Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Chưa xếp loại
सर्वतथागततत्त्वसंग्रह
- Thông tin
- GRETIL — Lokesh Chandra: Sarva Tathāgata Tattva Saṅgraha. Delhi : Motilal Banarsidas, 1987.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
अग्राङ्कुशाग्रसंयोगाद् साधुकारप्रदायिका / वज्रसत्वचतुष्कस्य सिद्धिमुद्रागणो ह्ययम् // 7 //
रत्नवज्रा समाङगुष्ठतर्जनीमुखसन्धनात् / सा एव मध्यमानामकनिष्ठा सुप्रसारिता // 8 //
पताका तु समानामकनिष्ठाभ्यां समन्विता / हासस्थानस्थिता चैव सा एव परिवर्तिता // 9 //
प्रसारितसमाङगुष्ठस्थिता कुञ्चिततर्जनी / सा एव वर्जकोशा तु मध्यमा मुखसन्धिता // 10 //
सा एव तु समानामकनिष्ठा चक्रसंज्ञिता / निर्युक्ताङगुष्ठबन्धा तु प्रसारितमुखोत्थिता // 11 //
कनिष्ठाङगुष्ठमुखयोः समाजात् कर्मवर्जिता / सा एव तु समाग्र्या वै हृदिस्था सुप्रसारिता // 12 //
कुञ्चिताग्र् याग्रदंष्ट्रा तु कनिष्ठा सन्धिमोक्षिता / कनिष्ठान्तरतो ऽङगुष्ठौ पीडयेत्कुञ्चिताग्र्यया // 13 //
हृदये तु समाङगुष्ठा सुप्रसारितमालिनी / अङगुल्यग्रमखोद्धान्ता नृत्यतो मूर्ध्नि संयुता // 14 //
वज्रबन्ध त्वधो दानात् स्वाञ्जलिश्चोर्ध्वदायिका / समाङगुष्ठनिपीडा च सुप्रसारितलेपना // 15 //
एकतर्जनीसंकोचा द्व्यङगुष्ठग्रन्थिबन्धिता / अङगुष्ठाग्र यकटा बन्धा वज्रटमुष्ट्यग्रसन्धिता // इति // 16 //
अथासां साधनं वक्ष्ये वज्रसाधनमुत्तमम् / स्वमुद्रया हृदिस्थया सत्त्ववज्रसमाधिना // 17 //
अथासां कर्म वक्ष्यामि वज्रकर्म निरुत्तरम् / वज्रधात्वादिमुद्रासु समाजेन तथागताः // 18 //
मण्डलाचार्यशिष्याणामधिष्ठास्यन्ति तत्क्षणात् / सत्त्ववज्र् यान्तु बद्धायां भवेद्वज्रधरोपमः // 19 //
वज्राङ्कुश्यां बद्धमात्रायां सर्वबुद्धां समाह् वयेत् / रागवज्रप्रयोगेण स बुद्धानपि रागयेत् // 20 //
[वज्रसाधुबन्धेन बुद्धदानतुष्टिं लभति /] वज्रतुष्ट्या जिनैः सर्वैः साधुकारैः प्रशंस्यते // 21 //
रत्नवज्र् यान्तु बद्धायां बुद्धैः सो ऽप्यभिषिच्यते / वज्रसूर्यां बध्वा वै भवेद् बुद्धप्रभोपमः // 22 //
वज्रकेतुधरो भूत्वा सर्वाशाः स तु पूरयेत् / वज्रहासप्रयोगेण सर्वबुद्धैः समं हसेत् // 23 //
धर्मवज्रां समाधाय वज्रधर्मोपमो भवेत् / वज्रकोशां तु संगृह्य सर्वक्लेशां च्छिनत्ति सः // 24 //
वज्रचक्रां दृढीकृत्वा मण्डलाधिपतिर्भवेत् / वज्रभाषप्रयोगेण वज्रवाक्सिद्धिरुत्तमा // 25 //
कर्मवज्रां तु सन्धाय वज्रकर्मसमो भवेत् / वज्रवर्मां दृढीकृत्वा कायो वज्रमयो भवेत् // 26 //
वज्रदंष्ट्राग्रमुद्रया दुष्टमारां स भञ्जति / वज्रमुष्टिं दृढां बध्वा सर्वमुद्रां वशन्नयेत् // 27 //
लास्यया रतयो दिव्याः मालया भूषणानि च / गीतया स्फुटवाचो नित्यं पूजां लभति नृत्यया // 28 //
धूपया ल्हादयेद् लोक पुष्पया रूपशोभिताम् / दीपया लोकशुद्धित्वं गन्धया दिव्यगन्धताम् // 29 //
वज्राङकुशः समाकर्षेद् वज्रपाशा प्रवेशयेत् / वज्रस्फोटा तु बन्धयाद् वज्रघण्टा समाविशेद् // 30 // इति //
अथ धममुद्रा भवन्ति /
वज्रज्ञानं तु बुद्धानां वज्रधातु दृढंकरम् / अतः परं प्रवक्ष्यामि धर्ममुद्रा यथाविधि // 1 //
"समयस्त्वम्" इति प्रोक्ते सर्वमुद्रापतिर्भवेत् / "अन्यस्व" इति वै प्रोक्ते बुद्धानाकर्षयेद् ध्रुवम् // 2 //
"अहो सुख" इति प्रोक्ते बुद्धानपि स रागयेत् / "साधु साध्व्" इति वै प्रोक्त्वा साधुकारैः स तोषयेत् // 3 //
"सुमह[त्त्वम्" इति] प्रोक्ते सर्वबुद्धाभिषेचनम् / "रूपोद्योते"- ति वै प्रोक्ते धर्मतेजो भविष्यति // 4 //
"अर्थप्राप्तिर" इति प्रोक्ते सर्वाशाः पूरयेत् स तु / "ह ह हूं हे- "[ति प्रोक्ते समबुद्धहासं प्राप्नु] यात् // 5 //
"सर्वकारि" इति प्रोक्ते अकार्यमपि शोधयेत् / "दुः खच्छेद" इति प्रोक्ते सर्वदुःखाञ्छिनत्ति सः // 6 //
["बुद्ध बोधि" इति] प्रोक्ते मण्डलाधिपतिर्भवेत् / "प्रतिशब्द" इति प्रोक्ते बुद्धैः सहसमालपेत् // 7 ///
"शुभसिद्धम्" इति प्रोक्ते वशित्वं सर्वतो भवेत् / ["निर्भयस्त्वम्" इति] प्रोक्ते निर्भयो भवेत्तत्क्षणात् // 8 //
"शत्रु भक्ष" इति प्रोक्ते सर्वशत्रुन् स भक्षयेत् / "सर्वसिद्धिर्" इति प्रोक्ते सर्वसिद्धिर्भविष्यति // 9 //
["महारति" रतिं] दिव्यां "रूपशोभा" तथैव च / "श्रोत्रसौख्या" सुखं दद्यात् "सर्वपूजा" सुपूजताम् // 10 //
"प्रल्हादिनि" मनःसौख्यं "फलागमी" फलागमा / "सु[तेजाग्रि" महातेजः] "सुगन्धाङ्गि" सुगन्धताम् // 11 //
"अयाहि जः" समाकर्षा "अहि हूं हूं" प्रवेशिका / "हेस्फोट वं" महाबन्धा "घण्टा अः अः" प्रचालिते- // ति // 12 //
अथासां धर्ममुद्रा [साधनं प्र] वक्ष्यते शुभम् / जिव्हायां भावयेद् वज्रां सर्वकर्माणि कुर्वते // ति // 13 //
अथ कर्ममुद्राबन्धो भवति /
वज्रमुष्टिं दृढां बध्वा द्विधीकुर्यात्समाहितः / वज्रमुद्राद्वयं भूयात् ततो बन्धः प्रवक्ष्यते // 1 //
वामवज्राङगुलिर्ग्राह्यं दक्षिणेन समुत्थिता / बोधाग्री नाम मुद्रेयं बुद्धबोधिप्रदायिका // 2 //
अक्षोभ्यस्य भूमिस्पर्शा रत्ने तु वरदा तथा / अमितायोः समाध्यग्रा अमोघस्याभयप्रदा // 3 //
अतः परं प्रवक्ष्यामि कर्ममुद्रा समासतः / वज्रसत्त्वादिसत्त्वानां वज्रकर्मप्रवर्तिकाः // 4 //
सगर्वोत्कर्षणं द्वाभ्यामङ्कु शग्रहसंस्थिता / वाणघन्तनयोगाच्च साधुकारा हृदि स्थिता // 5 //
अभिषेके द्विवज्रं तु हृदि सूर्यप्रदर्शनम् / वामस्थबाहुदण्डा च तथास्ये परिवर्तिता // 6 //
सव्यापसव्यविकचा हृद् वामां खड्गमारण / अलातचक्रभ्रमिता बज्रद्वयमुखोत्थिता // 7 //
वज्रनृत्यभ्रमोन्मुक्तं कपोलोष्णीषसंस्थिता / कवचा कनिष्ठदंष्ट्राग्र्या मुष्टिद्वयनिपीडिता // 8 //
वज्रगर्वाप्रयोगेण नमेदाशयकंपितैः / मालाबन्धा मुखोद्वान्ता वज्रनृत्यप्रनर्तिता // 9 //
वज्रमुष्टिप्रयोगेण दद्याद् धूपादयस्तथा / सर्वबुद्धप्रपूजायाः पूजामुद्राः प्रकल्पिता // 10 //
तर्जन्यङ्कुशबन्धेन कनिष्ठाया महाङ्कुशी / बाहुग्रन्थिकटाग्र्याभ्यां पृष्ठयोश्च निपीडिता // इति // 11 //
अथासां साधनं वक्ष्ये वज्रकर्मकृता समम् / सर्ववज्रमयं वज्रं हृदये परिभावयेद् // इति // 12 //
अथासां कर्ममुद्राणां वज्रकर्माण्यनेकधा / ज्ञानमुष्ट्यां तु बद्धायां बुद्धज्ञानं समाविशेत् // 13 //
अक्षोभ्यायां तु बन्धायामक्षोभ्यं भवेत् मनः / रत्नसंभवमुद्रायां परानुग्रहवान् भवेत् // 14 //
सद्धर्मचक्रमुद्रायां धर्मचक्रं प्रवर्तयेत् / अभयाग्र्या भवेत क्षिप्रं सर्वसत्त्वामयप्रदः // 15 //
ज्रगर्वां दृढीकृत्य वज्रसत्वसुखं लभत् / वज्राङ्कुश्या समाकर्षेत् क्षणात् सर्वतथागतान // 16 //
रागयेद् वज्रवाणैस्तु वज्रभार्यामपि स्वयम् / वज्रतुष्ट्या जिनाः सर्वे साधुकारान् ददन्ति हि // 17 //
महावज्रमणिं बध्वा शास्तृभिः सो ऽभिषिच्यते / वज्रसूर्यां समाधाय वज्रसूर्यसमो भवेत् // 18 //
वज्रध्वजां समुच्छ्राप्य रत्नवृष्टिं स वर्षयेत् / वज्रस्मितां समाधाय हसेद् बुद्धैः समं लघु // 19 //
वज्रफुल्लां समाधाय वज्रधर्मं स पश्यति / वज्रकोशां दृढं बध्वा सर्वदुःखाञ्छिनत्ति सः // 20 //
वज्रचक्रं समाधाय धर्मचक्रं प्रवर्तयेत् / सर्वं वै बुद्धवचनं सिध्यते वज्रजापतः // 21 //
[वज्रनृत्यपूजया बुद्धो ऽपि वशिभूतं भवेत्] / वज्रवर्म निबध्वा सो वज्रसारत्वं प्राप्नुयात् // 22 //
वज्रदंष्ट्रं समाधाय [प्रध्वंसेद् वज्रत्वमपि] / वज्रमुष्ट्याहरे[त् सर्वं मुद्रासिद्धिरालभ्यते] // 23 //
वज्रलास्या रतिन् दद्याद् वज्रमाला सुरूपताम् / वज्रगीता सुगीता [त्वं वज्रनृत्या च वशयेत्] // 24 //
धूपया तु मनोल्हादं पुष्पयाभरणानि तु / दीपपूजा महादीप्तिं वज्रगन्धा सुगन्धताम् // 25 //
वज्राङ्कुश्या समाकर्षेद् वज्र आशा प्रवेशयेत् / बन्धयेद् वज्रनिगडा वज्रघण्टा तु चालयेद् // इति // 26 //
अथ सर्वमुद्राणां सामान्या बन्धविधिविस्तरो भवति / तत्रादित एव वज्रबन्धाङ्गुलीं तालं कृत्वा हृदये, इदं हृदयमुच्चारयेत् वज्रबन्ध त्रट् // ततः सर्वमुद्राबन्धाः स्वकायवाक्चित्तवज्रेषु वशीभवन्ति //
ततो वज्रावेशसमयमुद्रां बध्वा, इदं हृदयमुच्चारयेत् अः // ततः समाविष्टा मित्रत्वेनोपतिष्ठन्ति //
ततो मुद्रासमयमहासत्त्वाननुस्मृत्येदं हृदयमुदाहरेत् महासमयसत्त्वो ऽहम् // अनेन सर्वमुद्राः सिद्ध्यन्तीति / सर्वमुद्राविधिविस्तरः //
अथ सामान्यः साधनविधिविस्तरो भवति / तत्रादित एव स्वमुद्रां बध्वा स्वमुद्रासत्वमात्मानं भावयेदनेन हृदयेन समयो ऽहम् //
ततः स्वमुद्रासत्त्वमात्मानं भाव्य तेनाधिष्ठायेदनेन मन्त्रेण समयसत्त्वाधितिष्ठस्व माम् / ततः साधयेदिति / साधनाविधिविस्तरः //
अथ सिद्धिविधिविस्तरो भवति / तत्रादित एव अर्थसिद्धिमिच्छता तेन हृदयेन अर्थसिद्धि // अनेन सिद्धा मुद्रा महार्थोत्पत्तिन् करोति //
अथ वज्रसिद्धिमिच्छेदनेन हृदयेन वज्रसिद्धि // अनेन यथाभिरुचितवज्रसिद्धो भवति //
अथ विद्याधरसिद्धिमिच्छेदनेन हृदयेन वज्रविद्याधर // अनेन यथाभिरुचितविद्याधरसिद्धिः / अथोत्तमसिद्धिमिच्छेत् स्वमुद्राहृदयेनेति / सिद्धिविधिविस्तरः //
