Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa
संघाटसूत्र (bản khác)
- Thông tin
- GRETIL — Giotto Canevascini: The Khotanese Saṅghāṭasūtra. Wiesbaden: Dr. Ludwig Reichert Verlag, 1993 (Beiträge zur Iranistik, 14).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
[ससू(च्) 158] 1. अथ खलु सर्वशूरो बोधिसत्वो महासत्वो, दशसु दिक्षु लोकधातुषु गत्वा, बोधिसत्वानाम् आरोचयति: 2. अद्य मार्षा शाक्यमुनिस् तथागतो ऽर्हन् सम्यक्संबुद्धः सहायां लोकधातौ राजगृहे महानगरे सत्वानान् धर्मन् देशयति. 3. तद् यूयं साधुकारम् अनुप्रयच्छथ, तद् युष्माकम् अद्यैव हिताय सुखाय महालाभो भविष्यति.
[ससू(च्) 159] 1. अथ खलु सर्वशूरो बोधिसत्वो महासत्वो, दशसु दिक्षु लोकधातुषु गत्वा, सर्वबुद्धान् पर्युपास्य, बोधिसत्वानाम् आरोचयित्वा, तद्यथापिनाम बलवान् पुरुषो ऽच्छटासंघाटं कुर्याद्, अत्रान्तरे सर्वशूरो बोधिसत्वो महासत्वो, येन राजगृहं महानगरं, येन च भगवांस्, तेनागत्य, भगवतः पुरतः स्थितः. 2. तत्र च सर्वे ब्राह्मणान्यतीर्थिकचरकपरिब्राजकनिग्रन्थाः सन्निपतिताः; 3. बहवश् च देवनागमनुष्यामनुष्याः, पंचमात्राणि च राजशतानि सपरिवाराणि सन्निपतितानि; 4. त्रिंशत् कोटीसहस्राणि माराणां पापीयसां सपरिवाराः सन्निपतिता.
[ससू(च्) 160] 1. तेन खलु पुनः समयेन राजगृहं महानगरं प्रकंपितम्. 2. अथ खलु दशसु दिक्षु लोकधातुषु दिव्यं चन्दनचूर्णं प्रवर्षितं; 3. दिव्यं च पुष्पवर्षं प्रवर्षितं. 4. तद् भगवतो मूर्धसन्धौ कूटागारः संस्थितः. 5. तेन खलु पुनः समयेन तथागतस्य पुरतः शक्रो देवानाम् इन्द्रः स्थितो ऽभूत्. स वज्रेण भूमिं पराहनत्.
[ससू(च्) 161] 1. अथ खलु तस्मिन् समये चतुर्दिशं चत्वारो वातराजान उत्थाय प्रवान्ति, 2. ये च राजगृहे महानगरे संकरा वा, पांसवो वा, बालिका वा, तत् सर्वं नगराद् बहिः प्रक्षिपन्ति; 3. दशसु दिक्षु लोकधातुषु गन्धोदकवर्षं प्रवर्षन्ति; 4. दशसु दिक्षु लोकधातुषूत्पलपद्मकुमुदपुण्डरीकाणि प्रवर्षन्ति; 5. ते च पुष्पास् तेषां सत्वानाम् उपरि मुर्ध्नि पुष्पच्छत्राणि तस्थिरे, तथागतस्य चोपरि मुर्ध्नि. 6. उपर्य् अन्तरीक्षे चतुरशीतिः कूटागारसहस्राणि संस्थितानि, 7. तेषु च चतुरशीतिषु पुष्पकूटागारसहस्रेषु चतुरशीति सहस्राण्य् आसनानां प्रज्ञप्तानि सप्तरत्नमयानि प्रादुर्भूतानि, 8. सर्वत्र चासने तथागतो निषण्णो धर्मन् देशयति. 9. अथ खल्व् अयं त्रिसाहस्रमहासाहस्रो लोकधातुः षड्विकारं प्रकम्पितः.
[ससू(च्) 162] 1. अथ खलु सर्वशूरो बोधिसत्वो महासत्वो, येन भगवांस् तेनांजलिं प्रणम्य, भगवन्तम् एतद् अवोचत्: को भगवन् हेतुः कः प्रत्ययो यद् इमान्य् एवंरूपाणि राजगृहे महानगरे प्रातिहार्याणि सन्दृश्यन्ते? 2. भगवान् आह: तद्यथा कश्चिद् एव पुरुषः स्याच्, चञ्चलश्, चपलो, ऽहंकारममकारस्थितः; स च दरिद्रो भवेत्. 3. तस्य राजा शीर्षं परिमार्जयेद्; अथ स पुरुषो ऽधिमानाद्, यावाद् राजद्वारं गत्वा, बलसा तं राजकुलं प्रवेष्टुम् इच्छेद्. अथ ते राजामात्यपार्षद्यास् तं पुरुषं गृह्णीयुर्, बहुभिश् च प्रकारैस् ताडयेयुर्.
[ससू(च्) 163] 1. अथ तेन कालेन तेन समयेन स राजा शृणुयाद् एतां प्रकृतिं: स दरिद्रपुरुषो बलसाभ्यन्तरं प्रवेष्टुकाम. इति श्रुत्वा चास्यैवं भवेद्: अवश्यम् अयं मम घातयितुकामः. 2. ततः स राजा रुष्टस् तान् पार्षद्यान् एवं वदेद्: गच्छन्तु भवन्त, एतं पुरुषं पर्वतविवरं नीत्वा जीविताद् व्यपरोपयथ सर्वपरिवारं; 3. मातापितृपुत्रदुहितृदासीदासकर्मकराणां च व्यसनम् आपादयथ. 4. अथ ते सर्वे जीविताद् व्यवरोपिताः, 5. तस्य च सर्वे स्वजनबन्धुवर्गाः परमशोकशल्यसमर्पिता भवेयुः.
[ससू(च्) 164] 1. एवम् एव सर्वशूर तथागतो ऽर्हन् सम्यक्संबुद्धः सत्वानान् धर्मन् देशयति. 2. तत्र, यथा स पुरुषो ऽधिमानिक, एवं बालपृथग्जनास्: तथागतं रूपवर्णलिंगसंस्थानतो निमित्तम् उद्गृह्य, तथागतकायम् इति संजानन्ति.
[ससू(च्) 165] 1. तत्र ते बहून् धर्मां च्छ्रुत्वाधिमाने पतन्ति, नानाप्रलापान् प्रलपन्ति. 2. अहंकारममकारेणाभिभूताः स्वयम् एव धर्मं न शृण्वन्ति न प्रकाशयन्ति. 3. यः कश्चित् सूत्रं वा गाथां वान्तशो दृष्टान्तं वा तेषां आरोचयति, तत् ते न गृह्णन्ति, न श्रोत्रम् अवदधन्ति: वयं स्वयं जानीमह इति: 4. तत् कस्य हेतोर्? यथापिनमाधिमानत्वात् तेन बाहुश्रुत्येन प्रमादम् आपद्यन्ते.
[ससू(च्) 166] 1. ये बालपृथग्जनैः सार्धं समवधानं कुर्वन्ति न ते तथारूपं धर्मोपसंहितं वचनं श्रोष्यन्ति; 2. ते तेन बाहुश्रुत्येन प्रमत्ता भविष्यन्ति; 3. ते तथारूपाः पुरुषाः स्वकाव्यानि स्थापयन्ति, स्वकानि ग्रन्थानिदानानि स्थापयन्ति; 4. ते सर्वलोकं चात्मानं च विसंपादयन्ति; 5. व्यर्थं च राष्ट्रपिण्डं प्रभूतं परिभोक्ष्यन्ति, भुक्त्वा च न सम्यक् परिणमयिष्यन्ति. 6. मरणकालसमये तेषां महासन्त्रासो भविष्यति.
[ससू(च्) 167] 1. ते च सत्वास् तं वक्ष्यन्ति: बहवस् त्वया वयं शिल्पज्ञानं शिक्षापिताः कथं त्वं स्वम् आत्मानं न शक्नुषे संस्थापयितुं? 2. स तेषां एवं वदेन्: न शक्यं मार्षा इदानीम् आत्मानं परिसंस्थापयितुं.
[ससू(च्) 168] 1. तत्र ते सत्वास्, तस्य तद् भाषितं श्रुत्वा, नानाप्रकारं परिदेवयिष्यन्ति. 2. यथा तस्यैकपुद्गलस्यार्थेन बहवो ज्ञातिसंघा जीविताद् व्यवरोपिता अनपराधिनः, स्वकर्मप्रत्ययेन, एवम् एव ते सत्वा मरणकालसमये, तेषां परिदेवतां नरकतिर्यग्योनिपरायणं आत्मानं समनुपश्यन्ते ऽकल्याणमित्रसंसर्गहेतोः. 3. तद् अहं युष्माकं ब्राह्मणानाम् अन्यतीर्थिकचरकपरिब्राजकनिग्रन्थानाम् एवं वदामि: मा यूयं प्रमत्ता भवथ! 4. तद्यथापिनामाजातपक्षः शकुनिर् न शक्नोत्य् आकाशे प्रक्रमितुं देवलोकगमनाय, एवम् एव युष्माभिर् अहंकारममकारस्थितैर् न शक्यं निर्वाणं अनुप्राप्तुं; न युष्माकं तथा ऋद्धिः संविद्यते. 5. तत् कस्य हेतोः? कर्मप्रकरणेन यूयं कुक्कुटयोन्या इवोत्पन्नाः. 6. न चिरेणायं कायो भेदनधर्मा मरणपर्यवसानो भविष्यति. 7. मरणकालसमये निरास्वादनता, परितस्यनता च भविष्यति.
[ससू(च्) 169] 1. किम् अयम् अस्माभिर् आत्मभावः सन्धारितो ये वयं न देवसुखं न प्रत्यनुभविष्याम, नापि निर्वाणपदस्था भविष्यामः? 2. निरर्थकम् अस्माभिः शरीरम् उद्वूढं! 3. का गतिर् अस्माभिः किं परायणं भविष्यति? 4. कुत्रोपपत्तिः, कुत्र वा निरोधो भविष्यतीति?
[ससू(च्) 170] 1. अथ खलु भगवां पुनर् अपि तान् अन्यतीर्थिकचरकपरिब्राजकनिग्रन्थब्राह्मणान् आमन्त्रयति: 2. मा यूयं मार्षा रत्नमयाज् जंबुद्वीपान् निराशा भविष्यध्वे! 3. मा यूयं धर्मरत्नात् परिबाह्या भविष्यथेति! 4. पृच्छथ यूयं मार्षास् तथागतं यद् यद् एवाकांक्षथाह; अहं युष्माकं सर्वाभिप्रायान् परिपूरयिष्यामि.
[ससू(च्) 171] 1. अथ खलु ते सर्वे ब्राह्मणान्यतीर्थिकचरकपरिब्राजकनिग्रन्था उत्थायासनेभ्य, एकांसानि चीवराणि प्रवृत्य, अंजलयः प्रगृह्य, भगवन्तं परिपृच्छन्ति स्म: 2. बहूनि भगवं सत्वानि रात्रिन्दिवस् तथागतः संसारात् परिमोचयति, न च सत्वधातोर् ऊनत्वं वा पूर्णत्वं वा प्रज्ञायते. 3. को भगवन् हेतुः कः प्रत्ययः यत् ते सत्वा समाना उत्पादनिरोधं दर्शयन्ति?
[ससू(च्) 172] 1. अथ खलु भगवान् भैषज्यसेनं बोधिसत्वं महासत्वम् आमन्त्रयति स्म: 2. महासन्नाहं सन्नह्यन्ति तीर्थ्या महाकौकृत्यविनोदनार्थाय. महाधर्मोल्काज्वालनायमहाप्रश्ननिदानं परिपृच्छन्ति. 3. पश्चिमे तु काले न भविष्यन्ति दहरा सत्वा वृद्धा वा ये उत्पादनिरोधं करिष्यन्ति. सन्ति भैषज्यसेन वृद्धा सत्वा दहरा इव न किंचिज् जानन्ति.
[ससू(च्) 173] 1. तद्यथापिनाम भैषज्यसेन कश्चिद् एव पुरुषः शिरः शोचयेत, नवकानि च वस्त्राणि प्रवृणुयात् स च गृहाद् बहिर् निष्क्रमेत; 2. तम् एनं सत्वा आमन्त्रयन्ति: सुप्रावृतानि ते नवकानि वस्त्राणीति. 3. अथ कश्चिद् एवापरः सत्वो भवेत्; स शिरः शोचयेत, पुराणकानि च वस्त्राणि प्रावृणुयात्; तानि च शिथिलकानि भवन्ति, न च शोभन्ते. 4. स च पुरुषः सुस्नातशिरा भवति, वस्त्रं चास्य न शोभते. 5. एवम् एव भैषज्यसेन संति वृद्धा सत्वा ये जंबुद्वीपं न शोभयन्ति. 6. दहरास् तु सत्वा उत्पादनिरोधं दर्शयन्ति.
[ससू(च्) 174] 1. अथ खलु ते सर्वे ऽन्यतीर्थिकचरकपरिब्राजकनिग्रन्थब्राह्मणा उत्थायासनाद्, भगवन्तम् एतद् अवोचन्: को भगवन्न् अस्माकं वृद्धो वा दहरो वा? 2. भगवान् आह: वृद्धा यूयं! पुनः पुनर् नरकतिर्यक्प्रेतेषु दुःखां वेदनां दृष्ट्वा तद् अद्यापि यूयं तृप्तिं नाधिगच्छथ!
[ससू(च्) 175] 1. अथ खलु ते सर्वे ब्राह्मणान्यतीर्थिकचरकपरिब्राजकनिग्रन्थाः, सर्वे च नागराजानो भगवन्तम् एतद् अवोचन्: न भूयो भगवन्न् उत्सहाम संसारे दुःखां वेदनाम् अनुभवितुं! 2. ते चान्यतीर्थिकचरकपरिब्राजकनिग्रन्थब्राह्मणा एवम् आहुः: न सन्ति दहरा सत्वा ये शक्नुयुर् धर्मतां साक्षात्कर्तुम्.
[ससू(च्) 176] 1. अथ खलु भैषज्यसेनो बोधिसत्वो महासत्वो भगवन्तम् एतद् अवोचत्: पश्य भदन्त भगवन् कियद् दुरधिमोच्या इमे सत्वाः! 2. भगवान् आह: शृणु भैषज्यसेन, सांप्रतं तथागतः सर्वलोकप्रत्यक्षं करोति.
[ससू(च्) 177] 1. अथ खलु चतुर्नवति कोटीसहस्राणि नवकानां सत्वानां ते तथागतस्य पुरतः स्थिताः. न च तथागतं वन्दन्ति, नालपन्ति, न संलपन्ति. 2. अथ खलु भैषज्यसेनो बोधिसत्वो महासत्वो भगवन्तम् एतद् अवोचत्: को भगवन् हेतुः कः प्रत्ययो यद् एते सत्वा भगवन्तं नालपन्ति, न संलपन्ति, न वन्दन्ति, न च भगवन्तं परिपृच्छन्ति? 3. भगवान् आह: शृणु भैषज्यसेन, सत्वा एवं वदन्ति: न शक्यं नवकैः सत्वैर् धर्मता साक्षात्कर्तुम्. 4. त एते भैषज्यसेन नवकाः सत्वा युष्माभिर् द्रष्टव्याः. 5. ते च सत्वा एवं आहुर्: वयं भगवन् नवकाः सत्वा, वयं सुगत नवकाः सत्वा! 6. भगवान् आह: एषां भो सत्वानां लोकप्रत्यक्षं, सांप्रतं स्वशरीराल् लोकस्य प्रमाणं दर्शयथ.
