Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa
संघाटसूत्र
- Thông tin
- GRETIL — Oskar von Hinüber.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
संघाटसूत्र
आर्य संघाट सूत्र
स्वस्तिः नमः सर्वबुद्धबोधिसत्त्वेभ्यः //
[ससू 1] एवं मया श्रुतमेकस्मिन् समये भगवान् राजगृहे विहरति स्म / गृद्ध्रकूटे पर्वते महता भिक्षुसंघेन / सार्धं
[ससू 2] द्वाविंशतिभिर्भिक्षुसहस्रैः तद्यथा आयुष्मता चाज्ञातकौण्डिन्येन / आयुष्मता च महामौद्गल्यायेन / आयुष्मता च शारद्वतीपुत्रेण / आयुष्मता च महाकाश्यपेन / आयुष्मता च राहुलेन / आयुष्मता च बक्कुलेन / आयुष्मता च भद्रवासेन / आयुष्मता च भद्रश्रिया / आयुष्मता च नन्दश्रिया / आयुष्मता च जाङ्गुलेन / आयुष्मता च सुभूतिना / आयुष्मता च रेवतेन / आयुष्मता च नन्दसेनेन / आयुष्मता चानन्देन / एवंप्रमुखैर्द्वाविंशतिभिर्भिक्षुसहस्रैः /
[ससू 3] द्वाषष्टिभिश्च बोधिसत्त्वसहस्रैः तद्यथा मैत्रेयेण च बोधिसत्त्वेन महासत्त्वेन / सर्वशूरेण च बोधिसत्त्वेन महासत्त्वेन / कुमारश्रिया च बोधिसत्त्वेन महासत्त्वेन / कुमारवासिना च बोधिसत्त्वेन महासत्त्वेन / कुमारभद्रेण च बोधिसत्त्वेन महासत्त्वेन / अनूनेन च (नाम) बोधिसत्त्वेन महासत्त्वेन / मंजुश्रिया च कुमारभूतेन बोधिसत्त्वेन महासत्त्वेन / समन्तभद्रेन च बोधिसत्त्वेन महासत्त्वेन / सुदर्शनेन च बोधिसत्त्वेन महासत्त्वेन / भैषज्यराजेन च बोधिसत्त्वेन महासत्त्वेन / (वज्रसेनेन च बोधिसत्त्वेन महासत्त्वेन /) एवंप्रमुखैर्द्वाषष्टिभिर्बोधिसत्त्वसहस्रैः
[ससू 4] द्वाषष्टिभिश्च देवपुत्रसहस्रैः तद्यथा अर्जुनेन च देवपुत्रेण / भद्रेण च देवपुत्रेण / सुभद्रेण च देवपुत्रेण / धर्मरुचिना च देवपुत्रेण / चन्दनगर्भेण च देवपुत्रेण / चन्दवासिना च देवपुत्रेण / चन्दनेन च देवपुत्रेण / चन्दनसेनेन च देवपुत्रेण / एवंप्रमुखैर्द्वाषष्टिभिर्देवपुत्रसहस्रैः //
[ससू 5] अष्टाभिश्च देवकन्यासहस्रैः तद्यथा मृदंगिन्या च देवकन्याया / प्रासादवत्या च देवकन्याया / महात्मसंप्रयुक्तया च देवकन्याया / वर्षश्रियाया च देवकन्याया / (पद्मश्रियाय च देवकन्याया /) प्रजापतिवासिन्या च देवकन्याया / बलिन्या च देवकन्याया / सुबाहुयुक्तया च देवकन्याया / एवंप्रमुखैरष्टाभिर्देवकन्यासहस्रैः
[ससू 6] अष्टाभिश्च नागराजसहस्रैः तद्यथा अपलालेन च नागराज्ञा / एलपत्रेण च नागराज्ञा / तिमिङ्गिलेन च नागराज्ञा / कुंभसारेण च नागराज्ञा / कुंभशीर्षेण च नागराज्ञा / सुनन्देन च नागराज्ञा / सुशाखेन च नागराज्ञा / गवशीर्षेण च नागाराज्ञा / एवंप्रमुखैरष्टाभिर्नागराजसहस्रैस्
[ससू 7] ते सर्वे येन राजगृहं महानगरं येन गृद्ध्रकूटः पर्वतो येन च भगवांच्छाक्यमुनिस्तथागतो ऽर्हन् सम्यक्संबुद्धस्तेनोपसंक्रामदुपसंक्रम्य भगवतः पादौ शिरसाभिवन्द्य भगवन्तं त्रिष्प्रदक्षिणीकृत्य भगवतः पुरतस्तस्थिरे /
[ससू 8] (एतदवोचन् देशयतु भगवां धर्मं देशयतु सुगतः धर्मं यं श्रुत्वास्मे क्षिप्रमनुत्तरा सम्यक्संबोधिमभिसंबुद्ध्येम येन च सर्वसत्त्वानां कर्मावरणक्षयो भवेयात्) भगवांश्च तूष्णीभावेनाधिवासयति स्म /
[ससू 9] अथ खलु सर्वशूरो बोधिसत्त्वो महासत्त्वः उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनांजलिं प्रणमय्य भगवन्तमेतदवोचत्
[ससू 10] बह्व्यो भगवन् देवकोट्योप्सरकन्याकोट्यो बोधिसत्त्वकोट्यः बह्व्यो भगवंच्छ्रावककोट्यः सन्निपतिताः सन्निषण्णा धर्मश्रवणाय / तत्साधु भगवन् तेषां यथासन्निपतितानां (सन्निषण्णानां) तथागतो ऽर्हन् सम्यक्संबुद्धस्तथारूपं धर्मनयप्रवेशं देशयतु / यथैषां स्याद्दीर्घरात्रमर्थाय हिताय सुखाय देवानां च मनुष्यानां च यथारूपेण धर्मनयप्रवेशेन देशितेन वृद्धानां सत्त्वानां सह श्रवणेनैव सर्वकर्मावरणानि चैषां परिक्षयं गच्छेयुः दहराश्च सत्त्वाः कुशलेषु धर्मेष्वभियुज्यमाना विशेषामधिगच्छेयुर्न हीयेरन्न परिहीयेरन् कुशलैर्धर्मैः //
[ससू 11] एवमुक्ते भगवान् सर्वशूरं बोधिसत्त्वं महासत्त्वमेतदवोचत् - साधु साधु सर्वेशूर साधु खलु पुनस्त्वं सर्वशूर यस्त्वं तथागतमर्हन्तं सम्यक्संबुद्धमेतमर्थं परिप्रष्टव्यं मन्यसे / तेन हि त्वं सर्वशूर शृणु साधु च सुष्ठु च मनसिकुरु................. ते /
[ससू 12] एवं भगवन्निति सर्वशूरो बोधिसत्त्वो महासत्त्वो भगवतः प्रव्यश्रौषाद् /
[ससू 13] भगवन् अस्यैतदवोचत् अस्ति सर्वशूर [(सद्धर्मपर्यायो / येन धर्मपर्यायेण सर्वसत्वानां पंचानन्तर्याणि कर्मावरणनि क्षयं ................... / तथान्ये च कर्मावरणानि क्षयं गच्छन्ते / क्षिप्रं चानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धयंतेःकतरो भगवं सद्धर्मपर्यायः
[ससू 14] भगवानाहः) संघाटो नाम धर्मपर्याय / य एतर्हि जम्बुद्वीपे प्रचरिष्यति / यः कश्चित् सर्वशूरेमं संघाटं धर्मपर्यायं श्रोष्यति / तस्य पञ्चानन्तर्याणि कर्माणि परिक्षयं यास्यन्ति / अवैवर्तिकाश्च भविष्यन्त्यनुत्तरायां सम्यक्संबोधौ /
[ससू 15] तत्किं मन्यसे सर्वशूर य इमं संघाटसूत्रं धर्मपर्यायं श्रोष्यति / यथैकस्य तथागतस्य [सत्कारं कृत्वा] पुण्यस्कन्धस्तथा तावन्तं पुण्यस्कन्धः स सत्त्व प्रसविष्यतीति / नैवं सर्वशूर द्रष्टव्यं /
[ससू 16] सर्वशूरो बोधिसत्त्व आह / यथा कथं पुनर्भगवन् द्रष्टव्यं /
भगवानाह / यथा गंगानदीबालुकासमानां तथागतानां अर्हतां सम्यक्संबुद्धानां (सत्कारं कृत्वा) पुण्यस्कन्धस्तावन्तं सर्वशूर ते सत्वाः पुण्यस्कन्धं प्रसविष्यन्ति / ये सर्वशूर इमं संघाटं धर्मपर्यायं श्रोष्यन्ति ते सर्वे अवैवर्तिका भविष्यन्ति (अनुत्तरस्यां सम्यक्संबोधेः) / सर्वे च तथागतं द्रक्ष्यन्ति / सर्वे च तथागतदर्शाविनो भविष्यन्ति / सर्वे चानुत्तरां सम्यक्संबोधिमभिसंभोत्स्यन्ते / अधृष्याश्च भविष्यन्ति मारेन पापीमता / ते च सर्वे तदेव कुशलधर्ममनुप्राप्स्यन्ति / ये सर्वशूर इमं संघाटसूत्रं श्रोष्यन्ति / ते सर्वे उत्पादनिरोधं ज्ञास्यन्ति /
[ससू 17] अथ ते सर्वे (यथासन्निपतिता बोधिसत्त्वा महाश्रावका) देवनागमनुष्याप्सरकन्याकोट्यस्तेन कालेन तेन समयेनोत्थायासनेभ्यः एकांसान्युत्तरासंगानि कृत्वा दक्षिणानि जानुमण्डलानि पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनांजलयः प्रणमय्य (ते सर्वे) भगवन्तं परिपृच्छन्ति स्म / कियन्तं भगवन्नेकस्य तथागतस्य (सत्कारं कृत्वा) पुण्यस्कन्धः
[ससू 18] भगवान् आह / शृणु कुलपुत्रा; एकस्य बुद्धस्य पुण्यस्कन्धस्य प्रमाणं तद्यथा महासमुद्रे उदकबिन्दवः यावन्तो जंबुद्वीपे परमाणवः यथा गंगानदीबालिकासमाः सत्त्वास्ते सर्वे दशभूमिप्रतिष्ठिता बोधिसत्त्वा भवेयुः यच्च तेषां बोधिसत्त्वानां पुण्यस्कन्धमतो बहुतरं पुण्यस्कन्धमेकस्य बुद्धस्य (पुण्यस्कन्धम्) / अतश्च ते सर्वशूर सत्त्वा बहुतरं पुण्यस्कन्धं प्रसविष्यन्ति य इमं संघाटं धर्मपर्यायं श्रोष्यन्ति / यावन्न शक्यं गणनायोगेन तस्य पुण्यस्कन्धस्य पर्यन्तमधिगन्तुं / यस्य सर्वशूर तस्मिन् काले तस्मिन् समये एतद् वचनं श्रुत्वा महानुत्साहो भविष्यति स एवमप्रमेयं पुण्यस्कन्धं प्रसविष्यति /
[ससू 19] अथ खलु सर्वशूरो बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत् - कतमे ते भगवन् सत्त्वा ये धर्मपरितृषिता भविष्यन्ति / एवमुक्ते भगवान् सर्वशूरं बोधिसत्त्वं महासत्त्वमेतदवोचत् - द्वाविमौ सर्वशूर सत्त्वौ धर्मपरितृषितौ / कतमौ द्वौ / यदुतैकः सर्वशूर सर्वसत्त्वसमचित्तः द्वितीयः सर्वशूर यो धर्मं श्रुत्वा सर्वसत्त्वानां समं प्रकाशयति (इमौ द्वौ धर्मपरितृषितौ) /
[ससू 20] सर्वशूरो बोधिसत्त्व आह - कतमं भगवन् धर्मं श्रुत्वा सर्वसत्त्वानां समप्रकाशना; भगवान् आह - एकः सर्वशूर धर्मं श्रुत्वा बोधाय परिणामयंति / यदा च बोधाय परिणामयति तदा सर्वसत्त्वा धर्मपरितृषिता भविष्यन्ति / द्वितीयस्सर्वशूर यो महायानमवगाहयति स नित्यं धर्मपरितृषितो भवत् /
[ससू 21] अथ ते देवनागमनुष्याप्सरसकोट्य उत्थायासनाद् भगवतः पुरतः प्रांजलयो भूत्वा भगवन्तमेतदवोचन् वयं भगवन् धर्मपरितृषिताः परिपूरयतु भगवान् अस्माकं सर्वसत्त्वानां चाशा /
[ससू 22] अथ खलु भगवांस्तस्यां वेलायां स्मितं प्रादुष्चकारः अथ खलु सर्वशूरो बोधिसत्त्वो महासत्त्व उत्थायासनाद्येन भगवांस्तेनांजलिं प्रणमय्य भगवन्तमेतदवोचत् - को भगवन् हेतुः कः प्रत्ययः स्मितस्य प्रादुष्करणाय /
[ससू 23] अथ खलु भगवान् सर्वशूरं बोधिसत्त्वं महासत्त्वं आमन्त्रयामास / ये सर्वशूर सत्त्वा इहागत्वा ते सर्वे अनुत्तरां सम्यक्संबोधिमभिसंबुद्ध्यन्ते / सर्वे ते तथागतगोचरपरिनिष्पत्तये परिनिष्पद्यन्ते /
[ससू 24] सर्वशूरो बोधिसत्त्व आह - को भगवन् हेतुः कः प्रत्ययः यदेते सत्त्वा इहगत्वानुत्तरां सम्यक्संबोधिमभिसंबुद्ध्यन्ते भगवानाह - साधु साधु सर्वशूर यस्त्वं तथागतमेतमर्थं परिप्रष्टव्यं मन्यसे / तेन हि सर्वशूर शृणु / इह सर्वशुर परिणामनविशेषो द्रष्टव्यः /
[ससू 25] भूतपूर्वं सर्वशूरातीते ऽध्वन्यसंख्येयैः कल्पैर्यदापि तेन कालेन तेन समयेन रत्नश्रीर्नाम तथागतो ऽर्हन् सम्यक्संबुद्धो लोको उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान् /
