Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa
समाधिराजसूत्र
- Thông tin
- GRETIL — P.L. Vaidya, Darbhanga: The Mithila Institute, 1961 (Buddhist Sanskrit Texts, 2.).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
एकस्य सूत्रस्युपदेशकोटियो अचिन्तियां निओर्दिशतो न सज्जति / (वैद्य 258) असङ्गनिर्देशपदार्थकोविदो भाषन्तु सो पर्षगतो न सज्जते // srs_36.29 //
यः सुस्थितो भोति इहो समाधिये स बोधिसत्त्वो भवती अकम्पियः / धर्मे बलाधानविशेषप्राप्तः करोति सो ऽर्थं बहुप्राणकोटिनाम् // srs_36.30 //
यथैव मेरुरचलो अकम्पियः सर्वेहि वातेहि न शक्य कम्पितुम् / तथैव भिक्षुर्विदु धर्मभाणकं कम्पेतु शक्यं न परप्रवादिभिः // srs_36.31 //
महासहस्रेष्विह लोकधातुषु ये पर्वता उक्त अकम्पनीयाः / ते शक्य वातेन प्रकम्पनाय न त्वेव धर्मे स्थितु शून्यि भिक्षुः // srs_36.32 //
य शून्यतायां सततं प्रयुक्तो बुद्धान एषो नियतं विहारः / प्रजानती निश्चितु धर्म शून्यां स सर्ववादीभि न शक्यु क्षोभितुम् // srs_36.33 //
अकम्पियो भोति परप्रवादिभिः सवप्रवादेहि अनाभिभूतः / अनाभिभूतश्च अनिन्दितश्च इमुमुद्दिशित्वान समाधि शान्तम् // srs_36.34 //
गतिं गतो भोति स शुन्यतायां सर्वेषु धर्मेषु न काङ्क्षते ऽसौ / अनन्तज्ञाने सद सुप्रतिष्ठितो इमुमुद्दिशित्वान समाधि शान्तम् // srs_36.35 //
बलानि बोध्यङ्ग न तस्य दुर्लभा प्रतिसंविदो ऋद्धिविधी अचिन्तिया / अभिज्ञ नो तस्य भवन्ति दुर्लभा धारेत्व वाचेत्व इम समाधिम् // srs_36.36 //
(वैद्य 259) भवाभिवृत्तस्य न तस्य दुर्लभं अनन्तज्ञानेन जिनान दर्शनम् / संबुद्ध कोटीनयुतानचिन्तियान् सो द्रक्ष्यते एतु समाधि धारयन् // srs_36.37 //
सर्वेष चो तेष जिनान अन्तिके स श्रोष्यते एतु समाधि शान्तम् / वरेण ज्ञानेन उपेतु भेष्यती प्रतिसंविदासु वश पारमिं गतः // srs_36.38 //
सचेद् भवेन्मणिरतनान पूर्णा महासहस्रा इय लोकधातुः / ये दिव्य श्रेष्ठा मणिरतनाः प्रधाना हेष्टं उपादाय भवाग्रु यावत् // srs_36.39 //
यावन्त क्षेत्रा बहुविध ते अनन्ता जाम्बूनदासंस्तृत पूर्ण सर्वे / दानं ददे जिनवरेषु सर्वं भूमीतलादुपरि भवाग्र यावत् // srs_36.40 //
यावन्ति सन्ति बहु विविधा हि सत्त्वा दानं ददेयुर्विविधमनन्तकल्पान् / बुद्धान दद्युः सततमविष्ठिहन्तो बोध्यर्थिको चो ददितु दानस्कन्धम् // srs_36.41 //
यश्चैव भिक्षुरभिरतु शून्यतायां बुद्धान्नमस्ये दशनखप्राञ्जलीयो / न स दानस्कन्धः पुरिमकु याति संख्यां यः शून्यतायामभिरतु बोधिसत्त्वः // srs_36.42 //
तं चो लभित्वा स हि नरु पुण्यवन्तो दानं ददेति विपुलु जनेत्व श्रद्धाम् / पर्येषमाणो अतुलिय बुद्धबोधिं औपम्यमेतं कृतु पुरुषोत्तमेन // srs_36.43 //
यश्चो समाधिमिमु वरु श्रेष्ठ गृह्णेच्चतुष्पदां गाथ स तुष्टचित्तः / यः पुण्यस्कन्धो उपचितु तेन भोति तत् सर्वदानं शतिमकला नु भोति // srs_36.44 //
(वैद्य 260) न ताव शीघ्रं प्रतिलभि बुद्धज्ञानं दानं ददेत् सो हितकरु बोधिसत्त्वः / अश्रुत्व एतं विरजु समाधि शान्तं यथ श्रुत्व शीघ्रं लभति स बुद्धज्ञानम् // srs_36.45 //
यश्चो लभित्वा इमु वर शान्तभूमिं श्रुतस्य गोत्रं इमु विरजं समाधिम् / पुर्यापुणेय्या प्रमुदितु बोधिसत्त्वः स शीघ्रमेतं प्रतिलभि बुद्धज्ञानम् // srs_36.46 //
यो ऽपी निधानं प्रतिलभि एवरूपं क्षेत्राननन्तान् यथरिव गङ्गवालिकाः / ते चो भवेयुर्मणिरतनान पूर्णा दिव्यान चो तथपि च मानुषाणाम् // srs_36.47 //
दुर्धर्षु सो भोति प्रेभूतकोशो महाधनो धनरतनेनुपेतः / यो बोधिसत्त्वो लभति इमं समाधिं पर्यापुणन्तः सततमतृप्तु भोति // srs_36.48 //
राज्यं लभित्वा परमसमृद्ध स्फीतं न तेन तुष्टो भवति कदाचि विज्ञः / यथा लभित्वा इमु विरजं समाधिं तुष्टो उदग्रो भवति स बोधिसत्त्वः // srs_36.49 //
ते ते धर्मधरा भवन्ति सततं बुद्धान सर्वज्ञिनां धारेन्ती वरधर्मनेत्रि विपुलां क्षीणान्तकाले तथा / धर्मकोशधरा महामतिधराः सर्वज्ञगञ्जंधराः ते ते सत्त्व सहस्रकोटिनियुतांस्तोषन्ति धर्मस्वरैः // srs_36.50 //
ते ते शीलधनेनुपेत मतिमान् शिक्षाधनाढ्या नराः ते ते शीलव्रते स्थिता अभिरता धर्मद्रुमस्याङ्कुराः / ते ते रक्तकषायचीवरधरा नैष्क्रम्यतुष्टाः सदा ते ते सत्त्वहिताय अप्रतिसमाः सर्वज्ञतां प्रस्थिताः // srs_36.51 //
ते ते दान्त सुदान्त सत्त्वदमका दमथेनुपेताः सदा ते ते शान्त सुशान्ततामनुगताः शान्तप्रशान्तेन्द्रियाः / ते ते सुप्त प्रसुप्त सत्त्व सततं धर्मस्वनैर्बोधयी बोधित्वा वरश्रेष्ठ धर्मरतनैः सत्त्वान् प्रतिष्ठापयी // srs_36.52 //
(वैद्य 261) ते ते दानपती भवन्ति सततं सद मुक्तत्यागी विदु ते ते मत्सरियैर्न संवसि महात्यागे रमन्ते सदा / ते ते सत्त्व दरिद्र दृष्ट्व दुखितान् भोगेहि संतर्पयी ते ते सत्त्वहिते सुखाय सततं सर्वज्ञतां प्रस्थिताः // srs_36.53 //
ते ते आहनि धर्मभेरि विपुलां ज्ञाने सदा शिक्षिताः छिन्दन्ती जन सर्व संशयलतां ज्ञाने सदा प्रस्थिताः / ते ते सुश्रुत धर्मधारि विरजा सूत्रान्तकोटीशतान् पर्षायां स्थित आसने मतिधराः प्रव्याहरी पण्डिताः // srs_36.54 //
ते ते भोन्ति बहुश्रुताः श्रुतिधराः संबुद्धधर्मंधराः कोशान् धर्ममयान् धरन्ति मुनिनां धर्मान्निधाने रताः / ते ते भोन्ति विशालप्रज्ञ विपुलां प्रीइतिं जनेन्ति सदा देशेन्ता वरधर्म शान्त निपुणं नैर्याणिकं दुर्दृशम् // srs_36.55 //
ते ते धर्ममधर्मज्ञेय मतिमान् धर्मे स्थिताः सूरताः धर्मराज्यि प्रशासि अप्रतिसमा वरधर्मचारी सदा / ते ते भोन्ति विशिष्टधर्मगुरुका गुरुगौरवे च स्थिताः धर्मे नगवरे स्थिता मतिधरा धर्मध्वजोच्छ्रायिकाः // srs_36.56 //
