Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 5/7

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa

समाधिराजसूत्र

Thông tin
GRETIL — P.L. Vaidya, Darbhanga: The Mithila Institute, 1961 (Buddhist Sanskrit Texts, 2.).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

(वैद्य 214) अलंकरोन्तिदं क्षेत्रं बुद्धक्षेत्रमनुत्तरम् / रत्नजालेन च्छादेन्ति समन्तेन दिशो दश // srs_32.237 //

पताका अवसक्ताश्च उच्छ्रिता ध्वजकोटयः / अलंकारैरनन्तैश्च इदं क्षेत्रमलंकृतम् // srs_32.238 //

कूटागारांश्च मापेन्ति सर्वरत्नविचित्रितान् / प्रासादहर्म्यनिर्यूहानसंख्येयान् मनोरमान् // srs_32.239 //

विमानान्यर्धचद्रांश्च गवाक्षान् पञ्जरांस्तथा / धूपिता ध्वजघटिका नानारत्नविचित्रिताः // srs_32.240 //

धूप्यमानेन गन्धेन अभ्रकूटसमं स्फुटम् / क्षेत्रकोटीसहस्रेषु वाति गन्धो मनोरमः // srs_32.241 //

ते च सर्वे स्फरित्वान गन्धवर्षं प्रवर्षिषुः / ये च घ्रायन्ति तं गन्धं ते बुद्धा भोन्ति नायकाः // srs_32.242 //

रागशल्यं प्रहीणैषां दोषशल्यं न विद्यते / विध्वंसितं मोहजालं तमः सर्वं विगच्छति // srs_32.243 //

ऋद्धिं च तत्र स्पर्शेन्ति बलबोध्यङ्ग इन्द्रियान् / ध्यानविमोक्षान् स्पर्शेन्ति भोन्ति चो दक्षिणार्हाः // srs_32.244 //

पञ्चकोटीय प्रज्ञप्ता वस्त्रकोटीभि संस्तृता / संछन्ना रत्नजालेहि च्छत्रकोटीभि चित्रिताः // srs_32.245 //

निषण्णास्तत्र ते शूरा बोधिसत्त्वाः समागताः / लक्षणैस्ते विरोचन्ते तथानुव्यञ्जनैरपि // srs_32.246 //

वृक्षै रत्नमयैः सर्वं बुद्धक्षेत्रमलंकृतम् / निर्मिताः पुष्करिण्यश्च अष्टाङ्गजलपूरिताः // srs_32.247 //

पानीयं ते ततः पीत्वा पुष्करिणीतटे स्थिताः / सर्वे तृष्णां विनोदित्वा भोन्ति लोकस्य चेतियाः // srs_32.248 //

अन्योन्येषु च क्षेत्रेषु बोधिसत्त्वाः समागताः / बुद्धस्य वर्णं भाषन्ते शाक्यसिंहस्य तायिनः // srs_32.249 //

शृण्वन्ति ये च तं वर्णं ते भोन्ती लोकनायकाः / अचिन्त्या अनुशंसा मे इह सूत्रे प्रकाशिताः // srs_32.250 //

स्वर्णमयेहि पत्रेहि पद्मकोट्यो अचिन्तियाः / शुद्धस्योरगसारस्य कर्णिकास्तत्र निर्मिताः // srs_32.251 //

(वैद्य 215) वैडूर्यस्य च दण्डानि स्फटिकस्य च पञ्जराः / केसरा गिरिगर्भस्य मापितास्तत्र शोभनाः // srs_32.252 //

ये च घ्रायन्ति तं गन्धं निश्चरन्तं मनोरमम् / तेषां सर्वे प्रशाम्यन्ति व्याधयः प्रीतचेतसाम् // srs_32.253 //

रागो द्वेषश्च मोहश्च अशेषास्तेहि क्षीयते / त्रीन् दोषान् क्षपयित्वा च भोन्ति बुद्धा सुखंददाः // srs_32.254 //

शब्दस्ततो निश्चरति बुद्धशब्दो ह्यचिन्तियः / सद्धर्मसंघशब्दश्च विनिश्चरति सर्वतः // srs_32.255 //

शून्यता अनिमित्तस्य स्वरो अप्रणिहितस्य च / श्रुत्वा तं सत्त्वकोटीयो भोन्तिवैवर्तिका बहु // srs_32.256 //

निश्चरंश्चैव शब्दो ऽसौ क्षेत्रकोटीषु गच्छति / स्थापेन्ति बुद्धज्ञानस्मिन् सत्त्वकोटीरचिन्तियाः // srs_32.257 //

शकुन्ता कलविङ्काश्च जीवंजीवकपक्षिणः / ते ऽपि प्रव्याहरी शब्दं बुद्धशब्दमनुत्तरम् // srs_32.258 //

रत्नामयाश्च ते वृक्षा इह क्षेत्रस्मि निर्मिताः / विशिष्टा दर्शनीयाश्च मणीवृक्षा मनोरमा // srs_32.259 //

लम्बन्ते तेषु वृक्षेषु सर्वाभरणवेणयः / अनुभावेन बुद्धस्य इह क्षेत्रस्मि निर्मिताः // srs_32.260 //

न सो ऽस्ति केषुचिद् व्यूहः सर्वक्षेत्रेषु सर्वशः / यो नेह दृश्यते क्षेत्रे तद्विशिष्टतमस्तदा // srs_32.261 //

पेयालमेतदाख्यातं शाक्यसिंहेन तायिना / न ते ज्ञाने ऽत्र काङ्क्षति बोधिसत्वा महायशाः // srs_32.262 //

कोटीय एतां बुध्यन्ति गतिस्तेषामचिन्तिया / ज्ञानेन ते विवर्धन्ते सागरो वा स्रवन्तिभिः // srs_32.263 //

(वैद्य 216) न तेषां लभ्यते ऽन्तो हि पिबतो वा महोदघेः / आख्यातो बोधिसत्त्वानां नयो ह्येष अचिन्तियः // srs_32.264 //

इह कोटयां स्थिताः शूरा बोधिसत्त्वा यशस्विनः / स्वराङ्गानि प्रमुञ्चन्ति यथा गङ्गाय वालिकाः // srs_32.265 //

ततश्चिन्त्यः स्वरो ऽप्येवं बोधिसत्त्वो न मन्यते / मन्यनायां प्रहीणायामासन्नो भोति बोधते // srs_32.266 //

न स शीलं विलुम्पेति अपि जीवितकारणात् / अविलुप्तः स चरति बोधिसत्त्वो दृढवतः // srs_32.267 //

नासौ भूयो विलुप्येत कमसंज्ञाय सर्वशः / सर्वसंज्ञाप्रहीणस्त अप्रमेयाः समाधयः // srs_32.268 //

समाहितः स चरति सज्जते न समाधिषु / असक्तश्चाप्रमत्तश्च नासौ लोकेषु सज्जते // srs_32.269 //

लोकधातूनतिक्रम्य स गच्छति सुखावतीम् / गतश्च तत्र संबुद्धममिताभं स पश्यति // srs_32.270 //

बोधिसत्त्वांश्च तान् शूरान् लक्षणैः समलंकृतान् / पञ्चाभिज्ञापारमिं च प्राप्ता धारणिगोचराः // srs_32.271 //

गच्छन्ति क्षेत्रकोटीयो बुद्धानां पादवन्दकाः / ओभाषयन्तो गच्छन्ति बुद्धक्षेत्रानचिन्तियान् // srs_32.272 //

सर्वदोषप्रहीणाश्च सर्वक्लेशविशोधिताः / सर्वक्लेशसमुच्छिन्ना एकजातिस्थिता जिनाः // srs_32.273 //

न चो अपायान् गच्छन्ति तस्मात् क्षेत्रात्तु ते नराः / सर्वे ऽपाया समुच्छिन्नास्तस्मिन् क्षेत्रे अशेषतः // srs_32.274 //

बोधिता बुद्धश्रेष्ठेन अमिताभेन तायिना / करोथ मा तत्र काङ्क्षां गमिष्यथ सुखावतीम् // srs_32.275 //

यः क्षेत्रश्रेष्ठस्य श्रुणित्व वर्णं चित्तप्रसादं प्रतिलभि मातृग्रामः / स क्षिप्र भोती पुरुषवरः सुविद्वान् ऋद्ध्या च याति क्षेत्रसहस्रकोटीः // srs_32.276 //

यावन्ति पूजा बहुविध अप्रमेया या क्षेत्रकोटीनयुतयबिंबरेषु / (वैद्य 217) तां पूज कृत्व पुरुषवरेषु नित्यं संख्याकलापी न भवति मैत्रचित्तः // srs_32.277 //

शीलं समाधिं सततु निषेवमाणो ध्यानान् विमोक्षांस्तथपि च अप्रमाणान् / शून्यानिमित्तान् सततु निषेवमाणो नचिरेण सो हि सुगतु भवति लोके // srs_32.278 //

एषा हि पूजा परमा विशिष्ट मह्यं यः शीलस्कन्धे प्रतिष्ठितु बोधिसत्त्वो / सद सर्वबुद्धास्तेन सुपूजिता हि क्षयान्तकाले यः स्थितु बोधिचित्ते // srs_32.279 //

सुपरीन्दितास्ते बुद्धसहस्रकोट्यो ये बोधिसत्त्वा इमु क्षयि कालि घोरे / रक्षन्ति धर्मं सुगतवरोपदिष्टं ते मह्य पुत्राश्चरिमक धर्मपालाः // srs_32.280 // इति श्रीसमाधिराजे सूत्रधारणानुशंसापरिवर्तो नाम द्वात्रिंशतितमः ॥ 32 ॥ (वैद्य 218) 33 क्षेमदत्तपरिवर्तः ।

अथ खलु भगवान् पुनरेव चन्द्रप्रभं कुमारभूतमामन्त्रयते स्म - भूतपूर्वं कुमार अतीते ऽध्वन्यसंख्येये कल्पे असंख्येयतरे विपुले अप्रमाणे अचिन्त्ये अपरिमिते यदासीत् । तेन कालेन तेन समयेन घोषदत्तो नाम तथागतो ऽर्हन् सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान् । स खलु पुनः कुमार घोषदत्तस्तथागतो ऽर्हन् सम्यक्संबुद्धो अप्रमेयानचिन्त्यानपरिमाणानसंख्येयान् सत्त्वानास्रवक्षयायार्हत्त्वे प्रतिष्ठाप्य परिनिर्वाप्य अप्रमेयानसंख्येयांश्च सत्त्वाननुत्तरायां सम्यक्संबोधावविनिवर्तनीयत्वे प्रतिष्ठाप्य परिनिर्वृतो ऽभूत् । तेन च कुमार कालेन तेन समयेन राजाभूच्छ्रीघोषो नाम । स तस्य तथागतस्य पूजार्थं तथागतधातुगर्भाणि चतुरशीतिस्तूपकोटिसहस्राणि कारयामास । एकैकस्मिंश्च स्तूपे चतुरशीतिचतुरशीतिदीपार्ध्यकोटीनियुतसहस्राणि प्रतिष्ठापयामास । एवं वाद्यानां तूर्याणां पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकानाम् । एकैकत्र च स्तूपे चतुरशीतिचतुरशीतिकोटिसहस्राणि प्रतिष्ठापयामास । इहि हि कुमार स राजा श्रीघोषस्तथागतशरीराणां पूजां कृत्वा चतुरशीत्या बोधिसत्त्वकोटीनियुतशतसहस्त्राणां महान्तं बोधिसत्त्वसंनिपातं कारयित्वा तेषां बोधिसत्त्वानां महासत्त्वानां सर्वसुखोपधानेन पूजायामुद्युक्तो ऽभूत् । सर्वे च ते बोधिसत्त्वा महासत्त्वा धर्मभाणका अभूवन् अनाच्छेद्यप्रतिभानाः समाधिप्रतिलब्धाः असङ्गधारणीप्रतिलब्धा भूतगुणधर्मदेशकाः परिशुद्धधर्मदेशकाः बोधिसत्त्ववशिपारमिप्राप्ताः । तेन च

कुमार कालेन तेन समयेन तत्रैव पर्षदि क्षेमदत्तो नाम बोधिसत्त्वो महासत्त्वो ऽभूच्छिशुर्दहरः कृष्णकेशः प्रथमयौवनसमन्वागते भद्रके वयसि वर्तमानः अविक्रीडितावी कामेषु कौमारब्रह्मचारी एकवर्ष उपसंपदा । तेन च कुमार कालेन तेन च समयेन राज श्रीघोषस्तं महान्तं बोधिसत्त्वमहासत्त्वगणमध्येषते स्म यदुत षट्पारमितासंगीतौ । बोधिसत्त्वपिटकमहाधारण्युपायकौशल्यवशिविनयासङ्गाभिनिर्हारार्थं तान् बोधिसत्त्वान् महासत्त्वानध्येष्य रात्रौ संनिषण्णायां तथागतचैत्यस्य पुरतः तत्रानेकानि दीपार्ध्यकोटिनियुतशतसहस्राणि प्रज्वालितानि । सिक्तसंमृष्टशोधितश्च मण्डलमात्रः कृतो ऽभूत् पुष्पाभिकीर्णो नानाविचित्रशयनासनप्रज्ञप्तः । राजापि श्रीघोषः सान्तःपुरग्रामनगरजनपदपारिषद्यः सपौरो निष्क्रान्तः । वाद्यतूर्यतालावचरपुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिः परिगृहीताभिस्तथागतचैत्यस्य पूजां कृत्वा सार्धमन्तःपूरेण प्रासादतलमभिरूढो ऽभुद्धर्मश्रवणाय । महती च देवमानुषिका परिषत् संनिपतिता धर्मश्रवणार्थिका । अद्राक्षीत् क्षेमदत्तो बोधिसत्त्वो महासत्वस्तानि च महान्ति दीपार्ध्यकोटीनियुतशतसहस्राणि संप्रज्वलितानि । अवभासेनैव (वैद्य 219) स्फुटमभूत् । सदेवमानुषिकां च जनतां धर्मश्रवणाय संनिपतितां विदित्वा तस्यैतदभूत् - अहमपि महायानसंप्रस्थितः । यन्न्वहमिमं समाधिमाकाङ्क्षस्तथागतपूजां कुर्याम्,यथारूपया पूजया सदेवमानुषासुरलोकश्चित्रीकारप्राप्तो भवेदात्तमनाः प्रमुदितः प्रीतिसौमनस्यजातो भवेद्धर्मालोकप्राप्तः । इमां च सर्वां तथागतपूजामभिभवेयं

येयं श्रीघोषेण राज्ञा कृता । राजा च श्रीघोषश्चित्रीकारप्राप्तो भवेदात्तमनाः प्रमुदितः प्रीतिसौमनस्यजातः सान्तःपुरपरिवारः ॥