[ससू 26] तेन खलु पुनः सर्वशूर कालेनाहं माणावको भूवन् ये सत्त्वाः सांप्रतं मया बुद्धज्ञाने प्रतिष्ठपितास्ते सर्वे तेन कालेन तेन समयेन मृगा अभूवन् तेन च कालेन तेन समयेनाहमेवं प्रणिधानमकार्षीद् ये केचिन् मृगाः सांप्रतं दुःखेन परिपीडिताः एते सर्वे मम बुद्धक्षेत्र उपपद्येरन् सर्वांश्च तानहं बुद्धज्ञाने प्रतिष्ठापयेयं ते च मृगास्तद्वचनं श्रुत्वा एवं वाचमभाषन्त - एवं भवतु; तेन सर्वशूर कुशलमूलेनैते सत्त्वा इहगत्वानुत्तरां सम्यक्संबोधिमभिसंभोत्स्यन्ते //
[ससू 27] अथ खलु सर्वशुरो बोधिसत्त्वो महासत्त्वो भगवतो ऽन्तिकात्तदुत्साहं श्रुत्वा भगवन्तमेतदवोचत् - कियन्तं भगवंस्तेषां सत्त्वानां आयुष्प्रमाणं भविष्यति / भगवान् आह / चतुरशीतिः कल्पसहस्राणि तेषां सत्त्वानामायुष्प्रमाणं भविष्यति /
[ससू 28] सर्वशूरो बोधिसत्त्व आह - कियन्तं भगवन् कल्पस्य प्रमाणं / भगवान् आह - शृणु कुलपुत्र / तद्यथापि नाम सर्वशूर कश्चिदेव पुरुषो नगरं कारयेद्द्वादशयोजनायामविस्तारं ऊर्ध्वेन त्रीणि योजनानि प्रमाणं / तच्च नगरं तिलफलकैः परिपूर्णं कुर्यात् (स च पुरुष शिरजीवी स्यात्) अथ स पुरुषो वर्षशतस्यात्ययात्ततस्तिलफलकैः परिपूर्णान्नगराद् एकं तिलफलकं बहिर्निक्षिपेदनेन पर्यायेण स पुरुषः सर्वाणि तानि तिलफलकानि क्षयं कुर्यात् पर्यवदानं कुर्यात् तच्च नगरममूलमप्रतिष्ठानां भवेन्न चाद्यापि च कल्पं क्षीयेत //
[ससू 29] पुनरपरं सर्वशूर (अपरां ते उपमा करिष्याम्यस्यैवार्थस्य प्रसिद्धये /) तद्यथापि नाम पर्वतो भवेत् पंचविंशद् योजनानि प्रमाणेन द्वादश योजनान्यूर्ध्वेन / अथ कश्चिदेव पुरुषस्तस्य पर्वतस्य पार्श्वे गृहं कारयेत् स दीर्घस्याध्वनो वर्षशतस्यात्ययेन काशिकेन वस्त्रेणैकवारा परिमार्जयेदेवं कृत्वा तस्य पर्वतस्य क्षयो भवेन्न च कल्पं क्षीयेत / एतत्सर्वशूर कल्पस्य प्रमाणं /
[ससू 30] अथ खलु सर्वशूरो बोधिसत्त्वो महासत्त्व उत्थायासनाद् (एकांसमुत्तरासंगं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनांजलिं प्रणाम्य) भगवन्तमेतदवोचत् - एकपरिणामनया भगवन्नेवं बहु पुण्यस्कन्धं प्रसवति / यदुताशीतिः कल्पान् सुखमायुष्प्रमाणं भविष्यति / कः पुनर्वादो यस्तथागतशासने बहुतरमधिकारं करिष्यति / तस्य कियन्तमायुष्प्रमाणं भविष्यति /
[ससू 31] भगवान् आह - शृणु कुलपुत्र य इमं संघाटं सूत्रं श्रोष्यति / तस्य चतुरशीतिः कल्पसहस्राण्यायुष्प्रमाणं भविष्यति / कः पुनर्वादो यः संघाटं सूत्रं लिखापयिष्यति वाचयिष्यति / स सर्वशूरः सत्त्वो बहुतरं पुण्यस्कन्धं प्रसविष्यति / यः सर्वशूर प्रसन्नचित्तः संघाटं सूत्रमध्याशयेन नमस्करिष्यति स पंचनवति कल्पां जातौ जातिस्मरो भविष्यति / षष्टि कल्पसहस्राणि राजा चक्रवर्ती भविष्यति / दृष्टेव धर्मे सर्वशूर सर्वेषां प्रियो भविष्यति मनापः न स सर्वशूर शस्त्रेण कालं करिष्यति / प्रियो भविष्यति मनापः न स सर्वशूर शस्त्रेण कालं करिष्यति / न विषेण (नोदकेन नाग्नौ) कालं करिष्यति / काखोर्दं चास्य न क्रमिष्यति / मरणकालसमये चरिमनिरोधे वर्तमाने नवति बुद्धाकोट्यः संमुखं द्रक्ष्यति / ते च सर्वशूर बुद्धा भगवन्त आश्वासयन्ति / मा भैः सत्पुरुष त्वया संघाटं सूत्रं महाधर्मपर्यायं सुभाषितं श्रुतं श्रुत्वा इयान् पुण्यस्कन्धः प्रसूतः तेषां पंचनवति बुद्धकोट्यः पृथक् पृथग् लोकधातुषु बुद्धा भगवन्तो व्याकरिष्यन्ति / कः पुनर्वादः सर्वशूर य इमं संघाटसूत्रं महाधर्मपर्यायं सकलसमाप्तं विस्तरेण श्रोष्यति / (लेखयिष्यति वाचयिष्यति भावयिष्यति //)//
[ससू 32] अथ खलु सर्वशूरो बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत् - अहं भगवन् संघाटसूत्रं महाधर्मपर्यायं श्रोष्यामि / कियन्तं (अहं) भगवन् पुण्यस्कन्धं प्रसविष्यामि / भगवानाह - यावन्तो गंगानदीबालिकासमानां बुद्धानां भगवतां (सत्कारं कृत्वा) पुण्यस्कन्धस्तावन्तं सर्वशूर स सत्त्वः पुण्यस्कन्धं प्रसविष्यति /
[ससू 33] सर्वशूरो बोधिसत्त्व आह - यदहं भगवन् संघाटसूत्रं धर्मपर्यायं शृणोमि नाहं भगवंस्तृप्तिं संजानामि / भगवान् आह - साधु साधु सर्वशूर यस्त्वं धर्माणां तृप्तिं न संजानानि / अहमपि सर्वशूर धर्माणां तृप्तिं न संजानामि / कः पुनर्वादः सर्वशूर यद् बालपृथग्जनास्तृप्तिं ज्ञास्यन्ति /
[ससू 34] यः कश्चित् सर्वशूर कुलपुत्रो वा कुलदुहिता वा महायाने प्रसादं जनयिष्यन्ति / स कल्पसहस्रं विनिपातं न गमिष्यति / पंच कल्पसहस्राणि तिर्यक्षुर्नोपपत्स्यते / द्वादश कल्पसहस्राणि दुर्बुद्धिं स भविस्यति / अष्टादश कल्पसहस्राणि प्रत्यन्तिमे जनपदे नोपपत्स्यते / विंशति कल्पसहस्राणि प्रदानशूरो भविष्यति / पंचविंशत् कल्पसहस्राणि देवलोके उपपत्स्यते / पंचत्रिंशत् कल्पसहस्राणि ब्रह्मचर्यं चरिष्यति / स चत्वारिंशत् कल्पसहस्राणि निष्क्रान्तगृहावासो भविष्यति / पंचाशत् कल्पसहस्राणि धर्मधरो भविष्यति / पंचषष्टिः कल्पसहस्राणि मरणानुस्मृतिं भावयिष्यति / तस्य सर्वशूर कुलपुत्रस्य वा कुलदुहितुर्वा न किंचित् पापकानि कर्माणि संवेत्स्यन्ते / न च तस्य मारः पापीमानवतारं लप्स्यते / न जातु मातुकुक्षावुपपत्स्यते / ये सर्वशूर इमं संघाटं धर्मपर्यायं श्रोष्यन्ति / ते यत्र यत्रोपपत्स्यन्ते तत्र तत्र पंचनवत्यासंख्येयैः कल्पैर्विनिपातं न गमिष्यन्ति / अशीतिः कल्पसहस्राणि श्रुतधरा भविष्यन्ति / कल्पशतसहस्रं प्राणातिपातात् प्रतिविरता भविष्यन्ति नवानवति कल्पसहस्राणि मृषावादात् प्रतिविरता भविष्यन्ति / त्रयोदश कल्पसहस्राणि पिशुनवचनात् प्रतिविरता भविष्यन्ति / दुर्लभास्ते सर्वशूर सत्त्वा य इमन् धर्मपर्यायं श्रोष्यन्ति /
[ससू 35] अथ खलु सर्वशूरो बोधिसत्त्वो महासत्त्व उत्थायासनाद् एकांसमुत्तरासंगं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनांजलिं प्रणाम्य भगवन्तमेतदवोचत् - कियन्तं भगवं(स्ते सत्त्वा) अपुण्यस्कन्धं प्रसविष्यति / य इमन् धर्मपर्यायं प्रतिक्षेप्स्यन्ति / भगवानाह - बहु सर्वशूर सद्धर्मप्रतिक्षेपादपुण्यस्कन्धं प्रसविष्यति /
[ससू 36] सर्वशूर आह - कियन्तं भगवन् सत्त्वानां पापकं कर्मस्कन्धं भविष्यति / भगवानाह - अलमलं सर्वशूर मा मे पापकं कर्मस्कन्धं परिपृच्छः अपि तु सर्वशूर शृणु निर्देक्ष्यामि तेषां सद्धर्मप्रतिक्षेपकानां पापकं अकुशलस्कन्धं / यावन्तं ते पापकमकुशलस्कन्धं प्रतिगृहीष्यन्ति / य इमन् धर्मपर्यायं प्रतिक्षिपन्ति / यश्च सर्वशूर द्वादशगंगानदीबालिकासमानान् तथागतानामर्हतां सम्यक्संबुद्धानामन्तिके दुष्टचित्तमुत्पादयेद्यश्चेमं संघाटसूत्रं प्रतिक्षिपेदयं ततो बहुतरं पापकम् (कुशलस्कन्ध प्रादुर्भविष्यति / अतः सर्वशूर-म्-) अकुशलस्कन्धं प्रसविष्यन्ति / अतस्ते सर्वशूर सद्धर्मप्रतिक्षेपका सत्त्वाः बहुतरमकुशलस्कन्धं प्रसविष्यन्ति ये महायाने आघातचित्तमुत्पादयिष्यन्ति / दग्धास्ते सर्वशूर सत्त्वा दग्धा एव /
[ससू 37] सर्वशूर आह - न ते भगवन् सत्त्वा शक्यं मोचयितुं / भगवान् आह - शृणु सर्वशूर; न शक्या मोचयितुं तद्यथापि नाम सर्वशूर कश्चिदेव पुरुषः कस्यचित् सत्त्वस्य शीर्षंच्छिंद्याद् अथ स पुरुषः केनचिद् भैषज्येन प्रलिंपेन माक्षिकेन वा शर्करया वा / गुडेन वा घृतेन वा तैलेन वा तं शीर्षं प्रलेपयेत् तत्किं मन्यसे सर्वशूर शक्यं स सत्त्वः पुनरप्युत्थापयितुं /
[ससू 38] सर्वशूरो बोधिसत्त्व आह - न शक्यं भगवन् न शक्यं सुगत / भगवान् आह - (एवमेव सर्वशूर न शक्य[ं]ते स सत्त्वो मोचयितुं बहुभिरुपायैर्यो महायानस्याघ्[आत]चित्तम् [उ]त्[प्]आदयिति //)//
[ससू 39]पुनरपरं सर्वशूर / तद्यथापि नाम द्वितीयः पुरुषो भवेत् स तीक्ष्णेन शस्त्रेणापरस्य सत्त्वस्य प्रहारं दद्यात् स न शक्नुयादेकप्रहारेण जीविताद्व्यवरोपयितुं / किं चापि सर्वशूर ब्रणमुत्पद्येत / अथ च पुनर्भैषज्ययोगं कर्तव्यं तदा ब्रणात् परिमुच्यते / यदा परिमुक्तो भवति तदा दुःखं स्मरति / अहमिदानीञ्जानामि न कदाचित् पुनः पापकमकुशलं कर्माभिसंस्कारं करिष्यामि /
[ससू 40] एवमेव सर्वशूर स सद्धर्मप्रतिक्षेपकः पुरुषो यदा नरके दुःखं स्मरति तदा सर्वपापं परिवर्जयति / यदा सर्वपापं परिवर्जयति / तदा सर्वधर्मा आमुखीकरिष्यति (यदा) सर्वधर्मा आमुखीकृत्वा (तदा) सर्वकुशलधर्मपारिपूरिङ् करिष्यति / तद्यथापि नाम सर्वशूर मृतस्य पुरुषस्य मातापितरौ शोचन्ति परिदेवन्ति न च शक्नुवन्ति त्रातुमेवमेव सर्वशूर बालपृथग्जनाः सत्त्वा न शक्नुवन्त्यात्महितं परहितं वा कर्तुं निराशा इव मातापितर गता इति / एवमेव सर्वशूर निराशा भवन्ति ते सत्त्वा मरणकालसमये /
[ससू 41] द्वाविमौ सर्वशूर सत्त्वानां नैराश्यौ मरणकालसमये / कतमौ द्वौ / यदुतैकः सत्त्वः पापं कर्म करोति कारापयति वा / द्वितीयः सर्वशूर सद्धर्मं प्रतिक्षिपति / इमौ द्वौ सत्त्वानां नैराश्यौ मरणकालसमये /
[ससू 42] सर्वशूरो बोधिसत्त्व आह - का भदन्त भगवंस्तेषां सत्त्वानां गतिः को ऽभिसंपरायो भवति / भगवानाह - अनन्ता गतिः सर्वशूर सद्धर्मप्रतिक्षेपकानां सत्त्वानां अनन्तो ऽभिसंपरायः कल्पमेव ते सर्वशूर रौरवे महानरके दुःखं वेदनां वेदयिष्यन्ति / कल्पं संघाते / कल्पं तपने कल्पं प्रतापने / कल्पं कालसूत्रे महानरके / कल्पं महावीचौ महानरके / कल्पं रोमहर्षे महानरके / कल्पं हहे महानरके / (कल्पं तपने महानरके) इमेष्वष्टसु महानरकेषु सर्वशूर अष्टौ कल्पाः सद्धर्मप्रतिक्षेपकैः सत्त्वैर्दुःखमनुभवितव्यम् //
[ससू 43]अथ खलु सर्वशूरो बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत् - दुःखं भगवन् दुःखं सुगत नोत्सहामि श्रोतुं / अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषतः //
