टिं द्विधीकृत्य यथा स्थानप्रयोगतः कर्ममुद्राः समासेन सिद्धिं यान्ति यथाविधिर् // इति //

सर्वतथागतवज्रसमयान्महाकल्पराजाद् वज्रकुलधर्मज्ञानसमयमण्डलविधिविस्तरः समाप्तः //

छप्तेर् 9 वज्र-कुल-कर्म-मन्दल-विधि-विस्तर

emanation of deities from samadhi

अथ भगवान् सर्वतथागतवज्रकर्मसमयसंभवाधिष्ठानन्नाम समाधिं समापद्येमां स्वविद्योत्तमामभाषत् ओं सर्वतथागत कर्मेश्वरि हूं //

अथ वज्रपाणिर्महाबोधिसत्वः पुनरपीमां स्वविद्योत्तमामभाषत् ओं सर्वतथागतधर्मधातुस्फरणमहापूजाकर्मविधिविस्तरसमये त्रिलोकविजयंकरि सर्वदुष्टान् दामय वज्रिणि हूं //

अथ वज्रगर्भो बोधिसत्वः पुनरपीमां स्वविद्योत्तमामभाषत् ओं सर्वतथागताकाशधातुसमवसरणमहापूजाकर्मविधिविस्तरसमये हूं //

अथ वज्रनेत्रो बोधिसत्वः पुनरपीमां स्वविद्योत्तमामभाषत् ओं सर्वतथागतधर्मधातुस्फरणमहापूजाकर्मविधिविस्तरसमये हूं //

अथ वज्रविश्वो बोधिसत्वः पुनरपीमां स्वविद्योत्तमामभाषत् ओं सर्वतथागतसर्वलोकधातुविविधमहापूजाकर्मविधिविस्तरसमये हूं //

अथ वज्रपाणिर्महाबोधिसत्वः पुनरपि स्वकुलपूजाविधिविस्तरदेवताः स्वहृदयादुत्पाद्य, सर्वलोकधातुषु सर्वतथागताकर्षणवशीकरणानुरागणसर्वकर्मसिद्धिकार्यकरणतासन्नियोजनादीनि सर्वतथागतर्द्धिविकुर्वितानि कृत्वा, पुनरपि भगवतो वैरोचनस्य वज्रधातुमहामण्डलयोगेन चण्द्रमण्डलान्याश्रित्यावस्थिता इति /

delineation of the mandala

अथ वज्रपाणिर्महाबोधिसत्व इदं वज्रकर्मसमयविधिविस्तरकर्ममण्डलमभाषत् /

अथातः संप्रवक्ष्यामि कर्ममण्डलमुत्तमं / वज्रधातुप्रतीकाशं कर्मवज्रमिति स्मृतं // 1 //

महामण्डलयोगेन सूत्रयेत्सर्वमण्डलं / मध्यमण्डलसंस्थेषु बुद्धबिम्बन् निवेशयेत् // 2 //

बुद्धस्य सर्वपार्श्वेषु समयाग्र्यो निवेशयेत् / वज्रवेगैः समाक्रम्य मण्डलानां चतुष्टये // 3 //

चत्वारो वज्रनाथाद्या यथावत्तु निवेशयेत् / तेषां सर्वेषु पार्श्वेषु महासत्व्यो निवेशयेद् // 4 // इति //

अथात्र कर्ममण्डले वज्रकर्ममुद्रा भवन्ति / ओं वज्रसत्वसिद्धिज्ञानसमये हुं ज्जः // 1 // ओं वज्राकर्षणकर्मज्ञानसमये हुं ज्जः // 2 //ओं वज्ररतिरागकर्मज्ञानसमये हुं ज्जः // 3 //ओं वज्रसाधुकर्मज्ञानसमये हुं ज्जः // 4 // //ओं वज्रभृकुटी वशीकुरु हुं // 5 //ओं वज्रसूर्यमण्डले वशीकुरु हुं // 6 //ओं वज्रध्वजाग्रकेयूरे वशीकुरु हुं // 7 //ओं वज्राट्टहासे वशीकुरु हुं // 8 //ओं वज्रपद्मरागे रागय हुं // 9 //ओं वज्रतीक्ष्णरागे रागय हुं // 10 //ओं वज्रमण्डलरागे रागय हुं // 11 //ओं वज्रवाग्रागे रागय हुं // 12 //ओं वज्रकर्मसमये पूजय हुं // 13 //ओं वज्रकवचबन्धे रक्षय हुं // 14 //ओं वज्रयक्षिणि मारय वज्रदंष्ट्राया भिन्द हृदयममुकस्य हुं फट् // 15 //ओं वज्रकर्ममुष्टि सिद्ध्य सिद्ध्य हुं फट् // 16 // रितुअल्

अथात्र कर्ममण्डले यथावद् विधिविस्तरं कृत्वा, वज्रकुलकर्मज्ञानान्युत्पादयेत् /

तत्रादित एव शान्तिकर्मादिज्ञानं शिक्षयेत् / समिद्भिर्मधुरैरग्निं प्रज्वाल्य सुसमाहितः / वज्रक्रोधसमापत्त्या तिलां हुत्वा अघान्दहेत् // 1 //

तैरेव तु समिद्भिस्तु प्रज्वाल्य तु हुताशनं / तण्डुलांस्तु जुह्वन् नित्यं गृहपुष्टिर्भवेद् ध्रुवं // 2 //

समिद्भिर्मधुरैश्चापि अग्निं प्रज्वाल्य पण्डितः / दूर्वाप्रवालां सघृतान् जुह्वन्नायुः प्रवर्धते // 3 //

तैरेव तु समिद्भिस्तु प्रज्वाल्य तु हुताशनं / कुशप्रवालांस्तैलेन जुह्वन् रक्षा तु शाश्वतम् // इति // 4 //

अथैषां हृदयमन्त्राणि भवन्ति / ओं सर्वपापदहनवज्राय स्वाहा //

ओं वज्रपुष्टये स्वाहा //

ओं वजायुषे स्वाहा //

ओं अप्रतिहतवज्राय स्वाहा //

समिद्भिः कडकैः पूर्व वज्रक्रोधसमाधिना / अग्निं [प्रज्वाल्य] कुञ्जैस्तु कण्टकैरभिकर्षितः // 1 //

तैरेव तु समिद्भिस्तु प्रज्वाल्याग्निं सुरोषवान् / रक्तपुष्पफलान् चापि जुह्वन् रागयते जगत् // 2 //

समि[द्भिरपि]कुपितो ह्यग्निं प्रज्वाल्य योगवान् / अयोरजांसि हि जुह्वन् वज्रबन्धो भविष्यति // 3 //

तैरेव तु समिद्भिस्तु प्रज्वाल्याग्निं समाहितः / जुहेत् तिक्तफलं क्रोधान् मारिमुत्पादयेत्क्षणात् // 4 //

तत्रैषां हृदयानि भवन्ति / हुं वज्राकर्षय स्वाहा //

हुं वज्र रागय स्वाहा //

हुं वज्र बन्धाय स्वाहा //

हुं वज्र मारणाय स्वाहा //

समिद्भिरमलैः प्रज्वाल्य ऋद्धो हुतभुजं बुधः / होममाम्लफलैः पुष्पैर्वशीकरणमुत्तमं // 1 //

तैरेव तु समिद्भिस्तु प्रज्वाल्याग्निं समाहितः / जुहुयात्कामफलां कुद्धः कामरूपित्वमाप्नुयात् // 2 //

समिद्भिस्तादृशैरेव प्रज्वाल्य तु हुताशनं / काण्डान्यदृश्यपुष्पाणां जुह्वं रुच्या न दृश्यते // 3 //

तैरेव तु समिद्भिस्तु प्रज्वाल्याग्निं समाहितः / आकाशवल्लीपुष्पाणि जुह्वन्नाकाशगो भवेद् // इति // 4 //

तत्रैषां हृदयानि भवन्ति / ओं वज्रवशंकराय स्वाहा //

ओं कामरूपवज्राय स्वाहा //

ओं अदृश्यवज्राय स्वाहा //

ओं वज्रखचारिणी स्वाहा //

समिद्भिस्तिक्तवीर्यैस्तु प्रज्वाल्याग्निं समाहितः / वज्रिपुष्पा जुहेत् क्रुद्धो वज्रमाज्ञाकरं भवेत् // 1 //