ते ते मत्त प्रमत्त सत्त्व सततं दृष्ट्वा प्रमादे स्थितान् दृष्ट्वा चैव प्रनष्ट उत्पथगतान् संसारमार्गे स्थितान् / तेषू मैत्र जनित्वुदार करुणा मुदिताप्युपेक्षा स्थिता तेषां मार्गवरं प्रदर्शयि शिवमष्टाङ्गिकं दुर्दृशम् // srs_36.57 //
ते तु नाव करित्व धर्म सुदृढां धारेन्ति सत्त्वान् बहून् उद्यन्तान् महार्णवेषु पतितान् संसारस्रोतोगतान् / बोध्यङ्गा बल इन्द्रियैः कवचिताः सद्धर्मनावारुहाः तीरे पारमि क्षेम नित्यमभये स्थापेन्ति सत्त्वान् सदा // srs_36.58 //
ते ते वैद्यवरा व्रतेषु चरिता वैद्योत्तमा वेदका विद्याज्ञानविमुक्तिपारगमिता सद्धर्मभैषज्यदाः / दृष्ट्वा सत्त्व गिलान नेकविविधै रोगैः समभ्याहतान् तेषां धर्मविरेचनं ददति तद्धर्मैश्चिकित्सन्ति तान् // srs_36.59 //
ते ते वादि अपवादिमथना लोकेन्द्र वागीश्वराः सर्वज्ञेयप्रभंकरा मतिधरा वरज्ञानभूमिस्थिताः / शूर ज्ञानबला बलप्रमथनाः संवर्णिता ज्ञानिभिः ज्ञानेनो बहुसत्त्वकोटिनियुतांस्तोष्यन्ति धर्मे स्थिताः // srs_36.60 //
(वैद्य 262) ते ते ऽधिपति सार्थवाह विपदः सत्त्वान त्राणार्थिकाः दृष्ट्वा सत्त्व प्रमूढ मार्गरतने सद मारपाशे स्थिताः / तेषां मार्गवरं प्रकाशयि शिवं क्षेमं सदा निर्वृती येन ज्ञानपथेन नेन्ति कुशलान् बहुसत्त्वकोटीशतान् // srs_36.61 //
ते ते लेनु भवन्ति त्राणु शरणं चक्षुः प्रदीपंकराः भीतानामभयप्रदाश्च सततं त्रस्तान चाश्वासकाः / ते ऽतिदुःखित सत्त्व ज्ञात्व परमान् जात्यन्धभूतानिमान् धर्मालोकु करोन्ति धर्मरतने भूतनये शिक्षिताः // srs_36.62 //
ये ये शिल्पवरा जगे बहुकराः सत्त्वान अर्थावहा येभिः सत्त्व सदा भवन्ति सुखिताः शिल्पेषु संशिक्षिताः / शिक्षापारमितां गताः सुकुशला आश्चर्यप्राप्ताद्भुता ये बोधीनभिप्रस्थिता मतिधरा लोकस्य चक्षुर्ददाः // srs_36.63 //
नो ते तृप्त कदाचिदप्रतिसमा वरबुद्धधर्मश्रुताः शीलक्षान्तिसमाधिपारगमिता गम्भीरधर्मश्रुताः / नो तृप्ताश्च परेषु धर्मरतनं ते देशयन्तः शिवं मोक्षोपायु प्रवर्षमाणु वर्षं धर्मैर्नरांस्तर्पयी // srs_36.64 //
यावन्तो बहु सत्त्व तेषुपगता धर्मार्थिकाः पण्डिताः श्रोष्यामो वरधर्मश्रेष्ठरतनं मार्गं ऋजुं अञ्जसम् / तेषां छिन्दिषु संशयान् मतिअधरा धर्मेण संतोषयी शीलक्षान्तिसमाधिपारमिगता जानन्त सत्त्वशयान् // srs_36.65 //
ज्ञानी ज्ञानवराग्र पारमिगताः सत्त्वाशये कोविदाः जानन्तः परसत्त्वचित्तचरितं येषां कथा यादृशी / ये ये ज्ञानकथाय सत्त्वनयुता वरधर्मचक्षुर्लभाः ते ते ज्ञानविशेषपारमिगता मार्गोपदेशंकराः // srs_36.66 //
मारा कोटिसहस्र तेष विदुषां चित्तं पि नो जानिषु आकाशे यथ पक्षिणां पदगतिं ज्ञातुं न शक्या क्वचित् / शान्ता दान्त प्रशान्त ज्ञानवशिनो आर्यस्मि ज्ञाने स्थिताः सर्वान् मार निहत्य शूर वृषभा बुध्यन्ति बोधिं शिवाम् // srs_36.67 //
ऋद्धिपारमिप्राप्त भोन्ति सततं गच्छन्ति क्षेत्रान् शतान् पश्यन्ति बहुबुद्धकोटिनियुतान् गङ्गा यथा वालिकाः / (वैद्य 263) चक्षुस्तेष न सज्जते दशदिशे पश्यन्ति रूपान् बहु ये चो सत्त्व दशद्दिशे भवस्थिताः सर्वेष ते नायकाः // srs_36.68 //
ते तस्यो भणि आनुशंस सकलां कल्पान कोटीशतान् नो चो पूर्वचरीय वर्ण क्षपये प्रतिभानतो भाषतो / बुद्धानां धनमक्षयं सुविपुलं ज्ञानस्य चो सागरं यो एतं विरजं समाधिमतुलं धारेय कश्चिन्नरः // srs_36.69 // इति श्रीसमाधिराजे शीलस्कन्धनिर्देशपरिवर्तः षट्त्रिंशतितमः ॥ 36 ॥ (वैद्य 264) 37 यशःप्रभपरिवर्तः ।
तत्र भगवान् पुनरपि चन्द्रप्रभं कुमारभूतमामन्त्रयते स्म - तस्मात्तर्हि कुमार बोधिसत्त्वेन महासत्त्वेनेमांश्चापरिमाणानाश्चर्याद्भुतान् बोधिसत्त्वधर्मानाकाङ्क्षता क्षिप्रं चानुत्तरां सम्यक्संबोधिमभिसंबोद्धुकामेनायं सर्वधर्मस्वभावसमताविपञ्चितः समाधिः श्रोतव्य उद्ग्रहीतव्यः पर्यवाप्तव्यो धारयितव्यो वाचयितव्यः प्रवर्तयितव्यः उद्देष्टव्यः स्वाध्यातव्यो ऽरणाभावनया भावयितव्यो बहुलीकर्तव्यः परेभ्यश्च विस्तरेण संप्रकाशयितव्यः । क्षान्तिबलं चानेन भावयितव्यम् । क्षान्तिरासेवयितव्या भावयितव्या बहुलीकर्तव्या । धर्मार्थिकेन च भवितव्यं धर्मकामेन धर्मप्रतिग्राहकेन धर्मानुधर्मप्रतिपन्नेन । बुद्धपूजाभियुक्तेन भवितव्यम् । तेन त्रिषु स्थानेष्वभियोगः करणीयः । कतमेषु त्रिषु? यदुत क्लेशक्षयाय पुण्यबलाधिपतये बुद्धज्ञानमाकाङ्क्षता कुशलमूलान्यवरोपयितव्यानि नो तु खलु लोकसुखस्पर्शाभिकाङ्क्षिणा । एषु त्रिषु स्थानेष्वभियोगः करणीयः ॥
अथ खलु भगवांस्तस्यां वेलायां चन्द्रप्रभस्य कुमारभूतस्य तमेवार्थमुद्योतयमान इममेव पूर्वयोगकथानिर्देशं गाथाभिगीतेन संप्रकाशयति स्म -
हन्त शृणोथ ममेतु कुमारा कल्पसहस्र यथा चरिता मे / पूजित बुद्धसहस्रशतानि एषतु एति समाधि प्रणीतम् // srs_37.1 //
कल्प अचिन्तिय एवमतीताः क्षेत्रशतेषु ये वालिक अस्ति / एष निदर्शनु कीर्तितु भोती यं जिनु आसि गणेश्वरनामा // srs_37.2 //
षष्टिरनूनक कोटिसहस्राण्यासि गणोत्तमु तस्य जिनस्थ / सर्वि अनास्रवि क्षीणकिलेशा अष्टविमोक्षप्रतिष्ठित ध्यायी // srs_37.3 //
तत्र च कालि इयमपि सर्वा क्षेम सुभिक्ष अनाकुल आसीत् / सौख्यसमर्पित सर्वमनुष्याः प्रीणित मानुषकेभि सुखेभिः // srs_37.4 //
(वैद्य 265) पुण्यबलेन च सर्व उपेता दर्शनियास्तथ प्रेमणियाश्च / आढ्य महाधन सर्व समृद्धा दिव्यसुखेन समर्पितगात्राः // srs_37.5 //
सूरतु सुव्रत मन्दकिलेशाः क्षान्तिबलाभिरता अभिरूपाः / देवपुरेषु यथा मरुपुत्राः शीलगुणोपगता मतिमन्तः // srs_37.6 //
तत्र च कालि महीपतिरासीद् राजसुतो वरपुष्पसुनामा / तस्य च पुत्र अनूनकमासन् पञ्चशता स्मृतिमन्मतिमन्तः // srs_37.7 //
तेन च राजसुतेन जिनस्यो षष्टि उद्यानसहस्रशतानि / पुष्पफलप्रतिमण्डित सर्वे तस्य निर्यातित कारुणिकस्य // srs_37.8 //