[ससू(च्) 178] 1. तेन खलु पुनः कालेन तेन समयेन चतुर्नवति कोटीसहस्राणि नवकानां सत्वानां, कायस्य भेदाद् अन्तरीक्षे स्थित्वा, दशभूमिप्रतिलब्धा अभूवन्. 2. अथ खलु भैषज्यसेनो बोधिसत्वो महासत्वो भगवन्तम् एतद् अवोचत्: सुलब्धालाभा भगवन्न् ईदृशाः सत्वाः ये संसारे परिक्षयाय पर्यादानाय वीर्यम् आरभन्ते. 3. अद्यैव भगवन्न् इमे सत्वा उत्पन्नाः, अद्यैव भगवन्न् इमे सत्वाः परिमुक्ताः, अद्यैव सर्वे दशभूमिप्रतिष्ठिता दृष्टाः.
[ससू(च्) 179] 1. अथ खलु सर्वब्राह्मणान्यतीर्थिकचरकपरिब्राजकनिग्रन्था, नागराजानो ऽपि, माराश् च पापीमान् सपरिवार उपसंक्रान्तो विचक्षुष्करणाय, सर्वे भगवन्तम् एतद् अवोचन्न्: इह वयं भगवन्स् तथागतस्यान्तिकम् उपसंक्रान्ता विचक्षुष्करणाय. 2. ते वयं भगवन्न्, इमन् धर्मपर्यायं श्रुत्वा, प्रसादप्रतिलब्धा अभूम बुद्धे च धर्मे च. 3. तत्रास्माकं भगवन् सर्वेषाम् एवं भगवत्य्: एवंरूपं बुद्धसुखं प्रतिलभेमहे! 4. एवंरूपाश् च तथागता अर्हन्तः सम्यक्संबुद्धा लोके भवेमः.
[ससू(च्) 180] 1. भगवान् आह: एवम् एतद् भद्रमुखा! यथा यूयं तथागतस्यान्तिकम् उपसंक्रान्ताः, तैर्युष्माभिर् इमं संघाटं धर्मपर्यायं श्रुत्वा, आनुत्तरायां सम्यक्संबोधौ चित्तं उत्पादितं. 2. तेन यूयं भद्रमुखाः कुशलमूलेन न चिरेण कालेनानुत्तरां सम्यक्संबोत्स्यध्वे. अभिसंभोत्स्यध्वे.
[ससू(च्) 181] 1. समनन्तरभाषिता च तथागतेनेयं वाग्, अथ तेषां सर्वेषाम् अन्यतीर्थिकचरकपरिब्राजकनिग्रन्थब्राह्मणानाम् अनुत्पत्तिकधर्मक्षान्तिप्रतिलाभो ऽभूत्, 2. सर्वे च दशभूमिप्रतिष्ठिता बोधिसत्वाः संवृत्ताः, 3. सर्वे च ते बोधिसत्वा, उपर्य् अन्तरीक्षे सप्त तालान् वैहायसम् अभ्युद्गम्य, सप्तरत्नमयानि कूटागाराणि तथागतस्योपनामयन्ति, 4. सर्वे च नानाविकुर्वाधिष्ठानर्ध्यभिसंकारान् अभिसंस्कुर्वन्ति. 5. अथ ते, भगवत उपरि मूर्ध्नि स्थित्वा भगवन्तं नानापुष्पैर् अभ्यवकिरन्ति. 6. तथागतांश् च मनसिकुर्वन्ति, स्वकाये च बुद्धसंज्ञाम् उत्पादयन्त्य्. 7. अनेकानि च देवपुत्रकोटीनयुतशतसहस्राणि दिव्यपुष्पैस् तथागतम् अभ्यवकिरन्ति स्म.
[ससू(च्) 182] एवं च वाचम् अभाशन्त: महालाभः श्रमणो गौतमः! महाक्षेत्रो, लोकनाथः; समाधिबलाधानप्राप्तः; विज्ञो, विज्ञार्थिकः, यः ईदृशान् सत्वान् संसाराद् अनुपूर्वेणोपायकौशल्येन परिमोचयत्य्: एकेन सुभाषितमात्रेण एतावन्ति सत्वानि संसारात् परिमुच्यन्ते!
[ससू(च्) 183] 1. अथ खलु भैषज्यसेनो बोधिसत्वो महासत्व उत्थायासनाद्, एकांसम् उत्तरासंगं कृत्वा, दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य, येन भगवांस् तेनांजलिं प्रणम्य, भगवन्तम् एतद् अवोचत्: 2. को भगवन् हेतुः कः प्रत्ययो यद् एते देवपुत्रा एवं वाचं निश्चारयन्ति, बहूनि च र्ध्यभिसंस्कारान् कुर्वन्ति, बहूनि च तथागतस्य वर्णान् अभिसंस्तुवन्ति स्म? 3. भगवान् आह: शृणु कुलपुत्र, न हि ते मां स्तुवन्ति, स्वकायम् एव स्तुन्वन्ति; 4. स्वकायम् एव धर्मराजासने स्थापयिष्यन्ति; 5. स्वकायम् एवाग्रधर्मासने प्रतिष्ठापयिष्यन्ति; 6. स्वकायाद् एव धर्मरश्मिन् निश्चारयिष्यन्ति; 7. सर्वबुद्धपरिगृहीताश् च भविष्यन्त्य् अनुत्तरास्याः सम्यक्संबोधेर् अभिसंबोधाय, अभिसंबुध्य च धर्मन् देशयिष्यन्ति.
[ससू(च्) 184] 1. अथ खलु भैषज्यसेनो बोधिसत्वो महासत्वो भगवन्तम् एतद् अवोचत्: बहवो भदन्त भगवन् सत्वाः, बहवो भदन्त सुगत सत्वा रात्रिन्दिवं परिमुच्यन्ते; तद् अद्यापि सत्वानां क्षयो न भवति. 2. भगवान् आह: साधु साधु भैषज्यसेन यस् त्वं तथागतम् एतम् अर्थं परिप्रष्टव्यं मन्यसे. शृणु भैषज्यसेन! 3. तद्यथापिनाम भैषज्यसेन कश्चिद् एव पुरुषो भवेद्, आढ्यो, महाधनो, महाभोगः, बहुधनधान्यकोशकोष्ठागारसमन्वागतः, बहुदासदासीकर्मकरपौरुषेयानि चास्य स्युर्, बहूनि च धनस्कन्धानि, बहूनि च क्षेत्रारामाणि संविद्येरन्, बहूनि च धनधान्यानि; 4. स च पुरुषो वसन्तकाले सर्वाणि तानि धनधान्यानि वापयेत्. 5. अथ यावद् अपरेण कालसमयेन सर्वाणि तानि बीजानि परिपच्येरन्, स परिपक्वानीति विदित्वा, ततः स पुरुषस् तानि धनधान्यानि गृहस्याभ्यन्तरे पृथक् पृथक् स्थापयति; स्थापयित्वा परिभुंक्ते. 6. यावद् वसन्तकाले पुनर् एव बीजानि वापयति.
[ससू(च्) 185] 1. एवम् एव भैषज्यसेन इमे सत्वाः, पूर्वं शुभं कर्म कृत्वा, पश्चात् तेषां कर्मणां परिक्षयात्, पुनः पुनर् अपि पुण्यक्षेत्रम् अन्वेषन्ते, कुशलमूलान्य् अवरोपयन्ति. 2. कुशलमूलान्य् अवरोपयित्वा तत्र च कुशलधर्मे प्रतिपत्त्या संपादयन्ति. 3. प्रतिपत्तिसंपन्ना सर्वधर्मान् वर्धयन्ति. 4. सर्वधर्मान् वर्धयित्वा प्रीतिप्रामोद्यम् उत्पादयन्ति, 5. तेन च प्रीतिप्रामोद्यचित्तेन भैषज्यसेनानेकानि कल्पकोटीसहस्राणि न नाश्यन्ते. 6. एवम् एव भैषज्यसेन प्रथमचित्तोत्पादिको बोधिसत्वो न कदाचिद् विनाशधर्मा भवति, संक्षिप्तेन सर्वधर्मान् प्रजानाति.
[ससू(च्) 186] आह: 1. कथं भगवन् प्रथमचित्तोत्पादिको बोधिसत्वः स्वप्नं पश्यति? 2. भगवान् आह: बहूनि भैषज्यसेन प्रथमचित्तोत्पादिको बोधिसत्वः स्वप्नान्तरे भयानि पश्यति. 3. तत् कस्य हेतोर्? यदा स्वप्नान्तरे भयानि पश्यति, तदा सर्वपापकानि कर्माणि परिशोधयति. 4. न शक्यं भैषज्यसेन पापकर्मणा सत्वेन तीव्रं दुःखम् अपनयितुम्, न च पापेन स्वप्नेन दृष्टेनास्य भयं भवति.
[ससू(च्) 187] 1.भैषज्यसेन आह: कतमानि भगवन् प्रथमचित्तोत्पादिको बोधिसत्वः स्वप्नान्तरे भयानि पश्यति? 2. भगवान् आह: अग्निं भैषज्यसेन प्रज्वलितं पश्यति. ततस् तेन बोधिसत्वेनैवं वेदितव्यं: सर्वक्लेशा मे दग्धाः. 3. द्वितीयं भैषज्यसेन उदकं पश्यति, लुडितं, संप्रलुडितं. तत्र तेन प्रथमचित्तोत्पादिकेन बोधिसत्वेन न भेतव्यं. 4. तत् कस्य हेतोः? एवं हि भैषज्यसेन, सर्वपापक्षयं कृतं भवति. 5. तृतीयं भैषज्यसेन प्रथमचित्तोत्पादिको बोधिसत्वः स्वप्नं पश्यति महाभयं. 6. आह: कतमं भगवन्?
[ससू(च्) 188] 1. भगवान् आह: स्वशरीरे शीर्षं मुण्डितं पश्यति. तत्र तेन बोधिसत्वेन न भेतव्यं. 2. तेनैवं चित्तम् उत्पादयितव्यं: रागद्वेषमोहानि मे मुण्डितानि भवन्ति, 3. षड्गतिकं च मे संसारं पराजितं भविष्यति. 4. न हि तस्य नरकावासो भविष्यति, न तिर्यक्षु, न प्रेतेषु वा, नासुरेषु वा, न नागेषु, न देवेषु. 5. परिशुद्धेषु भैषज्यसेन बुद्धक्षेत्रेषु प्रथमचित्तोत्पादिको बोधिसत्व उपपत्तिं प्रतिगृह्णाति.
[ससू(च्) 189] 1. भैषज्यसेन, पश्चिमे काले पश्चिमे समये, यदि कश्चित् सत्वो बोधौ चित्तं परिणमयिष्यति, तेन महती परिभाषणा द्रष्टव्या, परिभूतवासश् च भविष्यति. 2. तत्र तेन भैषज्यसेन न परिखेदचित्तम् उत्पादयितव्यं, न विषीदितव्यं.
[ससू(च्) 190] 1. बहवो भैषज्यसेन मया धर्मा देशिताः. 2. मया च भैषज्यसेनानेकानि कल्पकोटीनयुतशतसहस्राणि दुष्करचर्या चीर्णा. 3. न मया भैषज्यसेन राज्यभोगार्थाय वा, वृत्तिभोगार्थाय वा, ऐश्वर्यभोगार्थाय वा दुष्करचर्या चीर्णा; स्वभावधर्मावबोधाय भैषज्यसेन मया दुष्करचर्या चीर्णा. 4. न च मे तावद् अनुत्तरा सम्यक्संबोधिः प्राप्ता यावन् न मयायं धर्मपर्यायः श्रुतः: 5. यस्मिंस् तु भैषज्यसेन कालसमये मयायं संघाटो धर्मपर्यायः श्रुतः, तत्रैव दिवसे अनुत्तरा सम्यक्संबोधिर् अभिसंबुद्धा. 6. गंभीरो ऽयं भैषज्यसेन धर्मपर्यायः. 7. दुर्लभो ऽस्य धर्मपर्यायस्य श्रवः. 8. परमदुर्लभो भैषज्यसेन तथागतानाम् उत्पादः. परमदुर्लभो भैषज्यसेनास्य धर्मपर्यायस्य धारकः.
[ससू(च्) 191] 1. ये ते इमन् धर्मपर्यायं श्रोष्यन्ति, सर्वे ते ऽनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यन्ते. 2. कल्पसहस्रं भैषज्यसेन संसारात् पश्चान्मुखं करिष्यन्ति. 3. परिषुद्धं बुद्धक्षेत्रं प्रतिलप्स्यन्ते, निरोधमार्गं च प्रज्ञास्यन्ति. 4. भव्याश् च ते निश्रयं प्रज्ञातुं, भव्याः कुशलस्थानं प्रज्ञतुं, भव्या अभिज्ञाकुशलस्थानं प्रज्ञतुम्, भव्याः कुशलस्थाननिरोधं प्रज्ञातुम्.
[ससू(च्) 192] 1. निरोधम् एव भैषज्यसेन किमर्थम् उच्यते? 2. आह: अर्थ उच्यते भगवन् धर्मस्थानम्. 3. भगवान् आह: कतमं भैषज्यसेन धर्मस्थानं? 4. आह: धर्म उच्यते भगवन्न् आरब्धवीर्यता, आरब्धशीलता; शीलसमन्वागमता धर्मनिधानम् इत्य् उच्यते. इदं भगवन् धर्मनिधानं संभवति. 5. भगवान् आह: साधु साधु भैषज्यसेन यस् त्वं तथागतम् एतम् अर्थं परिप्रष्टव्यं मन्यसे.
[ससू(च्) 193] 1. आह: केन कारेण न भगवंस् तथागता लोक उत्पद्यन्ते? 2. भगवान् आह: ये भैषज्यसेन बाहुश्रुत्यसमन्वागमं प्रजानन्ति, ते तथागतानाम् उत्पादं प्रजानन्ति. 3. ते तथागतानाम् उत्पादं ज्ञात्वा, इदं तथागतानाम् उत्पादे सुखस्थानं प्रजानन्ति. 4. यदा च तथागता लोक उत्पद्यन्ते, तदा सत्वा सर्वधर्मान् प्रजानन्ति. लौकिकलोकोत्तरान् धर्मान् प्रजानन्ति. लौकिकलोकोत्तराणि ज्ञानानि प्रजानन्ति.
[ससू(च्) 194] 1. आह: ज्ञानम् एवं ज्ञात्वा, कतमं निर्वाणं प्रजानन्ति? 2. भगवान् आह: धर्मम् एव भैषज्यसेन प्रजानन्ति. 3. धर्मम् एव ज्ञात्वा, एवम् एव भैषज्यसेन धर्मसंग्रहं प्रजानतां प्रथमो लाभ उत्पद्यते. 4. यथाश्रुतं गृह्य, धार्मिक एव लाभो भविष्यति.