तैरेवं तु समिद्भिस्तु प्रज्वाल्याग्निं सुरोषवान् / यस्य सौरे जुहेन्माल्यं सो ऽप्याज्ञाकरतां वज्रेत् // 2 //

समिद्भिस्तैस्तु संक्रुद्धः प्रज्वाल्याग्निं समाहितः / वज्रपाणेर्जुहेन्माल्यं सो ऽप्याज्ञाकरतां व्रजेत् // 3 //

तैरेव तु समिद्भिस्तु प्रज्वाल्याग्निं सुरोषितः / चीवराणि जुहेत् बुद्धो यात्याज्ञाकरतां क्षणात् // 4 //

तत्रैषां हृदयानि भवन्ति //

हुं वज्रवशंकराय स्वाहा //

हुं सौरिवशंकरवज्राय स्वाहा //

हुं वज्रपाणिवशंकराय स्वाहा //

हुं बुद्धवशंकरवज्राय स्वाहा //

मुद्र

ततो रहस्यकर्ममुद्राज्ञानं शिक्षयेत् /

प्रियया तु स्त्रिया सार्ध संवसंस्तु भगे ऽञ्जनं / प्रक्षिप्य घट्टयेत्तत्र तेनांज्याक्षी वशं नयेत् // 1 //

मनःशिलां भग विध्वा वज्रबन्धेन तां पिघेत् / चतुर्विधैर्निमित्तैस्तु सिद्धिश्चापि चतुर्विधा // 2 //

रोचनां तु भगे स्थाप्य गुह्यमुष्ट्या निपीडयेत् / [स्था]पितं ज्वालते तत्र भवेद्वज्रधरो समः // 3 //

कुङ्कुमं तु भगे विध्वा तद्भगं सत्ववज्रया / च्छादितं ज्वालते तन्तु भवेद्वज्रधरो सम // इति // 4 //

तत्रैषां हृदयानि भवन्ति / ओं वज्रगुह्य रतिवशंकर सिध्य हुं //

ओं वज्रगुह्य सिध्य हुं //

ओं गुह्यवज्र सिध्य हुं //

ओं वज्रधरगुह्य सिध्य हुं //

ततो वज्रकुलकर्ममहामुद्राज्ञानं शिक्षयेत् /

वज्रकार्यप्रयोगेण महामुद्राः समासतः / वज्रक्रोधसमापत्त्या वज्रमुष्टिप्रयोगतः // 1 // //

समयाग्र्यस्तथैवेहहुंकाराङ्गु लियोगतः / धर्ममुद्रास्तथैवेह ओंकाराद्यै अ-अक्षरैः // 2 //

कर्ममुद्राः समासेन कर्ममुष्टिद्विधीकृता / सर्वसिद्धिकरा शुद्धा वज्रकर्मप्रयोगतः // 3 //

सर्वतथागतवज्रसमयात् महाकल्पराजाद् वज्रकुलकर्ममण्डलविधिविस्तरः समाप्तः //

chapter 10 maha-kalpa-vidhi-vistara emanation of deities form samadhi

अथ भगवान् पुनरपि सर्वतथागतवज्रसमयमुद्राधिष्ठानं नाम समाधिं समापद्येमां सर्वविद्योत्तममभाषत् ओं सर्वतथागतवज्रसमये हूं //

अथ वज्रपाणिर्महाबोधिसत्व इमां स्ववज्रससयमुद्रामभाषत् हुं वज्रि मट् //

अथ वज्रगर्भो बोधिसत्व इमां स्वरत्नसमयमुद्रामभाषत् हुं भृकुटिवज्रे रट् //

अथ वज्रनेत्रो बोधिसत्वो महासत्व इमां स्वधर्मसमयमुद्रामभाषत् हूं पद्मवज्रि त्रिट् //

अथ वज्रविश्वो बोधिसत्त्वो महासत्व इमां स्वकर्मसमयमुद्रामभाषत् हूं वज्रकर्माग्रि कृट् //

delineation of the mandala

अथ वज्रपाणिर्महाबोधिसत्वः पुनरपीदं त्रिलोकविजयचतुर्मुद्रामण्डलमभाषत् /

अथातः संप्रवक्ष्यामि मुद्रामण्डलमुत्तमं / वज्रधातुप्रतीकाशं क्रोधवज्रमिति स्मृतं // 1 //

महामण्डलयोगेन सूत्रयेत् सर्वमण्डलम् / त्रिलोकविजयाद्यांस्तु लिखेद्बुद्धस्य सर्वत // इति // 2 //

मुद्र

अथात्र चतुर्मुद्रामण्डले महामण्डलयोगेनाकर्षणादिविधिविस्तरंकृत्वा प्रवेश्य चतुर्मुद्रामण्डलं गुह्यमुद्राज्ञानं शिक्षयेत् /

स्वयं लिख्य चतुर्मुद्रामण्डलं शुद्धधर्मतां / उच्चारयं स्त्रिया सार्धं संवसं सिद्धिराप्यते // 1 //

स्वयं लिख्य चतुर्मुद्रामण्डलं शुद्धधर्मतां / उच्चारयन् रागेण स्त्रीं निरीक्षं सिद्धिराप्यते // 2 //

स्वयं लिख्य चतुर्मुद्रामण्डलं शुद्धधर्मतां / प्रवर्तयं स्त्रियं कान्तां परिचुम्बंस्तु सिध्यति // 3 //

स्वयं लिख्य चतुर्मुद्रामण्डलं शुद्धधर्मतां / उच्चारयं समालिङ्गेत्सर्वसिद्धिरवाप्यते // 4 //

तत्रैताः शुद्धधर्मतामुद्रा भवन्ति / ओं सर्वतथागतविशुद्धधर्मते होः //

ओं वज्रविशुद्धदृष्टि ज्जः //

ओं स्वभावविशुद्धमुखे हुं //

ओं सर्वविशुद्धकायवाङ्मनःकर्मवज्रि हन् //

ततश्चतुर्मुद्रामण्डलगुह्यरहस्यमुद्रां शिक्षयेत् /

प्रविश्य मण्डलमिदं पञ्चभिः कामसद्गुणैः / रमयन् परदाराणि सुतरां सिद्धिमाप्नुते //

अथास्या हृदयं भवति हो वज्रकाम //

ततो यथावद् वज्राक्रान्तित्रिशूलमुद्राद्याः चतस्रः समयमुद्राः सविधिविस्तराः शिक्षयित्वा, तेन चतुर्मुद्राप्रयोगेण वज्रवाद्यतूर्यतालान् निर्यात्य, वज्रसत्वसंग्रहहृदयगीतिं गायता मुद्राप्रतिमुद्रोपमुद्राज्ञानमुद्राभिर्नृत्योपहारपूजा कार्यति /

तत्रेयं नृत्योपहारपूजा भवति /

वज्रनृत्यप्रयोगेण वज्रक्रोधाङ्गु लिद्वयं / वज्रहुंकारमुद्रां तु हृद्ये तु निबन्धयेत् // 1 //

तथैव नृत्यन् वामां तु गृह्य दक्षिणमुष्टिना / परिवर्त्य ललाटो तु निवेश्याग्र्या मुखेन त // 2 //

ततैव नृत्यन्मुक्त्वा तु समकुड्मलसन्धिते / अग्र्याञ्जलिं हृदि स्थाप्य नमेदाशयकम्पितैः // 3 //

वज्रक्रोधाङ्गुली सम्यगुत्तारमुखसन्धिते / परिवर्त्य तथोष्णीषे तु तर्जनी मुखसुस्थिता // 4 // इति //

ii.6 एकमुद्रमन्दल

अ[थ वज्रपा]णिर्महाबोधिसत्वः पुनरपीमं स्ववज्रसमयक्रोधसमयमभाषत् हुं //

delineation of the mandala

अथास्य मण्डलं भवति /

अथातः संप्रवक्ष्यामि गुह्यमण्डलमुत्तमं / वज्रधातुप्रतीकाशं वज्रहुंकरसंज्ञितं // 1 //

महामण्डलयोगेन बाह्यमण्डलमालिखेत् / तस्य मध्ये लिखेत्सम्यग्वज्रिणं चन्द्रमण्डले // 2 //