(1) यस्त्वं नोत्सहसे श्रोतुमिदं वाक्यं महाभयम् नरके यथैकान्तदुःखे सत्त्वा विन्दन्ति वेदनां (2) यत् करोति शुभं कर्मं सुखं तस्य भविष्यति / यत्करोत्यशुभं कर्म दुःखमेव भविष्यति / (3) जातस्य मरणं दुःखं शोकं दुःखो ऽथ बन्धनं नित्यं दुःखं हि बालस्य सुखहेतो न वेत्ति यः (4) पण्डितानां सुखं यो वै स्मरते बुद्धमुत्तमम् प्रसन्नाश्च महायाने न ते यास्यन्ति दुर्गतिम् (5) एवमेव सर्वशूर पूर्वकर्म प्रचोदितं / अल्पं हि कृयते कर्म अनन्तं भुज्यते फलं / (6) बीजमल्पं यथा वाप्य प्रभूतं लभते फलं बुद्धक्षेत्र तु सुक्षेत्रे उप्ताद्बीजाद्महाफलं (7) पण्डितानां सुखं भवति रमन्ते जिनशासने / विवर्जयन्ति पापानि कुर्वन्ति कुशलं बहु; (8) वालमात्रं प्रदास्यन्ति ये दानं मम शासने / अशीतिः कल्पसहस्राणि महाभोगा महाधनाः (9) यत्र यत्रोपपद्यन्ते नित्यं दानं स्मरन्ति ते / एवं महाफला ह्येषा गंभीरा बुद्धदक्षिणाः //
[ससू 44] अथ खलु सर्वशूरो बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत् - कथं भगवन् भगवतः शासने धर्मो ज्ञातव्यः कथं भगवन् संघाटं सूत्रं धर्मपर्यायं श्रुत्वा कुशलमूलं परिगृहीतं भविष्यति / भगवान् आह - यः सर्वशूर द्वादशगंगानदीबालिकासमांस्तथागतानर्हतः सम्यक्संबुद्धान् सर्वसुखोपधानैरुपतिष्ठेत / यश्चेमं संघाटसूत्रं धर्मपर्यायं शृणुयादेवमेव तस्य पुण्यस्कन्धो ज्ञातव्यः /
[ससू 45] सर्वशूरो बोधिसत्त्व आह - कथं भगवन् कुशलमूलपरिपूरिः कर्तव्याः एवमुक्ते भगवान् सर्वशूरं बोधिसत्त्वं महासत्त्वमेतदवोचत् - यत् सर्वशूर कुशलमूलं तत् तथागतसमं ज्ञातव्यं सर्वशूर आह - कतमच्च भगवन् कुशलमूलं तथागतसमं ज्ञातव्यं / भगवान् आह - धर्मभाणकः सर्वशूर तथागतसमो ज्ञातव्यः सर्वशूर आह - कतमो भगवन् धर्मभाणकः भगवान् आह - यः संघाटं सूत्रं श्रावयति स धर्मभाणकः
[ससू 46] सर्वशूरो बोधिसत्त्व आह - ये भगवन् संघाटसूत्रं धर्मपर्यायं श्रोष्यन्ति / ते ईदृशं पुण्यस्कन्धं प्रसविष्यन्ति / कः पुनर्वादो ये लिखिष्यन्ति (स्वयं वा लिखिष्यन्ति) वाचयिष्यन्ति / कियन्तं ते भगवन् पुण्यस्कन्धं प्रसविष्यन्ति / भगवान् आह - शृणु सर्वशूर / तद्यथा चतुर्षु दिक्ष्वेकैकस्यान् दिशि द्वादशगंगानदीबालिकासमांस्तथागतान् अर्हतः सम्यक्संबुद्धा द्वादशगंगानदीबालिकासमान् कल्पान् अवतिष्ठन्तो धर्मं देशयेयुरस्य संघाटसूत्रस्य धर्मपर्यायस्य पुण्यस्कन्धं वर्णयेयुर्लेखयतस्तस्य पुण्यस्कन्धस्य न शक्यं पर्यन्तमधिगन्तुं वाचया वा व्याहर्तुं / अष्टाचत्वारिङ्शद्भिरपि गंगानादिबालिकासमैर्बुद्धैर्भगवद्भिर्न शक्यं लिख्यमानस्य यत्पुण्यस्कन्धं तद्व्याहर्तुं कः पुनर्वादो ये वाचयिष्यन्ति चिन्तयिष्यन्ति वा ये वा धर्मध्याना भविष्यन्ति /
[ससू 47] सर्वशूरो बोधिसत्त्व आह - कियन्तं भगवन् वाचयमानाः पुण्यस्कन्धं प्रसविष्यन्ति // अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषताः //
(10) चतुष्पदायां गाथायां वाचितायां तु यच्छुभं / चतुरशीति गंगाया बालिका स्युः समा जिनाः (11) ते वाचितस्येह यत्पुण्यं कथयेयुरविष्ठिताः न च क्षीयेत तत्पुण्यं यावद् व्याकरणं भवेत् (12) बुद्धानां कोटयो ऽशीतिस्तिष्ठेयुः कल्पतात्तकान् महायानगुणाः सर्वे वर्णयेयुर्दशो दिशः (13) संघाटस्य च यत्पुण्यं तत् क्षयं नैव च व्रजेत् बुद्धानान् दुर्लभा एवमनन्ता धर्मदेशनाः
[ससू 48] तेन खलु पुनः कालेन तेन समयेन चतुरशीतिर्देवपुत्रकोटिशतसहस्राणि येन तथागतो येन च संघाटसूत्रं धर्मपर्यायनिर्देशं तेनांञ्जलयः प्रणाम्य भगवन्तमेतदवोचन् - साधु साधु भगवन् येन भगवता ईदृशं धर्मनिधानं जंबुद्वीपे स्थापितं /
(49) अन्ये चाष्टादश कोटीसहस्राणि निग्रन्थानां येन भगवाम्स्तेनोपसंक्रामनुपसंक्रम्य भगवन्तमेवमाहुः जय भोः श्रमणो गौतम; भगवानाह - तथागतो नित्यमेव जयति / भो निग्रन्थतीर्थिकाः कथं युष्माकं तीर्थिकानां जयं ते ऽवोचन् जयतु जयत्वेव श्रमणो गौतम; भगवानाह - नाहं युष्माकं जयं पश्यामि / आह च -
(14) विपरीता स्थिता यूयं भविष्यति जयः कथं यूयं शृणुथ निग्रन्था वक्ष्यामि भवतां हितं (15) बालबुद्धेः सुखं नास्ति किं जयं वो भविष्यति / दर्शयिष्याम्यहं मार्गं गंभीरं बुद्धचक्षुषाः //
[ससू 50] अथ ते निग्रन्था भगवतो ऽन्तिके क्रुद्धा अप्रसादचित्तमुत्पादयामासुः तेन खलु पुनः कालेन तेन समयेन शक्रो देवानामिन्द्रो (तस्यां पर्षदिः सन्निपतितो भूत् सन्निषण्णः स तानन्यतीर्थिकानिग्रन्थां भगवतो ऽन्तिके क्रुद्धानभिवीक्ष्य) वज्रं पराहनत्
[ससू 51] अथ ते ऽष्टादश कोट्यो निग्रन्थानां भीतास्त्रस्ता महाता दुःखदौर्मनस्येनार्ता अस्रुकण्ठा परिदेवन्ति / तथागतश्च स्वकमात्मानमन्तर्धितं दर्शयति स्म / अथ ते निग्रन्था अस्रुमुखा रुदन्ति तथागतं अपश्यन्तश्च गाथां बभाषिरे /
(16) नास्ति कश्चिदिह त्राणां न माता न पिता तथा / अतवीमिह पश्याम शून्यागारां निरालयां / (17) उदकं चैव नैवास्ति न वृक्षा न च पक्षीणाः जनं चात्र न पश्याम अनाथा दुःखवेदनां (18) वेदयामो महाघोरामपश्यन्तश्तथागतं (को नु स्याच्छरणं नाथो येन त्रायेन महाभयात् //)//
[ससू 52] तेन खलु पुनः कालेन तेन समयेन ते ऽष्टादश कोट्यो निग्रन्थानां उत्थायायनेभ्यो जानुद्वयं भूमौ निपात्य शब्दमुदीरयन्ति घोषमनुश्रावयन्ति /
(19) तथागतः कारुणिकः संबुद्धि द्बिपदोत्तमः कुरुष्व हितमस्माकं त्रायस्व कृपणं जगत्
[ससू 53] अथ भगवान् स्मितं प्रादुष्कृत्वा सर्वशूरं बोधिसत्त्वं महासत्त्वमामन्त्रयति / गच्छ सर्वशूर निग्रन्थानामन्यतीर्थिकानान् धर्मन् देशय / एवमुक्ते सर्वशूरो बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत् - ननु भगवन् कालपर्वताः सुमेरोः पर्वतराजस्य शिरसा प्रणमन्ति / तिष्ठति तथागते ऽहं धर्मन् देशयामि / भगवान् आह - अलं कुलपुत्र बहु तथागतानामुपायकौशल्यं गच्छ सर्वशूर व्यवलोकय दश दिशि लोकधातून् पश्य क्व तथागतं पश्यसि / कुत्र वा तथागतस्यासनं प्रज्ञप्तं (पश्यसि) / अहमेव सर्वशूर स्वयं निग्रन्थानां अन्यतीर्थिकानां धर्मन् देशयिष्यामि /
[ससू 54] सर्वशूरो बोधिसत्त्व आह - कस्य भदन्त भगवन् ऋद्ध्यानुभावेन गच्छामि / स्वऋद्धेर्वा / अथ वा तथागतस्य ऋद्ध्यानुभावेन गच्छामि / भगवान् आह - स्वकेन सर्वशूर ऋद्धिबलाधिष्ठानेन गच्छः पुनरेव सर्वशूर तथागतस्य ऋद्ध्यानुभावेनागच्छः अथ खलु सर्वशूरो बोधिसत्त्वो महासत्त्व उत्थायासनाद् भगवन्तं प्रदक्षिणिकृत्य तत्रैवान्तर्धितः //
[ससू 55] अथ खलु भगवांस्तेषां अन्यतीर्थिकानां धर्मन् देशयति / जातिर्मार्षा दुःखं जातिरेव दुःखं जातस्य सतो बहूनि भयान्युत्पद्यन्ते / जातस्य व्याधिभयमुत्पद्यते व्याधेर्जराभयमुत्पद्यते / जीर्णस्य मृत्युभयमुत्पद्यते / त आहुः कतमद् भगवाञ्जातस्य भयं
[ससू 56] भगवान् आह - जातं जातमिति नाम / जातस्य पुरुषस्य बहूनि भयाणि जायन्ते राजभयं जायते चोरभयं जायते / अग्निभयं जायते / विषभयं जायते / उदकभयं जायते / वायुभयं जायते / आवर्तभयं जायते / स्वकृतानां कर्मणां भयं जायते / एवं भगवता जातिनिदानं बहुप्रकारं धर्मन् देशयतः
[ससू 57] तेन कालेन तेन समयेन तेषामन्यतीर्थिकानां निग्रन्थानां (श्रुत्वा) महासन्त्रासो भवदेवं चाहुः न भूयो वयं भगवन्नुत्सहामहे जतिदुःखमनुभवितुं
[ससू 58] अस्मिन् खलु पुनः संघाटे धर्मपर्याये भगवता भाष्यमाणे ते ऽष्टादश कोट्यो निग्रन्था अन्यतीर्थिकाः परिनिष्पन्ना अभूवन्ननुत्तरस्याः सम्यक्संबोधेः स्वकाये चाष्टादश बोधिसत्त्वसहस्राः दशमहाभूमिप्रतिष्ठिताः / सर्वे नानार्धिविकुर्वितानि (स्वकायमनेकप्रकारं) सन्दर्शयामासुः तद्यथा अश्वरूपं / हस्तिरूपं / सिंहरूपं व्याघ्ररूपं गरुडरूपं सुमेरुरूपं नन्दिकरूपं केचिद् वृक्षरूपं / ते सर्वे पद्मासने पर्यंकेन निषीदन्ति / नव कोटीसहस्राणि बोधिसत्त्वानां भगवतो दक्षिणे पार्श्वे निषीदन्ति / नव कोटीसहस्राणि (बोधिसत्त्वानां) भगवतो वामे पार्श्वे निषीदन्ति / तथागतस्तु नित्यसमाहितः उपायकौशल्येन सत्त्वानां धर्मन् देशयन् संदृश्यते /
[ससू 59] यावत् सप्तमे रातृदिवसेन तथागतः पाणितलं प्रसारयति / जानाति च भगवान् यः सर्वशूरो बोधिसत्त्वो महासत्त्वस्तस्याः पद्मोत्तराया लोकधातोरिहागच्छतीति / यदा च सर्वशूरो बोधिसत्त्वो महासत्त्वो गतस्तदा सप्त रात्रिन्दिवसैस्तां पद्मोत्तरां लोकधातुमनुप्राप्तः स्वऋद्धिबलाधिष्ठानेन / यदा च भगवान् बहुं प्रसारयति / तदा सर्वशूरो बोधिसत्त्वो महासत्त्वो भगवतः पुरत स्थितः भगवन्तं सप्तकृत् प्रदक्षिणीकृत्य भगवतो ऽन्तिके चित्तं प्रसादयमानो येन तथागतस्तेनांजलिं प्रणाम्य भगवन्तमेतदवोचत् -
[ससू 60] गतो ऽस्मि भगवन् दशसु दिक्षु सर्वलोकधातुषु दृष्टानि मे भगवन् नवानवति कोटीसहस्राणि (लोकधातुनां / दृष्टानि च मे भगवन् नवति कोटीसहस्राणि) बुद्धक्षेत्राणामेकया ऋद्ध्याः द्वितीयया ऋद्ध्या बुद्धानां भगवतां कोटीशतसहस्रं /
[ससू 60] गतो ऽस्मि भगवन् दशसु दिक्षु सर्वलोकधातुषु दृष्टानि मे भगवन् नवानवति कोटीसहस्राणि (लोकधातुनां / दृष्टानि च मे भगवन् नवति कोटीसहस्राणि) बुद्धक्षेत्राणामेकया ऋद्ध्याः द्वितीयया ऋद्ध्या बुद्धानां भगवतां कोटीशतसहस्रं /