[ससू(च्) 195] तद्यथापिनाम भैषज्यसेन कश्चिद् एव पुरुषो वाणिजको भवेत्. स, लाभहेतोर् गच्छन्, परक्यस्वकस्य सुवर्णस्य पुरुषभारसहस्रं गृहीत्वा, गच्छेत्. 2. तस्य तौ मातापितराव् एवम् आहुतुः: 3. शृणु पुत्र, इदं सुवर्णस्य पुरुषभारसहस्रं गृहीत्वा परक्यस्वकस्य च, तत् त्वयेदं सुवर्णं सुगृहीतं कर्तव्यं, न च किंचिद् अतो विनाशयितव्यं. महालाभं कृत्वा, सुवर्णं एव सुगृहीतं कुरु, तद् अस्माकं महालाभो भविष्यति, सुखं च जीविष्यामः. 4. स च पुत्रस् तौ मातापितराव् एवं वदेद्: एवं करिष्यामि, इत्य् उक्त्वा, स वाणिजकः सुवर्णं गृहीत्वा गच्छेद्. अथ स वाणिजकः प्रमादाद् यावन् मासमात्रेण सर्वं सुवर्णं विनाशयेद् विलयं कुर्यात्.
[ससू(च्) 196] 1. अथ स पुरुषश् चिन्तायासम् आपन्नः, शोकशल्येनाविद्धहृदयः; सह्रीर् अपत्राप्येन च स्वगृहं न परविशेत. 2. तस्य तौ मातापितरौ शृणुयातां: एवं युवाभ्यां पुत्रेण तत् सुवर्णं सर्वं विनाशितम्. इति श्रुत्वा निराशीभूतौ; शोकशल्येनाभ्याहतहृदयौ, वस्त्राणि पाटयतः, शोचतः क्रन्दतः. 3. एवं च परिदेवतः: दुष्पुत्रो ऽस्माकं गृहे पुत्ररूपेणोत्पन्नः. सकलं एव गृहं विनाशीतवान्. अस्माकम् अनाथं कृत्वा, दासौ कर्मकरौ कृतौ. 4. तस्य तौ मातापितरौ, चिन्तापरिगतहृदयौ, निराशौ, कालगतौ. 5. ततस् तेन पुत्रेण श्रुतं: मतापितरौ मे, निराशौ कालगतौ. सो ऽपि पुत्रो, निराश एव, कालगतः.
[ससू(च्) 197] 1. एवम् एव भैषज्यसेन तथागतो ऽप्य् एतम् अर्थं भाषते: 2. ये सत्वा मम शासने न प्रसीदन्ति ते निराशीभूता मरणकालसमये, शोकशल्याभ्याहतहृदया, महाधर्मरत्नबहिष्कृताः कालं कुर्वन्ति, 3. यथा तौ मातापितरौ निराशौ शोचतः, परिदेवतः, सुवर्णहेतोः शोकशल्याभ्याहतहृदयौ, परक्यस्वकेन सुवर्णेन शोकशल्यपरिगतौ, चिन्ताम् आपद्य कालगतौ. [ससू(च्) 198] 1. एवम् एव भैषज्यसेन, ये मम शसने न प्रसीदन्ति, पश्चान् मरणकालसमये, परितप्यमानाः परिदेवन्तो दुःखां वेदनां वेदयन्ति, 2. पूर्वकृतानि च पुण्यानि परिभुक्त्वा, न भूयो ऽन्यानि पुण्यानि कुर्वन्ति सुक्षेत्रगतानि. 3. तेषां शोकशल्यपरिगतहृदयानां, तेन कालेन तेन समयेन, नरकतिर्यग्योनियमलोकोपपत्तिं घोरां दारुणान् दृष्ट्वा मरणकालसमये एवं भवति: 4. को मे त्राता भवेद्? यद् अहं नरकतिर्यक्प्रेतयमलोकं न पश्येयन्, न च तां दुःखां वेदनां वेदयेयं!
[ससू(च्) 199] 1. तस्य मातापितराव् एवम् आहतुः: किं करिष्याम पुत्रक? गाथाभिश् चाद्ध्याभाषतः: (1) ग्रहीतुं शक्यते नैव व्याधिर् दुःखं महाभयं / नास्ति ते मरणं पुत्र ग्लानस्य मरणाद् भयं //
मोक्षो भविष्यते तुभ्यं व्याधिभ्यो भयभैरवात् /
2. पुत्र आह: (2) निरुद्ध्यते मे विज्ञानं कायो मे पीड्यते भृशम् / सर्वे अङ्गानि दुःखन्ति मृत्युं पश्यामि आत्मनः //
(3) न पश्यतश् चक्षुषी मे कर्णौ मे न शृणोन्ति च / श्रोत्रं पुनर् न लप्स्यामि न कायः संसहिष्यति //
(4) अङ्गमंगानि मुच्यंति काष्ठा इव अचेतनाः / विस्वादयसि मे अम्ब नागतं मरणं तव //
3. माता आह: (5) वक्तुं नार्हसि पुत्रैवं मा मे त्रासपरां कुरु / कायं तव ज्वराक्रान्तं विप्रकाराणि पश्यसि //
4. पुत्र आह: (6) न पश्यामि ज्वरं काये न च व्याधिर् न दुःखति / पश्यामि मरनं घोरं हतं कायं च मे भृशम् //
(7) पश्यामि आत्मना सर्वं कायं दुःखप्रपीडितं / (8) गच्छामि कस्य शरणं को मे त्राता भविष्यति //
मातापिता वदेत् पुत्र देवक्रोधं हि ते भवेत् / (9) देवेभ्यो यजनं कृत्वा ततः स्वस्तिर् भविष्यति //
पुत्र आह: करिष्यथा यूयम् एव येन स्वस्तिर् भवेन् मम / (10) शीघ्रशीघ्रं च गत्वा वै पृच्छथा देवपालकम् //
[ससू(च्) 200] 1. अथ तस्य तौ मातापितरौ, देवकुलं गत्वा, देवस्य धूपं दापयन्ति. 2. अथ स देवपालको, देवस्य धूपं दत्वा, एवं वाचं भाषते; 3. देवस् ते क्रुद्धः; देवस्योपकारः कर्तव्यः, यजनं कर्तव्यं, तत्र पशुर् घातयितव्यः, पुरुषश् च घातयितव्यः; ततस् ते पुत्रो व्याधेः परिमोक्ष्यते. 4. अथ तौ मातापितरौ चिन्तयतः: कथं करिष्यामो? दरिद्राश् चास्म. 5. यदि देवो न प्रसीदति, तद् अस्माकं पुत्रः कालं करिष्यति; 6. अथ वा प्रसादं कुर्यात्, तद् वयं परमदरिद्राः. पशुं पुरुषं चानयाम.
[ससू(च्) 201] 1. अथ तौ शीघ्रशीघ्रं स्वगृहं गत्वा, यत् किंचिद् गृहे परिष्कारं संविद्यते, तत् सर्वं विक्रीय, पशुक्रयार्थे गच्छतः. 2. अथ तावद् अन्यतरं पुरुषम् एवं वदेयुः: देहि भोः पुरुष सुवर्णम् अस्माकं याचितं; 3. यदि शक्नुमो दशमे दिवसे पुनर् अपि दातुं, तच् छोभनम्; 4. अथ न शक्नुमो दातुं, तद् वयं तव दासा भविष्यामः, कर्मकराः. 5. तौ च तं सुवर्णं गृहीत्वा गच्छेयुः पुरुषं क्रेतुं.
[ससू(च्) 202] 1. ताभ्यां पुरुषः क्रीतः; 2. स च पुरुषो न जानीयाद् यन्: माम् एते जीविताद् व्यवरोपयिष्यन्ति. 3. अथ तौ मातापितरौ, संमोहम् आपन्नौ, न भूयः स्वगृहं प्रविष्टौ; 4. तौ देवकुलं गत्वा देवपलकम् आमन्त्रयन्ति: शीघ्रम् इदानीं यजनं कुरुष्व! 5. अथ तौ मातापितरौ स्वयम् एव तं पशुं घातयतः, तं च पुरुषं जीविताद् व्यवरोपयतः. 6. ततः स देवपालक आरब्धो यज्ञं यजनाय मेदं प्रज्वालयति. 7. ततः स देवो ऽवतीर्य एवं कथयति: तव पुत्रो मया परिगृहीता इति. 8. ततस् तौ मातापितरौ, प्रीतिप्रामोद्येन स्फुटाव्, आहतुः: वरं पुत्रो जीवतु, वयं दासा भविष्यामः. 9. ततस् तौ मातापितरौ निवर्त्य सुयष्टं देवं कृत्वा, यावत् स्वगृहं गत्वा, तदा तं पुत्रं कालगतं पश्यन्ति. 10. ततस् तौ मातापितरौ, महता दुःखदौर्मनस्येन शोकशल्येनाविद्धहृदयौ, निराशीभूतौ तत्रैव कालगतौ. 11. एवम् एव भैषज्यसेनाकल्याणमित्रसंसर्गता द्रष्टव्या.
[ससू(च्) 203] 1. आह: पृच्छामि तावद् भगवन्: कुतस् भगवन् तेषां सत्वानाम् उपपत्तिः? 2. भगवान् आह: अलं, म मे भैषज्यसेन परिपृच्छ! 3. आह: पृच्छामि भगवन्, पृच्छामि सुगत! 4. भगवान् आह: तत्र भैषज्यसेन माता रौरवे महानरके उपपन्ना, पिता संघाते महानरके उपपन्नः, पुत्रस् तपने महानरके उपपन्नः, देवपालको महावीचौ महानरके उपपन्नः.
[ससू(च्) 204] 1. आह: अनपराधिकस्य भगवन् पुरुषस्य, कुत्रोपपत्तिः, को ऽस्याभिसंपरायः? 2. भगवान् आह: इह भैषज्यसेनानपराधिकस्य पुरुषस्य त्रायस्त्रिंशानान् देवानाम् सहभाव्यतायाम् उपपत्तिः. 3. आह: को भगवन् हेतुः कः प्रत्ययो यत् स पुरुषस् त्रायस्त्रिंशनां देवानां सहभाव्यतायाम् उपपन्नः? 4. भगवान् आह: शृणु भैषज्यसेन स पुरुषो मरणकालसमये तथागतस्योपरि चित्तं प्रसाद्य, एवं वाचम् अभाषत: नमस् तस्य भगवतस् तथागतस्यार्हतः सम्यक्संबुद्धस्य, इत्य् एकवाराकृतं. 5. स तेन भैषज्यसेन कुशलमूलेन षष्टिः कल्पान् त्रायस्त्रिंशतां देवानां सुखम् अनुभविष्यति; 6. अशीति कल्पां जात्या जातिस्मरो भविष्यति; 7. जातौ जातौ च सर्वशोकविगतो भविष्यति; 8. जातमात्रश् च सर्वदुःखानि निर्वापयिष्यति; न हि ते सर्वसत्वा शक्यं परिनिर्वापयितुम्.
[ससू(च्) 205] 1. एवम् उक्ते भैषज्यसेनो बोधिसत्वो महासत्वो भगवन्तम् एतद् अवोचत्: कथं भगवन् न शक्यं सर्वसत्वाः परिनिर्वापयितुम्? 2. भगवान् आह: वीर्यं भैषज्यसेनारब्धव्यम्. 3. आह: कतमो भगवन् वीर्यारंभः? 4. भगवान् आह: शृणु भैषज्यसेन, वीर्यम् उच्यते फलानां दर्शनं. यद् उत स्रोतआपत्तिफलं नाम, वीर्यस्थानं; 6. सकृदागामिफलं नाम, वीर्यस्थानं; 7. अनागामिफलं नाम, वीर्यस्थानं; 8. अर्हत्वफलम्, अर्हन्निरोधश् च नाम, वीर्यस्थानं; 9. प्रत्येकबुद्धफलं, प्रत्येकबुद्धफलज्ञानं नाम, वीर्यस्थानं; 10. बोधिसत्वभूमिफलं च, बोधिस्थानं, वीर्यस्थानं नाम. 11. इमे भैषज्यसेन वीर्यस्थानानां नामानि.
[ससू(च्) 206] 1. आह: कथं भगवन् स्रोतआपन्नो दर्शयितव्यः, स्रोतआपत्तिफलञ् च? 2. भगवान् आह: तद्यथापिनाम कश्चिद् एव भैषज्यसेन पुरुष वृक्षं वापयेत; 3. वापितस्य वृक्षस्य तत्रैव दिवसे अङ्कुरं विरुह्येत; 4. यत्रैव दिवसे अङ्कुराणि विरुह्येरंस्, तत्रैव दिवसे तद् अंकुरं योजनम् अधस्ताद् गच्छेते. 5. द्वितीयश् च पुरुष एवम् एव वृक्षं वापयेत; 6. तत्रैव दिवसे वातक्षोभेन तस्य वृक्षस्य नाङ्कुराणि विरुह्येरन्; अथ स पुरुषस् तस्मात् स्थानात् तं वृक्षं उद्धरेत्. 7. अथान्यतरश् च पुरुषः कलहभण्डनविग्रहविवादं कुर्यात्: किमर्थं मे भूमिं खनसीति?
[ससू(च्) 207] 1. तेन च राजा अश्रौषीद् एवं: द्वौ पुरुषौपरस्परकलहभण्डनविग्रहजातौ, विवदतः. 2. तेन च राज्ञा तयोर् दूतः प्रेषितः: गच्छ भोः पुरुष, तौ द्वौ पुरुषाव् आनय! 3. एवं देवेति, स पुरुषस् त्वरमाणरूपः प्रधावित्वा, तौ पुरुषाव् एतद् अवोचत्: राजा युवयोर् आमन्त्रयति. 4. अथ तावद् एव तत्रैकपुरुषो भीतस्, त्रस्तो; द्वितीयश् च पुरुषो भीतो, ऽनुत्रस्तः. 5. येन राजा तेनोपनीताव् उपनीय, राज्ञः पुरतः स्थापिताव्, अथ राजा तयोर् एवम् आह: 6. किमिति भो युवयोः कलहभण्डनविग्रहविवादो जातः?
[ससू(च्) 208] 1. अथ खलु तौ द्वौ पुरुषाव् उत्थाय राजानम् एतद् अवोचतां: 2. शृणु महाराज, अस्माकं न किंचित् पृथिवीप्रदेशः संविद्यते. 3. याचितके पृथिवीप्रदेशे वृक्षो वापितः. 4. यत्रैव दिवसे वापितस्, तत्रैव दिवसे ऽङ्कुरं, पत्राणि, पुष्पाणि, फलानि च प्रादुर्भूतानि, आमार्धं पक्वार्धं च. 5. एतेन च द्वितीयेन पुरुषेण तत्रैव दिवसे तस्मिन् पृथिवीप्रदेशे वृक्षो वापितः, 6. तस्य च वृक्षस्य नांकुराणि रोहन्ति; 7. वातेन क्षुभितेन न पत्राणि, न पुष्पाणि, न फलानि प्रादुर्भूतानि, 8. न च महाराज योजनम् अधस्ताद् अस्य मूलं गच्छति. 9. स एष पुरुषो मया सार्धं विवदति: तवापराध इति. 10. अपि तु च देव स्वयम् एव परीक्ष्य जानीयान्: नात्र मम किंचिद् अपराधः संविद्यते.