सवज्र वज्रहुंकारमहामुद्राकरग्रहं / प्रत्यालीढसुसंस्थानं यथावद् वर्णरूपिणम् // इति // 3 //

मुद्र

अथात्र गुह्यमण्डले सर्वसिद्धिविधिविस्तरं कृत्वा, वज्रहुंकारगुह्यमुद्राज्ञानमुदीरयेत् / प्रविश्य मण्डलमिदं त्रिलोकविजयाङ्गुलीं / साधये तु भगे बिध्वा सर्वकर्म सुसिध्यति //

अथास्य साधनहृदयं भवति हुं वज्रसमय कृत //

ततो वज्रहुंकारहस्यसाधनमुद्राज्ञानं शिक्षयेत् /

प्रविष्ट्वा मण्डलं सम्यग् महामुद्राग्रसंस्थितः / संवसन् वज्रहुंकारः सर्वकर्मकरो भवेद् // इति //

तत्रास्याः साधनहृदयं भवति हुं वज्रसमय हुं //

ततो यथावन् मुद्राबन्धचतुष्टयं शिक्षयेत् / तथैव सिद्धयः संभवन्तीति //

यथा मण्डले एवं पटादिषु लिखितानां सर्वप्रतिमास्वपि सामान्या सिद्धिरिति /

अथ वज्रपाणिः सर्वतथागतानाहूयैवमाह / "अधितिष्ठत भगवन्तः सर्वतथागता ममे[दं कुलं ये च] सर्वसत्वा यथाकामकरणीयतया सर्वसिद्धीः प्राप्नुयुर्" इति //

अथ भगवन्तः सर्वतथागताः पुनः समाजमागम्यास्य त्रिलोकविजयकल्पस्याधिष्ठानायेदमूचुः /

साधु ते वज्रसत्वाय वज्ररत्नाय साधु ते / वज्रधर्माय ते साधु साधु ते वज्रकर्मणे //

सुभाषितमिदं सूत्रं वज्रयानमनुत्तरं / सर्वतथागतं गुह्यं महायानाभिसंग्रहम् // इति //

सर्वतथागतवज्रसमयान्महाकल्पराजान् महाकल्पविधिविस्तरः समाप्तः //

छप्तेर् 11 त्रिलोकचक्र-मह-मन्दल-विधि-विस्तर

अथ भगवन्तः सर्वतथागताः पुनरपि समाजमापद्य जानन्नेव वज्रपाणिं महाबोधिसत्वमेवमाहुः / "प्रतिपद्यस्व वत्स सर्वतथागताज्ञाकारितयै इमं महेश्वरकायमतः स्वपादतालात् मोक्षुम्!" इति / अथ भगवां वज्रपाणिस्तांस्तथागतानेवमाह / "अहं भगवद्भिः सर्वदुष्टदमकः क्रोध इत्यभिषिक्तः / तन्मयायं व्यापादितः, तत्कथमस्य मोक्षामी?" ति /

अथ सर्वतथागता महेश्वरस्य सर्वत्रिलोकाधिपतेः शरीरस्य जीवितसंजननहेतोरिदं मृतविज्ञानाकर्षणहृदयं स्वहृदये[भ्यो निश्चरन्ति /] ओं वज्रसत्व हूं ज्जः //

अथास्य मुद्राबन्धो भवति /

गुह्याङ्कुशी दृढीकृत्य समान्त्यासु प्रसारिता / मृतस्य मूर्ध्नि सन्धाय [पुनर्जीवितं प्राप्स्यत // इति //]

अथास्मिन् विनिःसृतमात्रे स भगवान् [भस्मेश्वरनिर्घोषस्] तथागतो भस्मच्छत्राया लोकधातोर् [आगम्य, तस्य] महेश्वर[स्य काये प्रविष्ट्वा, इदमुदानमुदानयामास /]

अहो हि सर्वबुद्धानां बुद्धाज्ञानमनुत्तरं / यन्मृतो ऽपि हि कायो ऽयं जीवधातुत्वमागत // इति //

[अथ वज्रपाणिर्] महाबोधिसत्व इदं पादोच्चारन्नाम हृदयमुदाजहार ओं वज्र मुः //

अथास्य मुद्राबन्धो भवति /

वज्रक्रोधाङ्गुली[मुत्थापयित्वाग्रासङ्गं स्थिते /] परिवर्त्य[द्वयोर्वज्रयोरधस्तात्समुद्धरेद् // इति //]

अथास्मिन् भाषितमात्रे महावज्रधरपादमूलान् महादेवो [मुक्तयित्वा पुनः संजीवीकृतः /] अथ महेश्वर[कायं तेन तथागतेन सं]जीवमधिष्ठाय, स्वयौवराज्यतायामत्रैव लोकधातौ सर्वसत्व[हितार्थञ्च दुष्ट]विनयार्थं च प्रतिष्ठापितवानिति //

अथ ततो वज्रपाणि चरणतलादिमां चन्द्रपादान्नाम सर्वतथागतबोधिचित्तमुद्रां [विनिःसृतः /] ओं चन्द्रोत्तरे समन्तभद्रकिरणी महावज्रिणि हूं //

अथास्य मुद्राबन्धो भवति /

वज्रबन्धं दृढीकृत्य कनिष्ठाङ्गुष्ठ[समोत्था / समोत्थित्वा सुसारिता चन्द्रप्रभेति] कीर्तिता //

अथास्यां विनिःसृतमात्रायां तत एव पादतलाच् चन्द्रोत्तर एव तथागतो [निश्चचार, तस्य महेश्वरस्य शिरे वज्रपाणि पादावक्रान्ते तदर्धचन्द्रमूर्धनभिषिक्तो, वज्रपाणेर्वामपार्श्वे स्थितः / ततः] सर्वतथागतै[र्वज्रपाणेर्मित्रस्य पाणौ] वज्रशूलं दत्वा, वज्रविद्योत्तमो वज्रविद्योत्तम इति वज्रनामाभिषेकेणाभिषिक्तः //

अथ वज्रविद्योत्तमो बोधिसत्त्वो [महासत्त्वश्च] तेन वज्रशूलेन चक्रपरिवर्तनगत्या नृत्योपहारपूजां कुर्वन्निदमुदानमुदानयामास /

अहो हि सर्वबुद्धानां बोधिचित्तमनुत्तरं / यत्पादाग्रस्पर्शेनापि बुद्धत्वं प्राप्यते मया // इति //

अथ वज्रपाणिर्महाबोधिसत्वः, ततो वज्रक्रोधसमाधेर्व्युत्थाय, भगवन्तमे[तां वाचमुवाच] / "अहं भगवं सर्वतथागतैर्वज्रं पाणिभ्यां दत्वा वज्रपाणित्वेनाभिषिक्तः // तदेषां देवादीनां बाह्यवज्रकुलानामस्मिं त्रिलोकविजयमहामण्डले स्थानविनियोगङ्करिष्यामि / येन ते सत्वा अवैवर्तिका भविष्यन्ति अनुत्तरायां सम्यक्संबोधाव्" इति //

अथ भग[वान् वैरोचनस्] तथागतो ऽर्हन् सम्यक्संबुद्ध इदं सर्वतथागतोष्णीषमुदाजहार ओं वज्रसत्वोष्णीष हुं फट् //

अथास्मिन् भाषितमात्रे सर्वतथागतोष्णी[षेम्यो विनिःसृतो भगवद्वज्रपाणिविग्रहः, नाना]वर्णरश्मयो भूत्वा, सर्वलोकधातवो ऽवभास्य, पुनरपि भगवतो वज्रपाणेर्मूधम् [अनुपरिवेष्टिताः, सर्वतथागतोष्णीषतेजोराशिं भूत्वा] स्थितः / अथ ततस्तेजोराशित इदं सर्वतथागतोष्णीषं निश्चचार / ओं नमस्सर्वतथाग[तोष्णीष] तेजोराशि अनवलोकितमूर्ध हूं ज्वाल धक विधक दर विदर हुं फट् //

अथ वज्रपाणिर्बोधिसत्वो महासत्व इदं स्वविद्योत्तममुदा[जहार]ओं निसुंभ वज्र हुं फट् //