अथ सर्वमुद्राणां सामान्यः स्वकायवाक्चित्तवज्रेषु वज्रीकरणविधिविस्तरो भवति / यदा मुद्राधिष्ठानं शिथिलीभवति, स्वयं वा मुक्तुकामो भवति, ततो ऽनेन हृदयेन दृढीकर्तव्या / ओं वज्र सत्त्वसमयमनुपालय, वज्रसत्त्वत्वेनोपतिष्ठ, दृढो मे भव, सुतोष्यो मे भवानुरक्तो मे भव, सुपोष्यो मे भव, सर्वसिद्धिञ्च मे प्रयच्छ, सर्वकर्मसु च मे चित्तश्रेयः कुरु हूं ह ह ह ह होः भगवन् सर्वतथागतवज्र मा मे मुंच, वज्रीभव महासमयसत्व आः //
"अनेनानन्तर्यकारिणो ऽपि सर्वतथागतमोक्षा अपि सद्धर्मप्रतिक्षेपका अपि सर्वदुष्कृतकारिणो ऽपि सर्वतथागतमुद्रासाधका वर्जसत्त्वदृढीभावादिहैव जन्मन्यासु यथाभिरुचितां सर्वसिद्धिमुत्तमसिद्धिं वज्रसिद्धिं वज्रसत्त्वसिद्धिं वा यावत् तथागतसिद्धिं वा प्राप्स्यन्ती- "त्याह भगवां सर्वतथागतवज्रसत्त्वः //
अथ स्वमुद्राणां सामान्यो मोक्षविधिविस्तरो भवति / तत्रादित एव यतोयतः समुत्पन्ना मुद्रा तान् तत्रतत्रैव मुञ्चेदनेन हृदयेन वज्र मुः //
ततो हृदयोत्थितया रत्नवज्रिमुद्रया स्वाभिषेकस्थानस्थितयाभिषिच्याग्राङ्गुलिभ्यां मालां वेष्टव्यं बध्वा तथैव कवचं बन्धयेदनेन हृदयेन ओं रत्नवज्राभिषिञ्च सर्वमुद्रा मे दृढीकुरु वरकवचेन वम् //
ततः पुनः कवचान्तं मालाबन्धं कृत्वा, समतालया तोषयेदनेन हृदयेन वज्र तुष्य होः //
अनेन विधिना मुद्रा मुक्ता बद्धाश्च तोषिता / वज्रत्वमुपयास्यन्ति वज्रसत्त्वेन वा पुनः //
वज्रसत्त्वः सकृज्जप्तो यथाकामं सुखात्मना / सिध्यते जापमात्रेण वज्रपाणिवचो यथा //
इत्याह भगवान् समन्तभद्रः //
वज्रसत्त्वादिसत्त्वानां सर्वसाधनकर्मसु / जापस्तु रुचितो ऽप्यत्र सर्वकल्पेषु सिद्धिदः //
हृन्मुद्रामन्त्रविद्यानां यथाभिरुचितैर्नयैः / कल्पोक्तैः स्वकृतैर्वापि साधनं त्वत्र सर्वतः // इति //
ततः पूजागुह्यमुद्रामुदाहरन्, गुह्यपूजाचतुष्टयं कार्यम्, अनेन वज्रस्तुतिगीतेन गायन् / ओं वज्रसत्त्वसंग्रहाद् वज्ररत्नमनुत्तरम् / वज्रधर्मगायनैश्च वज्रकर्मकरो भव //
ततो ऽभ्यन्तरमण्डले ऽप्यनेनैव वज्रस्तुतिगीतेन वज्रनृत्यकरपुटेन गृह्य धूपादिभिः पूजा कार्या / ततो बाह्यमण्डले वज्रधूपादिभिः पूजां कृत्वा, ताः पूजा स्वस्थानेषु स्थापयेत् / ततः "सर्वे यथाशक्त्या पूजयन्त्वि" ति सर्वतथागतान् विज्ञाप्य, यथेच्छया धूपादिभिः पूजां कारयित्वा, यथा प्रविष्टां यथा विभवतः सर्वरसाहारविहारादिभिः सर्वोपकरणर्महामण्डले निर्यातितैः सन्तुष्येदं सर्वतथागतसिद्धिवज्रव्रतं दद्यात् /
इदं तत्सर्वबुद्धत्वं वज्रसत्त्वकरे स्थितम् / त्वयापि हि सदा धार्यं वज्रपाणिदृढव्रतम //
ओं सर्वतथागतसिद्धि वज्रसमय तिष्ठ एष त्वा धारयामि वज्रसत्व हि हि हि हि हूं //
ततः " सर्वेषां पुनरपि न कस्यचिद् वक्तव्यम्" इति शपथहृदयमाख्येयं / ततो यथा प्रविष्टान् संप्रेष्य सर्वतथागतान् विज्ञापयेत्, सत्ववज्रिमुद्रां बध्वोर्ध्वतो मुञ्चेद्, इदं च हृदयमुच्चारयेत् /
ओं कृतो वः सर्वसत्वार्थः सिद्धिर्दत्ता यथानुगा / गच्छध्वं बुद्धविषयं पुनरागमनाय तु // वज्रसत्त्व मुः //
एवं सर्वमण्डलेषु कर्तव्यं / समयाग्र्या मुद्रासु च मोक्त इति //
सर्वतथागतमहायानाभिसमयान् महाकल्पराजाद् वज्रधातुमहामण्डलविधिविस्तरः समाप्तः //
छप्तेर् 2 वज्र-गुह्य-वज्र-मन्दल-विधि-विस्तर
अथ भगवान् सर्वतथागतसर्ववज्रधरणीसमयसंभववज्रन्नाम समाधिं समापन्नः / समनन्तरसमापन्ने चाथ तावदेव सर्वतथागतहृदयेभ्यः / स एव भगवान् वज्रपाणिः वज्रधररूपधारिण्यः समन्त ज्वालागर्भा वज्रधारणीसमयमुद्रा देवता भूत्वा विनिःसृत्य, सर्वलोकधातुषु सर्वबुद्धानां सर्वतथागतवज्रधारणी ज्ञानानि निष्पाद्य, सर्वतथागतसमयमुद्राबिम्बानि भूत्वा, सर्वतथागतानां वज्रधातुमहामण्डले सन्निवेशयोगेन चन्द्रमण्डलान्याश्रित्येदमुदानमुदानयामास /
अहो हि बोधिचित्तस्य सर्वसत्वहितैषिता / यद् विनयवशाद् धीराः स्त्रीरूपमपि कुर्वते //
emanation of deities from samadhi
अथ भगवान् सर्वतथागतज्ञानमुद्रासमयवज्रधात्वधिष्ठानं नाम समाधिं समापद्येमां स्वविद्यात्तमामभाषत् ओं वज्रधात्वीश्वरि हूं वज्रिणि //
अथ खल्वक्षोभयस्तथागतः सर्वतथागतवज्रसत्वसमयज्ञानमुद्रामण्डलाधिष्ठानन् नाम समाधिं समापद्येमां स्वविद्योत्तमामभाषत् ओं वज्रवज्रिणि हूं //
अथ रत्नसंभवस्तथागतः सर्वतथागतवज्ररत्नसमयज्ञानमुद्रामण्डलाधिष्ठानन् नाम समाधिं समापद्येमां स्वविद्योत्तमामभाषत् ओं रत्नवज्रिणि हूं //
अथामितायुस्तथागतः सर्वतथागतवज्रधर्मसमयज्ञानमुद्रामण्डलाधिष्ठानन् नाम समाधिं समापद्येमां स्वविद्योत्तमामभाषत् ओं धर्मवज्रिणि हूं //
अथामोघसिद्धिस्तथागतः सर्वतथागतवज्रकर्नसमयज्ञानमुद्रामण्डलाधिष्ठानन् नाम समाधिं समापद्येमां स्वविद्योत्तमामभाषत् ओं कर्मवज्रिणि हूं //
अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतमहाधारणीसमयमुद्राचतुष्टयमभाषत् //
ओं वज्रसत्वगुह्यसमये हूं //
ओं गुह्यवज्राङ्कुशि हूं //
ओं वज्रगुह्यरागे रागय हूं //
ओं गुह्यवज्रसाध्वीश्वरि हूं //
समन्तभद्रा, तथागताङ्क शी, रतिरागा, साधुमती च / वज्रधारण्यः / ओं वज्रगुह्यरत्नसमये हूं //
ओं वज्रगुह्यप्रभे हूं //
ओं वज्रध्वजाग्रगुह्ये हूं //
ओं गुह्यहासवज्रि हूं //
रत्नोत्तमा, रत्नोल्का, ध्वजाग्रकेयूरा, हासवती च / रत्नधारण्यः //
ओं वज्रधर्मगुह्यसमये हूं //
ओं वज्रकोशगुह्ये हूं //
ओं वज्रगुह्यमण्डले हूं //
ओं वज्रगुह्यजापसमये हूं //
वज्राम्बुजा, आधारणी, सर्वचक्र, सहस्रावर्ता च / धर्मधारण्यः //
ओं वज्रगुह्यकर्मसमये हूं //
ओं वज्रगुह्यकवचे हूं //
ओं गुह्यवज्रदंष्ट्राधारिणि हूं //
ओं वज्रगुह्यमुष्टि हूं //
सिद्धोत्तरा, सर्वरक्षा, तेजःप्रत्याहारिणी, धरणीमुद्रा च / सर्वधारण्य इति //
अथ वज्रपाणिर्महाबोधिसत्वः पुनरपि सर्वतथागतवज्रगुह्यसमयमुद्राचतुष्टयमभाषत् / ओं गुह्यसत्ववज्रि हूं //
ओं गुह्यरत्नवज्रि हूं //
ओं गुह्यधर्मवज्रि हूं //
ओं गुह्यकर्मवज्रि हूं //
ता एव वज्रपारमितादयः सर्वतथागतवज्रगुह्यसमयधारणीसंग्रहसमयमुद्राः / वज्रधत्वीश्वरीमहामण्डले सज्वालाः चन्द्रमण्डलाश्रिताः स्थाप्याः //
अथ पुनरपि वज्रपाणिः सर्वतथागत वज्रगुह्यपूजासमयमुद्राचतुष्टयमभाषत् / ओं वज्रगुह्यरतिपूजासमये सर्वपूजां प्रवर्तय हूं //
ओं वज्रगुह्याभिषेकपूजासमये सर्वपूजां प्रवर्तय हूं //
ओं वज्रगुह्यगीतापूजासमये सर्वपूजां प्रवर्तय हूं //
ओं वज्रगुह्यनृत्यपूजासमये सर्वपूजां प्रवर्तय हूं //
ता एव वज्रलास्यादयः सज्वालाः स्वचिन्हा मुद्राश्चक्रमण्डलकोणचतुष्टये स्थाप्याः //
delineation of the mandala
अथ वज्रपाणिः पुनरपीदं वज्रगुह्यं नाम महावज्रमण्डलमभाषत् / अथातः संप्रवक्ष्यामि वज्रमण्डलमुत्तमं / वज्रधातुप्रतीकाशं वज्रगुह्यमितिस्मृतं // 1 // महामण्डलयोगेन सर्वमण्डलमालिखेत् / सर्वमण्डलमध्येषु बुद्धमुद्राः समालिखेत् // 2 //
पर्यङके सुस्थितं चैत्यं वज्रधात्वीश्वरी स्मृता / पर्यङ्के वज्रा वज्रां तु वज्रचिन्तेति कीर्तिता // 3 // //
वज्ररत्नं तु पर्यङ्के स्वाभिषेकेति कीर्तिता / पर्यङ्के वज्रपद्मं तु आयुधैति प्रकीर्तिता // 4 //
कर्मवज्रं तु पर्यङ्के सर्ववज्रेति कीर्तिता / पद्मप्रतिष्ठाः समालेख्याः प्रभामण्डलसंस्थिताः // 5 //
पर्यङ्केतु लिखेद् वज्रमुत्थितं द्वयङ्कुशं तथा / वज्रं वज्रपरियुक्तं साधुकारद्वयं तथा // 6 //
रत्नं करोज्वलं कुर्यात्सूर्यमुद्रान्तथैव च / ध्वजाग्रं चैव सज्वालं दन्तपङिक्तर्द्विवज्रगे // 7 //
वज्रमध्ये लिखेत्पद्मं खड्गं सज्वालमेव च / वज्रारं वज्रचक्रं तु जिव्हां रश्मिकरोज्ज्वलां // 8 //
वज्रं तु सर्वतो वक्त्रं कवचं वज्रसंयुतं / वज्रदंष्ट्रे तथा लेख्ये मुष्टिमुद्रा करद्वये // 9 //
सत्ववज्रादयो लेख्या यथावद् धातुमण्डले / चिन्हमुद्राः समालेख्या वज्रलास्यादिमण्डले // 10 //
बाह्यातश्च यथायोगं स्वचिन्हंतु समालिखेत् / मैत्रेयादिस्वचिन्हानि यथाभिरुचितं लिखेद् // 11 // इति //
initiation into the mandala
अथात्र वज्रगुह्यमण्डले प्रवेशादिविविधविस्तरो भवति /
तत्र प्रथमं तावद्वज्राचार्यः स्वयं सत्ववज्रिमुद्रां बध्वा प्रविशेत्; प्रविश्य सकृत् प्रदक्षिणीकृत्य, तां मुद्रां भगवते वज्रपाणये निर्यात्य, स्वहृदये यथावन्मुक्त्वा, चतुर्षु द्वारेषु वज्राङ्कु शकर्ममुद्रादिभिर्यथावत् कर्माणि कृत्वा निष्क्रमेद्, अभिनिष्क्रम्य शिष्यां प्रवेशयेत् वज्रधातुमहामण्डलयोगेनेति / ततः प्रवेश्य मुष्ट्याच्छाद्य सिद्धिगुह्यवज्रचिन्हं दत्वा, वज्रगुह्यमुद्राज्ञानं शिक्षयेत् //
मुद्र
तत्र प्रथमं तावद् वज्रगुह्यकायमुद्राज्ञानं शिक्षयेत् /
चन्द्रमण्डलमध्ये तु हस्तपादाञ्जलिं मुखं / विजृंभन् भावयेद्वज्रं वज्रिणीमपि रागयेत् // 1 //
अङ्कुशं बाहुसंकोचं शीर्षे वज्रं तु भावयेत् / शब्दापयंस्तु हस्तेन आनयेदङ्कुशीमपि // 2 //
वाणप्रक्षेपयोगेन विजृंभन् प्रहरेद् हृदि / रागयेन्मारयोगेन रतिवज्रामपि स्वयं // 3 //
बाहुबन्धेन बध्नीयाद् हृदयं स्वयमात्मनः / वज्रवर्मप्रयोगेण रक्षेद् बुद्धमपि स्वयम् // इति // 4 //
तत्रैषां हृदयानि भवन्ति / वज्र रागय होः //
वज्राङ्कु श जः //
मारय मारय फट् //
बन्ध रक्ष हं //
ततो वज्रगुह्यदृष्टिमुद्राज्ञानं शिक्षयेत् /
वज्रदृष्टिस्तु संरागप्रहर्षोत्फुल्ललोचना / तया निरीक्षता स्त्री तु वश्या भवति शाश्वती // 1 //
प्रद्रुतप्रचलच्चक्षुः पक्ष्मकर्षणलोचना / दीप्तकृष्टिरिति प्रोक्ता सर्वमाकर्षयेज्जगत् // 2 //
प्रध्वस्तभृकुटीभङ्गक्रोधसंकुचितेक्षणं / क्रोधदृष्टिं समाधाय त्रैलोक्यमपि नाशयेत् // 3 //