[ससू(च्) 209] 1. अथ खलु स राजा त्रिंशत् कोट्यो ऽमात्यानाम् आहूयैकध्ये सन्निपात्यैवम् आह: कथयथ यूयं. 2. अमात्या आहुः: किं कथयाम महाराज? 3. राजाह: क्वचिद् युष्माभिर् दृष्टं वा श्रुतं वा, यत्रैव दिवसे वृक्षो वापितस्, तत्रैव दिवसे ऽङ्कुरं विरुह्यते, 4. पत्राणि, पुष्पाणि, फलानि च जायन्ते, पक्वार्धमामार्धानि? 5. निश्चयम् इदं भवद्भिः कर्तव्यं. 6. अथ खलु ते अमात्य उत्थायासनात्, तं राजानम् एवम् आहुः: अस्माकं महाराज निश्चयम् इदं न शोभते कर्तुं, न च शक्ष्यामो ऽस्य निश्चयं वक्तुं. 7. विस्मयम् इदं महाराज! 8. एष एव पुरुषस् तावत् प्रष्टव्यः. 9. वद भोः पुरुष, किं सत्यम् एतम् अर्थं यद् वदसि? 10. आह: सत्यं महाराजैतम् अर्थं! 11. राजाह:
(1) न श्रुतं नैव पष्याम दुःश्राद्धेयं वचस् तव / वृक्षो यत्र दिने वुप्तस् तत्रैवाङ्कुरितो दिने //
(2) पत्राः पुष्पं फलं दत्तं दिने तत्रैव भाषसे / कृतांजालिः स पुरुषस् तं राजानम् अथाब्रवीत् //
(3) गच्छ स्वयं वापय तरुं पश्य रुह्यति अङ्कुरम् //
[ससू(च्) 210] 1. अथ खलु स राजा तृंशत्कोटिभिर् अमात्यैः सार्धं बहिर् निष्क्रामति, 2. तौ च द्वौ पुरुषौ चारकावरोधं कारयति. 3. ततः स राजा स्वयम् एव वृक्षं वापयति, न च स वृक्षो ऽङ्कुराणि ददाति, न पत्राणि, न पुष्पाणि, न फलानि. 4. अथ स राजा रुष्ट एवम् आह: गच्छन्तु भवन्तः, शीघ्रम् आनयन्तु दारुपाटकानि कुठाराणि. 5. यावद् आनयित्वा, यस् तेन पुरुषेण वापितो वृक्षः सपत्रपुष्पफलः प्रादुर्भूतः, तं वृक्षं रोषाच् छेदयति.
[ससू(च्) 211] 1. तं चैकं वृक्षं छिन्नं, द्वादश वृक्षाः प्रादुर्भूताः; 2. द्वादश वृक्षाश् छिन्नाश्, चतुर्विंशति वृक्षाः प्रादुर्भूताः, सप्तरत्नमयाः, समूलाः, सपत्राः, सपहलाः, सांकुराः. 3. अथ तेभ्यश् चतुर्विंशति वृक्षेभ्यश् चतुर्विंशति पक्षिणः कुक्कुटाः प्रादुर्भूतानि, सुवर्णचूडानि, सुवर्णतुण्डानि, सप्तरत्नमयानि पक्ष्माणि. 4. अथ खलु स राजा रोषाभिभूतः स्वहस्तेन कठारं गृह्य तं वृक्षं पराहनति; ततश् च वृक्षात् पराहताद् अमृतोदकं प्रवहति.
[ससू(च्) 212] 1. अथ खलु स राजा संविग्नमना आज्ञापयति: गच्छत, तौ पुरुषौ ततश् चारकाबन्धनान् मोचयध्वम्. 2. एवं देवेति तत्क्षनम् एव प्रधावित्वा, तौ पुरुषौ ततश् चारकबन्धनान् मोक्षयित्वा, येन तं वृक्षं तेनोपनीयतः. 3. अथ स राजा पप्रच्छ: किम् अयं वृक्षस् त्वद्वापितः, एको भूत्वा, च्छिद्यमानो द्विगुणवृद्ध्याभिवर्धमानः, यावच् चतुर्विंशतिधा गतः? मद्वापितस् तु वृक्षो नांकुराणि, न पत्राणि, न पुष्पाणि, न फलानि दत्तवान्? 4. ततः स पुरुष एवम् आह: यादृशानि महाराज मम पुण्याणि, न तव तादृशानि पुण्यानि संविद्यन्ते.
[ससू(च्) 213] 1. अथ खलु ते त्रिंशद् अमात्यकोट्यस्, तस्य पुरुषस्योभौ जानुमण्डलौ पृथिव्यां प्रतिष्ठाप्य, एवम् आहुः: त्वया राज्यं कारयितव्यं, नायं पूर्विमको राजा शोभते. 2. अथ खलु स पुरुषस् तान् अमात्यान् गाथाभिः प्रत्यभाषत:
(1) राज्यभोगैश् च मे नार्थो न धान्येन धनेन वा //
(2) प्रसादो मम बुद्धेभ्यो भवेयं द्विपदोत्तमः / व्रजेन् निर्वाणधातौ हि शान्ते यत्र तथागतः //
(3) देशेयं धर्मं युष्माकं निर्वाणपुरगामिनं / पर्यंकं स बन्धित्वा प्रतिज्ञाम् अकरोत् ततः //
(4) पूर्वं मया कृतं पापं राज्ञो बन्धनम् आगतः / इदन् तु कृत्वा प्रणिधिं मम पापक्षयो भवेत् //
[ससू(च्) 214] 1. अथ खलु ते चतुर्विंशति पक्षिणकुक्कुटकोट्यो वज्रतुण्डेन तूर्याणि पराहनति स्म. 2. अथ खलु तेन कालेन तेन समयेन द्वात्रिंशति कूटागारसहस्राणि प्रादुर्भूतानि, 3. एकैकं च कूटागारं पंचविंशतियोजनप्रमाणं प्रादुरभवत् 4. एकैकस्मिंश् च कूटागारे पंचविंशति कोट्यो पक्षिणानां प्रादुर्भूतानि, सुवर्णचूडानि, सुवर्णतुण्डानि, सुवर्णमुखानि; 5. ते मानुष्यकं वाचं निश्चारयन्ति:
(1) असाधुस् ते महाराज यद् वृक्षश् छेदितस् त्वया / कोटीशतानि वृक्षाणां चतुर्विंशत् स्थिताः पुनः //
(2) पापेन कर्मणानेन अनिष्ठं भोक्ष्यसे फलम् / न जानीषे कीदृशः सत्वो येनायं वापितो द्रुमः //
6. राजाह: (3) न जानामि इमम् अर्थं व्याकुरुधवं महातपा /
7. पक्षिण आहुः: (4) एषो हि लोकप्रद्योतो उत्पत्स्यति विनायकः /
8. राजाह: (5) कतमो द्वितीयः पुरोषो यस्य वृक्षं न रूहति /
9. पक्षिण आहुः: (6) देवदत्तो हि मूढो ऽसौ यस्य वृक्षं न रूहति / न कृतं कुशलं किंचिद् रुह्यते ऽस्य कथं द्रुम //
[ससू(च्) 214] 10. अथ खलु तेन कालेन तेन समयेन तृंशत् कोट्य ऽमात्यानाम्, इमन् धर्मपर्यायं श्रुत्वा, सर्वे दशभूमिप्रतिष्ठिता, अभिज्ञाप्रतिलब्धाः संवृत्ताः, स च राजा दशभूमिप्रतिष्ठितः, कुशलधर्माभिसमयम् अनुप्राप्तः //
[ससू(च्) 215] 1. अथ खलु भैषज्यसेनो बोधिसत्वो महासत्वो भगवन्तम् एतद् अवोचत्: को भगवन् हेतुः कः प्रत्ययो यत् त्रिंशत् कोट्यो जनानां दशभूमिप्रतिष्ठिता, अभिज्ञाप्रतिलब्धा संवृत्ताः? 2. भगवान् आह: शृणु भैषज्यसेन, व्याकरिष्यामि. 3. अथ खलु भगवांस् तस्यां वेलायां स्मितं प्रादुष्चकार. 4. अथ तस्मिन् समये भगवतो मुखद्वाराच् चतुरशीति रश्मिसहस्राणि नश्चरन्ति स्मा, अनेकवर्णानि, नानावर्णान्य्, अनेकशतसहस्रवर्णानि, तद्यथा नीलपीतलोहितावदातमंजिष्ठास्फटिकरजतवर्णानि. 5. ता अनन्तापर्यन्ता लोकधातून् अवभास्य, पुनर् एव प्रत्युदावृत्या, भगवन्तं प्रदक्षिणीकृत्य, भगवतो मूर्धन्य् अन्तर्धीयन्त.
[ससू(च्) 216] 1. अथ खलु भैषज्यसेनो बोधिसत्वो महासत्वः उत्थायासनाद्, एकांसं चीवरं प्रावृत्य, दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य, येन भगवांस् तेनांजलिं प्रणमय, भगवन्तम् एतद् अवोचत्: 2. को भगवन् हेतुः कः प्रत्ययः स्मितस्य प्रादुष्करणाय? नाहेतुकं नाप्रत्ययं तथागता अर्हन्तः सम्यक्संबुद्धाः स्मितं प्रादुष्कुर्वन्ति. 3. भगवान् आह: पश्यसि त्वं भैषज्यसेन चतुर्दिशं लोकधातौ समन्ताज् जनकायम् आगच्छन्तं ममान्तिके? 4. आह: नोहीदं भगवन् न पश्यामि. 5. भगवान् आह: तेन हि भैषज्यसेन व्यवलोकय, पश्य जनकायं!
[ससू(च्) 217] 1. अथ खलु भैषज्यसेनो बोधिसत्वो महासत्वो व्यवलोक्याद्राक्षीत्. 2. पूर्वस्यान् दिश्य् एको वृक्षः प्रादुर्भूतः, सप्तयोजनसहस्रप्रमाणः; तत्रैकान्ते पंचविंशति कोटीसहस्राणि जनकायस्य सन्निपतितानि; ते च न भाषन्ते, न जल्पन्ति, नालपन्ति, न भुंजन्ति, नोत्तिष्ठन्ति; नोत्तिष्ठन्ति; तूष्णींभावेनाधिवासयन्ति. 3. दक्षिणस्यान् दिश्य् एको वृक्षः प्रादुर्भूतः, सप्तयोजनसहस्रप्रमाणः; तत्र पंचविंशति कोटीसहस्राणि जनकायस्य सन्निपतितानि; ते न जल्पन्ति, नालपन्ति, न भाषन्ते, नोत्तिष्ठन्ति, न चंक्रमन्ति; तूष्णीभावेनाधिवास्यन्ति. 4. पश्चिमायां दिश्य् एको वृक्षः प्रादुर्भूतः, सप्तयोजनसहस्रप्रमाणः; तत्र पंचविंशति कोटीसहस्राणि जनकायस्य सन्निपतितानि; ते न जल्पन्ति, नालपन्ति, न भाषन्ति, नोत्तिष्ठन्ति, न चंक्रमन्ति; तूष्णीभावेनाधिवासयन्ति. 5. उत्तरस्यान् दिश्य् एको वृक्षः प्रादुर्भूतः, सप्तयोजनसहस्रप्रमाणः; तत्र पंचविंशति कोटीसहस्राणि जनकायस्य सन्निपतितानि; ते न जल्पन्ति, नालपन्ति, न भाषंते, न भाषंते, नोत्तिष्ठन्ति, न चंक्रमन्ति; तूष्णीभावेनाधिवासयन्ति. 6. ऊर्ध्वायान् दिश्य् एको वृक्षः प्रादुर्भूतः, सप्तयोजनसहस्रप्रमाणः; तत्र पंचविंशति कोटीसहस्राणि जनकायस्य सन्निपतितानि; ते न जल्पन्ति, न भाषन्ति, नोत्तिष्ठन्ति, न चंक्रमन्ति; तूष्णीभावेनाधिवास्यन्ति. 7. अधस्ताद्दिश्य् एको वृक्षः प्रादुर्भूतः, सप्तयोजनसहस्रप्रमाणः; तत्र च पंचविंशति कोटीसहस्राणि जनकायस्य सन्निपतितानि; ते न जल्पन्ति, नालपन्ति, न भाषन्ति, नोत्तिष्ठन्ति, न चंक्रमन्ति; तूष्णीभावेनाधिवासयन्ति.
[ससू(च्) 218] 1. अथ खलु भैषज्यसेनो बोधिसत्वो महासत्वो भगवन्तम् एतद् अवोचत्: पृच्छेयम् अहं भगवन्तं तथागतम् अर्हन्तं सम्यक्संबुद्धं कंचिद् एव प्रदेशं, सचेन् मे भगवान् अवकाशं कुर्यात् पृष्टप्रश्नव्याकरणाय. 2. एवम् उक्ते भगवान् भैषज्यसेनं बोधिसत्वं महासत्वम् एतद् अवोचत्: पृच्छ त्वं भैषज्यसेन यद् यद् एवाकांक्षस्य्; अहन् ते तस्य तस्यैव प्रश्नस्य परिपृष्टस्य व्याकरणेन चित्तम् आराधयिष्ये.
[ससू(च्) 219] 1. एवम् उक्ते भैषज्यसेनो बोधिसत्वो महासत्वो भगवन्तम् एतद् अवोचत्: किं भगवंश् चतुर्दिशे लोकधातुषु जनकाय आगत्यावस्थितो? यावद् अधस्तादूर्ध्वायां दिशि पंचाशत् कोट्यो जनकायम् आगत्यावस्थितः. 2. ते च भगवन्तं नालपन्ति, न संलपन्ति, न जल्पन्ति, न वदन्ति, न भाषन्ति, नोत्तिष्ठन्ति, न चंक्रमन्ति; तूष्णीभावेनाधिवासयन्ति. को भगवन् हेतुः कः प्रत्ययः? 3. भगवान् आह: गच्छ त्वं भैषज्यसेन, स्वयम् एव तांस् तथागतान् परिपृच्छ यतो लोकधाताव् एते जनकाया आगताः. 4. आह: कस्य ऋद्धिबलाधानेन गच्छामि? 5. भगवान् आह: स्वकेन भैषज्यसेन ऋद्धिबलाधानेन गच्छ.
[ससू(च्) 220] 1. अथ खलु भैषज्यसेनो बोधिसत्वो महासत्वो, भगवन्तं तृगुप्तं प्रदक्षिणीकृत्य, तत्रैवान्तर्धितः. 2. षण्नवति लोकधातुकोटीर् अतिक्रम्य, चन्द्रप्रदीपा नाम लोकधातुः. 3. तत्र चन्द्रावतिक्षेत्रो नाम तथागतो, ऽर्हन् सम्यक्संबुद्धः, अशीतिकोटीबोधिसत्वमहासत्वपरिवृतः, पुरस्कृतो धर्मन् देशयति स्म. 4. तां लोकधातुं भैषज्यसेनो बोधिसत्वो ऽनुप्राप्तः.
[ससू(च्) 221] 1. अथ खलु भैषज्यसेनो बोधिसत्वो महासत्वस् तस्य भगवतश् चन्द्रावतिक्षेत्रस्य तथागतस्य पुरत स्थितो, येन भगवांस् तेनांजलिं प्रणम्य, भगवन्तम् एतद् अवोचत्: 2. आगतो ऽस्मि भगवन् षण्नवति लोकधातुकोटीसहस्राण्य् अतिक्रम्य, नाहं भगवंस् तावन्ति सत्वानि क्वचित् पश्यामि यावन्ति तत्र दृष्टानि.
[ससू(च्) 222] 1. स भगवान् आह: तत्रैव भैषज्यसेन संचरन्ति, संतिष्ठन्ति. 2. आह: यथा कथं पुनर् भगवन्? 3. भगवान् आह: अचेतनवृक्षसंभूतानि सत्वानि. 4. आह: केन भगवन् दृष्टं केन श्रुतं यद् अचेतने वृक्षे मनुष्या जायन्ते? 5. स भगवान् आह: न भैषज्यसेन त्वया दृष्टं वा न श्रुतं वा यद् अचेतने वृक्षे मनुष्या जायंते? 6. आह: न मे भगवन् दृष्टं न श्रुतं यद् अचेतने वृक्षे मनुष्या जायन्ते. 7. स भगवान् आह: इच्छसि त्वं भैषज्यसेन द्रष्टुं? तद् अहं सांप्रतं दर्शयिष्यामि. 8. आह: इच्छामि भगवन्न्, इच्छामि सुगत!