अथ खलु क्षेमदत्तो बोधिसत्त्व एवंचित्तः प्रीतिसौमनस्यजातस्तं महान्तं जनकायं संनिपतितं विदित्वा धर्मश्रवणिकानां रात्रौ संनिषण्णायां तथागतचैत्यस्य पुरतः स्थित्वा दक्षिणं बाहुं चीवरपरिवेष्टितं कृत्वा तैलप्लुतं कृत्वा दीपयामास । अथ खलु क्षेमदत्तस्य बोधिसत्त्वस्य महासत्त्वस्याध्याशयेनानुत्तरां सम्यक्संबोधिं पर्येषमाणस्य तथा प्रदीप्ते दक्षिणे पाणौ नाभूत् चित्तस्य मुखवर्णस्य वा अन्यथात्वम् । अथ खलु कुमारः समनन्तरप्रदीप्ते क्षेमदत्तस्य बोधिसत्त्वस्य महासत्त्वस्य पाणौ संप्रज्वलिते संज्योतीभूते एकज्वालाप्राप्ते, अथ खलु तस्यां वेलायां महापृथिवीचालः प्रादुरभूत् । तस्य पाणौ दीप्यमानस्य प्रभया तान्यनेकानि दीपार्ध्यकोटीनयुतशतसहस्राणि ध्यामीकृतान्यभूवन् । सर्वासु च दिक्षु महानवभासो ऽभूत्, येनावभासेन सर्वा दिशो ऽवभासिताः समन्तात् स्फुटा अभूवन् । स प्रीतिसौमनस्यजात इमं सर्वधर्मस्वभावसमताविपञ्चितं समाधिं वल्गुना मनोरमेण स्वरेण विशिष्टया वाचानुप्रबद्धैः पदव्यञ्जनैर्विस्तरेण सर्वपर्षदं विज्ञापयन् संप्रकाशयति स्म । तत्र द्वादश सहस्राणि त्रायत्रिंशत्कायिकानां देवानां संनिपतितानि धर्मश्रवणाय । ते प्रीतिसौमनस्यजाता विविधां दिव्यां पूजामकार्षुः, अप्सरोगणाश्च दिव्याः संगीतीः प्रयोजयामासुः । अद्राक्षीद्राजा श्रीघोषः उपरिष्टात् प्रासादतलगतः स्वजनपुरस्कृतः अन्तःपुरमध्यगतो ऽष्टाङ्गपोषधसमादत्तः क्षेमदत्तं बोधिसत्त्वं महासत्त्वं बाहुनावभासयन्तं सर्वाः प्रभा अभिभूय दिव्यया अतिक्रान्तमानुषिकयावभासितम् । दृष्ट्वा च पुनरस्यैतदभूत् - अभिज्ञाप्राप्तो बतायं

क्षेमदत्तो बोधिसत्त्वो महासत्त्वो भविष्यतीति । स तीव्रं प्रेम च प्रसादं च गौरवं च चिपस्थाप्य सपरिवारो महाकुशलमूलपुण्यस्कन्धोपस्तब्धः सार्धमशीत्यान्तःपुरिकाभिस्ततः प्रासादतलादात्मानमुत्प्राक्षिपत् यदुत् क्षेमदत्तस्य बोधिसत्त्वस्य दर्शनाय प्रीतिसंमोदनाय । स गौरवनिर्जातेन कुशलमूलेन दृष्ट एव धर्मे सपरिवारो देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगपरिग्रहं प्रतिलभते । स देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगपरिगृहीतः पुनरेव राजा श्रीघोषः सपरिवारः परिपूर्णाद्धस्तशतसहस्रिकात् प्रासादात् पतितः । न चास्य कायविहेठश्चित्तविहेठो वा अवलीनता वाभूत् ॥

(वैद्य 220) अथ खलु राजा श्रीघोषः उभौ बाहू प्रगृह्य महता जनकायेन सार्धं महान्तं निर्नादनिर्घोषमाक्रन्द्रं चाकार्षीत् यदुत क्षेमदत्तस्य बोधिसत्त्वस्य महासत्त्वस्य बाहुं दह्यमानं दृष्ट्वा संप्रज्वलितम् । स राजा तेन महता जनकायेन सार्धं प्रारोदीदश्रूणि प्रवर्तयमानः ॥

अथ खलु क्षेमदत्तो बोधिसत्त्वो महासत्त्वः राजानं श्रीघोषमामन्त्रयते स्म - किं पुनस्त्त्वं महाराज अनेन महता जनकायेन सार्धं महान्तं निर्नादनिर्घोषमाक्रन्दं कुर्वन् रोदिषि अश्रूणि च प्रवर्तयसि? अथ खलु राजा श्रीघोषः क्षेमदत्तं बोधिसत्त्वं गाथाभिगीतेन प्राभाषत -

क्षेमदत्तं महाप्राज्ञं पण्डितं धर्मभाणकम् / अङ्गहीनं विदित्वैनं जनो ऽयं तेन रोदिति // srs_33.1 //

एतादृशं रूपमिदं तेजोराशिसमुद्गतम् / बाहुहीनं विदित्वा हि भूयो ऽहमपि दुःखितः // srs_33.2 //

यस्त्वया दीपितो बाहुः प्रभा मुक्ता दिशो दश / इमे जिह्मीकृता दीता दिव्यया त्वत्प्रभूतया // srs_33.3 //

प्रकम्पितेयं पृथिवी चित्तं ते न च लीइयते / तत उत्पादितं चित्तं नैषो अवरकोविदः // srs_33.4 //

हस्तशतसहस्रातः प्रासादात् पतितो ह्यहम् / सार्धमन्तःपुरेणेह न च मे कायु हिंसितः // srs_33.5 //

साधु ते ज्ञानमाश्चर्यं साधु चित्तमनुत्तरम् / साधु वीर्यं च स्वारब्धं साधुं चाध्याशयो महान् // srs_33.6 //

यस्य हस्तौ विदह्यन्ते न जात्वस्तीह इञ्जना / प्रीतिप्रामोद्यजातश्च भूयो धर्मं प्रभाषते // srs_33.7 //

पूर्णमास्यां यथा चन्द्रः सूर्यो वासौ नभस्तले / सुमेरुगिरिराजो वा एवं शोभसि मारिष // srs_33.8 //

अहं पि एवं प्रणिधिं परिपूरेय पण्डितः / काये प्रेमं जहित्वाहं कुर्यामर्थं च प्राणिनाम् // srs_33.9 //

धर्मप्रेम्णा च हृष्यामि प्रीइतिर्मे ऽत्र अचिन्तिया / यत् पुनो अङ्गहीनो ऽसि तेन मे दुःखमुत्तमम् // srs_33.10 //

क्षेमदत्तो हि राजानं देवनागेहि पूजितः / अनन्तप्रतिभानेन इमा गाथा अभाषत // srs_33.11 //

नैवं स्यादङ्गहीनो ऽसौ यस्य बाहुर्न विद्यते / स तु देवाङ्गहीनः स्याद यस्य शीलं न विद्यते // srs_33.12 //

(वैद्य 221) अनेन पूतिकायेन पूजिता मे तथागताः / अचिन्तिया दक्षिणीयाः सर्वलोकस्य चेतियाः // srs_33.13 //

अनन्ता यास्त्रिसाहस्रा परिपूरिताः / प्रदद्याल्लोकनाथेभ्यो बुद्धज्ञानगवेषकः // srs_33.14 //

अस्त्येषा लौकिकी पूजा अन्या पूजा अचिन्तिया / ये धर्मान् शून्यान् जानन्ति त्यजन्ते कायजीवितम् // srs_33.15 //

सत्यवाक्यं करिष्यामि महाराज शृणोहि मे / या चेयं जनता सर्वा इमां गाथां विजानथ // srs_33.16 //

येन सत्येन बुद्धो ऽहं भेष्ये लोकस्य चेतियः / तेन सत्येन धरणी षडविकारं प्रकम्पतु // srs_33.17 //

भाषिता व इयं वाचा धरणी च प्रकम्पिता / आश्चर्यमद्भतप्राप्ता देवकोट्यः प्रहर्षिताः // srs_33.18 //

हर्षिता देवमनुजा बोधिचित्तमुपादयुः / प्रस्थिता अग्रयानस्मिन्नप्रमेया अचिन्तियाः // srs_33.19 //

यात्तकानां कृतो अर्थः क्षेमदत्तेन भिक्षुणा / बुद्धानां वर्तते ज्ञानं यत्राक्षयमचिन्तियम् // srs_33.20 //

येन सत्येन धर्मो ऽसौ बाहुर्नाम न विद्यते / तेन सत्येन मे बाहुर्भोति क्षिप्रं यथा पुरा // srs_33.21 //

येन सत्येन धर्मो ऽसौ क्षेमदत्तो न विद्यते / दिशो दश गवेषद्भिः शुन्यत्वान्नोपलभ्यते // srs_33.22 //

यो ऽपि निश्चरते शब्दस्तं पु शून्यं विजानथ / प्रतिश्रुत्कोपमः शब्दो धर्मानेवं विजानथ // srs_33.23 //

सदा विशारदो भोति शुन्यतायां गतिंगतः / तस्य सत्येन वाक्येन सर्वलोको न दह्यते // srs_33.24 //

यावन्तस्त्रिभवे सत्त्वा ये देवा ये च मानुषाः / सर्वज्ञतायास्तेजेन सर्वे भोन्ति समाहिताः // srs_33.25 //

यावन्त्युपद्रवाः केचिद् ये दिव्या ये च मानुषाः / अवैवर्तिकतेजेन सर्वे ते भोन्ति निर्वृताः // srs_33.26 //

भाषिताश्च इमा गाथा बाहुश्च पुनरुत्थितः / क्षेमदत्तस्य कायश्च लक्षणेहि विचित्रितः // srs_33.27 //

(वैद्य 222) देवकोटीसहस्राणि अन्तरिक्षे स्थितानि च / मन्दारपुष्पैस्तं भिक्षुमोकिरन्ति च तत्क्षणम् // srs_33.28 //

अमानुष्येहि पुष्पेहि जम्बुद्वीपो ह्ययं स्फुटः / अप्सरःकोटिनियुतै संगीत्यः संप्रयोजिताः // srs_33.29 //

इमं नादं नदन्तस्य क्षेमदत्तस्य तत्क्षणम् / बुद्धकोटीसहस्राणि पश्यन्तीदं विकुर्वितम् // srs_33.30 //

स्वकस्वकेषु क्षेत्रेषु आरोचेत् सुमहायशाः / भिक्षूणां भिक्षुणीनां च उपासक उपासिकाम् // srs_33.31 //

क्षेमदत्तो ह्यसौ भिक्षुः पण्डितः सुमहाबलः / येनासौ दीपितो बाहुर्बुद्धज्ञानस्य कारणात् // srs_33.32 //

तेन क्षेत्रसहस्राणि यथा गङ्गाय वालिकाः / ओभासिताः प्रदीपेन कल्पोद्दाह इव स्थिते // srs_33.33 //

पुष्पचन्दनचूर्णैश्च सर्वक्षेत्राः स्फुटा अभूत् / यावद्भूमिमुपादाय जानुमात्रमभूत् स्फुटम् // srs_33.34 //

सर्वरत्नैः सर्वपुष्पैर्बुद्धक्षेत्रमभूत् स्फुटम् / क्षेमदत्तस्य पूजायै नागा वर्षन्ति मौक्तिकम् // srs_33.35 //

सर्वरत्नामयैर्व्यूहैरिदं क्षेत्रमलंकृतम् / संस्तृतं रत्नमुक्ताभिओः क्षेमदत्तस्य पूजया // srs_33.36 //

देवा नागाश्च यक्षाश्च किन्नराप्सरमहोरगाः / प्रस्थिता अग्रबोधीये यथा गङ्गाय वालिकाः // srs_33.37 //

शाक्यसिंहो ऽपि संबुद्धो गृध्रकूटस्मि पर्वते / पुरतो भिक्षुसंधस्य सिंहनादं नदी जिनः // srs_33.38 //

क्षेमदत्तो ऽहमभवं श्रीघोषो ऽप्यजितो ऽभवत् / कल्पकोटीसहस्राणि चरन् संबोधिचारिकाम् // srs_33.39 //

सहदर्शनेन भिक्षुस्य क्षेमदत्तस्य तत्क्षणम् / अचिन्त्याभिस्तदा स्त्रीभिः स्त्रीभावो विनिवर्तितः // srs_33.40 //

व्याकृतास्ते नरेन्द्रेण नास्ति तेषां विनिवर्तना / स्वयंभुवो भविष्यन्ति सर्वे लोकविनायकाः // srs_33.41 //

श्रुत्वा सूत्रमिदं विद्वान् संलेखगुणदर्शनम् / काये प्रेम न कुर्वीत इह धर्मे सुशिक्षितः // srs_33.42 // इति श्रीसमाधिराजे क्षेमदत्तपरिवर्तो नाम त्रयस्त्रिंशतितमः ॥ 33 ॥ (वैद्य 223) 34 ज्ञानावतीपरिवर्तः ।

तत्र भगवान् पुनरपि चन्द्रप्रभं कुमारभूतमामन्त्रयते स्म - तस्मात्तर्हि कुमार बोधिसत्त्वेन महासत्त्वेन इमं समाधिमाकाङ्क्षता क्षिप्रमनुत्तरां सम्यक्संबोधिमभिसंबोद्धुकामेन कुशलमूले प्रतिष्ठिते धर्मदानेन वा आमिषदानेन वा योगः करणीयः । तेन बोधिसत्त्वेन महासत्त्वेन तद्दानं चतुसृभि परिणामनाभिः परिणामयितव्यम् । कतमाभिश्चतसृभिः? यदुत यैरुपायकौशल्यैस्तैर्बुद्धैर्भगवद्भिरनुत्तरा सम्यक्संबोधिरभिसंबुद्धा, तेषामुपायकौशल्यानां प्रतिलम्भायेदं दानकुशलमूलमवरोपयामि । अयं प्रथमः परिणामः । येभ्यः कल्याणमित्रेभ्यो ऽन्तिकात्तान्युपायकौशल्यानि शृणुयामुद्गृह्णीयां पर्यवाप्नुयां धारयेयम्, तैरनुत्तरा सम्यक्संबोधिरभिसंबुध्यते । तैर्यैः कल्याणमित्रैः सार्धं समवधानं भवेत्, एवमेतद्दानकुशलमूलमवरोपयामि । अयं द्वितीयः परिणामः । ये भोगप्रतिलाभाः सर्वलोकोपजीव्या भवेयुस्तैर्मे भोगप्रतिलाभैः समवधानं भवेत्, एवमिदं कुशलमूलवरोपयामि । अयं तृतीयः परिणामः । य आत्मभावप्रतिलाभः द्वाभ्यामनुग्रहाभ्यां सत्त्वाननुगृह्णीयादामिषानुग्रहेण च धर्मानुग्रहेण च, तस्य मे आत्मभावस्य प्रतिलम्भो भवेत्, एवमिदं कुशलमूलवरोपयामि । अयं चतुर्थः परिणामः । आभिः कुमार चतसृभिः परिणामनाभिर्बोधिसत्त्वेन महासत्त्वेन तानि कुशलमूलानि परिणामयितव्यानि ॥

