Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 4/7

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa

समाधिराजसूत्र

Thông tin
GRETIL — P.L. Vaidya, Darbhanga: The Mithila Institute, 1961 (Buddhist Sanskrit Texts, 2.).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

दशेमे कुमार आनुशंसा आरब्धवीर्यस्य बोधिसत्त्वस्य महासत्त्वस्य । कतमे दश? यदुत दुरासदश्च भवति । बुद्धपरिग्रहं च प्रतिलभते । देवतापरिगृहीतश्च भवति । श्रुत्वा चास्य धर्मा न परिहीयन्ते । अश्रतपूर्वांश्च धर्मान् प्रतिलभते । समाधिगोत्रं च प्रतिलभते । अल्पाबाधश्च भवति । आहारश्चास्य सम्यक् परिणामयति । पद्मोपमश्च भवति न मुसलोपमः । इभे कुमार दशानुशंसा आरब्धवीर्यस्य बोधिसत्त्वस्य महासत्त्वस्य ॥

(वैद्य 162) तत्रेदमुच्यते -

दुरासदः सदा भोति परिदाहो न विद्यते / रक्षन्ति देवताश्चैनं क्षिप्रं बुद्धान् स पश्यति // srs_28.7 //

श्रुतं न हीयते तस्य अश्रतं भोति आमुखम् / प्रणिधिं परिपूरेति वीर्यवन्ते इमे गुणाः // srs_28.8 //

समाधिगोत्रं लभते व्याधिश्चास्य न जायते / सुखं चास्यान्नपानानि पच्यन्ते न विषीदति // srs_28.9 //

उत्पलं वरिमध्ये व सो ऽनुपूर्वेण वर्धते / एवं शुक्लेहि धर्मेहि बोधिसत्त्वो विवर्धते // srs_28.10 //

अवन्ध्याश्चास्य गच्छन्ति रात्रयो दिवसानि च / भविष्यति मृत्युकाले फलमेतस्य चेदृशम् // srs_28.11 //

आरब्धवीर्येण तथागतेन कल्पैरनैकैः समुदागतेन / ये बोधिसत्त्वा विरियेणुपेतास्तेषानुशंसा इमि संप्रकाशिताः // srs_28.12 //

आरब्धवीर्यो भवती दुरासदः परिगृहीतो भवती जिनेहि / देवा पि तस्य स्पृह संजनेन्ति नचिरेण सो लप्स्यति बुद्धबोधिम् // srs_28.13 //

श्रतं च तस्यो न कदाचि हीयते अन्ये पृथू चापि लभन्ति धर्माः / प्रतिभानु तस्यो अधिमात्रु वर्धते आरब्धवीर्यस्य इमे ऽनुशंसाः // srs_28.14 //

समाधिगोत्रं च लघुं धिगच्छति आबाधु तस्यो न कदाचि भोति / यथैव सो भोजनु तत्र भुञ्जते सुखेन तस्यो परिणामु गच्छति // srs_28.15 //

रात्रिंदिवं भवति शुक्लपक्षो आरब्धवीर्यस्य अतन्द्रितस्य / बोधी पि तस्यो नचिरेण भेष्यते तथा ह्यसौ वीर्यबलैरुपेतः // srs_28.16 //

(वैद्य 163) दशेमे कुमार आनुशंसा ध्यानाधिमुक्तस्य बोधिसत्त्वस्य महासत्त्वस्य । कतमे दश? यदुत आचारे तिष्ठति । गोचरे चरति । निष्परिदाहो विहरति । गुप्तेन्द्रियो भवति । प्रीतिमनुभवति । विविक्तः कामैः । अतृप्तो ध्यानैः । मुक्तो मारविषयात् । प्रतिष्ठितो बुद्धविषये । विमुक्तिं परिपाचयति । इमे कुमार दशानुशंसा ध्यानाधिमुक्तस्य बोधिसत्त्वस्य महासत्त्वस्य ॥

तत्रेदमुच्यते -

नासौ भोति अनाचारो आचारे संप्रतिष्ठितः / गोचरे चरते योगी वर्जेति च अगोचरम् // srs_28.17 //

निष्परिदाह्यविहारी गुप्तेन्द्रिय सुसंवृतः / अनुभवति संप्रीतिं ध्यानध्यायिस्य गोचरः // srs_28.18 //

विरक्तः कामतृष्णाया ध्यानसौख्यं निषेवते / मुक्तो ऽसौ मारविषयाद् बुद्धगोचरि संस्थितः // srs_28.19 //

योगिनो हि विशेषो ऽयं यदेको रमते वने / विमुक्तिं परिपाचेति तं भोति दशमं पदम् // srs_28.20 //

आचारि सो तिष्ठति बोधिसत्त्वः सर्वाननाचारु विवर्जयित्वा / अगोचरं वर्जिय गोचरे स्थितः समाधियुक्ते इमि आनुशंसाः // srs_28.21 //

परिदाहु तस्यो न कदाचि भोति आर्यं स्पृशित्वेह सुखं निरामिषम् / कायेन चित्तेन च भोति शीतलः समाधियुक्ते इमि आनुशंसाः // srs_28.22 //

विहरत्यरण्यायतनेषु गुप्तो विक्षेपु तस्यो न कदाचि भोति / प्रीतिं च तस्मिल्लंभते निरामिषं तथा हि कायेन विविक्तु भोति // srs_28.23 //

अलिप्त कामेहि असंकिलिष्टो तथा हि मारविषयात्तु मुक्तः / तथागतानां विषये प्रतिष्ठितो विमुक्ति तस्यो परिपाकु गच्छति // srs_28.24 //

दशेमे कुमार आनुशंसाः प्रज्ञाचरितस्य बोधिसत्त्वस्य महासत्त्वस्य । कतमे दश? यदुत सर्वस्वपरित्यागो भवति न च दानेन शुद्धिं मन्यते । अखण्डशीलश्च भवति न च शीलमाश्रितः ।(वैद्य 164) क्षान्तिबलसुप्रतिष्ठितश्च भवति न च सत्त्वसंज्ञासंप्रतिष्ठितः । आरब्धवीर्यश्च भवति कायचित्तविविक्तः । ध्यानध्यायी च भवति अप्रतिष्ठितध्यायी । दुर्धर्षश्च भवति मारैः, अप्रकम्प्यश्च भवति सर्वपरप्रवादिभिः । लव्धालोकश्च भवति सर्वसंस्कारगत्याम् । अधिमात्रा चास्य सर्वसत्त्वेषु महाकरुणा समतिक्रामति । न च श्रावकप्रत्येकभूमेः स्पृहयति । बुद्धध्यानसमाधिसमापत्तीरवतरति । इमे कुमार दशानुशंसाः प्रज्ञाचरितस्य बोधिसत्त्वस्य महासत्त्वस्य ॥

तत्रेदमुच्यते -

सर्वस्वं त्यजते धीरः शुद्धिं तेन न मन्यते / अखण्डं रक्षते शीलं निश्रयो ऽस्य न विद्यते // srs_28.25 //

क्षान्तिं भावेति स प्राज्ञः सत्त्वसंज्ञा विवर्तिता / आरब्धवीर्यो भवति कायचित्तविविक्ततः // srs_28.26 //

ध्यानध्यायी च सो भोति अप्रतिष्ठो अनिश्रितः / दुर्धर्षो भोति मारेहि प्रज्ञावन्त इमे गुणाः // srs_28.27 //

अकम्पियो च सो भोति सर्वैः परप्रवादिभिः / लब्धालोकश्च संसारे प्रज्ञाया ईदृशा गुणाः // srs_28.28 //

महाकृपां स लभते सर्वसत्त्वान अन्तिके / श्रावकप्रत्येकज्ञाने न स्पृहेति कदाचन // srs_28.29 //

सर्वस्वत्यागेन न शुद्धि मन्यते अखण्डशीलो न च शीलनिश्रितः / भावेति क्षान्ती न च सत्त्वसंज्ञा । प्रज्ञाधिमुक्ते इमि आनुशंसाः // srs_28.30 //

आरब्धवीर्यो भवती विमुक्तो अनिश्रितो ध्यायति अप्रतिष्ठितः / दुर्धर्षु मारेण स भोति पण्डितो प्रज्ञाधिमुक्ते इमि आनुशंसाः // srs_28.31 //

अकम्पियो भोति परप्रवादिभिः स लब्धगाधो भवतीह संस्कृते / अधिमात्र सत्त्वेषु कृपां जनेति प्रज्ञाधिमुक्ते इमि आनुशंसाः // srs_28.32 //

प्रत्येकबुद्धेषु च श्रावकेषु चो न तस्य जातु स्पृह तेषु जायते / (वैद्य 165) तथा ह्यसौ बुद्धगुणाः प्रतिष्ठिताः प्रज्ञाधिमुक्ते इमि आनुशंसाः // srs_28.33 //

दशेमे कुमार आनुशंसा बहुश्रुतस्य बोधिसत्त्वस्य महासत्त्वस्य । कतमे दश? यदुत संक्लेशं न करोति । व्यापादं न जनयति । काङ्क्षां विवृणोति । दृष्टिमृज्वीकरोति । उत्पथं च वर्जयति । मार्गे प्रतिष्ठते । अमृतद्वारे तिष्ठति । आसन्नस्थायी भवति बोधये । आलोकभूतो भवति सत्त्वानाम् । दुर्गतिभ्यो न बिभेति । इमे कुमार दशानुशंसा बहुश्रुतस्य बोधिसत्त्वस्य महासत्त्वस्य ॥

तत्रेदमुच्यते -

अनुशंसा दशैवैते बाहुश्रत्ये प्रकाशिताः / तथागतेन बुद्धेन यथाभूतं प्रजानता // srs_28.34 //

संक्लेशं व्यवदानं च उभौ पक्षौ स जानति / संक्लेशं परिअवर्जित्वा व्योदाने मार्गि तिष्ठति // srs_28.35 //

काङ्क्षां विवरति ज्ञानी दृष्टीमृज्वीकरोति च / मार्ग उत्पथ वर्जेति ऋजुके मार्गि तिष्ठति // srs_28.36 //

तिष्ठते चामृतद्वारे आसन्नो भोति बोधये / आलोकभूतः सत्त्वानां दुर्गतिभ्यो न भीयति // srs_28.37 //

जानाति धर्मं पृथु सांकिलेशिकं व्यवदानपक्षं पि तथैव जानति / स संकिलेशं परिवर्जयित्वा व्योदानि संशिक्षति धर्मि उत्तमे // srs_28.38 //

काङ्क्षां च सो विवरति सर्वप्राणिनां दृष्टी च तस्यो भवति सदोज्ज्वका / स उत्पथं मार्गु विवर्जयित्वा संतिष्ठते ऋजुकि पथे सदा शिवे // srs_28.39 //

अमृतस्य द्वारे भवती सदा स्थितो आसन्न भोती विपुलाय बोधये / आलोकभूतः पृथु सर्वप्राणिनां न चाप्यसौ भायति दुर्गतिभ्यः // srs_28.40 //

दशेमे कुमार आनुशंसा धर्मदानगुरुकस्य बोधिसत्त्वस्य महासत्त्वस्य परेभ्यो धर्मदानं ददतः । कतमे दश? यदुत अक्रियां विवर्जयति ॥ क्रियामवतरति । सत्पुरुषधर्मे प्रतिष्ठते । बुद्धक्षेत्रं परिशोधयति । बोधिमण्डमर्पयति । वस्तुं परित्यजति । क्लेशान्निगृह्वाति । सर्वसत्त्वेभ्यः प्रत्यंशं (वैद्य 166) ददाति । तदारम्बणां च मैत्रीं भावयति । दृष्टधार्मिकं च सुखं प्रतिलभते । इमे कुमार दशानुशंसा धर्मदानगुरुकस्य बोधिसत्त्वस्य महासत्त्वस्य परेभ्यो धर्मदानं ददतः ॥

तत्रेदमुच्यते -

यो हि दानं दादात्यग्रं धर्मदानममत्सरी / दश तस्यानुशंसा वै लोकनाथेन भाषिताः // srs_28.41 //

अक्रियां सर्वि वर्जेति क्रियामोतरते विदुः / सत्पुरुष धर्मप्रतिपन्नस्त्यागचित्तं निषेवते // srs_28.42 //

बुद्धक्षेत्रं च शोधेति क्षेत्रं भोति स्यनुत्तरम् / बोधिमण्डं समारूढो धर्मदानस्यिदं फलम् // srs_28.43 //

त्यजते सर्ववस्तूनि शिक्षते धर्मराजिनः / किलेशा निगृहीतास्य बोधिस्तस्य न दुर्लभा // srs_28.44 //

सर्वसत्त्वान प्रत्यंशं मैत्रचित्तः प्रयच्छति / अनीर्षुकश्च सो भोति सौख्यं भोति स्यमानुषम् // srs_28.45 //

विवर्जिता अक्रिया पण्डितेन क्रियाय सो नित्य विदुः प्रतिष्ठितः / महात्मधर्मेषु सदा प्रतिष्ठितो यो धर्मदानं सद देति पण्डितः // srs_28.46 //

क्षेत्रं च तस्य सद भोति शुद्धं धर्मा विवर्धन्तिमि बोधिपाक्षिकाः / आसन्न भोति सद बोधिमण्डे धर्मं ददित्वा इमि आनुशंसाः // srs_28.47 //

क्लेशा न सन्ती परित्यक्त वस्तून् वस्तुं परिज्ञातु स्वलक्षणेन / विमुक्त सर्वेहि परिग्रहेहि न तस्य सङ्गो भवती कदाचित् // srs_28.48 //

उपस्थितं चित्तु विचक्षणस्य सर्वे ऽपि सत्त्वा सुखिनो भवन्तु / स मैत्रचित्तो भवती अनीर्ष्युको दृष्टेव धर्मे ऽस्य सुखं अनल्पकम् // srs_28.49 //

दशेमे कुमार आनुशंसाः शून्यताविहारिणो बोधिसत्वस्य महासत्त्वस्य । कतमे दश? यदुत बुद्धविहारेण विहरति । अनिश्रितो ध्यायति । उपपत्तिं न प्रार्थयति । शीलं न परामृशति । (वैद्य 167) आर्यान्नापवदति । अविरुद्धो विहरति । वस्तु नोपलभते । विविक्तश्च भवति । बुद्धान्नाभ्याख्यायति । सद्धर्मं धारयति । इमे कुमार दशानुशंसाः शून्यताविहारिणो बोधिसत्त्वस्य महासत्त्वस्य ॥

तत्रेदमुच्यते -

यो विहारो नरेन्द्राणां सर्वबुद्धान गोचरः / तेनो विहरते योगी यत्र जीवो न लभ्यते // srs_28.50 //

अनिश्रितः सर्वलोके आर्यं ध्यानं न रिञ्चति / उपपत्तिं न प्रार्थेति दृष्ट्वा धर्मस्वभावताम् // srs_28.51 //

अपरामृष्टशीलस्य भवेच्छीलमनिश्रितम् / न सो ऽपवदते किंचिदन्यमार्यं अनास्रवम् // srs_28.52 //

अविरुद्धो विहरति विवादो ऽस्य न विद्यते / वस्तुं नोपलभेद् योगी विविक्तो विहरी सदा // srs_28.53 //