मेरुमर्दनपाषाणदृढानिमिषलोचना / मैत्रीदृष्टिरिति ख्याता ज्वरग्रहविषापहा // इति // 4 //
अथासां हृदयानि भवन्ति / वज्रदृष्टि मट् //
दीप्तदृष्ट्याङ्कु शिज्जः //
क्रोधदृष्टि हीः //
दृढदृष्टि त्रट् //
ततो वज्रगुह्यवाङ्मुद्राज्ञानं शिक्षयेत् /
होः होः होः हो इति प्रोक्ते वाग्विवर्तितया क्षणात् / रागयेत् सर्वसत्वां सो वज्रवाचा परिस्फुटां // 1 //
ज्जः ज्जः ज्जः ज्ज इति प्रोक्ते क्रोधवाचा परिस्फुटां / आकर्षयेज्जगत्सर्वमपि वज्रधरोपमम् // 2 //
हुं हुं हुं हुं समाधाय शब्दवाचा परिस्फुटां / मारयेत् सर्वसत्वां सो मेरुमर्दनसन्निभाम् // 3 //
हं हं हं हं इति प्रोक्ते सूक्ष्मवाचा परिस्फुटां / रक्षेत् सर्वमिदं लोचमपि वज्रात्मकं जिनम् // इति // 4 //
तत्रैतानि हृदयानि भवन्ति / वज्र होः //
वज्र ज्जः //
वज्र हुं //
वज्र हं //
ततो वज्रगुह्यचित्तमुद्राज्ञानं शिक्षयेत् /
सर्वाकारवरोपेतं भावयन् स्वयमात्मना / वज्रपाणिं स्वमात्मानं सर्वबुद्धां वशन्नयेत् // 1 //
सर्वाकारवरोपेतं भावयन् स्वयमात्मना / वज्रगर्भं स्वमात्मानमाकर्षयेद्वज्रपाणिनं // 2 //
सर्वाकारवरोपेतं भावयन् स्वयमात्मना / वज्रनेत्रं स्वमात्मानं सर्वधर्मां स मारयेत् // 3 //
सर्वाकारवरोपेतं भावयन् स्वयमात्मना / वज्रविश्वं स्वमात्मानं सर्ववज्रं स रक्षति // इति // 4 //
तत्रैतानि हृदयानि भवन्ति / वज्रपाणि वशमानय सर्वबुद्धान् होः //
वज्रगर्भ वज्रपाणिं शीघ्रमाकर्षय हूं ज्जः //
वज्रनेत्र सर्वधर्मान् मारय हूं फट् //
वज्रविश्व रक्ष सर्ववज्रान् हं //
ततो वज्रगुह्यमुद्राज्ञानं शिक्षयेत् /
सत्ववज्रां समाधाय हृदये स्वयमात्मनः / वज्रदृष्ट्या निरीक्षन् वै सर्वमावेशयेज्जगत् // 1 //
रत्नवज्रां समाधाय हृदये स्वयमात्मनः / दीप्तदृष्ट्या निरीक्षन् वै सर्वमानयते वशं // 2 //
धर्मवज्रां समाधाय हृदये स्वयमात्मनः / क्रोधदृष्ट्या निरीक्षन् वै जगत्सर्वं स मारयेत् // 3 //
कर्मवज्रां समाधाय हृदये स्वयमात्मनः / मैत्रीदृष्ट्या निरीक्षन् वै रक्षेत्सर्वमिदं जगद् // इति // 4 //
अथासां वज्रगुह्यज्ञानमुद्राणां हृदयानि भवन्ति / वज्रगुह्यसमय अः //
वज्रगुह्यसमय होः //
वज्रगुह्यसमय हुं //
वज्रगुह्यसमय हं //
ततो वज्रगुह्यमुद्राबन्धं शिक्षयेत् /
वज्राञ्जलिसमुद्भूता महागुह्याः प्रकीर्तिताः / महामुद्राः समासेन तासां बन्धः प्रवक्ष्यते // 1 //
अङ्गुष्ठद्वयपर्यङ्का कुञ्चिताग्राग्रविग्रहा / सममध्योत्तमाङ्गा च वज्रधात्वीश्वरी स्मृता // 2 //
सा एव मध्यवज्रा तु मध्याभ्यां तु मणीकृता / मध्यानामान्त्यपद्मा च प्रसारितकराङ्गुली // 3 //
अग्र्या वज्रा दिवज्राग्री साङ्गुष्ठद्वयगूहिता / साधुकाराग्र्यरत्ना च स रत्नाग्राकरोज्वला // 4 //
समानामान्त्यरत्ना च सा एव परिवर्तिता / सुप्रसारितसर्वाग्रा समाङ्गुष्ठान्तरस्थिता // 5 //
प्रसारिताङ्गुलीमण्डासा एव तु मुखोद्धृता / अङ्गुष्ठवज्रसंच्छन्ना समाग्र्याभ्यन्तरस्थिता // 6 //
द्वयङ्गुष्ठविकचा सा तु ततो ऽभ्यन्तरवज्रिणी / वज्रगुह्याः पुनश्चैता वज्रबन्धसमुद्भवाः // 7 //
धर्मगुह्याः पुनश्चिन्हैः संपुटान्तरभावितैः / कर्मगुह्यान्तरस्थितैस्तु चिन्हैः कर्मप्रदर्शनम् // 8 //
अतः परं प्रवक्ष्यामि धर्ममुद्राः समासतः / आः ज्जः होः सः, उं आं त्रं हः, ह्रीः धं भं रं, कं हं हुं वं // 1 //
गुह्यमुद्रा द्विधिकृत्य कर्ममुद्रासु कल्पयेत् / यावद्यः समयाग्र्यो वै द्विधीकृत्य तथैव च // 2 //
अथासां साधनं वक्ष्ये समयस्त्वम् इति ब्रूवन् / स्वयं बध्वा तु सिध्यन्ते कामरागसुखात्मनः // 1 // आसां त्वधिकमेकं तु सर्वकालं न बन्धयेत् / गुह्ये वार्थमहत्कार्ये प्रयुञ्जीत् विचक्षणः // 2 //
यसर्वात्मसित्थात ह्येता दृढभार्याः स्वयंभुवां / साधकेषु दृढं रक्ता मा त्यजेयुः पतिन्निजम् // 3 // इति //
अथासां सर्वमुद्राणां बन्धादिति कर्माणि भवन्ति / वज्रवेशं समुत्पाद्य आत्मनश्च परस्य वा / बन्धयेद्वा बन्धयेद्वापि अनेन हृदयेन तु //
वज्र हूं बन्ध //
अथ मोक्षो भवति /
यतो यतः समुत्पन्नाः सर्वमुद्राः समासतः / तत्र तत्र तां मुञ्चेदनेन हृदयेन तु //
ओं वज्र मुः //
अथ दृढीकरणं भवति /
रत्न वज्रां दृढीकृत्य हृदयान्मूर्ध्नि मोक्षिता / अग्राभ्यां कवचं बन्धेदनेन हृदयेन तु //
ओं दृढ वज्रकवच धृट् //
अथ बन्धसमयो भवति /
यथा स्थानेषु वै मुक्ता कवचेन दृढीकृता / निबन्धेत्तालया सर्वा ह्यनेन हृदयेन तु //
ओं गुह्यसमयताल सः //
वज्रसत्वो रुचिजप्तिः सर्वमण्डलकर्मसु / प्रयोक्तव्यो ऽत्र समये सर्वसिद्धिकरः परम् // इति //
सर्वतथागतमहायानाभिसमयान् महाकल्पराजाद् वज्रगुह्यवज्रमण्डलविधिविस्तरः समाप्तः //
छप्तेर् 3 वज्र-ज्नन-धर्म-मन्दल-विधि-विस्तर
emanation of deities from samadhi
अथ भगवान् पुनरपि सर्वतथागतसूक्ष्मवज्रज्ञानमुद्रासमयमण्डलाधिष्ठानं नाम समाधिं समापद्येमां स्वविद्योत्तमामभाषत् ओं सूक्ष्मवज्रज्ञानसमय हूं //
अथ खल्वक्षोभ्यः तथागतः सर्वतथागतवज्रसत्वसूक्ष्मज्ञानसमयमण्डलाधिष्ठानन् नाम समाधिं समापद्येमां स्वविद्योत्तममभाषत् ओं वज्रसत्व सूक्ष्मज्ञानसमय हूं //
अथ खलु रत्नसंभवस्तथागतः सर्वतथागतवज्ररत्नसूक्ष्मज्ञानसमयमण्डलाधिष्ठानं नाम समाधिं समापद्येमां स्वविद्योत्तममभाषत् ओं वज्ररत्न सूक्ष्मज्ञानसमय हूं //
अथ खल्वमितायुस्तथागतः सर्वतथागतवज्रधर्मसूक्ष्मज्ञानसमयमण्डलाधिष्ठानं नाम समाधिं समापद्येमां स्वविद्योत्तममभाषत् ओं वज्रधर्म सूक्ष्मज्ञानसमय हूं //
अथ खल्वमोघसिद्धिस्तथागतः सर्वतथागतवज्रकर्मसूक्ष्मज्ञानसमयमण्डलाधिष्ठानन्नाम समाधिं समापद्येमां स्वविद्योत्तममभाषत् ओं वज्रकम सूक्ष्मज्ञानसमय हूं //
अथ भगवान् वैरोचनः सर्वतथागतसूक्ष्मज्ञानवज्रं नाम समाधिं समापन्नः, समनन्तरसमापन्ने च भगवत्यथ तावदेव सर्वतथागतहृदयेभ्यः सूक्ष्मज्ञानवज्ररश्मयो विनिश्चरित्वा, सर्वलोकधातवो ऽवभास्य सर्वसत्वानां, सर्वतथागतसूक्ष्मज्ञानवज्रसमाधिसमापत्तीन् दृढी कृत्य पुनरप्येकध्यीभूत्वा, समाधिज्ञानवज्रकायतामध्यालम्ब्यैकघनस्तथागतज्ञानः संभूय, भगवतो वैरोचनस्य हृदये प्रविष्टः //
अथ वज्रपाणिः सर्वतथागतज्ञानहृदयेभ्यः प्रविष्ट्वेदं सर्वतथागतसूक्ष्मज्ञानमहासमयवज्रमभाषत् सूक्ष्मवज्र //
अथास्मिन् भाषितमात्रे सर्वतथागतहृदयेभ्यो वज्रपाणिर्विनिःसृत्य, सर्वतथागतसूक्ष्मज्ञानवज्रबिम्बमात्मानमधिष्ठाय, सर्वतथागतनासिकाग्रेषु स्थित्वेदमुदानमुदानयामास / अहो हि सर्वबुद्धानां सूक्ष्मवज्रमहं महत् / यन्महत्वात्स सूक्ष्मो ऽपि त्रैधातुकमपि स्फरेद् // इति //
अथेदमुक्त्वा भगवान् वज्रपाणिर्महाबोधिसत्वः सर्वतथागतनासिकाग्रेभ्यः सुसूक्ष्मवज्रज्ञाननिमित्तस्फरणताय सर्वतथागतकायेभ्यः स्फरित्वा, सकलधर्मधातुस्फरणतायोगेन सर्वाकाशधातुं सुसूक्ष्मवज्रज्ञाननिमित्तैः संस्फर्य, सकलाकाशधातुविस्फरितसर्वतथागतज्ञानवज्रबिम्बमात्मानमधिष्ठायावस्थितः //
अथ तस्मिन्नेव क्षणे सर्वतथागताः सर्वतथागतज्ञानवज्रमध्ये वज्रधर्मतामध्यालम्ब्य, सर्वतथागतसूक्ष्मज्ञानवज्राधिष्ठानन्नाम समाधिं समापद्यावस्थिताः //
अथ ततः सर्वतथागतज्ञानवज्रात्सर्वतथागतसमाधिज्ञानहृदयं निश्चचार वज्रनाभि तथागत हूं //
अथास्मिन् विनिःसृतमात्रे भगवान् वज्रपाणिः पुनरपि सूक्ष्मज्ञानप्रवेशयोगेन सर्वतथागतकायेषु प्रविष्ट्वा, हृदये वज्रबिम्बानि भूत्वावस्थिताः /
अथ तेभ्यः सर्वतथागतसत्ववज्रेभ्य इदं महाज्ञानहृदयचतुष्टयं निश्चचार / वज्रात्मक //
हृद्वज्राङ्कुश //
तिष्ठ रागवज्र प्रविश हृदयं //
अहो वज्रतुष्टि //
वज्रसत्वज्ञानमुद्रः, सर्वतथागतसमाजाधिष्ठानज्ञानमुद्रः, सर्वतथागतानुरागणज्ञानमुद्रः, महातुष्टिज्ञानमुद्रश्चेति / सर्वतथागतमहावज्रसमाधयः //
अथ वज्रपाणिः सर्वतथागतहृदयः पुनरपि सूक्ष्मज्ञानप्रवेशयोगेन स्वहृदयं प्रविष्ट्वा हृदये वज्रबिम्बमात्मानमधिष्ठायावस्थितः //
अथ ततो वज्रविग्रहादिदं हृदयचतुष्टयं निश्चचार / वज्ररत्नात्मक //
हृदय वज्रसूर्य //
तिष्ठवज्रध्वजाग्र वं //
हृदयवज्रहास //
सर्वतथागतवज्राभिषेकज्ञानमुद्रः, महाप्रभामण्डलव्यूहज्ञानमुद्रः, सर्वतथागताशापरिपूरणज्ञानमुद्रः, सर्वतथागतमहाहासज्ञानमुद्र इति / सर्वतथागतरत्नसमाध्यः //
अथ वज्रपाणिः पुनरपि सूक्ष्मवज्रज्ञानप्रवेशयोगेन स्वहृदयं वज्रहृदयं प्रविष्ट्वा वज्रबिम्बमात्मानमधिष्ठायावस्थितः //
अथ ततो वज्रबिम्बादिदं हृदयचतुष्टयं निश्चचार / वज्रपद्मात्मक //
हृद्वज्रकोश //
तिष्ठ वज्रचक्र हृदयं प्रविश //
वज्रजिव्हाग्र हृदय //
सर्वधर्मसमताज्ञानमुद्रः, सर्वतथागतप्रज्ञाज्ञानमुद्रः, महाचक्रप्रवेशज्ञानमुद्रः, सर्वतथागतधर्मवाग्निःप्रपञ्चज्ञानमुद्र इति / सर्वतथागतधर्मसमाधयः //
अथ वज्रपाणिः पुनरपि स्वहृदयवज्रहृदयवज्रात् सुसूक्ष्मज्ञानप्रवेशयोगेन तद्वज्रहृदयं प्रविष्ट्वा, पुनरपि सूक्ष्मवज्रबिम्बमात्मानमधिष्ठायावस्थितः //
अथ ततः सूक्ष्मवज्रबिम्बादिदं हृदयचतुष्टयं निश्चचार / सर्ववज्रात्मक //
हृद्वज्रकवच //
तिष्ठ वज्रयक्ष हृदय //
वज्रमुष्टिहृदय //
सर्वतथागतविश्वकर्मज्ञानमुद्रः, दुर्योधनवीर्यज्ञानमुद्रः, सर्वमारमण्डलविध्वंसनज्ञानमुद्रः, सर्वतथागतबन्धज्ञानमुद्र इति / सर्वतथागतकर्मसमाधयः //