पुनरपरं कुमार बोधिसत्त्वेन महासत्त्वेनेमं समाधिमाकाङ्क्षता गृहीणा वा प्रव्रजितेन वा क्षिप्रं चानुत्तरां सम्यक्संबोधिमभिसंबोद्धुकामेन शीलवन्तो गुणवन्तः प्रज्ञावन्तो बोधिसत्त्वा महासत्त्वाः सेवितव्या भजितव्याः पर्युपासितव्या अशाठ्येन । यो ऽस्य समाधेर्धारको भिक्षुर्बोधिसत्त्वो महासत्त्वो भवेत्,स च स्यादाबाधिको बाढग्लानः, तेन स्वमांसशोणिअतेनापि स भिक्षुस्तस्मादाबाधाद् व्युत्थापयितुमुत्सोढव्यः । अध्याशयसंपन्नेन कुमार बोधिसत्त्वेन महासत्त्वेनेमं समाधिमाकाङ्क्षत क्षिप्रं चानुत्तरां सम्यक्संबोधिमभिसंबोद्धुकामेनाविकम्पमानेन विशारदेन स्वकं मांसशोणितमपि परित्यज्य धर्मभाणको भिक्षुराबाधाद् व्युत्थापयितव्यः । तदनेनापि ते कुमार पर्यायेणैवं वेदितव्यम् ॥

भूतपूर्वं कुमार अतीते ऽध्वन्यसंख्येये कल्पे असंख्येयतरे विपुले अप्रमाणे यदासीत् तेन कालेन तेन समयेनाचिन्त्यप्रणिधानविशेषसमुद्गतराजो नाम तथागतो ऽहन् सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान् । स खलु पुनः कुमार अचिन्त्यप्रणिधानविशेषसमुद्गतराजस्तथागतो ऽर्हन् सम्यक्संबुद्धो यस्मिन्नेव दिवसे ऽनुत्तरां सम्यक्संबोधिमभिसंबुद्धस्तत्रैव दिवसे परिहते अप्रमेयानसंख्येयान् बुद्धनिर्मितान् निर्माय अपरिमाणानां च सत्त्वानां विनयं कृत्वा (वैद्य 224) आस्रवक्षयायार्हत्त्वे प्रतिष्ठाप्य अपरिमाणांश्च सत्त्वाननुत्तरायां सम्यक्संबोधावविनिवर्तनीयत्वे प्रतिष्ठाप्य तत्रैव दिवसे परिनिर्वृतो ऽभूत् । तस्य खलु पुनर्भगवतः परिनिर्वृतस्य चतुरशीतिः वर्षकोटीनयुतशतसहस्राणि सद्धर्मो ऽतिष्ठत् । तस्य च भगवतो ऽचिन्त्यप्रणिधानविशेषसमुद्गतराजस्य तथागतस्य शासनान्तर्धानकालसमये पश्चिमायां पञ्चशत्यां वर्तमानायां बहवो भिक्षवः प्रादुर्भूता उपलम्भदृष्टयः । तेषामेवंरूपाः सूत्रान्ता न रोचन्ते न चाधिमुच्यन्ते प्रतिबाधन्ते प्रतिक्षिपन्ति । ईदृशानां च सूत्रान्तधारकाणां भिक्षूणां पीडां कुर्वन्तो यावज्जीविताद् व्यवरोपणमकार्षुः । तैरभिसत्काराध्यवसितैरीदृशसुत्रान्तधारकाणां भिक्षुणां सहस्रं जीविताद् व्यवरोपितमभूत् । तेन च पुनः कुमार कालेन तेन समयेन राजाभूद् ज्ञानबलो नाम जम्बुद्वीपेश्वरः सद्धर्मपरिग्राहकः पूर्वप्रणिधानसंपन्नः । तेन खलु पुनः कुमार कालेन तेन समयेन इह जम्बुद्वीपे एको

भिक्षुर्धर्मभाणको ऽभूत् तस्य समाधेर्धारको भूतमतिर्नाम्ना तस्य राज्ञः कुलप्रवेशकः कल्याणमित्रो हितैषी अनुकम्पकः अर्थकामः । स चास्य राजा अतृप्तो दर्शनेनाभीक्ष्णप्रतिकाङ्क्षी चाभूद्दर्शनेन धर्मसंकथनोपसंक्रमणपर्युपासनपरिपृच्छाग्रहणधारणवाचनविज्ञापनसमर्थः । स खलु पुनर्धर्मभाणको भिक्षुः सत्त्वानामीर्याचर्याधिमुक्तिधातुवासनाकुशलो ऽभूत् । सत्त्वानामिन्द्रियबलवीर्यविमात्रताज्ञानधातुवासनाकुशलः सत्यसंधिकुशलः विसंधिप्रतिवचनकुशलः अर्थविनिश्चयकुशलः गम्भीरप्रतिभानः सत्त्वानां विनयविधिज्ञः पूर्वाभिलापी स्मितमुखः अपगतभ्रूकुटिमुखो महद्गतचित्तविहारी महाकरूणाभियुक्तः अनभिभूतः सर्वपरप्रवादिभिः । तेन च कुमार कालेन तेन च समयेन राज्ञो ज्ञानबलस्य दुहिता दारिकाभूत् षोडशवर्षा जात्या अभिरूपा प्रासादिका दर्शनीया परमया शुभवर्णपुष्कलतया समन्वागता ज्ञानावती नाम । तस्याः स भूतमतिर्भिक्षुराचार्यो ऽभूत् कुशलेषु धर्मेषु संदर्शकः समुत्तेजकः संप्रहर्षकः समादापकः । तेन च कुमार कालेन तेन समयेन तस्य धर्मभाणकस्य भिक्षोर्महाकृष्णवैसर्पः ऊरौ प्रादुरभूत् दुश्चिकित्स्यो दुर्लभभैषज्यः । स वैद्येः ग्लानः प्रतिक्षिप्तो ऽभूत् ॥

अथ खलु राजा सान्तपुरः सपुत्रः सदुहितृपरिवारः तं भिक्षुं ग्लानं विदित्वा प्रारोदीदश्रूणि प्रवर्तयति स्म सार्धमशीत्या स्त्रीसहस्रैः सार्धं पौरैर्नागरैः सार्धं राष्ट्रेण नैगमजानपदैर्गणकमहामात्रैः सार्धममात्यदौवारिकपारिषद्यैः । ते सर्वे तं भिक्षुं ग्लानं विदित्वा प्ररोदन्तः अश्रणि प्रवर्तयामासुः - मा खल्वयं भिक्षुः कालं कुर्यादिति । तेन च कुमार कालेन तेन समयेन राज्ञो ज्ञानबलस्यान्यतरा देवता पुराणसालोहिताभूदनुबद्धा । सा तस्य राज्ञः स्वप्नान्तर्गतस्यापदर्शयति स्म - सचेत् महाराज एतस्य भिक्षोर्नवकेनासंक्लिष्टेन मानुष्येण रुधिरेणैष कृष्णवैसर्प आलिप्येत, नवकं चासंक्लिष्टं मानुषं मासं नानारससंप्रयुक्तं भोजनं दीयेत, एवमेष भिक्षुरस्मादाबाधाद् व्युत्तिष्ठेत । अथ खलु राजा ज्ञानबलस्तस्या रात्र्या अत्ययेन ततः स्वप्नान्तरात् प्रतिविबुद्धो ऽन्तःपुरमध्यगतः इमां स्वप्नप्रकृतिमन्तःपुरायारोचयामास - एवंरूपः स्वप्नो मया दृष्टः । इति हि कुमार ततः स्त्र्यागारात्ततश्च राजकुलान्न काचित् स्त्री उत्सहते तस्य (वैद्य 225) भिक्षोस्तद्भैषज्यं दातुम् । ज्ञानावत्यपि राजदुहिता इममीदृशमेव स्वप्नमद्राक्षीत् । दृष्ट्वा च पुनः प्रतिविबुद्धा अन्तःपुरमध्ये इमामेव स्वप्नप्रकृतिं मातॄणां परिवारस्य चारोचयति स्म । न च काचिदुत्सहते स्त्री तस्य भिक्षोरेतद् भैषज्यं दातुम् ॥

अथ खलु ज्ञानवती राजदुहिता तुष्टा उदग्रा आत्तमनस्का प्रमुदिता प्रीतिसौमनस्यजाता एवं व्यवसायमकार्षीत् - यन्न्वहमेतद् भैषज्यं स्वकाच्छरीराद् यथोपदिष्टं नवं रुधिरं नवं च मांसं दद्याम् । अहमेवेह राजकुले सर्वदहरा च सर्वतरुणी च असंक्लिष्टकायवाङ्भनस्कर्मा च । असंक्लिष्टं ज्ञानमेषामि असंक्लिष्टस्य धर्मभाणकस्य स्वशरीराद रुधिरं च मांसं चोपनामयिष्यामि । अप्येव नामैष भिक्षुरस्मादाबाधाद् व्युत्तिष्ठेत । अथ खलु सा ज्ञानवती राजदुहिता स्वकमावासं गत्वा तीक्ष्णं शस्त्रं गृहीत्वा धर्मान्तर्गतेन मानसेन स्वकमूरुमांसं छित्त्वा नानारससंप्रयुक्तं प्रणीतमभिसंस्कृत्य लोहितं च प्रगृह्य तं चाचार्यं प्रवेश्य राज्ञो ज्ञानबलस्य पुरतो निषद्य लोहितेन तं विसर्पमालेपयित्वा तेन च स्वभिसंस्कृतेन भोजनेन संतर्पयति । अथ खलु स भिक्षुरजानन्नपरिबुध्यमानः अपरिशङ्कमानस्तद्भक्तं परिभुक्तवान् । समनन्तरपरिभुक्ते च तस्मिन्नाहारे तस्य भिक्षोः सर्वास्ता वेदना प्रतिप्रस्रब्धाः, सर्वश्च व्याधिरपगतः । तेन विगतपरिदाहेन सर्वसुखसमर्पितेन तथा धर्मो देशितो यथा ततो ऽन्तःपुरात्ततश्च नगरजनपदराष्ट्रसंनिपाताद् द्वादशानां प्राणिसहस्राणामनुत्तरायां सम्यक्संबोधौ चित्तान्युत्पन्नानि ॥

अथ खलु राजा ज्ञानबलः स्वकां दुहितरं गाथाभिरध्यभाषत -

कुतस्त्वया शोणितु लब्धु दारिके कुतो इदं आहृतु मांस मानुषम् / आहारु यः साधितु ते ऽद्य धीते येनो सुखीयं कृतु धर्मभाणकः // srs_34.1 //

हतो ह्ययं वाथ मृतो ऽथ लब्धो यत् साधितं नानरसेहि व्यञ्जनम् / कुतश्च ते शोणितु लब्धु दारिके येनो अयं मोचितु व्याधि पापकः // srs_34.2 //

पितुः श्रुणित्वा वचनं च दारिका ज्ञानावती तस्य इदं ब्रवीति / अलीनचित्ता च गिरं प्रभाषते शृणुष्व ताता यदहं ब्रवीमि ते // srs_34.3 //

दृष्टस्तात मया स्वप्नो देवताया निदर्शितः / शृणुष्व मे भूमिपते भूतमर्थं विजानथ // srs_34.4 //

(वैद्य 226) सा देवता ममाविचन्मानुषं मांसशोणितम् / यो दद्यादस्य भिक्षुस्य व्याधेर्मुच्येत् स पापकात् // srs_34.5 //

मया चोत्थाय शय्यातः प्रविश्यान्तःपुरं नृप / स्वप्नस्तदायमाख्यातो ज्येष्ठिकानां हि मातृणाम् // srs_34.6 //

चेटिकानां मयाख्यातं का शक्ता कर्तुमीदृशम् / मानुषं शोणितं मांसं रससिद्धं सुसंस्कृतम् // srs_34.7 //

भोजनं च प्रदातव्यं शोणितेन च लेपनम् / कृष्णवैसर्पतो एष कथं भिक्षुर्विमुच्यते // srs_34.8 //

यदि क्रिया न क्रियते क्षिप्रमेतेन व्याधिना / कालं कुर्यादयं भिक्षुर्भैषज्येन विनेति वा // srs_34.9 //

त्रिभवे को न सत्त्वस्त्याजयेत् स्वमांसशोणितम् / इमं दृष्ट्वा न को विद्वान् कुर्यात् कायस्मि निश्रयम् // srs_34.10 //

अन्तःपुरस्यो प्रतिवेदयाम्यहं न एक नारीपि भणाति दास्ये / प्रियश्च मे भिक्षुः प्रियश्च आत्मा बोध्यर्थु त्यक्तं मय मांसशोणितम् // srs_34.11 //

तेषां न कायेस्मि च भक्ति निश्रिता प्रेमापि नैवात्मनि चाणुमात्रम् / त्यक्त्वापि चात्मानु न भोति दुर्मनाः ये बोधि प्रार्थेन्ति शिवामशोकाम् // srs_34.12 //

अन्तःपुरं ततः श्रुत्वा सर्वं तद्विस्मितं अभूत् / न चात्रोत्सहते काचिदेनां योजयितुं क्रियाम् // srs_34.13 //

ततो मे नामितं चित्तं भिक्षोर्दास्यामि भोजनम् / स्वानि मांसान्यहं छित्त्वा शोणितेन च लेपनम् // srs_34.14 //

स्वकमूरुं मया छित्त्वा गृहीतं मांसशोणितम् / मांसपेशी मया पक्वा नानारससुसंस्कृता // srs_34.15 //

भिक्षोस्तस्यातुरस्याहं दास्यामि पितुरग्रतः / भोजनं मानुषं मांसं शोणितेन च लेपनम् // srs_34.16 //

शृणोहि मह्यं वचनं नराधिपा मनुष्यमांसस्मि अविद्यमाने / (वैद्य 227) छित्त्वा स्वमांसानि मयोरुतो नृपा साधेत्व दत्तानिम धर्मभाणके // srs_34.17 //

एषो मयानुत्तरबोधि अर्थे स्वकात्त कायात्त कृतो महार्थः / भिक्षुश्च मुक्तः कृतु निर्विकारो मया च पुण्यं कृतमप्रमेयम् // srs_34.18 //

राजाप्यवोचद्दुहितां कथं ते छिद्यन्ति कायात्तु स्वकात्तु मांसे / भैषज्ययोगे क्रियमाणि दारिके मा ते अभूद् दुःख शरीरवेदना // srs_34.19 //

स राजधीता मतिमान् विशारदा तमालपी राज शृणु नराधिपा / श्रुत्वा च तत्र प्रतिपद्य योनिशो अचिन्तियः कर्मविपाकु तादृशः // srs_34.20 //

पापेन कर्मेण कृतेन ताता निरये ऽपि सत्त्वा प्रपचन्ति दारुणे / निर्मांस भूत्वा च समांस भोन्ति पश्येतु कर्माण फलं अचिन्तियम् // srs_34.21 //

पापेन कर्मेण निर्मांसशोणिताः क्षणेन चो भोन्ति समांसशोणिताः / किं वा पुना तत् कुशलेन कर्मणा अधिमुक्तितो जायति मांसशोणितम् // srs_34.22 //