विचित्र उद्यान सहस्रशता चंक्रमशय्यनिषद्यसहस्रैः / चीवरकोटिसहस्रशतेभिः संस्तृत चंक्रमणाश्च निषद्याः // srs_37.9 //
एवमनेकप्रकारसहस्रा यात्तक श्रामणकाः परिभोगाः / राजसुतेन प्रसन्नमनेना तस्य उपस्थापिताः सुगतस्य // srs_37.10 //
सो दशसु शुभकर्मपथेषु राज प्रतिष्ठित साधूजनेना / प्राणसहस्रशतानयुतेभिर्गच्छि पुरस्कृतु नायकु द्रष्टम् // srs_37.11 //
पुष्पविलेपनधूप गृहीत्वा छत्रपताकध्वजांस्तथ वाद्यान् / (वैद्य 266) पूज करित्व स तस्य जिनस्य प्राञ्जलिकः पुरत स्थित आसीत् // srs_37.12 //
तुष्ट अभूत्तद भिक्षुसहस्रा देवमनुष्यथ यक्षसुराश्च / व्याकरु किं नु जिनो इमु पूजां साधु किं वक्ष्यति धर्मु नरेन्द्रः // srs_37.13 //
तस्य च आशय ज्ञात्व स्वयंभू राजसुतस्य निरुत्तरु चित्तम् / पारगतो अभिमुक्तिपदेषु तस्यिम देशयि शान्त समाधिम् // srs_37.14 //
याव प्रमुक्त गिरा सुगतेना कम्पित मेदिनि सवनषण्डा / पुष्प प्रवर्षि तदा गगनातः पद्मशतापि च उद्गत भूमौ // srs_37.15 //
व्याकरि नायकु आशयु ज्ञात्वा अर्थपदेषु सुशिक्षित शास्ता / देशयि शान्त समाधि नरेन्द्रस्तत्रिमि अर्थपदानि शृणोथ // srs_37.16 //
सर्वि भवा अभवाः परिकल्पास्तुच्छ मरीचिसमा यथ मायाः / विद्यतमेघसमाश्चल शून्याः सर्वि निरात्म निसत्त्व निजीवाः // srs_37.17 //
आदितु शून्य अनागत धर्मा नागत अस्थित स्थानविमुक्ताः / नित्यमसारक मायस्वभावाः शुद्ध विशुद्ध नभोपम सर्वे // srs_37.18 //
नैव च नील न पित न श्वेता नामतु रिक्तकु घोषस्वभावाः / चित्तविविक्त अचित्तस्वभावाः सर्वरूतापगताः क्षणिकत्वात् // srs_37.19 //
भाषतु अक्षरु संक्रमु नास्ति नो पि अभाषतु संकरु भोति / (वैद्य 267) नापि च अक्षर देश व्रजन्ती नो पुनरक्षरु क्रान्ति कुतश्चित् // srs_37.20 //
अक्षर अक्षय क्षीण निरुद्धा भाषततो व अभाषततो वा / नित्यमिमक्षर अक्षय उक्ता यः परिजानति सो ऽक्षयु भोति // srs_37.21 //
बुद्धसहस्रशता य अतीता धर्मसहस्रशतानि भणित्वा / नैव च धर्मु न चाक्षर क्षीणा । नास्ति समुत्पत्ति तेन अक्षीणा // srs_37.22 //
येन प्रजानति अक्षयधर्मान् नित्यु प्रजानति अक्षयधर्मान् / सुत्रसहस्रशतानि भणित्वा सर्वि अनक्षर जानति धर्मान् // srs_37.23 //
यं च प्रभाषति धर्म जिनस्यो तं च न मन्यति सो ऽक्षयताये / आदि निरात्मनि ये त्विमि धर्मा तांश्च प्रभाषति नो च क्षपेति // srs_37.24 //
सर्वगिरः स प्रभाषति विज्ञो नो च गिराय हरीयति चित्तम् / सर्वगिरो गिरिघोषनिकाशो तेन न सज्जति जातु गिराये // srs_37.25 //
याय गिराय स कीर्तितु धर्मः सा गिर तत्क्षणि सर्व निरुद्धा / यादृशु लक्षणु तस्य गिराये सर्विमि धर्म तल्लक्षणप्राप्ताः // srs_37.26 //
सर्विमि धर्म अलक्ष विलक्षा सर्वि अलक्षण लक्षणशुद्धाः / नित्य विविक्त विशुद्ध नभो वा संख्य समासतु ते न उपेन्ति // srs_37.27 //
संस्कृतासंस्कृत सर्वि विविक्ता नास्ति विकल्पन तेषमृषीणाम् / (वैद्य 268) सर्वगतीषु असंस्कृत प्राप्ता दृष्टिगतेहि सदैव विविक्ताः // srs_37.28 //
नित्यमरक्त अदुष्ट अमूढास्तस्य स्वभाव समाहितचित्ताः / एष समाधिबली बलवन्तो यो इमु जानति ईदृश धर्मान् // srs_37.29 //
शैलगुहागिरिदुर्गनदीषु यद्व प्रतिश्रुत्क जायि प्रतीत्य / एविमु संस्कृति सर्वि विजाने मायमरीचिसमं जगु सर्वम् // srs_37.30 //
प्रज्ञबलं गुण धर्मगतानां ज्ञानबलेन अभिज्ञ ऋषीणाम् / वाच उपायकुशल्य निरुक्ता यत्र प्रकाशितु शान्त समाधिः // srs_37.31 //
कल्पितु वुच्चति कल्पनमात्रं अन्तु न लभ्यति संसरमाणे / कोटि अलक्षण या पुरि आसीदपि अनागति प्रत्ययताये // srs_37.32 //
कर्म क्रियाय च वर्तति एवं हीन उत्कृष्टतया समुदेन्ति / विविक्त धर्म सदा प्रकृतीये शून्य निरात्म विजानथ सर्वान् // srs_37.33 //
संवृति भाषितु धर्म जिनेनासंस्कृतसंस्कृत पश्यथ एवम् / नास्तिह भूततु आत्म नरो वा एतकु लक्षण सर्वजगस्य // srs_37.34 //
कृष्णाशुभ च न नश्यति कर्म आत्मन कृत्व च वेदयितव्यम् / नो पुन संक्रम कर्मफलस्य नो च अहेतुक प्रत्यनुभोन्ति // srs_37.35 //
(वैद्य 269) सर्वि भवा अलिका वशिकाश्चो रिक्तकु तुच्छ फेनसमाश्च / मायमरीचिसमाः सद शुन्या देशितु शब्दितु ते च विविक्ताः // srs_37.36 //
एवं विजानतु मन्यन नास्ती शीलवु भोती अनिश्रितचित्तः / क्षान्तिबलेन न कल्पयि किंचि एव चरन्तु समाहितु भोति // srs_37.37 //
यात्तक धर्म विजानि स राजा तात्तक देशित तेन जिनेन / श्रुत्व नृपो इमु धर्म जिनस्यो सपरिवारु समाददि शिक्षाम् // srs_37.38 //
राजसुतो इमु श्रुत्व समाधिं आत्तमना मुदितो भणि वाचम् / सुष्ठु सुभाषितु एष समाधी एष तवा चरणेषु पतामि // srs_37.39 //
तत्र च प्राणिसहस्र अशीतिः श्रुत्विमु धर्मस्वभाव प्रणीतम् / भूतु अयं परमार्थ निर्देशो ते अनुत्पत्तिक क्षान्ति लभिंसु // srs_37.40 //
नास्ति उपादु निरोधु नरस्यो एविमि धर्म सदा विविक्ताः / एव प्रजानतु नो परिहाणि राज लभी अनुत्पत्तिक क्षान्तिम् // srs_37.41 //
राज तदा विजहित्वन राज्यं प्रव्रजि शासनि तस्य जिनस्य / ते ऽप्यनु प्रव्रजिताः सुत राज्ञः पञ्चशतानि अनूनक सर्वे // srs_37.42 //
प्रव्रजितो यद राज सपुत्रो अन्य तदा बहुप्राणिसहस्राः / प्रव्रजिताः सुगतस्य समीपे धर्म गवेषियु तस्य जिनस्य // srs_37.43 //
(वैद्य 270) विंशतिवर्षशतान् परिपूर्णान् धर्म प्रकाशितु तेन जिनेना / राज सपुत्रकु तेन जनेना विंशतिवर्षशता चरि धर्मम् // srs_37.44 //
अथ अपरेण पुनः समयेन सो ऽपि जिनः परिनिर्वृतु आसीत् / ये जिनश्रावक ते ऽपि अतीताः सो ऽपि च धर्मु परित्तकु आसीत् // srs_37.45 //
तस्य च राजिन पुत्र अभूषी पुण्यमती सद श्राद्धु प्रसन्नः / तस्य च भिक्षु कुलोपगु आसीत् । सो इमु देशयि शान्त समाधिम् // srs_37.46 //