[ससू 61] यावत् सप्तमे रातृदिवसे तां पद्मोत्तरां लोकधातुमनुप्राप्तः अत्रान्तरं अक्षोभ्यकोटीसहस्रं बुद्धक्षेत्राणां दृष्टं ततो ऽहं तेषां बुद्धानां भगवतामृद्धिं पश्यामि / द्वानवतिषु बुद्धक्षेत्रकोटीनयुतशतसहस्रेषु तथागता धर्मन् देशयन्ति / अशीतिषु कोटीशतसहस्रेषु बुद्धक्षेत्रेषु तत्रैव दिवसे अशीति कोटीशतसहस्राणि तथागतानामर्हतां सम्यक्संबुद्धानां लोक उत्पन्नानि / सर्वांश्च तानहं तथागतान् वन्दित्वा पुनरेव प्रक्रान्तः
[ससू 62] तत्रैव दिवसे भगवन्नेकोनचत्वारिंशत्सु बुद्धक्षेत्रकोटीसहस्राण्यतिक्रम्य सर्वेषु च तेष्वेकूनचत्वारिंशत्सु बुद्धक्षेत्रकोटीसहस्रेष्वेकूनचत्वारिंशत् कोटीसहस्राणि बोधिसत्त्वानां निष्क्रम्य तत्रैव दिवसे ऽनुत्तरां सम्यक्संबोधिमभिसंबुद्धाः वन्दिताश्च मे भगवन् ते तथागता अर्हन्तः सम्यक्संबुद्धास्तृगुप्तं प्रदक्षिणीकृत्य ऋद्ध्या चान्तर्धितः
[ससू 63] षष्टिकोटिषु भगवन् बुद्धक्षेत्रेषु बुद्धान् भगवतः पश्यामि / वन्दितानि च मे भगवन् तानि बुद्धक्षेत्राणि ते च बुद्धा भगवन्तस्ततश्चाहं प्रक्रान्तं /
[ससू 64] अन्येषु च भगवन् कोटीशतेषु बुद्धक्षेत्रेषु तथागताः परिनिर्वायमाणान् पश्यामि / वन्दिताश्च मे ते तथागतास्ततश्चाहं प्रक्रान्तः /
[ससू 65] दृष्टं च मे भगवन्नपरेषु पंचनवतिकोटिषु बुद्धक्षेत्रेषु सद्धर्ममन्तर्धायन्तं / चित्तायासो मे भगवंस्तत्र जातः अस्रूणि च प्रमुंचामि / अन्यांश्च रोदमानान् बहून् देवनागयक्षराक्षसान् कामरूपिनश्च महता शोकशल्यसमर्पितान् पश्यामि / एवमपरं बुद्धक्षेत्रं निरवशेषं दग्धं ससमुद्रं ससुमेरुं सपृथिवीप्रदेशं तमपि भगवन् वन्दित्वा निराशीभूतः
[ससू 66] प्रक्रान्तो ऽस्मि यावदहं भगवन् तां पद्मोत्तरां लोकधातुमनुप्राप्तः तस्यां च भगवन् पद्मोत्तरायां लोकधातौ पंच कोटीशतसहस्राण्यासनानां प्रज्ञप्तान् पश्यामि / दक्षिणस्यान् दिशि कोटीशतसहस्राण्यासनानां प्रज्ञप्तान् पश्यामि / वामेन पार्श्वेन कोटीशतसहस्रमासनानां प्रज्ञप्तान् पश्यामि / पूर्वस्यान् दिशि कोटीशतसहस्रमासनानां प्रज्ञप्तान् पश्यामि / पश्चिमायान् दिशि कोटीशतसहस्रमासनानां प्रज्ञप्तान् पश्यामि / ऊर्ध्वायां दिशि कोटीशतसहस्रमासनानां प्रज्ञप्तान् पश्यामि /
[ससू 67] सर्वाणि च भगवन् तान्यासनानि सप्तरत्नमयानि / सर्वेषु च तेष्वासनेषु तथागता अर्हन्तः सम्यक्संबुद्धा निषण्णा धर्मन् देशयन्ति / तत्राहं भगवन्नाश्चर्यप्राप्तस्तांस्तथागतान् अभिवन्द्य परिपृच्छामि / किन्नामेयं भगवन् लोकधातुः / ते तथागता आहुः पद्मोत्तरा नामेयं कुलपुत्र लोकधातुः
[ससू 68] ततो ऽहं भगवंस्तान् प्रदक्षिणीकृत्य पुनरपि तांस्तथागतान् परिपृच्छामि - किन्नाम इह बुद्धक्षेत्रे तथागतः ते तथागता आहुः पद्मगर्भो नाम कुलपुत्र तथागतो ऽर्हन् सम्यक्संबुद्धो य इह बुद्धक्षेत्रे बुद्धकृत्यं करोति / ततस्तान् अहमेतदवोचत् - बहूनि तथागतकोटीनियुतशतसहस्राणि दृश्यन्ते / तन्न जानामि कतम स पद्मगर्भो नाम तथागतो ऽर्हन् सम्यक्संबुद्ध इति / ते तथागता आहुः वयन् ते कुलपुत्र तं पद्मगर्भं तथागतं दर्शयिष्याम / यः स पद्मगर्भो नाम तथागतो ऽर्हन् सम्यक्संबुद्धः
[ससू 69] अथ तत्क्षणादेव ते सर्वे तथागतकाया अन्तर्धिताः सर्वे च बोधिसत्त्वरूपाणि सन्दृश्यन्ते / एकमेव तथागतं पश्यामि / यथाहं तस्य तथागतस्य पादौ शिरसाभिवन्द्य पुरतः स्थितः आसनं च प्रादुर्भूतं / स च मां तथागत एवमाह / निषीद कुलपुत्रात्र आसने /
[ससू 70] अथाहं तस्मिन्नासने निषण्णः तदा च भगवन्ननेकान्यासनानि प्रादुर्भूतानि / न च कश्चित् तेष्वासनेषु निषण्णं पश्यामि / (तदहं तथागतं परिपृच्छामि / न भगव एष्वासनेषु एकं अपि सत्त्वं निषण्णं पश्यामि /) स भगवान् मामेवमाह / नाकृतकुशलमूलाः कुलपुत्र सत्त्वा एष्वासनेषु शक्नुवन्ति निषत्तुम् तमहं तं तथागतमिदमवोचत् - कीदृशं भगवन् सत्त्वाः कुशलमूलं कृत्वा / एष्वासनेषु निषीदन्ति / स मं भगवन्नेवमाह / शृणु कुलपुत्र ये सत्त्वाः संघाटं सूत्रं धर्मपर्यायं श्रोष्यन्ति / ते तेन कुशलमूलेन एष्वासनेषु निषत्स्यन्ते / कः पुनर्वादो ये लिखिष्यन्ति वाचयिष्यन्ति / त्वया सर्वशूर संघाटं धर्मपर्यायं श्रुतं यस्त्वमत्रासने निषीदित / अन्यत्र कस्तवेह बुद्धक्षेत्रे ऽभ्यंन्तरप्रवेशं दद्यात्
[ससू 71] एवमुक्ते तेन भगवता अहं तं भगवन्तमेतदवोचत् - कियन्तं भगवन् स सत्त्वः पुण्यस्कन्धं प्रसविष्यति य इमं संघाटं धर्मपर्यायं श्रोष्यति / अथ स भगवां पद्मगर्भस्तथागतो ऽर्हन् सम्यक्संबुद्धस्तस्यां वेलायां स्मितं प्रदुष्कार्षीत् तदहं भगवन् स्मितकारणं तं भगवन्तं परिपृष्टवान् को भगवन् हेतुः किं कारणं यत् तथागतः स्मितं प्रादुष्करोति /
[ससू 72] स भगवानाह / शृणु कुलपुत्र सर्वशूरः (बोधिसत्त्वो महासत्त्वो महास्थामप्राप्तः) तद्यथापि नाम कुलपुत्र कश्चिदेव राजा भवेच्चक्रवर्त्ती चतुर्द्वीपेश्वरः स चतुर्षु द्वीपक्षेत्रेषु तिले वापयेत् तत्किं मन्यसे सर्वशूर बहूनि तस्य बीजान्युत्पद्येरन् सर्वशूर आह / बहूनि भगवन् बहूनि सुगत /
[ससू 73] स भगवानाह / ततः सर्वशूर कश्चित् सत्त्वो भवेद् यस्तानि तिलफलकान्येकराशिं कुर्यादन्यतराः पुरुषस्ततस्तिलफलराशेर्चैकं तिलफलकं गृह्य द्वितीये पार्श्वे स्थापयेत् तत्किं मन्यसे सर्वशूर शक्नुयात् स सत्त्वस्तानि तिलफलकानि गणयितुं वोपमां कर्तुम् सर्वशूरो बोधिसत्त्व आह / नो हीदं भगवन् नो हीदं सुगत; न शक्यं तानि तिलफलकानि गणयितुं
[ससू 74] भगवान् आह - एवमेव सर्वशूरास्य संघाटस्य धर्मपर्यायस्य यत्पुण्यस्कन्धं तन्न शक्यमनुपम्यं कर्तुमन्यत्र तथागतेन / तद्यथा सर्वशूर यावन्तस्ते तिलफलकास्तावान्तस्तथागता भवेयुः ते सर्वे ऽस्य संघाटस्य धर्मपर्यायस्य श्रवणकुशलमूलपुण्यं परिकीर्तयेयुर्न चोपमयापि पुण्यस्य क्षयो भवेत् कः पुनर्वादो यो लिखिष्यति / वाचयिष्यति /
[ससू 75] सर्वशूरो बोधिसत्त्व आह / कियन्तं भगवन् लिखतः पुण्यं भवति य इमन् धर्मपर्यायं लिखयति / भगवान् आह / शृणु कुलपुत्र / तद्यथापि नाम कुलपुत्र कश्चिदेव पुरुषो भवेद् यस्त्रिसाहस्रमहासाहस्र्यां लोकधातौ तृणं वा काष्ठं वा तं सर्वमंगुलिमात्रंच्छिन्द्यात्
[ससू 76] द्वितीयामुपमां शृणु सर्वशूर; तद्यथापि नाम यावन्तस्त्रिसाहस्रमहासाहस्र्यां लोकधातौ शिलान् वा प्रपातान् वा मृत्तिकान् वा परमाणुरजो वा ते सर्वे राजानश्चक्रवर्तिनो भवेयुश्चतुर्द्वीपेश्वराः सप्तरत्नसमन्वागताः तत्किं मन्यसे सर्वशूर यस्तेषां तावतां राज्ञां चक्रवर्तिनां पुण्यस्कन्धं न शक्यं तस्योपमां कर्तुं सर्वसत्त्वैरपि / सर्वशूरो बोधिसत्त्व आह / न शक्यं भगवन्नन्यत्र तथागतात्
[ससू 77] भगवान् आहैवमेव सर्वशूर न शक्यं संघाटसूत्रस्य धर्मपर्यायस्य लिख्यमानस्य पुण्यस्कन्धोपमां कर्तुम्यावन्तस्तेषां राज्ञां चक्रवर्तिनां पुण्यमतो बहुतरं पुण्यं प्रसवति य इतो धर्मपर्यायादेकाक्षरमपि लिखित्वा स्थापयेद्बहुतरं तस्य पुण्यं वदामि न त्वेव तेषां राज्ञां चक्रवर्तिनां /
[ससू 78] एवमेव सर्वशूर बोधिसत्त्वस्य महासत्त्वस्य महायानसद्धर्मधारकस्य प्रतिपत्तिस्थितस्य यत्पुण्यं तन्न शक्यं राजभिश्चक्रवर्तिभिरभिभवितुं एवमेवास्य संघाटस्य धर्मपर्यायस्य लेखनाद्यत्पुण्यं तन्न शक्यमुपमां कर्तुं / इमं सर्वशूर संघाटं सूत्रं पुण्यनिधानानि दर्शयति / सर्वक्लेशानुपशमयति / सर्वधर्मोल्कां ज्वालयति / सर्वमारान् पापीमतः पराजयति / सर्वबोधिसत्त्वभवनान्युज्वालयति / सर्वधर्मनिर्हारानभिनिर्हरति /
[ससू 79] एवमुक्ते सर्वशूरो बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत् - इह भगवन् ब्रह्मचर्यं परमदुष्करचर्याः तत्कस्य हेतोः दुर्लभा भगवंस्तथागतचर्याः एवमेव दुर्लभा ब्रह्मचर्याः यदा च ब्रह्मचर्यं चरिष्यति / तदा तथागतं संमुखं द्रक्ष्यति / रातृन्दिवं च तथागतदर्शनं भविष्यति / यदा च तथागतं पश्यति तदा परिशुद्धं बुद्धक्षेत्रं पश्यति / यदा परिशुद्धं बुद्धक्षेत्रं पश्यति / तदा सर्वधर्मनिधानानि पश्यति / यदा सर्वधर्मनिधानानि पश्यति / तदास्य मरणकालसमये त्रासं नोत्पद्यते न स जातु मातुः कुक्षावुपपत्स्यते / न तस्य जातु शोको भविष्यति / न च तृष्णापाशेन बद्धो भविष्यति /
[ससू 80] एवमुक्ते भगवान् सर्वशूरं बोधिसत्त्वं महासत्त्वमेतदवोचत् - तत्किं मन्यसे सर्वशूर ननु दुर्लभस्तथागतानमुत्पादः आह / दुर्लभो भगवन् दुर्लभः सुगत; भगवान् आह / एवमेव सर्वशूर दुर्लभो यं संघातो धर्मपर्यायः येषां खलु पुनः सर्वशूरायं संघाटो धर्मपर्यायः श्रोत्रावभासमागमिष्यति / सो ऽशीतिः कल्पां जात्या जातिस्मरो भविष्यति / षष्टि कल्पसहस्राणि चक्रवर्तिराज्यं प्रतिलप्स्यते / अष्टौ कल्पसहस्राणि शक्रत्वं प्रतिलप्स्यते / पंचविंशतिः कल्पसहस्राणि शुद्धावासकायिकानान् देवानां सहभाव्यतायां उपपत्स्यते / अष्टातृंशत् कल्पसहस्राणि महाब्रह्मा भविष्यति /
[ससू 81] नवानवतिः कल्पसहस्राणि विनिपातं न गमिष्यति / कल्पशतसहस्रं प्रेतेषु नोपपत्स्यते / अष्टाविंशति कल्पसहस्राणि तिर्यक्षुर्नोपपत्स्यते / त्रयोदश कल्पसहस्राण्यसुरकायिकेषु नोपपत्स्यते / न शस्त्रेण कालं करिष्यति (न विषेण नाग्निना न चास्य परोपक्रमभयं भविष्यति) /
[ससू 82] पंचविंशतिः कल्पसहस्राणि न दुष्प्रज्ञो भविष्यति / सप्त कल्पसहस्राणि प्रज्ञाचरितो भविष्यति / नव कल्पसहस्राणि प्रासादिको भविष्यति / दर्शनीयः यथा तथागतस्यार्हतः सम्यक्संबुद्धस्य रूपकायपरिनिष्पत्तिस्तथा तस्य भविष्यति / पंचदश कल्पसहस्राणि न स्त्रीभावेषूपपत्स्यते / षोडश कल्पसहस्राणि व्याधिः काये नाक्रमिष्यति / पंचतृंशत्कल्पसहस्राणि दिव्यचक्षुर्भविष्यति /