छिद्यन्ति मांसे न ममासि वेदना आहारि मे शोणितु नास्ति इञ्जना / न धर्मकायस्य व्रणो न छिद्रं यदि सर्वु छिद्येयु मम स्वमांसम् // srs_34.23 //

प्रीतिं मया धर्मि परां जनित्वा छित्त्वा प्रदत्तं स्वकमूरुमांसम् / न चो ममा तात व्रणेन दुःखं जानामि कायो यथपूर्वमासीत् // srs_34.24 //

(वैद्य 228) औदुम्बरं पुष्पु यथैव ताता बहुकल्पकोटीषु कदाचि दृश्यते / एमेव एतादृश धर्मभाणको कदाचि दृश्यन्तिह जम्बुद्वीपे // srs_34.25 //

यथैव जाम्बूनद निष्कु भासते पश्यन्त सत्त्वा न वितृप्तिमेन्ति / एमेव एतादृश धर्मभाणकान् दृष्ट्वा न तृप्यन्तिह देवमानुषाः // srs_34.26 //

पीत्वा यथाच्छं सलिलं जनस्य तृषाभिभूतस्य तृषा विगच्छति / एमेव एते विदु धर्मभाणका धर्मामृतैस्तृष्ण विनेन्ति प्राणिनाम् // srs_34.27 //

सुत्यक्तमेतन्मय मांसशोणितं यद्दत्तु भिक्षुस्य गिलानकस्य / विसर्पु शान्तश्च स धर्मभाणके कृतं मया गौरवु बुद्धवर्णितम् // srs_34.28 //

चारित्रवन्तस्य बहुश्रुतस्य इमं समाधीवरधारकस्य / यन्मे तु त्यक्तं स्वकमात्ममांसमेतेष धर्माण भवेय्य लाभिनी // srs_34.29 //

यथैव गन्धः सुरभी मनोरमः कालानुसारी शुभ चन्दनस्य / प्रवाति गन्धो दशसु दिशासु एमेव गन्धोपम धर्मभाणकाः // srs_34.30 //

यथैव मेरुर्दिशतासु दृश्यते समन्तप्रासादिकु दर्शनीयः / अवभासयन्तो दिशतासु रोचते तथैव मेरूपम धर्मभाणकाः // srs_34.31 //

यथैव स्तूपं पतमानु कश्चिद् व्युत्थापयेत् संस्करि पण्डितो नरः / यस्तत्र स्तूपे ऽपि प्रसादु कुर्याद् व्युत्थापितो येन स तस्य हेतुः // srs_34.32 //

(वैद्य 229) एमेवयं धर्मस्तूपो गिलानको विमोचितो लोहितलेपनेन / स्वकेन मांसेन च धर्मगौरवाद् दीपो मया दीपितु जम्बुद्वीपे // srs_34.33 //

एषो ऽकरिष्यद् यदि भिक्षु कालं समाधिशब्दो ऽपिह जम्बुद्वीपे / निरुद्धु सत्त्वान सदाभविष्यत् चिकित्सिते ऽस्मिन् स समाधि लब्धः // srs_34.34 //

सर्वस्य लोकस्य परित्राणु भिक्षुरन्धस्य लोकस्य च चक्षुदायकः / रागस्य दोषस्य मोहस्य चैव चिकित्सको ऽयं मम वैद्यराजः // srs_34.35 //

महद्गते चित्ति सदा प्रतिष्ठितः प्रमाणु चर्याय न तस्य लभ्यते / सुविनिश्चितार्थेषु पदेषु शिक्षितो अनाभिभूतश्च परप्रवादिभिः // srs_34.36 //

न मह्य भूयो विनिपाततो भयं स्त्रीत्वं पुनर्मे न च भूयु भेष्यति / सहस्रकल्पान च कोटियो भुयो कृत्वा परं गौरवु धर्मभाणके // srs_34.37 //

यो बुद्धक्षेत्रान् यथ गङ्गवालिकाः रतनान पूर्णान् ददि नायकानाम् / यश्चैव पादाङ्गुलिमेक दद्यादिदं ततः पुण्यु विशिष्यते परम् // srs_34.38 //

सा दारिका कालमितश्च कृत्वा अद्राक्षि बुद्धान सहस्रकोट्यः / सर्वेष चो शासनि प्रव्रजित्वा इमं वरं शान्तु समाधि देशयी // srs_34.39 //

सर्वेष तेषां द्विपदोत्तमानां परिनिर्वृतानां चरमिस्मि काले / (वैद्य 230) प्रव्रज्यलाभिन्यभु नित्यकालमसंकिलिष्टाः सुगतान पुत्रकाः // srs_34.40 //

दीपप्रभस्याथ तथागतस्य चरित्व सा शासनि ब्रह्मचर्यम् / स्त्रीभावु तस्मिन् विनिवर्तयित्वा अभूषि भिक्षुस्तद धर्मभाणकः // srs_34.41 //

मैत्रेय ज्ञानंबलु सो नरेन्द्रः सद्धर्मपरिग्राहकु नित्यकालम् / दीपंकरो ऽसौ अभूद्धर्मभाणको अहं च आसं तद राजधीता // srs_34.42 //

स्वकेन मांसेन च शोणितेन चो उपस्थितो मे तद धर्मभाणकः / शाठ्यं च सर्वं परिवर्जयित्वा इमं समाधिं प्रतिकाङ्क्षता तदा // srs_34.43 //

येभी तदा रोदितु भिक्षु दृष्ट्वा गिलानकं पीडितु वेदनाभिः / अविवर्तिकास्ते सद सर्वि भूवन् न जातु याता विनिपातभूमिम् // srs_34.44 //

नाभूषि तेषां सद अक्षिरोगो न शीर्षरोगो न च कर्णरोगः / न घ्राणरोगो न च जिह्वरोगो न च दन्तशूलं न कदाचिदासीत् // srs_34.45 //

समन्तप्रासादिकु भोन्ति नित्यं शिरीय तेजेन ज्वलन्तकायाः / द्वात्रिंशकेतुशतपुण्यलक्षणा उपस्थितो यैस्तद भिक्षु ग्लानकः // srs_34.46 //

(वैद्य 231) मह्यं च ते शासनि प्रव्रजित्वा प्रलुज्यमानानिमु बुद्धबोधिम् / धारित्व ते गञ्जु तथागतानां द्रक्ष्यन्ति बुद्धान सहस्रकोटियो // srs_34.47 //

सुसंगृहीत्वानिम बुद्धबोधिं धारेत्व नित्यं च हि गौरवेण / ते अर्थु कृत्वा विपुलं प्रजानां द्रक्ष्यन्ति अक्षोभ्य नराणमुत्तमम् // srs_34.48 //

श्रुत्वा च ते चर्य निरुत्तरामिमां लप्स्यन्ति प्रीतिं चरियां निरामिषाम् / श्रुत्वा च ते आत्मन पूर्वचर्यां काहिन्ति बुद्धान उदारपूजाम् // srs_34.49 //

दृष्टा च भिक्षून् विदु शीलवन्तो निःशाठियेनो सद सेवितव्याः / अखिलं च दोषं च विवर्जयित्वा सेवेत भिक्षुं तद धर्मभाणकाः // srs_34.50 //

आघातु क्रोधं च विवर्जयित्वा पूजेथ पुत्रान् मम धर्मशासने / मा अन्धभूता बहुकल्पकोटियो विनिपातप्राप्ताश्च भवेत दुःखिताः // srs_34.51 //

न शीलु त्रायेत श्रतं च तस्य न ध्यानु त्रायेन्न अरण्यवासः / तदा नु त्रायेन्न च बुद्धपूजा व्यापादु कृत्वान परस्परेण // srs_34.52 // इति श्रीसमाधिराजे ज्ञानावतीपरिवर्तश्चतुस्त्रिंशतितमः ॥ 34 ॥ (वैद्य 232) 35 सुपुष्पचन्द्रपरिवर्तः ।

अथ खल्वायुष्मानानन्द उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमेतदवोचत् - पृच्छेयमहं भगवन्तं तथागतमर्हन्तं सम्यक्संबुद्धं कंचिदेव प्रदेशं सचेन्मे भगवानवकाशं कुर्यात् प्रष्टव्यप्रश्नव्याकरणाय । एवमुक्ते भगवानायुष्मन्तमानन्दमेतदवोचत् - तेन ह्यानन्द स्वके आसने निषद्य पृच्छ त्वं तथागतमर्हन्तं सम्यक्संबुद्धं यद् यदेवाकाङ्क्षसि, अहं ते तस्य तस्य प्रश्नस्य व्याकरणेन चित्तमाराधयिष्ये । एवमुक्ते आयुष्मानानन्दो भगवन्तमेतदवोचत् - कृतावकाशो ऽस्मि भगवन्, कृतावकाशो ऽस्मि सुगत प्रश्नव्याकरणाय । अथ खल्वायुष्मानानन्दो भगवतः पुरतः आसने निषद्य भगवन्तमेतदवोचत् - को नु भगवन् हेतुः कः प्रत्ययो यदिह एकत्या बोधिसत्त्वा बोधिसत्त्वचारिकां चरमाणा हस्तच्छेदान् पादच्छेदान् कर्णच्छेदानक्ष्युत्पाटनानि अङ्गोत्तमाङ्गच्छेदान् निगच्छन्ति प्रत्यङ्गच्छेदांश्च? विविधानि दुःखानि प्रत्यनुभवन्ति? नो च हीयन्ते?न च परिक्षीयन्ते ऽनुत्तरायाः सम्यक्संबोधेः? एवमुक्ते भगवानायुष्मन्तमानन्दमेतदवोचत् - सचेत् त्वमानन्द जानीया यानि मे दुःखानि प्रत्यनुभूतानि इमामनुत्तरां सम्यक्संबोधिं समुदानयितुम्, एतदपि ते च प्रतिभायात् । किं पुनर्यत्तथागतं परिप्रष्टव्यं मन्यथाः । तद् यथापि नाम आनन्द इह काश्चिदेव पुरुषः अधस्तात् पादतलमुपादाय यावन्मूर्धकादादीप्तो भवेत् प्रज्वलितः एकज्वालीभूतः, तं कश्चिदेव पुरुष उपसंक्रम्य एवं वदेत् - एहि त्वं भोः पुरुष अनिर्वापितेनात्मभावेन पञ्चभिः कामगुणैः समर्पितः

समन्वङ्गीभूतः क्रीडस्व रमस्व परिचारयस्वेति । तत् किं मन्यसे आनन्द अपि तु स पुरुषः अनिर्वापितेनात्मभावेन पञ्चभिः कामगुणैः समर्पितः समन्वङ्गीभूतः क्रीडेत रमेत परिचारयेत? आनन्द आह - नो हीदं भगवन् । भगवानाह - क्रीडेतानन्द स पुरुषो रमेत परिचारयेत परिकल्पमुपादायानिर्वापितेनात्मभावेन पञ्चभिः कामगुणैः समर्पितः समन्वङ्गीभूतः । न त्वेव तथागतस्य पूर्वं बोधिसत्त्वचारिकां चरमाणस्य सत्त्वांस्त्रिभिरुपायैर्दुःखितान् दृष्ट्वा दरिद्रान्नाभूत् सुखं वा सौमनस्यं वा चित्तप्रहर्षो वा । ये आनन्द बोधिसत्त्वा महासत्त्वाः पूर्वं बोधिसत्त्वचारिकां चरमाणा अखण्डशीला भवन्ति अछिद्रशीलाः अकल्माषशीला अशबलशीलाः अपरामृष्टशीलाः अचलितशीलाः, अलुलितशीला अकोप्यशीलाः, नोत्तानशीलाः,न परदर्शनशीलाः न विसंवादशीलाः, ऋजुशीलाः यथाप्रतिज्ञाशीलाः सत्त्वानुग्रहशीलाः । एवंरूपेण शीलेन समन्वागता भवन्ति, ते आनन्द बोधिसत्त्वा महासत्त्वा अनन्तां बोधिसत्त्वचारिकां चरमाणा न हस्तच्छेदेन परिहाणिं निगच्छन्ति । न पादच्छेदेन परिहाणिं निगच्छन्ति । न कर्णनासाच्छेदेन परिहाणिं निगच्छन्ति । (वैद्य 233) न नेत्रोत्पाटनशीर्षच्छेदेन परिहाणिं निगच्छन्ति । नाङ्गप्रत्यङ्गच्छेदेन परिहाणिं निगच्छन्ति । न च विविधानि दुःखानि प्रत्यनुभवन्ति । क्षिप्रं चानुत्तरां सम्यक्संबोधिमभिसंबुध्यन्ते ॥

भूतपूर्वमानन्द अतीते ऽध्वन्यसंख्येयकल्पैरसंख्येयतरैर्विपुलैरप्रमाणैरचिन्त्यैरतुल्यैरमाप्यैरपरिमाणैर्यदासीत् । तेन कालेन तेन समयेन रत्नपद्मचन्द्रविशुद्धाभ्युद्गतराजो नाम तथागतो ऽर्हन् सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां च बुद्धो भगवान् । तेन खलु पुनरानन्द समयेन तस्य भगवतो रत्नपद्मचन्द्रविशुद्धाभ्युद्गतराज्ञस्तथागतस्यार्हतः सम्यक्संबुद्धस्य नवतिकल्पकोटीनियुतशतसहस्राण्यायुष्प्रमाणमभूत् । सर्वत्र च दिवसे नवतिकल्पकोटीसहस्राणि सत्त्वानामवैवर्तिकतायां बुद्धधर्मेषु प्रतिष्ठापयति स्म । तेन खलु पुनरानन्द समयेन तस्य भगवतो रत्नपद्मचन्द्रविशुद्धाभ्युद्गतराज्ञस्तथागतस्यार्हतः सम्यक्संबुद्धस्य परिनिर्वृतस्य चरमिकायां पञ्चाशति सद्धर्मान्तर्धानकालसमये सद्धर्मविप्रलोपे वर्तमाने इमे एवंरूपाः सूत्रान्ता बहुजनजुगुप्सिता बहुजनविवर्जिता बहुजनविरुद्धा महाजनोत्सृष्टाश्चाभूवन् । महाभयभैरवकाले वर्तमाने महोपद्रवे अतिवृष्टिकालसमये अनावृष्टिकालसमये वर्तमाने व्यालकालसमये वर्तमाने विद्युत्कान्तारकल्पसमये दुर्भिक्षकालसमये मिथ्यादृष्टिकालसमये असम्यग्दृष्टिकालसमये तीर्थिकमन्त्रपर्येष्टिकालसमये बुद्धबोधेः प्रलुज्यमानकालसमये वर्तमाने सप्त बोधिसत्त्वसहस्राणि ग्रामनगरनिगमरा राजधानीजनपदेभ्यो निर्वासितानि समन्तभद्रं नाम वनखण्डं तदुपनिश्रित्य विहरन्ति स्म सार्धं सुपुष्पचन्द्रेण धर्मभाणकेन, यस्तेषां भिक्षूणां धारणीधर्मपयाय देशयति स्म । स खलु पुना राजा

