Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa
संघाटसूत्र (bản khác)
- Thông tin
- GRETIL — Giotto Canevascini: The Khotanese Saṅghāṭasūtra. Wiesbaden: Dr. Ludwig Reichert Verlag, 1993 (Beiträge zur Iranistik, 14).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
[ससू(च्) 256] 1. एवम् उक्ते भैषज्यसेनो बोधिसत्वो महासत्वो भगवन्तम् एतद् अवोचत्: तृंशत् कोटीसहस्राणि भगवन् नवकानां सत्वानां प्रादुर्भूतानि. 2. ते तथागतस्य सूक्ष्मान् धर्मदेशनाम् अवगाहन्ति. 3. सूक्ष्मं (धर्मं) भगवन् वृद्धाः सत्वा परिभाषन्ति, परिवदन्ति, परिपीडयन्ति. 4. न यूयं वृद्धाः सत्वा धर्मं जानीथ, नित्यं यूयम् अधर्मे चाकुशले च रज्यथ. 5. तद् भगवन् मृष्टां मनापां वाचं भाषन्ते. तत् केन कारणेन भगवन् वावं भाषन्ते? 6. भगवान् आह: न विजानासि भैषज्यसेन केन कारणेनैते सत्वा एवं वाचं भाषन्ते? 7. तथागतस्यैभिर् मृदुकं सुकुमारं भाषितं धर्मं श्रुत्वा तेनैते भैषज्यसेन सर्वधर्माणां अर्थम् अवभोत्स्यन्ते, 8. सर्वगुणसमन्वागताश् च भविष्यन्ति, 9. सर्वे च धारणीम् अवगाहिष्यन्ति. 10. अद्यदग्रेण दशभूमिप्रतिष्ठिता भविष्यन्ति, 11. अद्य महाधर्मदुन्दुभिशब्दं प्रकरिष्यन्ति, 12. अद्य महाधर्मप्रकारसमन्वागता भविष्यन्ति. 13. पश्यसि त्वं भैषज्यसेन इमानि कूटागाराणि? 14. भैषज्यसेन आह: पश्यामि भगवन्, पश्यामि सुगत. 15. भगवान् आह: अद्येमे भैषज्यसेन दहराः सत्वाः, एषु कूटागारेष्व् अभिरुह्य, धर्माभिसमयम् अनुप्राप्स्यन्ति, 16. अद्येमे सर्वकुशलधर्मपरिपूरिं करिष्यन्ति, 17. अद्य महाधर्मदुन्दुभिं पराहनिष्यन्ति, 18. अनेकेषां च देवनिकायानाम् अद्य धर्माभिसमयो भविष्यति, 19. बहूनाञ् च नैरयिकानां सत्वानां विनिपातसंप्रस्थितानां, तथागतज्ञाननिर्देशं श्रुत्वा, सर्वसंसारपराङ्मुखपराजयो भविष्यति. [ससू(च्) 257] 1. तस्याम् च वेलायां वृद्धसत्वैर् नवानवतिभिः कोटीशस्रैः स्रोतआपत्तिफलं प्राप्तं. 2. ते च सर्वधर्मसमन्वागता भविष्यन्ति, 3. सर्वे ते भैषज्यसेन सर्वदुःखपरिवर्जिता भविष्यन्ति, 4. सर्वे ते भैषज्यसेन सर्वतथागतदर्शनं निष्पादयिष्यन्ति, 5. सर्वे ते भैषज्यसेन महाधर्मसमन्वागता भविष्यन्ति. 6. अवलोकय भैषज्यसेन चतुर्दिशं!