अभ्याख्याति न सो बुद्धमपि जीवितकारणात् / निश्रितः शून्यधर्मेषु कायसाक्षी विशारदः // srs_28.54 //

सर्वेषां लोकनाथानां बुद्धबोधिमचिन्तियाम् / धर्मं धारेति सत्कृत्य बुद्धधर्मान्न काङ्क्षति // srs_28.55 //

ये ते विहाराः पुरुषर्षभाणां यस्मिन्नभूमिः पृथुतीर्थिकानाम् / विहरत्यसौ तैरिह बोधिसत्त्वो यस्मिन्न सत्त्वो न जीवु न पुद्गलः // srs_28.56 //

न निश्रयस्तस्य कदाचि विद्यते अनिश्रितः सेवते ध्यानसौख्यम् / निरात्म निःसत्त्व विदित्व धर्मानुपपत्तिसंज्ञास्य न जातु भोति // srs_28.57 //

स्वभावु धर्माण प्रजानतश्च शीले ऽपि तस्येह न कश्चि निश्रयः / शीलेन नो मन्यति जातु शुद्धिं प्रसादमार्येषु करोति नित्यम् // srs_28.58 //

विरोधु तस्यो न कदाचि भोति विभाविताः सर्वस्वभावशून्याः / न चापि सो ऽभ्याख्याति नायकानां सद्धर्म धारित्व तथागतानाम् // srs_28.59 //

(वैद्य 168) दशेमे कुमार आनुशंसाः प्रतिसंलयनाभियुक्तस्य बोधिसत्त्वस्य महासत्त्वस्य । कतमे दश ?यदुत अनाविलचित्तो भवति । अप्रमत्तो विहरति । बुद्धमनुस्मरति । चर्यां श्रद्दधाति । ज्ञाने न काङ्क्षति । कृतज्ञो भवति । बुद्धानां धर्मं न प्रतिक्षिपति । सुसंवृतो विहरति । दान्तभूमिमनुप्राप्नोति। प्रतिसंविदः साक्षात्करोति । इमे कुमार दशानुशंसाः प्रतिसंलयनाभियुक्तस्य बोधिसत्त्वस्य महासत्त्वस्य ॥

तत्रेदमुच्यते -

चित्तमनाविलं भोति प्रमादाः सर्वि वर्जिताः / अप्रमत्तो विहरति प्रतिसंलानगोचरम् // srs_28.60 //

श्रुत्वा च लोकनाथानां चर्यां बुद्धान श्रद्दधे / ज्ञाने न काङ्क्षते योगी बुद्धज्ञाने अचिन्तिये // srs_28.61 //

कृतज्ञो भोति बुद्धानां बुद्धधर्मान्न काङ्क्षति / सुसंवृतो विहरति दान्तभूमिप्रतिष्ठितः // srs_28.62 //

प्रतिसंविदः स लभते य एको रमते सदा / जहित्वा लाभसत्कारं प्रतिसंलानगोचरः // srs_28.63 //

चित्तं च तस्यो भवति अनाविलं सर्वे प्रमादाः परिवर्जितास्य / सदाप्रमत्तो भवती महात्मा समाधियुक्तस्य इमे ऽनुशंसाः // srs_28.64 //

स्मरित्व बुद्धान् द्विपदानमुत्तमान् श्रद्धाति तेषां चरियामनुत्तराम् / न काङ्क्षति ज्ञानु तथागतानां समाधियुक्ते इमि आनुशंसाः // srs_28.65 //

बुद्धान सो भोति सदा कृतज्ञो न जीवितार्थं स क्षिपेत धर्मम् / सुसंवृतो विहरति नित्यकालं समाधियुक्ते इमि आनुशंसाः // srs_28.66 //

स दान्तभूमीमनुप्राप्त भोति प्रतिसंविदः साक्षिकरोति क्षिप्रम् / अनाच्छेद्यवाक्य प्रतिभानवांश्च सूत्रान्तकोटिनियुतान भाषते // srs_28.67 //

स बुद्धबोधिं परिगृह्णते लघुम् आरक्षते शासनु नायकस्य / (वैद्य 169) निहनित्व सो सर्वपरप्रवादिनः करोति वैस्तारिक बुद्धबोधिम् // srs_28.68 //

इतश्च्यवित्वान स बोधिसत्त्वः सुखावतीं गच्छति लोकधातुम् / अनुत्पादधर्मेषु च क्षान्ति लप्स्यते अमितायुषो धर्मवराग्रु श्रुत्वा // srs_28.69 //

दशेमे कुमार आनुशंसा अरण्यवासगुरुकस्य बोधिसत्त्वस्य महासत्त्वस्य । कतमे दश? यदुत अल्पकृत्यो विहरति । गणं वर्जयति । विवादो ऽस्य न भवति । अव्यावध्यो भवति । आस्रवान वर्धयति । अधिकरणं न करोति । उपशान्तश्चरति । सुसंवृतश्व विहरति । मोक्षानुकूला चास्य चित्तसंततिर्भवति । क्षिप्रं च विमुक्तिं साक्षात्करोति । इमे कुमार दशानुशंसा अरण्यवासगुरुकस्य बोधिसत्त्वस्य महासत्त्वस्य ॥

तत्रेदमुच्यते -

अल्पकृत्यः सदा भोति गणं वर्जेति दूरतः / विवादो न भवत्यस्य वनेष्वेकविहारिणः // srs_28.70 //

अव्यावध्येन चित्तेन आस्रवान्न विवर्धयेत् / नास्याधिकरणं भोति गुणास्ते ऽरण्यवासिनः // srs_28.71 //

उपशान्तः स चरते मनोवाक्कायसंवृतः / मोक्षानुकूलो भवति विमुक्तिं क्षिप्र स्पर्शति // srs_28.72 //

भवति सततमल्पकृत्यु योगी पृथुगणदोषेण विवर्जयित्वा / न विवदति कदाचि मुक्त योगी इमि गुण तस्य भवत्यरण्यवासे // srs_28.73 //

यद भवति निर्विण्णु संस्कृते ऽसौ न भवति तस्य स्पृहा कहिंचि लोके / न च भवति विवृद्धिरास्रवाणां वनि वसतो ऽस्य भवन्ति आनुशंसाः // srs_28.74 //

अधिकरणु न जातु चास्य भोति उपशान्तरतो विवेकचारी / वचसि मनसि काये संवृतस्यो बहु गुण तस्य भवन्त्यरण्यवासे // srs_28.75 //

(वैद्य 170) भवति च अनुकूल तस्य मोक्षो लघु प्रतिपद्यति सो विमुक्ति शान्तम् / वनि वसति विमुक्ति सेवतो ऽस्या इमि गुण भोन्ति अरण्यवासि सर्वे // srs_28.76 //

दशेमे कुमार आनुशंसाः पिण्डचारिकस्य धूतगुणसंलेखप्रतिष्ठितस्य बोधिसत्त्वस्य महासत्त्वस्य । कतमे दश? यदुत ज्ञात्रकामतास्य न भवति । यशस्कामतास्य न भवति । लाभसत्कारकामतास्य न भवति । आर्यवंशप्रतिष्ठितश्च भवति । कुहनलपनतास्य न भवति । आत्मानं नोत्कर्षयति । परान्न पंसयति । अनुनयप्रतिघप्रहीणः परगृहे चरति । निरामिषं च धर्मदानं ददाति । धूतगुणसंलेखप्रतिष्ठितस्य चास्य ग्राह्या धर्मदेशना भवति । इमे कुमार दशानुशंसाः पिण्डपातिकस्य धूपगुणसंलेखप्रतिष्ठितस्य बोधिसत्त्वस्य महासत्त्वस्य ॥

तत्रेदमुच्यते -

न ज्ञात्रकामो भवति यशो नाप्यभिनन्दते / लाभालाभे समचित्तो यो धूतेषु प्रतिष्ठितः // srs_28.77 //

नोत्सृजत्यार्यवंशं च कुहना लपना न च / उत्कर्षेति न चात्मानं परान् पंसयते न च // srs_28.78 //

प्रतिघानुनयौ चास्य धर्मं देशी निरामिषम् / ग्राह्यं सि वचनं भोति पिण्डपाते गुणा अमी // srs_28.79 //

न मार्गते ज्ञात्र यशो न लाभं चतुरार्यवंशे भवति प्रतिष्ठितः / अकुहको अलपकु भोति पण्डितो धूताधिमुक्तस्य इमीदृशा गुणाः // srs_28.80 //

नात्मानमुत्कर्षि परान्न पंसी पुरुषं पि उक्तो न कदाचि कुप्यते / वर्णं पि श्रुत्वा जनये न हर्षं यः पिण्डपातेन भवेत तुष्टः // srs_28.81 //

निरामिषं देति च धर्मदानं न लाभसत्कार गवेषते ऽसौ / ग्राह्या च तस्य भवते ऽस्य भाषितं धूताधिमुक्तस्य इमे ऽनुशंसाः // srs_28.82 //

इति हि कुमार एवंरूपेषु धूतगुणेषु प्रतिष्ठितो बोधिसत्त्वो महासत्त्वो ऽरण्ये विहरन् बुद्धनिधानं प्रतिलभते । धर्मनिधानं प्रतिलभते । ज्ञाननिधानं प्रतिलभते । पूर्वान्तापरान्तप्रत्युत्पन्नज्ञाननिधानं (वैद्य 171) प्रतिलभते । कथं च कुमार बोधिसत्त्वो महासत्त्वो बुद्धनिधानं प्रतिलभते?इमाः कुमार विवेकचारी बोधिसत्त्वो महासत्त्वः पञ्चाभिज्ञाः प्रतिलभते । स दिव्येन चक्षुषा विशुद्धेनातिक्रान्तमानुष्यकेण पूर्वस्यां दिशि अप्रमेयानसंख्येयान् बुद्धान् भगवतः पश्यति । एवं दक्षिणस्यां पश्चिमायामुत्तरस्यां दिशि अप्रमेयानसंख्येयान् बुद्धान् भगवतः पश्यति । सो ऽविरहितो भवति बुद्धदर्शनेन । एवं हि कुमार बोधिसत्त्वो महासत्त्वो बुद्धनिधानं प्रतिलभते । कथं च कुमार बोधिसत्त्वो महासत्त्वो धर्मनिधानं प्रतिलभते? यं च ते बुद्धा भगवन्तो धर्मं देशयन्ति, तं स बोधिसत्त्वो महासत्त्वो दिव्येन श्रोत्रधातुना सर्वं शृणोति । सो ऽविरहितो भवति धर्मश्रवणेन । एवं हि कुमार बोधिसत्त्वो धर्मनिधानं प्रतिलभते । कथं च कुमार बोधिसत्त्वो महासत्त्वो ज्ञाननिधानं प्रतिलभते? येन ज्ञानेन सर्वधर्मानाराधयति । आराधयित्वा अविप्रमुषितस्मृतिः सत्त्वानां धर्मं देशयति । तस्य च यो ऽर्थः स प्रजानाति । एवं हि कुमार बोधिसत्त्वो महासत्त्वो ज्ञाननिधानं प्रतिलभते । कथं च कुमार बोधिसत्त्वो महासत्त्वः पूर्वान्तापरान्तप्रत्युत्पन्नज्ञाननिधानं प्रतिलभते? सो ऽभिज्ञया अतीतानागतप्रत्युत्पन्नसत्त्वचित्तचरितज्ञानमवतरति । एवं हि कुमार बोधिसत्त्वो महासत्त्वः पूर्वान्तापरान्तप्रत्युत्पन्नज्ञाननिधानं प्रतिलभते । संक्षिप्तेन कुमार एवंगुणधर्मप्रतिष्ठितो बोधिसत्त्वो महासत्त्वः सर्वबुद्धधर्मान् प्रतिलभते यत्राभूमिः सर्वश्रावकप्रत्येकबुद्धानाम्, कः पुनर्वादः सर्वपरप्रवादिनाम् ॥

तत्रेदमुच्यते -

बुद्धनिधानं च धर्मनिधानं ज्ञाननिधानं च पूर्वान्तनिधानम् / पञ्च अभिज्ञाः स क्षिप्रं लभति यो विदु रण्णि सदा स्थितु भोति // srs_28.83 //

इति श्रीसमाधिराजे दशानुशंसापरिवर्तो नाम अष्टाविंशतितमः ॥

(वैद्य 172) 29 तेजगुणराजपरिवर्तः ।

तत्र भगवान् पुनरपि चन्द्रप्रभं कुमारभूतमामन्त्रयते स्म - तस्मात्तर्हि कुमार दिव्यानि चक्रवर्तिराज्यैश्वर्यसुखान्यपहाय प्रव्रजिष्यामीत्येवं त्वया कुमार सदा शिक्षितव्यम् । प्रव्रजितेन कुमार धूतगुणसंलेखप्रतिष्ठितेन विवेकचारिणा क्षान्तिसौरत्यसंपन्नेन भवितव्यम् । सदा च आरब्धवीर्येण ते कुमार आदीप्तशिरश्चैलोपमेन अयं सर्वधर्मस्वभावसमताविपञ्चितः समाधिः श्रोतव्य उद्ग्रहीतव्यः पर्यवाप्तव्यः प्रवर्तयितव्यो धारयितव्यो वाचयितव्यः उद्देष्टव्यः स्वाध्यातव्यो ऽरणाभावनया भावयितव्यो बहुलीकर्तव्यः, परेभ्यश्च विस्तरेण संप्रकाशयितव्यः । खङ्गविषाणभूतेन अद्वितीयेन च ते कुमार अरण्यनिषेविणा सदा भवितव्यम् । आत्मपरित्यागेनापि ते कुमार सर्वसत्त्वानामर्थः सदा करणीय इति ॥

अथ खलु भगवांस्तस्या वेलायामेतमेवार्थमुद्भावयंश्चन्द्रप्रभस्य कुमारभूतस्येमं पूर्वयोगकथापरिवर्तं गाथाभिगीतेन विस्तरेण संप्रकाशयति स्म -

स्मरमी अतीत बहुकल्पशता यद आसि नायकु अनन्तयशाः / नरदेवनागगणपूजनियो नामेन तेजगुणि राज जिनो // srs_29.1 //

दश भिक्षुकोटि षडभिज्ञरुहाः प्रतिसंविदान वशिपारगताः / धूतवृत्त संलेखित शान्तमनाः इति तस्य तेन समयेन गणाः // srs_29.2 //

षट्सप्तती नगर कोटिशताः पञ्चाशयोजनप्रमाण समाः / रतनान सप्तन विशिष्टवरा इह जम्बुद्वीपि तद कालि अभूत् // srs_29.3 //

तद कालि ते पुरवरा सकलाः प्रतिमण्डिता बहु उद्यानशतैः / उद्यान सर्वि घनमेघनिभाः फलपुष्पमण्डित तरुनिचिताः // srs_29.4 //

फलवृक्षजाति विविधा रुचिराः लकुचाम्रजम्बुपनसैर्निचिताः / (वैद्य 173) कर्णिकारचम्पकपुन्नागशतैः प्रतिमण्डितास्त उद्यानवराः // srs_29.5 //