सो अखिलो मधुरो च अभूषी सत्कृतु प्राणिसहस्रशतेभिः / देवत कोटिशतान्यनुबद्धा वर्ण भणन्ति कुलान् प्रविशित्वा // srs_37.47 //
स स्मृतिमान् मतिमान् गतिमांश्चो सुव्रतु सूरतु शीलरतश्च / सुस्वरु अपरुष सो मधुरश्चो धातुषु ज्ञानवशी वरप्राप्तः // srs_37.48 //
चीवरकोटिशतान च लाभी आसि स भिक्षु यशःप्रभु नाम्ना / तस्य च पुण्यबलं असहन्ता भिक्षुसहस्र तदा जनि ईर्षाम् // srs_37.49 //
पुण्यबलेन च रूपबलेन ज्ञानबलेन च ऋद्धिबलेन / शीलबलेन समाधिबलेनो धर्मबलेन समुद्गत भिक्षुः // srs_37.50 //
हृष्टमनश्च प्रियश्च जनस्यो भिक्षु उपासकभिक्षुणिकानाम् / (वैद्य 271) ये जिनशासनि सत्त्व प्रसन्नास्तेषमभीप्सित पूजनियाश्च // srs_37.51 //
यश्च स राजिनु पुत्रु अभूषी पुण्यमती सद श्राद्धु प्रसन्नः / ज्ञात्व प्रदुष्टमनान् बहुभिक्षूं रक्ष स कारयि आचरियस्य // srs_37.52 //
पञ्चहि प्राणिसहस्रशतेही वर्मित खड्गगदायुधकेहि / तेहि सदा परिवारित भिक्षु भाषति भूतचरीमपर्यन्ताम् // srs_37.53 //
सो परिषाय प्रभाषति धर्मं शून्य निरात्म निर्जीविमि धर्माः / ये उपलम्भिक आत्मनिविष्टास्तेष न रोचति यं भणि भिक्षुः // srs_37.54 //
उत्थितु भिक्षव शस्त्र गृहीत्वा येष न रोचति शून्यत शान्ता / एष अधर्म प्रभाषति भिक्षुः एतु हनित्व भविष्यति पुण्यम् // srs_37.55 //
दृष्ट्व च शस्त्र न भायति भिक्षुः शून्यक धर्ममनुस्मरमाणः / नास्तिह सत्त्व नरो वापहत्यै कुड्यसमा इमि रिक्तक धर्माः // srs_37.56 //
भिक्षु करोति स अञ्जलि मूर्ध्ना भाषति वाच नमो ऽस्तु जिनानाम् / येन सत्येनिमि शून्यक धर्मा भोन्तिमि शस्त्र मान्दारवपुष्पाः // srs_37.57 //
शीलव्रतोपगतस्य मुनिस्यो भाषितमात्र अनन्यथवाक्ये / कम्पित मेदिनि सवनषण्डा शस्त्र ते जात मान्दारवपुष्पाः // srs_37.58 //
(वैद्य 272) भिक्षु अभूत्तद मंकुशरीरा ये उपलम्भिक शस्त्रगृहीताः / भूयु य शक्युपसंक्रमणाये त्रस्य अभूत् सुमहाद्भुतजाताः // srs_37.59 //
ये पुन श्राद्ध प्रसन्न मुनीन्द्रे येषिह रोचति शुन्यत शान्ता / तेहि हुंकारसहस्र करित्वा दूष्यशतैरभिछादित भिक्षुः // srs_37.60 //
भिक्षु जनित्वन मैत्र स तेषु सर्वजनस्य पुरस्त भणाति / ये मयि सत्त्व प्रदोष करोन्ती तेष कृते न हु बोधि चरामि // srs_37.61 //
तेन च वर्ष अशीतिरनूना भाषित शून्यत कोषु जिनानाम् / भिक्षुसहस्र प्रत्यर्थिक आसन् ये च निवारित राजसुतेन // srs_37.62 //
सो ऽपि तदा परिभूत् अभूषी तस्य च भिक्षु परीत्तकु आसन् / वाचमनिष्ट तदा श्रुणमानः क्षान्तिबला च्युत नो च कदाचित् // srs_37.63 //
सो ऽपरेण च पुनः समयेन प्राणिशतान करी महदर्थम् / शीलमखिलमनुस्मरमाणः पुण्यमतिस्य तदा भणि वाचम् // srs_37.64 //
तत्र स गौरवु कृत्व उदारं पुण्यमती अवची तद भिक्षुम् / मा मम किनचिदाचरियस्यो चेतसि किंचि कृतं अमनापम् // srs_37.65 //
सो अवची शृणु राजकुमारा क्षान्तिबलेन समुद्गत बुद्धाः / (वैद्य 273) येन मि भाषित वाचमनिष्टास्तस्यिमि अन्तिकि मैत्र उदारा // srs_37.66 //
येन स कल्पसहस्रशतानि क्षान्ति निषेवित पूर्वभवेषु / सो अहु भिक्षु यशःप्रभु आसं शाक्यमुनिर्भगवान् भणि वाचम् // srs_37.67 //
येन यशःप्रभु रक्षितु भिक्षुः पुण्यमती तद राजिनु पुत्रः / जातिसहस्र ममासि सहायः सो मय व्याकृतु मैत्रकु बुद्धः // srs_37.68 //
येन गणेश्वर पूजितु शास्ता येन तु कारित श्रेष्ठ विहाराः / पूर्वमसौ वरपुष्पसुनामा सो पदुमोत्तुरु आसि मुनीन्द्रः // srs_37.69 //
एव मया बहुकल्प अनन्ता धारयितामिमु धर्म जिनानाम् / क्षान्तिबलं समुदानित पूर्वे श्रत्व कुमार ममा अनुशिक्षाः // srs_37.70 //
निर्वृतिमप्यथ भेष्यति एवं पश्चिमि कालि सद्धर्मविलोपे / भिक्षु व तीर्थमतेष्वभियुक्ता ते मम धर्म प्रतिक्षिपि शान्तम् // srs_37.71 //
उन्नत उद्धत दुष्ट प्रगल्भा पापसहायक भोजनलुब्धाः / चीवरपात्ररताः पटलुब्धाः लाभसंनिश्रित ते क्षिपि धर्मम् // srs_37.72 //
दुष्तप्रदुष्टमना अकृतज्ञा हीनकुलेषु दरिद्रकुलेषु / प्रव्रजिता इह शासनि मह्यं ते ऽपि प्रतिक्षिपि शान्तमु धर्मम् // srs_37.73 //
(वैद्य 274) मारमतेन च मोहित सत्त्वा रागवशानुगताभिनिविष्टाः / मोहवशेन तु मोहित बाला येष न रोचति शून्यत शान्ता // srs_37.74 //
भिक्षु च भिक्षुणिका गृहिणश्चो ग्राहित मोहित पापमतीभिः / तेष वशानुगता सद भूत्वा पश्चिमि कालि प्रतिक्षिपि बोधिम् // srs_37.75 //
श्रुत्व कुमार इमा मम वाचं भिक्षु अरण्यकुले वसि नित्यम् / येषिय रोचति शून्यत शान्ता तैरयु धारितु धर्मु जिनानाम् // srs_37.76 //
प्रव्रजि ते मम शासनि चरित्व भिक्षु उपसंपदपोषधकर्मम् / भुञ्जिमु पिण्डमसक्ता अदुष्टा ये इमु धारयिष्यन्ति समाधिम् // srs_37.77 //
जीवित काय अपेक्षि प्रहाया शून्यत भावयथा सुप्रशान्ताम् / युक्तप्रयुक्तमना च भवित्वा सेव अरण्य सदा मृगभूताः // srs_37.78 //
नित्य करोथ च पूज जिनानां छत्रध्वजर्द्धियमाल्यविहारैः / चेतिय पूजयथा प्रतिमानां क्षिप्र लभिष्यथ एतु समाधिम् // srs_37.79 //
स्तूप करापयथा सुगतानां हेमविभूषित रूपियलिप्तान् / प्रतिम सुनिष्ठित रत्नविचित्रा बोधिनिधानु जनित्वन चित्तम् // srs_37.80 //
यावति पूज जगेस्मि प्रणीता दिव्यथ मानुषिका रमणीया / (वैद्य 275) सर्व गवेषिय बुद्ध महेथा बोधिनिधानु करित्व प्रतिज्ञाम् // srs_37.81 //
धर्मत पश्यथ सर्वि नरेन्द्रान् यावत सन्ति दश दिशि लोके / दृश्यति निर्वृति सर्वजिनानां धर्मतया स्थित संमुख बुद्धाः // srs_37.82 //
भोथ च सर्विषु त्यागाधिमुक्ताः शीलविशुद्धगता स्थिरचित्ताः / क्षान्तिरताः सद मैत्ररताश्चो सर्वि प्रजानथ शून्यक धर्मान् // srs_37.83 //