[ससू 83] एकोनविंशत् कल्पसहस्राणि नागयोनिषु नोपपत्स्यते / षट् कल्पसहस्राणि न क्रोधाभिभूतो भविष्यति / सप्त कल्पसहस्राणि दरिद्रकुलेषु नोपपत्स्यते / अशीतिः कल्पसहस्राणि द्वौ द्वीपौ परिभुंक्ते / यदा दरिद्रो भवति तदा ईदृशं सुखं प्रतिलप्स्यते / द्वादश कल्पसहस्राणि अन्धयोनिषु नोपपत्स्यते / त्रयोदश कल्पसहस्राणि अपायेषु नोपपत्स्यते / एकादश कल्पसहस्राणि क्षान्तिवादी भविष्यति / मरणकालसमये चरिमविज्ञाननिरोधे वर्तमाने न विपरीतसंज्ञी भविष्यति / न च क्रोधाभिभूतो भविष्यति /
[ससू 84] स पूर्वस्यान् दिशि द्वादश गंगानदीबालिकासमान् बुद्धान् भगवतः संमुखन् द्रक्ष्यति / दक्षिणस्यां दिशि विंशतिर्बुद्धकोटी संमुखन् द्रक्ष्यति / पश्चिमस्यान् दिशि पंचविंशतिर्गंगानदीबालिकासमान् बुद्धान् भगवतः संमुखं द्रक्ष्यति / उत्तरस्यान् दिशि विंशतिर्गंगानदीबालुकासमान् बुद्धां भगवतः संमुखं द्रक्ष्यति / उर्ध्वायां दिशि नवति कोटीसहस्राणि बुद्धानां भगवतां संमुखं द्रक्ष्यति / अधस्ताद्दिशि कोटीशतं गंगानदीबालुकासमान् बुद्धान् भगवतः संमुखन् द्रक्ष्यति /
[ससू 85] ते च सर्वे तथागतास्तं कुलपुत्रमाश्वासयन्ति / मा भैः कुलपुत्र त्वया संघाटं (सूत्रन्) धर्मपर्यायं श्रुत्वा इयन्तः सांपरायिकानि गुणानुशंसमुखानि च भविष्यन्ति / पश्यसि त्वं भोः कुलपुत्रेमान्यनेकानि गंगानदीबालिकासमानि तथागतकोटीनियुतशतसहस्राणि / आह / पश्यामि भगवन् पश्यामि सुगत / (भगवान्) आह / एते भोः कुलपुत्र तथागतास्तव सकाशमुपसंक्रान्ता दर्शनाय / आह / किं मया कुशलकर्म कृतं येनेमे बहवस्तथागता आगता /
[ससू 86] आह / शृणु कुलपुत्र त्वया मानुष्यकमात्मभावं प्रतिलभ्य संघाटं धर्मपर्यायं श्रोत्रावभासमागतं / तेन त्वया एतावत् पुण्यस्कन्धं प्रसूतं / (सर्वशूर) आह / यदि मम भगवन्न एतावान् पुण्यस्कन्धः कः पुनर्वादो यः सकलसमाप्तं श्रोष्यति /
[ससू 87] (भगवान्) आहालं भोः कुलपुत्र शृणु चतुष्पदिकाया गाथाया (श्रुतायाः) पुण्यं वर्णयामि / तद्यथा कुलपुत्र त्रयोदश गंगानदीबालिकासमानां तथागतानां अर्हतां सम्यक्संबुद्धानां यः पुण्यसकन्धस्ततो बहुतरं पुण्यस्कन्धं प्रसवति / यश्चतुष्पदिकामपि गाथामितो धर्मपर्यायाच्छ्रोष्यति / यश्च त्रयोदश गंगानदीबालुकासमांस्तथागतानर्हतः सम्यक्संबुद्धान् पूजयति / यश्चेतः संघाटाद्धर्मपर्यायादन्तशश्चतुष्पादिकामपि गाथां श्रोष्यति / अयं ततो बहुतरं पुण्यस्कन्धं प्रसविष्यति / कः पुनर्वादो यः सकलसमाप्तं श्रोष्यति / न तस्य पुण्यस्कन्धस्य शक्यमुपमां कर्तुम्
[ससू 88] शृणु कुलपुत्र यश्चेमं संघाटं (नाम) सूत्रं धर्मपर्यायं सकलसमाप्तं विस्तरेण श्रोष्यति / यश्च सर्वस्यां तृसाहस्रमहासाहस्र्यां लोकधातौ तिलं वापयेद्यावन्तस्ते तिलफलकास्तावन्तो राजानश्चक्रवर्तिनो भवेयुरथ कश्चिदेव पुरुषो भवेदाढ्यो महाधनो महाभोगः अथ खलु स पुरुषस्तेषां सर्वेषां राज्ञां चक्रवर्तिनां यथाकामिकं दानन् दद्यात् तत्किं मन्यसे सर्वशूरापि तु स पुरुषस्ततोनिदानं बहु पुण्यं प्रसवेद् आह / बहु भगवन् बहु सुगत; भगवान् आह - यावन्तः कुलपुत्र तेषां राज्ञां चक्रवर्तिनां दानन् ददतः पुण्यस्कन्धः यश्चैकस्य स्रोतआपन्नस्य दानन् दद्यादयं ततो बहुतरं पुण्यस्कन्धं प्रसवति /
[ससू 89] ये त्रिसाहस्रमहासाहस्र्यां लोकधातौ सत्त्वास्ते सर्वे स्रोतआपना भवेयुस्तेषां सर्वेर्षां दानन् ददतो यत्पुण्यस्कन्धं अयं ततो बहुतरं पुण्यस्कन्धं प्रसवति / य एकस्य सकृदागामिनो दानन् दद्याद् ये त्रिसाहस्रमहासाहस्र्याम् लोकधातौ सत्त्वास्ते सर्वे सकृदागामिनो भवेयुः तेषां सर्वेषां दानन् ददतो यः पुण्यस्कन्धः अयन् ततो बहुतरं पुण्यस्कन्धं प्रसवति / य एकस्यानागामिनो दानान् दद्याद् ये त्रिसाहस्रमहासाहस्र्यां लोकधातौ सत्त्वास्ते सर्वे नागामिनो भवेयुः तेषां सर्वेषां दानन् ददतो यः पुण्यस्कन्धं अयं ततो बहुतरं पुण्यस्कन्धं प्रसवति य एकस्यार्हतो दानन् दद्याद् ये त्रिसाहस्रमहासाहस्र्यां लोकधातौ सत्त्वास्ते सर्वे ऽर्हन्तो भवेयुः तेषां सर्वेषां दानन् ददतो यः पुण्यस्कन्धः अयं ततो बहुतरं पुण्यस्कन्धं प्रसवति / य एकस्य प्रत्येकबुद्धस्य दानन् दद्याद् ये त्रिसाहस्रमहासाहस्र्यां लोकधातौ सत्त्वास्ते सर्वे प्रत्येकबुद्धा भवेयुस्तेषान् सर्वेषां दानन् ददतो यः पुण्यस्कन्धः अयं ततो बहुतरं पुण्यस्कन्धं प्रसवति य एकस्य बोधिसत्त्वस्य दानन् दद्याद् ये त्रिसाहस्रमहासाहस्र्यां लोकधातौ सत्त्वास्ते सर्वे बोधिसत्त्वा भवेयुस्तेषां सर्वेषां दानन् ददतो यः पुण्यस्कन्धः अयं ततो बहुतरं पुण्यस्कन्धं प्रसवति / य एकस्य तथागतस्य चित्तं प्रसादयेद्
[ससू 90] यश्च त्रिसाहस्रमहासाहस्र्यां लोकधातौ तथागतपरिपूर्णायां चित्तं प्रसादयेद् यश्चेमं संघाटसूत्रं धर्मपर्यायं लिखिष्यति / किमंग पुनः सर्वशूर य इमन् धर्मपर्यायं श्रोष्यति / श्रुत्वा च धारयिष्यति वाचयिष्यति पर्यवाप्स्यति परेभ्यश्च विस्तरेण संप्रकाशयिष्यति / कः पुनर्वादः सर्वशूर य इमं संघाटसूत्रं धर्मपर्यायं चित्तप्रसादेन नमस्करिष्यति /
[ससू 91] तत्किं मन्यसे सर्वशूर शक्यमिदं सूत्रं बालपृथग्जनैः श्रोतुं आह / नो हीदं भगवन् आह / ये च श्रोष्यन्ति न च प्रसादमुत्पादयिष्यन्ति / शृणु सर्वशूर सन्ति केचित् सर्वशूर बालपृथग्जनाः सत्त्वाः ये शक्नुयुर्महासमुद्रे गाधं लब्धुम् आह / नो हीदं भगवन्
[ससू 92] (भगवान्) आह / अस्ति पुनः सर्वशूर कश्चित् सत्त्वो य एकपाणितलेन समुद्रं क्षपयेद् आह / नो हीदं भगवन् नो हीदं सुगत / भगवान् आह / यथा सर्वशूर नास्ति स कश्चित् सत्त्वो यः शक्नुयादेकपाणितलेन / महासमुद्रं शोषयितुं / एवमेव सर्वशूर ये हीनाधिमुक्तिकाः सत्त्वाः न शक्यं तैरयन् धर्मपर्यायः श्रोतुं यैः सर्वशूराशीतिर्गंगानदीबालुकासमानि तथागतकोटीनियुतशतसहस्राणि न दृष्टानि / न तैः शक्यमयं संघाटं धर्मपर्यायं लिखितुं / यैर्नवति गंगानदीबालिकासमानि तथागतानि न दृष्टानि न तैः शक्यमयन् धर्मपर्यायः श्रोतुम्
[ससू 93] येन तथागतकोटीशतसहस्राणि न दृष्टानि त इमन् धर्मपर्यायं श्रुत्वा प्रतिक्षिपन्ति / यैः सर्वशूर गंगानदीबालुकासमानि तथागतकोटीशतानि दृष्टानि त इमन् धर्मपर्यायं श्रुत्वा प्रसादचित्तमुत्पादयन्ति हर्षयन्ति यथाभूतं प्रजानन्ति / य इमं संघाटं धर्मपर्यायं यथाभूतं शद्दधन्ति न प्रतिक्षिपन्ति /
[ससू 94] शृणु सर्वशूर ये केचिद् अस्मात् संघाटाद्धर्मपर्यायदेकाक्षरामपि चतुष्पदिकां गाथां लिखिष्यन्ति तेषां सर्वशूर सत्त्वानां ततः पश्चात् पंचनवति कोटीसहस्रानि लोकधातुनामतिक्रम्य यथा सुखावतीलोकधातुस्तथा तेषां बुद्धक्षेत्रं भविष्यति / तेषां च सर्वशूर सत्त्वानां चतुरशीतिः कल्पसहस्राण्यायुष्प्रमाणं भविष्यति /
[ससू 95] शृणु सर्वशूर ये बोधिसत्त्वा महासत्त्वा अस्मात् संघाटाद्धर्मपर्यायादन्तशश्चतुष्पदिकामपि गाथां श्रोष्यन्ति / बद्यथा सर्वशूर कश्चित् सत्त्वो भवेद् (रौद्रः साहसिकः सद्धर्मविमुखः परलोकनिरपेक्षः पापकारी) यः पंचानन्तर्याणि कर्माणि कुर्यात् कारयेद् वा क्रियमाणानि वानुमोदेत् सचेत् स इतः संघाटाद्धर्मपर्यायच्चतुष्पदिकमपि गाथां शृणुयात् तस्य तानि पंचानन्तर्याणि कर्माणि परिक्षयं गच्छेयुः
[ससू 96] शृणु सर्वशूर / पुनरपरं गुणमामन्त्रयामि / तद्यथापि कश्चित् सत्त्वो भवेद्यः स्तूपभेदं कारयेत् संघभेदं च / बोधिसत्त्वं समाधेरुच्चालयेत् बुद्धज्ञानस्यान्तरायं कुर्यात् मातापितरं जीविताद्व्यावरोपयेद्
अथ स सत्त्वः पश्चाद्विप्रतिसारीभूतः शोचेत परिदेवेत नष्टो ऽहम् अनेन कायेन नष्टं मे परलोकमिति / कल्पं एवाहं नष्टः ततो ऽस्य महाचित्तायासं भवेत दुःखां वेदनां वेदयेत / कटुकां वेदनां वेदयेत / तस्य सर्वशूर सत्त्वस्य सर्वसत्त्वाः परिवर्जयन्ति जुगुप्सन्ति (च) / दग्धो नष्ट एषा सत्त्व लौकिकलोकोत्तराद्धर्म नष्टो ऽनेकानि कल्पानि यथा दग्धस्थूणं / [ससू 97] एवमेवायं पुरुषः यथा सुचित्रं गृहं दग्धस्थूणं न शोभते / एवमेवायं स पुरुष इह लोके न शोभते / यत्र यत्र च गच्छति तत्र तत्र सत्त्वैः परिभाष्यते प्रहरन्ति च; क्षुत्पिपासार्दितो ऽपि न किंचिल्लभते / ततो दुःखां वेदनां वेदयति /
[ससू 98] स क्षुत्पिपासाहेतुना परिभाषाहेतुना प्रहारहेतुना स्तूपभेदं च पंचानन्तर्याणि च कर्माणि समनुस्मरति / स ततो दुःखं निर्वेदचित्तमुत्पादयति / कुत्राहं यास्यामि को मे त्रात भविस्यति /
[ससू 99] स एवं चिन्तयति गमिष्याम्यहं पर्वतगिरिकन्दरेषु प्रविशामि तत्र मे कालक्रिया भविष्यति न च मे इह कश्चि त्रातास्ति / आह च //
(20) कृतं मे पापकं कर्म दग्धस्थूनं निरन्तरम् नेमं लोके शोभयिष्ये न शोभयिष्यामि परत्र चः (21) अन्तर्गृहे न शोभामि न शोभामि च बाहिर / (सर्वत्रैव न शोभामि पापकारी तथास्म्यहं //)//
(22) दोषहेतोः कृतं पापं तेन यास्यामि दुर्गतिम् परत्र दुःखितः कुत्र वसिष्यामि ह दुर्गतौ //
(23) शृण्वन्ति देवता वाचा अश्रुकण्ठं प्ररोदति / अहो निराशक्ष् परलोकं प्रयास्यामिः दुर्गतिं //