[ससू(च्) 223] 1. अथ खलु भगवांश् चन्द्रावतिक्षेत्रस् तथागतस् तस्यां वेलायां शतपुण्यविचित्रितं स्वं बाहुं प्रसारयति स्म, 2. ततश् च बाहुतः कोटीशतसहस्रं जनकायानां प्रादुरभवत्, 3. एकैकश् च जनकायो बाहुशतं प्रसार्य, नानागन्धविलेपनैस् तथागतम् अभ्यवकिरन्ति. 4. अथ स भगवांश् चन्द्रावतिक्षेत्रस् तथागतो भैषज्यसेनं बोधिसत्वं महासत्वम् आमन्त्रयति: पश्यसि त्वं भैषज्यसेन? एष जनकायस् तथागतं नानागन्धमाल्यविलेपनैर् अभ्यवकिरन्ति. 5. आह: पश्यामि भगवन्, पश्यामि सुगत. 6. स भगवान् आह: एते अचेतना जनकायाः प्रादुर्भूताः! एते अचेतना मनुष्याः! अयोनिजा एते सत्वाः. 7. अथ खलु तेषां कोटीशतसहस्राणाम् एकैकस्य यद् बाहुशतं ते सर्वे विकीर्यन्ते.
[ससू(च्) 224] 1. अथ खलु भैषज्यसेनो बोधिसत्वो महासत्वस् तं दृष्ट्वा भगवन्तम् एतद् अवोचत्: किमिदं भगवन्, किमिदं सुगत यन् मनुष्याणां मुहूर्तमात्रेण बाहुशतं विकीर्णम्? 2. यदि भगवं च्छतबाहवो न मुच्यन्ते, कः पुनर् वादो द्विबाहुका मनुष्या मोक्ष्यन्ते! 3. भगवान् आह: एवम् एव भैषज्यसेनाचेतनाः सत्वा जायन्ते, अचेतना निरुद्ध्यन्ते. 4. अस्माकम् अपि भैषज्यसेन शरीरम् अचेतनभूतं मन्यितव्यं. 5. आह: कतमे भगवन् सत्वा ये दहराः, कतमे वृद्धाः? 6. भगवान् आह: सन्ति भैषज्यसेन दहराः सत्वा, सन्ति वृद्धाः. 7. आह: कतमे भगवन् दहराः, कतमे वृद्धाः? 8. आह: ये ते वृक्षेभ्यो निर्जातास्, ते दहराः. 9. आह: इच्छामि भगवन् दहराणि सत्वानि द्रष्टुम्.
[ससू(च्) 225] 1. अथ खलु स भगवांश् चन्द्रावतिक्षेत्रस् तथागतो दक्षिणं पाणितलं प्रसारयति. 2. अथ दशभ्यो दिग्भ्यः कोटीशतसहस्रं जनकायानाम् आगच्छन्ति; 3. अधस्तादूर्ध्वायान् दिशि पंचाशत् कोटी जनकायस्यागच्छन्ति; 4. आगत्वा च ते जनकाया भगवतः पादौ शिरसाभिवन्द्य, न च तथागतम् आलपन्ति, न संलपन्ति; तूष्णीभावेनाधिवासयन्ति स्म.
[ससू(च्) 226] 1. अथ खलु भैषज्यसेनो बोधिसत्वो महासत्वो भगवन्तम् एतद् अवोचत्: किम् एते भगवन् सत्वास् तथागतं नालपन्ति, न संलपन्ति, तूष्णीभावेनाधिवासयन्ति? 2. भगवान् आह: न जानासि भैषज्यसेन? अचेतनः पृथिवीप्रदेशे नालपन्ति, न संलपन्ति, न धर्मस्कन्धं प्रजानाति. 3. तत् कस्य हेतोः? इहैकत्या भैषज्यसेन दहरा सत्वाः नोत्पादं जानन्ति, न निरोधं जानन्ति, दृष्ट्वा च न जरां, न व्याधिं, न शोकं, न परिदेवं, न प्रियविप्रयोगं, नाप्रियसंप्रयोगं, न प्रियाद् विनाभावं, न मरणं, नाकालमृत्युम्. 4. नापि तानि सर्वकटुकानि दुःखाणि दृष्ट्वा उद्वेगम् आपद्यन्ते. कुतस् ते ज्ञास्यन्ति? 5. पुनः पुनस् ते भैषज्यसेन शिक्षयितव्याः.
[ससू(च्) 227] 1. अथ खलु भैषज्यसेनो बोधिसत्वो महासत्वो भगवन्तम् एतद् अवोचत्: कुतो भगवन् दहरा सत्वा आगच्छन्ति? कुतश् च्यवन्ति? कुत्रोपपद्यन्ते ये धर्मं न जानन्ति? 2. भगवान् आह: शृणु भैषज्यसेन, यन् मानुष्यकम् आत्मभावं प्रतिगृह्णन्ति, तन् न रुप्यकारेण कृतं, 3. न चीमरकारेण कृतं, 4. न काष्ठकारेण कृतं, 5. न कुंभकारेण कृतं. 6. न राजभयेनोत्पद्यन्ते. 7. स्त्रीपुरुषसंयोगात् पापेन कर्मणा संयुक्ताः संभवन्ति. 8. पुनः पुनश् च तेषां सत्वानां शिल्पानि शिक्षापयन्ति. 9. अनन्तं च कटुकं दुःखं संभवति. 10. कटुका वेदनाः तत्र, तेषां पूर्वकृतानां पापकानां कर्मणां विपाकम्, अनुभवन्ति. 11. इहैव ते भैषज्यसेन दहराः सत्वा आगता य एते नालपन्ति, न संलपन्ति, नोत्तिष्ठन्ति. ते ईदृशान् दुःखां वेदनाम् अनुभवन्ति! 12. अनेन कारणेन भैषज्यसेन नालपन्ति, न संलपन्ति. 13. एवं ते भैषज्यसेन दहराः सत्वाः, कुशलम् अजानानाः, नोत्पादं जानन्ति, न निरोधं जानन्ति, न च ते मानुष्यकम् आत्मभावं प्रतिलप्स्यन्ते. 14. इमे उच्यन्ते भैषज्यसेन दहराः सत्वाः.
[ससू(च्) 228] 1. आह: कथं भगवन् दहराः सत्वा उत्पद्यन्ते, कथं निरुध्यन्ते? 2. भगवान् आह: तद्यथापिनाम भैषज्यसेन कश्चिद् एव पुरुषो ऽग्निं काष्ठेन परिमार्जयेत, तस्यानुपूर्वेण तं काष्ठम् अग्निना प्रदीप्येत; 3. एवम् एव भैषज्यसेन मानुष्यात्मभावं प्रथमं संजायते, जातं च सद् वेदनां वेदयति. 4. आह: को ऽत्राभिजातो जातः, कः परिनिर्वृतः? 5. भगवान् आह: बुद्ध एव भैषज्यसेनाभिजातो जातः, तथागत एव परिनिर्वृतः!
[ससू(च्) 229] 1. तद्यथापिनाम भैषज्यसेन कस्मिंश्चिद् अन्धकारगृहे तिमिरागारे राज्ञा पुरुषो बन्धनावरोधः कृतः स्यात्. 2. तत्र स पुरुषो, ऽन्धकारगृहे प्रविष्टः, अन्तर्गृहे तिमिरं तिमिरागारं पश्येत्. 3. अथान्यः कश्चित् पुरुषः, पूर्वदुःखवेदनाभिर् दृष्टश्, चिन्तयेन्: नष्ट एष पुरुषो, ऽनभ्यसितदुःखो जीवितनाशं यास्यति. 4. स तत्राग्निम् आनयित्वा तत्राभ्यन्तर्गृहे सूक्ष्मम् अग्निं छोरयेत्. 5. स च पुरुषश् चारकावरुद्धस् तम् अग्निरश्मिं पश्येद्, दृष्ट्वा चाश्वस्तो भवेद्, उत्साहं च वर्धयेत्. 6. स चाग्निः केनचिद् एव हेतुना प्रज्वलेत, तेन चाग्निना प्रज्वालेन तद् गृहं समन्ततः प्रज्वलेत्; स च पुरुषस् तत्रैव दह्येत.7. तं च दग्धं राजा श्रुत्वा चिन्तायासम् आपद्येत; तस्यैवं भवेन्: न भूयो ऽहं स्वविषये कंचित् सत्वं चारकावरोधं करिष्यामि. 8. अथ स राजा तेषां स्वविषयनिवासिनां सत्वानाम् एवं समाश्वासयेत्: मा यूयं भवन्तः सत्वा भायथ! मा उत्त्रसथ! अभयं युष्माकं भवतु! 9. न मम विषये भूयो दण्डोपचारं वा, बन्धनावरोधं वा भविष्यति, न च कस्यचित् सत्वस्य जीवितविनाशं करिष्यामि. 10. निर्भया भवन्तः सत्वा यूयं भवथ!
[ससू(च्) 230] 1. एवम् एव भैषज्यसेन तथागतः सर्वक्लेशदग्धः, सर्वव्याधिप्रशान्तः. 2. यथा स पुरुषो गृहदाहात् स्वकायं दहति, सत्वानाम् अर्थाय हिताय सुखाय च प्रतिपन्नो भवति सत्वान् वधबन्धनावरोधेषु परिमोचयितुं, 3. एवम् एव तथागतो, रागद्वेषमोहमलप्रहीणः, सर्वसत्वानान् दीप इव लोक उत्पन्नः, सत्वान् मोचयति; 4. नरकतिर्यक्प्रेतासुरकायेभ्यः दहरांश् च सत्वान्, वृद्धांश् च सत्वान् मोचयति.
[ससू(च्) 231] 1. अथ तावद् एवोपर्य् अन्तरीक्षाद् इमा गाथा निश्चचारा: (1) अहो क्षेत्रं जिनक्षेत्रं सुक्षेत्रम् अभिसंस्कृतं / वुप्तानि यत्र बीजानि न विनाशं व्रजन्ति हि //
(2) बुद्धक्षेत्रं जिनक्षेत्रं प्रशस्तं जिनशासनं / शास्ता करोत्य् उपायं हि सर्वसत्वपरिग्रहे //
(3) स्थितो निर्वाणधातौ सन्दृश्यते धरणीतले / शान्तं कृत्वा सर्वलोकं बुद्धः शोधेति दक्षिणां //
(4) मोचेति नवकान् सत्वान् मोचेति च पुराणकान् / मोचयित्वानुपूर्वेण सर्वसत्वांस् त्रिधातुकात् //
(5) बद्धा हि नरकद्वारस् तिर्यक्प्रेता विमोचिताः / शान्तिः कृता हि लोकेस्मिन् परलोके सुखं कृतं //
[ससू(च्) 232] 1. अथ खलु भगवांस् तस्यां वेलायां स्मितं प्रादुष्चकार, आह च: (1) साधु दर्शनु साधूनां बुद्धानां साधु दर्शनं / साधु धर्मगुणः क्षेत्रं संघसामग्रिदर्शनम् //
(2) साधु संघातनिर्देशं सर्वपापविनाशनं / ये श्रोष्यन्ति इदं सूत्रं पदं प्राप्स्यन्त्य् अनुत्तरम् //
[ससू(च्) 233] 1. अथ खलु भैषज्यसेनो बोधिसत्वो महासत्वो, येन भगवांस् तेनांजलिं प्रणाम्य, भगवन्तम् एतद् अवोचत्: 2. को भगवन् हेतुः कः प्रत्ययः, स्मितस्य प्रादुष्करणाय? 3. भगवान् आह: पश्यसि त्वं कुलपुत्रैतानि दहराणि सत्वानि? 4. आह: पश्यामि भगवन्, पश्यामि सुगत. 5. भगवान् आह: सर्व एते भैषज्यसेनाद्यैव दशभूमिप्रतिष्ठिता बोधिसत्वा भविष्यन्ति.
[ससू(च्) 234] 1. अथ खलु भैषज्यसेनो बोधिसत्वो महासत्वो ऽशीतिर् योजनसहस्राण्य् ऊर्धवम् उपर्य् अन्तरीक्षे ऽस्थाद्. 2. अथाशीतिर् देवपुत्रकोटीसहस्राणि भगवत उपरि पुष्पवर्षं प्रवर्षन्ति. 3. ते च दहराः सत्वा दृष्ट्वा सर्वे ऽञ्जलयः कृत्वा नमस्कुर्वन्ति.
[ससू(च्) 235] 1. अथ खलु भैषज्यसेनो बोधिसत्वो महासत्वो अन्तरीक्षस्थ एवं वाचं भाषते येन त्रिसाहस्रमहासाहस्रं लोकधातुं शब्देनापूरयति. 2. द्वात्रिंशन् महानरकोपपन्नाः सत्वास् तं शब्दं शृण्वन्ति, 3. द्वात्रिंशच् च देवनिकायास् तं शब्दं शृण्वन्ति; 4. त्रिसाहस्रमहासाहस्रश् च लोकधातुः षड्विकारं प्रकम्पितः; 5. चतुरशीतिश् च नागराजसहस्राणि महासमुद्रे संक्षुब्धानि; 6. त्रिंशत् कोटीसहस्राणि राक्षसानाम् इमं जंबुद्वीपम् आगतानि, 7. पंचविंशत् कोटीसहस्राणि प्रेतानां यक्षानां राक्षसानाम् अडकवत्यां राजधान्याम् आगतानि. 8. भगवतः पुरतो महासन्निपातः संस्थितः.
[ससू(च्) 236] 1. अथ खलु भगवांस् तेषान् दहराणां सत्वानान् धर्मन् देशयति. 2. दशसु दिक्षु लोकधातुषु कोटीसहस्राणि बोधिसत्वानां महासत्वानां स्वकस्वकाभिर् ऋद्धिभिर् आगतानि. 3. अथ खलु भैषज्यसेनो बोधिसत्वो महासत्वो, येन भगवांस् तेनांजलिं प्रणमय, भगवन्तम् एतद् अवोचत्: बहवो भगवन्, बहवो सुगत बोधिसत्वाः सन्निपतिताः सन्निषण्णाः, 4. बहूनि च भगवन् देवनागानि सन्निपतितानि सन्निषण्णानि, 5. पुनश् चानेकानि राक्षसप्रेतान्य्, अडकवत्यां राजधान्याम् आगत्य, सन्निपतितानि सन्निषण्णान्य् अभूवन् धर्मश्रवणाय.
[ससू(च्) 237] 1. अथ खलु भगवान् भैषज्यसेनं बोधिसत्वं महासत्वं आमन्त्रयति: आगच्छ कुलपुत्र! 2. अथ खलु भैषज्यसेनो बोधिसत्वो महासत्व, ऋद्धिबलेनोर्ध्वाद् अवतीर्य, येन भगवांस् तेनांजलिं प्रणमय, भगवन्तम् एतद् अवोचत्: 3. धर्मस्कन्धो भगवन्, धर्मस्कन्ध इत्य् उच्यते? कियता भगवन् धर्मस्कन्ध इति? 4. भगवान् आह: धर्मस्कन्ध इति कुलपुत्रोच्यते यो ब्रह्मचर्यं पर्येषते, ब्रह्मचर्यं पर्येष्य सर्वपापाद् विरमति. 5. पश्यसि त्वं कुलपुत्रामी दहरा सत्वा अब्रह्मचर्याद् विरमन्ति? 6. आह: पश्यामि भगवन्, पश्यामि सुगत! 7. आह: ते नूनन् धारणीप्रतिलब्धा भविष्यन्ति, सर्वधर्मसमन्वागताश् च भविष्यन्ति. 8. आह: केनोपायेन भगवन् बहूनि सत्वानि सन्निपतितानि धर्मस्कन्धं श्रोतुम्?