वीर्यु जनेथ अलीन अदीनाः ध्यानरताः प्रविवेकरताश्च / प्रज्ञ प्रजानथ प्रज्ञविशुद्धिं भेष्यथ कारुणिका नचिरेण // srs_37.84 //
रागु शमेथ सदा अशुभा ये दोषु निगृह्णथ क्षान्तिबलेन / मोहु निगृह्णथ प्रज्ञबलेना प्राप्स्यथ बोधि जिनानु प्रशस्ताम् // srs_37.85 //
कायु विभावयथा यथा फेनं दुःखमसारकु पूतिदुर्गन्धम् / स्कन्ध प्रजानथ रिक्तक सर्वांल्लप्स्यथ ज्ञानमनुत्तरु क्षिप्रम् // srs_37.86 //
दृष्टि म गृह्णथ पापिक जातु आत्म अयं पुरुषो अथ जीवः / सर्वि प्रजानथ शून्यक धर्मान् क्षिप्र स्पृशिष्यथ उत्तमबोधिम् // srs_37.87 //
लाभ म कुर्वथ गृद्धो कदाचित् मा परितप्यथ पिण्डलमब्ध्वा / निन्दित शंसित मा खु चलेथा मेरुसमाश्च अकम्पिय भोथा // srs_37.88 //
(वैद्य 276) धर्म गवेषथ गौरवजाताः श्रत्व तदापि च तत्पर भोथ / तिष्ठत गोचरि सर्वजिनानां यास्यथ क्षिप्र सुखावतिक्षेत्रम् // srs_37.89 //
सर्वजगे समचित्त भवित्वा अप्रिय मा प्रिय चित्त करोथ / मा न गवेषथ लाभु यशो वा क्षिप्र भविष्यथ बुद्ध मुनीन्द्राः // srs_37.90 //
बुद्धगुणांश्च प्रभाषथ नित्यं भूतगुणेहि निरुक्तिपदेहि / यान् गुण श्रुत्विह सत्त्व प्रसन्नाः बुद्धगुणेषु स्पृहां जनयेयुः // srs_37.91 //
नित्य सगौरव चाचरियेषु मातु पितुस्तथ सर्वजगस्मिन् / मा पुन मानवशानुग भोथा लप्स्यथ लक्षण त्रिंश दुवे च // srs_37.92 //
संगणिकां विजहित्व अशेषां नित्यु विवेकरतापि च भोथ / सूरत नित्युपशोभन शान्ता आत्महिताः परसत्त्वहिताश्च // srs_37.93 //
मैत्रि निषेवि तथा करुणां चो मुदितपेक्षरताः सद भोथ / शास्तुः प्रशासनु पश्यथ नित्यं भेष्यथ क्षिप्र हितंकरु लोके // srs_37.94 //
पापक मित्र म जातु भजेथ सेवथ मित्र ये भोन्ति उदाराः / येषिह रोचति शून्यत शान्ता ये अभिप्रस्थिता उत्तमबोधिम् // srs_37.95 //
श्रावकभूमि म शिक्षथ जातु मा च स्पृहेष्यथ तत्र चरीये / (वैद्य 277) चित्तु म रिञ्चथ बुद्धगुणेषु क्षिप्र भविष्यथ बुद्ध जिनेन्द्राः // srs_37.96 //
सत्य गिरं सद भाषथ शुद्धां मा मृष भाषथ मा परुषां च / नित्य प्रियं मधुरं च भणेथा लप्स्यथ वाच लोकाचरियाणाम् // srs_37.97 //
कायि अनर्थिक जीवित भोथा मात्म उत्कर्षक मा परपंसी / आत्मगुणान् समुदानयमानाः परचरियासु उपेक्षक भोथ // srs_37.98 //
शून्यविमोक्षरताः सद भोथा मा प्रणिधान करोथ गतीषु / सर्वनिमित्त विवर्ज्य अशेषां भोथ सदा अनिमित्तविहारी // srs_37.99 //
अन्त विवर्जयथा सदकालं शाश्वतुच्छेदस्थिता म भवाथ / प्रत्ययता सद बुध्यत सर्वं एव भविष्यथ यादृश शास्ता // srs_37.100 //
कामरतीषु रतिं विजहित्वा दोषखिलांश्च मलान् विजहित्वा / मोहतमो विजहित्वसे सर्वं शान्तरता नरसिंह भवाथ // srs_37.101 //
नित्यमनित्य च पश्यथ नित्यं सर्वभवा सुखदुःख विमुच्य / अशुभमनात्मत आत्मशुभेषु भावयमानु भवेय नरेद्रः // srs_37.102 //
लोकप्रदीपकरेभि जिनेभिर्येषिह योनिशो धर्म सुनीत / तैरिह मारबलानि हनित्वा प्राप्तमनुत्तरबोधिरुदारा // srs_37.103 //
(वैद्य 278) यात्तक भाषित एति गुणा मे ये च प्रकाशित दोषशता मे / दोष विवर्जिय शिक्ष गुणेषु भेष्यसि बुद्धु तदेह कुमार // srs_37.104 // इति श्रीसमाधिराजे यशःप्रभपरिवर्तः सप्तत्रिंशतितमः ॥ 37 ॥ (वैद्य 279) 38 कायवाङ्मनःसंवरपरिवर्तः ।
तस्मात्तर्हि कुमार कायसंवरसंवृतो भविष्यामीत्येवं त्वया कुमार शिक्षितव्यम् । तत्र कुमार कतमः कायसंवरः? येन कायसंवरेण समन्वागतो बोधिसत्त्वो महासत्त्वः सर्वधर्मेष्वसङ्गज्ञानं प्रतिलभते, अयमुच्यते कुमार कायसंवर इति । येन कायसंवरेण समन्वागतो बोधिसत्त्वो महासत्त्वो द्वात्रिंशन्महापुरुषलक्षणानि प्रतिलभते, अयमुच्यते - - - - - - इति । येन - - - - - - महासत्त्वो दश तथागतबलानि चत्वारि वैशारद्यानि अष्टादशावेणिकान् बुद्धधर्मान् प्रतिलभते, अयमुच्यते - - - - इति । येन - - - - महासत्त्वस्त्रीणि विमोक्षमुखानि प्रतिलभते । कतमानि त्रीणि? यदुत शून्यतामनिमित्तमप्रणिहितम् । इमानि त्रीणि विमोक्षमुखानि, अयमुच्यते - - - - इति । येन - - - - महासत्त्वश्चतुरो ब्राह्मान् विहारान् प्रतिलभते । कतमांश्चतुरः ?यदुत मैत्रीं करुणां मुदितामुपेक्षां इमांश्चतुरो ब्राह्मान् विहारान्, अयमुच्यते - - - - इति । येन - - - - महासत्त्वश्चतस्रः प्रतिसंविदः प्रतिलभते । कतमाश्चतस्रः? यदुत अर्थप्रतिसंवित् धर्मप्रतिसंवित् निरुक्तिप्रतिसंवित् प्रतिभानप्रतिसंवित् । इमाश्चतस्रः प्रतिसंविदः, अयमुच्यते - - - - इति । येन महासत्त्वः सप्तत्रिंशद्बोधिपक्षान् धर्मान् प्रतिलभते । कतमान् सप्तत्रिंशत्?यदुत चत्वारि स्मृत्युपस्थानानि । चत्वारि सम्यक्प्रहाणानि । चतुर ऋद्धिपादान् । पञ्चेन्द्रियाणि । पञ्च बलानि । सप्त बोध्यङ्गानि । आर्याष्टाङ्गकं मार्गम् । इमान् सप्तत्रिंशद्बोधिपक्षान् धर्मान् प्रतिलभते । अयमुच्यते - - - - इति । येन - - - - महासत्त्वो महाकरुणाविहारं प्रतिलभते । महोपेक्षाविहारं प्रतिलभते, क्षेमांश्च वितर्कान् प्रतिलभते । प्रविवेकांश्च धर्मान् प्रतिलभते । अयमुच्यते कायसंवर इति ॥
पुनरपरं कुमार येन कायसंवरेण समन्वागतो बोधिसत्त्वो महासत्त्वः प्राणातिपातात् प्रतिविरतो भवति । अदत्तादानात् अब्रह्मचर्यान्मृषावादात् पिशुनवचनात् परुषवचनात् संभिन्नप्रलापात् अभिध्यायादू व्यापादन्मिथ्यादृष्टेः प्रतिविरतो भवति । तुलाकूटान्मानकूटात्कांस्यकूटात् कर्षणबन्धनरोधनताडनच्छेदनभेदनविपरामोषालोकसाहसेभ्यः प्रतिवरतो भवति । न हस्तलोलः न पादलोलो हस्तपादसंयतः। तस्य सर्वं कायवाङ्भनोदौष्ठुल्यं प्रहीणं भवत्युच्छिन्नमूलं तालामस्तकवदायत्यामनुत्पादधर्मि । अयमुच्यते कुमार कायसंवर इति । तदनेनापि ते कुमार पर्यायेणैवं वेदितव्यम् ॥