अथ भगवान् वज्रपाणिः पुनरपि सुसूक्ष्मज्ञाननिमित्तस्फरणयोगेन सर्वतथागतकायेभ्यो निःक्रम्य, वज्रपाणिमहाबोधिसत्त्वकायः संभूय, पुनरपि वज्रसत्वादिमहाबोधिसत्वविग्रहाणि भूत्वा, स्वानि स्वानि चिन्हानि हृदयेषु प्रतिष्ठाप्य, वज्रधातुमहामण्डलसन्निवेशयोगेन चन्द्रमण्डलान्याश्रित्य स्वहृदयसमाधयः समापद्यावस्थिता इति //
delineation of the mandala
अथ वज्रापाणिः पुनरपि सर्वतथागतसमाधिज्ञानाभिज्ञानिष्पादनार्थमिदं वज्रसूक्ष्मज्ञानमण्डलमभाषत /
अथातः संप्रवक्ष्यामि धर्ममण्डलमुत्तमं / वज्रधातुप्रतीकाशं वज्रसूक्ष्ममिति स्मृतं // 1 //
महामण्डलयोगेन महासत्वान्निवेशयेत् / वज्रमध्ये लिखेद्बुद्धं बुद्धमण्डलकेष्वपि // 2 //
महासत्वाः समालेख्याः स्वमुद्राहृदयन्तथा / समाधितो निषण्णास्तु वज्रबन्धकरद्वया // 3 // इति //
मुद्र
अथात्र वज्रसूक्ष्मधर्ममण्डल आकर्षणादिविधिविस्तरो, महामण्डलयोगेन प्रवेशादिविधिविस्तरं ज्ञानचिन्हं पाणिभ्यां दत्वा, स्वचित्तपरिकर्ममहामुद्राज्ञानं शिक्षयेत् /
जिव्हां तालुगतां कृत्वा नासिकाग्रं तु चिन्तयेत् / सूक्ष्मवज्रसुखस्पर्शाद् भवेच्चितं समाहितं // 1 //
सूक्ष्मवज्रसुखस्पर्शनिमित्तं जायते यदा / स्फरयेत् तन्निमित्तन्तु तच्चित्तं सर्वतः स्फरेत् // 2 //
यथेच्छास्फरणाच्चित्तं त्रैधातुकमपि स्फरेत् / पुनस्तु संहरेत् तत् तु यावन्नासाग्रमागतं // 3 //
ततः प्रभृति यत्किञ्चद् भावयेत् सुसमाहितः / सर्वं चैतद् दृढीकुर्यात् समाधिज्ञानकल्पितं // 4 //
अथैषां हृदयानि भवन्ति / सूक्ष्म वज्र //
स्फर वज्र //
संहर वज्र //
वज्र दृढ तिष्ठ //
मैत्री यस्य सत्वस्य सह भूयात् महादृढा / चित्तस्फरणयोगेन सर्वसत्वेषु तां स्फरेत् // 1 //
मैत्रीस्फरणयोगेन कारुण्यं यस्य कस्यचित् / सर्वसत्वार्थयुक्तस्तु स्फरेद्वै प्रतिपत्तितः // 2 //
प्रकृतिप्रभास्वराः सर्वे ह्यादिशुद्धा नभःसमाः / अधर्मो ऽप्यथ वा धर्म्[अः स्फ]रं भावेन तुष्यति // 3 //
दुर्दुरूटसममुख्या बुद्धबोधावभाजयाः / तेषां संशोधनार्थाय महोपेक्षां तु भावयेद् // इति // 4 //
तत्रैतानि हृदया[नि भवन्ति] / महामैत्र्या स्फर //
महाकरुणया स्फर //
सर्वशुद्ध प्रमोद स्फर //
सर्वसत्वान् संबोधय //
ततः सर्वतथागतानुस्मृतिज्ञानं शिक्षयेत् /
आकाशे वान्यदेशे वा सूक्ष्मवज्रप्रयोगतः / उत्थितो वा निषण्णो वा वज्रबिम्बं तु भावयेत् // 1 //
तथैव सर्वस्थानेषु सुक्ष्मवज्रप्रयोगतः / हृद्वज्रं बोधिसत्वं तु भावयेत्सुसमाहितः // 2 //
वज्रपाणिमहाबिम्बं सर्वस्थानेषु भावयेत् / सूक्ष्मवज्रप्रयोगेण यथावदनुपूर्वशः // 3 //
सर्वाकारवरोपेतं बुद्धबिम्बं तु सर्वतः / यथावदनुपूर्वेण भावयेत्सुसमाहित // इति // 4 //
तत्रैतानि हृदयानि भवन्ति / वज्रामुखीभव //
महाबोधिसत्वाविश //
वज्रपाणि दर्शय स्वं रूपं //
बुद्धानुस्मृत्याविश //
सूक्ष्मवज्रप्रयोगेण भावयेत्स्वयमात्मना / चन्द्रबिम्बं स्वमात्मानं बोधिचित्तस्य भावना // 1 //
चन्द्रमण्डलमध्ये तु भावयेत्स्वयमात्मना / वज्रबिम्बं स्वमात्मानं सत्ववज्रस्य भावना // 2 //
सूक्ष्मवज्रविधिं योज्य भावयेत्स्वयमात्मना / सत्ववज्रहृदात्मानं वज्रसत्वस्य भावना // 3 //
सर्वाकारवरोपेतं भावयेत्स्वयमात्मना / बुद्ध बिम्बं स्वमात्मानं बुद्धबोधेस्तु भावना // इति // 4 //
तत्रेमानि हृदयानि भवन्ति / समन्तभद्राविश //
सत्ववज्राविश //
वज्रसत्वसमाधिज्ञानाविश //
तथागतो ऽहं //
ततः सर्वतथागतधर्मतारहस्यमुद्राज्ञानं शिक्षयेत् /
तथागतसमो ऽहं हि वज्रवाचा सकृद्वदन् / द्वयेन्द्रियसमापत्त्या सर्वसत्वां स मारयेत् // 1 //
महावज्रसमो ऽहं हि वज्रवाचा सकृद्वदन् / द्वयेन्द्रियसमापत्त्या लोकमाकर्षयेद्ध्रुवं // 2 //
वज्रधर्मसमो ऽहं हि वज्रवाचा सकृद्वदन् / द्वयेन्द्रियसमापत्त्या सर्वलोकं स नाशयेत् // 3 //
विश्ववज्रसमो ऽहं हि वज्रवाचा सकृद्वदन् / द्वयेन्द्रियसमापत्त्या सर्वकर्म स साधयेद् // इति // 4 //
ततः सर्वतथागतज्ञानवज्राधिष्ठानसमाधिमुद्राज्ञानं शिक्षयेत् / सूक्ष्मवज्रप्रयोगेण भावयेद्वज्रमध्यतः / बुद्धबिम्बं स्वमात्मानं बुद्धत्वं सो ह्यवाप्नुयाद् // इति //
ततो वज्रसत्वसमाधिमुद्राज्ञानं शिक्षयेत् / सुक्ष्मवज्रविधिं योज्य हृदि वज्रादयो गणाः / भावयं वज्रसत्वाद्याः प्रददन्ति स्वसिद्धये // इति //
ततः सर्वतथागतकुलसमाधिसमयमुद्राज्ञानं शिक्षयेत् /
वज्रबन्धसमुद्भूताः षोडशस्तु प्रकीर्तिताः / समाधिसमयाग्र्यस्तु तासां बन्धः प्रवक्ष्यते // 1 //
पर्यङ्कस्था समुत्ताना वलितोद्ववलिता तथा / हृदिस्था च चतुर्थी तु वज्रसत्वादिमण्डले // 2 //
ललातस्था शिरः पृष्ठे स्कन्धे हासप्रयोजिता / मुखधात्री हृदि खड्गा हृद्विकासा मुखस्थिता // 3 //
मू(र्धन्)वक्षस्तु वक्त्रस्था ज्येष्ठस्था पुरतस्तथा / अतः परं समासेन धर्ममुद्रास्तु शिक्षयेद् // इति // 4 //
दृ क्कि / ग्र ग्र / म टः / अ ग्र / त्रं त्रं / अं अं / चं चं / त्र टः / धृ टः / भृ टः / क्र सः / ह हः / व व / वं वं / फ टः / ग्र सः //
ततस्तु धर्मकर्माग्र्य शिक्षयेत्सूक्ष्मवज्रिणं / ज्ञानमुष्टिन्तु समायां द्विधीकृत्य प्रयोजयेद् // इति //
सर्वतथागतमहायानाभिसमयान्महाकल्पराजाद् वज्रज्ञानधर्ममण्डलविधिविस्तरः परिसमाप्तः //
छप्तेर् 4 वज्र-कर्य-कर्म-मन्दल-विधि-विस्तर
i.4 emanation of deities from samadhi
अथ भगवान् पुनरपि सर्वतथागतानुत्तरपूजाविधिविस्तरस्फरणकर्मसमयवज्राधिष्ठानन् नाम समाधिं समापद्येमं स्वविद्योत्तममभाषत् ओं सर्वतथागत वज्रधात्वनुत्तरपूजास्फरण समये हूं //
अथ खल्वक्षोभयस्तथागताः सर्वतथागतवज्रसत्वानुत्तरपूजाविधिविस्तरस्फरणकर्मसमयवज्राधिष्ठानं नाम समाधिं समापद्येमं स्वविद्योत्तममभाषत् ओं सर्वतथागतवज्रसत्वानुत्तरपूजास्फरणसमये हूं //
अथ खलु रत्नसंभवस्तथागतः सर्वतथागतवज्ररत्नानुत्तरपूजाविधिविस्तरस्फरणकर्मसमयवज्राधिष्ठानं नाम समाधिं समापद्येमं स्वविद्योत्तममभाषत् ओं सर्वतथागतवज्ररत्नानुत्तरपूजास्फरणसमये हूं //
अथ खल्वमितायुस्तथागतः सर्वतथागतवज्रधर्मानुत्तरपूजाविधिविस्तरस्फरणकर्मसमयवज्राधिष्ठाननाम समाधिं समापद्येमं स्वविद्योत्तममभाषत् ओं सर्वतथागतवज्रधर्मानुत्तरपूजास्फरणसमये हूं //
अथ खल्वमोघसिद्धिस्तथागतः सर्वतथागतवज्रकर्मानुत्तरपूजाविधिविस्तरस्फरणकर्मसमयवज्राधिष्ठानं नाम समाधिं समापद्येमं स्वविद्योत्तममभाषत् ओं सर्वतथागतवज्रकर्मानुत्तरपूजास्फरणसमय हूं //
अथ भगवान् वैरोचनः पुनरपि सर्वतथागतपूजाविधिविस्तरसकलधर्मधातुस्फरणकर्मसमयवज्रन्नाम समाधिं समापन्नः; समनन्तरसमापन्ने चाथ तावदेव सर्वतथागतहृदयेभ्यः स एव भगवां वज्रधरः सकलधर्मधातुस्फरणाः सर्वाकाशधातुसमवसरणाः सर्वविचि[त्र]पूजाव्यूहविधिविस्तरमेघसमुद्रदेवता भूत्वा विनिःसृत्य, सर्वलोकधातुप्रसरमेघसमुद्रसर्वतथागतपर्षन्मडलेषु सर्वतथागतानुत्तरमहाबोधिचित्तोत्पादनसर्वतथागतकुलारागणसमन्तभद्रचर्यानिष्पादनमहो बोधिमण्डपसंक्रममणसर्वमारधर्षणसर्वतथागत[समता]भिसंभुध्यनसर्वतथागतमहामण्डलोत्पादनसकलत्रिलोकविजयसद्धर्मचक्रप्रवर्तनाशेषानवशेषसत्वधात्वर्थकरणादिनि सर्वबुद्धर्द्धिविकुर्वितानि सन्दर्शयन्तो ऽवस्थिताः //
ताश्च पूजामेघसमुद्रदेवताः स्वमुद्राव्यग्रकरयुगलाः सर्वतथागतान् विधिवत्संपूज्य, वज्रधातुमहामण्डलयोगेन चन्द्रमण्डलाश्रितो भूत्वेदमुदानमुदानयामासुः /
अहो हि बुद्धपूजाहं सर्वपूजाप्रवर्तिका / यद्बुद्धत्वमहत्वं तु सर्वबुद्धददन्ति हि //
अथ वज्रपाणिः पुनरपि सर्वतथागतपूजादिकर्मविधिविस्तरं वज्रकार्यन्नाम कर्ममण्डलमभाषत् /
ओं सर्वतथागतसर्वात्मनिर्यातनपूजास्फरण कर्मवज्रि अः / ओं सर्वतथागतसर्वात्मनिर्यातनाकर्षणपूजास्फरण कर्माग्रि ज्जः //
ओं सर्वतथागतसर्वात्मानिर्यातनानुरागणपूजास्फरण कर्मवाणे हूं होः //
ओं सर्वतथागतसर्वात्मनिर्यातनसाधुकारपूजास्फरण कर्मतुष्टि अः //
सर्वतथागतसुखसुखा, सर्वतथागताकर्षणी, सर्वतथागतानुरागिणी, सर्वतथागतसंतोषणी चेति सर्वतथागतमहापूजाः //
ओं नमः सर्वतथागतकायाभिषेकरत्नेभ्यो वज्रमणिं ओं //
ओं नमः सर्वतथागतसूर्येभ्यो वज्रतेजिनि ज्वाल ह्रीः //
ओं नमः सर्वतथागताशापरिपूरणचिन्तामणिध्वज्राग्रेभ्यो वज्रध्वजाग्रे त्रं //
ओं नमः सर्वतथागतमहाप्रीतिप्रामोद्यकरेभ्यो वज्रहासे हः //
महाधिपतिनी, महोद्योता, महारत्नवर्षा, महाप्रीतिहर्षा चेति सर्वतथागताभिषेकपूजाः //
ओं सर्वतथागतवज्रधर्मतासमाधिभिः स्तुनोमि महाधर्माग्रिह्रीः //
ओं सर्वतथागतप्रज्ञापारमितानिर्हारैः स्तुनोमि महाघोषानुगे धं //
ओं सर्वतथागतचक्राक्षरपरिवर्तादिसर्वसूत्रान्तनयैः स्तुनोमि सर्वमण्डले हूं //
ओं सर्वतथागसन्धाभाषबुद्धसंगीतिभिर्गायन् स्तुनोमि वज्रावाचे वं //
महाज्ञानगीता, महाघोषानुगा, सर्वमण्डलप्रवेशा, मन्त्रचर्या चेति / सर्वतथागतधर्मपूजाः //
ओं सर्वतथागतधूपमेघस्फरणपूजाकर्मे कर कर //
ओं सर्वतथागतपुष्पप्रसरस्फरणपूजाकर्मे किरि किरि //
ओं सर्वतथागतालोकज्वालस्फरणपूजाकर्मे भर भर //
ओं सर्वतथागतगन्धसमुद्रस्फरणपूजाकर्मे कुरु कुरु //
सत्ववती, महाबोध्यङ्गवती, चक्षुष्मती, गन्धवती चेति / सर्वतथागतकर्मपूजाः //
delineation of the mandala
अथात्र वज्रकार्यकर्ममण्डलं भवत्यशेषानवशेषतथागतपूजाप्रवर्तकमिति //
अथातः संप्रवक्ष्यामि कर्मण्डलमुत्तमं / वज्रधातुप्रतीकाशं वज्रकार्यमिति स्मृतं //