[ससू(च्) 238] 1. अथ खलु भगवां भैषज्यसेनं बोधिसत्वं महासत्वम् आमन्त्रयति: 2. बहवो भैषज्यसेन सत्वाः सन्ति ये जातिर् एव दुःखं न शृण्वन्ति, जरा एव दुःखं न शृण्वन्ति, व्याधिर् एव दुःखं न शृण्वन्ति, शोकदुःखं, परिदेवदुःखं, प्रियविप्रयोगदुःखम्, अप्रियसंप्रयोगदुःखं. 3. मरणं तु सर्वदुःखं हरति. 4. कायजीवितम् इदम् उच्यते भैषज्यसेन सर्वदुःखम्.
[ससू(च्) 239] 1. अथ खलु ते दहराः सत्वा, इमन् निर्देशं श्रुत्वा, येन भगवांस् तेनांजलयः प्रणमय, भगवन्तम् एतद् अवोचन्: अस्माकम् अपि भगवन् मर्तव्यम्? 2. भगवान् आह: युष्माभिर् अपि कुलपुत्राः, सर्वसत्वैश् च मर्तव्यम् इति. 3. त आहुः: कथं भगवन् मरणकालम् आक्रमति? 4. भगवान् आह: मरणकाले कुलपुत्राश् चरिमविज्ञाने विज्ञाननिरोधो नाम वातः, विज्ञानविभ्रमो नाम वातः, विज्ञानसंक्षोभसंयुक्तो नाम वातः; 5. इमे त्रयः कुलपुत्रा वाता मरणकालसमये चरिमविज्ञाने संलुडन्ति, संक्षुभन्ति, संक्षोभम् उत्पादयन्ति. 6. त आहुः: कतमानि भगवंस् त्रीणि मरणकालसमये विज्ञाननिरोधे वर्तमाने शरीरं निर्घातयन्ति? 7. भगवान् आह: शस्त्रकश् च नाम मार्षाः, सूचकश् च नाम मार्षाः, ष्ठीलकश् च नाम ये शरीरं निर्घातयंति. 8. आहुः: किम् एतद् भगवं च्छरीरण् नाम? 9. भगवान् आह: आदीप्तकश् च नाम मार्षा, 10. दहनवासकश् च नाम, 11. मेडिकश् च नाम, 12. शृंगारिकश् च नाम, 13. श्मशानिकश् च नाम, 14. दुर्बुद्धिकश् च नाम, 15. भारगुरुकश् च नाम, 16. जातिपरिपीडितश् च नाम, 17. जातिसंक्षुभितश् च नाम, 18. जीवितपरिभाविकश् च नाम, 19. मरणप्रियविप्रयोगकश् च नाम; 20. इमे मार्षा उच्यन्ते शरीरनामानः.
[ससू(च्) 240] 1. त आहुः: कथं भगवन् मृयते, कथं जीवति? 2. भगवान् आह: विज्ञानं नामायुष्मन्तो म्रियते, पुण्यं नामायुष्मन्तो जीवति! 3. शरीरं नाम मार्षा मृयते, स्नायुकोटीभिर् बद्धम्, 4. चतुरशीतिभिः सिराकूर्चसहस्रै रोमकूपैर् बद्धम्, 5. द्वादशभिः सहस्रैर् अंगानां बद्धं, 6. षष्ट्युत्तरैस् त्रिभिः शतैर् अस्थीनां बद्धम्. 7. चतुरशीतिः कृमिकुलशतान्य् अभ्यन्तरे वसन्ति; 8. तेषां सर्वेषां प्राणकानां मरणं संविद्यते, मरणनिरोधं च संविद्यते; 9. तत्र सर्वे ते प्राणका निराशा भवन्ति. 10. यदा स पुरुषो मृयते, तदा सर्वप्राणकानां वातसंक्षोभः संलुडति अन्योन्यपरिभाक्षनार्थाय, 11. तदा ते दुःखां वेदनां वेदयन्ति. 12. अन्ये पुनः पुत्रशोकं कुर्वन्ति, अन्ये दुहितृशोकं, ज्ञातिशोकं; सर्वे एव ते शोकशल्यविद्धाः अन्योन्यभक्षणम् आरभन्ते; 13. सर्वे ते अनुपूर्वेण परस्परं भक्षयन्त. 14. द्वौ प्राणकाव् अवतिष्ठन्ते. तौ सप्ताहम् अभियुध्यतः. यावत् सप्ताहे ऽतिक्रान्ते तत एकः प्राणको निर्मथ्यते, एको मुच्यते. 15. तत् कतम आयुष्मन्त उच्यते धर्मः? 16. तत् किं मन्यध्वे? यथा सर्वप्राणकानाम् अन्योन्यविरोधेन मरणं.
[ससू(च्) 241] 1. एवम् एव बालपृथग्जना सत्वा अन्योन्यविरोधम् आपद्यन्ते: 2. ते जात्या न बिभ्यन्ति, व्याधिभ्यो न बिभ्यन्ति, मरणान् न बिभ्यन्ति. 3. यथा तौ द्वौ प्राणकौ युध्यतः, एवम् एव बालपृथग्जनाः परस्परं युध्यन्ते. 4. अथ मरणकालसमये उच्यते साधुपुरुषैः; 5. किं त्वं भो पुरुष विश्वासम् आपद्यसे? किं त्वया मनुष्यलोके न किंचिद् आदीनवं दृष्टं? न जात्या आदीनवो दृष्टः, न जराया, न व्याधेर् आदीनवो दृष्टः, न मरणाद् आदीनवो दृष्टः? 6. आह: दृष्टो मे आयुष्मन्तो जात्या आदीनवो, जराया, व्याधेर् आदीनवो दृष्टः, सर्वपश्चान् मरणाद् आदीनवो दृष्टः. 7. आह: कथं न कृतानि यत् करणीयानि कुशलमूलानि? 8. तत् कथं त्वया भोः पुरुष न कृतम् उभयोर् लोकयोर् हितसंवर्तकानि धर्मस्कन्धकुशलमूलानि? 9. द्वितीयं मार्षाः पृच्छामि: कथं त्वया न कृतः कुशलमूलसंभारः येन त्वं परिमुक्तः स्या जात्या मरणात्? 10. तत् कथं ते न कृतं योनिशोमनसिकारप्रत्यवेक्षणम्? 11. किं त्वया भोः पुरुष श्रुतं पृथिव्यां गण्ड्याकोटनशब्दं? 12. न च दृष्टा जांबुद्वीपका मनुष्या दानानि ददन्तः, पुण्यानि च कुर्वन्तः उपवासम् उपवसन्तः, तथागतक्षेत्रे कुशलमूलबीजान्य् अवरोपयन्तः? 13. गन्धं वा, माल्यं वा, दीपं व, न त्वया दृष्टं खादनीयभोजनीयं वा दीयमानम्? 14. न च ते दृष्टास् तथागतस्य चतस्रः पर्षदः सन्तर्प्यमानाः? 15. भिक्षुर् वा, भिक्षुणी वा, उपासको वा, उपासिका वा, इमाश् चतस्रः पर्षदः शासने ऽभिनिवुस्ताः, एवं तस्य हितानि वदन्त्य्, आलपन्ति च. 16. न हि देवकृतं किंचित्, असाधु त्वया भोः पुरुष कृतम् इमं जंबुद्वीपम् आगत्य.
[ससू(च्) 242] 1. तस्य मृतस्य धर्मराजा, तस्मिन् काले तं पुरुषम् अनुशासन्, ता गाथा भाषते: (1) दृष्ट्वा तथागतोत्पादं श्रुत्वा गण्डीपराहताम् / श्रुत्वा धर्मन् देशयमानं शन्तं निर्वाणगामिनं //
(2) कस्मात् ते न कृतं पुण्यं परलोकसुखावहम् / भोक्ष्यसे नरके दुःखम् अनिष्टकर्मणः फलम् //
[ससू(च्) 243] 1. अथ स पुरुषस् तं धर्मराजानं गाथाभिर् प्रत्यभाषत: (1) बालबुद्धिर् अहम् आसं पापमित्रवशानुगः / कृतं मे पापकं कर्म कामभ्रान्तेन चेतसा //
(2) कामश् च मे चितस् तस्य आगतं दारुणं फलम् / कृता मे प्राणिनां हिंसा सांघिकं च विनाशितं //
(3) कृतं मे स्तूपभेदं च प्रदुष्टेन च चेतसा / दौष्ठुल्यं भाषितं वाक्यं माता मे परितापिता //
(4) अपराधं विजानामि स्वशरीरेण यत् कृतं / रौरवे नरके पश्याम्य् उपपत्तिं सुदारुणे //
(5) संघाते वेदनां वेत्स्ये तथैव च प्रतापने / महावीचौ च कटुकाम् अनुभविष्यामि वेदनां //
(6) महापद्मे च नरके क्रन्दयिष्यामि सुदुःखितः / वारा शतं कालसूत्रे उत्पत्स्यामि महाभये //
(7) हताश् च नारका सत्वाः पुनः पश्यन्ति ते भयम् / योजनानां शतं भूयः प्रपद्यन्ति महाभयम् //
(8) द्वारन् ते न लभिष्यन्ति पुनः कुंभे प्रपापिताः / क्षूरं तु नाम नरकं सहस्रं क्षूरसंभवम् //
(9) शतम् सहस्रं कोटीनां क्षूराणां जायते ऽग्रतः / तैस् तस्य भिद्यते गात्रं कर्मभि दुष्कृतैः स्वकैः //
(10) वातक्षोभा महाघोरा सर्वं छिन्दन्ति तां तनुम् / अनुभाव्या मया दुःखा ईदृशा नरके ध्रुवम् //
(11) द्रक्ष्यन्ते सर्वसत्वा मे कायं दुःखप्रपीडितं / अर्था परक्या आदत्ता मया वेश्मस्य कारणात् //
(12) पुत्रा दुहितरो मह्यं भ्राता च भगिनी तथा / माता पिता चैव मम मित्रज्ञातिगणो ऽपि च //
(13) दासकर्मकराश् चैव गावो भृत्यः पशुं तथा / भ्रान्तो ऽस्म्य् अहं कुकार्येषु रुप्यसौवर्णभाजनैः //
(14) वस्त्रैस् तथा सुसूक्ष्मैश् च भ्रान्तः कारापने गृहे / सुविचित्रं गृहं कृत्वा नरनारीसमाकुलं //
(15) वीणास् तूर्याः पराहत्य रतं मे दुर्दमं मनः / गात्रं गन्धोदकैर् लिप्तं कृतज्ञो ऽद्यापि नैव सः //
(16) अचेतनशरीरस् त्वं भ्रान्तो ऽस्मि तव कारणात् / न विद्यते मम त्राता कश्चित् सत्वः पुनर् भवेत् //
(17) वातक्षोभे महाघोरे शरीरपरितापने / भुक्ता रसा स्वादुवन्तो जिह्वया विविधास् तथा //
(18) शीर्षे मालाश् च बहवो बद्धा श्वित्राः सुशोभनाः / रूपेण भ्रामितश् चक्षुश् चक्षुत्राणं न विद्यते //
(19) पापानां चक्षुषी हेतुर् मया दृष्ट्वा तु यत् कृतम् / श्रोत्रौ हेतुश् च मे भूयः बाहू वज्रपराहतौ //
(20) हस्तेभ्यः कटका बद्धा अङ्गुलीयेभि यंत्रिका / ग्रीवायां मुक्तिहाराणि पादौ चापि स्वलंकृतौ //
(21) जालानि कृत्वा तत्रैव सौवरणं संस्थितं ततः / गात्रै च विविधा रत्ना सौवर्णकटकास् तथा //
(22) उदारै रमितो भोगैर् मनसंबृहणैर् अपि / स्पर्शं च सुकुमारं मे तृष्णग्रस्तेन सेवितं //
(23) नानास्तरणशय्याभिः कायः क्रीडापितो मया / स्नातो गन्धोदकैर् विशदैर् गन्धैश् चापि प्रलेपितः //
(24) कर्पूरचन्दनैर् दिव्यैर् धूपनैश् चापि धूपितः / कस्तूरिकासमायुक्तो वासो वर्णकरः कृतः //
(25) गन्धवार्षिकतैलेन सुमनाचंपकादिभिः / म्रक्षितः पाण्डुरं वस्त्रं प्रावृतं सूक्ष्मकाशिकम् //
(26) अवतीर्य हस्तिपृष्ठाद् अश्वपृष्ठे ऽभिरुह्य च / राजाहम् इति मन्यामि जनो मे धावते ग्रतः //
(27) अन्तःपुरं विजानामि गीते नृत्ये सुशीक्षितः / निरापराधा मृगया हताः काण्डैश् च मे मृगाः //
(28) ईदृशं मे कृतं पापं परलोकम् अजानता / परमांसा मया भुक्तास् ततो दुःखम् इदं मम //
(29) मरणं मे न विज्ञातम् आगमिष्यति दारुणं / बालबुद्धिर् अहम् आसं शरीरं पोषितं मया //
(30) आगतं मरणं मे ऽद्य कश्चित् त्राता न विद्यते / यूयं हि ज्ञातयः सर्वे मुखं मे किं निरीक्षथ //
(31) कस्माद् वस्त्रं पाटयध्वं प्रलापैश् चापि किंकृते / केशान् कस्माद् विकिरथ रक्तं किं वा करिष्यति //
(32) पांसुं च शीर्षे क्षिपथ उरस्ताडं करोथ किम् / जीवं नाहं वारितव्यः पापात् किं रुदितेन वः //
(33) शरीरं मे वृकभोज्यं कुक्कुराणां च वायसाम् / भविष्यते पक्षिणां च वृथापुष्टो मया तनुः //
(34) मरणोरगसंस्पृष्टो जायते ऽपि सुदारुणः / तथोपयोज्यं भैषज्यं यथास्मान् मुच्यते भयात् //
(35) यन् मे वैद्याः प्रदास्यन्ति भैषज्यं न तद् इष्यते / सांप्रतं धर्मभैषज्यं क्लेशोरगविमोचकम् //
(36) मृयतो मम दातव्यं मामेमं संप्रयच्छथ / पुष्यमाणशरीरो ऽयम् अवश्यं नाशम् एष्यति //
(37) पापस्कन्धं किम् आक्षिप्य यत् पश्चा दुःखदायकम् / पोषितो मे पृयं कायः कृतघ्नत्वं करिष्यति //
(38) पुत्रा दुहितरं किं मे चक्षुषा सन्निरीक्षथ / त्रायध्वम् अस्माद् रोगान् मे रुदध्वं किन् निरर्थकम् //
(39) यूयं हि पुत्र दुहितः कृतघ्ना मम साम्प्रतम् / युष्माकं पोषणार्थाय परकीयं मया हृतं //
(40) सांप्रतं मरणं प्राप्तं निराशं मां करोथ किम् / जातिदुर्गतिसंत्रस्तो मरणेन च पीडितः //
(41) वेदना संज्ञा संस्काराः स्पर्शं परमवेदनाः / तृष्णाया भ्राम्यते बालः प्राप्नोति कटुकं फलं //
(42) शोकबन्धनं मह्यं तु जातस्य विषमे कुले / अल्पपुण्यं तु मां ज्ञात्वा शोचिष्यन्त्य् अपरे जनाः //
(43) दानशीलपरिभ्रष्टो धर्माच् चापि पराङ्मुखः / पुनर्भवं न जानीते क्लेशोरगविषार्दितः //
(44) भ्राम्यते ऽविद्यया बालो यत्र मोक्षं न विद्यते / मोक्षार्थं न विजानाति भ्रान्तः पापं करोति च //
(45) क्लेशैश् च भ्राम्यते बालो नित्यं व्याक्षिप्तमानसः / दह्यते ह्य् अग्निना दीप्तः कायो विविधबन्धनः //
(46) विभ्रान्तो भ्रमते कायो यत्र सौख्यं न विद्यते / तच् च सौख्यं न जानाति यद् अभ्यन्तसुखावहम् //
(47) बुद्धानां सुखदं क्षेत्रं धर्मचक्रं महागदम् / शीलं च सत्यं शीलनां ब्रह्मघोषास् तथागता //
[ससू(च्) 244] 1. अथ खलु भगवान् भैषज्यसेनं बोधिसत्वं महासत्वम् आमन्त्रेयद् अवोचत्: एवं च भैषज्यसेन सत्वा मरणकाले परिदेवन्ति; न न हि तेषां कश्चित् त्राता भविष्यत्य् अन्यत्र सुकृतानां कर्माणां फलविपाकं. गाथाश् चेमा भाषते: (1) कृत्वा तु पापकं कर्म नरकेषु पतन्ति हि / भुंजन्ते चीमरं तप्तं पीवन्ते लोहपानकम् //
(2) कायेभ्यो वर्षते ऽङ्गारं दग्धाः क्रन्दन्ति दारुणम् / दह्यत्य् एषां तच् छरीरं नरकेस्मिन् महाभये //
(3) न विजानन्ति सौख्यानि धर्मं च न विजानते / बालो भ्रमत्य् अधर्मेण सौख्यं नाप्नोति किंचन //
(4) श्रद्धाशीलेन संपन्नः प्रज्ञायुक्तो महातपाः / मित्रं भजति कल्याणं शीघ्रं भोति तथागतः //
(5) वीर्यम् आरभते श्रेयं बुद्धलोकोपपत्तये / देशेथ कुशलं धर्मं सर्वसत्वपरिग्रहं //
(6) मैत्रं चित्तं समापन्नो ब्रह्मचर्यपरायणः / श्रुत्वैवं भैषज्यसेन प्रतिपत्तिपरो भवेत् //
(7) विमुक्तिदर्शनं बुद्धं घुष्टशब्दं विनायकं / लोकस्य मातापितरं बोधिचित्तं तद् उच्यते //
(8) कल्याणमित्रां परमं सुदुष्करं यो देशयेत् / धर्मं लोके शृण्वन्ति ये गौरवाद् बुद्धशासनं / ते भोन्ति बुद्धाः सुगता नरोत्तमाः //
(9) लोकनाथा भवन्त्य् एते सर्वसत्वप्रमोचकाः / शान्तेभ्यो बुद्धक्षेत्रेभ्यो ये भवन्ति सगौरवाः //
[ससू(च्) 245] 1. अथ खलु भैषज्यसेनो बोधिसत्वो महासत्वो भगवन्तम् एतद् अवोचत्: किमिदं भगवन्? पृथिवी कंपति संप्रकंपति! 2. एवम् उक्ते भगवान् भैषज्यसेनं बोधिसत्वं महासत्वम् एतद् अवोचत्: व्यवलोकय भैषज्यसेन! किं पश्यसि? 3. व्यवलोकितं भैषज्यसेनेन बोधिसत्वेन महासत्वेन. 4. अथ तावद् एव चतुर्भ्यो दिग्भ्यः पश्यति: पृथिवी विवरं ददाति. पृथिव्यां विवृतायां, पश्यति: 5. पृथिवीविवरेभ्यो विंशति कोट्यो मनुष्याणां जायन्ते; 6. अधस्ताद्दिशि विंशति कोट्यो मनुष्याणां जायन्ते; 7. ऊर्ध्वायां दिशायां पंचविंशति कोट्यो मनुष्यानां जायन्ते.