ततः पुनरपि वज्रपाणिः स्वहृदयादिदं हृदयमुदाजहार ओं ट्टक्कि ज्जः //

अथ वज्रगर्भो बोधिसत्वो महासत्व इदं स्वविद्योत्तममभाषत् ओं वज्र रत्नोत्तम ज्वालय हुं फट् //

अथ वज्रनेत्रो बोधिसत्वो महासत्व इदं स्वविद्योत्तममभाषत् ओं स्वभावशुद्ध वज्रपद्म शोधय सर्वान् विद्योत्तम हुं फट् //

अथ वज्रविश्वो बोधिसत्त्वो महासत्व इमं स्वविद्योत्तममभाषत् ओं वज्रकर्मोत्तम वज्रधर समयमनुस्मर सुंभनिसुंभाकर्षय प्रवेशयावेशय बन्धय समयं ग्रहय सर्वकर्माणि मे कुरु महासत्व हुं फट् //

अथ वज्रविद्योत्तमो बोधिसत्वो महासत्व इदं स्वहृदयं भगवतो वज्रपाणेः पादवन्दनीयं निर्यातयामास ओं सुंभ निसुंभ वज्रविद्योत्तम हुं फट् //

अथ क्रोधवज्रो विद्याराजो भगवतश्चरणयोर्निपत्येद स्वहृदयमदात् हुं वज्रशूल //

अथ मायावज्रो विद्याराजेदं स्वहृदयमभाषत् ओं वज्रमाय विदर्शय सर्व हुं फट् //

अथ वज्रघण्टो विद्याराजः स्वहृदयमदात् ओं वज्रघण्ट रण रण हुं फट् //

अथ मौनवज्रः स्वहृदयमदात् ओं वज्रमौन महाव्रत हुं फट् //

अथ वज्रायुधः स्वहृदयमदात् ओं वज्रायुध दामक हुं फट् //

विद्याराजनकाः //

अथ वज्रकुण्डलिर्वज्रक्रोधो भगवते वज्रपाणये इदं स्वहृदयं पादवन्दनीयं निर्यातयामास / ओं वज्रकुण्डलि महावज्रक्रोध गुह्ण हन दह पच विध्वंसय / वज्रेण मूर्धानं स्फालय भिन्द हृदयं वज्रक्रोध हुं फट् //

अथ वज्रप्रभो वज्रक्रोध इदं स्वहृदयमदात् / ओं वज्रप्रभ मारय सौम्यक्रोध हुं फट् //

अथ वज्रदण्डो वज्रक्रोधः स्वहृदयमदात् / ओं वज्रदण्ड तनुय सर्वदुष्टान् महाक्रोध हुं फट् //

अथ वज्रपिङ्गलो वज्रक्रोध इदं स्वहृदयमदात् / ओं वज्रपिङ्गल भीषय सर्वदुष्टान् भीमक्रोध हुं फट् //

वज्रक्रोधाः //

अथ वज्रशौण्डो गणपतिर्भगवते वज्रपाणये इदं हृदयन्निर्यातयति स्म / ओं वज्रशौण्ड महागणपति रक्ष सर्वदुष्टेभ्यो वज्रधराज्ञां पालय हुं फट् /

अथ वज्रमाल इदं स्वहृदयमदात् / ओं वज्रमाल गणपतये मालयाकर्षय प्रवेशयावेशय बन्धय वशीकुरु मारय हुं फट् //

अथ वज्रवशी स्वहृदयमदात् / ओं वज्रवशी महागणपते वशीकुरु हुं फट् //

अथ विजयवज्रो गणपतिः स्वहृदयमदात् / ओं वज्रविजय विजयं कुरु महागणपति हुं फट् //

गणप[तयः //]

अथ वज्रमुसलो वज्रदूत इदं स्वहृदयं वज्रपाणये निर्यातयामास / ओं वज्रमुसल कृट्ट कुट्ट सर्वदुष्टान् वज्रदूतहुं फट् //

[अथ वज्रा]निलो दूतः स्वहृदयमदात् / ओं वज्रानिल महावेगानय सर्वदुष्टान् हुं फट् //

अथ वज्रानलो दूतः स्वहृदयमदात् / ओं वज्रानल महादूत ज्वालय सर्व भस्मीकुरु सर्वदुष्टान् हुं फट् //

अथ वज्रभैरवो दूतः स्वहृदयमदात् / ओं वज्रभैरव वज्रदूत भक्षय सर्वदुष्टान् महायक्ष हुं फट् //

दूताः //

अथ वज्राङ्कुशो वज्रचेट इदं स्वहृदयं भगवते वज्रपाणये निर्यातयामास / ओं वज्रङ्कुशाकर्षय सर्व महाचेट हुं फट् //

अथ वज्रकालः स्वहृदयमदात् / ओं वज्रकाल महामृत्युमुत्पादय हुं फट् //

अथ वज्रविनायकः स्वहृदयमदात् / ओं वज्रविनायकास्य विघ्नं कुरु हुं फट् //

अथ नागवज्र इदं स्वहृदयं भगवते वज्रापाणये पादवन्दनीयं निर्यतयामास / ओं नागवज्रानय सर्वधनधान्यहिरण्यसुवर्णमणिमुक्तालङ्कारादीनि सर्वोपकरणानि वज्रधर समयमनुस्मरकड्ढ गृह्ण बन्ध हर हर प्राणान् महाचेट हुं फट् //

चेटाः //

अथ वज्रपाणिर्महाबोधिसत्व इदं सर्ववज्रकुलाकर्षणसमयमुदाजहार ओं वज्राङ्कुशाकर्षय हुं //

ततः प्रवेशनसमयमुदाजहार हुं वज्रपाशाकड्ढ हुं //

ततः समयबन्धमुदाजहार हुं वज्रस्फोट वं //

ततः कर्महृदयमुदाजहार ओं वज्रकर्म साधय कृत् //

delineation of the mandala

अथ वज्रपाणिरिदं सर्ववज्रकुलमहामण्डलमभाषत् / अथातः संप्रवक्ष्यामि महामण्डलमुत्तमं / धर्मचक्रप्रतीकाशं सूत्रये सर्वमण्डलं //

तत्रेदं सूत्रणहृदयं भवति ओं वज्रसूत्राकर्षय सर्वमण्डलान् हुं //

मण्डलस्य तु मध्ये वै विध्वा खदिरकीलकं / ततस्तु सूत्रं द्विगुणं कृत्वा तेन प्रसूत्रयेत् //

तत्रेदं कीलकहृदयं / ओं वज्रकील कीलय सर्वविध्नान् बन्धय हूं फट् //

चतुःसूत्रसमायुक्तं सूत्रयेच्चक्रमण्डलं / बाह्यतस्तस्य निःक्रम्य द्विगुणं तु तथैव च // 1 //

तस्यापि त्रिगुणङ्कुर्यात् बाह्यमण्डलसूत्रणं / विदिशाश्चारयोगेन कोणरेखास्तु सूत्रयेद् // इति // 2 //

सूत्रणविधिः /

ततस्तु सूत्रणं तत्तु रङ्गैः शुद्धैस्तु पूरयेत् / वामवज्रमहामुष्ट्या प्राग्रेखां तु यथासुखं //

तत्रेदं रङ्गहृदयं / ओं वज्ररङ्ग समय हूं //

ततो मध्यस्थितो भूत्वा वज्राचार्यः समाहितः / मनसोद्घाटयेच्चैव वज्रद्वारचतुष्टयं //

तत्रेदं द्वारोद्घाटनहृदयं / ओं वज्रोद्घाटनसमय प्रविश शीघ्रं स्मर वज्रसमय हुं फट् //

सौर्वर्णराजते वापि मृण्मये वा सुचित्रिते / इष्टके तु चतुरश्रे तु बुद्धबिम्बं निवेशयेत् //

तत्रेदं सर्वबुद्धहृदयं[भ]वति / ओं सर्वविद् //

बुद्धस्य सर्वतः कुर्यन्महासत्वचतुष्टयं / त्रिलोकविजयं कुर्वन् वज्रापाणिं पुरःस्थितं //