महामण्डलयोगेन बुद्धबिम्बान्निवेशयेत् / वज्रसत्वादियोगेन समुद्रा देवता लिखेद् // इति //
initiation into the mandala
अथात्र वज्रकार्यकर्ममण्डलप्रवेशादिविधिविस्तरो भवति //
तत्रादित एव प्रवेशयेत् वज्रधातुप्रवेशयोगेन / प्रवेश्यैवं वदेत् / "सर्वतथागतपूजासमयो ऽयं / तत्त्वया दिनेदिने एताः षोडशपूजा यथाशक्तितः कार्या" इति //
ततो मुखबन्धं मुक्त्वा, कर्ममण्डलं दर्शयित्वा, विश्वचिन्हं पाणिभ्यां दद्यात् //
ततः सर्वतथागतैरपि स पूज्यते, कः पुनर्वादो ऽन्यैरिति //
मुद्र
ततो महबोधिचित्तनिष्पत्तिपूजामुद्राज्ञानं शिक्षयेत् /
बोधिचित्तदृढोत्पादाद्बुद्धो ऽहमिति चिन्तयन् / रत्ना तु पुजयन्नात्मा लभेद् बुद्धसुखान्यपि // 1 //
बोधिचित्तदृढोत्पादाद् बुद्धो ऽहमिति चिन्तयन् / मलादिभिः प्रपूजाभिः संपूज्यात्माभिषिच्यते // 2 //
बोधिचित्तदृढोत्पादाद्बुद्धो ऽहमिति चिन्तयन् / गीतिसौख्यप्रपूजाभिः संपूज्यात्मा स रागयेत् // 3 //
बोधिचित्तदृढोत्पादाद्बुद्धो ऽहमिति चिन्तयन् / नृत्यतः पूजयन्नात्मा बुद्धैरपि स पूज्यते // 4 // इति //
तत्रेमानि हृदयानि भवन्ति / बुद्धात्माहं //
बुद्धमभिषिञ्चामि //
बुद्धस्तुतिङ्करोमि //
बुद्धपूजाङ्करोमि //
ततः सर्वबुद्धपूजामुद्राज्ञानं शिक्षयेत् /
कायवाक्चित्तवज्राग्र्यप्रयोगैः प्रणमन्तथा / पूजयं सर्वबुद्धांस्तु वन्दनीयो भवेद् ध्रुवं // 1 //
सर्वबुद्धमहापुण्यकायावाक्चित्तवज्रजं / अनुमोदनपूजात्मा बुद्धत्वं क्षिप्रमाप्नुयात् // 2 //
आत्मानियतिनाद् दिव्यकायवाक्चित्तवज्रतः / सर्वपूजाभिः संबुद्धान् पूजयामीति पूज्यते // 3 //
सर्व कुशलसंभारङ्कायवाक्चित्तवज्रतः / परिणामनपूजाभिः सर्वबुद्धसमो भवेद् // इति // 4 //
तत्रैतानि भवन्ति / प्रणमामि //
अनुमोदे //
बुद्धपूज //
परिणाम //
ततो धर्मपूजामुद्राज्ञानं शिक्षयेत् /
प्रकृतिप्रभास्वरा धर्मा ह्यादिशुद्धाः स्वभावतः / पूजितो ऽनेन धर्मेण लभेद् रतिसुखानि तु // 1 //
अ-कारस्तु मुखं वाच्यं सर्वधर्मसमुच्चये / अनया धर्ममुद्रया सर्वदुःखांश्छिनत्ति सः // 2 //
सर्वेषामेव धर्माणां हेतुरत्र तथागतः / सद्धर्मचक्रपूजया पूज्य धर्मधरो भवेत् // 3 //
प्रतिश्रुत्कोपमानुक्त्वा सर्वधर्मा स्वभावतः / अनया धर्मपूजया संपूज्य स्वरतां लभेत् // 4 //
तत्रैतानि हृदयानि भवन्ति / सर्वशुद्ध //
समन्तभद्र //
धर्मचक्र //
निःप्रपञ्च //
ततः समाधिपूजामुद्राज्ञानं शिक्षयेत् /
कायवाक्चित्तवज्रेषु स्वकीयाः परमाणवः / भावयन्वज्रविम्बानि वज्रात्मा भवे[त्क्षिप्रं] // 1 //
कायवाक्चित्तवज्रेषु स्वकीयाः परमाणवः / भावयन् सर्वबुद्धांस्तु धर्मकायो भवेल्लघु // 2 //
कायवाक्चित्तवज्रेषु स्व(कीयाःपरमा)णवः / भावयन्वज्रसत्वांस्तु वज्रसत्वसमो भवेत् // 3 //
कायवाक्चित्तवज्रेषु स्वकीयाः परमाणवः / भावयन् बुद्धबिम्बानि संबुद्धत्वमवाप्नुयाद् // इति // 4 //
तत्रैतानि हृदयानि भवन्ति / वज्रकाय //
धर्मकाय //
सत्वकाय //
बुद्धकाय //
ततो रहस्यपूजामुद्राज्ञानं शिक्षयेत् /
सर्वकायपरिष्वङ्गसुखपूजा स्वयंभुवा / निर्यातयं भवेच्छीघ्रं वज्रसत्वसमो हि सः // 1 //
दृढानुरागसंयोगकचग्रहसुखानि तु / निर्यातयंस्तु बुद्धानां वज्ररत्नसमो भवेत् // 2 //
दृढप्रतीतिसुखसक्तिचुम्बिताग्र्यसुखानि तु / निर्यातयंस्तु बुद्धानां वज्रधर्मसमो भवेत् // 3 //
द्वयेन्द्रियसमापत्तियोगसौख्यानि सर्वतः / निर्यातयंस्तु पूजायां वज्रकर्मसमो भवेद् // इति // 4 //
तत्रैतानि गुह्यमुद्राहृदयानि भवन्ति / रतिवज्र //
रागवज्र //
प्रीतिवज्र //
कामवज्र //
ततः सर्वतथागतपूजाकर्ममहामुद्राज्ञानं शिक्षयेत् /
हृत्पार्श्वपृष्ठतो योगाल्ललाटादेस्तथैव च / मुखकर्णशिरःपृष्ठमूर्धासासकटिस्थितेति //
ततः सर्वतथागतपूजाकर्मसमयमुद्राज्ञानं शिक्षयेत् /
वज्रबन्धं दृढीकृत्य महामुद्राप्रयोगतः / हृदयादिस्थानयोगेन स्थापयन्पूजयेज्जिनान् // इति //
ततः सर्वतथागतपूजाधर्मज्ञानं शिक्षयेत् /
ओं ग्रयः य्यः सा / त्रि रं हं नः / खं षं हूं हि / श ण सिः सं /
कर्ममुद्राः समासेन कर्ममुद्रा द्विधीकृता // इति //
सर्वतथागतमहायानाभिसमयान्महाकल्पराजाद्वज्रकार्यकर्ममण्डलविधिविस्तरः परिसमाप्तः //
chapter 5 epilogue of the sarva-tathagata-mahayanabhisamaya nama maha-kalpa-raja
1.5 emanation of deities
अथ भगवान् वैरोचनस्तथागतः सर्वतथागताधिष्ठानेन सर्वतथागतकुलमुत्पाद्य, अस्य सर्वतथागतकुलमहाकल्पविधिविस्तरस्य सर्वसिद्धिसंग्रहार्थमिदं सर्वतथागतमुद्राहृदयमभाषत् ओं सर्वतथागतमुष्टि वं //
अथ खल्वक्षोभयस्तथागतः सर्वतथागताधिष्ठानेन सर्वतथागतकुलमुत्पाद्यास्य सर्वतथागतकुलमहाकल्पविधिविस्तरस्य सर्वसिद्धिसंग्रहार्थमिमां सर्वतथागतमुद्रामभाषत् ओं वज्रसत्वमुष्टि अः //
अथ रत्नसंभवस्तथागतः सर्वतथागताधिष्ठानेन सर्वतथागतकुलमुत्पाद्यास्य सर्वतथागतकुलमहाकल्पविधिविस्तरस्य सर्वसिद्धिसंग्रहार्थमिमां सर्वतथागतमुद्रामभाषत् ओं वज्ररत्नमुष्टि त्रं //
अथामितायुस्तथागतः सर्वतथागताधिष्ठानेन सर्वतथागतकुलमुत्पाद्यास्य सर्वतथागतकुलमहाकल्पविधिविस्तरस्य सर्वसिद्धिसंग्रहार्थमिमां सर्वतथागतमुद्रामभाषत् ओं वज्रधर्ममुष्टि खं //
अथामोघसिद्धिस्तथागतः सर्वतथागताधिष्ठानेन सर्वतथागतकुलमुत्पाद्यास्य सर्वतथागतकुलमहाकल्पविधिविस्तरस्य सर्वसिद्धिसंग्रहार्थमिमां सर्वतथागतमुद्रामभाषत् ओं वज्रकर्ममुष्टि हां //
delineation of the mandala
अथ वज्रपाणिर्महाबोधिसत्वः स्वाधिष्ठानेन भगवतो वैरोचनस्य तथागतस्य सर्वतथागतकुलमुत्पाद्यास्य सर्वतथागतकुलमहाकल्पविधिविस्तरस्य सर्वसिद्धिसंग्रहायेदं वज्रसिद्धिन्नाम चतुर्मुद्रामण्डलमभाषत् /
अथातः संप्रवक्ष्यामि मुद्रामण्डलमुत्तमं / वज्रधातुप्रतीकाशं वज्रसिद्धिरिति स्मृतं // 1 //
महामण्डलयोगेन सूत्रयेत विचक्षणः / बुद्धबिम्बन्निवेश्यादौ लिखेन्मुद्राचतुष्टयं // 2 // //
चन्द्रमण्डलमध्येषु वज्रमुद्रादयो लिखेद् // इति // 3 //
initiation into the mandala
अथात्र वज्रसिद्धिमुद्रामण्डल आकर्षणादिविधिविस्तरङ्कृत्वा तथैव प्रवेश्यैवं ब्रुयात् / "न त्वया कस्यचिदिमं रहस्यपटलमुद्घाटयितव्यं / तत्कस्य हेतोः? सन्ति सत्वा दुर्दृष्टयः पापकर्माणो हीनवीर्या वैकल्यरहिताः चित्रकर्मण्यनभिज्ञाः; ते वज्रधात्वादिषु सर्वतथागतकुलमण्डलेषु महत्स्विति कृत्वा हीनवीर्यतया न प्रविशन्ते / तेषामर्थायेदं वज्रसिद्धिमुद्रामण्डलं सर्वतथागतकुलमण्डलसमयभूतमशेषानवशेषसत्वधातुपरित्राणसर्वहितसुखसौमनस्यानुभवनार्थ यावत् सर्वतथागतवज्रोत्तमसिद्धिनिमित्तमधिष्ठितमिति / न त्वयैषां सर्वतथागतकुलसमयमुद्रारहस्यानां न प्रत्यभिश्रद्धानीयं / मा ते नरकतिर्यक्प्रेतोपपत्तिः स्यात्, विषमापरिहारेण वाकालमरणं स्याद्" इत्युक्त्वा, मुखबन्धं मुक्त्वा मण्डलं दर्शयेत् /
मुद्र
ततः सर्वतथागतमुद्रासमयं ब्रूयात् /
यां यां मुद्रां तु बध्नीयाद्य[स्य य]स्य महात्मनः / जपंस्तु हृदयार्थेन भावयेत्तं स्वमात्मना // 1 //
अनेन ज्ञानयोगेन सिद्धिं यान्ति महात्मनां / सर्वमुद्रास्तु सर्वेषां वज्रपा[णेर्व]चो यथा // 2 //
ततः सर्वमुद्रारहस्यं ब्रुयात् / विदार्य स्वेन्द्रियं गृण्हेद्वज्रमुष्टिग्रहेण तु / तेन मुद्रां स्पृशेद्यां तु सा वशं याति तत्क्षणात् //
ततः सर्वमुद्राधर्मतां ब्रुयात् /
सूक्ष्मवज्रविधिं योज्य ज्ञानमुद्रां तु बन्धयेत् / अनेन विधियोगेन ज्ञानमुद्रां वशन्नयेत् //
ततः सर्वमुद्राकर्म ब्रुयात् /
गीतनृत्यरसाहारविहारादिसुखानि तु / निर्यातयंस्तु बुद्धेभ्यः कर्ममुद्रावशन्नयेद् // इति //
ततः सर्वमण्डलसाधिकारहस्यमुद्राज्ञानं शिक्षयेत् /
स्तब्धलिङ्गः स्वयंभूत्वा निपद्येत्पटके सिते / लिङ्गं चैत्यमधिष्ठाय वज्रधातुरहं स्वयं // 1 //
वज्रबन्धं दृढीकृत्य मध्यमोत्थसमाङ्कुरा / कन्यसाग्र्या मुखोत्थानान्समयः समयाग्रीणां // 2 //
सूक्ष्मवज्रप्रयोगेण भावयेत्स समाहितः / मण्डलं सूक्ष्मवज्रां तु समाधिवशितां नयन् // 3 //
वज्रमुद्राद्विकं बध्वा गृण्हेद् वज्रन्तयोर्दृढम् / कनिष्ठाग्रा निबन्धेन वज्रकार्याग्रमण्डल // 4 // इति //
"ततो यथावद् वज्रसत्वादिमहामुद्राबन्धचतुष्टयं शिक्षयित्वा, यथावद् वज्रधातुमहामण्डलविधिविस्तर इति, यथावज्रसिद्धिचतुर्मुद्रामण्डलमेवमक्षोभयादीनि सर्वमण्डलानि चतुर्मुद्रामण्डलयोगेन लिखेत् / स्वाभिः स्वाभिर्मुद्राभिः सर्वसिद्धयो ददन्तीति / एवम्पटाकुड्याकाशसर्वस्थानाभिलिखितानि सर्वसिद्धयो ददन्तीति //
मण्डलकल्पनात्प्रभृति केषांचित्तस्मिन्नेव मण्डलप्रवेशे सिद्धिर्यथाभिरुचिता, केषांचित्तत आरभ्य दिवसेन, केषांचिद् दिवसचतुष्टयेत्, केषांचिच्छोडशाहात्, केषांचित्पञ्चानन्तर्यकारिणामपि यथाकामं सुखतः सर्वकार्याणि कुर्वतां सर्वानुरागसर्वरसाहारविहारसुखान्यनुभवतां वर्षेणोत्तमा सिद्धिरिति भगवता निदिष्टेति //
1.6 emanation of the deity from samadhi
अथ भगवान् वैरोचनः पुनरपि सर्वतथागतोत्तमसिद्धिसमयवज्रन्नाम समाधिं समापद्येमं सर्वतथागतमहायानाभिसमयन्नाम सर्वतथागतहृदयं स्वहृदयान्निश्चचार वज्रसत्व //
delineation of the mandala
अथ भगवान् वज्रपाणिर्महाबोधिसत्वः अशेषानवशेषसत्वधातुपरित्राणसर्वहितसुखसौमनस्यानुभवनार्थं यावत्सर्वतथागतसर्वोत्तमसिद्धये इदं महायानाभिसमयमण्डलमभाषत् /
अथातः संप्रवक्ष्यामि सत्वमण्डलमुत्तमं / वज्रधातुप्रतीकाश वज्रसत्वमिति [स्मृतं] // 1 //