सुपुष्पचन्द्रो धर्मभाणक एको रहोगतः प्रतिसंलीनो दिव्येन चक्षुषा अतिक्रान्तमानुषेण पश्यति स्म - बह्वीर्बोधिसत्त्वकोटिरवरुप्तकुशलमूला अन्योन्येभ्यो बुद्धक्षेत्रेभ्यः इहोपपन्नाः । सचेत्ते लभेरन् धारणीधर्मपर्यायश्रवणाय, न निवर्तेरन्ननुत्तरायाः सम्यक्संबोधेः । अथ न लभेरन् धारणीधर्मपर्यायश्रवणाय, विवर्तेरन्ननुत्तरायाः सम्यक्संबोधेः । अथ खलु सुपुष्पचन्द्रो धर्मभाणकः स्मृतः संप्रजानंस्ततः समाधेर्व्युत्थाय येनासौ महान् बोधिसत्त्वगणस्तेनोपसंक्रान्तः उपसंक्रम्य तं महान्तं बोधिसत्त्वगणमेतदवोचत् - गमिष्यामः कुलपुत्राः । ग्रामनगरनिगमराष्टराजधानीरवतरित्वा सत्त्वेभ्यो धर्मं देशयिष्यामः । अथ खलु स महान् बोधिसत्त्वगणः सुपुष्पचन्द्रं धर्मभाणकमेतदवोचत् - नास्माकमभिप्रेतं यदायुष्मानितो वनषण्डाद् ग्रामनगरनिगमराष्ट्रराजधानीरवतरेत् । तत्कस्य हेतोः? बह्वयो ऽभिमानिका भिक्षुभिक्षुण्युपासकोपासिकाः। सद्धर्मप्रतिक्षेपकालश्च वर्तते । तमायुष्मन्तं जीविताद्वयवरोपयिष्यन्ति । आयुष्मांश्चातीव प्रासादिको ऽभिरूपो दर्शनीयः प्रथमयौवनसमन्वागतो भद्रके वयसि वर्तते । स धौतकाञ्चनहाटकच्छविः (वैद्य 234) शङ्खकुन्देन्दुवर्णयोर्णया प्रतिमण्डितो ऽपि शोभितललाटो नीलकुञ्चितकेशोणीषश्च । मा ते राजपुत्रा वा अन्ये वा तत्प्रतिमा ईर्ष्यामात्सर्योपहचेतसो जीविताद्वयवरोपयिष्यन्ति । अथ खलु सुपुष्पचन्द्रो धर्मभाणकस्तं बोधिसत्त्वगणमेतदवोचत् - सचेन्मे आत्मा आरक्ष्यो भवेत्, न मया अतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां शासने आरक्षा कृता भवेत् । तस्यां च वेलायामिमा गाथा

अभाषत -

न आत्मसंज्ञाय वसित्व जातु शक्यं इहा शासनि रक्ष कुर्वणा / महाविताना सुगतान बोधिः प्रकाशना पश्चिमि कालि दारुणे // srs_35.1 //

यो आत्मसंज्ञा प्रजहित्व सर्वशः सत्त्वानिमान् पुद्गलवादनिश्रितान् / रूपाणि शब्दांश्च रसांश्च गन्धान् स्प्रष्टव्यु वर्जेति स रक्षि शासनम् // srs_35.2 //

बुद्धान कोटीनयुतान्युपस्थिहेदन्नेन पानेन प्रसन्नचित्तः / छत्रैः पताकाभि दीपक्रियाभिः कल्पान कोटी यथ गङ्गवालिकाः // srs_35.3 //

यश्चैव सद्धर्म प्रलुज्यमाने निरुध्यमाने सुगतान शासने / रात्रिंदिवं एक चरेय्य शिष्यान् इदं ततः पुण्यु विशिष्टु भोति // srs_35.4 //

ये दानि तेषां पुरुषर्षभाणां सद्धर्मि लुज्यन्ति उपेक्षि भावयी / न तैर्जिना सत्कृत भोन्ति केचित् न चो कृतं गौरवु नायकेषु // srs_35.5 //

युष्मे भोथ सुखी स्वकार्थु कुरुथा गोपायथा आत्मनं युष्मे भोथ इहाप्रमत्त विनये मैत्रीविहारी सदा / शीलं रक्षथ उज्ज्वलं अशबलं शुद्धं शुचि निर्मलं येही रक्षितु शीलु भोति अमलं बुद्धेभि संवर्णितम् // srs_35.6 //

(वैद्य 235) येही सत्कृतु भोन्ति सर्वि सुगता यावन्त पूर्वे अभूत् तेहि त्रायितु भोन्ति सर्वजनता या बोधिसंप्रस्थिता / तेही उद्धरिताः भवन्ति नरका सत्त्वा बहू पापकाः येही रक्षितु भोन्ति शीलु अमलं बुद्धैः प्रशस्तं पुरा // srs_35.7 //

दानं देथ विशिष्ट धर्मरतनं क्षान्तिं सदा रक्षथारण्यं चाश्रयथा समाधिकुशला भावेथ चो मार्दवम् / मा चो विग्रह सर्वथा विचरथा शिष्टां शिवां चारिकां गच्छामो वयु राजधानि नगरं सत्त्वान त्राणार्थिकाः // srs_35.8 //

तस्मिन्नोतरती महामतिधरे सत्त्वाग्रसारे ऋषौ वर्तेन्ती इमि अश्रुकाः सुकरुणं पादेहि अन्ये पती / मा ही ओतरही महामति विदु प्रेक्ष वने पादपान् मञ्जुगन्ध मनोरमान् सुरुचिरानात्मान त्राणात्मकः // srs_35.9 //

ते ऽपी पूर्व विनायका दशबलाः शान्तेन्द्रियाः सूरताः गत्वा काननि शैलशृङ्गशिखरे बोधाधिगम्यां वराम् / श्रेष्ठां चारिक बोधिहेतु चरितास्ते पुण्यज्ञानां वराः तेषां शिक्षिहि कानने निवसतो मा गच्छ त्वं सुव्रत // srs_35.10 //

गात्रं चित्रितु लक्षणैः सुरुचिरैः केशाश्च नीलास्तवा वर्णः काञ्चनसंनिभप्रभकरो ओभासते मेदिनीम् / ऊर्णा ते भ्रमुखान्तरे सुरुचिरा शङ्खनिकाशप्रभा मा ते ईर्ष्यु जनित्व कायु विकिरी राजानुराजे तथा // srs_35.11 //

अथ खल्वानन्द सुपुष्पचन्द्रो धर्मभाणकस्तं बोधिसत्त्वगणं गाथयाभ्यभाषत -

यावन्तः परिमेण आसि सुगताः सर्वज्ञ क्षीणास्रवाः सर्वे ते ऽथ करिंसु लोकि त्रिभवे बोधाधिगम्यां वराम् / श्रेष्ठां चारिक बोधिहेतु चरितास्ते पुण्यज्ञानां वराः तेषां शिक्षय बोधिसत्व नियुता सत्त्वान त्राणार्थिकः // srs_35.12 //

सर्वे कृत्व प्रदक्षिणं ऋषिविदुं पादानि वन्दित्वना घोरं आश्वसतो स्वनन्ति करुणं क्रन्दन्त आर्तस्वरम् / अन्ये छिन्न प्रपात मेदिनि पती मूर्च्छित्व सालो यथा नो चा ते परिवर्ति पुण्यनिचितः सत्त्वार्थकामो ऋषिः // srs_35.13 //

पात्रं चीवरु गृह्य प्रस्थितु ऋषी सिंहो यथा केसरी नो चास्यो गुणदोष तत्र अकरी धर्मस्वभावे स्थितः / (वैद्य 236) घने काननि अस्मि लोकि वसतः सत्त्वा अपाये पति सो ऽभूत्तं नगरं गमी पुरवरं सत्त्वानं त्राणार्थिकः // srs_35.14 //

अथ खलु सुपुष्पचन्द्रो धर्मभाणको ग्रामनगरनिगमराष्टराजधानीरवतरित्वा सत्त्वानां धर्मं देशयति स्म । तेन पूर्वाह्णे अवतरित्वा सत्त्वानां नवनवति प्राणिकोट्यः अवैवर्तिंकतायां स्थापिताः अनुत्तरायाः सम्यक्सःबोधौ । न च ताः रत्नावतीः राजधानीमनुप्राप्तः । सो ऽनुपूर्वेण ताः रत्नावतीः राजधानीमनुप्राप्तः । स तस्याः रत्नावत्याः राजधान्यामुपसःक्रमित्वा अन्यतरस्मिन् प्लक्षसालमूले व्यहार्षीत् । स तस्या रात्र्या अत्ययेन ताः रत्नावतीः राजधानीः प्राविशत् । प्रविश्य षटत्रिःशत्प्राणिकोटीरवैवर्तिकत्वे स्थापयति बुद्धधर्मेषु । न च तावद् भक्तकृत्यमकार्षीत् । स भक्तच्छेदच्छिन्नो रत्नावत्या राजधान्या निष्क्रम्य येन भगवतो नखस्तूपस्तेनोपसःक्रम्य आस्थितक एव रात्रिःदिवमतिनामयति स्म । स तस्या रात्र्या अत्ययेन द्वितीये प्राग्भक्ते रत्नावतीः राजधानीः प्रविश्य त्रयोविःशतिप्राणिकोटीरवैवर्तिकबुद्धधर्मेषु प्रतिष्ठापयति स्म । न च तावद् भक्तकृत्यमकार्षीत् । स द्वितीयभक्तच्छेदच्छिन्नो रत्नावत्या राजधान्या निष्क्रम्य येन भगवतो नखस्तूपस्तेनोपसःक्रम्य उत्थितक एव रात्रिःदिवमतिनामयति स्म । स तस्याः रात्र्यामतीतायाः त्रिरात्रभक्तच्छेदच्छिन्नो रत्नावतीः राजधानीः प्रविश्य नवनवतिप्राणिकोटीशतसहस्राण्यवैवर्तिकबुद्धधर्मेषु प्रतिष्ठापयति स्म । न च तावद् भक्तकृत्यमकार्षीत् । स त्रिरात्रभक्तच्छेदच्छिन्नो रत्नावत्या राजधान्या निष्क्रम्य येन भगवतो नखस्तूपस्तेनोपसःक्रम्य उत्थितक एव तृतीयः रात्रिःदिवमतिनामयति स्म । स तस्या रात्र्या अत्ययेन चतुर्थे प्राग्भक्ते रत्नावतीः राजधानीः प्रविश्य

नवनवतिप्राणिशतसहस्राण्यवैवर्तिकबुद्धधर्मेषु प्रतिष्ठापयति । स चतुर्दिवसभक्तच्छेदच्छिन्नो रत्नावत्या राजधान्या निष्क्रम्य येन भगवतो नखस्तूपस्तेनोपसःक्रम्य उत्थितक एव रात्रिःदिवमतिनामयति स्म । स तस्या रात्र्या अत्ययेन पञ्चमे दिवसे रत्नावतीः राजधानीः प्रविश्य राज्ञो ऽन्तःपुरः प्राविशत् । प्रविस्य चाशीतिः स्त्रीसहस्राण्यवैवर्तिकत्वे ऽनुत्तरायाः समक्सःबोधौ प्रतिष्ठापयति स्म । तस्माच्च नगरात् सर्वसत्त्वानवैवर्तिकतायाः स्थापयति बुद्धधर्मेषु । स तस्या रात्र्या अत्ययेन षष्ठे प्राग्भक्ते रत्नावतीः राजधानीः प्रविश्य सहस्रः राजपुत्राणामवैवर्तिकत्वे स्थापयति स्म अनुत्तरायाः सम्यक्सःबोधौ । न च तावद् भक्तस्य कृत्यः करोति स्म । स षष्ठे भक्तच्छेदच्छिन्नो रत्नावत्या राजधान्या निष्क्रम्य येन भगवतो नखस्तूपस्तेनोपसःक्रम्य रात्रिःदिवमतिनामयति स्म । स तस्य रात्र्या अत्ययेन सप्तमे पुरोभक्ते रत्नावतीः राजधानीः प्रविश्याद्राक्षीच्छूरदत्तः राजानमुद्यानमभिनिष्क्रमन्तः सुवर्णमयेन रथेन रूप्यमयैः पक्षभिरुरगसारचन्दनमय्या ईषया वैदूर्यमयैश्चक्रैः उच्छ्रितच्छत्रध्वजसमलःकृतेन ईषापट्टावनद्धेन दूष्यपट्टसःछादितेन (वैद्य 237) यत्राष्टौ शतानि कुमारीणाः रत्नसूत्रपरिगृहीतानाम्, यास्तः रथः वाहयन्ति अभिरूपाः प्रासादिका दर्शनीयाः परमया शुभ्रवर्णपुष्कलतया समन्वागताः प्रितिकार्ये औद्विल्यकार्ये बालानाः न पिण्डतानाम् । चतुरशीतिक्षत्रियमहाशालकुलसहस्राणि पृष्ठतः समनुबद्धान्यभूवन् । चतुरशीतिब्राह्मणमहाशालसहस्राणि चतुरशीतिगृहपतिमहाशालसहस्राणि पृष्ठतः पृष्ठतो

ऽनुबद्धान्यभूवन् । पञ्च च दुहितृशतानि रत्नमयीशिबिकाभिरूढाः पुरतो निर्यान्ति स्म । ताः सहदर्शनेनैव तस्य भिक्षोरवैवर्तिका अभूवन्ननुत्तरायाः सम्यक्सःबोधौ । अष्टःअःटिश्चान्तःपुरिकाशतसहस्राणि सहदर्शनेनैव तस्य भिक्ःउरवैवर्तिकान्यभूवन्ननुत्तरायाः सम्यक्सःबोधौ । स च महाजनकायो मणिकुण्डलान्यपनीय पादुकाश्चापनीय एकाःसः चीवरः प्रावृत्य दक्ःइणः जानुमण्डलः पृथिव्याः प्रतिःठाप्य येन स भिक्ःउस्तेनाञ्जलिः प्रणम्य नमस्यमानः स्थितो ऽभूत् । अथ खलु ता अपि कुमार्थः पूर्वकैः कुशलमूलैः सःचोदिताः समानास्ताभ्यः शिबिकाभ्यो ऽवतरित्वा एकाःसः चीवरः प्रावृत्य दक्ःइणः जानुमण्डलः पृथिव्याः प्रतिःठाप्य येन स भि स्तेनाञ्जाल प्रणम्य गाथाभिरध्यभाःअन्त -

अवभासितमद्यैवं रविणेव समन्ततः / भिक्षुणा प्रविशन्तेन जनकायश्च धिष्ठितः // srs_35.15 //

रागदोषाः समुच्छिन्ना मोहाश्च विधमीकृताः / क्रोधो दोषश्च ईर्ष्या च सर्वं छिन्नं तदन्तरम् // srs_35.16 //