न्यग्रोध सर्वि द्विजसंघरुताः कलविङ्ककोकिलमयूरशतैः / शुकजीवंजीवककुणालरुता बहुपक्षिसंघरुत कालि तदा // srs_29.6 //

धृतराष्ट्रराजहंसोपनिभा भृङ्गकुणाला वरघोषरुताः / चित्राङ्गरक्तमहावर्णप्रभाः सुमनोज्ञशब्द मधुरा मुदिताः // srs_29.7 //

इति पक्षि समागत कालि तदा कलविङ्कमयूरविहङ्गरुतैः / परपुष्ट शारिक विचित्र द्विजा बहुपक्षिघोषरुत नानविधाः // srs_29.8 //

तेहि निषेवित उद्यानशता मुचिलिन्दवार्षिक अशोकशतैः / अतिमुक्तकाथ जवपुष्पपत्रैः पद्मोत्पलैः कुमुदपुण्डरिकैः // srs_29.9 //

पदुमैः सहस्रशतपत्रचिता इमि पुष्प पुष्करिणिशोभकराः / प्रतिमण्डिताः सुरभिगन्धवराः शोभन्ति पुष्करिणियो रुचिराः // srs_29.10 //

तहि कालि राज इह जम्बुध्वजे दृढदत्तु आसि मनुजाधिपतिः / पुत्राण तस्य अभु पञ्चशताः प्रासादिकाः परमदर्शनिकाः // srs_29.11 //

तहि कालि राज्यु शिवु क्षेम अभूत् अनुपद्रुतं सुरमणीय शिवम् / अयु जम्बुद्वीप कुसुमैर्निचितो निर्विंशेष देवभवनेहि समम् // srs_29.12 //

(वैद्य 174) तहि कालि सो दशबलो अनिधो जिनु भाषते इमु समाधिवरम् / स्वप्नोपमा भवगती सकला न व कश्चि जायति न चो म्रियते // srs_29.13 //

न सत्त्व लभ्यति न जीवु नरो इमि धर्म फेनकदलीसदृशाः / मायोपमा गगनविद्युसमा दकचन्द्रसंनिभ मरीचिसमाः // srs_29.14 //

न च अस्मि लोकि मृतु कश्चि नरो परलोकि संक्रमति गच्छति वा / न च कर्म नश्यति कदाचि कृतं फलमेति कृष्ण शुभ संसरतो // srs_29.15 //

न च शाश्वतं न च उच्छेदु पुनो न च कर्मसंचयु न चापि स्थितिः / न च सो ऽपि कृत्व पुनरस्पृशती न च अन्यु कृत्व पुन वेदयते // srs_29.16 //

न च संक्रमो न च पुनागमनं न च सर्वमस्ति न च नास्ति पुनः / न च दृष्टिस्थानु गतिशुद्धिरिहो न च सत्त्वचरु न प्रशान्तगती // srs_29.17 //

अनुपादु शान्तु अनिमित्तपदं सुगतान गोचरु जिनान गुणाः / बल धारणी दशबलान बलं बुद्धानियं वृषभिता परमा // srs_29.18 //

वरशुक्लधर्म गुणसंनिचयो गुणज्ञानधारणिबलं परमम् / ऋद्धिविकुर्वणाविधिः परमा वरपञ्चाभिज्ञा प्रतिलाभनयः // srs_29.19 //

न च स प्रजानतीह स्वभावु क्वचि अगतागती निपुणधर्मगती / (वैद्य 175) न च धर्मधातु व्रजतीह क्वचि एवं गती अगति धर्मगती // srs_29.20 //

न च घोषसंचयु स्वभावगती गतियो स्वभावु न कहिंचि स्थितः / अस्थिता अनिश्रिता स्वभावगती जिनगोचरो विरजु शान्तपदम् // srs_29.21 //

शान्तप्रशान्त उपशान्तगती न च सा गती क्वचन संस्थिहती / भावु स्वभावु नुगताः सततं निपुणं सुदुर्दृशु पदं अचलम् // srs_29.22 //

न च सा चला हि स्वयमेव स्थिता अस्थिता अनागत स्वभावु स्थिता / न च शक्य भाषितु स्वभावु स्थिती शून्या च सा अचलु धर्मस्थिती // srs_29.23 //

घोषश्च उक्त न च घोषगती घोषस्वभावगति धर्मगती / न च घोषसंचयु स्थिती च क्वचि एवंस्वभावु गति धर्मगती // srs_29.24 //

गतिशब्द उक्तु न च सत्त्वगती धर्मस्वभाव निपुणार्थगती / घोषो ऽपि चोक्तु न च सत्त्वगती न च घोषु लभ्यति न सत्त्वगतिः // srs_29.25 //

न च अनन्त नान्त न च मध्यगतिः नैवास्ति नास्ति न च देशगती / ज्ञाता च यादृश स्वभावगती इय देशना जिनवराण समा // srs_29.26 //

विरजं विशुद्धि परमार्थपदं शान्त प्रशान्त अरजं विरजम् / न च कल्प मन्यन प्रशान्तपदं जिनु भाषते परमकारुणिको // srs_29.27 //

(वैद्य 176) न पि चास्ति अक्षरप्रचार इहो विपुला गतिर्विपुला अर्थगती / बुद्धेहि सेवित जिनेहि स्तुता अवभास धर्मनय सूक्ष्मगती // srs_29.28 //

धर्मनिधान विरजं विपुलं यत्र स्थिता अप्रतिमा सुगता / देशेन्ति धर्मरतनं विरजं परमार्थशून्य निपुणार्थगती // srs_29.29 //

अश्रौषि राज दृढदत्तु तदा द्विपदेन्द्र भाषति समाधिमिमम् / सो ऽशीतिकोटिनयुतेहि तदा उपसंक्रमी तद जिनु कारुणिकम् // srs_29.30 //

बलवन्तु गौरवु जनेत्व जिने वन्दित्व पादु मनुजाधिपतिः / पुरतः स्थितो दशबलस्य तदा कृताञ्जलिर्दशनखः प्रमुदितः // srs_29.31 //

तस्यो विदित्व परिशुद्ध चरीं जिन इन्द्रियेषु वशि पारगतः / अधुमुक्तिकोविदु नरः प्रवरो इमु तस्य देशयि समाधिवरम् // srs_29.32 //

यद तेन राज्ञ परमार्थ श्रुतो उत्पन्न प्रीति अरिया विपुला / उज्झित्व द्वीप सकलांश्चतुरो विजहित्व काम अभिनिष्क्रमि सो // srs_29.33 //

यद राज प्रव्रजि जहित्व महीं बोधाय अर्थिकु भविष्यजिनः / सर्वे मनुष्य इह जम्बुध्वजे विजहित्व कामरती प्रव्रजिता // srs_29.34 //

विपुलो गणो दशबलस्य तदा बहु भिक्षु भिक्षुणि प्रयुक्तमनाः / (वैद्य 177) अकृष्टा अनुप्त तद ओषधयो प्रादुर्भूता मरुत्परिचराः // srs_29.35 //

काषाय त्रिचीवर प्रादुर्भूता समच्छिन्न सुसीवित ते ऽनुपमाः / अमला विरजाश्च सुवर्णचित्ता बुद्धस्य गुणोचित पुण्यबलाः // srs_29.36 //

पश्यो कुमार स हि राजवरो विजहित्व सर्व महि प्रव्रजितः / भेष्यन्ति सत्त्व क्षयकालि बहु अपरीत्तभोगा न त्यजन्ति गृहान् // srs_29.37 //

ताडन बन्धन कुदण्ड बहु आक्रोश तर्जनमनिष्टदुखम् / सहिष्यन्ति राजकुल पीड बहु सुपरीत्तभोग न च भक्तु गृहे // srs_29.38 //

अपरीत्त आयु न च अस्ति धनं सुमहान् प्रमादु न च पुण्यबलम् / न च शिल्पस्थानकुशला अबुधा दारिद्रियं च न च वित्तु गृहे // srs_29.39 //

परदारगृद्ध अविशुद्धमना ईर्ष्यालुकाः परमसाहसिकाः / संक्लिष्टधर्म न च वृत्तु स्थिता वक्ष्यन्ति बुद्ध भविष्याम् वयम् // srs_29.40 //

उत्कोचवञ्चनक साहसिका अहमाढ्यु धर्म धनदास्मि जगे / उपघातकाः कुहक नैकृतिका वक्ष्यन्ति बुद्ध भविष्याम वयम् // srs_29.41 //

वधबन्धुपद्रवि परस्य रताः दुःशील दारुण प्रदुष्टमनाः / अकृतज्ञ भेदक विहिंसस्थिता वक्ष्यन्ति हं ते भण बोधिचरिम् // srs_29.42 //

यस्यैव तेन श्रुत बोधिचरी तस्यैव मध्यि प्रतिघं जनयी / (वैद्य 178) श्रुत्वा च बुधं स्खलितमेकपदं तस्यैव भाषति अवर्णशतान् // srs_29.43 //

तदिमां कुमार मम श्रुत्व गिरं मा तेहि संस्तवु करोहि तदा / सुपिनान्तरे ऽपि अविश्वस्त सिया यदि इच्छसे स्पृशितु बोधिचरीम् // srs_29.44 //

धूतवृत्त संलिखित नैकगुणान् परिकीर्तयन्तु बहुकल्पशतान् / भणती गुणान्न च गुणेषु स्थितो न स बुध्यते परमबोधिगिराम् // srs_29.45 //

भवथा सदापि अखिला मधुरा सद शुद्धशील सुप्रसन्नमनाः / परिशुद्धशील भवथा सततं नचिरेण लप्स्यथ समाधिवरम् // srs_29.46 //

न करोथ मान न जनेथ खिलं परिशुद्धमानस सदा भवथा / मद मान म्रक्ष विजहित्व ततः प्रतिलप्स्यथा इमु समाधिवरम् // srs_29.47 //

गुणतो अनुस्मरि जिनं सततं वरकाञ्चनच्छविप्रभासकरम् / गगनं च रात्रिय नक्षत्रस्फुटं तथ कायु लक्षणस्फुटो मुनिनो // srs_29.48 //

ध्वजच्छत्रवितानपताकवरां चूर्णानुलेपनं गृहीत्व बहून् / पूजां करोथ सुगतस्य सदा नचिरेण लप्स्यथ समाधिवरम् // srs_29.49 //

वर गन्धमाल्यकुसुमा रुचिरां वादित्र तूर्य प्रगृहीत बहु / (वैद्य 179) जिनस्तूपि पूज प्रकरोथ सदा नचिरेण लप्स्यथ समाधिवरम् // srs_29.50 //

पणवैः सुघोषकमृदङ्गशतैः पटहैर्विपञ्चिवरवेणुरवैः / मधुरस्वरैर्विंविधवाद्यगणैः पूजेथ नायकु प्रसन्नमनाः // srs_29.51 //

कारेथ बुद्धप्रतिमां रुचिरां रतनामयीं सुपरिकर्मकृताम् / प्रासादिकां परमसुदर्शनीयां नचिरेण लप्स्यथ समाधिवरम् // srs_29.52 //

वनषण्ड सेवथ विविक्त सदा विजहित्व ग्रामनगरेषु रतिम् / अद्वितीय खङ्गसम भोथ सदा नचिरेण लप्स्यथ समाधिवरम् // srs_29.53 //

अहु धर्मस्वामि मम यूयु सुता अनुशिक्षथा मम समाधिचरिम् / अहु सो अभूषि दिशता सुविश्रुतो दृढदत्तु नाम मनुजाधिपतिः // srs_29.54 //

मय बुद्ध पूजित अनन्त पुरे मय शीलु रक्षितु विशुद्धमनाः / मय गौरवं दशबलेषु कृतं इमु शान्तमेषत समाधिवरम् // srs_29.55 //

मय पुत्र दार परित्यक्त पुरे शिरहस्तपादनयनाग्रवराः / न च लीनचित्तत कदाचि कृता इमु शान्तमेषत समाधिवरम् // srs_29.56 //

(वैद्य 180) धनधान्य दास बहुदासिशता रतना प्रभूत परित्यक्त मया / संतर्पिता पि बहुयाचनका इमु शान्तमेषत समाधिवरम् // srs_29.57 //

मय मुक्ति स्फाटिक सुवर्ण बहु वैदूर्य शङ्ख शिल त्यक्त पुरे / मणि शुद्धरूपिय प्रवाल घना इमु शान्तमेषत समाधिवरम् // srs_29.58 //

मय त्यक्त आभरण नानविधा वरमुक्तहार तथ सीहनुकाः / रतनान जालिक विशिष्ट पृथु इमु शान्तमेषत समाधिवरम् // srs_29.59 //

मय वस्त्रकोट्य परमा सुखुमाः परिशुद्ध काशिकदुकूलवराः / बहुहेमचित्र परित्यक्त परे इमु शान्तमेषत समाधिवरम् // srs_29.60 //

मय हस्ति अश्व रथ नानविधाः परित्यक्त स्वप्रियसुतो महिलाः / न च दौर्मनस्यत कदाचि कृता इमु शान्तमेषत समाधिवरम् // srs_29.61 //

मय दृष्ट्व पूर्वि सुदरिद्र नराः पर्येष्टिदुःखित च कृच्छ्रगताः / मय ते धनेन अदरिद्र कृताः इमु शान्तमेषत समाधिवरम् // srs_29.62 //

हस्ती रथाश्वरथका नयुताः प्रच्छन्नरतनमणिजालचिताः / दत्ता मया याचनकान पुरा इमु शान्तमेषत समाधिवरम् // srs_29.63 //

उद्यान कोटिनयुता बहवः समलंकरित्व मय दत्त पुरा / (वैद्य 181) हर्षेत्व मानसु जनित्व कृपां इमु शान्तमेषत समाधिवरम् // srs_29.64 //

ग्रामाथ राष्ट्रनगरा निगमाः समलंकरित्व मय दत्त पुरा / दत्वा च प्रीतिमनुभोमि सदा इमु शान्तमेषत समाधिवरम् // srs_29.65 //

रतनान राशय सुमेरुसमास्तथ चीवराभरणकाश्च बहु / ये दत्त पूर्वि मय याचनके इमु शान्तमेषत समाधिवरम् // srs_29.66 //

सुदरिद्र सत्त्व कृत आढ्य मया परिकृच्छ्रप्राप्त परित्रात बहु / बहुदुःखपद्रुत सुखी मि कृता इमु शान्तमेषत समाधिवरम् // srs_29.67 //

यद आसि ईश्चरु महीय अहं दुखितां च पश्यमि बहुं जनताम् / उत्सृष्ट तेषु मय राज्यमभूत् कृप संजनेत्व सुखितो च यथा // srs_29.68 //

ये मे कुमार कृत आश्चरिया कृत दुष्कराणि बहु कल्पशता / न च ते मय क्षपण शक्य सिया कल्पान कोटिनयुता भणतः // srs_29.69 //

उन्मत्तचित्तभूमि गच्छि नरा । अश्रद्दधन्त सुगतस्य चरिम् / कृत ये मि दुष्कर तदाश्चरिया इमु शान्तमेषत समाधिवरम् // srs_29.70 //