महामण्डलयोगेन सुत्रयेद्बाह्यमण्डलं / चन्द्रमण्डलमध्ये तु वज्रसत्वन्निवेशयेद् // 2 // इति //
initiation into the mandala
ततो यथावदाकर्षण[प्रवेशादिं कृ]त्वा सर्वतथागतसिद्धिज्ञानान्युत्पादयेत् //
तत्र प्रथमन्तावद्वक्तव्यं "न त्वया कस्यचिददृष्टसमयस्यैषां रहस्यानाम[कोवि]दस्य वक्तव्यं / मा ते सर्वापायोपपत्तये भवेयु, र्विषमापरिहारेणाकालमरणं वा स्याद्" इति //
ततो वज्रसत्वोत्तमसिद्धिसाधनज्ञानं शिक्षयेत् /
पूर्णचन्द्रमण्डलारूढो महामुद्रापरिग्रहः / वज्रसत्वं स्वमात्मानं भावयं सिध्यते लघु // रिति //
ततः सर्वमण्डलगुह्यसमयज्ञानं शिक्षयेत् /
विरागसदृशं पापमन्यन्नास्ति त्रिधातुके / तस्मात्कामविरागित्वं न कार्यं भवता पुनः //
महासमय हन् फट् //
ततः शपथहृदयं दद्यादेवं / सर्वतथागतकुलमण्डलेषु विधिविस्तरेषु समयसंवरन्दातव्यं //
ततो वज्रसत्वमहामुद्रादिबन्धचतुष्टयं शिक्षयेत् / तथैव सिद्धय इति /
एवं पटादिषु सर्वप्रतिमासु च मनीषितविधानेन सर्वसिद्धयो ददन्ति / एवं यथा वज्रधातुमहामण्डलविधिविस्तर इति //
मुद्र
अथ सर्वतथागताः पुनरपि समाहजामागत्य, भगवते सर्वतथागताधिपतये महाबोधिचित्ताय वज्रसत्वाय महावज्रपाणये वज्रतुष्ट्यानेन हृदयेन साधुकारमददुः ओं //
साधु ते वज्रसत्वाय वज्ररत्नाय साधु ते / वज्रधर्माय ते साधु साधु ते वज्रकर्मणे // 1 //
सुभाषितमिदं सूत्रं वज्रयानमनुत्तरं / सर्वतथागतं गुह्यं महायानाभिसंग्रहं // 2 //
वज्रसत्वस्य नामापि सर्वसिद्धिकरं परं / साध्यमानस्तु शुद्ध्या वै सुखैर्बुद्धत्वमाप्नुयात् // 3 //
वज्रधर्मप्रयोगेण सर्वकामसुखैः सुखं / साधयेज्जन्मनीहैव सुखमक्षयमव्ययम् // 4 // इति /
सर्वतथागततत्वसंग्रहात्सर्वतथागतमहायानाभिसमयो नाम महाकल्पराजा समाप्तः //
छप्तेर् 6 त्रिलोकविजय-मह-मन्दल-विधि-विस्तर
hymn of 108 names of mahacakravartin
अथ भगवन्तः सर्वतथागताः पुनः समाजमागम्य, भगवन्तं सर्वतथागतमहाचक्रवर्तिनमनेन नामाष्टशतेनाध्येषितवन्तः /
वज्रसत्व महावज्र वज्रनाथ सुसाधक / वज्राभिषेक वज्राभ वज्रकेतु नमो [ऽस्तुते] // 1 //
हासवज्र महाधर्म वज्रकोश महावर / सर्वमण्डलराजाग्र्य निःप्रपञ्च नमो ऽस्तु ते // 2 //
वज्रकर्म महारक्ष चण्डयक्ष महाग्रह / वज्रमुष्टि महामुद्र सर्वमुद्र नमो ऽस्तु ते // 3 //
बोधिचित्त महाबोधे बुद्ध सर्वतथागत् / वज्रयान् महाज्ञान महायान नमो ऽस्तु ते // 5 //
सर्वार्थ सर्वतत्वार्थ महासत्वार्थ सर्ववित् / सर्वज्ञ सर्वकृत्सर्व सर्वदर्शि नमो ऽस्तु ते // 5 //
वज्रात्मक सुवज्राग्र्य वज्रवीर्य सुवज्रधृक् / महासमय तत्वार्थ महासत्य नमो ऽस्तु ते // 6 //
वज्राङ्कुश महाकाम सुरते सुमहाप्रभ / वज्रप्रभ प्रभोद्योत बुद्धप्रभ नमो ऽस्तु ते // 7 //
वज्रराजाग्र्य वज्राग्र्य विद्याग्र्याग्र्य नरोत्तम / वज्रोत्तम महाग्र्याग्र्य विद्योत्तम नमो ऽस्तु ते // 8 //
वज्रधातो महागुह्य वज्रगुह्य सुगुह्यधृक् / वज्रसूक्ष्म महाध्यान वज्रकार्य नमो ऽस्तु ते // 9 //
बुद्धाग्र्य बुद्धवज्राग्र्य बुद्धबोधे महाबुध / बुद्धज्ञान महाबुद्ध बुद्धबुद्ध नमो ऽस्तु ते // 10 //
बुद्धपूजा महापूजा सत्वपूजा सुपूजक / महोपाय महासिद्धे वज्रसिद्धि नमो ऽस्तु ते // 11 //
तथागतमहाकाय तथागतसरस्वते / तथागतमहाचित्त वज्रचित्त नमो ऽस्तु ते // 12 //
बुद्धाधिप जिनाज्ञाकृद्बुद्धमित्रे जिनाग्रज / महावैरोचन विभो[शास्ता]शान्तरौद्र नमो ऽस्तु ते // 13 //
तथागतमहातत्व भूतकोटे महानय / सर्वपारमिताज्ञान परमार्थ नमो ऽस्तु ते // 14 //
समन्तभद्र चर्याग्र्य मार मारप्रमर्दक / सर्वाग्र्य समाताज्ञान सर्वत्रग नमो ऽस्तु ते // 15 //
बुद्धहुंकर हुंकर वज्रहुंकर दामक / विश्ववज्राङ्ग वज्रोग्र वज्रपाणे नमो ऽस्तु ते // 16 //
वन्द्यः पूज्यश्च मान्यश्च सत्कर्तव्यस्तथागतैः / यस्माद्वज्रदृढं चित्तं वज्रसत्वस्त्वमुच्यसे // 17 //
त्वदधीना हि संबोधि पिता त्वं सर्वदर्शिनां / संभूताः संभविष्यन्ति त्वामासाद्य तथागताः // 18 //
अनेन स्तोत्रराजेन स्तुयाद्वै सुभक्तितः / यो गायंस्तु स्तुयात्सो ऽपि भवेद्वज्रधरोपमः // 19 //
अध्येषयामस्त्वान्नाथ सर्वबुद्धवशङ्करं / सर्वसत्वार्थकार्यार्थमुत्पादय कुलं स्वकम् // 20 // इति //
subjugation of mahesvara and his retinue
अथ वज्रपाणिः सर्वतथागताधिपतिः सर्वतथागताध्येषणवचनमुपश्रुत्य, तद्वज्रं स्वहृदि प्रतिष्ठाप्य, तान् सर्वतथागतान् आहूयैवमाह / "भागवन्तः सर्वतथागता न प्रतिपद्यामि" // सर्वतथागता प्राहुः / "को हेतुः?" // वज्रधरः प्राह / "सन्ति भगवन्तः सत्वाः महेश्वरा दिदुष्टस] त्वा, ये युष्माभिरपि सर्वतथागतैरविनेयाः, तेषां मया कथं प्रतिपत्तव्यम्!" //
अथ भगवान् वैरोचनस्तथागतः [सर्वतथाग]ताधिष्ठानेन सर्वतथागतमहोपायज्ञानवज्रन्नाम समाधिं समापन्नः / समनन्तरसमापन्ने चाथ तावदेव स[र्वतथाग]ताः सकलाकाशधातुपरमाणुरजः समवसरण[स्फरण] ताय सुमेरुगिरिमूर्ध्नि वज्रमणिरत्नकूटागारे [पुनः] समाजमागम्य, सर्वतथागतसमतामध्यालम्भ्य, भगवतो वैरोचनस्य श्रीवत्सहृदये प्रविष्टाः /
अथ भगवान् वैरोचनस्तथागतः सर्वतथागतहृदयमात्मानमधिष्ठाय सर्ववज्रसमतया अशेषानवशेषसत्वधातुपरित्राणसर्वहितसुखोत्तमसिद्धिहेतोः सर्वदुष्टविनयाय च, सर्वतथागतमहाकरुणोपायसमाधिज्ञानमध्यालम्भ्य, सर्वतथागतमहाकरूणोपायक्रोधसमय वज्रं नाम समाधिं समापन्नः / समनन्तरसमापन्ने चात्रैतस्मिन्नेव क्षणे सर्वतथागतहृदयेभ्यः सर्वतथागतसमयन्नाम सर्वतथागतहृदयं निश्चचार हुं //
अथास्मिन् विनिःसृतमात्रे वज्रपाणिहृदयवज्रात्स एव भगवान् वज्रधरः समन्तज्वालागर्भाः सभ्रुकुटिभ्रूभङ्गोत्कुञ्चितललाटविकटदंष्ट्राकरालमुखाः वज्राङ्कुशकोषपाशादिवज्रज्वालान्निप्रदीप्तप्रहरणव्यग्रकराः अनेकविधवर्णालङ्कारविचित्रवेषधराः वज्रपाणिविग्रहा विनिश्चरित्वा, सर्वलोकधातुषु सर्वदुष्टविनयङ्कृत्वा, भगवतो वैरोचनस्य सर्वतो वज्रधातुमहामण्डलयोगेन चन्द्रमण्डलाश्रिता भुत्वेदमुदानमुदानयिंसुः //
अहो ह्युपायविनयं महोपायवतामहं / यत्सत्वोपायविनयात्क्रोधत्वं यान्ति निर्मला // इति //
अथ भगवान् वैरोचनस्तथागतः सर्वतथागताप्रपञ्चधर्मतामध्यालम्भ्य, सर्वतथागतमहाक्रोधवज्रसमयवज्राधिष्ठानन्नाम समाधिं समापद्येमं सर्वतथागतवज्र-हुङ्-करन्नाम सर्वतथागतहृदयं विद्योत्तममभाषत् /
ओं सुंभ निसुंभ हुं / गृह्ण गृह्ण हुं / गृह् णापय हुं / आनय हों भगवन् / वज्र हुं फट् //
अथास्मिन् विनिःसृतमात्रे सर्वतथागतहृदयेभ्यो भगवान्वज्रपाणिर्विनिःसृत्य, सर्वलोकधातुप्रसरमेघसमुद्रेभ्यो यावन्तः सर्वतथागताः सबोधिसत्वपर्षद्मण्डलाः समाधिष्ठायाकृष्य, वज्रसमयमहामण्डले प्रवेश्य, समयैर्बध्वा, पुनरप्येकघनो महावज्रक्रोधकायो भूत्वा, भगवतो [वैरो]चनस्य हृदये स्थित्वेममुदानमुदानयामास /
अहो हि बोधिचैत्तस्य सर्वतो भद्रतानघा / यत्सत्वविनयाद्याति क्रोधो ऽपि रमणीय[ताम् // इति] //
अथ स महावज्रक्रोधकायो भगवतो हृदयादवतीर्य, सर्वतथागतानां पुरतश्चन्द्रमण्डलाश्रितो भूत्वा, पुनरप्याज्ञां मार्गया[मास] //
अथ भगवान् सर्वतथागतसमयाकर्षणवज्रन्नाम समाधिं समापद्येदं सर्वतथागतसमयाङ्कुशन्नाम सर्वतथागतहृदयं स्वहृ[दय]न् निश्चचार हुं टक्कि ज्जः //
अथास्मिन् विनिःसृतमात्रे सर्वलोकधातुप्रसरमेघसमुद्रेषु यावन्तस्त्रैलोक्याधिपतयो महेश्वरादयस्ते स[र्वे स]र्वलोकसन्निवेशगणपरिवृताः अशेषानवशेषाः सर्वतथागतसमयवज्राङ्कु शेनाकृष्टाः समाना येन सुमेरुगिरिमूर्धा [येन] च वज्रमणिरत्नशिखरकूटागारस्तेनोपसंक्रम्य, भगवतो वज्रमणिरत्नशिखरकूटागारस्य सर्वतः परिवार्यावस्थिता अभूवन् //
अथ वज्रपाणिस्तद्वज्रं स्वहृदयाद्गृह्योल्लालयन् सर्वावन्तं सकलत्रैधातुकत्रिलोकचक्रमवलोक्यैवमाह / "प्रतिपद्यत [मार्षा]स्सर्वतथागतशासने, मम चाज्ञां पालयत!" / अथ त एवमाहुः / "कथम् प्रतिपद्यामः?" / भगवान् वज्रपाणिराह / "बुद्ध धर्मं च सङ्घं च शरणगमनं प्रतिपत्तितः, सर्वज्ञज्ञानलाभाय प्रतिपद्यध्वं मार्षा!" इति //
अथ यो ऽस्मिन् लोकधातौ सकलत्रैलोक्याधिपतिर्महादेवः सर्वत्रैलोक्याधिपत्यगर्वितो महाक्रोधतान्दर्शयन्नेवमाह / "अहं भो यक्ष त्रैलोक्याधिपतिरीश्वरः कर्ता विकर्ता सर्वभूतेश्वरो देवातिदेवो महादेवः; तत्कथमहं ते यक्षज्ञाङ्करिष्यामी-?" ति //
अथ वज्रपाणिः पुनरपि वज्रमुल्लालयन्नाज्ञाप्यति / "भो दुष्टसत्त्व शीघ्रं प्रविश मण्डलं, मम च समये तिष्ठ!" /
अथ महादेवो देवो भगवन्तमिदमवोचत् / "को ऽयं भगवन्नीदृशः सत्वो यो ऽयमीश्वरस्यैवमाज्ञान्ददाति?" /
अथ भगवान् सर्वावन्तं महेश्वरादित्रैलोक्यगणमाहूयैवमाह / "प्रतिपद्यत मार्षास्त्रिशरणगमनसमयसंवरे; मायं वज्रपाणिर्यक्षः क्रूरः क्रोधनश्चण्डो महाबोधिसत्वश्च वो दीप्तेन वज्रेण सकलमेव त्रैधातुकं नाशयेद्" इति /
अथ महेश्वरः सकलत्रैलोक्याधिपत्यतया स्वज्ञानवशितया च भगवतो वज्रपाणेर्भयसन्दर्शनार्थं महाचण्डक्रोधतां महाभैरवरूपतां महाज्वालोत्सृजनतां महा[रौ]द्राहासतां सहगणैः सन्दर्शयन्नेवमाह / "अहं भोः सकलत्रैलोक्याधिपस्त्वं ममाज्ञान्ददासी-" ति //
अथ वज्रपाणिस्तद्वज्रं [सगर्वम्] उल्लालयन् विहसन्नेवमाह / "प्रतिपद्य भो कटपूतनमानुषमान्साहार चितिभस्मभक्ष्यभोज्य शय्यासनप्रावरण ममाज्ञा[म्पालय]!" / अथ महेश्वरो महादेवः सकलं त्रैलोक्यं महाक्रोधाविष्टमधिष्ठाय, एवमाह / "त्वमपि ममाज्ञां पालय, समये च प्रति[पद्य!" इ]ति //