[ससू(च्) 258] 1. अवलोकयति भैषज्यसेनो बोधिसत्वो महासत्वः समन्ताच् चतुर्दिशं: 2. पूर्वस्यान् दिशि पंचाशत्कोटीगंगानदीबालिकासमा बोधिसत्वा आगच्छन्ति; 3. दक्षिणस्यान् दिशि षष्टिकोटीगंगानदीबालिकासमा बोधिसत्वा आगच्छन्ति; 4. पश्चिमस्यां दिशि सप्ततिकोटीगंगानदीबालिकासमा बोधिसत्वा आगच्छन्ति; 5. उत्तरस्यान् दिश्य् अशीतिकोटीगंगानदीबालिकासमा बोधिसत्वा आगच्छन्ति; 6. अधस्ताद्दिशि नवतिकोटीसहस्रगंगानदीबालिकासमा बोधिसत्वा आगच्छन्ति; 7. ऊर्ध्वायां दिशि कोटीशतसहस्रगंगानदीबालिकासमा बोधिसत्वा आगच्छन्ति; 8. ते चागतागता बोधिसत्वा महासत्वा, महाभगवतः पादौ शिरशाभिवन्द्य, एकान्ते तस्थुः.
[ससू(च्) 259] 1. एकान्तस्थितानां दशदिग्भ्य आगतानां बोधिसत्वानां महासत्वानाम्, अथ भैषज्यसेनो बोधिसत्वो महासत्वो भगवन्तम् एतद् अवोचत्: 2. किम् एतद् भगवन् खगान्तरीक्षे कृष्णरूपं लोहितरूपं च पश्यामि? 3. भगवान् आह: किमिदं भैषज्यसेन? न संजानासि यद् एतद् अन्तरीक्षे कृष्णरूपं लोहितरूपं च पश्यसि? 4. आह: न जानामि भगवन्, न जानामि सुगत. 5. भगवान् आह: एष तथागत एव जानाति: मारो ऽयं भैषज्यसेन विचक्षुस्करणायेहोपसंक्रान्तः. 6. इच्छसि भैषज्यसेनैतान् बोधिसत्वान् महासत्वान् द्रष्टुं य एते खगान्तरीक्षे व्यवस्थिताः? 7. आह: इच्छामि भगवन्न्, इच्छामि सुगत.
[ससू(च्) 260] 1. अथ भगवांस्, तान् बोधिसत्वान् दर्शयित्वा, भैषज्यसेनं बोधिसत्वं महासत्वम् आमन्त्रयति स्म: 2. ईदृशा भैषज्यसेन गंगानदीबालिकासमा बोधिसत्वा आगताः. 3. आह: को भगवन् हेतुः कः प्रत्ययो यद् एते बोधिसत्वा एतावन्त इहागताः? 4. भगवान् आह: दहराणां सत्वानां प्रत्ययेन भैषज्यसेन संप्रातं सर्वसत्वा धर्मध्यानसमन्वागता भविष्यन्ति. 5. पश्यसि त्वं भैषज्यसेन? बोधिसत्वा नानाऋद्धिबला आगता. 6. अवलोकिता मया कोटीशतगंगानदीबालिकासमा लोकधातवस्; तत्र मया कोटीनयुतशतसहस्रगंगानदीबालिकासमा बोधिसत्वा महासत्वा दृष्टाः. 7. स्वकस्वकेन ऋद्धिबलेन तिष्ठन्ति, नानारूपा, नानावर्णा, नानाबलसंस्थानास् तिष्ठन्ति. 8. आर्यधर्मविहारेषु ते बोधिसत्वास् तिष्ठन्ति. धर्मविहारेषु ते बोधिसत्वपरिवारास् तिष्ठन्ति.
[ससू(च्) 260] 1. इदम् अवोचद् भगवान् आत्तमनाः. 2. सर्वशुरो बोधिसत्वो महासत्वः, भैषज्यसेनो बोधिसत्वो महासत्वः, सर्वे च नवपुराणका बोधिसत्वा महासत्वाः, सा च सर्वावती पर्षत्, सदेवमनुषासुरगन्धर्वश् च लोको भगवतो भाषितम् अभ्यनन्दत्. 3. 3. संघाटं नाम महायानसूत्रं समाप्तम्.
चोलोफोन् द्: // 0 // आर्यसंघाटं नाम धर्म्मपर्यायं समाप्तम् //0//
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