[ससू(च्) 246] अथ ते दहराः सत्वा व्यवलोक्य भगवन्तम् एतद् अवोचन्: कतमे भगवन्न् इह जाताः? 2. भगवान् आह: पश्यथ यूयम्? इमे जनकायाः! 3. त आहुः: पश्यामो भगवन्. 3. भगवान् आह: इमे जनकाया युष्माकं सखाया जाताः. 5. त आहुः: एतेषाम् अपि भगवन् सत्वानां मरणं भविष्यतीति? 6. भगवान् आह: एवम् एतन् मार्षाः, सर्वसत्वानाम् अपि मरणं भविष्यति.
[ससू(च्) 247] 1. अथ ते पूर्विमका सत्वा दहराः, ये प्रथमम् उत्पन्नास्, ते, येन भगवांस् तेनांजलिं प्रणमय्य, भगवन्तम् एतद् अवोचन्: 2. नोत्सहामो वयं पुनर् भगवं जातिं, मरणं च द्रष्टुम्! 3. भगवान् आह: तत् किं यूयम् उत्सहथ वीर्यबलालब्धम्? 4. त आहुः: तथागतं संमुखं पश्येम! 5. तस्य च सकाशाद् धर्मश्रवणं मृष्टं मनापं शृणुयाम! 6. तथागतश्रावकसंघं च निषण्णं पश्येम! 7. बोधिसत्वान् महर्धिकान् महानुभावान् पश्येम! 8. ईदृशं च भगवन् नोत्सहामो: जातिं मरणं च द्रष्टुम्.
[ससू(च्) 248] 1. अथ खलु भैषज्यसेनो बोधिसत्वो महासत्व, ऋद्धिबलेनोत्थायासनात्, सार्धं तैः पंचभिर् बोधिसत्वशतैः, ते सर्वे ऋद्ध्या उत्थाय, उपर्य् अन्तरीक्षे चंक्रमन्ति. 2. पर्यंकञ् च बद्ध्वा ध्यायन्ति. 3. तेषां सर्वकायेभ्यः सिंहा निष्क्रामन्ति, 4. व्याघ्रा निष्क्रामन्ति, 5. व्याडा निष्क्रामन्ति, 6. हस्तिनो निष्क्रामन्ति. 7. महाऋद्धिविकुर्वितानि दर्शयन्ति. 8. पर्वतेषु च पर्यंकं बद्ध्वा निषीदन्ति. 9. विंशतिर् योजनसहस्राण्य् ऊर्ध्वम् आरुहन्ति. 10. दश कोटीसहस्राणि चन्द्रमसूर्याणिमवतरन्ति.
[ससू(च्) 249] अथ खलु ते दहराः सत्वा भगवन्तम् एतद् अवोचन्: को भगवन् हेतुः कः प्रत्ययो महारश्म्यवभासस्य, महतां च ऋद्धिविकुर्वितानां लोके प्रादुर्भूतानाम्? 2.भगवान् आह: पश्यथ कुलपुत्रा एतौ चन्द्रसूर्यौ प्रादुर्भूतौ? 3. त आहुः: पश्यामो भदन्त भगवन्, पश्यामो भदन्त सुगत. 4. भगवान् आह: एष बोधिसत्वैः स्वकायाद् रश्म्यवभास ऋद्धिप्रातिहार्यं च दर्शितं; 5. सन्दर्शयित्वा सत्वानान् धर्मन् देशयन्ति, बहुजनहिताय, बहुजनसुखाय, लोकानुकम्पायैर् महतो जनकायस्यार्थाय हिताय सुखाय देवानां च, मनुष्याणां च. 6. इहैव ते मानुष्यके काये वीर्यबलम् उपदर्शयित्वा ईदृशम् ऋद्धिबलम् उपदर्शयन्ति. 7. आह: देशयतु भगवान् रश्म्यवभासप्रादुर्भावाय धर्मम्.
[ससू(च्) 250] 1. एवम् उक्ते भगवान् भैषज्यसेनं बोधिसत्वं महासत्वम् एतद् अवोचत्: पश्यसि त्वं भैषज्यसेन? त्रिसाहस्रमहासाहस्रो लोकधातुः षड्विकारं प्रकंपितः! 2. आह: पश्यामि भगवं पश्यामि सुगत. तस्य मम भगवन्न् एवं भवत्य्; अहं तथागतम् एतम् अर्थं परिपृच्छेयं. 3. भगवान् आह: पृच्छ त्वं भैषज्यसेन यद् यद् एवाकांक्षस्य्; अहं ते तस्य तस्यैव प्रश्नस्य व्याकरणेन चित्तम् आराधयिष्यामि, निर्देक्ष्यामि, विभजिष्यामि. 4. भैषज्यसेन, यद् अतीतानागतप्रत्युत्पन्नेष्व् अध्वसु, तत् सर्वं दर्शयिष्यामि. 5. आह: देशयतु मे भगवान् कौकृत्यविनोदनार्थं. 6. इहाहं भगवन् पश्यामि तथागतं चतुरशीतिभिर् देवपुत्रसहस्रैः परिवृतं, 7. चतुरशीतिभिः कोटीसहस्रैर् बोधिसत्वैः परिवृतं, 8. द्वादशभिः कोटीसहस्रैर् नागराज्ञां परिवृतं, 9. अष्टादशभिः कोटीसहस्रैर् भूतानां परिवृतं, 10. पंचविंशतिभिः कोटीसहस्रैः प्रेतपिशाचैः परिवृतं.
[sasū(c) 251] 1. bhagavān āha: nūnam ete bhaiṣajyasena satvāḥ, ya iha parṣadi mamāntike sannipatitā sanniṣaṇṇā dharmaśravaṇāya, ta ete bhaiṣajyasenādyaiva saṃsāraṃ paścānmukhaṃ kariṣyanti; 2. adyaiva daśabhūmipratilābhino bhaviṣyanti; 3. daśabhūmipratiṣṭhitā nirvāṇadhātum anuprāpsyanti; 4. sarvasatvahitaiṣiṇaḥ, jarāmaraṇaparimokṣaṇārthāya kṛtadharmāḥ, sukhāvahāḥ, kleśapāśaṃ nirjitvā, prāpsyante buddhaśāsanqaṃ. 5. āha: kim ete bhagavan satvā, bahūni satvasthānāni nānāvicitraiḥ karmabhir utpannāni? te bhagavantaṃ parivāryāvasthitāni. 6. bhagavān āha: śṛṇu bhaiṣajyasena, āha ca:
(1) मूढाः सत्वा न जानन्ति कुतो मोक्षो भविष्यति / बहवो नवकाः सत्वाः अद्य प्राप्स्यन्ति धारणिम् //
(2) ज्ञास्यन्ते ते सर्वधर्मान् प्राप्तये दशभूमिनां / भूमयो दश प्राप्स्यन्ति बुद्धकृत्यं करिष्यतः //
(3) वर्तिष्यन्ति धर्मचक्रं धर्मवर्षं प्रवर्षिषूः / रमणीयं शासनं मह्यं येन सत्वाः समागताः //
(4) देवनागाश् च प्रेताश् च असुराश् च सुदारुणाः / दशभूमिप्रतिष्ठन्ते धर्मशब्दपराहताः //
(5) धर्मभेर्याउदाहरं धर्मशंखप्रपूरणं / अद्यैषां नवसत्वानां वीर्यस्थामो भविष्यति //
(6) धर्मं प्राप्स्यन्ति अद्येमे यथा प्राप्तं तथागतैः //
[ससू(च्) 252] 1. अथ पंचमात्राणि सहस्राणि दहराणां सत्वानाम् उत्थायासनेभ्यो, येन भगवांस् तेनांजलिं प्रणम्य, भगवन्तम् एतद् अवोचन्:
(1) गुरुभारो भगवन् कायो दारुणश् च महाभयः / संसारे येन बध्यामः पर्यन्तम् अविजानकाः //
(2) मार्गन् तु न विजानामो मार्गम् एव न दृश्यते / अन्धभूता वयं नाथ अस्माकं कुरु संग्रहं //
(3) अध्येषाम वयं वीर धर्मन् देशय नायक / अल्पप्रज्ञा वयं जाता अनभिज्ञाः सुखस्य हि //
(4) धर्मन् देशय अस्माकं दुःखान् मोचय दारुणात् / यत्र यत्रोपपद्येम स्याद् अस्माद् बुद्धदर्शनम् //
[ससू(च्) 253] 1. अथ खलु भैषज्यसेनो बोधिसत्वो महासत्वो, येन ते दहरा सत्वास् तेनोपसंक्रान्त, उपसंक्रम्य, एतद् अवोचत्:
(1) भूंजध्वं भोजनं यूयं पिवध्वं रसम् अद्भुतम् / पश्चाद् विशारदा भूत्वा धर्मं श्रोष्यथ निर्भयं //
2. त आहुः: (2) भदन्त स्थविर कस् त्वं न जानीमो वयं तव / प्रासादिकं त्वां पश्यामः शान्तरूपं महायशः //
(3) मुक्तं नरकतिर्यक्षु प्रेतलोकान् महाभयात् / शान्ता ते सर्वपापानि यथा जगति शोभसे //
(4) पश्याम हस्ते करकं सप्तरत्नसमन्वितम् / सूत्रं रत्नामयं काये तेजराशौ विवेष्टितं //
(5) प्रतिवोढुं न शक्ता स्मः शान्तवाक्यस्य ते वचः / भक्तेन कार्यं नास्माकं पानेन स्वादुना न च //
(6) भक्ताद् उच्चार संभवति पानान् मूत्रं तथैव च / शोणितं च रसाद् भवति रक्तान् मांसं च संभवेत् //
(7) नास्माकं भोजनं कार्यं पानेनैव च संस्कृतं / वस्त्राणि नैव सूक्ष्माणि पट्टापट्टकसंहिता //
(8) कटकाश् च न सौवर्णाः कार्या मुक्तिलता न च / अङ्गुलीयैर् नैव कार्यं सर्वे ते ऽनित्यधर्मिणः //
(9) जीवितैर् अर्थिकाश् च स्मः न च गच्छेम दुर्गतिम् / अर्थिका धर्मदानेन न देवानां सुखैर् अपि //
(10) कल्याणमित्रता कार्या न राज्यं चक्रवर्तिनां / चक्रवर्ती मरिष्यन्ति त्यक्त्वा द्वीपान् सुशोभनान् //
(11) न पुत्राः पृष्ठतो यान्ति न भार्या न च धीतराः / सप्तरत्ना निवर्त्यन्ते नापि यास्यन्ति पृष्ठतः //
(12) सन्निपात्य बहुजनो न च यास्यन्ति पृष्ठतः / पुरतश् च न धावन्ते वशं भूयो न वर्तते //
(13) एकजन्मिकराजानो भ्रामिता नित्यया बहु / कृत्वा पापानि कर्माणि रौरवे प्रपतन्ति ते //
(14) चतुर्दिशं पर्यटित्वा सप्तरत्नैर् महर्धिकैः / यास्यते क्व च सा ऋद्धिर् यदा वत्स्यति रौरवे //
(15) मृता ऋद्धिं न शक्नोन्ति यत्र भूमिर् न विद्यते / स्थविर शृणुष्व अस्माकं गच्छ येन तथागतः //
(16) कांक्षाम दर्शनं तस्य मातापित्रोर् यथैव हि / नास्माकं विद्यते माता न पिता भ्रातरौ न च //
(17) सैव लोकगुरुर् माता पिता चैव तथागतः / सैव चन्द्रश् च सूर्यश् च क्षेममार्गप्रदर्शकः //
(18) मोचकः स हि संसाराद् येन भूयो न जायते / स नावातारको ओघात् क्लेशौघाच् च महाभयात् //
(19) तेन प्रतारिताः सत्वाः न भूयो विनिवर्तिता / सद्धर्मो देशितस् तेन अग्रबोधिप्रदर्शकः //
(20) नास्माकं भोजनेनार्थो न राज्यफलकांक्षिणः / न देवलोकगमनं कार्यं नरकभीरुभिः //
(21) सुखं मानुष्यकं जन्म दृश्यते यत्र सर्ववित् / अल्पायुषाश् च दृश्यन्ते दुष्कृतैः कर्मभिः स्वकैः //
(22) रज्यन्ते कामभोगैस् ते विन्दन्ति मरणं न च / जानन्ति न च भायन्ते निरोधोत्पादवांचिताः //
(23) सूक्ष्मान् धर्मान् न जानन्ति सूक्ष्मं कार्यं न कुर्वन्ते / शान्तं धातुं न जानन्ति अविद्याक्रान्तचेतसः //
(24) च्यवन्तो न च खिद्यन्ते जायन्तश् च पुनः पुनः / दीर्घरात्रं दुःखहता नित्यता दण्डताडिताः //
(25) परकीयं हरिष्यन्ति घात्यन्ते बन्धने तथा / पंचबन्धनबद्धास् ते पूर्वपापेन चोदिताः //
(26) निराशाश् च मरिष्यन्ति शोकशल्यसमर्पिता / निरुद्ध्यमाने विज्ञाने करुणं परिदेवते //
(27) को नु त्राता भवेयुर् मे सर्वान् भोगान् ददाम्य् अहं / सुवर्णरुप्यस्फटिकं दासो ऽपि च भवाम्य् अहं //
(28) सर्वं कर्म करिष्यामि दासयोग्यं च यद् भवेत् / न राज्यभोगैर् मे कार्यं न धान्येन धनेन च //