अथ वज्रापाणिर्महाक्रोधराजो भगवन्तमेतदवोचद् / "अयम्भगवन्महादेवो देवः स्वज्ञानबलगर्वात् महेश्वर्या[धिप]त्यात् च सर्वतथागतशासने न प्रणमति / तत्कथमस्य क्रियत?" इति //
अथ भगवान् सर्वतथागतहृदयसंभूतं महावज्रस[मयं] स्मारयति ओं निसुम्भ वज्र हुं फट् //
अथ वज्रपाणिर्महाबोधिसत्वः स्ववज्रहृदयमुदाजहार हुं // अथास्मिन् भाषितमात्र सकलत्रैधातुकसन्निपतिता महादेवादयः सर्वत्रैलोक्याधिपतयः अधोमुखाः प्रपतिताः आर्तस्वरं मन्वन्तो भगवतो वज्रपाणेश्च शरणं गताः / स च महादेवो देवो भूम्यां प्रपतितो निश्चेष्टीभूतो मृतः //
अथ भगवान् जानन्नेव वज्रपाणिमेवमाह / "प्रतिपद्यस्व वज्रपाणे अस्य सकलत्रिलोकचक्रस्याभयाय, मा पञ्चत्वमापादय" / अथ वज्रपाणिर्महाक्रोधराजो भगवतो वचनमुपश्रुत्य तां सर्वदेवादीनाहूयैवमाह / "बुद्धं धर्म सङ्घं च शरणं प्रतिपद्यत, ममाज्ञाकारितायां च, यदीष्टं वः स्वजीवितम्" इति / अथ त एवमाहुः / "सबुद्धधर्मसङ्घसमुद्रांच्छरणं गच्छामः, त्वच्छासनाज्ञां न जानीम" इति //
अथ भगवान् वैरोचनस्तथागतस्तानाहूयैवमाह / "अयं भो देवो ऽस्माकं सर्वतथागताधिपतिः सर्वतथागतपिता सर्वतथागताज्ञाकरः सर्वतथागतज्येष्ठपुत्रो भगवां समन्तभद्रो बोधिसत्वो महासत्वः सर्वसत्वविनयेन कार्यकरणतया महाक्रोधराज्यतायामभिषिक्तः / तत्कस्माद्धेतोः? / सन्ति युष्मद्मध्ये महादेवादयो दुष्टगणास् ते सर्वतथागतैरपि न शक्याः शान्तया पापेभ्यो निवारयितुं / तेषां पापसत्वानां निग्रहाय अधितिष्ठितस्तद्युस्माभिरस्य समये स्थातव्यमित्याज्ञा" इति / त एवमाहुर् / "अस्माकं भगवन्नस्माज्जीवितविप्रलायात्परित्रायस्व / यामाज्ञान्दास्यति तत्करिष्यमह" इति / भगवानाह / "हं भो मार्षा एतमेव शरणं गच्छतायमेव वः परित्रास्यति, नान्य" इति //
अथ ते त्रिलोकसकलत्रैधातुकसन्निपतिताः त्रिभुव[नपत]यो येन भगवान् वज्रधरस्तेनाभिमुखा एककण्ठेन महार्तान् स्वरान्प्रमुञ्चत एवमाहुः / "परित्रायस्व भो भगवन् परित्रायस्व अतो मरणदुःखाद्" इति //
अथ वज्रपाणिर्महाबोधिसत्वस्तां देवादीनाहूयैवमाह / "हं भो दुष्टाः प्रतिपद्यत मम शासने / मा वो [दीप्तेना]नेन वज्रेण एकज्वालीकृत्य, सर्वानेव भस्मीकुर्याम्" इति / त एवमाहुः / "समन्तभद्रस्त्वं भगवन्सर्वतथागतचित्तोत्पाद[ः शान्तविनीतः] सर्वसत्वहितैषी सर्वसत्वाभयप्रदः / तत्कथं भगवन्नस्माकन्निर्दहिष्यती-?" ति / अथ वज्रपाणिर्महाक्रोधरजस्तानेवमाह / "[अहं भो] मार्षाः समन्तभद्रो येन सर्वतथागताज्ञाकारित्वाद्युष्मद्विधानां दुष्टसत्वजातीयानां पापचित्तानां संशोधनार्थाय, विनाशयामि यदि मत्समये न तिष्ठत" इति / ते प्राहुर् "एवमस्त्वि" ति //
अथ वज्रपाणिर्महाक्रोधराजो महेश्वरं मुक्त्वान्यान्देवानाश्वास्योत्थापनार्थमिदम् वज्रोत्तिष्ठन्नाम सर्वतथागतहृदयमभाषत् वज्रोत्तिष्ठ // अथास्मिन् भाषितमात्रे महेश्वरं मुक्त्वा सर्वे ते त्रिधातुकसन्निपतितास्त्रिभुवनपतयः सपरिवाराः संमूर्च्छिताः समानाः समाश्वस्तहृदया अभूवन् दिव्यानि सुखान्यनुभवन्तो विगतभयच्छभितरोमहर्षा भगवन्तं वज्रपाणिनमवलोकयन्तः समुत्थिता इति //
अथ भगवान् वज्रपाणिं बोधिसत्वमामन्त्रयामास / "अयं महासत्वो महादेवो देवाधिपतिर्नोत्थापितः, तत्किमस्य जीवितविप्रणाशेन कृतेन?; जीवापयैनं, सत्पुरुषो ऽयं भविष्यती-" ति / अथ वज्रपाणिर् "एवमस्त्व्" इति कृत्वेदं मृत संजीवनहृदयमुदाजहार वज्रायुः // अथास्मिन् भाषितमात्रे महादेवो देवो मृतः संजीव्योत्थातुमिच्छति, न शक्तो व्युत्थातुं / ततो भगवन्तमेतदवोचत् / "किमहं भगवता एवं शास्यामि?" / भगवानाह / "न त्वं प्रतिपद्यस्वास्य महासत्पुरुषस्याज्ञाङ्कर्तु / अयमेव तेन शास्ति, नाहं" / महेश्वरः प्राह / "किन्न त्वं भगवंच्छक्तो ऽस्माद्दृष्टसत्वान्परित्रातुम्?" इति / भगवानाह / "नाहमस्मात्समर्थः परित्रातुं" / आह / "तत्कस्माद्धेतोर्" / आह / "सर्वतथागताधिपतित्वात्" / आह / "नाहं भगवं भगवतो भाषितस्यार्थमाजाने / किन्तु यत्र हि नाम तथागतानामपि सर्वत्रैधातुकाधिपतीनामन्यो ऽधिपतिस्तन्न जाने को ऽयम्" इति //
अथ भगवान् वज्रपाणिर्महाबोधिसत्वः पुनरपि महादेवमाहूयैवमाह / "न प्रतिप[द्यसि किं] दुष्टसत्व ममाज्ञाङ्कर्तुम्?" इति / अथ महादेवो वज्रसत्ववचनमुपश्रुत्य कुपितश्चण्डीभूतस्तथा पतित एव पुनरपि महारौद्ररूपतां दर्शय[न्ने]वमाह / "मरणमप्युत्सहामि; न च तवाज्ञाङ्करिष्यामि" //
अथ वज्रपाणिर्महाबोधिसत्वो महाकोपतां सन्दर्शयन्स्वक्रमतालादिद[मनुच]रन् निश्चचार ओं पादाकर्षण वज्र हूं //
अथ भगवतश्चरणतालात्समन्तज्वाला गर्भाकृतभ्रुकुटीदंष्ट्राकरालमहावक्त्रो वज्रा नुचरो भगवतो वज्रपा] णेः पुरतः स्थित्वाज्ञां मार्गयामास //
अथ वज्रापाणिर्महेश्वरसंशोधननिमित्तमेवमाह ओं पादाकर्षाकर्षस्य सर्ववज्रधरानुचर [कण्ड कण्ड व]ज्र हूं जः //
अथैवमुक्ते महादेव उमादेवीसहितः ऊर्ध्वपादो नग्नः सर्वजगद्भिरुपहस्यमानः पादाकर्षणवज्रानुचरेण भगव[तो वज्रपा]णेः पुरतः पादताले स्थापित इति /
अथ वज्रपाणिर्बोधिसत्वो भगवन्तमेतदवोचत् / "अयं भगवन् दुष्टसत्वः सपत्नीकः किं करोमि?" [इति] / भगवानाह ओं वज्राक्रम होः // अथैवमुक्ते वज्रपाणिर्महाबोधिसत्वो महादेवं वामपादाक्रान्तं कृत्वा, दक्षिणेन चोमा [याः स्तनौ पीड]यन्निदं स्वहृदयमुदाजहार ओं वज्राविश हनय त्रं त्रट् //
अथास्मिन् भाषितमात्रे महादेवः समाविष्ट्वा, स्वकरसहस्रेण मुख[सह]स्त्रमहनत् / अथ वज्रमणिरत्नशिखरकूटागारस्य बाह्यतः सर्वत्रिभुवनैर्महानादो मुक्तः / "अयं सो ऽस्माकमधिपतिरनेन महात्मना [शास्यत" इति] //
अथ भगवान् महादेवस्योपरि महाकरुणामुत्पाद्य, इदं सर्वबुद्धमैत्रीहृदयमभाषत् ओं बुद्ध मैत्री वज्र रक्ष हं //
अथास्मिन् भाषितमात्रे महादेवस्य तदावेशदुःखमुपशान्तं / तच्च वज्रपाणिपादतलस्पर्शमनुत्तरसिद्ध्यभिषेकसमाधिविमोक्षधारणी ज्ञानाभिज्ञावाप्तये यावत् तथागतत्वाय संवृत्त इति / अथ महादेवो भगवत्पादतलस्पर्शात्सर्वतथागतसमाधिधारणीविमोक्षसुखान्यनुभवन्त महादेवकायं वज्रपाणिपादमूले निपातयित्वा, अधस्ताद् द्वात्रिंशद्गङ्गानदीवालुकोपमलोकधातुपरमाणुरजः समा लोकधातवो ऽतिक्रम्य, भस्मच्छत्रा नाम लोकधातुस्तत्र भस्मेश्वरनिर्घोषो नाम तथागत उत्पन्नः / अथ तस्मान्महादेवकायादिदमुदानं निः सृतवान् /
अहो हि सर्वबुद्धानां बुद्धज्ञानमनुत्तरं / पातयित्वाक्षरपदे निर्वृत्तौ स्थापयन्ति हि // इति //
अथ वज्रपाणिर्महाबोधिसत्वस्तानन्यान् नारायणादान् सर्वत्रिलोकाधिपतीनेवमाह / "प्रविशध्वं मार्षा अस्मिन्सर्वतथागतवज्रसमयमहामण्डले; प्रविष्ट्वा सर्वतथागतसमयमनुपालयत!" / त एवमाहुः / "यथा ज्ञापयसि तथा कुर्म" इति //
अथ वज्रपाणिर्महाबोधिसत्वस्तांस्त्रिभुवनसन्निवेशानाहूयैवमाह / "प्रतिगृण्हत मार्षाः पुनस्त्रिशरणगमनशिक्षासमयसंवरं, मम च समये तिष्ठत!" / त एवमाहुः "एवमस्त्विति / किन्तु वयं तव समयम् [अकोविदाः]" /
अथ वज्रपाणिः स्वसमयमनुप्रादात् / बोधिचित्तं समुत्पद्य यथा च क्रमतः पर[म् / बोध्यर्थाय यथाबलं यत]ध्वं सुसमाहिताः //
अथ वज्रपाणिर्महाबोधिसत्वः तेषां देवादीनां, "प्रवेशमहासमयमुद्रां बन्धान" इति कृत्वा, बन्धयन्ति स्म, अनेन [महासमय]मुद्राहृदयेनेति /
ओं वज्र समय गृह्ण बन्ध समयं, वज्रसत्व समयमनुस्मर सर्वतथागतसमयस्त्वं / दृढी मे भव, स्थिरो मे भव, [आहार्यो मे भव, अप्रतिहा]र्यो मे भव, सर्वकर्मसु च मे चित्तश्रेयः कुरु / ह ह ह ह हूं //
अथास्मिन्नुच्चारितमात्रे सकलत्रैधातुकत्रिभुवनजनसनिवेशस्य[वज्रक्रोधतेरिन्तिरिमुद्रापाणिभ्यामाविश्य बन्धतो दृढीभूतेति //
new names of sarva deities
अथ वज्रपाणिर्यथावत्प्रवेशयित्वा, सर्वमहामण्डलं यथानुपूर्वेण देशयित्वा, वज्ररत्नाभिषेकैरभिषिच्य, वज्रचिन्हानि च करेभ्यो दत्वा, वज्रनामाभिषेकैरभिषिच्य, सर्वतथागतसत्वार्थतायां स्थापयामास / अथ सर्वत्रैलोक्याधिपतीनां कर्म भवति / तद्यथा, महेश्वराय क्रोधवज्रः, नारायणाय मायावज्रः, सनत्कुमाराय वज्रघण्टः, ब्रह्मणे मौनवज्रः, इन्द्राय वज्रायुधः, इति विद्याराज्यका इत्यभिषिक्ताः / ततो ऽन्तरीक्षचराणां सर्वदेवाधिप[तीनामनुप्रादात् /] तद्यथा, अमृतकुण्डले वज्रकुण्डलिः, इन्दवे वज्रप्रभः, महादण्डाग्राय वज्रदण्डः, पिङ्गलाय वज्रपिङ्गलः, इत्येवमादाय वज्रक्रोधा इत्यभिषिक्ताः / तत आकाशचराणां सर्वदेवाधिपतीनामनुप्रादात् / तद्यथा, मधुमत्ताय वज्रशौण्डः, मधुकराय वज्रमाला, जयाय वज्रवशी, जयावहाय विजयवज्र, इत्येवमाद्या गणपतय इत्यभिषिक्ताः / ततो भौमानां सर्वदेवाधिपतीनामनुप्रादात् / तद्यथा, कोशपालाय वज्रमुसलः, वायवे वज्रानिलः, अग्नये वज्रानलः, कुबेराय वज्रभैरवः, इत्येवमादयो दूता इत्यभिषिक्ताः / ततः पातालाधिपतीनां सर्वदेवानामनुप्रादात् / तद्यथा, वराहाय वज्राङ्कुशः, यमाय वज्रकालः, पृथ्वीचूलिकाय वज्रविनायकः, वरुणाय नागवज्रः, इत्येवमाद्याश्चेटका इत्यभिषिक्ताः //
new names of saiva goddesses