भूतपूर्वं कुमार अतीते ऽध्वन्यसंख्येये कल्पे असंख्येयतरे विपुले अप्रमाणे अचिन्त्ये अपरिमाणे यदासीत् । तेन कालेन तेन समयेन ज्ञानप्रभासो नाम तथागतो ऽर्हन् सम्यक्संबुद्धो लोक (वैद्य 280) उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान् । तेन खलु पुनः कुमार कालेन तेन समयेन तस्य भगवतो ज्ञानप्रभासस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य षष्टिवर्षकोट्यः आयुष्प्रमाणमभूत् । षष्टिरर्हत्कोट्यः श्रावकसंघो ऽभूत् । अप्रमेयाश्च बोधिसत्त्वा महासत्त्वाः सद्धर्मपरिग्राहका अभूवन् ॥
तेन च कुमार कालेन तेन समयेन राजाभूद्विशेषचिन्ती नाम । अथ खलु राजा विशेषचिन्ती अशीत्या प्राणिकोटिभिः सार्धं तथागतमुपसंक्रान्तः। उप्संक्रम्य तस्य तथागतस्य पादौ शिरसाभिवन्द्य भगवन्तं त्रिः प्रदक्षिणीकृत्यैकान्ते न्यषीदत् । एकान्तनिषण्णश्च राजा विशेषचिन्ती तं तथागतं पर्युपास्ते । अथ खलु कुमार ज्ञानप्रभासस्तथागतो ऽर्हन् सम्यक्संबुद्धो राज्ञो विशेषचिन्तिनः सपरिवारस्याध्याशयं विदित्वा इतो धर्मपर्यायादिमं कायसंवरसमाधिमुखप्रवेशं गाथाभिगीतेन देशयति -
यथान्तरीक्षं गगनं विशुद्धमत्यन्तशुद्धं प्रकृतिप्रभास्वरम् / एमेव शुद्धो अयु कायसंवरो न शक्यु घोषेण कदाचि देशितुम् // srs_38.1 //
विविक्तु शून्यो अयु कायसंवरो एतादृशे ते उभि कायलक्षणे / अलक्षणास्ते यथ अन्तरीक्षं तल्लक्षणो देशितु कायसंवरः // srs_38.2 //
यो जानती संवरमेवलक्षणं न तस्य जातु भवती नसंवरः / ये चाप्रवृत्ताः कृतु तेष गोचरो अनास्रवस्यो उपपत्ति नास्ति // srs_38.3 //
न शक्यु कामान् प्रतिसेवमानै रूपेषु भोगेषु जहित्व तृष्णाम् / भवेषु दोषानविजानमानैर्न शक्यु ज्ञातुमयु कायसंवरः // srs_38.4 //
अनास्रवं संवरु यः प्रजानते न तस्य भोती उपपत्ति जातु / अर्हन्तधर्मा इम एवरूपाः न सुकरं जानितु तीर्थिकेभिः // srs_38.5 //
(वैद्य 281) ये सर्वत्रैधातुकि त्रस्तमानसा न कामभोगेषु स्पृहां जनेन्ति / राज्येन भोगैश्च न जातु अर्थिका ज्ञास्यन्ति ते ईदृश कायसंवरः // srs_38.6 //
अर्थो अयं वुच्चति कायसंवरो अर्थश्च शब्देन न शक्यु देशितुम् / यो जानती ईदृशु धर्मनेत्रीं स संवरे ऽस्मिन् भवति प्रतिष्ठितः // srs_38.7 //
अर्थे प्रयुक्तान मयार्थु देशितो ये अर्थनेत्रीपरता विचक्षणाः / अनर्थु वर्जेन्ति य अर्थयुक्ता ते संवरे ऽस्मिन् सततं प्रतिष्ठिताः // srs_38.8 //
अर्थो य उक्तो हि जिनान शासने कथं स अर्थो भवती विजानतो / यो अर्थनेत्रीय स्वभावु जानति प्रतिष्ठितः सोच्यति कायसंवरे // srs_38.9 //
येनानिमित्तं भवती विजानितं नैरात्म्यतः शून्यतु तुच्छतो वा / न तस्य जातू भवति नसंवरस्तथाहि सो शिक्षितु भूतनिश्चये // srs_38.10 //
भावानभावानिति यः प्रजानति स सर्वभावेषु न जातु सज्जते / यः सर्वभावेषु न जातु सज्जते । स आनिमित्तं स्पृशती समाधिम् // srs_38.11 //
विज्ञात येनेह निरात्मधर्माः स्वभावशून्याः प्रकृतिप्रभास्वराः / न तस्य जातु भवती असंवरस्तथाहि सो शिक्षितु भूतनिश्चये // srs_38.12 //
यो जानती शून्यत पञ्चस्कन्धान् विदित्व नैरात्मस्वभावशून्यान् / (वैद्य 282) न तस्य जातु भवती असंवरो यत् कर्म कायेन समाचरेत // srs_38.13 //
निमित्तग्राहिस्य असंवृतस्य य आत्मसंज्ञाय सदा प्रतिष्ठितः / रूपेषु आस्वादगतस्य जन्तुनः प्रकुप्यते राग असंवृतस्य // srs_38.14 //
ये भूतकोटीय भवन्ति शिक्षिता गतिंगताः सूरत शून्यतायाम् / न तेष रागः पुन जातु कुप्यते असंवरो येन व्रजेत दुर्गतिम् // srs_38.15 //
न शक्यु कम्पेतु यथा सुमेरु अचालियः सर्वपिपीलिकैर्महान् / तथा विदू भूतनयेषु शिक्षितो रूपेहि दिव्यैरपि सो न कम्पते // srs_38.16 //
शक्येत रङ्गैर्गगनं विचित्रितुं शक्येत चाकाश गृहीतु पाणिना / न त्वेव शक्यं स विचालनाय रागेण दोषेण न च मारकोटिभिः // srs_38.17 //
प्रतिश्रुका शक्यु गृहीतु केनचिच्छिला प्लवेदप्युदकस्य मध्ये / द्रष्टुं न शक्यं त्विह तस्य आशया यः शिक्षितो ईदृशि कायसंवरे // srs_38.18 //
यावन्त शब्दाः पृथु सर्वलोके गृह्णित्व पेडागत शक्य कर्तुम् / न तस्य शक्यं स्थितिरस्थितिर्वा विजानितुं यः स्थितु कायसंवरे // srs_38.19 //
शक्यं प्रभा गृह्णितु सूर्यमण्डलात् प्रगर्जतो मेघतु विद्युतो वा / न तस्य कायस्य स्वभाव ज्ञातुं यः शिक्षितः स्यादिह कायसंवरे // srs_38.20 //
जालेन पाशेन च शक्यु बन्धितुं चतुर्दिशं वायति वातमण्डली / (वैद्य 283) न शक्यमाजानितु तस्य कायः प्रतिष्ठितो यो इह कायसंवरे // srs_38.21 //
अगोचरो ऽसाविह सर्वप्राणिनां यत्र स्थितो यो विदु चित्तसंयमे / यत्र स्थितो गोचरि कायसंवरे न लिप्यते खमिव स लोकधर्मैः // srs_38.22 //
शक्यं पदं पश्यितु सर्वप्राणिनां नमे चरन्तान पृथक् चतुर्दिशम् / न तस्य कायस्य न चित्तगोचरो प्रमाणु ज्ञातुमिह शक्य केनचित् // srs_38.23 //
एवं स्थितस्यो इह कायसंवरे सर्वे न भोन्ति विविधाः किलेशाः / प्रहीण तस्येह उपकिलेशास्तथा ह्यसौ शिक्षितु कायसंवरे // srs_38.24 //
न तस्य अग्निः क्रमते न शस्त्रं तथापि अग्राह्यु स तस्य कायः / शन्तप्रशान्ते स्थितु सो समाधौ तथा ह्यसौ शिक्षितु कायसंवरे // srs_38.25 //
एवं स्थितस्यो न भयं न त्रासो न क्षोभु चित्तस्यु न चेर्ष्यु जायते / मुक्तः स सर्वेभिरुपद्रवेभिर्यः शिक्षितो तादृश कायसंवरे // srs_38.26 //
विषस्य शस्त्रस्य न जातु भायति न चाग्निमध्ये न जलस्य मध्ये / सर्वेहि मुक्तः स उपद्रवेहि य शिक्षितो ईदृश कायसंवरे // srs_38.27 //
चौराण धूर्तान च पापकारिणामाशीविषामध्यगतो न भायते / तथा हि तस्यो विगतात्मसंज्ञा संज्ञाविमुक्तस्य भयं न भोति // srs_38.28 //
भयैर्विमुक्तस्य न त्रासु जायते असंत्रसन्तस्य न भोति इञ्जना / (वैद्य 284) अनिञ्जमानस्य कुतो ऽस्ति त्रासो न मारकोटीभि स शक्यु कम्पितुम् // srs_38.29 //