तत्रैतानि महासत्वचतुष्टयहृदयानि भवन्ति / ओं सुंभ निसुंभ हुं गृण्ह गृण्ह हुं गृण्ह प्य हुं आनय हो भगवन् वज्र हुं फट् // 1 // ओं वज्रभृकुटि क्रोधानय सर्वरत्नान् हीः फट् // 2 //ओं वज्रदृष्टि क्रोधदृष्ट्या मारय हुं फट् // 3 //ओं वज्रविश्व क्रोध कुरु सर्वं विश्वरूपतया साधय हूं फट् // 4 // प्रवेशेन्निष्क्रमेद्वापि सुत्राधस्तान्मनोगतं / वज्रवेग इति ख्यातस्तेन रेखां समाक्रमेद् // इति //

तत्रेदं वज्रवेगहृदयं / वज्रवेग //

वज्रवेगेन निःक्रम्य प्रथमं मण्डलं तथा / यथावदनुपूर्वेण वज्रमायादयो लिखेत् //

तत्रैषां समयहृदयानि भवन्ति / ओं वज्रचक्र हूं // 1 // ओं वज्रघण्ट हूं // 2 //ओं वज्रदण्डकाष्ठ हूं // 3 //ओं वज्रायुध हूं // 4 // वज्रवेगेन चाक्रम्य द्वितीयं मण्डलं तथा / वज्रकुण्डलिपूर्वांस्तु वज्रकोधान्निवेशयेत् //

तत्रैषां हृदयानि भवन्ति / ओं प्रज्वलित प्रदीप्तवज्र हूं // 1 // ओं वज्रसौम्य हूं // 2 //ओं वज्रदण्ड हूं // 3 //ओं वज्रविकृत हुं // 4 // ततस्तु वज्रवेगेन लिखेद् द्वारचतुष्टये / वज्रशौण्डादयः सर्वे यथावदनुपूर्वशः //

तत्रैषां समयहृदयानि भवन्ति / ओं वज्रमद हुं //

ओं वज्रमाले हूं //

ओं वज्रार्थ हूं //

ओं वज्राशि हूं //

वज्रवेगेन चाक्रम्य तृतीये मण्डले लिखेत् / यथावदनुपूर्वेण स वज्रमुसलादयः //

तत्रैषां हृदयानि भवन्ति / ओं वज्रमुसल हूं //

ओं वज्रपट हूं //

ओं वज्रज्वाल हूं //

ओं वज्रग्रह हूं //

वज्रवेगेन चाक्रम्य चतुर्थे मण्डले लिखेत् / वज्राङ्कुशादयश्चेटा यथावदनुपूर्वशः //

तत्रैषां हृदयानि भवन्ति //

ओं वज्रदंष्ट्र हूं //

ओं वज्रामारण हूं //

ओं वज्रविध्न हूं //

ओं वज्रहरण हुं //

वज्रवेगेन निःक्रम्य बाह्यमण्डले संस्थिता / यथावदनुपूर्वेण संलिखेत्सर्वमातरः // 1 //

वज्रद्वारेषु सर्वेषु द्वारपालास्त एव तु / अतः परं प्रवक्ष्यामि यथावद्विधिविस्तरम् // 2 // इति //

अथात्र त्रिलोकचक्रमहामण्डले आकर्षणादिकर्म कृत्वा, स्वयं वज्राचार्यो वज्रक्रोधतेरिन्तिरिमुद्रां बध्वा, एवं ब्रूयाद्, "अहन्ते वज्रसमयज्ञानमुत्पादयिष्यामि / तत्त्वया न कस्यचिद्वक्तव्यं / मा ते विषमा परिहारेण कालक्रियया नरकपतनं स्याद्," इदमुक्त्वेदं शपथहृदयं दद्यात् / वज्रक्रोधतेरिन्तिरिमुद्रां बध्वा दर्शयेत् "अयं वज्रक्रोधसमयस्ते सन्दहेत् कुलन्, मुर्धादारभ्य कायं तु नाशयेत्, यद्यतिक्रमेत् समयं बन्धय" //

ततो वज्रधारि कर्ममुद्रां बन्धयेदनेन हृदयेन ओं सर्वतथागत वज्रधर गृह्ण बन्ध समय हूं //

अथास्या मुद्राया बन्धो भवति /

कनिष्ठाङ्गुष्ठबन्धो तु हस्तौ द्वावधरोत्तरौ / मुद्रेयङ्कर्मसमय[वज्रबन्धेति] कीर्तिता //

ततो वज्र ओदकेनाभिषिञ्चेदनेन हृदयेन ओं वज्राभिषेकाभिषिञ्च वज्रधरत्वे समय ग्र ग्र //

ततो नक्तकेन मुखं बध्वा [प्रवेशयत्य] नेन हृदयेन ओं प्रविश वज्र प्रवेशय वज्र आविश वज्र आधितिष्ठ वज्र हूं //

ततः प्रवेश्य पुष्पाणि क्षिपेत् अनेन हृदयेन ओं प्रतीच्छाधितिष्ठ वज्र होः //

ततो यत्र पतति सो ऽस्य सिध्यति /

ततो मुखबन्धं मुक्त्वा, मण्डलं यथानुपूर्वतो दर्शयेत् / न चास्य वक्तव्यं किं देव इति / तत्कस्माद्धेतोः? सन्ति सत्वा मिथ्यादृष्टयो ये न श्रद्धास्यन्ति, किमेतदमोघं बुद्धानां भगवतां ज्ञानं, यथा तथागता वज्रकुले वज्रपाणिनाभिषिक्तास्तथागता एवेति समयः / अन्यत्र ये देवे भक्तास्तेषां शपथहृदयं दत्वा वाच्यमिति /

ततो वज्ररत्नचिन्हमालाभिषेकं दत्वा, कर्मवज्रं पाणिभ्यामभिप्रयच्छ्य, वज्रनाम कुर्यात्, यथा वज्रसमयमहामण्डल इति //

मुद्र

ततो महामुद्राबन्धं शिक्षयेत् /

वज्रबन्धं दृढीकृत्य प्रविष्टाङ्गु ष्ठसंचयं / कुञ्चिताग्र्याषु गच्छन्नं सत्वोष्णीषेति संज्ञिता // 1 //

वज्रबन्धं समाधाय समाङ्गुष्ठात्म्यमध्यमा / तेजोराशीति विख्याता तेजोराशेर्महात्मनः // 2 //

वज्रमुद्राद्विकं बध्वा कनिष्ठाङ्गुष्ठसन्धितं / गाढमङ्कुशबन्धेन महाविद्योत्तमस्य तु // 3 //

महाविद्योत्तममयीं मुद्रां बध्वा सुयन्त्रितां / हृद्यङ्गष्ठमुखानां तु बन्धनाद्धृदया स्मृता // 4 //

तामेवानाममध्याभिरङ्गुलीभिः सुयन्त्रितां / वज्ररत्नप्रयोगेण परिवर्त्य मुखस्थिता // 5 //

तामेवोत्तानसंस्थां स्वहृदये परिवर्त्य वै / चतुःपुष्पा तु नामेन पद्मविद्योत्तमस्य तु // 6 //

तामेव मूर्धादारभ्य भ्रमत्कायाग्रमण्डला / वज्रविश्वस्य मुद्रेयं वज्रकर्मप्रसाधिके // ति // 7 //

सत्ववज्रां दृढीकृत्य कनिष्ठा वज्रसन्धिता / सर्वविद्धृदयस्यास्य मुद्रेयं सर्वसाधिका // 8 //

कनिष्ठाङ्गुष्ठबन्धे तु वाममध्याङ्गुलित्रिके / त्रिशूले मध्यशूलं तु वज्रमुद्रापरिग्रहं // 9 //

वज्रविद्योत्तमस्येयं वज्रशूलेति कीर्तिता / अतः परं प्रवक्ष्यामि मायावज्रादिसंज्ञिता // 10 //

वज्रबन्धं दृढीकृत्य वामवज्रं तु बन्धयेत् / वज्रमुष्टिरिति ख्याता सर्ववज्रकुलेष्वियं // 1 //

द्विधीकृत्य तु तद्वज्रं सर्वचिह्ननिवेशितं / सर्ववज्रकुलानां तु मुद्रासु च निवेशयेत् // 2 //