ततस्त्रैलोक्याधिपतिः सर्वदेवीनां वज्ररत्नाभिषेकेणाभिषिच्य, स्वचिन्हेभ्यो वज्राधिष्ठाप्य, [वज्र] नामाभिषेकेणाभिषिच्य, सर्वतथागतसत्वार्थतायां प्रतिष्ठापयामास / तद्यथा, उमायै क्रोधवज्राग्निः, रुक्मिण्यै [वज्रसौवर्णी], षष्ठ्यै वज्रकौमारी, ब्रह्माण्यै वज्रशान्तिः, इन्द्राण्यै वज्रमुष्टिरि, त्येवमाद्या वज्रराजनिका इत्यभिषिक्ताः / ततो ऽन्तरीक्षचरीणां [सर्वमा]तृणामनुप्रादात् / तद्यथा, अमृतायै वज्रामृता, रोहिण्यै वज्रकान्तिः, दण्डहारिण्यै दण्डवज्राग्रा, जाताहारिण्यै वज्र[मेखला], इत्येवमाद्या वज्रक्रोधिन्य इत्यभिषिक्ताः / ततः खेचरीणां सर्वमातॄणामनुप्रादात् / तद्यथा, मारण्यै वज्रविलया, [अशना]यै वज्राशना, वसनायै वज्रवसना, रत्यै वज्रवशा, इत्येवमाद्या गणिका इत्यभिषिक्ताः / ततो भूचरीणां सर्वमातॄणामनुप्रादात् / तद्यथा, शिवायै वज्रदूती, वायव्यै वेगवज्रिणी, आग्नेध्र्यायै वज्रज्वाला, कुबेर्यै वज्रविकटा, इत्येवमाद्या वज्रदूत्य इत्यभिषिक्ताः / ततः पातालवासिनीनां सर्वमातॄणामनुप्रादात् / वाराह्यै वज्रमुखी, चामुण्डायै वज्रकाली, च्छिन्ननासायै वज्रपूतना, वारुण्यै वज्रमकरी, इत्येवमाद्या वज्रचेट्य इत्यभिषिक्ताः //
अथ वज्रपाणिर्महाबोधिसत्वः तेषां सर्वप्रविष्टानाम्बुद्धज्ञानानि निष्पाद्य, सर्वमुद्राबन्धानि शिक्षयित्वा, वज्रसमयान्यनुप्रादात् अनेन शपथहृदयेन /
अयं वज्रो महावज्रस्सर्वबुद्धैरधिष्ठितः / समयव्यतिक्रमात्क्षिप्रं भस्मीकुर्यत्कुलानि तु //
ओं हन समय हुं फट्
मुद्र
ततो हृदयग्रहणमुद्रमनुप्रादात् /
वज्रमुद्राद्विकं बध्वा तर्जन्यङ्कुशबन्धितं / वलितोद्वलितं कुर्याद्यस्तु कार्यार्थचिन्तकः // 1 //
तस्य युष्माभिः पुरतः स्थातव्यं कार्यसिद्धये / मा वो जीवितनाशाय भवेत्समयो ह्ययम् // 2 //
वज्रबन्धं दृढीकृत्य कुञ्चिताग्र्या सुयन्त्रितं / सन्धायाङ्गुष्ठयुगलं पीडयेन्मध्यमाद्वयं // 3 //
अयं वः समयो हन्याद् यदिं कश्चिदतिक्रमेत् / बन्धं समयमुद्राया वज्रविद्याधरस्य तु // 4 //
कनिष्ठाङ्ग लिबन्धन्तु वज्रमुद्राद्विकस्य तु / पृष्ठतो ऽग्राङ्गु लिग्रस्तं परिवर्त्य शिरे स्थितं // 5 //
वज्रविद्याधराबन्धः समया ऽयं महात्मनः / यस्तु क्रोधो निरीक्षेत स्थेयन्तस्य पुरस्तथा // 6 //
वज्ररक्षां दृढां बध्वा वज्रबन्धं तु पीडयेत् / भौमानां समयो ह्येष सर्वसत्वाभिरक्षकः // 7 //
यस्तु कश्चित्परित्रार्थे बन्धेत्क्रोधसमन्वितः / रक्षायै[य]स्य सत्वस्य स्थातव्यं तस्य पृष्ठतः // 8 //
वज्रमुद्रद्विकं बध्वा वमवज्राग्रपीडिता / वलितोद्वलितं कृत्वा स्फोटयेत्कन्यसाङ्गलि // 9 //
य[दि क्रोधं समाविशेत्] प्रयुञ्चेत् समयोह्य / तस्य युष्माभिः पुरतः स्थेयं सर्वाग्रसिद्धय // इति // 10 //
ग्रन्थितं वज्रबन्धेन दृढन्तर्जनी [योगेन] / मध्यमाङ्गुष्ठमुखयोर्वज्रमुद्रां परिक्षिपेत् // 11 //
परिवर्त्य ललाटे तु स्थाप्य यस्तु समाव्हयेत् / तस्य स्थेयं पुरः शश्वद् यदि जीवि[तं स्थापयेद् // 12 // इ]ति //
अथासां सकलत्रिलोकहृदयग्रहणसमयमुद्राणां समयग्रहणहृदयानि भवन्ति / ओं वलितोद्वलित वज्राकर्षय [हुं ज्जः //] वज्रवलितमुद्राया देवाकर्षणहृदयं / हुं वज्राग्र पीडय समय हुं // अन्तरीक्षचराणं //
ओं वज्रमालाग्र वं // मालधारिणी[नां /] ओं वज्रबन्ध हं // भूचराणां / ओं वज्र पाताल भंज भंज हुं फट् // पातालनिवासिनां / ओं हेरूक वज्र समय सर्वदुष्ट समय मुद्रा प्रभंजक हुं फट् // सर्वमातॄणामिति //
अथ भगवान् वज्रपाणिर्भगवन्तमेतदवोचत् / "अहं भगवं सर्वतथागतैर्दुष्टदमक इत्यभिषिक्तः, तत्साध्वाज्ञापयैषां सर्वदुष्टमण्डलबन्धानां कथं प्रतिपद्यामि" /
अथ भगवानिदमुपश्रुत्य एवमाह / ओं वज्र सुंभ निसुंभ हुं फट् //
अथ वज्रपाणिर्महाबोधिसत्वः सर्वसत्वपरित्राणार्थमिदं सर्वमण्डलाकर्षणहृदयमभाषत् /
ओं वज्र समयाकर्षय सर्वमण्डलान् वज्रधर सत्यं मातिक्रम हुं फट् //
वज्राङ्कुशद्वयं हृदये परिवर्तितं / अर्गाङ्कुशीद्वया बाह्यमण्डलाकर्षणं परं //
अथास्मिन् भाषितमात्रे सर्वमण्डलानि सर्वतः सुमेरुगिरिमूर्ध्नि बाध्यतः परिवार्यावस्थितानि /
अथ भगवान् वज्रपाणिस्तां सर्वमण्डलसन्निवेशानाहूयैवमाह / "प्रतिपद्यत मार्षाः प्राणातिपातवैरमण्यसमयसंग्रहणम्!" इति / अथ तैर्बाह्यमण्डलसमयसत्वैर्भगवां विज्ञप्तो, "वयं भगवन् मान्साहारा दृष्टसत्वतया ओजोहारेण जीविकां कल्पयामः; तदाज्ञापयतु भगवान् कथमस्माभिर्जीवितव्यम्" इति /
अथ वज्रपाणिर्महाबोधिसत्व इमं दुष्टवज्रक्रोधमभाषत् / ओं दुष्टवज्रक्रोध हन दह पच विध्वंसय विकिर सर्वदुष्टसमयमुद्रामण्डलान् भंज भंज मर्द मर्द खाद खाद परमन्त्रान् वज्र समय हुं फट् //
वज्र क्रोधाङ्गुली सम्यग्नखसन्धानवेष्टिते / सन्धयेन्मुखतो गाढां मुद्रेयं दुष्टनाशनी // ति //
अथास्मिन् भाषितमात्रे सर्वदुष्टमण्डलानि एकध्यीभूत्वानेकानि विध्वन्सितानि विकीर्णानि, समयमुद्राबन्धाः स्फोटिताः / ते च दुष्टसमयसत्वा दह्यमानाः पच्यमाना महान्तो महारौरवान्तान्तान् खान् मुञ्चन्तो, येन भगवान् महावज्रधरस्तेनाञ्जलयो बध्वैवमाहुः / "परित्रायस्व भगवन्, येन वयं प्राणान् न परित्यजामः!" /
अथ वज्रपाणिः पुनरपि भगवन्तमेतदवोचत् / "आज्ञापयस्व भगवन् कथमेषां दुष्टमण्डलानां प्रतिपद्यामि" / अथ भगवानिदमुवाच ओं निसुंभ हन दह पच गृह्ण बन्ध हुं फट् //
अथ वज्रपाणिर्महाबोधिसत्व इ[मं] वज्रक्रूरक्रोधमभाषत् ओं महावज्रक्रूरक्रोध पातय सर्वदुष्टमण्डलान्, विनाशय सर्वदुष्टसमयान्, विकिर विध्वं[सय स्फो]टय भंजय सर्वदुष्टसमयमुद्राबन्धान्, गृह्ण हन दह पच सर्वदुष्टसमयसत्वान्, वज्र समय हुं फट् //
अथास्मिन् भाषितमात्रे सर्वदुष्टसमयमुद्रामण्डलानि पुनरप्येकध्यीभूत्वा महासागरे प्रपतितानीति //
अथ वज्रपाणिर्महाबोधिसत्वः पुनरपि भगवन्तमेतदवोचत् / "अहं भगवता सर्वदुष्टदमनायाध्येषितः / तदेषां डाकिनीग्रहादीनां सर्वग्रहाणां कथं प्रतिपद्यामि? /"
अथ भगवानिदमवोचत् ओं हन हन वज्र हुं फट् //
अथ वज्रपाणिर्महाबोधिसत्वः पुनरपि सर्वडाकिन्यादिदुष्टग्रहाकर्षणहृदयमभाषत् ओं वज्राकर्षय शीघ्रं सर्वदुष्टग्रहान् वज्रधरसत्येन हुं जः //
अथास्मिन् भाषितमात्रे डाकिन्यादयः सर्वदुष्टग्रहाः सुमेरुगिरिमूर्ध्नि बाह्यतो मण्डलीभूत्वावस्थिता इति //
अथ वज्रपाणिर्महाबोधिसत्वः तां डाकिन्यादीन् सर्वदुष्टग्रहानाहूयैवमाह / "प्रतिपद्यत मार्षाः प्राणातिपातवैरमण्यशिक्षासमयसंवरे; मा वो वज्रेणादीप्तेन प्रदीप्तेनैकज्वालीभूतेन कुलानि निर्दहेयम्" /
अथ ते डाकिन्यादयः सर्वदुष्टग्रहा येन भगवान् तेनाञ्जलिम् बध्वा भगवन्तं विज्ञापयामासुः / "वयं भगवन् मान्साशिनस्, तदाज्ञापयस्व कथं प्रतिपत्तव्यम्" इति /
अथ भगवान् वज्रपाणिमेवमाह "प्रतिपद्यस्व वज्रपाणे एषां सर्वानां महाकरुणामुत्पाद्योपायन्दातुम्" इति /
अथ वज्रपाणिर्महाकारुणिक इदं सर्वसत्वमरणनिमित्तज्ञानमुद्राहृदयमभाषत् ओं वज्र प्रतिगृहण हृदयमाकर्षय, यद्ययं सत्वो मांसादत्वेन म्रियते, तदस्य हृदयन्निष्क्रमतु, समय हुं ज्जः //
अथास्य मुद्राबन्धो भवति /
वज्रबन्धं समाधाय बाहुभ्यां सुहृदं हृदि / वज्राङ्गुलिमुखाभ्यान्तु स्वकक्षौ तु समुत्कर्षेद् // इति //
अनया मुद्रया भवद्भिः सर्वसत्वहृदयान्यपकृष्य भोक्तव्यानी-" ति /
अथ ते डाकिन्यादयः सर्वदुष्टग्रहा हुलुहुलुप्रक्ष्वेडितानि कृत्वा स्वभवनं गता इति //
अथ भगवान् वज्रपाणिः पुनरपि भगवन्तमेतदवोचत् / "अहं भगवद्भिः सर्वतथागतैः सर्वदुष्टदमक इति कृत्वाध्यिष्टः / तदाज्ञापयतु मे भगवान् ज्वरादीनां व्याधीनां किङ्करोमि" //
अथ भगवानाह ओं हुं फट् //
अथ वज्रपाणिर्महाबोधिसत्वः सर्वज्वराद्याकर्षणहृदयमुदाजहार ओं वज्र समयानय सर्व[दुष्ट]ज्वरादीन्नाशयं हुं फट् //
अथास्मिन् भाषितमात्रे ज्वरादयः सर्वे सुमेरुगिरिमूर्ध्नि बाह्यतः परिवार्यवस्थिता अभूवन् /
अथ वज्रपाणिस्तान् ज्वरादीनाहूयैवमाह / "प्रतिपद्यत मार्षाः सत्वोपघातवैरमण्यशिक्षाग्रहणसंवरे!" / अथ त एवमाहु / "वयं भगवन् सत्वौ [जो ऽप]हृत्य जीविकां कल्पयामः / तत्साधु भगवानाज्ञापयतु कथं प्रतिपद्यामह" इति /
अथ वज्रपाणिर्महाबोधिसत्व इदं स्वकर्मविशुद्धिज्ञानमुद्राहृदयमुदाजहार ओं वज्रकर्म विशोधय सर्वावरणानि बुद्धसत्येन समय हूं //
अथास्य मुद्राबन्धो भवति /
वज्राञ्जलिं दृढीकृत्य तर्जनीद्वयकुञ्चितां / सुबन्धितसमाङ्गुष्ठ्ययन्त्रिता पापहारिणी // इति //
इयं मुद्रा यस्य ज्वरादिसर्वव्याधिस्पृष्टस्य कर्मतो दर्शयेत्, तद्युष्माभिरपसर्तव्यं; मा वो जीवितनाशो भवेद्" इति / अथ त "एवमस्त्व्" इति कृत्वा प्रक्रान्ता इति //
अथ वज्रपाणिर्महाबोधिसत्वः सर्वतथागतानेवमाह / "अहं भगवद्भिः सर्वावरणनीवरणकर्मावरणविशुद्धिहेतोः स्वहृदयेभ्यो विनिःसृष्टः / तदाज्ञापयतु मे भगवन्तः एषान्नरकादीनां सर्वापायानां कथं प्रतिपत्तव्यम्" इति /
भगवानाह ओं क्षपय वज्र स्वाहा //
अथ वज्रपाणिर्महाबोधिसत्वः रौरवादिसर्वापायगतिचक्राकर्षणहृदमभाषत् ओं सर्वापायकर्षण विशोधन वज्रसमय हुं फट् //
अथास्मिन् भाषितमात्रे रौरवमहारौरवादयः सर्वापायसन्निवेशाः सुमेरुगिरिमुर्ध्नि बाह्यतः परिवार्यावस्थिताः /
अथ वज्रपाणिर्महाबोधिसत्वः तानपायभूमिपतितान् सर्वसत्वानाहूयैवमाह / "गृह्णत मार्षास्त्रिशरणगमनसङ्कटात्! / एष वयं बुद्धं धर्म संघं त्वं च शरणं गच्छाम" इति / अथ वज्रपाणिः सर्वापायस्फोटनहृदयमुदाजहार ओं वज्रपाणि विस्फोटय सर्वापायबन्धनानि प्रमोक्षय सर्वापायगतिभ्य सर्वसत्वान् सर्वतथागतवज्र समय त्रट् //
अथास्य मुद्राबन्धो भवति /
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