आरोचयामि च कुमार इदं श्रद्दधन्त मे अवितथं वचनम् / न हि वाच भाषति मृषां सुगतः सद सत्यवादि जिनु कारुणिकः // srs_29.71 //

(वैद्य 182) अन्ये इमे ऽपि च प्रकार बहू चरता शोधित य कल्पशताः / कथमहं लभित्विमु समाधिवरं मोचेय सत्त्वनियुतां दुखिताम् // srs_29.72 //

यस्मिन् क्षणे अयु समाधि मया प्रतिलब्ध भूत महाज्ञानपथः / सो ऽहं लभित्विमु समाधिवरं पश्यामि बुद्धनयुतान् सुबहून् // srs_29.73 //

ऋद्धी अनन्त प्रतिलब्ध मया स विकुर्वमाणु व्रजि क्षेत्रशतान् / गत्वा च पृच्छि अहु कारुणिकान् प्रश्नान कोटिनियुतान बहुम् // srs_29.74 //

यश्चैव भाषि मम ते सुगता प्रश्नान कोटिनियुतान तदा / गृह्णित्व सर्वमहु धारयमी न च भ्रश्यते एकपदं पि ममा // srs_29.75 //

तं चो श्रुणित्व अहु भूतनयं प्रश्नान कोटिनयुतान बहुम् / देशित्व तं विरज शान्तपदं स्थापेमि सत्त्व बहु ज्ञानपथे // srs_29.76 //

अस्मिन् समाधिय स्थिहित्व मया शिक्षित्व भूतनय कल्पशतान् / बहुसत्त्वकोटिनयुतानि पुरा ये स्थापिता विरजि मार्गवरे // srs_29.77 //

येही न दृष्ट पुरिमा सुगता भाषन्तका इमु नयं विरजम् / तेही न शक्यमिह श्रद्दधितुं परमार्थशून्यत समाधिवरम् // srs_29.78 //

ये श्राद्ध पण्डित विधिज्ञ नरा गम्भीरभूतनयलब्धनयाः / (वैद्य 183) ते ना त्रसन्ति न च संत्रसिषू श्रुत्वा च भोन्ति सद आत्तमनाः // srs_29.79 //

ते ते धरेन्ति वरबोधि समा ते ते हि पुत्र अनुजात ममा / ते ते ह्युदुम्बरकुसुमसमास्तेषार्थ हं चरितु कल्पशतान् // srs_29.80 //

न पि तस्य अस्ति विनिपातभयं अष्टाक्षणा विगत तस्य सदा / द्रक्ष्यन्ति बुद्धनयुतान् सुबहून् इमु यः समाधि नरु धारयती // srs_29.81 //

यथ मैत्रको जिनु अनन्तयशाः सत्त्वान भेष्यि बहु अर्थकरः / तथ व्याकरोम्यहमनन्तमतिं हस्तस्मि यस्य सुसमाधिवरम् // srs_29.82 //

स्मृतिमान् स भोति मतिमान् ज्ञानोद्गतः श्रुतिधरो भवति / प्रतिभानु तस्य भवति विपुलं इमु यः समाधि नरु धारयती // srs_29.83 //

देवानां च स भवति पूजनियो मरुतां च सद नमस्यनीयः / अभिरक्षितः सतत देवगणैः इमु यः समाधि नरु धारयति // srs_29.84 //

न च सो ऽग्निमध्ये म्रियते न जले न च तस्य शस्त्र क्रमते न विषम् / न च वैरिणां गमनियो भवती इमु यः समाधि नरु धारयती // srs_29.85 //

वनकन्दरे वसतु तस्य सदा मरुता करोन्ति वर पारिचरिम् / उपस्थायकाश्च बहु यक्षशता इमु यः समाधि नरु धारयती // srs_29.86 //

(वैद्य 184) ज्ञानेन सागरसमो भवती न सज्जते गुण भणन्तु मुनेः / भूतांश्च बुद्धगुण कीर्तयते इमु यः समाधि नरु धारयती // srs_29.87 //

नान्तो न चास्य पर्यन्तु श्रुते न प्रमाणु लभ्यति यथा गगने / ज्ञानोल्कधारि तिमिरं हरति इमु यः समाधि नरु धारयती // srs_29.88 //

स्निग्धं सुयुक्त सद मुञ्च गिरां पर्षत्सु भाषति सुप्रेमणियाम् / सिंहो यथा स विनदं भणती इमु यः समाधि नरु धारयती // srs_29.89 //

वैद्यो भिषकु समु सो भवती गति लेनु त्राण शरणं बहूनाम् / आलोकभूतु जगि सो भवति इमु यः समाधि नरु धारयती // srs_29.90 //

न च तस्य मैथुनि मनो रमते शमथे रतः स्पृशति ध्यानसुखम् / शान्तां स भाषति प्रशान्त गिरम् इमु यः समाधि नरु धारयती // srs_29.91 //

न च तस्य मानसु निमित्तरतं सर्वे विभावित निमित्त पृथु / सततं समाहितु विदू भवती इमु यः समाधि नरु धारयती // srs_29.92 //

चक्षुश्च सो लभति अप्राकृतकं येनो स पश्यति अनन्तजिनान् / सो ऽनन्तचक्षुर्भवति वृषभो इमु यः समाधि नरु धारयती // srs_29.93 //

क्रौञ्चस्वरो मधुरयुक्तगिरो कलविङ्कदुन्दुभिस्वरो भवती / संगीतियुक्तस्वरु मञ्जुगिरो इमु यः समाधि नरु धारयती // srs_29.94 //

(वैद्य 185) मेघाभिगर्जितस्वरो भवती हंसस्वरो रवति मञ्जुगिरः / पञ्चस्वराङ्गशतयुक्तस्वरो इमु यः समाधि नरु धारयती // srs_29.95 //

बहुकल्पकोटिनयुता विविधा मधुरस्वराङ्गसुप्रयुक्तस्वराः / अचिन्तिया स गिर निश्चरती इमु यः समाधि नरु धारयती // srs_29.96 //

न च भोजने भवति गृध्नुमना न पात्रचीवररतो भवती / अल्पेच्छु संतुष्ट सुसंलिखितो इमु यः समाधि नरु धारयती // srs_29.97 //

न च आत्म उत्कर्षकु सो भवती न परस्य भाषति अवर्णु क्वचित् / ध्याने रतः सुखुमचित्तु सदा इमु यः समाधि नरु धारयती // srs_29.98 //

आत्मानुप्रेक्षी सततं भवती न परस्य स्खलितेमेषति च / अविरुद्धु सर्वि जगि सो भवती इमु यः समाधि नरु धारयती // srs_29.99 //

अकिलिष्टचित्तु परिशुद्धचरी अशठो अवञ्चकु सदा भवती / सदमार्दवः सद विमोक्षरतो इमु यः समाधि नरु धारयती // srs_29.100 //

त्यागाधिमुक्त सततं भवती मात्सर्यचित्तु न च तस्य रतम् / शीलेनुपेतु सततं भवती इमु यः समाधि नरु धारयती // srs_29.101 //

अभिरूप दर्शनियु प्रेमणियो वरकाञ्चनच्छवि प्रभासकरः / (वैद्य 186) द्वात्रिंशल्लक्षणधरो भवती इमु यः समाधि नरु धारयती // srs_29.102 //

प्रासादिकश्च सद सो भवती अभिलक्षितो बहुजनस्य प्रियो / प्रेक्षन्त तृप्ति न लभन्ति नरा इमु यः समाधि नरु धारयती // srs_29.103 //

देवास्य नाग तथ यक्षगणास्तुष्टा उदग्राः सद आत्तमनाः / भाषन्ति वर्ण प्रविशित्व कुलानिमु यः समाधि नरु धारयती // srs_29.104 //

ब्रह्मा च शक्र वशवर्ति वहु उपस्थानु तस्य प्रकरोन्ति सदा / न च तस्य उन्नत मनो भवती । इमु यः समाधि नरु धारयती // srs_29.105 //

न च तस्य दुर्गतिभयं भवती न पि चाक्षणा न विनिपातभयम् / परिमुक्तु सर्वविनिपातभयादिमु यः समाधि नरु धारयती // srs_29.106 //

न च तस्य काङ्क्ष विमतिर्भवती वर बुद्धधर्म श्रुणिया निपुणान् / गम्भीरज्ञानानुगतो भवती इमु यः समाधि नरु धारयती // srs_29.107 //

यं यं पि धर्मं श्रुणती सुखुमं सर्वत्र भोति वशि पारगतः / बलवन्तु हेतुनिपुणो भवती इमु यः समाधि नरु धारयती // srs_29.108 //

एवं प्रभाषित जिनेन गिरा अहु तेन भोमि परिचीर्ण सदा / लभते च धारणि विशिष्ट वरामिमु यः समाधि नरु धारयती // srs_29.109 //

कालक्रियां च स करोति यदा अमिताभु तस्य पुरतः स्थिहती / (वैद्य 187) भिक्षुगणेन सह कारुणिको इमु यः समाधि नरु धारयती // srs_29.110 //

लाभी च धारणिय सो भवती धर्मनिधान वशिपारगतः / प्रतिभानवाननाच्छेद्यगिरो य इमं समाधि नरु धारयती // srs_29.111 //

येनैव सो व्रजति धर्मधरो आलोकभूत भवती जगतः / सिप्रशान्तचर सुविशुद्धमना इमु यः समाधि नरु धारयती // srs_29.112 //

वर धर्मकोश विविधं निपुणं सो धर्मकाय वशि पारगतः / सो संशयं छिनत्ति सर्वजगे इमु यः समाधि नरु धारयती // srs_29.113 //

सर्वे ऽपि सत्त्व सिय कारुणिका भगवान् भवान्तकरणे सुगतः / तान् सत्करेय्या बहु कल्पशतान् यथ गङ्गवालुक तथोत्तरि वा // srs_29.114 //

यश्चैव पश्चि क्षयकालि इमं श्रुत्वा समाधिमिह कश्चि नरः / अनुमोदमीति भणतैकगिरं कल पुण्यस्कन्ध न स पूर्व भवेत् // srs_29.115 //

यस्यो कुमार इय शान्तगती परमार्थशून्यत समाधिवरो / प्रावर्तु भोति तथ पुस्तगतः सो धर्मभाणकु स्थितः सुमतिः // srs_29.116 // इति श्रीसमाधिराजे तेजगुणराजपरिवर्तो नामोनत्रिंशतितमः ॥ 29 ॥ (वैद्य 188) 30 अनुशंसापरिवर्तः ।

अथ खलु भगवान् पुनरेव चन्द्रप्रभं कुमारभूतमामन्त्रयते स्म - तस्मात्तर्हि कुमार य आकाङ्क्षेद् बोधिसत्त्वो महासत्त्वः - किमित्यहं सर्वसत्त्वानां रुतमधिगच्छेयमिन्द्रियाणां च परापरज्ञतां विज्ञाय धर्मं देशयेयमिति,तेन कुमार बोधिसत्त्वेन महासत्त्वेन अयं सर्वधर्मस्वभावसमताविपञ्चितः समाधिः श्रोतव्य उद्ग्रहीतव्यः पर्यवाप्तव्यो धारयितव्यो वाचयितव्यः अरणाभावनया भावयितव्यो बहुलीकर्तव्यः परेभ्यश्च विस्तरेण संप्रकाशयितव्यः ॥

अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत -

अपरिमित अतीत नायकास्तेन दृष्टाः पुरतु कथ प्रयुक्ता पृच्छिता लोकनाथाः / प्रवर कुशलमूले तिष्ठतो बोधिसत्त्वो इमु विरजसमाधिं धारयन् मोक्षकामः // srs_30.1 //

लभति सुख प्रणीतं दिव्यमानुष्यकं चो लभति परमपूजां दिव्यमानुष्यकां सो / लभति सुख प्रणीतं ध्यानसौख्यार्यसौख्यम् इमु विरज समाधिं धारयन् मोक्षकामः // srs_30.2 //

वर्णु श्रुणिय उदारं हर्षु तस्यो न भोति न पि च पुनरवर्णे मङ्कुभावं निगच्छेत् / शैलोपमु अकम्पेय्यो अष्टभिर्लोकधर्मैर् इमु विरज समाधिं धारयन् मोक्षकामः // srs_30.3 //

अखिलमधुरवाणी श्लक्ष्णवाचा सुयुक्ता अपगतभ्रुकुटिश्चो पूर्वआलापि भोति / सततस्मितमुखश्चो शिक्षितो नायकानाम् इमु विरजसमाधिं धारयन् मोक्षकामः // srs_30.4 //

भवति स सुखवासः सूरतः स्निग्धचित्तो भवति सद सुदान्तो दान्तभूमिस्थितश्च / सुमधुर प्रियवाणी स्निग्धसत्याभिधायी इमु विरजसमाधिं धारयन् बोधिकामः // srs_30.5 //

न च स कथ करोती वैग्रहीं नो विवादान् अपगतखिल दोषा वर्जितास्तेन शेषाः / (वैद्य 189) प्रमुदितु सद भोती सूरतो मार्दवश्च इमु विरज समाधिं धारयन् बोधिकामः // srs_30.6 //

भवति च सद विद्वांस्त्यागि नित्याभियुक्तः सुदुखित जन दृष्ट्वा तेषमन्नं ददाति / प्रियतरु परित्यक्तुं भोति नित्यं सुदाता इमु विरजसमाधिं धारयन् बोधिकामः // srs_30.7 //

देवशतसहस्राण स्पृहां ये संजनेन्ती नाग असुर यक्षा नित्युपस्थायकास्य / वनि पवनि वसन्ते रक्ष तस्या करोन्ती इमु विरज समाधिं यो नरो धारयति // srs_30.8 //

भणि वचनमसक्तं ब्रह्मधोषस्वरो ऽसौ हंसरवितघोषः किन्नरोद्गीतघोषः / पञ्चशतस्वराङ्गो हर्षणीयस्वरश्चो भवति नदितशब्दो घुष्टशब्दः सुशब्दः // srs_30.9 //

यावततु पृथु क्षत्राण नरः कश्चिदेव सूक्ष्म रज करेय्या शक्य ते लक्षणाय / ततु बहुतरु तस्यो ये स्वरा निश्चरन्ती इमु विरज समाधिं यो नरो धारयाति // srs_30.10 // इति श्रीसमाधिराजे ऽनुशंसापरिवर्तो नाम त्रिंशतितमः ॥ 30 ॥ (वैद्य 190) 31 सर्वधर्मस्वभावनिर्देशपरिवर्तः ।

तत्र भगवान् पुनरपि चन्द्रप्रभं कुमारभूतमामन्त्रयते स्म - तस्मात्तर्हि कुमार य आकाङ्क्षेद् बोधिसत्त्वो महासत्त्वः किमित्यहं सर्वधर्माणां स्वभावं कथं जानीयामिति,तेन कुमार बोधिसत्त्वेन महासत्त्वेन अयं सर्वधर्मस्वभावसमताविपञ्चितः समाधिः श्रोतव्य उद्ग्रहीतव्यः पर्यवाप्तव्यो धारयितव्यो वाचयितव्य उद्देष्टव्यः स्वाध्यातव्यः अरणाभावनया भावयितव्यो बहुलीकर्तव्यः परेभ्यश्च विस्तरेण संप्रकाशयितव्यः ॥

अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत -

तस्यो रागु न जातु कुप्यते न च दोषो तस्यो मोह न जातु कुप्यते वृषभिस्य / तेनो सर्वि किलेश च्छोरितानवशेषा यो ऽसौ धर्मस्वभावु जानती सुप्रशान्तम् // srs_31.1 //

सो ऽसौ शिक्ष न जातु ओषिरी सुगतानां सो ऽसौ शूरु न जातु इस्त्रियाणां वशमेति / सो ऽसौ शासनि प्रीति विन्दते सुगतानां यो ऽसौ धर्मस्वभावु जानती सुप्रशान्तम् // srs_31.2 //

सो ऽसौ ज्ञानविधिज्ञ पण्डितो मतिमांश्च सो ऽसौ बुद्ध अनन्त पश्यती अपर्यन्तां / सो ऽसौ धारणिज्ञानु जानती अपर्यन्तं यो ऽसौ धर्मस्वभावु जानती नययुक्तिम् // srs_31.3 //

सो ऽसौ नेह चिरेण भेष्यति द्विपदेन्द्रः सो ऽसौ वैद्यु भिषकु भेष्यते सुखदाता / सो ऽसौ उद्धरि शल्य सर्वशो दुखितानां यो ऽसौ धर्मस्वभावु जानती सुप्रशान्तम् // srs_31.4 //

सो ऽसौ आतुरु ज्ञात्व दुःखितानिमि सत्त्वान् सो ऽसौ भेरी सदा पराहनी अमृतस्य / सो ऽसौ भेष्यति नायको जिनो नचिरेण यो ऽसौ धर्मस्वभावु जानती सुप्रशान्तम् // srs_31.5 //

(वैद्य 191) सो ऽसौ भैषज्यनयेषु कोविदो वरवैद्यो आदिं जानति सर्वव्याधिनां यत्र मुक्तिः / सो ऽसौ भूतनयशिक्षितो मतिमन्तो शिक्षित्वा बहुसत्त्व मोचयी पृथु नष्टान् // srs_31.6 //

सो ऽसौ शून्यनयेषु कोविदो मतिशूरः सो ऽसौ लोकि असक्तु भुञ्जति सद पिण्डम् / सो ऽसौ बोधिवराय स्थापयि बहुसत्त्वान् यो ऽसौ धर्मस्वभावु जानती सुप्रशान्तम् // srs_31.7 //

सो ऽसौ क्षान्तिबलेन उद्गतो नरचन्द्रः सो ऽसौ लोष्टकदण्डताडितो न च कुप्यी / सो ऽसौ छिद्यतु अङ्गमङ्गशो न च क्षुभ्ये यो ऽसौ धर्मस्वभावु जानती सुप्रशान्तम् // srs_31.8 //

सो ऽसौ क्षान्तिबले प्रतिष्ठितो बलवन्तो सो ऽसौ क्षान्तिय वस्तु तादृशो सुप्रशान्तः / सो ऽसौ क्षान्तिबलेन मन्यते मतिशूरो यो ऽसौ धर्मस्वभावु जानती सुप्रशान्तम् // srs_31.9 //

सो ऽसौ वस्तु न जातु मन्यते अहु च्छिन्ना तेनो सर्वि भवा विभाविताः सद शून्याः / तस्यो संज्ञा प्रहीण सर्वशो निखिलेनो यो ऽसौ धर्मस्वभावु जानती सुप्रशान्तम् // srs_31.10 //

ते ते धर्मस्वभावु देशयी सुप्रणीतं ते ते बोधि स्पृशी अनुत्तरां नचिरेण / येषां धर्मस्वभावु गोचरः सुनिध्यप्तो तेषां दत्त अनन्त दक्षिणा अपर्यन्ता // srs_31.11 //

सो ऽसौ भाषति सूत्रकोटियो अपर्यन्ता यथ गङ्गनदीय वालिकास्ततु भूयः / नो चास्यु प्रतिभानु छिद्यते वर्णमाने यो ऽसौ धर्मस्वभावु जानती सुप्रशान्तम् // srs_31.12 //

सो ऽसौ कल्पसहस्रकोटिशो नयुतानि ज्ञानेनो सद भोति उद्गतो यथ मेरुः /

(वैद्य 192) धर्म तस्य क्षयो न विद्यते भणमाने यो ऽसौ धर्मस्वभावु जानती सुप्रशान्तम् // srs_31.13 //

विस्तीर्णं विपुलं अचिन्तियं प्रतिभानं भोती बोधिवरां गवेषतः सद तस्यो / नित्यं भाषति सूत्रकोटियो अपर्यन्ता यो ऽसौ धर्मस्वभावु जानती सुप्रशान्तम् // srs_31.14 //

यं चैते द्विपदोत्तमा जिना भणि धर्मं सर्वं तं च श्रुणित्व गृह्णती परिपूर्णम् / नो वा एकपदे ऽपि विद्यते विमतिस्यो यो ऽसौ सर्वि अभाव जानती इमि धर्मान् // srs_31.15 //

सो ऽसौ भोति विशिष्ट त्यागवान् सद कालं भोती दानपतिः सुखंददो दुखितानाम् / दृष्टा दुःखित सत्त्व तर्पयी रतनेही यो ऽसौ धर्मस्वभावु जानती सद शून्यम् // srs_31.16 //

सौ ऽसौ जम्बुध्वजे भविष्यती सद राजा सत्त्वानां सद सौख्य काहिती अपर्यन्तम् / मैत्राये समुपेतु प्राणीनां सद काले यो ऽसौ धर्मस्वभावु जानती सद शून्यम् // srs_31.17 //

पुत्रान् धीतर दासदासियो त्यज्य धीरो हस्तौ पाद शिरांसि स त्यजी तथ राज्यम् / नो चालीयति तस्य मानसं वृषभिस्यो यो ऽसौ धर्मस्वभावु जानती सद शून्यम् // srs_31.18 //

अङ्गाङ्गं पुन तस्य छिद्यती यदि कायो नो तस्य प्रतिहन्यते मनः सुपिने ऽपि / तेनो पूजित भोन्ति नायका द्विपदेन्द्रा यो ऽसौ धर्मस्वभावु जानती सद शून्यम् // srs_31.19 //

तेनो पूजित सर्वि नायका य अतीतास्तथ पूजित ये अनागता द्विपदेन्द्राः / तेही सत्कृत सर्वि नायका स्थित ये चो यो ऽसौ धर्मस्वभावु जानती सद शून्यम् // srs_31.20 //

(वैद्य 193) सो ऽसौ कोश धरेति पण्डितः सुगतानां सो ऽसौ धारणिये प्रतिष्ठितः परमायाम् / सो ऽसौ भेष्यति लोकनायको नचिअरेण यच्छुत्वा इमु सूत्रं धारयेत् क्षयकाले // srs_31.21 //

सो ऽन्धो नैव कदाचि भेष्यती विदु जातु नो चो अङ्गविहीनु भेष्यती बहुकल्पान् / तेनो अक्षण अष्ट वर्जिता इमि नित्यं येनो सूत्रमिदं प्रभाषितं अप्रमुष्टम् // srs_31.22 //

नासौ दुर्गतिषु गमिष्यति पुन जातु नित्यं लक्षणधारि भेष्यती अभिरूपः / पच्चो तस्य अभिज्ञ भाविता इमि नित्यं पुरतः सो सुगतान स्थास्यती सद शूरः // srs_31.23 //

बहुकान् निर्मित निर्मिणित्वान अयु ज्ञानी प्रेषती बहुक्षेत्रकोटिषु विनयार्थम् / येहि दृष्ट भवन्ति निर्मिता बहु बुद्धाः तेही बोधिवराय स्थापिता बहु सत्त्वाः // srs_31.24 //

स्मृतिमन्तः गतिमन्तः प्रज्ञावान् धृतिमांश्च स्थाम्ना वीर्यबलेन सो सदा समुपेतः / धर्मपारमिप्राप्त भेष्यति महतेजा यः श्रुत्वा इमु सूत्र धारयेत् क्षयकाले // srs_31.25 //

रश्मिकोटिसहस्र निश्चरी सद तेषां व्योमाः सर्वि करोन्ति मण्डलाः सुरियाणाम् / येही भावित भोन्ति शून्यका इमि धर्मास्ते ते शूर भवन्ति नायका नचिरेण // srs_31.26 //

एषो गोचरु शान्तु भावितो मय पूर्वं बहुकल्पान सहस्र कोटियो नियुतानि / (वैद्य 194) वीर्यं मे न कदाचि सहसित इह मार्गे यदहं दीपंकरेण व्याकृतो जिनभूमी // srs_31.27 //

यूयं पी मम चर्या शिक्षथा इह सूत्रे गम्भीरा परमार्थ देशिता इय नेत्री / यत्रामी बहु नष्ट तीर्थिका विपरिता क्षिप्त्वा बोधिमपायि भैरवे प्रपतन्ति // srs_31.28 //

बहुकल्पान सहस्रकोटियो नयुतानि वेदित्वा अमु तत्र वेदना कटु तीब्राः / बहुकल्पा नयुतानमत्ययात् पुनरेव हेतुः सो अमृतस्य प्राप्तये भविष्यते // srs_31.29 //

ये ते पश्चिमि कालि भैरवे सुगतस्यो रक्षन्ति इमु सूत्रमीदृशं प्रशान्तम् / तेषां बोधि वरा न दुर्लभा इय श्रेष्ठा ते ते पश्चिमि कालि व्याकृत धरि धर्मान् // srs_31.30 // इति श्रीसमाधिराजे सर्वधर्मस्वभावनिर्देशपरिवर्तो नामैकत्रिंशतितमः ॥ 31 ॥ (वैद्य 195) 32 सूत्रधारणानुशंसापरिवर्तः ।

अथ खलु भगवान् पुनरेव चन्द्रप्रभं कुमारभूतमामन्त्रयते स्म - तस्मात्तर्हि कुमार बोधिसत्त्वेन महासत्त्वेन महाभिज्ञापरिकर्म धारयितुकामेनायं समाधिर्धारयितव्यः उद्ग्रहीतव्यः पर्यवाप्तव्यो धारयितव्यो वाचयितव्यः प्रवर्तयितव्यः उद्देष्टव्यः स्वाध्यातव्यो भावयितव्यः, परेभ्यश्च विस्तरेण संप्रकाशयितव्य । कतमच्च तत् कुमार सर्वधर्माणामभिज्ञापरिकर्म? यदुत सर्वधर्माणामपरिग्रहः अपरामर्शः शीलस्कन्धस्यामन्यना समाधिस्कन्धस्य अप्रचारः प्रज्ञास्कन्धस्य विवेकदर्शनं विमुक्तिस्कन्धस्य यथाभूतदर्शनं विमुक्तिज्ञानदर्शनस्कन्धस्य स्वभावशून्यतादर्शनं सर्वधर्माणाम् । ययाभिज्ञया समन्वागतो बोधिसत्त्वो महासत्त्वः सर्वसमाधिविकुर्वितानि विकुर्वन् सर्वसत्त्वानां धर्मं देशयति । इदमुच्यते कुमार महाभिज्ञापरिकर्मेति ॥

अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत -

महाभिज्ञापरिकर्म अविवादेन देशितम् / विवादे यस्तु चरति सोद्गृह्णन् न विमुच्यते // srs_32.1 //

अभिज्ञा तस्य सा प्रज्ञा बौद्धं ज्ञानमचिन्तियम् / उद्ग्रहे यः स्थितो भोति ज्ञानं तस्य न विद्यते // srs_32.2 //

बहवो ऽचिन्तिया धर्मा ये शब्देन प्रकाशिताः / यस्तत्र निविशेच्छब्दे संघाभाष्यं न जानति // srs_32.3 //

संघाभाष्यमजानानः किं संघाय तु भाषितम् / अधर्मं भाषते धर्मं धर्मतायामशिक्षितः // srs_32.4 //

लोकधातुसहस्रेषु ये मया सूत्र भाषिताः / नानाव्यञ्जन एकार्था न शक्यं परिकीर्तितुम् // srs_32.5 //

एकं पदार्थं चिन्तेत्वा सर्वे ते भोन्ति भाविताः / यावन्तः सर्वबुद्धेहि बहु धर्माः प्रकाशिताः // srs_32.6 //

नैरात्म्यं सर्वधर्माणां ये नरा अर्थकोविदाः / अस्मिन् पदे तु शिक्षित्वा बुद्धधर्मा न दुर्लभाः // srs_32.7 //

सर्वधर्मा बुद्धधर्मा धर्मतायां य शिक्षिताः / ये धर्मतां प्रजानन्ति न विरोधेन्ति धर्मताम् // srs_32.8 //

(वैद्य 196) सर्वा वाग् बुद्धवागेव सर्वशब्दो ह्यवस्तुकः / दिशो दश गवेषित्वा बुद्धवाग् नैव लभ्यते // srs_32.9 //

एषा वाचा बुद्धवाचा गवेषित्वा दिशो दश / न लभ्यते ऽनुत्तरैषा न लब्धा न च लप्स्यते // srs_32.10 //

अनुत्तरा बुद्धवाचा बुद्धवाचा निरुत्तरा / अणुर्न लप्स्यते ऽत्रेति तेनोक्तेयमनुत्तरा // srs_32.11 //

अणु नोत्पद्यते धर्मो अणुशब्देन देशितः / अणुमात्रो न चो लब्धो लोके शब्देन देशितः // srs_32.12 //

अलब्धिर्लब्धधर्माणां लब्धौ लब्धिर्न विद्यते / य एवं धर्म जानन्ति बुध्यन्ते बोधिमुत्तमाम् // srs_32.13 //

ते बुद्धानुत्तरां बोधिं धर्मचक्रं प्रवर्तयी / धर्मचक्रं प्रवर्तित्वा बुद्धधर्मान् प्रकाशयी // srs_32.14 //

बोधिसत्त्वाश्च बुध्यन्ते बुद्धज्ञानमनुत्तरम् / तेन बुद्धा इति प्रोक्ता बुद्धज्ञाना प्रबोधनात् // srs_32.15 //

अभावो अप्रणिहितमानिमित्तं च शून्यता / एभिर्विमोक्षद्वारेहिर्द्वारं बुद्धः प्रकाशयी // srs_32.16 //

चक्षुः श्रोत्रं च घ्राणं च जिह्वा कायो मनस्तथा / एते शून्याः स्वभावेन संबुद्धैः संप्रकाशिताः // srs_32.17 //

एतादृशानां धर्माणां स्वभावं यः प्रजानति / नासौ विवादं कुरुते ज्ञात्वा धर्माण लक्षणम् // srs_32.18 //

एष गोचरु शूराणां बोधिसत्त्वान तायिनाम् / न ते कदाचित् काङ्क्षन्ति जानन्ते धर्मशून्यताम् // srs_32.19 //

धर्मस्वभावं जानाति बुद्धस्तेनोच्यते हि सः / बोधये विनयी सत्त्वानप्रमेयानचिन्तियान् // srs_32.20 //

सत्कृतो बुद्धशब्देन शीलशब्देन सो कृतः / शीलशब्दो बुद्धशब्द उभौ तावेकलक्षणौ // srs_32.21 //