न राजं प्रेक्षते कश्चिन्नं चैवमनुयात्यसौ / यो राज्ञः शूरदत्तस्य परिवारः सुतादिकः // srs_35.17 //

पूर्णमास्यां यथा चन्द्रो नक्षत्रपरिवारितः / एवं स शोभते भिक्षू राजपुत्रपुरस्कृतः // srs_35.18 //

स्वर्णबिम्बं यथा चित्रं कुशलेभिः सुचित्रितम् / पुष्पितः सालराजो वा एमेव भिक्षु शोभते // srs_35.19 //

शक्रश्च देवेन्द्र महानुभावः सहस्रनेत्राधिपतिः पुरंदरः / सुमेरुमूर्ध्नि त्रिदशान ईश्वरो एमेव भिक्षुः प्रविशतु शोभते ऽयम् // srs_35.20 //

ब्रह्मेव मन्ये प्रतिष्ठितु ब्रह्मलोके सुनिर्मितो वाधिपति देवपुत्रः / सुयामु देवो यथरिव कामधातौ एमेव भिक्षुः प्रविशतु शोभते ऽयम् // srs_35.21 //

(वैद्य 238) सूर्यो वा मन्ये प्रतपति अन्तरीक्षे सहस्ररश्मिर्विधमिय अन्धकारम् / ओभासयन्तो समु दिशता समन्ताद् एमेव भिक्षुः प्रविशतु शोभते ऽयम् // srs_35.22 //

दानं ददित्वा सुविपुल नन्तकल्पान् रक्षित्व शीलं अशबलु नित्यकालम् / भावेत्व क्षान्तिमसदृश सर्वलोके सो लक्षणेभिः परिवृतु एव शोभी // srs_35.23 //

जनयित्व वीर्यं अरियजनप्रशस्तं सेवित्व ध्याना चतुरि अलीनचित्तः / उत्पाद्य प्रज्ञां निहनिय क्लेशजालं तेनैष भिक्षुः प्रतपति सर्वलोके // srs_35.24 //

ये बुद्धवीरा असदृश सत्त्वसाराः समतीत शूरा विकिरिय धर्मश्रेष्ठान् / ये ऽनागते ऽध्वे तथरिव प्रत्युत्पन्ने तेनैष पुत्रो वशगानु धर्मराज्ञः // srs_35.25 //

मा ते अनित्यं भवतु कदाचि भिक्षो यद्रपतैवं प्रतपसि सर्वलोके / संपश्य तेजो सुरुचिर शब्दघोषो राजान तेजो न तपति सुष्ठु भूयः // srs_35.26 //

धर्मो यथायं अधिगतु आत्मना ते बुद्धानुज्ञातो विचरसि सर्वलोके / एमेव सर्वे विजहित इस्त्रिभावं सर्वे ऽपि यामो यथरिव एष भिक्षुः // srs_35.27 //

ते अञ्जलीयो दशनख कृत्व सर्वे भाषित्व गाथाः क्षिपिंसु पिलन्धनानि / सौवर्णमाला तथपि च मुक्तहारानवतंसकानि तथपि च कर्णनिष्कान् // srs_35.28 //

राजा वै यथ चक्रवर्ति बलवान् सर्वान् विपश्यी मही पुत्रसंज्ञ उपस्थपेति विचरन् द्वीपानि चत्वारिमे / (वैद्य 239) श्रेष्ठी क्षत्रिय ब्राह्मणां गृहपती ये कोट्टराजा स्वका नो तेषामतिरेकु स्नेह जनयी सर्वेषु प्रेमं समम् // srs_35.29 //

एवं शिक्षित धारणीवशगतो भिक्षू अयं सूरतो बोध्यङ्गा बल इन्द्रियान् बिभजति मार्गं च अष्टाङ्गिकम् / चन्द्रो वा यथ रात्रिये प्रतपति तारागणैर्मध्यगो सूर्यश्चो यथ मण्डलं प्रतपते वैरोचनस्तेजवान् // srs_35.30 //

सर्वान् बुद्धान्नमस्यामो दशबलान् शान्तेन्द्रियान् सूरतान् येषां वर्णनु कश्चिदुत्सहि नरो कल्पाशतैः क्षेपितुम् / कल्पा कोटिसहस्र भाषितु बहून् नो चेद् गुणा क्षेपितुं नो चो वर्ण क्षिपेय लोकप्रवरे एकस्य रोमस्य हि // srs_35.31 //

येनो चक्र प्रवर्तितं असदृशं ज्ञानोपदं देशितं निपुणं धर्म प्रभाषितस्य विरजं नो चास्य दृश्यं क्वचित् / श्रमणाब्राह्मणदेवानाग असुरौर्मारैः सब्रह्मादिभिर् नो शक्तो गुणआर्णवः प्रकथितुं बुद्धस्य सर्वज्ञिनः // srs_35.32 //

वन्दामो जिनवैद्यराजमसमं यस्येदृशा औरसाः भाषित्वा इमि गाथ सर्वि मुदिता राज्ञः कुमार्यस्तदा / स्वर्णं काञ्चनचूर्णकांश्च प्रकिरी चैलानि च प्रस्तरी चूडानां च मणीन् सहाररुचिरा कोटीशतामूलिका तं भिक्षुं अभिछादयित्व मुदिता बोधाय संप्रस्थिताः // srs_35.33 //

अथ खलु राज्ञः शूरदत्तस्यैतदभवत् - विप्रतिपन्नं बतेदमन्तःपुरं जनकायश्च व्युत्थितः । स च जनो मणिकुण्डलान्यपनीय एकांसं चीवरमावृत्य दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन स भिक्षुस्तेनाञ्जलिं प्रणम्य नमस्यति स्म । स च राजा शूरदत्तस्तावत् प्रासादिको ऽभूत् तावद्दर्शनीयो न च तावदभिरूपो यावदभिरूपः स भिक्षुः । स राज्यहेतोरुत्त्रस्तो ऽभूत् । रूपकायपरिनिष्पत्तिं च तस्य भिक्षोदृष्ट्वा अतीव रोषमकार्षीत् । तस्य च भिक्षो राजमार्गस्थस्य राज्ञश्चक्षुर्भ्यां प्रविष्टः । तस्यैतदभवत् - संरक्तचित्तेनैतेन भिक्षुणा ममान्तःपुरः दृष्टम् । अक्षिभ्यां चानेन संकेतः कृतः । तस्यैतदभवत् - क इदानीमिमं भिक्षुं जीविताद् व्यवरोपयिष्यतीति । अथ राज्ञः शूरदत्तस्यः पृष्ठतः पुत्रसहस्रमनुबद्धमभूत् । स तानामन्त्रयति स्म - व्यवरोपयध्वं कुमारा एतं भिक्षुं जीवितादिति ॥

(वैद्य 240) अथ खलु ते कुमारा राज्ञः शूरदत्तस्य प्रतिवहन्ति स्म तस्य भिक्षोः कृतशः । तस्यैतदभवत् - पुत्रा अपि मे आज्ञां न कुर्वन्ति । एक एवाहं स्थापितः अद्वितीयः । क इदानीमिमं भिक्षुं जीविताद्वयवरोपयिष्यति? अथ राज्ञः शूरदत्तस्य नन्दिको नाम वध्यघातको ऽभूत् चण्डः साहसिको रौद्रः । अथ राजा शूरदत्तस्तुष्ट उदग्रः आत्तमनाः एवं चिन्तयामास - अयं नन्दिक एतं भिक्षुं जीविताद्वयवरोपयिष्यति । अथ खलु नन्दिको वध्यघातको येन राजा शूरदत्तस्तेनोपसंक्रामत् । अथ खलु राजा शूरदत्तस्तमाह - शक्ष्यसि त्वं नन्दिक एतं भिक्षुं जीविताद्वयवरोपयितुम्? महान्तं ते ऽभिच्छादं दास्यामि । नन्दिक आह - सुष्ठु देव, यथाज्ञापयसि । अद्यैनं भिक्षुं जीविताद्वयवरोपयिष्यामि । तेन हि नन्दिक यस्येदानीं कालं मन्यसे । तीक्ष्णमसिं गृहीत्वा एतं भिक्षोर्हस्तपादं छिन्द । कर्णनासां छिन्द । अनेन मे संरक्तचित्तेनान्तःपुरं प्रेक्षितम् । अतो ऽस्य संदंशेनाक्षिणी उत्पाटय । अथ नन्दिकेन वध्यघातकेन तस्यामेन वेलायां तीक्ष्णमसिं गृहीत्वा भिक्षोहस्तपादाश्छिन्ना अक्षिणी चोत्पाटिते । ततो ऽसौ महान् जनकायो रुदन् क्रन्दन् परिदेवमानः पुनरपि रत्नावतीं राजधानीं प्रविष्टः ॥

अथ खलु राजा शूरदत्तः सप्ताहस्यात्ययादुद्यानगतो न रमते न क्रीडति न परिचारयति । स उद्यानान्निवृत्तः सप्ताहस्यात्ययेन रत्नावतीं राजधानीं प्राविशत् । सो ऽद्राक्षीत्तं भिक्षुं राजमार्गे छोरितं सप्ताहमृतकं अविवर्णशरीरम् । तस्यैतदभूत् - यथायं भिक्षुरविवर्णशरीरः, निःसंशयमेष भिक्षुरवैवर्तिको भविष्यत्यनुत्तरायां सम्यक्संबोधौ । पापं मया कर्म कृतं महानगरकसंवर्तनीयम् । क्षिप्रमेव मया महानिरये प्रतिपत्तव्यं भविष्यति । तस्यैवं चिन्तयतः उपर्यन्तरीक्षे चतुरशीतिभिर्देवपुत्रसहस्रैरेकरुतस्वरघोषशब्दमुदीरितम् - एवमेतन्महाराज यथा वदसि । अवैवर्तिक एष भिक्षुरनुत्तर्ःय्ःं सम्यक्संबोधौ । तस्य त्ःवद् भूयस्य्ः म्ःत्रय्ः भयं च त्र्ःसं च स्तम्भितत्वं च रोमहर्षश्चोत्पन्नो विप्रतिस्ःरश्च्ःभूत् । अथ र्ःज्ः शूरदत्तो दुःखितो दुर्मन्ः विप्रतिस्ःरी तस्य्ःं वेल्ःय्ःमिम्ः ग्ःथ्ः अभ्ःषत -

राज्यं त्यजिष्ये तथपि च राजधानीं हिरण्य सुवर्णं तथ मणिमुक्त रत्नान् / घातेयमात्मा स्वय शस्त्र गृह्य निहीनकर्मास्मिह बालबुद्धिः // srs_35.34 //

सुपुष्पचन्द्रो ऽयमिह भिक्षुरासीद् द्वात्रिंशता कवचितु लक्षणेभिः / ओभासयन्तो प्रविशति राजधानीं नक्षत्रराजो यथरिव पूर्णमास्याम् // srs_35.35 //

(वैद्य 241) अहं च हीनः प्रलुलितु कामभोगे नारीगणेना प्रमुदितु निष्क्रमामि / रथाभिरूढः परिवृतु क्षत्रियेभिः अयं च एती सुरभि सुनेत्र भिक्षुः // srs_35.36 //

तं दृष्ट्व भिक्षुं प्रमुदितु नारिसंघो सौवर्णमालानवसिरि प्रेमजाता / सर्वे गृहीत्वा दशनखु अञ्जलीयो गाथाभिगीतैस्तमभिस्तविंसु भिक्षुम् // srs_35.37 //

ते गीतशब्दाः प्रशमित सर्वि राज्ञः स रथाभिरूढः परिवृतु क्षत्रियेभिः / अयं च एती सुरभि सुनेत्रो भिक्षुर्महानुभावः सुगतवरस्य पुत्रः // srs_35.38 //

मम चैव चित्तं परम निहीनु मासीदीर्ष्यां च क्रोधं च तत्र जनेमि मूढः / मुदितं विदित्व सुविपुल नारिसंघो आलोक्य भिक्षुं प्रविशतु राजधानिम् // srs_35.39 //

अतिघोररूपा अहु गिरि भाषि तत्र पुत्रसहस्रं भणमि तत्क्षणस्मिन् / गत्वान भिक्षुं प्रकुरुत खण्डखण्डामेषो हि मह्यं परम अमित्र घोरः // srs_35.40 //

ते कुमार सर्वे परमसुशीलवन्तो स्वहितैषिचित्ता अभिरत येन भिक्षुः / आणत्ति देवा न करिय एवरूपा शोकाभिभूतो अहमभु तस्मि काले // srs_35.41 //

इमु भिक्षु दृष्ट्वा परम सुशीलवन्तं मैत्र्या उपेतं पितरमिव प्रवृत्तम् / सुदृष्टचित्तो अवसरि घातनार्थं पतितो अवीचौ अहु पश्चकाले // srs_35.42 //

यन्नन्दिको ऽयं इह स्थितु राजमार्गे अतिरौद्रकर्मा दुखकरु मानुषाणाम् / (वैद्य 242) आणत्ति तेना मम कृत एवरूपा मालागुणो वा अयमिह छिन्न भिक्षुः // srs_35.43 //

समन्तभद्रे वनवरि प्रेमणीये द्विजाभिकीर्णे कुसुमितमञ्जुगन्धे / सो चापि अन्यः सुविपुल भिक्षुसंघो मात्रा विहीनो यथरिव एकपुत्रकः // srs_35.44 //

उत्तिष्ठ भिक्षो प्रतिवस काननस्मिन् कृतो ते अर्थः सुविपुल मानुषाणाम् / यद्राजधानीमिमु तद आगतो ऽसि एष्यन्ति भिक्षु सुकरुण क्रन्दमानाः // srs_35.45 //

पुष्पध्वजानि इम कृत दक्षिणेना वामेन अन्ये सुरुचिर दर्शनीयाः / प्रज्ञप्त मार्गः स्फुट कृत चीवरेभि उत्तिष्ठ भिक्षो प्रतिभण धर्म श्रेष्ठम् // srs_35.46 //

चिरप्रविष्टो तुहु इह राजधान्यामेष्यन्ति भिक्षु सुकरुणु क्रन्दमानाः / मा अन्तरायो भव सिय जीवितस्य प्रलोपकाले जिनवरशासनस्मिन् // srs_35.47 //

यथैव कश्चित पुरुष महानुभावो दिक्षु विदिक्षु सततु विघुष्टशब्दः / महाप्रपातं प्रपतति वसुंधरायां सर्वाभिभूय त्रिभवमिमं समन्तात् // srs_35.48 //

एमेव भिक्षुरिह पतितो धरण्यां सुरूपरूपो भूषितु लक्षणैर्वरैः / अदोषदुष्टो मय कृत पापबुद्धिना सुपुष्पचन्द्रो तिष्ठति खण्डखण्डः // srs_35.49 //

भिक्षु इहो दुःखहत सर्व एव अप्रीतिजातास्तथपि च शल्यचित्ताः / (वैद्य 243) भेष्यन्ति क्षिप्रं दृष्ट्विमु धर्मभाणकं सुपुष्पचन्द्रं हतु पतितं पृथिव्याम् // srs_35.50 //