(29) स्वशरीरेण मे कार्यं पापकारी न मुच्यते / एवं हि स्थविरास्माकं न कार्यं भोजनं भवेत् //
(30) राजानो ऽपि मरिष्यन्ति यैर् भुक्तं मृष्टभोजनम् / देवपुत्रा मरिष्यन्ति पीत्वा वै पानम् उत्तमम् //
(31) नानारसमायुक्तं संस्कृतं पानभोजनम् / आनीय पुरतो राजा जिह्वया स्पृशति भोजन //
(32) रसगृद्धा हि राजानः पापं कुर्वन्त्य् अनल्पकं / रज्यन्त्य् अनित्येहि रसेहि यत्र सारं न विद्यते //
(33) पानं न कार्यम् अस्माकं न च कार्यं हि भोजनं / धर्मता ईदृशी कार्या दुःखान् मुच्येम यद् वयम् //
(34) तृष्णाबन्धननिर्मुक्तं तृष्णाक्लेशविमोक्षनम् / सर्वबन्धननिर्मुक्तं तं बुद्धं शरणं गताः //
(35) वयं हि शरणं यामो लोकनाथं महर्षिणम् / वन्दनाय वयं यामः सत्वानां प्रियदर्शनम् //
(36) नामं तव न जानीमो नामम् आचक्ष्व शोभनं /
3. भैषज्यसेनो बोधिसत्व आह: (36) यूयं हि श्रोतुम् इच्छध्वं नामं सर्वजनस्य च //
(37) वृतः कोटीशतसहस्रैर् नवकैः सत्वैस् तथागतः /
4. त आहुः: (37) तव तु श्रोतुम् इच्छामो नामं सर्वगुणोद्भवं //
(38) गंभीरं श्रूयते नाम यस् त्वं बुद्धाना श्रावकः 5. आह: (38) भैषज्यसेनो नाम्नाहं सत्वानां भैषज्यो ह्य् अहं //
(39) युष्माकं देशयैष्यामि सर्वेषाम् औषधं वरं / सर्वव्याधिप्रशमनं सर्वव्याधिहते जने //
(40) रागो व्याधिर् महाव्याधिर् लोके नश्यति दारुणं / मोहो व्याधिर् महाघोरो येन भ्राम्यन्त्य् अबुद्धयः //
(41) व्रजन्ति नरकं सत्वास् तिर्यक्प्रेतेषु वै तथा / द्वेषग्रस्ता इमे बालास् तेषां शान्तिः कथं भवेत् //
6. त आहुः: (42) मुच्येम सर्वदुःखातः श्रुत्वा धर्मम् इमं शुभं / मुक्ताश् च सर्वदुःखेभ्यो बालबुद्धिम् अजानकाः //
(43) श्रोष्यामहे धर्मदानं पापकर्मविवर्जिताः / सर्वपापं विवर्जित्वा प्रहीणभयभैरवाः //
(44) द्रक्ष्याम शीघ्रं संबुद्धं सर्वव्याधिप्रमोचकं / वैद्यराजं महावैद्यं दुःखितानां चिकित्सकं //
(45) गच्छ स्थविर शीघ्रं त्वं वन्दनाय तथागतं / वन्दस्व चास्मद्वचना ब्रूहि लोकविनायकं //
(46) प्रशामय इमं व्याधिं शमयाग्निं सुदारुणम् / कायो ऽयं ज्वलितः सर्वो दह्यमानो न शाम्यते //
(47) दुःखार्दितानाम् अस्माकं कार्युण्यं कुरु सुव्रत / कायभारो महाभारस् तीक्ष्णभारः सुदारुणः //
(48) द्वेषमोहसमाक्रान्ता उद्वहन्ति जनाः सदा / पुनः पुनर् वहन्त्य् एते मोक्षद्वारम् अजानकाः //
(49) मर्तव्यं न विजानन्ते त्रासो नोत्पद्यते ऽथ च / मोक्षमार्गं अजानाना मोक्षमार्गम् अपश्यकाः //
(50) अस्माकं मरणं नास्ति कदाचिद् इति सुस्थिताः / संभ्रान्ता न विजानन्ति पश्यन्तो मातरं मृताम् //
(51) पितरं न स्मरन्त्य् अन्ये नित्यं च व्याधिपीडिताः / क्लेशकर्मप्रलुडिताः कथं भूंजाम भोजनं //
(52) दुःखान्तं न विजानामः श्रमामो ऽथ निरर्थकं / अस्माकम् ईदृशा दुःखा जात्यविद्यानिदानतः //
(53) महाभयं गुरुभारं संज्ञासंस्कारवेदना / तृष्णाया भ्राम्यते बालो यो धर्मं न विजानते //
(54) जातो लोके ह्य् अनर्थाय कायभारपरिवृतः / स्नानानुलेपनैः कार्यं शुचिर् वस्त्रं सुशोभनं //
(55) मृष्टं च भोजनं कार्यं यच् छरीरे मनोरमं / पंचतूर्या मनोज्ञं च श्रोत्रं याचयते तथा //
(56) सप्तरत्नसमुत्थाने रूपे रज्यन्ति चक्षुषी / सर्वं रसं च मृष्टं च जिह्वा याचयते ऽपि च //
(57) स्पर्शं च मृदुकं सूक्ष्मं कायः प्रार्थयते सदा / मांसद्वयं शरीरेण निष्पीड्य रती जायते //
(58) कायो ह्य् अचेतनो ऽप्य् एष रतिं कस् तत्र विन्दति / पादौ मे रमतस् तत्र प्रावृतं चर्म सुन्दरं //
(59) भवन्ति मरणे त्राणं न वस्त्रं न विलेपनम् / भवेच् छरीरं न त्राणं किं पुनर् वस्त्रलेपनं //
(60) पुरुष उच्यते कायम् एति श्वासं महाबलं / तीक्ष्णं बलं प्रतिसंख्या तं तच्छरीरे महागुणं //
(61) क्रीडया भ्रामितः पूर्वम् अश्वहस्तिपरिवृतः / मोक्षधर्मम् अजानानो रतो ऽहं पापकर्मणि //
(62) क्रीड्या कारापितं पापं परलोकम् अजानता / पुनः पुनश् च जातो ऽहं पुनर् मरणम् आगतः //
(63) शोकः पुनः पुनर् दृष्टं परिदेवितबन्धनं / मातॄणां मरणं दृष्टं दृष्टाश् च पितरो मृता //
(64) ज्ञातयो भगिनी चैव पुत्रा भार्या मृतापि च / शून्याः सर्वे हि संस्काराः को हि रज्येत् सचेतनः //
(65) विश्वासं हि मयाज्ञातं लोभग्रस्तेन चेतसा / शान्तं धर्मं नोपलब्धं मरणं नाभिनन्दितं //
(66) तेन दानं न दत्तं मे लोभेनावृतचेतसा / कः स्या लोभसमो पापो यो ऽद्यापि न निवर्तते //
(67) संभ्रान्ता हि वयं जाताः संभ्रान्तं सकलं जगत् / संभ्रान्ताः शब्दं शृणुमो असद्धर्मपरिग्रहं //
(68) मोक्षं ध्यानाश् च मर्गामः शरीरं नोद्वहामहे / बुद्धा भवेम लोकार्थे शास्तारो गुरवो जगे //
(69) बुद्धो मातापिता लोके बुद्धो मार्गप्रदर्शकः / प्रवर्षते धर्मवर्षं जंबुद्वीपे समन्ततः //
(70) मूढा सत्वा न जानन्ति धर्माणां संग्रहं कथं / बोधौ चित्तं नामयित्वा लभ्यते धर्मसंग्रहः //
(71) शून्यताः सर्वसंकाराः शून्या भोगा धनं तथा / पश्याम शून्यम् आत्मानं दृष्ट्वा जाता निराशता //
(72) स्थविर भैषज्यसेनमस्माकं वचनं शृणु / दूरं च ते विसर्जेमो बोधिसत्वान कारणात् //
(73) बोधिसत्वा न खिद्यन्ते वीर्यवन्तो महातपाः / स्मृत्वा संसारदोषाणि कुर्वन्ते गुणसंग्रहं //
(74) गच्छस्व येन शास्तासौ पृच्छ चास्माक कारनात् / प्रतिबुद्धा सुखं शास्ता मा किंचित् खिद्यते जिनः //
(75) पराजितस् त्वया मारः सबलश् च सवाहनः / शीघ्रम् उज्वालितं धर्मं सर्वसत्वसुखावहं //
(76) न चास्माभिः श्रुतो धर्मो येन बुद्धा भवेमहे / गच्छस्व शीघ्रं स्थविर अस्माकं हितकारणात् //
(77) नोत्तरामो वयं यावन् न पश्यामस् तथागतं / द्वातृंशलक्षणधरं स्थिता सर्वे सगौरवाः //
7. भैषज्यसेनो बोधिसत्व आह: (88) ऊर्ध्वं तावन् निरीक्षध्वं किं पश्यध्वं हि सांप्रतं / (79) अवलोकयन्ति ते ऊर्ध्वं स्थिताः पंच अनूनकाः / शतास् त्रयः सहस्राणि कूटागाराः समन्ततः //
(80) सप्तरत्नसमारूढा रत्नजालस्वलंकृताः / पद्मं प्रफुल्लं मध्ये च दिव्यगन्धप्रमुञ्चनं //
(81) पृच्छन्ति स्थविरं तत्र किम् एतद् इह दृश्यते / कूटागारा रत्नजालाः पद्मकेसरसंस्थिताः //
8. भैषजयसेन आह: (82) स्थानान्य् एतानि युष्माकं गच्छध्वं बुद्धदर्शनं / वन्दध्वं लोकप्रद्योतं यो ऽसौ लोकोत्तरो गुरुः //
9. त आहुः: (83) तत्र मार्गं न जानीमो न पश्यामस् तथागतं / यत्र मार्गं न जानीमः कुत्र गच्छाम वन्दितुम् //
10. भैषज्यसेन आह: (84) वन्दनाय च गन्तव्यं शास्तारम् अमृतप्रभं / अनन्तम् आकाशम् इव परामार्ष्टुं न शक्यते //
(85) स्थाने तिष्ठत्य् असौ शास्ता यथा तिष्ठन्ति मेरवः / सुमेरोर् उपमा स्यात् तु गाधं चैव महोदधेः //
(86) त्र्साहस्राच् च रजसो न ज्ञानाद् बुद्धसंभवात् / वन्दितो लोकप्रद्योतो बोधिसत्वैर् दशद्दिशः //
11. त आहुः:
(87) विलोकय लोकनाथ पूरयास्मकम् आशयं / चित्तेन वन्दितो ऽस्माभिः शास्ता लब्धास् ततः फलं //
12. भैषज्यसेनो बोधिसत्व आह: (88) न गन्धै रज्यते शास्ता न माल्यैर् न / विलेपनैः हेतुं गृह्णाति सत्वानां येन मुच्यन्ति संस्कृतात् //
(89) संग्रामं न कुरुते तस्य मारः परमदारुणं / दमितो हि मनो येन बुद्धं च शरणं गतः //
(90) मृत्योर् न यास्यति वशं क्षिप्रं प्राप्स्यति धारणीः / चित्तप्रसादं कृत्वासौ शास्तारं पश्यते ततः //
[ससू(च्) 254] 1. अथ खलु कलविङ्करुतस्वरमनोज्ञघोषस् तथागतः स्मितं प्रादुश्चकार. 2. अथ खलु भैषज्यसेनो बोधिसत्वो महासत्व उत्थायासनाद्, येन भगवांस् तेनांजलिं प्रणम्य, भगवन्तम् एतद् अवोचत्: को भगवन् हेतुः कः प्रत्ययः स्मितस्य प्रादुष्करणाय यद् भगवतो मुखद्वाराच् चतुरशीतिरश्मिसहस्राणि निश्चरन्ति? 3. तैश् च रश्मिभिः त्रिसाहस्रमहासाहस्री लोकधातुर् अवभासेन स्फुटाभूत्, 4. सर्वे च द्वातृंशन् महानिरया स्फुटा अभूवन्, 5. द्वातृंशतिश् च देवभवनान्य् अवभासितानि, 6. ताश् च रश्मयो नानावर्णाः तद्यथा नीलपीतलोहितावदातमंजिष्ठास्फटिकरजतवर्णाः, 7. एताश्च रश्मयो भगवतो मुखद्वारान् निश्चर्य, त्रिसाहस्रमहासाहस्र्यां लोकधातौ सर्वमुखोपधानं कृत्वा, पुनर् एव प्रत्युदावृत्य, भगवन्तं सप्तकृत् प्रदक्षिणीकृत्य, भगवतो मूर्धन्य् अन्तरधीयन्त.
[ससू(च्) 255] 1. अथ खलु भैषज्यसेनो बोधिसत्वो महासत्वो भगवन्तम् एतद् अवोचत्: पृच्छेयम् अहं भगवन्तं तथागतम् अर्हन्तं सम्यक्संबुद्धं कञ्चिद् एव प्रदेशं, सचेन् मे भगवान् अवकाशं कुर्यात् पृष्टप्रश्नव्याकरणाय. 2. एवम् उक्ते भगवां भैषज्यसेनं बोधिसत्वं महासत्वम् एतद् अवोचत्: पृच्छ त्वं भैषज्यसेन यद् यद् एवाकांक्षस्य्; अहं ते तस्य तस्यैव प्रश्नस्य व्याकरणेन चित्तम् आरधयिष्यामि.
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