प्रसारिताग्रा पृष्ठस्था ज्येष्ठाङ्गुष्ठग्रहाधगा / ओंकार मूर्ध्नि संस्था तु वज्र चैव प्रतिष्ठिता // 3 //

विद्याराजमहामुद्रागणः //

प्रसारिताश्रिता पाणौ हस्तपृष्ठे तथैव वा / मुष्टिसंस्था भुजा वा च मुखतः परिवर्तिता //

वज्रक्रोधमहामुद्रागणः //

वामाङ्गुष्ठसुसंस्था तु मालबन्धप्रयोजिता / दक्षिणेनार्थदायी च खङ्गमुद्राग्रमुष्टिमा //

गणपतिमहामुद्रागणः //

दक्षिणग्रस्तमुसला प्रसारितभुजा तथा / दक्षिणज्वालसन्दर्शा वज्रमुष्टिप्रकम्पिता //

दूतमहामुद्रागणः //

सगर्वमुखदंष्ट्राग्रा दण्डाघातप्रपातिता / बाहुसंकोचलम्बा च वामदक्षिणहारिणी // ति //

चेटमहामुद्रागणः //

कल्पनं मण्डले सर्वे [वाम]वज्रग्रहेण तु / अतः परं प्रवक्ष्यामि साधनं कर्म एव च // 1 //

यस्य सत्वस्य या मुद्रा भवेत्तस्य स्वमात्मना / भावयन्तं स्वमात्मानं मुद्रासाधनमुत्तमं // 2 //

मनोष्णीषमहारक्षा तेजोराशी सुसिद्धदा / सर्वकृद्वज्रहुंकारा सर्वाकर्षा तु हृद्गते // ति // 3 //

बुद्धमुद्राः //

सर्ववित्सर्वसिद्धिस्तु वज्रविद्योत्तमा / वज्रशूला महामुद्रा महसिद्धिप्रदायिका // 1 //

मायावज्रसुसिद्धिस्तु समावेशा तु घण्टिका / दण्डकाष्ठा तु नैर्वाणी वज्रवज्रा तु मारणी // 2 //

विद्याराजनिकाः //

ज्वालाग्री दुष्टदमनी सौम्याग्री सर्वमारणी / दण्डाग्रा घातनी चैव भीमाक्षी तु भयङ्करी //

वज्रक्रोधाः //

मदनी मदनी तीव्रं माला सर्वकरी स्मृता / कामिनी प्रियकारी तु मारणी सर्वमारणी //

गणमुद्राः //

मुसला दुष्टनिर्घाता पटा सूत्रपटा तथा / ज्वालाग्री दुष्टदमनी यक्षिणी ग्रहलायिका //

दूतमुद्राः /

भक्षणी वज्रदंष्ट्रा तु मारणी सर्वमारणी / सुविघ्ना विध्नकर्त्री तु हारिणी सर्वहारिणी //

चेटमुद्राः //

सर्वतथागतवज्रसमयान् महाकल्पराजात् त्रिलोकचक्रमहामण्डलविधिविस्तरः परिसमाप्तः //

chapter 12 sarva-vajra-kula-vajra-mandala-vidhi-vistara emanation of deities from samadhi

अथ भगवान् पुनरपि सर्वतथागतवज्रधारणीसमयसंभवाधिष्ठानन्नाम समाधिं समापद्येमां स्वविद्योत्तमामभाषत् ओं वज्रसावित्रे स्वाहा //

अथ वज्रापाणिर्महाबोधिसत्वः पुनरपीमं स्वविद्योत्तमामभाषत् ओं वज्रधारि हूं // वज्रविक्रमे हूं फट् //

अथ वज्रगर्भो बोधिसत्त्वो महासत्व इमां स्वविद्योत्तमामभाषत् ओं वज्ररत्नगोत्रे स्वाहा //

अथ वज्रनेत्रो बोधिसत्वो महासत्व इमां स्वविद्योत्तमामभाषत् ओं वज्रपद्मनेत्रे हूं फट् //

अथ वज्रविश्वो बोधिसत्वो महासत्व इमां स्वविद्योत्तमामभाषत् ओं वज्रकर्मकरि हूं //

अथ वज्रविद्योत्तमो बोधिसत्त्व इमां स्वविद्योत्तमामभाषत् ओं वज्रशूलाग्रे स्वाहा //

अथ वज्रमायो विद्याराज इमां स्वमुद्रामभाषत् ओं वज्रचक्रे हूं //

वज्रघण्टोवाच ओं वज्रघण्टिके हूं //

मौनवज्रोवाच ओं वज्रदण्डकाष्ठे हूं //

वज्रायुधोवाच ओं वज्रे हूं //

विद्याराजसमयमुद्राः //

अथ वज्रकुण्डलिर्वज्रक्रोध इमां समयमुद्रामभाषत् ओं ज्वालावज्रे हूं //

अथ वज्रप्रभ उवाच ओं वज्रसौम्ये हूं //

वज्रदण्डोवाच ओं वज्रदण्डे हूं //

वज्रपिङ्गलोवाच ओं वज्रभीषणे हूं //

वज्रक्रोधसमयमुद्राः //

अथ वज्रशौण्डः स्वसमयमुद्रामभाषत् ओं वज्रमेद हूं //

वज्रमालोवाच ओं वज्रमाले हूं //

वज्रवश्युवाच ओं वज्रवशे हूं //

विजयवज्रोवाच ओं वज्रापराजिते हूं //

वज्रगणपतिसमयमुद्राः //

अथ वज्रमुसलः स्वसमयमुद्रामुदाजहार ओं वज्रमुसलग्रहे हूं //

वज्रानिलोवाच ओं वज्रपटे हूं //

वज्रानलोवाच ओं वज्रज्वाले हूं //

वज्रभैरवोवाच ओं वज्रग्रहे हूं //

वज्रदूतसमयमुद्राः //

अथ वज्राङ्कुशोवाच ओं वज्रदंष्ट्रे हूं //

वज्राकालोवाच ओं वज्रमारणि हूं //

वज्रविनायकोवाच ओं वज्रविघ्ने हूं //

नागवज्रोवाच ओं वज्रहारिणि हूं //

वज्रचेटसमयमुद्राः //

delineation of the mandala

अथ वज्रपाणिः पुनरपीदं सर्ववज्रकुलवज्रमण्डलमभाषत् /

अथातः संप्रवक्ष्यामि वज्रमण्डलमुत्तमं / चतुरश्रमुत्तरद्वारं सूत्रयेद् बाह्यमण्डलं // 1 //

तस्याभ्यन्तरतस्तत्र पूर्वद्वारन्तथैव च / तस्य मध्ये यथायोगं बुद्धबिम्बन्निवेशयेत् // 2 //

त्रिलोकविजयाद्यास्तु चतस्रस्तस्य सर्वतः / मण्डलस्य तथा श्रेष्ठ वज्रमुद्राः समालिखेत् // 3 //

तासां सर्वेषु पार्श्वेषु कुलमुद्राः समालिखेत् / वज्रशौण्डादयश्चैव चत्वारो द्वाररक्षकाः // 4 //

भीमां श्रियं सरस्वतीं दुर्गां कोणेषु वामतः / बाह्यकोणेषु मुद्रा वै आसामेव तु संलिखेत् // 5 //

बाह्यमण्डलेषु पुनर्यथावद्देवीः संलिखेत् / अतः परं प्रवक्ष्यामि यथावद्विधिविस्तरम् // इति // 6 //

initiation into the mandala

अथत्र वज्रमण्डले यथाकामकरणीयतया वज्राङ्कु शादिभिः समयकर्म कृत्वा, वज्रधारिमुद्रां यथावद् बध्वा, ब्रूयान् "न कस्यचित्त्वया अदृष्टसमयस्तैताः समयमुद्राः पुरतो वक्तव्याः, न च रहस्यभेदः कर्तव्यः" //

ततस्तत्कर्मवज्रं वज्रधारिमुद्रायामुपरि स्थाप्य, यथावत्प्रवेशयेत् / प्रवेश्य तद्वज्रं तथैव क्षिपेत् / यत्र पतति सास्य समयमुद्रा वश्य भवति आ // तया सर्वकर्माणि करोति //