सुपुष्पचन्द्रो यथरिव शैलराजो द्वात्रिंशतीभिः कवचितु लक्षणेभिः / मालागुणेव प्रमदगणेन गृह्य क्षणे विकीर्णं कृतु खण्डखण्डम् // srs_35.51 //

कृतस्मि कर्मं परम सुघोररूपम् अवीचि गमिष्ये यमविषयमनाथो / बुद्धान भेष्ये परम सुदूरदूरे स भिक्षुः कृतु इह खण्डखण्डम् // srs_35.52 //

न पुत्र त्राण न पि मम ज्ञातिसंघो नो चास्य मान्या न च भटपादमूलिकाः / मेष्यन्ति त्राणं नरकगतस्य मह्यं स्वयं करित्व परम निहीनकर्म // srs_35.53 //

ये ऽतीत बुद्धास्तथपि च ये अनागतास्तिष्ठन्ति ये चो दशसु दिशासु केचित् / ते सार्थवाहा दशबला निष्किलेशाः शरणं उपैमी वज्रघन आत्मभावान् // srs_35.54 //

दृष्ट्वान् भिक्षुं कृतु इह खण्डखण्डं क्रोशः प्रमुक्तः सुकरुण देवताभिः / गत्वान ते आरोचयि भिक्षुसंघे सुपुष्पचन्द्रो इतु इह राज्यधान्याम् // srs_35.55 //

यो ऽसौ विदु पण्डितु धर्मभाणको महानुभावो दिशिविदिशासु घुष्टः / सो बोधिसत्त्वो प्रतिष्ठितु धारणीये सुपुष्पचन्द्रो हतु इह राजधान्याम् // srs_35.56 //

यो देति दानं विविधमनन्तकल्पान् यो शील रक्षत्यशबलमसंप्रवेधिम् / यो भावि क्षान्तीमसदृश सर्वलोके सुपुष्पचन्द्रो हतु इह राजधान्याम् // srs_35.57 //

(वैद्य 244) यो वीर्यवन्तः सततमनन्तकल्पान् यो ध्यानु ध्यायी चतुरि अलीनचितः / यः प्रज्ञ भावेति किलेशघातकीं सुपुष्पचन्द्रो हतु इह राजधानिये // srs_35.58 //

यः कायप्रेमं विजहित्व सर्वशो ऽ नपेक्ष भूत्वा तथ जीवितातो / समन्तभद्राद्वनतोतरित्वा सुपुष्पचन्द्रो हतु इह राजधानिये // srs_35.59 //

ते राजधानीं प्रविशित्व सूरता आर्तस्वरं क्रन्दिषु घोररूपम् / दृष्ट्वान् भिक्षुं कृतु इह खण्डखण्डं मूर्च्छित्व सर्वे प्रपतित ते धरण्याम् // srs_35.60 //

राजान तं सो अवचिषु भिक्षुसंघो किमापराद्धं तव देव भिक्षुणा / अच्छिदशीलेन सुसंवृतेन यः पूर्वजातिं स्मरते अचिन्तियाम् // srs_35.61 //

एषो वशी धारणिज्ञानपारगो एष प्रजानातिह शून्य संस्कृतम् / एषो ऽनिमित्तं जगतो निदर्शयी प्रणिधानसंज्ञां इति सर्व वर्जयी // srs_35.62 //

एषो मुञ्चि मनोज्ञ घोष रुचिरं शान्तेन्द्रियः सूरतो एषो पूर्वनिवासपारमिगतो लोकस्य अभ्युद्गतः / एषो बुद्ध स्वयंभु ज्ञानवृषयो लोकस्य चित्रीकृतः शुद्धा चक्षुष प्रेक्षिषू वितिमिरो अत्यर्थमैत्रीकृपः // srs_35.63 //

कामा हीन जघन्य दुःखजननाः स्वर्गस्य निर्नाशकाः कामान् सेवतु भोन्ति श्रोत्रविकलाः प्रज्ञाविहीना नराः / कामान् सेवतु अन्धु भोति मनुजो मातापित घातयी कामान् सेवतु शीलवन्तु वधयी तस्माद्विवर्जेन्नरो // srs_35.64 //

(वैद्य 245) कामान् सेवतु राज पार्थिववरा वर्जेत्व ऋद्धिमिमां घोरान् गच्छति कर्कशान् दुखकरान्नरकान् भयानन्तकान् / पापं कर्म करोति ईदृश विदुं भिक्षुं वधेती सदा तस्मात् पापु विवर्जितव्यु विविधं यो इच्छि बोधिं शिवाम् // srs_35.65 //

रूपाणि शब्दान् रस तथ गन्ध श्रेष्ठान् स्प्रष्टव्यधर्मान् त्यजति अलीनचित्तः / कायं विदित्व यथरिव माय तुच्छं चक्षुं च श्रोत्रं तथरिव घ्राण जिह्वम् // srs_35.66 //

दाने शिक्षितु शीलि अप्रतिसमः क्षान्तिं च वीर्यं तथा ध्यानं सेवतु प्रज्ञपारमिगतः सत्त्वान अर्थकरः / लोकः सर्वु सदेवकः समनुजः प्रेक्षन्ति मैत्र्या जिनं तेनो चक्षु महान्धकारगहने बुध्यन्ति बोधिं शिवाम् // srs_35.67 //

हस्ती अश्वरथांस्त्यजन्ति मुदिता अङ्गालमञ्चांस्तथा शिबिकां दोल्लिकयुग्ययानवृषभान् ग्रामाणि राष्ट्राणि च / नगरं राज्य त्यजित्व स्वर्णस्फटिकां रूप्यं प्रवालांस्तथा भार्याप्रियपुत्रधीरस्वशिरास्त्यजित्वा बोधिप्रस्थिताः // srs_35.68 //

पूजां चो अतुलां करोन्ति मुदिताः पुष्पेभि गन्धेभि चो गृह्य च्छत्रध्वजा पताक विविधा संगीतिभाण्डानि च / नो चापी अभिनन्दिषु भवगतिं ज्ञात्वान शून्यान् भवान् तेनो लक्षणचित्रिता दशबला भासन्ति सर्वा दिशः // srs_35.69 //

न कामधातौ न च रूपधातावारूप्यधातौ च न ते निविष्टाः / त्रैधातुकं नाभिनिविष्टधर्मा ये बोधिसत्त्वाः प्रतिष्ठितु धारणीये // srs_35.70 //

नो आत्मसंज्ञा न च पुन सत्त्वसंज्ञा नो जीवसंज्ञा पुद्गलसंज्ञ नापि / नित्यं चरन्ता अशबलु ब्रह्मचर्यं ये बोधिसत्त्वाः प्रतिष्ठितु धारणीये // srs_35.71 //

न भावसंज्ञा न च पुनरभावसंज्ञा न क्षेमसंज्ञा न पुनरक्षेमसंज्ञा / (वैद्य 246) नो सौख्यसंज्ञा न पुनरसौख्यसंज्ञा ये बोधिसत्त्वाः प्रतिष्ठितु धारणीये // srs_35.72 //

नो अस्तिसंज्ञा न पुनर्नास्तिसंज्ञा नो इस्त्रिसंज्ञा न पुनः पुरुषसंज्ञा / न ग्रामसंज्ञा न च नगरेषु संज्ञा नो राष्ट्रसंज्ञा न पि निगमेषु संज्ञा // srs_35.73 //

नो रागसंज्ञा न पुन विरागसंज्ञा नो दोषसंज्ञा न पुनरदोषसंज्ञा / नो मोहसंज्ञा न पुनरमोहसंज्ञा ये बोधिसत्त्वाः प्रतिष्ठितु धारणीये // srs_35.74 //

नो इन्द्रियेभिर्न पुन ते बलेभिर्बोध्यङ्गध्याने न च पुन ते निविष्टाः / त्रैधातुके ते प्रविजहि दोष सर्व ये बोधिसत्त्वाः प्रतिष्ठितु धारणीये // srs_35.75 //

नो रागरक्ता न च पुन दोषदुष्टा नो मोहमूढा अशठ भवन्ति नित्यम् / दृष्ट्वा च बुद्धा दशबल सत्करोन्ति नो चापि स्वर्गं मतिधर प्रार्थयन्ति // srs_35.76 //

तेषां श्रुत्वा परत विशिष्टधर्मं नो भुय तस्मिन् भवति कदाचि काङ्क्षा / तैलस्य पात्रं यथरिव अच्छ शुद्धं छेदाच्छेदं परमत तेभि ज्ञातम् // srs_35.77 //

स्नेहं कुर्वतु जायते अनुनयः सो ऽपी किलेशो महान् दोषं कुर्वतु जायते ऽस्य प्रतिघो वैरं भयं पापकम् / द्वावेतौ विजहित्वना मतिघरा बोधाय ये प्रस्थिताः ते भोन्तीह नरर्षभा दशबला लोके समभ्युद्गताः // srs_35.78 //

अध्यात्मं प्रजहित्व बाह्यमपि चो धर्मस्वभावे स्थिताः शीलस्कन्धु विशोधितो अशबलो अखण्ड अच्छिद्रितः / (वैद्य 247) नो वा तेषु कदाचि शील शबलं नो चापि कल्माषता द्वावेतौ परिवर्जिया मतिधरा बुध्यन्ति बोधिं शिवाम् // srs_35.79 //

अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत - अहं स पूर्वे चरमाणु चारिकां राजा अभूवं तद शूरदत्तः / रतनावती नाम स राजधानी उद्यानभूमिर्यतु निष्क्रमामि // srs_35.80 //

रथाभिरूढस्तद दृष्ट्व भिक्षुं समन्तप्रासादिकु दर्शनीयम् / द्वात्रिंशता कवचितु लक्षणेभिरोभासयन्तं दश दिशता समन्तात् // srs_35.81 //

सुपुष्पचन्द्रो दिशता सुविश्रुतो हितानुकम्पी करुणाविहारी / सत्त्वानुकम्पी नगरं प्रविष्टः शिरीय तेजेन च शोभमानः // srs_35.82 //

अहं च रूपेण तादृशो ऽभवं मात्सर्यमुत्पन्नु सुभैरवं मे / कामेषु गृद्धो ग्रथितश्च राज्ये मा एष राज्यान्मम च्यावयेत // srs_35.83 //

पुत्राण संपूर्ण सहस्र मह्यं रथानुरूढा अनुयान्ति पृष्ठतः / विचित्रमुकुटाभरणा विभूषिता यथ देवपुत्रास्त्रिदशेन्द्र यान्ति // srs_35.84 //

दुहितॄण तस्मिन् शत पञ्च मह्यं मणिपादुकारूढ सुदर्शनीयाः / आबद्धमुकुटाभरणा विभूषितास्ते हेमजालै रथु ते वहन्ति // srs_35.85 //

स्त्रीणां सहस्राणि अशीति मह्यं प्रासादिकाः सर्व सुदर्शनीयाः / (वैद्य 248) रथाधिरूढाः समुदीक्ष्य भिक्षुं प्रासादिकं मेरुमिवोद्गतश्रियम् // srs_35.86 //

दृष्ट्वा च तासां पितृसंज्ञ जाता उत्पादितं चित्त वराग्रबोधये / समादयित्वा तद ब्रह्मचर्यं क्षिपिंसु तानाभरणान् मनोरमान् // srs_35.87 //

ईर्ष्या ममोत्पन्न अभूषि तत्क्षणं व्यापाददोषश्च खिलं चा दारुणम् / ऐश्वर्यमत्तश्च वदामि पुत्रान् घातेय भिक्षुं स्थितु यः पुरस्तात् // srs_35.88 //

श्रुत्वाथ ते मह्य कुमार वाक्यं सुदुःखिता दुर्मनसो अभूवन् / मा एव प्रव्याहर तात वाचं न घातयामो वय भिक्षुमीदृशम् // srs_35.89 //

यद्यङ्गमङ्गातु शरीर छिद्येत् कल्पान कोट्यो यथ गङ्गवालुकाः / न त्वेव भिक्षुं वय हिंसयेम तथाहि बोधाय उत्पन्नु चित्तम् // srs_35.90 //

श्रुत्वाथ राजा तद पुत्रवास्यं भृत्यं भणी रोषितु वध्यघातकम् / आनेथ शीघ्रं इमु भिक्षु घातयी स्थितु यः पुरस्तापि अन्तःपुरस्य // srs_35.91 //

अथागमी पश्चि स वध्यघातको स रौद्रचित्तो व सु नन्दिनामा / असिं गृहीत्वान स तैलपायितं येनो कृतो भिक्षुण अष्टखण्डः // srs_35.92 //

कृत्वा त्वकर्मेति सुघोररूपं निर्यातु उद्यानु गता क्षणेन / (वैद्य 249) न तस्य क्रीडा न रती च जायते स्मरित्व भिक्षुं तद पुष्पचन्द्रम् // srs_35.93 //

स शीघ्रशीघ्रं त्वरमाणरूपः ततः प्रविष्टः स्वकु राजधानीम् / रथाभिरूढो गतु तं प्रदेशं यस्मिन् कृतो भिक्षु स अष्टखण्डम् // srs_35.94 //

अश्रौषि सो घोषमथान्तरीक्षाद् बहून् देवानयुतान क्रन्दताम् / कलिराज पापं सुबहु त्वया कृतं च्युतो गमिष्यस्यसुखं अवीचिम् // srs_35.95 //

श्रुत्वान राजा मरुतान घोषं सुदुःखितो दुर्मनु त्रस्तचित्तः / बहू मया दारुण पापकं कृतं येनो मया घातितु पुष्पचन्द्रः // srs_35.96 //

यः पुत्रु बुद्धान नरर्षभाणां अनन्तज्ञानीन तथागतानाम् / गुप्तेन्द्रियः सूरतु शान्तमानसः सो ऽपी मया घातितु कामकारणात् // srs_35.97 //

यो धर्मु धारेति तथागतानां सद्धर्मकोशं क्षयि वर्तमाने / ज्ञानप्रदीपं करि सर्वलोके कष्टं स मे घातितु कामकारणात् // srs_35.98 //

यो धर्म प्रव्याहरती प्रजानां गम्भीर शान्तं निपुणं सुदुर्दृशम् / यो बोधिमण्डस्य वरस्य देशकः सो ऽयं मया घातितु कामकारणात् // srs_35.99 //

यो धर्मकोशंधरु नायकानामन्धस्य लोकस्य प्रदीपभूतः / (वैद्य 250) यो धारणी धारयि सूत्रराजं स किं मया घातितु कामकारणात् // srs_35.100 //

असंकिलिष्टः सुविशुद्धज्ञानी शान्तः प्रशान्तः सततं समाहितः / कामान्धभूतेन मयाद्य घातितो येनातिकष्टं निरयं गमिष्ये // srs_35.101 //

ये ऽतीत बुद्धाप्यथ ये अनागता ये चापि तिष्ठन्ति नरोत्तमा जिनाः / अनन्तवर्णान् गुणसागरोपमान् उपैमि सर्वान् शरणं कृताञ्जलिः // srs_35.102 //