आचक्षितो देशितु संप्रकाशितो यो बोधिसत्त्वस्य हिताय संवरः / यः शिक्षते ईदृश कायसंवरे सो भोति नो कम्पियु मारकोटिभिः // srs_38.30 //
सर्वेषु धर्मेषु असंज्ञज्ञानं पूर्णा अशीतिरनुव्यञ्जनानि / द्वात्रिंश चो लक्षण चित्तशुद्धा न दुर्लभा भोन्ति स्थितस्य संवरे // srs_38.31 //
य इच्छते बुध्यितु बुद्धधर्मान् अचिन्तियान् येष प्रमाणु नास्ति / स शिक्षितु ईदृशुः कायसंवरे भविष्यते चेतियु सर्वलोके // srs_38.32 //
य इच्छते धर्ममिमं महर्षिणां दशो बलान् बुद्धबलानचिन्तियान् / स शिक्षितु ईदृश कायसंवरे यः शिक्षितस्तस्य बला न दुर्लभाः // srs_38.33 //
ये चापि अष्टादश बुद्धधर्मा आवेणिका येषु जिना प्रतिष्ठिताः / ते चापि तस्यो न भवन्ति दुर्लभा यः शिक्षते ईदृश कायसंवरे // srs_38.34 //
ये सप्त बोध्यङ्ग महामहर्षिणां प्रतिसंविदश्चो तथ ऋद्धिपादाः / ते चापि तस्यो न भवन्ति दुर्लभा यः शिक्षते ईदृश कायसंवरे // srs_38.35 //
ब्रह्माविहाराश्चतुरश्च ध्याना विमोक्षद्वारास्त्रय संप्रकाशिताः / क्षेमा वितर्का अथ प्राविवेक्या न दुर्लभा भोन्ति स्थितस्य संवरे // srs_38.36 //
करुणाविहारी तथुपेक्षलाभी तथ ईर्यचर्यामिह मैत्रिवराम् / (वैद्य 285) हितचित्तु भोति च स सर्वजगे यः कायसंवरि स्थितो भवति // srs_38.37 //
स्मृती उपस्थान प्रहाण सम्यक् पञ्चेन्द्रियाः पञ्च बला महर्षिणाम् / आश्चर्य अष्टाङ्गिकु मार्गश्रेष्ठो न दुर्लभो शिक्षितु कायसंवरे // srs_38.38 //
ये चापि अन्ये वर बुद्धधर्मा अचिन्तिया येष प्रमाणु नास्ति / ते तस्य सर्वे न भवन्ति दुर्लभा यः शिक्षते ईदृश कायसंवरे // srs_38.39 //
श्रुत्वा इहो ईदृश कायसंवरे विशेषप्राप्तो अभु राजपुत्रः / तुष्टो उदग्रो अतुलाय प्रीतिया स प्रव्रजी तस्य जिनस्य शासने // srs_38.40 //
स प्रव्रजित्वा दश वर्षकोटीरचार्षि शुद्धं वर ब्रह्मचर्यम् / भावेत्व ब्राह्मान् चतुरो विहारानर्थाय लोकस्य सदेवकस्य // srs_38.41 //
सुभाविता ब्रह्मविहार कृत्वा अद्राक्षि बुद्धान अशीतिकोटियः / ततोत्तरे यात्तिक गङ्गवालिका इदं चरं सो वर ब्रह्मचर्यम् // srs_38.42 //
सर्वेष चो शासनि प्रव्रजित्वा अचार्षि शुद्धं वर ब्रह्मचर्यम् / भिक्षु अभूषी वर धर्मभाणको बहुश्रुतश्चो प्रतिभानवांश्च // srs_38.43 //
अखण्डशीलश्च अच्छिद्रशीलो विशुद्धशीलो अकल्माषशीलः / आर्ये च शीले स अनास्रवे स्थितः । प्रजानमानो इमु कायसंवरम् // srs_38.44 //
(वैद्य 286) सिया कुमारा तव अन्य सासीद् विशेषचिन्ती तद राजकुञ्जरः / न एव द्रष्टव्यमिहान्यु सो ऽभूत्तदाहमासं चरमाणु चारिकाम् // srs_38.45 //
तस्मात् कुमारा मम शिक्षमाणा प्रतिष्ठिहेसी इह कायसंवरे / अन्येष चो देशय प्राणकोटिनां नचिरेण त्वं भेष्यसि यादृशो ऽहम् // srs_38.46 //
तस्मात्तर्हि कुमार परिशुद्धकायसमाचारो भविष्यामीत्येवं त्वया कुमार शिक्षितव्यम् । तत् कस्य हेतोः? परिशुद्धकायसमाचारो हि कुमार बोधिसत्त्वो महासत्त्वो न निरयेभ्यो बिभेति । न तिर्यग्योनेर्न यमलोकान्न सर्वदुर्गतिभ्यो बिभेति । नोदकाद् बिभेति । न शस्त्रतो न सिंहेभ्यो न व्याघ्रेभ्यो न ऋक्षेभ्यो न हस्तिभ्यो नर्षभेभ्यो न मनुष्येभ्यो बिभेति । परिशुद्धकायसमाचारः कुमार बोधिसत्त्वो महासत्त्वः इममपि त्रिसाहस्रं महासाहस्रं लोकधातुं करतले कृत्वा तालमात्रं द्वितालमात्रं त्रितालमात्रं चतुस्तालमात्रं पञ्चतालमात्रं षट्तालमात्रं सप्ततालमात्रमुत्क्षिपेत् । यावन्तं वा पुनराकाङ्क्षेत्तावन्तमेवोत्क्षिपेत् ॥
पुनरपरं परिशुद्धकायसमाचारः कुमार बोधिसत्त्वो महासत्त्व ऋद्धिप्रातिहार्ये परमपारमिप्राप्तो भवति । स ऋद्धिपादविपाकविशुद्धः पुण्यपरिगृहीतो विवेकविविक्तः सर्वत्रानुगत एतत्समाधिप्रतिलब्धः अनास्रवपुण्यपरिनिष्पन्नः सर्वलोकधातावप्रतिहतचक्षुः एवंरूपैः ऋद्धिप्रतिहार्यैः समन्वागतो भवति । तत्र कतमा ऋद्धिः? यया ऋद्धया प्रार्थनासमृद्धिपरिनिष्पत्तिः । इयमुच्यते ऋद्धिरिति । तत्र कतमद् ऋद्धिप्रातिहार्यम्? यया ऋद्धया समन्वागतो बोधिसत्त्वो महासत्त्व अनेकविधानृद्धिविषयान् प्रत्युनुभवति । एको ऽपि भूत्वा बहुधा भवति, बहुधापि भूत्वैको भवति । अविर्भावं तिरोभावमपि प्रत्यनुभवति । तिरःकुड्यं तिरःप्राकारः तिरःपर्वतमप्यसज्जमानो गच्छति । आकाशे ऽपि क्रमते तद्यथापि नाम पक्षी शकुनिः । पृथिव्यामप्युन्मज्जननिमज्जनं करोति तद्यथापि नामोदके । उदके ऽप्यभिद्यमानो गच्छति तद्यथापि नाम पृथिव्याम् । धूमायत्यपि प्रज्वलत्यपि तद्यथापि नाम महानग्निस्कन्धः । इमावपि चन्द्रसूर्यावेवंमहर्द्धिकावेवंमहानुभावौ एवंमहौजस्कौ पाणिना परामृशति परिमार्जति । आकाङ्क्षमाणो यावद् ब्रह्मलोकादपि सत्त्वान् कायेन वशे वर्तयति ॥
(वैद्य 287) अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत -
पृथिवीय उन्मज्ज निमज्ज गच्छती अभिद्यमानो उदके ऽपि गच्छति / पक्षी यथा गगनतलेन गच्छती धूमायते प्रज्वलते च ऋद्धिया // srs_38.47 //
यथान्तरीक्षस्मि न वायु सज्जते गच्छन्ति चास्मिं बहवो ऽभ्रकूटाः / तथैव योगी गगनेन गच्छती असज्जमानो यथ वातमेघः // srs_38.48 //
यथा निषण्णो विदु योगि भोती परिमार्जते पाणिन चन्द्रसूर्यौ / आसन्न सो जानति ब्रह्मलोकं ब्रह्माण कोटीन स धर्म देशयी // srs_38.49 //
यदा च आकाङ्क्षति धर्म भाषितुं महात्रिसाहस्र स विज्ञपेति / आकाङ्क्षमाणो बहुक्षेत्रकोटिषु देशेति धर्म बहुसत्त्वकोटिनाम् // srs_38.50 //
तस्मात्तर्हि कुमार परिशुद्धकायसमुदाचारो भविष्यामीत्येवं त्वया कुमार शिक्षितव्यम् । तत् कस्य हेतोः? परिशुद्धकायसमुदाचारो हि कुमार बोधिसत्त्वो महासत्त्वो दिव्येन श्रोत्रधातुना अतिक्रान्तमानुषकेण शब्दान् शृणोति दिव्यान् मानुष्यकांश्च । नैरयिकानामपि तिर्यग्योनिगतानामपि यामलौकिकानामपि । ये दूरे अन्तिके वा देवानां मनुष्याणां वा दूरावचराणां वा अन्तिकावचराणां वा ॥