यावन्तः कीर्तिताः शब्दा हीन उत्कृष्टमध्यमाः / समाहितैकशब्देन बुद्धशब्देन देशिताः // srs_32.22 //

न बुद्धधर्मा देशस्था न प्रदेशस्थ कीर्तिताः / न चोत्पन्ना निरुद्धा व एकत्वेन पृथक् तथा // srs_32.23 //

(वैद्य 197) न ते नवाः पुराणा वा न तेषामस्ति मन्यना / न च नीला न पीता व नावदता न लोहिताः // srs_32.24 //

अनाभिलाप्या अग्राह्या एवं घोषेण देशिताः / न च घोषस्य सा भूमिः प्रातिहार्यं मुनेरिदम् // srs_32.25 //

अनास्रवा हि ते धर्मा- नेन उच्यन्ति हि / स्तृता अपर्यापन्ना दशदिशे एषा बुद्धान देशना // srs_32.26 //

परिनिर्वृतस्य बुद्धस्य दृश्यते बुद्धविग्रहः / तत्स्थानं मनसीकुर्वन् प्रातिहार्यं स पश्यति // srs_32.27 //

न चासौ लभ्यते सत्त्वो निर्वृतिर्येन स्पर्शिता / एवं च दिशितो धर्मो बहवः सत्त्व मोचिताः // srs_32.28 //

यथा चन्द्रश्च सूर्यश्च कांसपात्रीय दृश्यते / न च याति स्वकं बिम्बमेवं धर्माण लक्षणम् // srs_32.29 //

प्रतिभासोपमा धर्मा यैर्हि ज्ञाता स्वभावतः / नैव ते रूपकायेन पश्यन्ते बुद्धविग्रहम् // srs_32.30 //

अविग्रहो ह्ययं धर्मो विग्रहो नात्र कश्चन / अविग्रहश्च यो धर्म एष बुद्धस्य विग्रहः // srs_32.31 //

धर्मकायेन पश्यन्ति ये ते पश्यन्ति नायकम् / धर्मकाया हि संबुद्धा एतत् संबुद्धदर्शनम् // srs_32.32 //

प्रतीत्य प्रतिनिर्दिष्टा अप्रति प्रतिदेशिताः / इमां गतिं विजानीत श्रामण्येन हि ये ऽर्थिकाः // srs_32.33 //

अप्राप्ति प्राप्ति निर्दिष्टा सत्त्वानां ज्ञात्व आशयम् / यो संधाभाष्योत्तरते न सो केन विहन्यते // srs_32.34 //

यस्य भोति मया प्राप्तमप्राप्तं तेन चोच्यते / येन श्रामण्यमप्राप्तं तेन श्रमण उच्यते // srs_32.35 //

कथं गम्भीरिमे धर्मा वक्ष्यन्ते ये न शिक्षिताः / ते च गम्भीरनामेन न शक्यं परिकीर्तितुम् // srs_32.36 //

अवस्तुकाः पञ्च स्कन्धा अभूत्वा एत उत्थिताः / नात्र उत्थाप्यको ह्यस्ति यस्य स्कन्धाः समुत्थिताः // srs_32.37 //

यल्लक्षणाः पञ्च स्कन्धाः सर्वधर्मास्तल्लक्षणाः / तल्लक्षणास्ते निर्दिष्टा लक्षणं च न विद्यते // srs_32.38 //

(वैद्य 198) यथान्तरीक्षं गगनमेवं धर्माण लक्षणम् / पूर्वान्तमपरान्तं च प्रत्युत्पन्नं च पश्यन्तः // srs_32.39 //

अग्राह्यं गगनं प्रोक्तं ग्राह्यमत्र न लभ्यते / एष स्वभावो धर्माणामग्राह्यो गगनोपमः // srs_32.40 //

एवं च देशिता धर्मा न श्रावको विपश्यति / यश्चो न पश्यती धर्मं तस्य धर्मा अचिन्तियाः // srs_32.41 //

अस्वभावा इमे धर्माः स्वभावैषां न लभ्यते / योगिनां गोचरो ह्येष ये युक्ता बुद्धबोधये // srs_32.42 //

य एवं जानाति धर्मान् स न धर्मेषु सज्जते / असज्जमानो धर्मेषु धर्मसंज्ञा प्रबोधयी // srs_32.43 //

विभाविताः सर्वधर्मा बोधिसत्त्वेन तायिना / धर्मसंज्ञा विभावित्वा बुद्धधर्मान्न मन्यते // srs_32.44 //

अमन्यमाना हि सा कोटी कल्पेत्वा कोटि व्याहृता / य एवं कोटिं जानाति कल्पकोटिं न मन्यते // srs_32.45 //

पुरिमां कोटि कल्पित्वा बालः संसारि संसरि / न चास्य लभ्यते स्थानं गवेषित्वा दिशो दश // srs_32.46 //

शून्यं ज्ञात्वा च संसारं बोधिसत्त्वो न सज्जते / चरन्ति चैव बोध्यर्थं चरिस्तेषां न लभ्यते // srs_32.47 //

शकुनानां यथाकाशे पदं तेषां न लभ्यते / एवंस्वभावा सा बोधिर्बोधिसत्त्वैश्च बुध्यते // srs_32.48 //

यथा मायां विदर्शेति मायाकारः सुशिक्षितः / नानाप्रकाररूपाणि न च रूपोपलभ्यते // srs_32.49 //

अलब्धिलब्धिर्नो मन्ये लब्धे लब्धिर्न विद्यते / मायोपमं च तज्ज्ञानं न मायायां च तत् स्थितम् // srs_32.50 //

एवं शून्येषु धर्मेषु बालबुद्धिं विकल्पयेत् / विकल्पे चरमाणानां गतयः षट परायणम् // srs_32.51 //

जातिजरोपगाः सत्त्वा जातिस्तेषां न क्षीयते / जातिमरणस्कन्धानां दुःखं तेषामनन्तकम् // srs_32.52 //

दुःखो जातिसंसारो बालबुद्धीहि कल्पितः / कल्पास्तेषां न क्षीयन्ते कल्पकोट्यश्च संसरी // srs_32.53 //

(वैद्य 199) अयुक्ताः संप्रयुक्ताश्च कर्मयोगस्मि ते स्थिताः / कर्मणस्ते न मुच्यते कर्मोपादानि ये रताः // srs_32.54 //

कर्मौघे वहतां तेषां कर्म न क्षीयते सदा / पुनः पुनश्च म्रीयन्ते मारपक्षे स्थिताः सदा // srs_32.55 //

माराभिभूता दुष्प्रज्ञाः संक्लिष्टेन हि कर्मणा / अनुभोन्ति जातिमरणं तत्रतत्रोपपत्तिषु // srs_32.56 //

मरणं ते निगच्छन्ति अन्धा बालाः पृथग्जनाः / हन्यन्ते च विहन्यन्ते गतिश्चैषां न भद्रिका // srs_32.57 //

परस्परं च घातेन्ति शस्त्रेभिर्बालबुद्धयः / एवं प्रयुज्यमानानां दुःखं तेषां प्रवर्धते // srs_32.58 //

पुत्रा मह्यं धनं मह्यं बालबुद्धीहि कल्पितम् / असतं कर्म कल्पित्वा संसारो भूयु वर्धते // srs_32.59 //

संसारं वर्धयन्तस्ते संसरन्ति पृथग्जनाः / पृथक् पृथक् च गच्छन्ति तेन चोक्ताः पृथग्जनाः // srs_32.60 //

पृथुधर्मा प्रवक्ष्यन्ति उज्झित्वा बुद्धशासनम् / न ते मोक्षं लभिष्यन्ति मारस्य वशमागताः // srs_32.61 //

कामनां कारणं बालाः स्त्रियं सेवन्ति पूतिकाम् / पूतिकां गति गच्छन्ति पतन्ते तेन दुर्गतिम् // srs_32.62 //

कामान्न बुद्धा वर्णेन्ति नापि स्त्रीणां निषेवणम् / महाभयो ऽहिपाशो ऽयमिस्त्रिपाशः सुदारुणः // srs_32.63 //

विवर्जयन्ति तं धीराश्चण्डमाशीविषं यथा / न विश्वसन्ति इस्त्रीणां नैष मार्गो हि बोधये // srs_32.64 //

भावेन्ति बोधिमार्गं च सर्वबुद्धैर्निषेवितम् / भावयित्वा च तं मार्गं भोन्ति बुद्धा अनुत्तराः // srs_32.65 //

अनुत्तराश्च ते युक्ता भोन्ति लोकस्य चेतियाः / अनुत्तरेण ज्ञानेन बुद्धा भोन्ति अनुत्तराः // srs_32.66 //

पोषधं च निषेवन्ति शीलस्कन्धे समादपी / समादपेन्ति बोधाय सत्त्वकोटीरचिन्तियाः // srs_32.67 //

कुर्वन्ति ते ऽर्थं सत्त्वानामप्रमेयचिन्तियम् / ते ते शूरा महाप्रज्ञा ताडेन्त्यमृतदुन्दुभिम् // srs_32.68 //

(वैद्य 200) कम्पेन्ति मारभवनं चालेन्ति मारकायिकान् / समादपेन्ति बोधाय मारकोटीरचिन्तियाः // srs_32.69 //

परवादीन्निगृह्णन्ति निर्जिनन्ति च तीर्थिकान् / कम्पेन्ति वसुधां सर्वां ससमुद्रां सपर्वताम् // srs_32.70 //

विकुर्वमाणा कायेभिरनेकर्द्धिविकुर्वितैः / निदर्शेन्ति महाप्रज्ञाः प्रातिहार्यानचिन्तियान् // srs_32.71 //

क्षेत्रकोटी प्रकम्पेन्ति यथा गङ्गाय वालिका / पराजिनित्वा ते मारा बोधिं बुध्यन्त्यनुत्तराम् // srs_32.72 //

निर्मिण्वन्ति च ते वृक्षान् रतनैः सुविचित्रितान् / फलपुष्पेहि संयुक्तान् गन्धवन्तान् मनोरमान् // srs_32.73 //

प्रासादांश्च विमानानि कूटागारान् सहर्षिकान् / निर्मिण्वन्ति च ते शूराः पुष्करिण्यो मनोरमाः // srs_32.74 //

अष्टाङ्गजलसंपन्नाः स्वच्छाः शीता अनाविलाः / पिबन्ति ये ततो वारि तिस्रस्तृष्णा जहन्ति ते // srs_32.75 //

अविवर्त्याश्च ते भोन्ति पीत्वा वारि निरुत्तरम् / अनुत्तरेण ज्ञानेन भोन्ति बुद्धा अनुत्तराः // srs_32.76 //

अनुत्तरां गतिं शान्तां गच्छन्तीति विजानथ / इमां गतिमजानन्तः प्रनष्टाः सर्वतीर्थिकाः // srs_32.77 //

ते च तद्गतिकाः सत्त्वा ये तेषां भोन्ति निश्रिताः / पतिष्यन्ति महाघोरामवीचिमपरायणाः // srs_32.78 //

यास्तत्र वेदना घोरा न शक्यास्ताः प्रकीर्तितुम् / अहं च ताः प्रजानामि बोधिसत्त्वाश्च तायिनः // srs_32.79 //

ये चेह धर्मे काङ्क्षन्ति एवं गम्भीरि दुर्दृशे / अभूमिस्तत्र बालानामुपलम्भस्मि ये स्थिताः // srs_32.80 //

निर्मिण्वन्ति वियूहांस्ते नैकरूपनिदर्शनान् / येन ते सर्वि गच्छन्ति बुद्धक्षेत्राननुत्तरान् // srs_32.81 //

यावन्त्यो बुद्धक्षेत्रेषु रूपनिर्हारसंपदः / सर्वास्ता इह दर्शेन्ति बोधिसत्त्वा महर्द्धिकाः // srs_32.82 //

महाधर्मेण संनद्धा महावीरा महाबलाः / महाशून्यार्थवज्रेण प्रहाराणि ददन्ति ते // srs_32.83 //

रश्मिकोटिसहस्राणि यथा गङ्गाय वालिका / कायतो निश्चरन्त्येषां येभिर्लोकः प्रभासते // srs_32.84 //

(वैद्य 201) न ते स्त्रीष्वभिरज्यन्ते न च तेषां विरागता / विभावितैतेषां संज्ञा इस्त्रिसंज्ञा स्वभावतः // srs_32.85 //

अशून्या बुद्धक्षेत्रास्ते येषु शूरा भवन्ति ते / किं तेषां मारु पापीयानन्तरायं करिष्यति // srs_32.86 //

दृष्टीकृतेषु ये स्थित्वा बहु बुद्धा विरागिताः / व्यापादेन उपस्तब्धा इच्छालोभप्रतिस्थिताः // srs_32.87 //

सर्वसंज्ञा विभावित्वा संज्ञावैवर्तिये स्थिताः / य एवं ज्ञास्यते ज्ञानं बुद्धज्ञानमचिन्तियम् // srs_32.88 //

पूर्वान्तमपरान्तं च प्रत्युत्पन्नं च पश्यति / एवं च देशिता धर्मा न चात्र किंचि देशितम् // srs_32.89 //

न च ज्ञानेन जानाति न चाज्ञानेन सीदति / ज्ञानाज्ञाने विकल्पेत्वा बुद्धज्ञानेति वुच्चति // srs_32.90 //

विज्ञप्तिवाक्यसंकेतं बोधिसत्त्वः प्रजानति / करोति अर्थं सत्त्वानामप्रमेयचिन्तियम् // srs_32.91 //

संज्ञा संजाननार्थेन उद्ग्रहेण निदर्शिता / अनुद्ग्रहश्च सा संज्ञा विविक्तार्थेन देशिता // srs_32.92 //

यच्चो विविक्तं सा संज्ञा या विविक्ता स देशना / संज्ञास्वभावो ज्ञातश्च एवं संज्ञा न भेष्यति // srs_32.93 //

प्रहास्याम इमां संज्ञां यस्य संज्ञा प्रवर्तते / संज्ञा प्रपञ्चे चरति न स संज्ञातु मुच्यते // srs_32.94 //

कस्येयं संज्ञा उत्पन्ना केन संज्ञा उत्पादिता / केन सा स्पर्शिता संज्ञा केन संज्ञा निरोधिता // srs_32.95 //

धर्मो न लब्धो बुद्धेन यस्य संज्ञा उत्पद्यते / इह चिन्तेथ तं अर्थं ततः संज्ञा न भेष्यति // srs_32.96 //

कदा संज्ञा अनुत्पन्ना कस्य संज्ञा विरुध्यते / विमोक्ष चिअतचारस्य कथं तत्र उत्पद्यते // srs_32.97 //

यदा विमोक्षं स्पृशति सर्व चिन्ता अचिन्तिया / अचिन्तिया यदा चिन्ता तदा भोति अचिन्तियः // srs_32.98 //

चिन्ताभूमौ स्थिहित्वान पूर्वमेव विचिन्तिता / सर्वचिन्तां जहित्वान ततो भेष्यत्यचिन्तियः // srs_32.99 //

(वैद्य 202) शुक्लधर्मविपाको ऽयमसंस्कारेण पश्यति / एकक्षणेन जानाति सर्वसत्त्वविचिन्तितम् // srs_32.100 //