घोरान् गमिष्ये निरयांश्च्युतस्य त्राता न तत्र प्रतिविद्यते मम / कर्मं ह्यनिष्टं हि कृतं मयाद्य यद् घातितो ऽयं मय धर्मभाणकः // srs_35.103 //

धिक् पापचित्तं व्यसनस्य कर्तृ धिग् राजभावं मदगर्वितानाम् / एकः प्रयास्यामि विहाय सर्वं सारं न मे किंचिदितो गृहीतम् // srs_35.104 //

विशुद्धधर्मो गतदोषमोहः प्रियंवदः कारुणिको जितात्मा / अदूषकः सर्वजनैकबन्धुः कस्माद्धतो मे वरपुष्पचन्द्रः // srs_35.105 //

हा सुव्रता क्षान्तितपोधनाढ्या हा रूपदाक्षिण्यगुणैरुपेता / हा निष्कुहा श्रीघन निष्प्रपञ्चा कुह प्रयातो ऽसि विहाय मा त्वम् // srs_35.106 //

अद्यावगच्छामि महर्षिवाक्यं कामा ह्यनित्या वधकाः प्रजानाम् / मनोज्वरा दुर्गतिहेतवश्च तस्मात् प्रहास्ये एत कामचर्याम् // srs_35.107 //

(वैद्य 251) यास्ये घोरमहं ह्यवीचिनिरयं त्राणं न मे विद्यते पापं कर्म कृतं ह्यनिष्टमसुखं भिक्षुर्मया घातितः / मुक्त्वा राज्य हु ब्रह्मचर्यपरमः पूजां करिष्ये वरां पुष्पैर्गन्धविलेपनैः सुरुचिरैः स्तूपं करिष्याम्यहम् // srs_35.108 //

पुत्राश्चो दुहितॄः स्त्रियो गृहपती ये चा अमात्या मम श्रेष्ठी नैगम क्षत्रिया बहुविधाः सर्वेष भाषाम्यहम् / अगरुं पद्मकु चन्दनं सुरुचिरं गन्धाश्च ये शोभनाः शीघ्रं कुर्वथ मञ्जुगर्भशिबिकां यद्भिक्षु ध्मापीयतु // srs_35.109 //

श्रुत्वा पार्थिववाक्य सर्वनगरं गन्धां हरित्वा वरां चितिकां कृत्व मनोज्ञगन्ध रुचिरामारोप्य भिक्षुं तहिम् / अगरुं पद्मकु चन्दनं सतगरं स्पृक्कां तथा पाटलां पुष्पैर्माल्यविलेपनेन रुचिरैस्तैलेन प्रज्वालयी // srs_35.110 //

द्रोण्यां तस्य कृतं शरीरमभवद् या मापिता भिक्षुभिस् तेषां स्तूपु करित्व राज अवची पूजास्य कामाम्यहम् / पुष्पं माल्य विलेपनं च ग्रहिय च्छत्रान् पताकां ध्वजांस् तस्मिंस्तूर्यसहस्रकोटिनयुतां वादापयी पार्थिवः // srs_35.111 //

त्रैकाल्यं दिवसे व्रजी महिपति भिक्षुस्य स्तूपं तदा त्रिष्वप्यध्वसु देशयी पुरीमकं यत्किंचि पापं कृतम् / वर्षा कोटिसहस्र पञ्चनवतिं तं क्षेपयी दुष्कृतं शीलं पश्चि अखण्ड रक्षितु वरं शुद्धं शुची निर्मलम् // srs_35.112 //

वर्षा कोटिसहस्र पञ्चनवतिं पोषी तदा पोषधं भिन्ने चो तद आत्मभावि पतितो घोरामवीचिं पुनः / कृत्वा निर्घृण कर्म वेदयि दुखं कामंनिदानं बहु बुद्धा कोटिसहस्र पञ्चनवतिं वीरागिता ये मया // srs_35.113 //

वर्षा कोटिसहस्र पञ्चनवती अन्धो ऽहमासं तदा द्वाषष्टी पि च कल्प कोटिनयुता नेत्रा मि भिन्ना पुरा / नैका कल्पसहस्र कोटिनयुतामुत्पाट्य चक्षुर्हृतं हस्ता च्छिन्न अनन्तकल्पनयुतान् पादाश्च कर्णाः शिराः // srs_35.114 //

मानुष्ये सति कल्पकोटिनयुतानन्यासु वा जातिषु दुःखा वेदन वेदयामि च चिरं संसारदुःखार्दितः / कृत्वा पापकु कर्म दुःखनुभवी संसारमाणश्चिरं तस्मात् पापु न कुर्यु अध्वि त्रिभवे यो बोधिमिच्छेच्छिवाम् // srs_35.115 //

(वैद्य 252) देशेत्व कर्मं पुरिमकु राजश्रेष्ठो नासौ विमुच्यी पुरिमकु दुष्कृतातः / कृत्वा च कर्मं पुरिमकु घोररुपं स च च्यवित्व गच्छेन्निरयमवीचि घोरम् // srs_35.116 //

हस्ता विच्छिन्नास्तथपि च पाद कर्ण नासा विच्छिन्ना बहुविध नन्तकल्पान् / नेत्रा च मह्यं बलशो हृता क्षिपित्वा उत्क्षिप्त दण्डैर्विचरतु चारिकायाम् // srs_35.117 //

त्यक्त्वा स्वकाये शिर कर बोधिहेतोः पुत्राश्च दारान्नयन तथात्ममांसम् / हस्तांश्च पादान् परित्यजि हृष्टचित्तो नो च क्षपेमी पुरिमकु पापकर्म // srs_35.118 //

राजा अभूवं तद अहु शूरदत्तो ते पुत्र मह्यं चरिमक धर्मपालाः / पद्मोत्तरो ऽयं आसि सुपुष्पचन्द्रो वसुनन्दि आसीद्दशबलु शान्तिराजः // srs_35.119 //

सि नारिसंघो सुविपुल क्षत्रियाश्चो गृहपती ये बलपति ये चमात्याः / श्रेष्ठी तथैव नैगम कोदृराजा सर्वे ऽप्यभूषी दशबल निष्किलेशाः // srs_35.120 //

कुमार एवाचरितमनन्तकल्पं दृष्ट्वान् बुद्धान् धुतगुण निष्किलेशाः / ते ते मि दुःखा तद अनुभूतपूर्वा चरन्तु श्रेष्ठां इम बोधिचर्याम् // srs_35.121 //

यो बोधिसत्त्वः प्रतिष्ठित धारणीये मैत्राविहारी अचलितु अप्रकम्पी / (वैद्य 253) नासौ कदाचिद् व्रजति अपायभूमिं पूजेत्व बुद्धान् धुतगुण निष्किलेशान् // srs_35.122 //

यो इच्छि बुद्धो कथमिह धर्मस्वामी द्वात्रिंशतीभिः कवचितु लक्षणेभिः / सो शीलरक्षी अशबल अप्रवेधा देशेति धर्मं प्रतिष्ठितु धारणीये // srs_35.123 // इति श्रीसमाधिराजे सुपुष्पचन्द्रपरिवर्तः पञ्चत्रिंशतितः ॥ 35 ॥ (वैद्य 254) 36 शीलस्कन्धनिर्देशपरिवर्तः ।

तस्मात्तर्हि कुमार य आकाङ्क्षेद्बोधिसत्त्वो महासत्त्वः किमित्यहं सुखमनुत्तरां सम्यक्संबोधिमभिसंबुध्येयमिति, तेन कुमार बोधिसत्त्वेन महासत्त्वेन शीलस्कन्धे सुप्रतिष्ठितेन भवितव्यम्, सर्वबोधिसत्त्वेषु च शास्तृप्रेमसंज्ञा उपस्थापयितव्या ॥

अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत -

यः शीलस्कन्धे प्रतिष्ठितु बोधिसत्त्वो हितैषिचित्तो विचरति चारिकायाम् / क्षिप्रं स गत्वा अभिरतिबुद्धक्षेत्रं क्षान्तिंं लभित्वा भविष्यति धर्मराजः // srs_36.1 //

तस्मात् समग्रा भवथ अदुष्टचित्ताः सर्वे च भोगा सतत मनापकारी / दृष्ट्वा च बुद्धान् शिरिघन अप्रमेयान् बोधिं स्पृशित्वा भविष्यथ धर्मस्वामी // srs_36.2 //

तस्माच्छ्रुणित्वा इम वर आनुशंसान् दृष्टा च भिक्षून् परम सुशीलवन्ता / निःशाठियेनो विदु सद सेवितव्याः समाधिप्ताप्ता भविष्यथ नोचिरेण // srs_36.3 //

सचेन्निधानापरिमिताप्रमाण पूर्णा भवेयु मणिरतनेभि सप्तैः / तथैव भूयो रतनवराण पूर्णाः क्षेत्रा भवेयुर्वालिकगङ्गतुल्याः // srs_36.4 //

दानाधिमुक्तो भविय स बोधिसत्त्व एकैक रात्रिंदिवमिह दानु दद्यात् / एवं ददन् सो बहुविध कल्पकोटीः नो विष्ठितः स्याद् वालिक गङ्गतुल्याः // srs_36.5 //

यश्चो समाधिं इमुमिह बोधिसत्त्वो श्रुत्वान धारेत सुगतवराण गञ्जम् / यः पुण्यस्कन्धो भवति गृहीतु तेनो तत् सर्वदानं कलमपि नानुभोति // srs_36.6 //

(वैद्य 255) एषो वरो अनुपम पुण्यस्कन्धो ज्ञानस्य कोश अपरिमिताकरोपम / श्राद्धो नरो यो इमु आनुलोमिकं धारेय्य अग्रं इमु विरजं समाधिम् // srs_36.7 //

धारेय्य एत विरज समाधि शान्त महाधनो भवति स बोधिसत्त्वः / महासमुद्रो बहुविधरतनस्य आकरो न तस्य पुण्यस्य प्रमाणमस्ति // srs_36.8 //

वरेहि धर्मेहि अचिन्तियेहि संबृहितो वुच्चति बोधिसत्त्वः / न तस्य बोधाय कदाचि संशयो य उद्दिशेयाति इमः समाधिम् // srs_36.9 //

संस्थाप्य लोकाचरियं विनायकं बुद्धं महाकारुणिकं स्वयंभुवम् / यः पुण्यस्कन्धेन वरेणुपेतो अचिन्तियो यस्य प्रमाणु नास्ति // srs_36.10 //

न उत्तरो तस्य च सत्त्व कश्चित् महासहस्राय कदाचि विद्यते / यः पुण्यस्कन्धेन समो भवेत ज्ञानेन वासादृशाचिन्तियेन // srs_36.11 //

अन्यत्र यः श्रुत्व समाधिमेतं धारेय्य वाचेय्य पर्यापुणेय्या / पर्येषमाणो ऽतुल बुधबोधिं न तस्य ज्ञानेन समो भवेत // srs_36.12 //

सचेत् कुमारा सिय अयु धर्मरूप यः पुण्यस्कन्धो उपचितु तेन भोति / धारतु वाचेतु इमं समाधिं न सो विचेय्या इह पृथुलोकधातुषु // srs_36.13 //

तस्मात् कुमारेह य बोधिसत्त्वो आकाङ्क्षते पूजितु सर्वबुद्धान् / (वैद्य 256) असङ्गनिर्देशपदार्थकोविदो अतीत उत्पन्न तथागतांश्च धारेतु वाचेतु इमं समाधिम् // srs_36.14 //

एषा हि सा बोधि तथागतानां श्रद्धेहि मह्यं वचनं कुमाराः / न भाषते वाचमृषां तथागतो न हीदृशाः सत्त्व मृषां वदन्ति // srs_36.15 //

यस्मिन् मया शोधितु आत्मग्राहो इतः पुरे कल्पशतानचिन्तियान् / श्रेष्ठा चरन्तेन पि बोधिचारिकां पर्येषमाणेन इमां समाधिम् // srs_36.16 //

तस्मादिमं श्रुत्व अथ धर्मगञ्जं यः सूत्रकोटीनयुतान आगमः / यः पुण्यस्कन्धो विपुलो अचिन्तियो येनो लघुं बुध्यति बुद्धज्ञानम् // srs_36.17 //

सर्वेष सूत्राणिदमग्रसूत्रमचिन्तियस्यो कुशलस्य आकरम् / पर्यन्तु धर्माण न तेष लभ्यते यां सो सदा निर्दिशते विशारदः // srs_36.18 //

छिन्दित्व भिन्दित्व महासहस्रं शक्यं गणेतुं परमाणुसंचयः / न त्वेव ते सूत्रशता अचिन्तियान् प्रमातु यं भाषति सो अविष्ठितः // srs_36.19 //

आश्वास प्रश्वास गणेतु शक्यं सर्वेष सत्त्वानिह बुद्धक्षेत्रे / पर्यन्तु सूत्राण न तेष शक्यं यान् भाषते सो ऽत्र समाधिये स्थितः // srs_36.20 //

बुद्धान क्षेत्रा यथ गङ्गवालिका ये तेष सत्त्वा गति तेषूपपन्नाः / गणेतु ते शक्यमथापि चिन्तितुं न तेष सूत्राण य नित्यु भाषते // srs_36.21 //

(वैद्य 257) गणेतु शक्यमित कल्पकोटिभिः महासमुद्रेष्विह यात्ति वालिकाः / नदीषु कुण्डेषु ह्रदेषु तद्वद् अनन्त सूत्रान्त स यत् प्रभाषते // srs_36.22 //

शक्यं गणेतुं बहुकल्पकोटिषु य आपस्कन्धः सद तत्र तिष्ठति / शताय भिन्नाय वालाग्रकोटियो स्वराङ्ग तेषां न तु शक्यु सर्वशः // srs_36.23 //

शक्यं गणेतुं बहुकल्पकोटिभिर्ये सत्त्व आसन् पुरिमेण तत्र / य आत्मभावे विनिबद्धसारा न तेष सूत्रान्तनिर्हार जानितुम् // srs_36.24 //

गणेतु शक्यं रुत सर्वप्राणिनां ये सन्ति सत्त्वा दशसु दिशासु / न शक्यु सूत्रान्त गणेतु तस्य यद् भाषते ऽसौ सततमविष्ठितः // srs_36.25 //

सर्वेष धर्माण निदेशु जानति निरुक्तिनिर्देशपदार्थकोविदः / विनिश्चये भूतनयेषु शिक्षितो विशालबुद्धिः सद हर्षप्रज्ञः // srs_36.26 //

अभिन्नबुद्धिर्विपुलार्थचिन्ती अचिन्त्य चिन्तेति सदा प्रजानति / घोषस्वभावं पृथु सर्व जानती शब्दांश्च तान् निर्दिशतो न सज्जति // srs_36.27 //

असक्त सो वुच्चति धर्मभाणको न सज्जते सर्वजगस्य भाषतः / प्रश्नान निर्देशपदेहि कोविदः तथाहि तेनो परमार्थु ज्ञातः // srs_36.28 //

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.