ततो मुखबन्धं मुक्त्वा, मण्डलं यथावद् दर्शयित्वा, समयमुद्रारहस्यं ब्रूयात् /

एताः समयमुद्रास्ते सर्वकर्मकराः शुभाः / मातरश्च भगिन्यश्च भार्या दुहितरो ऽनुगा // इति //

तत्रास्या हृदयं भवति ओं सर्ववज्रगामिनि सर्वभक्षे साधय गुह्यवज्रिणि हूं फट् //

"अनया सकृज्जप्तया सर्वस्त्रियो वशीकृत्योपभोक्तव्याः, अधर्मो न भवति / यथाभिरुचित्तश्च सर्वभुज्त्व साध्याः / ततः सर्वशुद्धिचित्ततामवेत्य, सर्वमुद्रामनसोत्तमान्यपि सर्वकर्माणि कुर्वन्ती" त्याह भगवान् वज्रधरः //

मुद्र

अतः समयमुद्राः शिक्षयितव्याः //

समयक्रोधाङ्गुली मूर्ध्नि हृदये वज्रदृढीकृता / मुखोर्णा च मुखोद्धान्ता मूर्ध्नि स्थाप्य द्विधिकृते // ति // 1 //

वामवज्राग्रबन्धेन त्रिशूलाङ्गन्तु पीडयेत् / अनया बन्धया सम्यक् सिध्येद् विद्योत्तमः स्वयम् // 2 //

सर्ववज्रकुलानां तु वामवज्राग्रसंग्रहम् / मुद्राबन्धं प्रवक्ष्यामि समयानां यथाविधि // 3 //

चक्रा सर्वाङ्गसंपीडा घण्टा मुद्रा तथैव च / तथैवोङ्कारमुद्रा तु सिंहकर्णपरिग्रहा // 4 //

मुद्राराजनिकाः //

ज्वाला परिग्रहा चैव प्रभा संग्रहमेव च / दण्डमुष्टिग्रहा चैव मुखतः परिवर्तिता //

क्रोधसमयाः //

पानमुद्रा च माला च वज्रा च ष्टंभनामिता / मूर्धस्था चैव गणिका मण्डलद्वारपालिकाः //

गणिकासमयाः //

बाहुंसंकोचचक्रा तु पृष्ठतः परिवर्तिता / ज्वाला स्फुलिङ्गमोक्षा च विदारितमुखस्थिता //

दूतीसमयाः //

द्व्यन्तप्रवेशितमुखी पीड्य चैव प्रपातनी / बाहुवेष्टनवेष्टा च सहसा हारिणी तथे // ति //

चेटीसमया //

सर्वतथागतवज्रसमयान् महाकल्पराजात् सर्ववज्रकुलवज्रमण्डलविधिविस्तरः परिसमाप्तः //

chapter 13 sarva-vajra-kula-dharma-samaya-mandala-vidhi-vistara emanation of deities from samadhi

अथ भगवां पुनरपि सर्वतथागतधर्मसमयसंभववज्राधिष्ठानन्नाम समाधिं समापद्येमां स्वविद्योत्तमामभाषत् ओं वज्र वित् //

अथ वज्रापाणिः पुनरपीदं स्वधर्मसमयमभाषत् ओं हन हन हु फट् //

अथ वज्रगर्भः स्वधर्मसमयमभाषत् ओं हर हर हुं फट् //

अथ वज्रनेत्रः स्वधर्मसमयमभाषत् ओं मर मर हुं फट् //

अथ वज्रविश्वः स्वधर्मसमयमभाषत् ओं कुरु कुरु हुं फट् //

अथ वज्रविद्योत्तमः स्वधर्मसमयमभाषत् ओं हुं हुं फट् //

अथ मायावज्र उवाच ओं च्छिन्द च्छिन्द हुं फट् // ओं आविशाविश हुं फट् // ओं भूर्भुवः स्व हुं फट् // ओं भिन्द भिन्द हुं फट् //

विद्याराजनकाः //

ओं दम दम हुं फट् //

ओं मारय मारय हुं फट् //

ओं घातय घातय हुं फट् //

ओं भय भय हुं फट् //

क्रोधाः //

ओं मद मद हुं फट् //

ओं बन्ध बन्ध हुं फट् //

ओं वशीभव हुं फट् //

ओं जय जय हुं फट् //

गणपतयः //

ओं भ्यो भ्यो हुं फट् //

ओं घु घु हुं फट् //

ओं ज्वल ज्वल हुं फट् //

ओं खाद खाद हुं फट् //

दूताः //

ओं खन खन हुं फट् //

ओं मर मर हुं फट् //

ओं गृह्ण गृह्ण हुं फट् //

ओं विभ विभ हुं फट् //

चेटाः //

delineation of the mandala

अथ वज्रपाणिः पुनरपीदं सर्ववज्रकुलधर्मसमयमण्डलमभाषत् /

अथातः संप्रवक्ष्यामि महामण्डलमुत्तमम् / [त्रिलोक]चक्रसंकाशं संलिखेत्सर्वमण्डलम् // 1 //

सर्वे चैव समापन्ना बुद्धवज्रधरादयः / धर्ममण्डलयोगेन हृच्चिह्नास्तु समालिखेत् //

initiation into the mandala

अथात्र [धर्मसमय]मण्डले यथावत्कर्म कृत्वा, वज्रधारिमुद्रांसु वज्रघण्टां [बद्धं बध्यै]वं ब्रुयात् "न त्वया कस्यचिदसमयदृष्टस्यादृष्टदेवकुलस्य वक्तव्यम्" इति उक्त्वा, तां घण्टां रणापयेत् एवं च ब्रूयात्, शपथहृदयं दत्वा /

यथेयं रणितघण्टा शब्दश्चास्य यथा ध्रुवः / तथेदं कर्मवज्रं ते नाशं कुर्यत्तथा ध्रुवं // 1 //

वज्राचार्यत्वगौरव्यं वज्रस्रातृष्वमित्रता / दुष्टमैत्रीविरासश्च यदि कुर्याद्भवान् कदा // इति // 2 //

मुद्र

ततो मुखबन्धं मुक्त्वा, मण्डलं दर्श्य, धर्मसमयमुद्राज्ञानं शिक्षयेत् /

samadhis of vidyaraja, vajrakrodha, gana, duta and ceta

बुद्धवज्रधरादीनां यथावद्धर्ममण्डले / ध्यानं सर्वसमत्वं हि वज्रविद्योत्तमस्य तु // 1 //

मायोपमं जगदिदं दुःखं गण्ठोपमं तथा / निर्वाणं सर्वदुःखानां वज्रं भेदिष्वनुत्तरम् // इति // 2 //

विद्याराजसमाधयः //

क्रोधो ऽग्रयः सत्वविनये सौम्यत्वं मारणं ध्रुवम् / दण्डात् समो न निर्घातो मिथ्यादृष्टिर्भयंकरः // इति //

वज्रक्रोधसमाधयः //

मदात्तुल्यो न धैर्यास्ति मालातुल्यन्न बन्धनम् / स्त्रियो हि रागो जगद्वशंकरः धैर्यमात्रा पराजिता // इति //

गणसमाधयः //

प्रहारो निग्रहाग्रयो हि स्पर्शानां तु समीरणः / तेजसां हुतभुग् ज्येष्ठः भोजनानां तु लोहितम् // इति //

दूतसमाधयः //

दंष्ट्रा शुद्धः प्रविष्टस्तु मृत्युः सर्व पदे स्थितः / भयात्तुल्यो न विघ्नास्ति जलात्तुल्यो न वै रस // इति //

चेटसमाधयः //

सर्वतथागतवज्रसमयान् महाकल्पराजात् सर्ववज्रकुलधर्मसमयमण्डलविधिविस्तरः समाप्तः //

छप्तेर् 14 सर्व-वज्र-कुल-कर्म-मन्दल-विधि-विस्तर

अथ भगवान् पुनरपि सर्वतथागतकर्मसमयोद्भववज्राधिष्ठानन्नाम समाधिं समापद्येमां स्ववि[द्योत्तमामभाषत् / ओं वज्र] कर्मप्रवर्तनि समये हूं //

अथ वज्रपाणिः पुनरपि स्वकर्मोत्तममभाषत् [ओं वज्रविलासे पूजय हूं //] अथ वजगर्भः स्वकर्मोत्तममभाषत् ओं वज्राभिषेके ऽभिषिञ्चे हूं //