यथा सत्त्वास्तथा चिन्ता यथा चिन्ता तथा जिनाः / अचिन्तियेन बुद्धेन इयं चिन्ता प्रकाशिता // srs_32.101 //

यो रहो एकु चिन्तेति कदा चिन्ता न भेष्यति / न चिन्तां चिन्तयन्तस्य सर्वचिन्ता विगच्छति // srs_32.102 //

च्युते मृते कालगते यस्य चिन्ता प्रवर्तते / चिन्तानुसारि विज्ञानं नासा चिन्तान्तमुच्यते // srs_32.103 //

ये स्थिता इस्त्रिसंज्ञायां रागस्तेषां प्रवर्तते / विभावितायां संज्ञायां न रागेणोपलिप्यते // srs_32.104 //

इयं चिन्ता महाचिन्ता धर्मचिन्ता निरुत्तरा / अनया धर्मचिन्ताय भूतचिन्ता प्रवर्तते // srs_32.105 //

बहु अचिन्तिया चिन्ता दीर्घरात्रं विचिन्तिता / न च चिन्ताक्षयो जातश्चिन्तयित्वा अयोनिशः // srs_32.106 //

यो ऽसौ चिन्तयते नाम क्षये ज्ञानं न विद्यते / न क्षयो भूमिज्ञानस्य क्षयस्यो एष धर्मता // srs_32.107 //

घोषो वाक्पथ विज्ञप्तिः क्षयशब्देन देशिता / निर्विशेषाश्च ते धर्मा यथा ज्ञानं तथा क्षयः // srs_32.108 //

अनुत्पन्नानिरुद्धाश्च अनिमित्ता अलक्षणाः / कल्पकोटिं पि भाषित्वा अनिमित्तेन देशिताः // srs_32.109 //

सर्वभावान् विभावित्वा अभावे ये प्रतिष्ठिताः / न चान्यो दर्शितो भावो नाभावो ऽन्यो निदर्शितः // srs_32.110 //

विज्ञप्ता भावशब्देन अभावस्य प्रकाशना / न चासौ सर्वबुद्धेहि अभावः शक्यु पश्यितुम् // srs_32.111 //

यो भावः सर्वभावानामभाव एष दर्शितः / एवं भावान् विजानित्वा अभावो भोति दर्शितः // srs_32.112 //

नासौ स्पर्शयितुं शक्यमभावो जातु केनचित् / स्पर्शनात्तु अभावस्य निर्वृति एष देशिता // srs_32.113 //

अहं बुद्धो भवेल्लोके यस्यैषा हो मतिर्भवेत् / न जातु भवतृष्णार्तो बोधिं बुध्येत पण्डितः // srs_32.114 //

न कंचि धर्मं प्रार्थेति बोधिसत्त्वः समाहितः / निष्किंचना निराभोगा एषा बोधीति उच्यते // srs_32.115 //

(वैद्य 203) बहू एवं प्रवक्ष्यन्ति वयं बोधाय प्रस्थिताः / इमां गतिमजानन्तो दूरे ते बुद्धबोधये // srs_32.116 //

शब्देन देशिता धर्माः सर्वे संस्कार शून्यकाः / यश्व स्वभावः शब्दस्य गम्भीरः सूक्ष्म दुर्दृशः // srs_32.117 //

महाभिज्ञाय निर्देश इदं सूत्रं प्रवुच्चति / अर्थाय बोधिसत्त्वानां सर्वबुद्धेहि देशितम् // srs_32.118 //

प्रतिपक्षा हतास्तेषां यावन्तः सांकिलेशिकाः / प्रतिष्ठिता अभिज्ञासु ऋद्धिस्तेषां सुभाविता // srs_32.119 //

स्थिताः प्रणिधिज्ञानस्मिंस्तच्च ज्ञानं विभावितम् / अतृप्तिर्लब्धज्ञानस्य अप्रमेया अचिन्तिया // srs_32.120 //

न तेषामभिसंस्कारः समाधी रिद्धिकारणम् / विपाक एष शूराणां नित्यकालं समाहितः // srs_32.121 //

विपाकजाये ऋद्धीये गच्छन्ती क्षेत्रकोट्यः / पश्यन्ति लोकप्रद्योतान् यथा गङ्गाय वालिका // srs_32.122 //

उपपत्तिश्च्युतिस्तेषां यथा चित्तस्य वर्तते / चित्तस्य वशितां प्राप्ताः कायस्तेषां प्रभास्वरः // srs_32.123 //

भावनामयि ऋद्धीये ये स्थिता बुद्धश्रावकाः / तेभिः संस्कारऋद्धीये कलां नायान्ति षोडशीम् // srs_32.124 //

न तेषां सर्वदेवेभिराशयः शक्यु जानितुम् / अन्यत्र लोकनाथेभ्यो ये वा तेषां समे स्थिताः // srs_32.125 //

न तेषामस्ति खालित्यं न चैव पलितं शिरे / औदारिका जरा नास्ति न दुःखमरणं तथा // srs_32.126 //

संशयो विमतिर्नास्ति काङ्क्षा तेषां न विद्यते / रात्रिंदिवं गवेषन्ति सूत्रकोटीशतानि ते // srs_32.127 //

प्रहीणानुशयास्तेषां यावन्तः सांकिलेशिकाः / समचित्ताः सदा भोन्ति सर्वसत्त्वान ते ऽन्तिके // srs_32.128 //

समाधिकोटिनियुतां निर्दिशन्ति दशद्दिशे / प्रश्नकोटीसहस्राणि व्याकुर्वन् ह्यनवस्थिताः // srs_32.129 //

स्त्रीसंज्ञा पुरुषसंज्ञा च सर्वसंज्ञा विभाविताः / स्थिता अभावसंज्ञायां देशेन्ति भूतनिश्चयम् // srs_32.130 //

परिशुद्धेन ज्ञानेन यथावद्धर्मदेशकाः / धर्मसंगीत्याभियुक्ताः समाधिज्ञानगोचराः // srs_32.131 //

(वैद्य 204) यापि ध्यानचरिस्तेषां नासौ भावप्रतिष्ठिता / अवन्ध्यं वचनं तेषामवन्ध्या धर्मदेशना // srs_32.132 //

सुलब्धं तेन मानुष्यं प्रहीणाः सर्वि अक्षणाः / कृतज्ञाः सर्वबुद्धानां येषां सूत्रमिदं प्रियम् // srs_32.133 //

कल्पा अचिन्तियास्तेहि ये संसारात्तु छोरिताः / यैरितः सूत्रश्रेष्ठातो धृता गाथा चतुष्पदा // srs_32.134 //

दृष्टास्ते सर्वबुद्धेहि तैस्ते बुद्धाश्च सत्कृताः / क्षिप्रं च बोधिं प्राप्स्यन्ति तेषां सूत्रमिदं प्रियम् // srs_32.135 //

न तेषां काङ्क्ष विमती सर्वधर्मेषु भेष्यती / आसन्ना निर्वृतिस्तेषां येषां सूत्रमिदं प्रियम् // srs_32.136 //

दृष्टस्तेहि महावीरो गृध्रकूऊटे तथागतः / सर्वे व्याकृतु बुद्धेन द्रक्ष्यन्ति मैत्रकं जिनम् // srs_32.137 //

दृष्ट्वा मैत्रेय संबुद्धं लप्स्यन्ते क्षान्ति भद्रिकाम् / ये केचि क्षयकालस्मिन्निह सूत्रे प्रतिष्ठिताः // srs_32.138 //

स्थितास्ते भूतकोटीये भूतकोटिरचिन्तिया / अचिन्तियायां कोटीये काङ्क्षा तेषां न विद्यते // srs_32.139 //

न तेषां विद्यते काङ्क्षा अणूमात्रापि सर्वशः / अणूमात्रे प्रहीणेस्मिन् बोधिस्तेषां न दुर्लभा // srs_32.140 //

चरतां दुष्करं चैव क्षयकाले सुभैरवे / शिक्षित्व सूत्ररत्ने ऽस्मिन् प्रतिभानस्मि अक्षयम् // srs_32.141 //

इदं सूत्रं प्रियं कृत्वा बुद्धानां गञ्जरक्षकाः / सर्वबुद्धानियं पूजा धर्मपूजा अचिन्तिया // srs_32.142 //

न तेषां दुर्लभं ज्ञानं बुद्धज्ञानमचिन्तियम् / धारयिष्यन्तिदं सूत्रं क्षयकालेस्मि दारुणे // srs_32.143 //

येभिश्च पूर्वबुद्धानामिमे सूत्रान्त धारिताः / तेषां कायगता एते क्षयकाले प्रवर्तिषु // srs_32.144 //

ते ते नादं नदिष्यन्ति बुद्धानां क्षेत्रकोटिषु / संमुखं लोकनाथानां शाक्यसिंहस्य या चरी // srs_32.145 //

सिंहनादं नदन्तस्ते बुद्धनादमचिन्तियम् / अनन्तप्रतिभानेन वक्ष्यन्ते बोधिमुत्तमाम् // srs_32.146 //

(वैद्य 205) ते ते व्याकृत बुद्धेन इक्ष्वाकुकुलसंभवाः / ये रक्षिष्यन्तिमां बोधिं क्षयकाले महाभये // srs_32.147 //

ते ते रूपेण संपन्ना लक्षणेहि विचित्रिताः / विकुर्वमाणा यास्यन्ति बुद्धकोटीय वन्दकाः // srs_32.148 //

मायोपमेहि पुष्पेहि हेमवर्णनिदर्शनैः / रूप्यामयेहि पुष्पेहि वैदूर्यस्फटिकेहि च // srs_32.149 //

सर्वाणि रत्नजातानि प्रादुर्भोन्त्येषु पाणिषु / यैराकिरन्ति संबुद्धान् बोधिमार्गगवेषकाः // srs_32.150 //

चित्रा नानाविधा पूजा वाद्यनिर्हारसंपदा / निश्चरी रोमकूपेभ्यो यथा गङ्गाय वालिकाः // srs_32.151 //

ये च शृण्वन्ति तं शब्दं सत्त्वकोट्यो अचिन्तियाः / भवन्त्यविनिवर्त्यास्ते बुद्धज्ञाने अनुत्तरे // srs_32.152 //

तेषां च बुद्धकोटीनां वर्णं भाषन्त्यचिन्तियम् / अचिन्तियेषु क्षेत्रेषु तेषां शब्दः श्रुणीयति // srs_32.153 //

ये च शृण्वन्ति तं शब्दं तेषां संज्ञा निरुध्यते / निरोधितायां संज्ञायां बुद्धान् पश्यन्त्यनल्पकान् // srs_32.154 //

एतादृशेन ज्ञानेन चरित्वा बोधिचारिकाम् / कृत्वार्थं सर्वसत्त्वानां भवन्त्यर्थकरा जिनाः // srs_32.155 //

गुणानुशंसा इत्येते या लभन्ते ह पण्डिताः / अन्ये अपरिमाणाश्च यैरियं बोधि धारिता // srs_32.156 //

मातृग्रामो ऽपिदं सूत्रं श्रुत्वा गाथापि धारयेत् / विवर्तयित्वा स्त्रीभावं स भवेद् धर्मभाणकः // srs_32.157 //

न सा पुनो ऽपि स्त्रीभावमितः पश्चाद् ग्रहीष्यति / भवेत् प्रासादिको नित्यं लक्षणैः समलंकृतः // srs_32.158 //

श्रेष्ठे ऽथ इह सूत्रस्मिन् गुणाः श्रेष्ठाः प्रकाशिताः / ते ऽस्य सर्वे भविष्यन्ति क्षिप्रं बोधिं च प्राप्स्यते // srs_32.159 //

विशारदश्च सो नित्यं भोति सर्वासु जातिषु / धारयित्वा इदं सूत्रं बोधिसत्त्वान गोचरम् // srs_32.160 //

जनको बोधिसत्त्वानां समाधिः शान्त भाषितः / य इच्छेद् बुद्धितुं बोधिमिदं सूत्रं प्रवर्तयेत् // srs_32.161 //

(वैद्य 206) आसन्नास्ते मुनीन्द्राणामासन्ना वुद्धबोधये / लप्स्यन्ति नचिरेणेमां भूमिं शान्तां समाहिताः // srs_32.162 //

इह बोधीय ते शूरा बोधिसत्त्वाः स्थिताः सदा / पश्यन्ति बुद्धकोटीयो यथा गङ्गाय वालिकाः // srs_32.163 //

राजा भवित्वा महीपति चक्रवर्ती दृष्ट्वा च बुद्धान् विरजान् सुशान्तचित्तान् / गाथाशतैस्तां स्तविष्यति लोकनाथान् स लभित्व शान्तं इमु विरजं समाधिम् // srs_32.164 //

सो पूज कृत्व अतुलिय नायकानां सुमहायशानां देवनरोत्तमानाम् / मुक्त्वा स राज्यं यथरिव खेटपिण्डं शुद्धो विशुद्धश्चरिष्यति ब्रह्मचर्यम् // srs_32.165 //

स प्रव्रजित्व जिनवरशासनस्मिं लब्ध्वापि चैतं विरजु समाधि शान्तम् / कल्याणवाक्यो मधुरगिरः स भूत्वा अधिष्ठानु धीमान् भविष्यति सूत्रकोट्याः // srs_32.166 //

शून्यानिमित्तं परमप्रणीतु शान्तं धर्म प्रशान्तं चर निपुणं असङ्गम् / स्वभावशून्यं सद विरजं प्रशान्तं समाधिप्राप्त्या बहु जनि संप्रकाशयी // srs_32.167 //

गम्भीरबुद्धी सततमनन्तबुद्धी विस्तीर्णबुद्धी अपरिमितार्थबुद्धी / गम्भीर शान्तं लभिय इमं समाधिमालोकप्राप्तो भविष्यति सर्वलोकः // srs_32.168 //

शुचिश्च नित्यं भविष्यति ब्रह्मचारी स निरामगन्धः सततमसंकिलिष्टः / अन्यांश्च तत्र स्थपिष्यति सत्त्वकोटयो लब्ध्वा प्रशान्तं इमु विरजं समाधिम् // srs_32.169 //

स सुतीक्ष्णप्रज्ञो भविष्यति श्रेष्ठप्रज्ञः श्रुतिसागरो ऽसौ नित्यमनन्तबुद्धिः / कल्याणवाक्यो मतिकुशलो विधिज्ञो धारित्व शान्तिं इमु विरजं समाधिम् // srs_32.170 //

(वैद्य 207) ये कर्मस्थाना तथरिव शिल्पस्थाना भैषज्यस्थानास्तथरिव औषधीनाम् / सर्वत्र धीरो भविष्यति पारप्राप्तो धारित्व सूत्रं इमु विरजं समाधिम् // srs_32.171 //

काव्येषु शास्त्रेषु तथपि च हास्यलास्ये नृत्ये ऽथ गीते सुकुशल पारप्राप्तः / आचार्यु लोके भविष्यति नित्यकालं धारित्व शान्तं इमु विरजं समाधिम् // srs_32.172 //