तं देवता आहुः (24) मूढो ऽसि गच्छ पुरुष मैवं चिन्तय दुःखितः शरणं न च मे त्राणं दुःखां विन्दामि वेदनाम् (25) मातृघाटं पितृघाटं पंचानन्तर्याञ्च मे कृतं पर्वते मूर्ध्नि गच्छामि तत आत्मा त्यजाम्यहम् (26) मा गच्छ मूढपुरुष कर्म मा कुरु पापकं / बहु त्वया कृतं पापं व्यापन्नेन हि चेतसा (27) कुर्वन्ति ये आत्मघातं नरकं यान्ति दुःखिताः ततः पतन्ति भूमीषु क्रन्दन्ति शोकवेदनाः (28) न तेन वीर्येण भवन्ति बुद्धा भवन्ति नैवापि न श्रावकं लभ्यति मोक्षयानम् अन्यस्य वीर्यस्य कुरुष्व यथम् (29) गच्छस्य तं परवत येन सो ऋषि गत्वा च तं दृष्ट्व ऋषिर्महात्मा / वन्दित्वा पादौ शिरसा च तस्य त्राणं भवाही मम अग्रसत्त्व (30) देशेहि धर्मं कुशलं मुहूर्त्तम् भातो ऽस्मि त्रस्तो अति[[रिवा]]दुःखपीडितः (ततो गतः स पुरुषु भीतभीतस्) (तं पर्वतं यत्र रिशिर्महात्मा /) (31) (वन्दित्वा पादौ हि तदा महार्षेः) (प्रोवाच वाक्यं समुदीरं या गीरा /) (देशेहि धर्मं मम पापकारिणः) (कृपां जनित्वा परदुःखितस्य //)//
(32) ऋषिर्वदन्तं शृणु सत्त्वसार निषद्य चिन्तस्य क्षणं कुरुष्व / (शृणुष्व वाक्यं मम दुःखितस्य) (श्रुत्वा ह्युपायं परिचिन्तयस्व /) (33) भीतः स त्रस्तो अति [[रिवा]] दुःखपीडितस् ततो निषण्णः क्षण [[वर]] तं मुहूर्तम् देशेमि पापं कृत यन् मया बहू ऋषे हि वाचं इदमब्रवीति /
ऋषिराह / (34) भुंशाहि तं भोजनु यद्ददामि दुःखेन च क्रन्दसि शोकपीडितः क्षुधा पिपासाय च पीडीतस्त्वं निराशकश्च त्रिभवाद्भविष्यसि / (35) भोजनान्युपनामित्वा ऋषिः सत्त्व प्रसादयन् मृष्टं भुंज मनापं च शरीरे तर्पनार्थिकं / (36) पश्चात् ते धर्म भाषामि सर्वपापक्षयंकरम् तस्य तद्भोजनं मृष्टं मुहूर्तं भुक्तवान् असौ / (37) भुक्त्वा हस्तौ च प्रक्षाल्य कृत्वा प्रदक्षिणं ऋषिं / पर्यंकेन निषीदित्वा वदत् यत् पापकं कृतम् (38) मातृघातं पितृघातं स्तूपभेदं मया कृतं / बोधिसत्त्वस्य बुद्धत्वे अन्तरायं कृतं मया / (39) तस्य तद्वचनं श्रुत्वा ऋषिर्वाक्यमथाब्रवीत् असाधुस्तव [[भो]] पुरुष यत् कृतं पापकं त्वया / (40) देशेहि पापकं कर्म कृतं कारापितं च यत् //
अथ खलु तस्मिन् काले स पुरुषः शोकशल्यसमर्पित भीतस्त्रस्त उद्विग्न को मे त्राता भविष्यतीत्याह च //
(41) कृतं मे पापकं कर्म दुःखां वेत्स्यामि वेदनां / नरके रौरवे घोरे तथैव च प्रतापने //
अथ खलु स पुरुषस्तस्य ऋषेर्जानुद्वयं भूमौ निपात्याह च / (42) देशेयं पापकं कर्म यत्कृतं कारितं मया / माफलं पापकं भोतु मा मे स्या दुःखवेदनां / (43) ऋषिस्त्राणं भवेन् मह्यमासन्ने हं भवेन् तव निष्कौकृत्यस्य शान्तस्य शम्यन्तं पापकान् मम;
[ससू 100] अथ खलु स रिषिस्तेन कालेन तेन समयेन तं पुरुषमेतदवोचत् - एवं चाश्वासयति / मा भैः कुलपुत्राहं ते त्राणं भविष्याम्यहन् ते गतिरहं परायणं भविष्यामि / संमुखं धर्म शृणु श्रुतं त्वया किंचित् संघाटं नाम धर्मपर्यायं / स आह / न मे कदाचिच्छ्रुतं /
ऋषिराह - को ऽग्निदग्धस्य सत्त्वस्य धर्मन् देशयत्यन्यत्र यः करुणाविहारितया सत्त्वानां धर्मन् देशयति / आह / शृणु कुलपुत्र
[ससू 101] भूतपूर्वं (मया) असंख्येयैः कल्पैरसंख्येयतरैर्यदासीत्तेनो कालेन तेन समयेन विमलचन्द्रो नाम राजाभूद्धार्मिको धर्मराजा / तस्य खलु पुनः कुलपुत्र राज्ञो विमलचन्द्रस्य गृहे पुत्रो जातः
[ससू 102] अथ स राजा विमलचन्द्रो लक्षणनैमित्तिकांच्छास्त्रपाठकान् ब्राह्मणान् सन्निपात्य कुमारमुपदर्श्यैवमाह - किं ब्राह्मण कुमारस्य निमित्तं पश्यथ शोभनमशोभनं वेति / तत्रैको नैमित्तिको ब्राह्मणः कथयत्यसाधुरयं महाराज कुमारो जातः आसाधुरिति / राजा श्रुत्वा ससंभ्रम पप्रच्छ / किमिदं ब्राह्मणा नैमित्तिकः कथयत्ययं देव राजकुमारो यदि सप्त वर्षाणि जीवति स एष मातापितरं जीविताद्व्यावरोपयिष्यति / ततो ऽस राजा एवमाह / वरं मे जीवितान्तरायो भवतु माच्चाहं पुत्रं वधेयं / तत्कस्मात् कदाचित् कर्हचिल्लोके मनुष्योत्पादं लभ्यते / नाहं तथा करिष्यामि / यदिमं मानुष्यकं कायं विरागयिष्यामि /
[ससू 103] अथ स कुमारो वर्धते यदन्य वर्षद्वयेन वर्धन्ते तदासावेकेन मासेन वर्धते / जानाति च स राजा विमलचन्द्रो यं कुमारो मम कर्मोपचयेन वर्धते / ततो राजा तस्य कुमारस्य पट्टमाबन्ध्यैवमाह / तव राज्यं भवतु विपुलं च कीर्तिराज्यभोगैश्वर्यं च कारय धर्मेण मा अधर्मेण / ततस्तस्य राजा पट्टं बध्वा राजेति नामधेयमकरोत् स च राजा विमलचन्द्रो न भूयः स्वविषये राज्यं कारयत्य्
[ससू 104] अथ ते त्रिंशदमात्यकोट्यो येन स राजा विमलचन्द्रस्तेनोपसंक्रान्ता उपेत्य तं राजानं विमलचन्द्रमेवमाहुः कस्मात् त्वं भोः महाराज स्वविषये न भूयो राज्यं कारयसि / राजाह - बहून्यसंख्येयानि कल्पानि / यन्मया राज्यभोगैश्वर्याधिपत्यं कारितं न च मे कदाचिद् विषयेषु तृप्तिरासीत्तेन च कालेन तेन समयेन न चिरेण कालान्तरेण स पुत्रस्तं मातापितरं जीविताद्व्यावरोपयति / तेन च तत्र पंचानन्तर्याणि कर्मान्युपचितानि / अहं च भोः पुरुष तावच्चिरं कालसमयमनुस्मरामि / यथाद्य श्वो वा /
[ससू 105] यदा तस्य राज्ञो दुःखा वेदना उत्पन्नाः तदा स राजा विप्रतिसारीभूतो स्रुकण्ठः परिदेवति पापं मे कर्म कृतमिति / अवीचौ महानरके दुःखां वेदनां प्रत्यनुभविष्यामीति ततो ऽहं कारुण्यचित्तमुत्पाद्य तत्र गत्वा तस्य राज्ञो धर्मन् देशयितवान् अथ स राज तं धर्मं श्रुत्वा तस्य तानि पंचानन्तर्याणि कर्माणि क्षिप्रं निरवशेषं परिक्षयं गतानि /
आह च / (44) संघाटं धर्मपर्यायं सूत्रराजं महातपाः ये श्रोष्यन्ति इमन् धर्मन् पदं प्राप्स्यन्त्यनुत्तरम् (45) सर्वपापक्षयं भवति / सर्वक्लेशांच्छमिष्यति / शृणु धर्मं प्रवक्ष्यामि येन क्षिप्रं विमोक्षसे / (46) चतुष्पदायां गाथायां भाष्यमाणं निरन्तरं सर्वपापक्षयं कृत्वा स्रोतापन्नो भविष्यसि / (47) ततो दानं उदानेमि सर्वपापप्रमोचनं / विमोचिता दुःखिता सत्त्वा नारकाद्भयभैरवात् (48) ततः स पुरुषोत्थाय आसनादञ्जलीकृतः प्रणम्य शिरसा तस्य साधुकारं प्रयच्छति / (49) साधु कल्याणमित्राणां साधु पापविनाशकः साधु संघाटनिर्देशं ये श्रोष्यन्ति महानयं //
[ससू 106] अथ खलु तेन कालेन तेन समयेनोपर्यन्तरिक्षे स्थितानि द्वादश देवपुत्रसहस्राणि कृतांजलिपुटानि तम् ऋषिमुपगम्य पादौ शिरसा प्रणम्यैवमाहुः भगवन् केवच्चिरं स्मरसि महातपः एवं चत्वारि कोटी नागराज्ञामागत्य अष्टादश कोटीसहस्राणि यक्षराज्ञामागत्य येन स ऋषिस्तेनांजलिं प्रणाम्यैवमाहुः केवच्चिरं स्मरसि /
[ससू 107] महात्मा ऋषिराह / शतमसंख्येयकल्पकोटीनियुतसहस्राणि समनुस्मरामि / आह / केन कुशलकर्मणा / मुहूर्तमात्रेणैवं पापं कर्म (सर्वपापकर्म) प्रशान्तम् (आह / संघाटं धर्मपर्यायं श्रुत्वा) (अनेन कुशलकर्मणा सर्वपापकर्म प्रशान्तम्)
[ससू 108] ये च तत्र सत्त्वाः सन्निपतिताः यैरिमं धर्मपर्यायं श्रुत्वा श्रद्दधानता वा कृता पत्तीयनं वा / ते सर्वे व्याक्रियन्ते ऽनुत्तरायां सम्यक्संबोधौ / येन च पुरुषेण ताणि पंचानन्तर्याणि कर्माणि कृतानि / तेनेमं संघाटं धर्मपर्यायं श्रुत्वा मुहूर्तमात्रेण तानि पंचानन्तर्याणि कर्माणि निरवशेषं परिक्षयं पर्यादानं कृताणि / तस्यानेकानि कल्पकोटीनियुतशतसहस्राणि सर्वदुर्गतिद्वाराणि पिथितानि भवन्ति / द्वात्रिंशद्देवलोकद्वाराण्यपावृतानि भवन्ति / य इतः संघाटाद्धर्मपर्यायादन्तशश्चतुष्पदिकामपि गाथां श्रोष्यति / तस्येतादृशानि कुशलमूलानि भविष्यन्ति / कः पुनर्वादो यः संघाटसूत्रं सत्करिष्यति गुरुकरिष्यति मानयिष्यति पूजयिष्यति / पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिर्वाद्यांजलिकर्मप्रणामं वा करिष्यति / एकां वारां अनुमोदिष्यत्येवं च वक्ष्यति / साधु सुभाषितमिति /
[ससू 109] अथ खलु सर्वशूरो बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत् - कियन्तं भगवन्नञ्जलिप्रणामात् पुण्यस्कन्धं प्रसवति / ये ते संघाटं धर्मपर्यायं भाष्यमाणं श्रुत्वाञ्जलिं कृत्वा प्रणमन्ति / भगवान् आह - शृणु कुलपुत्र येन पंचानन्तर्याणि कर्माणि कृताणि कारितानि क्रियमाणानि वानुमोदितानि भवेयुः यदि स इतत् संघाटाद्धर्मपर्यायादन्तशश्चतुष्पदिकामपि गाथां श्रुत्वाञ्जलिं प्रणामयिष्यति / तस्य (तानि) सर्वाणि पंचानन्तर्याणि कर्माणि क्षयं गतानि भविष्यन्ति / कः पुनर्वादः सर्वशूर यः सकलसमाप्तमेवायं धर्मपर्यायं श्रोष्यत्ययं ततो बहुतरं पुण्यस्कन्धं प्रसविष्यति /
[ससू 110] उपमां ते कुलपुत्र करिष्यामि / अस्य संघाटसूत्रार्थस्य विज्ञप्तये / तद्यथापि नाम सर्वशूरानवतप्तस्य नागराजस्य भवने न कदाचित् सूर्यो वभासयति / ततश्च पंच महानद्यः प्रवहन्ति / अथ कश्चिदेव पुरुषो भवेद् यस्तासां पंचानां महानदीनामुदकस्य बिन्दूनि गणयेत् तत्किं मन्यसे सर्वशूर शक्यं तेषामुदकविन्दुनां गणनायोगेन पर्यन्तमधिगन्तुम् आह / नो हीदं भगवन् नो हीदं सुगत, भगवान् आह - एवमेव सर्वशूर न शक्यं संघाटसूत्रस्य धर्मपर्यायस्य कुशलमूलं कल्पेन वा कल्पशतेन वा कल्पसहस्रेण वा कल्पशतसहस्रेण वा कल्पकोटीनियुतशतसहस्रेण वा गणनया पर्यन्तमधिगन्तुं /
[ससू 111] तत्किं मन्यसे सर्वशूर दुष्करं तस्य य इमं संघाटं धर्मपर्यायं मुहूर्तं प्रकाशयेत / आह - दुष्करं भगवं दुष्करं सुगत, भगवान् आह - अतः सुदुष्करतरं सर्वशूर तस्य य इमं संघाटं धर्मपर्यायं शाक्ष्यति श्रोतुम्
[ससू 112] तद्यथा अनवतप्तात् (महासरसः) पंच महानद्यः प्रवहन्ति / तासां पंचानां महानदीनां प्रवहतामुदकविन्दून्न शक्यं केनचिद्गणकेन वा गणकमहामात्रेन वा गणनया पर्यन्तमधिगन्तुमेवमेवास्य धर्मपर्यायस्य पुण्यस्कन्धस्य न शक्यं पर्यन्तमधिगन्तुम् सर्वशूर आह - कतमास्ता भगवन् पंच महानद्य / भगवान् आह - तद्यथा / गंगा सीता वक्षुः यमुनाश्चन्द्रभागा च / इमा सर्वशूर पंच महानद्यो महासमुद्रे प्रविशन्ति / एकैका च महानदी पंचमहानदीशतपरिवाराः //