अथ वज्रनेत्रः स्वकर्मोत्तममभाष[त् ओं वज्रगीते गाहि हूं //] अथ वज्रविश्वो बोधिसत्वः स्वकर्मविद्योत्तममभाषत् ओं वज्रनृत्ये नृत्य हूं //

अथ वज्रविद्योत्तम [इमां स्वकर्मसमयामभाषत्] ओं वज्रविद्योत्तम नृत्य नृत्य विकुर्व विकुर्व हुं फट् //

अथ वज्रक्रोधवज्राग्नि महादेवीमां स्वकर्मसम[यामभाषत् ओं वज्रक्रोध] वज्राग्ने ज्वालय त्रिशूलं भिन्द हृदयं वज्रेण हूं फट् //

अथ वज्रहेमा महादेवीमां स्वकर्मसंमयामभाषत् [ओं वज्रहेमे च्छिन्द चक्रेण] वज्रिणि हूं फट् //

अथ वज्रकौमारीमां स्वकर्मसमयामभाषत् ओं वज्रकौमारी शीघ्रमावेशय घण्[टाशब्देन] वज्रपाणिप्रिये वज्रसमयमनुस्मर रण रण हूं फट् //

अथ वज्रशान्तिर्महादेवीमां स्वकर्मसमयामभाषत् ओं वज्रशा[न्त जप ज]पाक्षमालया सर्वान् मारय शान्त दृष्ट्या हूं फट् /

अथ वज्रमुष्टिर्महादेवीमां स्वकर्मसमयामभाषत् ओं वज्रमुष्टि [हन हन] वज्रेण भिन्द भिन्द पीडय पीडय सर्वदुष्टहृदयानि ओं सुंभ निसुंभ हूं फट् //

विद्याराजनिकाः //

अथ [वज्रामृतक्रोधा इमां स्वकर्मसमयामभाषत् ओं वज्रामृते सर्वदुष्टान् गृह्ण बन्ध हन पच विध्वंसय विनाशय भिन्द च्छिन्द भस्मीकुरु मूर्धन्तानुय [वज्रेण ये केतुमममुकस्य] विध्नविनायकास्तान् दामय दीप्तक्रोधवज्रिणि हूं फट् //

अथ वज्रकान्तिः स्वकर्मसमयामभाषत् ओं वज्रकान्ति मा[रय सौम्यरूपे प्र]दीप्तरागेण शीघ्रं स्फोटय हृदयं वज्रधरसत्येन महाज्योत्स्नाकराले शीतरश्मिवज्रिणि हूं फट् //

अथ वज्रदण्डाग्रा स्वकर्मस[मयामभाषत्] ओं वज्रदण्डाग्रे घातय हुं फट् //

अथ वज्रमेखला महाक्रोधा इमां स्वकर्मसमयामभाषत् ओं वज्रमेखले ख[न खन शब्देन वशीकु]रु दुष्ट्या मारय भीषणि हूं फट् //

क्रोधविद्याः //

अथवज्रविलया स्वकर्मसमयामभाषत् ओं वज्रवि[लये च्छिन्द सिन भिन्द व]ज्रिणी मादयोन्मादय पिव पिव हूं फट् //

अथ वज्राशना स्वकर्मसमयामभाषत् ओं वज्राशने भ[क्षय सर्वदुष्टान् वज्रदशनि शक्तिधारि]णि मानुषमांसाहारे नररुचिराशुभप्रिये मज्जवसानुलेपनविलिप्तगात्रे आनय सर्वधनधान्यहिरण्यसुव[र्णादीनि संक्रामय बलदेवरक्षि]णि हूं फट् //

अथ वज्रवसना स्वकर्मसमयमभाषत् ओं वज्रवसने आनय सर्ववस्त्रान्नपानाद्यु प[करणानि शीघ्रं वशीकुरु एनं] मे प्रयच्छाविशाविश सत्यं कथय वज्रकोशधारिणि हूं फट् /

अथ वज्रवशी स्वकर्मसमयामभाषत् ओं [वज्रवशी आनय वशीकुरु सर्वस्त्रिय] सर्वपुरुषान् दासीकुरु ऋद्धान् प्रसादय व्यवहारेभ्यो ऽप्युत्तारय विजयकरि वज्रपताकाधारिणि हुं [फट् //

वज्रगणिकाः //

अथ वज्र] दूतीमां स्वकर्मसमयामभाषत् ओं वज्रदूति आनय सर्वान् मण्डलं प्रवेशयावेशय बन्धय सर्वकर्मा[णि मे कुरु शीघ्रं शीघ्रं लघु लघु] त्रासय मारय रावेण वज्रखङ्गधारिणि हुं फट् //

अथ वेगवज्रिणि स्वकर्मसमयामभाषत् ओं वेगवज्रिणी घु घु] घु घु शब्देन मारय विकिर विध्वंसय वज्रपटधारिणि हुं फट् //

अथ वज्रज्वाला स्वकर्मसमयामभाषत् ओं वज्रज्वालय स]र्वं वज्र ज्वालय दह दह भस्मीकुरु हुं फट् //

अथ वज्रविकटा स्वकर्मसमयामभाषत् ओं वज्रविकटे प्रविकट[दंष्ट्राकरालभीषण]वक्ते शीघ्रं गृह्णावेशय भक्षय रुधिरं पिव महायक्षिणि वज्रपाशधारिणि हुं फट् //

वज्रदूत्य //

अथ वज्रमु[खी वज्रचेटी स्व]कर्मसमयामभाषात् ओं वज्रमुखि आनय वज्रदंष्ट्रि भयानिके पातालनिवासिनि खन खन खाहि खाहि सर्व मुखे [प्रवेशय स्फोट]य मर्माणि सर्वदुष्टानां वज्रनिशितासिधारिणि हुं फट् //

अथ वज्रकाली स्वकर्मसमयामभाषत् ओं वज्रकालि [महाप्रेत]रूपिणि मानुषमांसरुधिरप्रिये एह्येहि गृह्ण गृह्ण भक्षय वज्रडाकिनि वज्रशङ्कले सर्वदेवगणमातृभूते हर हर [प्राणानमुकस्य] कपालमालालंङ्कृतसर्वकाये किं चिरायसि वज्रखट्वाङ्गधारिणि प्रेतमानुषशरीरे शीघ्रमावेशय प्रवेशय बन्ध[य वशीकुरु मारय वज्रराक्षसि हूं हूं हूं हूं फट् //]

अथ वज्रपूतना स्वकर्मसमयामभाषत् अथ वज्रपूतने मानुषमांसवसारुधिरमूत्रपुरीषश्लेष्मसिंघाणकरे[तो गर्भकरिण्य याहि] शीघ्रमिदमस्य कुरु वज्रशोधनिकाधारिणि सर्वकर्माणि मे कुरु हुं फट् //

अथ वज्रमकरीमां स्वकर्मसमयामभाषत् [ओं वज्रमकरि ग्र]स ग्रस शीघ्रं शीघ्रं प्रवेशय पातालं भक्षय वज्रमकरधारिणि हुं फट् //

वज्रचेट्यः //

delineation of the mandala

अथ वज्रपाणिः पुनरपीदं सर्ववज्रकुलकर्ममण्डल[मभाषत् //

अ]थातः संप्रवक्ष्यामि कर्ममण्डलमुत्तमम् / वज्रमण्डलयोगेन सूत्रयेत् सर्वमण्डलम् // 1 //

मण्डलाग्राणि सर्वाणि बुद्धमध्यस्थितानि [वै / अनुपूर्वेण प]ङ्क् त्या वै महासत्वान्निवेशयेत् // 2 //

तस्य मध्ये सपत्नीकं वज्रविद्योत्तमं स्वयम् / वज्रलास्यदिभिर्गुह्यनृत्यपूजाभिरर्चयेत् // 3 //

[तत्र देवी यथाक्रमं] चक्रमण्डलयोगतः / स्वमुद्राप्रतिमुद्राभिर्नृत्यमानास्तु संलिखेत् // 4 //

पूजार्थ बुद्धवज्रिभ्यां वज्रनृत्यप्रयोगतः / [चतुरश्रद्वारेषु वै यथाक्रमं धू]पादिकम् // इति // 5 //

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.