परिवारवान् सो भविष्यति नित्यकालं स अभेद्यपक्षः सद सहितः समग्रः / चरमाणु श्रेष्ठां वरां शिव बोधिचर्यां धारित्व सूत्रं इमु विरजं समाधिम् // srs_32.173 //

शोकाथ शल्या तथरिव चित्तपीडा नो तस्य जातु भविष्यति पण्डितस्य / आरोग्यप्राप्तो भविष्यति सर्वकालं धारित्व शान्तं इमु विरजं समाधिम् // srs_32.174 //

ये कायशूलास्तथरिव चित्तशूलाः ये दन्तशूलास्तथपि च शीर्षशूलाः / नो तस्य भोन्ती व्याधयु जीवलोके धारित्व शान्तं इमु विरजं समाधिम् // srs_32.175 //

यावन्त रोगा बहुविध मर्तलोके ये कायरोगास्तथरिव चित्तरोगाः / ते तस्य रोगाः सतत न जातु भोन्ति धारित्व शान्तं इमु विरजं समाधिम् // srs_32.176 //

चित्तस्य वा ये बहुविधु यत्किलेशाः काये वापि बहुविध रोगजाताः / ते तस्य नास्ती बहुविध संकिलेशा धारित्व शान्तं इमु विरज समाधिम् // srs_32.177 //

यथन्तरीक्षं गगनमनोपलिप्तं प्रकृतिविशुद्धं विमल प्रभास्वरं च / (वैद्य 208) चित्तं तथैव भवति विशुद्ध तस्यो धारित्व शान्तं इमु विरजं समाधिम् // srs_32.178 //

चन्द्रस्य आभा तथरिव सूर्यआभा शुद्धा अग्राह्या भवति प्रभास्वराश्च / चित्तं तथैव भवति प्रभास्वरं च धारित्व शान्तं इमु विरजं समाधिम् // srs_32.179 //

यथ अन्तरीक्षं न सुकरु चित्रणाय रङ्गान् गृहीत्वा बहुविध नैकरूपान् / चित्तं तथैव न सुकरु चित्रितुं सेवेत्व शान्तं इमु विरजं समाधिम् // srs_32.180 //

वातो यथैव चतुर्दिश वायमानो असज्जमानो व्रजति दिशः समन्तात् / वातसमाना भवति स चित्तधारा जगि सो असक्तो व्रजति अनोपलिप्तः // srs_32.181 //

जालेन शक्यं गृह्णितु वायमानः पाशेन चापी बन्धितु शक्य वातः / नो तस्य चित्तं सुकरु विजाननाय भावेत्व शान्तमिमु विरजं समाधिम् // srs_32.182 //

प्रतिभासु शक्यं जलगत गृह्णनाय संप्राप्तु तोयं तथपि च तैलपात्रे / नो तस्य चित्तं सुकरु विजाननाय भावेत्व शान्तं इमु विरजं समाधिम् // srs_32.183 //

गर्जन्ति मेघा विद्युलता चरन्ता शक्यं ग्रहीतु पाणिन मानुषेण / नो तस्य चित्तं सुकरु प्रमाणु ज्ञातुं भावेत्व शान्तं इमु विरजं समाधिम् // srs_32.184 //

सत्त्वान शक्यं रूतरवितं ग्रहीतुं ये सन्ति सत्त्वा दशदिशि बुद्धक्षेत्र / चित्तस्य तस्यो न सुकरु ज्ञातु कोटिं समाधिलब्धो यद भवि बोधिसत्त्वः // srs_32.185 //

(वैद्य 209) सो तां लभित्व विरजं समाधिभूमिं असंंकिलिष्टो भवति अनोपलिप्तः / नो तस्य भूयो त्रिभवि निवेश जातु अनेन लब्धो भवति समाधि शान्तः // srs_32.196 //

नो कामलोलो न च पुन रूपलोलो न इस्त्रिलोलो न च पुन भ्रान्तचित्तः / शान्तः प्रशान्तो भवति अनोपलिप्तो यद भोति लब्धो अयु विरजः समाधिः // srs_32.187 //

न पुत्रलोलो न च पुन धीतलोलो नो भार्यलोलो न च परिवारलोलः / सुशान्तचारी भवति अनोपलिप्तो यद भोति लब्धो अयु विरजः समाधिः // srs_32.188 //

न हिरण्यलोलो न च पुनरर्थलोलो न स्वर्गलोलो धनरतनेष्वसक्तः / सुविशुद्धचित्तो भवति स निर्विकल्पः समाधिप्राप्तो अयु भवती विशेषः // srs_32.189 //

न स्वर्गहेतोश्चरति स ब्रह्मचर्यं न स्वर्गलोलो ददति सदा नु विज्ञः / संबोधिकामः कुशलचरिं चरन्तः । समाधिप्राप्तो अयु भवती विशेषः // srs_32.190 //

नो राज्यहेतोश्चरति तपो व्रतं वा नैश्वर्यमर्थास्त्रिभुवनि प्रार्थमानः / संबोधिलोलो बहुजनहिताय निष्पादयी सो इमु विरजं समाधिम् // srs_32.191 //

नो तस्य रागो जनयति जातु पीडां यो न स्त्रीलोलो सो भवति भ्रान्तचित्तः / तथापि तेन प्रकृतिप्रज्ञाय रागो लभित्व एतं विरजु समाधि शान्तम् // srs_32.192 //

नो तस्य दोषो जनयति जातु पीडां व्यापादु येनो प्रतिघमथो करेय्य / (वैद्य 210) मैत्राय तेनो निहत स दोषधातु प्रतिलभ्य एतं विरजु समाधि शान्तम् // srs_32.193 //

नो तस्य मोहो जनयति जातु पीडां प्रज्ञाय तेनो निहत स मोह अविद्या / तं ज्ञानु लब्धं वितिमिरमप्रमेयं समाधिप्राप्ते इमि गुण अप्रमेयाः // srs_32.194 //

अशुभाय रागः सतत सुनिगृहीतो मैत्र्याय दोषो निहतु सदा अशेषः / प्रज्ञाय मोहो विधमिय क्लेशजालं समाधिप्राप्तः प्रतपति सर्वलोके // srs_32.195 //

नो तस्य मिद्धं जनयति जातु पीडां सुभाविता से विविध उत्किलेशाः / अनोपलिप्तो भवति च विप्रमुक्तः समाधिप्राप्ते इमि गुण अप्रमेयाः // srs_32.196 //

नो तस्य मोहो जनयति जातु पीडां तथा हि त्यागे अभिरतु नित्यकालम् / सर्वस्वत्यागी भवति सुखस्य दाता य इमं समाधिं धारयति बोधिसत्त्वः // srs_32.197 //

स्थामेनुपेतो भवति अनोपमेयो स बलेनुपेतो भवति नित्यकालम् / नो तस्य लोके भवति समः कदाचिद् य इमं समाधिं धारयति बोधिसत्त्वः // srs_32.198 //

यदापि राजा स भवति चक्रवर्तीं मनुजानु लोके उपगत जम्बुद्वीपे / तदापि भोती बहुजनपूजनीयो विशेषप्राप्तो मतिम विशिष्टप्रज्ञः // srs_32.199 //

ये भोन्ति मुख्याः कुलरतना विशिष्टाः सुप्रभूतभोगा बहुजनस्वापतेयाः / यत्राश्व हस्ती रथवर युग्ययाना हिरण्यस्वर्णं मणीरतनं प्रभूतम् // srs_32.200 //

(वैद्य 211) ये श्राद्ध भोन्ती इह वरबुद्धज्ञाने ते जम्बुद्वीपे कुलरतनाभियुक्ताः / तत्रोपपन्नः कुलरतने विशिष्टे करोति सो ऽर्थं सुविपुल ज्ञातिसंघे // srs_32.201 //

अश्राद्ध ये वा इह कुल जम्बुद्विपे श्रद्धां स तेषां जनयति अप्रमत्तः / यं बोधिचित्ते प्रतिष्ठिति सत्त्वकाये ते बुद्ध भोन्ती जिनप्रवरः स्वयंभूः // srs_32.202 //

ते च स्पृशित्व अतुलियमग्रबोधिं चक्रं प्रवर्तेन्त्यसदृश बुद्धक्षेत्रे / ये चो विजानी इमु तद धर्मचक्रं अनुत्पत्तिधर्मे निखिल ते संप्रतिष्ठी // srs_32.203 //

सुबहुकराश्चो अमि तद बोधिसत्त्वाः सत्त्वान भोन्ति सततु ते पूजनीयाः / करोन्ति ते ऽर्थं अतुलिय नित्यकालं सत्त्वान चक्षुर्वितिमिरु ते जनेन्ति // srs_32.204 //

बहव शतसहस्राः सत्त्वकोटी अनन्ता येष कुशलमूला भोन्ति तत्र श्रुणित्वा / ते अपि प्रतिलभन्ते उत्तमं बोधिचित्तं यद जिनु अनुशासी बोधिसत्त्वं महात्मा // srs_32.205 //

अशून्यक्षेत्रा प्रमुदित भोन्ति नित्यं निरुपलेपा अमि तद बुद्ध भोन्ती / यत्र स्थिहन्ती इमि तद बोधिसत्त्वाः सत्त्वानमर्थ अपरिमितं करोन्ति // srs_32.206 //

रक्षन्ति शीलं असदृशु ब्रह्मचर्यं भावी समाधी विपुलमनन्तकल्पान् / ध्याने विमोक्षे सुनिश्रित नित्यकालं ते बोधिसत्त्वा भवि सद बुद्धपुत्राः // srs_32.207 //

ते ऋद्धिपादान् सतत् निषेवमाणा क्षेत्राणि गत्वा बहु विविधाननन्तान् / (वैद्य 212) शृण्वन्ति धर्मं सुगतवरप्रभाषं सर्वं च गृह्णी प्रतिष्ठितु धारणीये // srs_32.208 //

प्रभाषि सूत्रानपरिमिताननन्तान् ये धारणीये प्रतिष्ठितु बोधिसत्त्वाः / सत्त्वान अर्थं अपरिमितं करोन्ति ये धारणीये प्रतिष्ठितु बोधिसत्त्वाः // srs_32.209 //

च्युतोपपादं जानाति सत्त्वानामागतिं गतिम् / यादृशं तैः कृतं कर्म विपाको ऽपि च तादृशः // srs_32.210 //

कर्मणो न च संक्रान्तिरणुमात्राणि लभ्यते / ते ऽपि तेषां विजानन्ति बोधिसत्त्वा महायशाः // srs_32.211 //

शून्यता च महात्मानां विहारो भोति उत्तमः / स्थापयन्ति महायाने सत्त्वकोटीरचिन्तियाः // srs_32.212 //

न तेषामोवदन्तानां सत्त्वसंज्ञा प्रवर्तते / अप्रवृत्तिं च धर्माणां बोधिसत्त्वाः प्रकाशयी // srs_32.213 //

न प्रकाशयतां धर्माणुपलम्भः प्रवर्तते / शून्याविहारिणो भोन्ति दृढज्ञाने प्रतिष्ठिताः // srs_32.214 //

उद्दिश्येमं समाधिं च विहारं सर्वशास्तुनाम् / न तेषां वर्तते संज्ञा इस्त्रिसंज्ञा स्वभावता // srs_32.215 //

इस्त्रिसंज्ञां विभावित्वा बोधिमण्डे निषीदति / बोधिमण्डे निषिदित्वा मारसंज्ञा निवर्तते // srs_32.216 //

न चात्र पश्यते मारं मारसैन्यं च पण्डितः / न च पश्यति मारस्य तिस्रो दुहितरो ऽपि सः // srs_32.217 //

बोधिमण्डे निषण्णस्य सर्वसंज्ञा प्रहीयते / सएर्वसंज्ञाप्रहीणस्य सर्वा कम्पति मेदिनी // srs_32.218 //

सुमेरवः समुद्राश्च याव सन्ति दशा दिशे / तं च सत्त्वा विजानन्ति सर्वदिक्षु दशस्वपि // srs_32.219 //

बोधिसत्त्वस्य ऋद्ध्येयं मेदिनी संप्रकम्पिता / षड्विकारं तदा काले बुध्यतो बोधिमुत्तमाम् // srs_32.220 //

यावन्तः संस्कृता धर्मा ये च धर्मा असंस्कृताः / सर्वांस्तान् बुध्यते धर्मान् धर्मशब्देन देशितान् // srs_32.221 //

(वैद्य 213) न चात्र बुध्यते कश्चित् सिंहनादश्च वर्तते / वर्तनीयं विजानित्वा भोति बुद्धः प्रभाकरः // srs_32.222 //

प्रतीत्य धर्मा वर्तन्ते उत्पद्यन्ते प्रतीत्य च / प्रतीत्यतां यद्धर्माणां सर्वे जानन्ति ते विदुः // srs_32.223 //

विधिज्ञाः सर्वधर्मेषु शून्यताया गतिंगताः / गतिं च ते प्रजानन्ति सर्वधर्मगतिंगताः // srs_32.224 //

गतिमेतां गवेषित्वा बोधिसत्त्वो न लभ्यते / येनैषा सर्वबुद्धानां ज्ञाता गतिरचिन्तिया // srs_32.225 //

स तां गतिं गतो भोति यः सर्वां गति जानति / सर्वस्य माया उच्छिन्ना ज्ञात्वा सद्धर्मलक्षणम् // srs_32.226 //

बोधिमण्डे निषीदित्वा सिंहनादं नदी तथा / विज्ञापयी क्षेत्रकोटीरप्रमेया अचिन्तियाः // srs_32.227 //

तांश्च प्रकम्पयी सर्वा बुद्धवीरा महायशाः / यथ वैनयिकान् सत्त्वान् विनेती सत्त्वसारथिः // srs_32.228 //

स्पृशित्वा उत्तमां बोधिं बोधिमण्डात्तु उत्थितः / विनेयान् विनयेत् सत्त्वानप्रमेयानचिन्तियान् // srs_32.229 //

ततो निर्मिणि संबुद्धो अनन्तान् बुद्धनिर्मितान् / क्षेत्रकोटीसहस्राणि गच्छन्ती धर्मदेशकाः // srs_32.230 //

स्थापयन्त्यग्रबोधीये सत्त्वकोटीरचिन्तियाः / देशयन्त्युत्तमं धर्मं हितार्थं सर्वप्राणिनाम् // srs_32.231 //

ईदृशं तन्महाज्ञानं बुद्धज्ञानमचिन्तियम् / तस्माज्जनयथ च्छन्दं बोधिच्छन्दमनुत्तरम् // srs_32.232 //

जनेथ गौरवं बुद्धे धर्मे संघे गुणोत्तमे / बोधिसत्त्वान शूराणां बोधिमग्र्यां निषेवताम् // srs_32.233 //

अनोलीनेन चित्तेन सत्करोथ अतन्द्रिताः / भविष्यथ ततो बुद्धा नचिरेण प्रभाकराः // srs_32.234 //

ये च क्षेत्रसहस्रेषु बोधिसत्त्वा इहागताः / पश्यन्ति लोकप्रद्योतं धर्मं देशेन्तमुत्तमम् // srs_32.235 //

ओकिरन्ति महावीरा महारत्नेहि नायकम् / मान्दारवेहि पुष्पेहि ओकिरी बोधिकारणात् // srs_32.236 //

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.