[ससू 113] पुनरपरं सर्वशूर पंचेमा महानद्यः आकाशे प्रवहन्ति / या सततसमितमुदकविन्दुभिः प्रजां प्लावयन्ति / ताश्च पंच महानद्यः एकैका सहस्रपरिवाराः आह - कतमास्ता भगवन् पंच महानद्यः सहस्रापरिवाराः या आकाशे प्रवहन्ति / भगवान् आह - सुन्दरी नाम (नदी) सहस्रपरिवारा, शंखा नाम (नदी) सहस्रपरिवारा, वहन्ती नाम (नदी) सहस्रपरिवारा, चित्रसेना नाम (नदी) सहस्रपरिवारा, धर्मवृत्ता नाम (नदी) सहस्रपरिवारा, इमास्ता सर्वशूर पंच महनद्यः सहस्रपरिवारा या जंबूद्वीपे औत्सुक्यमापद्यन्ते / याः कालेन कालं जंबूद्वीपे बिन्दुभिर्वर्षधाराः प्रमुंचन्ति / तेन पुष्पफलसस्यान्यभिरुह्यन्ति / यदा जंबूद्वीपे (विन्दूभि) वर्षधाराः प्रपतन्ति / तदा उदकं जायते / जातं चोदकं सर्वक्षेत्रारामाणि संतर्पयति सुखं च कारयति / तद्यथापि नाम सर्वशूर प्रजापति सर्वजंबूद्वीपे सुखं कारयति /
[ससू 114] एवं एव सर्वशुरायं संघाटो धर्मपर्याय बहुजनहिताय बहुजनसुखाय जंबूद्वीपे प्रकाशितः यथा (च सर्वशूर) देवानां त्रायस्तिंशानामायुष्प्रमाणं न तथा मनुष्याणां / (तत्र) कतमे च सर्वशूर त्रायस्त्रिंशा देवाः यत्र शक्रो देवानामिन्द्रः प्रतिवसति / ते त्रायस्त्रिंशा नाम देवाः सन्ति (तद्यथा)सर्वशूर सत्त्वाः य एकं वाक्सुचरितं भाषन्ते / तेषां न शक्यं पुण्यस्कन्धस्योपमां कर्तुं / (यन् ते देवमनुष्येष्वनुपमं सौख्यमनुभवन्ति /)
[ससू 115] सन्ति सर्वशूर सत्त्वाः य एकं वग्दुश्चरितं भाषन्ते न शक्यं तेषां नरकतिर्यक्षूपमां कर्तुम् यत् ते सत्त्वाः नरकतिर्यक्प्रेतदुःखां वेदनां वेदयन्ति / न (च) कश्चित् तेषां त्राता भवति तत्र ते निराशाः परिदेवन्ते नरकेषु प्रपतमानाः तद् अकल्याणमित्रवशेन द्रष्टव्यं / ये सत्त्वा वाक्सुचरितं भाषन्ते तेषां न शक्यं पुण्यस्कन्धस्योपमां कर्तुं / तत् कल्याणमित्रवशेन द्रष्टव्यं /
[ससू 116] यदा कल्याणमित्रं पश्यति तदा तथागतो दृष्टो भवति / यदा तथागतं पश्यति / तदा (तस्य) सर्वपापक्षयो भवति / यदा सर्वपापक्षयो भवति / तदा प्रजापतिर्जंबूद्वीपे औत्सुक्यं करोति / यदा प्रजापतिर्जंबुद्वीपे औत्सुक्यं करोति / तदा जंबूद्वीपकनां सत्त्वानां सुखस्य न शक्यमुपमां कर्तुमेवमेवायं सर्वशूर संघाटो धर्मपर्याय जंबूद्वीपकानां सत्त्वानां बुद्धकृत्यं करोति / तदा न शक्यं तेषां सत्त्वानां पुण्यस्कन्धस्योपमां कर्तुम्
[ससू 117] तद्यथापि नाम सर्वशूर यत्रेमाः पंच महानद्यः संभेदं समवसरणं गच्छन्ति / तत्र न शक्यमुदकस्य प्रमाणमुद्ग्रहीतुं / एतावदुदककुंभा वा उदककुंभशतानि वा उदककुंभसहस्राणि वा उदककुंभशतसहस्राणि वा / अपि तु बहुत्वादुदकस्य महान् उदकस्कन्ध इति संख्यां गच्छति /
[ससू 118] एवमेव सर्वशूर यदा जंबूद्वीपका सत्त्वा इमं संघातं धर्मपर्यायं श्रोष्यन्ति / श्रुत्वा चोद्ग्रहीष्यन्ति धारयिष्यन्ति / वाचयिष्यन्ति पर्यवाप्स्यन्ति / परेषां च विस्तरेण संप्रकाशयिष्यन्ति प्रतिपत्या च संपादयिष्यन्ति / तदा न शक्यं तेषां सत्त्वानां पुण्यस्कन्धस्य प्रमाणं उद्ग्रहीतुमपि तु बहुत्वात् पुण्यस्य महान् पुण्यस्कन्ध इति संख्यां गच्छति /
[ससू 119] ये सर्वशूर सत्त्वाः संघाटं धर्मपर्यायं न श्रोष्यन्ति न तैः शक्यमनुत्तरां सम्यक्संबोधिमभिसंबोद्धुम् न शक्यं धर्मचक्रं प्रवर्तयितुम् न शक्यं धर्मगण्डी पराहनितुम् न शक्यं तैर्धर्मसिंहासनमभिरोढुं न शक्यं (तै) निर्वाणधातुमनुप्रवेष्टुं / न शक्यमप्रमेयै रश्मिभिरवभासयितुम् य इमं सर्वशूर संघाटं धर्मपर्यायं न श्रोष्यन्ति न शक्यं तैर्बोधिमण्डे निषत्तुं /
[ससू 120] सर्वशूर आह - पृच्छामि भगवं पृच्छामि सुगत, कंचिदेव कौतुहलम् भगवान् आह - पृच्छ त्वं सर्वशूर यद् यद् एवाकांक्षस्यहं ते निष्कांक्षं करिष्यामि (सर्वशूर) आह - कतमः स भगवन् ऋषिरभूद् येन ते सत्त्वाः पंचभिरानन्तर्यैः कर्मभिः परिमोक्षिताः अवैवर्त्तिकभूमौ च प्रतिष्ठापिताः भगवान् आह - (50) सूक्ष्मं वचन बुद्धानां सर्वशूर शृणोहि मे संघाटदर्शनं सूत्रं ऋषिरूपेण दर्शितं (51) संघाटो बुद्धरूपं च दर्शयत्यनुकम्पया / यथा बलिकगंगाया रूपं दर्शयते तथा / (52) बुद्धो दर्शयते रूपं धर्मन् देशयते स्वयम् बुद्धं य इच्छते द्रष्टुं (लोकनाथं जिनोत्तमं //)//
(53) (संघाटस्तेन श्रोतव्यः) संघाटं बुद्धसादृशं / बुद्धस् तत्र भवेन् नित्यं संघाटं यत्र तिष्ठति /
[ससू 121] भगवान् आह - शृणु कुलपुत्र / भूतपूर्वं सर्वशूरातीते ध्वनि नवानवत्यसंख्येयङ् कल्पान् अनुस्मरामि / (तत्र) द्वादश बुद्धकोट्य बभूवन् रत्नोत्तमनामानस्तथागता अर्हन्तः सम्यक्संबुद्धाः अहं तेन कालेन तेन समयेन प्रदानशूरो भूवं चन्द्र नाम / ते च मे द्वादश बुद्धकोट्य पर्युपासिताः खादनीयभोजनीयमाल्यगन्धविलेपनेन यथासुखं / प्रणीतेनाहारेण सर्वसुखोपधानेनोपस्थिताः उपस्थाप्य च तत्रैव मया सर्वशूर व्याकरणमनुत्तरायां सम्यक्संबोधौ प्रतिलब्धम्
[ससू 122] अभिजानाम्यहं सर्वशूराष्टादश बुद्धकोट्य सर्वे रत्नावभासनामानस्तथागता लोक उत्पन्ना अभूवन् तत्राहमपि प्रदानशूरो भूवन् गर्भसेनो नाम / ते चाष्टादश बुद्धकोट्यो मया पर्युपासिताः पूजिताश्च / यथा तथागतानां प्रत्यर्हं गन्धमाल्यविलेपनालंकारविभूषणैः तत्र च मे व्याकरणमनुत्तरायां सम्यक्संबोधौ प्रतिलब्धं /
[ससू 123] अनुस्मराम्यहं सर्वशूर विष्मशतिर्बुद्धकोट्यः शिखिसंभवनामानस्तथागता अर्हन्तः सम्यक्संबुद्धा लोक उदपद्यन्त, पूजिता मे ते बुद्धा भगवन्तो यथा प्रत्यर्हेण पूजसत्कारेण तत्रैव च मे व्याकरणमनुत्तरायां सम्यक्संबोधौ प्रतिलब्धम् न चाद्यापि कालसमयमभूद्व्याकरणाय //
[ससू 124] अनुस्मराम्यहं सर्वशूर विंशत्येव बुद्धकोट्यः काश्यप नामानस्तथागता अर्हन्तः सम्यक्संबुद्धा लोक उदपद्यन्तः तत्राहमपि प्रदानशूरो भूवन् कृतं मे तेषां तथागतानामुपस्थानं / गन्धेन माल्येन विलेपनेन तथागतगुरूपस्थानेनोपस्थिताः यथा तथागतानां गुरुगौरवं कर्तव्यं तथा कृतं / तत्रैव च मे व्याकरणमनुत्तरायां सम्यक्संबोधौ प्रतिलब्धं /
[ससू 125] अनुस्मराम्यहं सर्वशूर षोडश बुद्धकोट्यो भूवन् विमलप्रभासनामान तथागता अर्हन्तः सम्यक्संबुद्धाः तेन च कालेन तेन समयेनाहं गृहपतिरभूवदाढ्यो महाधनो महाभोगः सर्वस्वपरित्यागी (महात्यागी /) / ते च मया षोडश बुद्धकोट्यः पूजिता आस्तरणप्रावरणेन गन्धेन माल्येन विलेपनेन विभूषणाच्छादनेन च / यथा तथागतानां गुरूपस्थानं (कर्तव्यं तथा च मया) कृतं / तत्रैव च मे व्याकरणमनुत्तरायां सम्यक्संबोधौ प्रतिलब्धं / न च मे कालं न समयमभूद्व्याकरणाय //
[ससू 126] शृणु सर्वशूरानुस्मराम्यहं पंचनवतिर्बुद्धकोट्यो लोक उत्पन्नान्यभूवन् सर्वे शाक्यमुनिसहनामानस्तथागता अर्हन्तः सम्यक्संबुद्धाः अहं च तेन कालेन तेन समयेन च राजा भूद्धार्मिको धर्मराजा, पर्युपासिता मे (ते) पंचनवतिर्बुद्धकोट्यः शाक्यमुनिनामधेयास्तथागताः गन्धेन माल्येन विलेपनेनास्तरणप्रवरणेन च्छत्रध्वजपताकाभिश्च / तत्रैव च मे व्याकरणमनुत्तरायां सम्यक्संबोधौ प्रतिलब्धम् //
[ससू 127] अनुस्मराम्यहं सर्वशूर नवतिर्बुद्धकोट्यः क्रकत्सुदनामानस्तथागता अर्हन्तः सम्यक्संबुद्धा लोक उदपद्यन्त, अहं च तेन कालेन तेन समयेन ब्राह्मकुमारो ऽभूव आढ्यो महाधनो महाभोगः प्रदानदाता सर्वस्वपरित्यागी / ते च मया तथागता सर्वे उपस्थिताः गन्धेन माल्येन विलेपनेनास्तराणप्रावरणेन विभूषणाच्छादनेन / यादृशं च तथागतानामुपस्थानं (तथा तेषां मया प्रत्यर्हमुपस्थानं) कृतं तत्रैव च मे व्याकरणं अनुत्तरायां सम्यक्संबोधौ प्रतिलब्धं न च मे कालं न समयं व्याकरणाय //
[ससू 128] अनुस्मराम्यहं सर्वशूराष्टादश बुद्धकोट्यः लोक उदपद्यन्त ; सर्वे कनकमुनिनामानस्तथागता अर्हन्तः सम्यक्संबुद्धाः अहं च तेन कालेन तेन समयेन प्रदानशूरो भूवन् पर्युपासिता मे ते तथागता अर्हन्तः सम्यक्संबुद्धाः पुजिताश्च गन्धेन माल्येन विलेपनेनास्तरणप्रावरणेन विभूषणेन / यथा तथागतानां गुरुपस्थानां तथा मे उपस्थिताः तत्रैव च मे व्याकरणमनुत्तरायां सम्यक्संबोधौ प्रतिलब्धं न च मे कालं न समयं व्याकरणायै /
[ससू 129] अनुस्मराम्यहं सर्वशूर त्रयोदश बुद्धकोट्यो लोक उदपद्यन्त; सर्वे वभासशिर्नामानस्तथागता अर्हन्तः सम्यक्संबुद्धाः ते च मे तथागताः पूजिता आस्तरणप्रावरणेन गन्धेन माल्येन विलेपनाच्छादनविभूषणेन / यथा तथागतानां गुरूपस्थानं कृतं तदृशमुपस्थानमुपस्थिताः तैश्च तथागतैर्नानाधर्ममुखानि भाषितानि अर्थविनयविनिश्चया तत्रैव च मे व्याकरणमनुत्तरायां सम्यक्संबोधौ प्रतिलब्धं न चाद्यापि समयं व्याकरणाय /
[ससू 130] अनुस्मराम्यहं सर्वशूर पंचविंशतिर्बुद्धकोट्यः पुष्यनामानस्तथागता अर्हन्तः सम्यक्संबुद्धा लोक उदपाद्यन्त; अहं च तेन कालेन तेन समयेन प्रब्रजितो ऽभूवम् पर्युपासिता मे ते तथागता यथा आनन्दैतर्हि ममोपस्थायकौपस्थानमुपतिष्ठति / तादृशं च मे ते तथागता उपस्थिताः तत्रैव च मे व्याकरणमनुत्तरायां सम्यक्संबोधौ प्रतिलब्धं न चाद्यापि मे समयमभूद्व्याकरणाय /
[ससू 131] अनुस्मराम्यहं सर्वशूर अष्टादश बुद्धकोट्यो विपश्यिनामानस्तथागता अर्हन्तः सम्यक्संबुद्धा लोक उदपद्यन्त; पर्युपासिता मे ते तथागता अर्हन्तः सम्यक्संबुद्धाः आभरणप्रावरणेनाच्छादनगन्धमाल्यविलेपनेन यथा तथागतोपस्थानं तथा (मे) उपस्थिता / अहं च तेन कालेन तेन समयेन प्रब्रजितो ऽभूवन् तत्रैव च (मे) व्याकरणमनुत्तरायां सम्यक्संबोधौ प्रतिलब्धवान् न चाद्यपि समयं व्याकरणाय न चिरेण कालेन /
[ससू 132] यः पश्चिमको विपश्यि लोक उत्पन्नः स इमं संघाटं धर्मपर्यायं भाषितवान् तमहं ज्ञात्वा तस्मिन् समये जंबुद्वीपे सप्तरत्नवर्षं प्रवृष्टवान् तदा ते जांबुद्वीपकाः सत्त्वा अदरिद्रा संवृत्ताः तत्रैव चाहं व्याकरणमनुत्तरायां सम्यक्संबोधौ प्रतिलब्धवान् ततश्चिरेण कालसमयेनाद्यापि (च) मां न व्याकरोति (अनुत्पत्तिकधर्मक्षान्तिव्याकरणेन /)
[ससू 133] आह / कतमः स भगवान् कालः कतमः स समयः भगवान् आह - शृणु सर्वशूर ततो द्व्यसंख्येयैः कल्पैर्दीपंकरो नाम तथागतो ऽर्हन् सम्यक्संबुद्धो लोक उदपादि / ततो ऽहं सर्वशुर तेन कालेन तेन समयेन मेघो नाम अणवको भूवन् यदा च भगवन् दीपंकरस्तथागतो लोक उत्पन्नः तदाहमपि तस्मिन् काले तस्मिन् समये ब्रह्मचर्यमचार्षं माणवकरूपेण ततो ऽहं भगवन्तन् दीपंकरन् तथागतं दृष्ट्वा प्रसाद प्रतिलब्धः सप्तभिरुत्पलैरवकीर्णवां तच्च तथागतावरोपितं कुशलमूलमनुत्तरायां सम्यक्संबोधौ परिणामितम् स च मान् दीपंकरस्तथागतो व्याकार्षीद्भविष्यसि त्वं माणवकानागते ऽध्वन्यसंख्येयैः कल्पैः शाक्यमुनिर्नाम तथागतो ऽर्हन् सम्यक्संबुद्ध इति /
[ससू 134] ततो ऽहं सर्वशूर द्वादशतालमात्रं विहायसमन्तरीक्षे स्थित्वानुत्पत्तिकधर्मक्षान्तिं प्रतिलब्धवान् यच्च मे सर्वशूरासंख्येयेषु कल्पेषु ब्रह्मचर्यं चीर्णं / यच्च पारमिताप्रतिसंयुक्तं कुशलमूलं तत्सर्वमामुखीभूतमिवानुस्मरामि यथाद्य श्वो वा / तत्र मया सर्वशूरानेकानि सत्त्वकोटीनियुतशतसहस्राणि कुशलेषु धर्मेषु प्रतिष्ठापितानि / कः पुनर्वाद सर्वशूर य एतर्ह्यहम अनुत्तरां सम्यक्संबोधिमभिसंबुद्धः सर्वसत्त्वहितैषिणः कारुणिकः सत्त्वानां निरोधधर्मन् देशयिष्यामि /
[ससू 135] नैतत्स्थानं विद्यते / तत्कस्य हेतोः बहुप्रकारं चाहं सर्वशूर सत्त्वानान् धर्मन् देशयामि / यथारूपवैनयिकानां सत्त्वानां तथारूपेण धर्मन् देशयामि / देवरूपेण देवलोके (देवानां) धर्मन् देशयामि / नागभवणे नागरूपेण (नागानानं) धर्मन् देशयामि / यक्षभवने यक्षरूपेन (यक्षानां) धर्मन् देशयामि / प्रेतभवने प्रेतरूपेण (प्रेतानां) धर्मन् देशयामि / मनुष्यलोके मनुष्यरूपेन (मनुष्याणां) धर्मन् देशयामि / बुद्धवैनयिकानां सत्त्वानां बुद्धरूपेण धर्मन् देशयामि / बोधिसत्त्वावैनयिकानां सत्त्वानां बोधिसत्त्वरूपेण धर्मन् देशयामि / श्रावकवैनयिकानां सत्त्वानां श्रावकरूपेण धर्मन् देशयामि / येन येन रूपेण सत्त्वा विनयं गच्छन्ति तेन तेन रूपेणाहं सत्त्वानान् धर्मन् देशयामि / एवं बहुप्रकारम् अहं सर्वशूर सत्त्वानान् धर्मन् देशयामि /
[ससू 136] तत्कस्य हेतोर्यथैव सर्वशूर सत्त्वा बहुप्रकारं धर्मं शृण्वन्ति / तथैव ते सत्त्वसाराः बहुप्रकारं सत्त्वानान् धर्मन् देशयन्ति / ते च सत्त्वास्तेषु तथागतेषु कुशलमूलान्यवरोपयन्ति / दानानि च ददन्ति / पुण्यानि च कुर्वन्ति / स्वार्थे च प्रतिजागरन्ति / मरणानुस्मृतिं च भावयिष्यन्ति / ते चैवंरूपं कुशलं कर्माभिसंस्कारमभिसंस्करिष्यन्ति / तेनैव च धर्मश्रवणकुशलमूलहेतुना तत् पूर्वकं कुशलमूलं संस्मरिष्यन्ति / तेषां तद् भविष्यति दीर्घरात्रमर्थाय हिताय सुखाय देवानां च मनुष्याणां च / एवं हि सर्वशूर संघाटसूत्रस्य धर्मपर्यायस्य सहश्रवणमात्रेणैवमप्रमेया(-म्-असंख्येया) गुणानुशंसा भविष्यन्ति /
[ससू 137] अथ ते सत्त्वाः परस्परमेवमाहुः अस्त्यन्यः कश्चित् कुशलो धर्मफलविपाकः यस्य कृतत्वादुपचितत्वादनुत्तरां सम्यक्संबोधिमभिसंबोद्ध्यते सर्वसत्त्वाहितैषिणश्च भवन्ति //
[ससू 138] अथ भगवंस्तेषां सत्त्वानां चेतसैव चेतःपरिवितर्कमाज्ञाय तानेतदवोचत् - अस्ति कुलपुत्रा ये धर्मं पत्तीयन्ति ते एवं वक्ष्यन्ति अस्ति धर्मो यथाभूतः तेषां महाफलं सुखविपाकमनुत्तरं धर्मसुखं भविष्यति /
[ससू 139] ये सत्त्वा मोहमूढास्त एवं वक्ष्यन्ति / न सन्ति धर्माः न सन्ति धर्मानां पारगः स तेषां महाफलं कटुकविपाकमपायेषुपपत्स्यते / पुनः पुनश्च ते (मोहपुरुषा) अपायभूमिपरायणा भविष्यन्ति /
[ससू 140] अष्टौ कल्पान् नैरायिकान् दुःखं वेदनामनुभविष्यन्ति / द्वादश कल्पानि प्रेतयोनिषु दुःखं वेदनां वेदयिष्यन्ति / षोडश कल्पान्यसुरेषूपपत्स्यन्ते / नव कल्पसहस्रानि भूतपिशाचयोनिषूपपत्स्यन्ते / चतुर्दश कल्पसहस्राणि अजिह्वका भविष्यन्ति / षोडश कल्पसहस्राणि मातुगर्भे कालं करिष्यति / द्वादश कल्पसहस्राणि मांसपिण्डा भविष्यन्ति / एकादश कल्पसहस्राणि जात्यन्धभूताः प्रजास्यन्ति / दुःखाम् वेदनां वेदयमाना / (जात्यन्धं च दृष्ट्वा)
[ससू 141] तदा मातापितृभ्यामेवं भविष्यति / निरास्वादमस्माभिर्दुःखमनुभूतं निरास्वादमस्माकां पुत्रो ऽजातः निरास्यादं नवा मासाः कुक्षौ धारितः शीतोष्णां वेदनां वेदयमानैः क्षुत्पिपासासुःखाणि च प्रत्यनुभूतानि / बहूनि च दृष्टधर्मवेदनीयानि दुःखानि दृष्ट्वा पुत्रो ऽजातः न च गृहे मातापित्रावुत्सुकौ कृतौ न स्वकायं / ततो मातापितृभ्यां महती निराशता भविष्यति / एवमेव सर्वशूर निराशाः सद्धर्मप्रतिक्षेपकाः सत्त्वाः नरकतिर्यक्प्रेतपरायणाः ते च तस्मिन् मरणकालसमये महता शोकाशल्यसमर्पिता भविष्यन्ति /
[ससू 142] ये सर्वशूर सत्त्वा एवं वाग्भाषन्ते अस्ति धर्मः अस्ति धर्माणां पारगः ते तेन कुशलमूलेन विंशाति कल्पाण्युत्तरकुरुषूपपत्स्यन्ते / पंचविंशति कल्पसहस्राणि त्रायस्त्रिंशानान् देवानां सहभाव्यतायामुपपत्स्यन्ते / त्रयस्त्रिंशद्भ्यो देवेभ्यश्च्यवित्वा उत्तरकुरुषुपपत्स्यन्ते / न च मातुः कुक्षावुपपत्स्यन्ते / लोकधातुशतसहस्रं च द्रक्ष्यन्ति / सर्वे (च तां लोकधातवः) सुखावतीनामानः सर्वबुद्धक्षेत्रसन्दर्शनन् दृष्ट्वा तत्रैव प्रतिष्ठानां कृत्वा तत्रैव बोधिमभिसम्भोत्स्यन्ते /
[ससू 143] एवं हि सर्वशूर महाप्रभावो यं संघाटो धर्मपर्यायः ये ऽस्मिंश्चित्तप्रसादं करिष्यन्ति / न ते जातु विषमपरिहारेण कालं करिष्यन्ति / परिशुद्धशीलसमवागतास्ते (सत्त्वा) भविष्यन्ति /
[ससू 144] सन्ति सर्वशूर सत्त्वा य एवं वक्स्यन्ति रात्रिन्दिवं तथागतो बहूनि सत्त्वानि परिमोचयन्ति / अद्यापि सत्त्वधातुः क्षयं न गच्छन्ति / बहवो बोधाय प्रणिधानं कुर्वति / बहवः स्वर्गलोक उपपद्यन्ते / बहवो निर्वृतिमनुप्राप्नुवन्ति / अथ केन हेतुना सत्त्वानां क्षयो न भवति //
ii. मैत्रेयपरिपृच्छा /
[ससू 145] अथान्यतीर्थिकचरकपरिब्राजकनिग्रन्थानामेतदभवत् गमिष्यामो वयं श्रमणेन गौतमेन सार्धं विवादं करिष्यामः अथ खलु चतुर्नवति ब्राह्मणान्यतीर्थिकचरकपरिब्राजकाः अनेकानि च निग्रन्थशतानि येन राजगृहं महानगरं तेनोपसंक्रामन्ति / तेन च कालेन तेन समयेन भगवान् स्मितां प्रादुष्चकार; //
[ससू 146] अथ खलु मैत्रेयो बोधिसत्त्वो महासत्त्व उत्थायासनादेकांसमुत्तरासंगं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनांजलिं प्रणम्य भगवन्तमेतदवोचत् - को भगवन् हेतुः कः प्रत्ययः स्मितस्य प्रादुष्करणाय / नाहेतुं नाप्रत्ययं तथागता अर्हन्तः सम्यक्संबुद्धा स्मितं प्रादुष्कुर्वन्ति /
[ससू 147] भगवानाह - शृणु कुलपुत्राद्येह राजगृहे महानगरे महासन्निपातो भविष्यति / आह / के भगवन् इहायास्यन्ति / देवा वा नागा वा यक्षा वा मनुष्या वा अमनुष्या वा / भगवानाह - सर्व एते मैत्रेयाद्येहागमिष्यन्ति / देवनागयक्षमनुष्यामनुष्याः चतुरशीतिं च सहस्राणि ब्राह्मणानामिहायास्यन्ति /
[ससू 148] नवति कोटीसहस्राणि तीर्थिकचरकपरिब्राजकनिग्रन्थानामिहा यास्यन्ति / ते मया सार्धं विवादं करिष्यन्ति / तेषां सर्वेषां विवादशमनाय धर्मन् देशयिष्यामि / सर्वे च ते ब्राह्मणा अनुत्तरायां सम्यक्सम्बोधौ चित्तमुत्पादयिष्यन्ति / नवति कोटीशतसहस्राण्यन्यतीर्थिकचरकपरिब्राजकनिग्रन्थाः सर्वे स्रोतआपत्तिफलं प्राप्स्यन्ति /
[ससू 149] अष्टादश कोटीसहस्राणि नागराज्ञामागमिष्यन्ति / ये ममान्तिकाद्धर्मं श्रोष्यन्ति / श्रुत्वा च (ता) सर्वे ऽनुत्तरायां सम्यक्संबोधौ चित्तान्युत्पादयिष्यन्ति /
[ससू 150] षष्टि कोटीसहस्रानि शुद्धावासकायिकानां देवपुत्राणामागमिष्यन्ति / द्वात्रिंशद्भिः कोटीसहस्रैर्मारः पापीयान् सपरिवार आयास्यति / द्वादश कोटीसहस्राणि असुरराज्ञामागमिष्यन्ति / पंचमात्राणि (च) राजशतानि सपरिवाराण्यायास्यन्ति धर्मश्रवणाय / ते सर्वे ममान्तिकाद्धर्मं श्रुत्वानुत्तरायां सम्यक्संबोधौ चित्तान्युत्पादयिष्यन्ति //
[ससू 151] अथ खलु मैत्रेयो बोधिसत्त्वो महासत्त्वो भगवतः पादौ शिरसा वन्दित्वा भगवन्तं (तृष्) प्रदक्षिणीकृत्वा तत्रैवान्तर्धिततः //
iii. सर्वशूरपरिपृच्छा (2)
[ससू 152] अथ खलु सर्वशूरो बोधिसत्त्वो महासत्त्व उत्थायासनादेकांसमुत्तरासंगं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यं प्रतिष्ठाप्य येन भगवांस्तेनांजलिं प्रणाम्य भगवन्तमेतदवोचत् - किन्नामो भगवन् पंचमात्राणि राजशतानि /
[ससू 153] भगवान् आह - शृणु सर्वशूर नदो नाम राजा सुनन्दो नाम राजा / उपनन्दो नाम राजा / जिनर्षभो नाम राजा / ब्रह्मसेनो नाम राजा / ब्रह्मघोषो नाम राजा / सुदर्शनो नाम राजा / जयसेनो नाम राजा / नन्दसेनो नाम राजा / बिंबिसारो नाम राजा / प्रसेनजिन्नाम राजा / विरूढको नाम राजा / एवंप्रमुखानि पंचमात्राणि राजशतानि / एकैको राज विंशतिकोटीसहस्रपरिवारः ते सर्वे ऽनुत्तरायां सम्यक्संबोधौ संप्रस्थिताः स्थापयित्वा राजा विरूढकः
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