तस्मात्तर्हि कुमार परिशुद्धकायसमुदाचारो भविष्यामीत्येवं त्वया कुमार शिक्षितव्यम् । तत् कस्य हेतोः? परिशुद्धकायसमुदाचारो हि कुमार बोधिसत्त्वो महासत्त्वः परसत्त्वानां परपुद्गलानां चेतसैव चेतःपरिवितर्कचरितानि यथाभूतं प्रजानाति । सरागं चित्तं सरागं चित्तमिति यथाभूतं प्रजानाति । वीतरागं चित्तं वीतरागं चित्तमिति यथाभूतं प्रजानाति । पेयालं । सदोषं (वैद्य 288) वीतदोषं समोहं वीतमोहं सोपादानमनुपादानं संक्षिप्तं विक्षिप्तं विपरीतमविपरीतं सक्लेशं निष्क्लेशं महद्गतममहद्गतं प्रभास्वरमप्रभास्वरं सप्रमाणमप्रमाणं सोत्तरमनुत्तरं समाहितमसमाहितं विमुक्तमविमुक्तं - - - - साङ्गणं चित्तं साङ्गणं चित्तमिति यथाभूतं प्रजानाति । अनङ्गणं चित्तमनङ्गणं चित्तमिति यथाभूतं प्रजानाति । इति हि सर्वसत्त्वानां परपुद्गलानां चेतसैव चेतःपरिवितर्कं यथाभूतं प्रजानाति ॥
परिशुद्धकायसमुदाचारः कुमार बोधिसत्त्वो महासत्त्वः साकारं सोद्देशमनेकविधं पूर्वेनिवासमनुस्मरति । एकामपि जातिमनुस्मरति । द्वे तिस्रः पञ्च दश विंशतिः त्रिंशत् चत्वारिंशत् पञ्चाशत् जातिअशतमप्यनुस्मरति । जातिसहस्रप्यनुस्मरति । जातिशतसहस्रमपि यावदनेकान्यपि कल्पकोटिनयुतशतसहस्राण्यनुस्मरति । संवर्तकल्पमप्यनुस्मरति विवर्तकल्पमपि । यावदनेकानपि संवर्तविवर्तकल्पाननुस्मरति । कल्पमप्यनुस्मरति कल्पशतमपि कल्पसहस्रमपि कल्पशतसहस्रमपि, यावदनेकान्यपि कल्पकोटीनयुतशतसहस्राण्यनुस्मरति । यावत् पूर्वान्तकोटीमप्यनुस्मरति । अमुत्राहमासमेवंनामा एवंगोत्र एवंजात्य एवंवर्ण एवमाहार एवमाजीव एवमायुष्प्रमाण एवंचिरस्थितिक एवंसुखदुःखप्रतिसंवेदी । ततश्च्युतः अमुत्रोपपन्नः । सो ऽहं ततश्च्युत इहास्म्युपपन्न इति । साकारं सनिमित्तं सोद्देशमनेकविधं पूर्वेनिवासमनुस्मरति ॥
परिशुद्धकायसमुदाचारः कुमार बोधिसत्त्वो महासत्त्वो दिव्येन चक्षुषा विशुद्धेनातिक्रान्तमानुषकेण सर्वान् पश्यति च्यवमानानुपपद्यमानान् सुवर्णान् दुर्वर्णान् सुगतान् दुर्गतान् हीनान् प्रणीतान् सुगतिमपि गच्छतो दुर्गतिमपि गच्छतो यथाकर्मोपगान् सत्त्वान् यथाभूतं प्रजानाति इमे बत सत्त्वाः कायदुश्चरितेन समन्वागता वागदुश्चरितेन समन्वागता मनोदुश्चरितेन समन्वागता आर्याणामपवादका मिथ्यादृष्टिका मिथ्यादृष्टिकर्मसमादानहेतोः कायस्य भेदात् परं मरणादपायं दुर्गतिं विनिपातं निरयेषु उपपन्नाः । इमे पुनर्बत सत्त्वाः कायसुचरितेन समन्वागता वाकसुचरितेन समन्वागता मनःसुचरितेन समन्वागता आर्याणामनपवादकाः सम्यग्दृष्टिर्मसमादानहेतोः कायस्य भेदात् परं मरणात् सुगतौ स्वर्गलोके देवेषूपपन्नाः । इति हि देव्येन चक्षुषा विशुद्धेनातिक्रान्तमानुषकेण सत्त्वान् पश्यति च्यवमानानुपपद्यमानान् सुवर्णान् दुर्वर्णान् हीनान् प्रणीतान् सुगतिमपि गच्छतो दुर्गतिमपि गच्छतो यथाकर्मोपगान् सत्त्वान् यथाभूतं प्रजानाति ॥
परिशुद्धकायसमुदाचारः कुमार बोधिसत्त्वो महासत्त्वः एकक्षणसमायुक्तया प्रज्ञया यत् किंचिज्ज्ञातव्यमधिमोक्तव्यं विकुर्वितव्यं तत्सर्वं यथाभूतं प्रजानाति शृणोति पश्यते बुध्यते ॥
अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत -
अभिज्ञाक्रमनिर्दिष्टो बोधिसत्त्वान तायिनाम् / समाधीय स्थिहित्वान बोधिसत्त्वो ऽधिगच्छति // srs_38.51 //
(वैद्य 289) श्रोत्रं च ते विशोधेन्ति दिव्यं श्रोत्रमचिन्तियम् / येन शृण्वन्ति ते धर्मान् सर्वबुद्धेहि भाषितान् // srs_38.52 //
सरागमसरागं वा सदोषं वीतदोषकम् / समोहं वीतमोहं वा चित्तं जानन्ति प्राणिनाम् // srs_38.53 //
पूर्वेनिवासं जानन्ति यत्र ते उषिताः पुरा / कल्पकोटीसहस्राणि सङ्गस्तेषां न विद्यते // srs_38.54 //
चक्षुश्च ते विशोधेन्ति दिव्यं चक्षुरनुत्तरम् / अनुपश्यन्ति ते सत्त्वांश्च्यवतो ऽप्युपपद्यतः // srs_38.55 //
एकक्षणसमायुक्तप्रज्ञया सर्वजातिषु / यत् किंचिदिह ज्ञातव्यं धर्माणां भूतलक्षणम् // srs_38.56 //
तत्र भगवान् पुनरपि चन्द्रप्रभं कुमारभूतमामन्त्रयते स्म - तस्मात्तर्हि कुमार वाक्संवरसंवृतो भविष्यामीत्येवं बोधिसत्त्वेन महासत्त्वेन शिक्षितव्यम् । तत्र कुमार कतमो वाक्संवरः? येन वाक्संवरेण समन्वागतो बोधिसत्त्वो महासत्त्वः षष्ट्याकारसमन्वागतमसङ्गबुद्धस्वरघोषमचित्यं प्रतिलभते । अयमुच्यते कुमार वाक्संवरः । येन वाक्संवरेण समन्वागतो बोधिसत्त्वो महासत्त्वः आदेयवाक्यतां प्रतिलभते । अयमुच्यते कुमार वाक्संवरः । येन वाक्संवरेण समन्वागतो बोधिसत्त्वो महासत्त्वः द्वात्रिंशन्महापुरुषलक्षणानि प्रतिलभते । दश तथागतबलानि, चत्वारि तथागतवैशारध्यानि, अष्टादशावेणिकान् बुद्धधर्मान् प्रतिलभते । अयमुच्यते कुमार वाक्संवरः । येन वाक्संवरेण समन्वागतो बोधिसत्त्वो महासत्त्वस्त्रीणि विमोक्षमुखानि प्रतिलभते, चतुरो ब्रह्मविहारान् प्रतिलभते । अयमुच्यते कुमार वाक्संवरः । येन वाक्संवरेण समन्वागतो बोधिसत्त्वो महासत्त्वश्चत्वारि स्मृत्युपस्थानानि प्रतिलभते । चत्वारि सम्यक्प्रहाणानि, चतुर ऋद्धिपादान्, पञ्चेन्द्रियाणि,पञ्च बलानि,सप्त बोध्यङ्गानि, आर्याष्टाङ्गं मार्गं प्रतिलभते । अयमुच्यते कुमार वाक्संवरः । येन वाक्संवरेण समन्वागतो बोधिसत्त्वो महासत्त्वो महाकरुणाविहारं प्रतिलभते, महोपेक्षाविहारं प्रतिलभते, क्षेमांश्च वितर्कान् प्रतिलभते, प्रविवेकांश्च वितर्कान् प्रतिलभते । अयमुच्यते कुमार वाक्संवर इति ॥
पुनरपरं कुमार वाक्संवर उच्यते - येन वाक्संवरेण समन्वागतो बोधिसत्त्वो महासत्त्वो मृषावादात् प्रतिविरतो भवति । पैशुन्यात् पारुष्यात् संभिन्नप्रलापात् प्रतिविरतो भवति । मातापितृणामाचार्याणां चान्तिके असभ्यां वाचं न निश्चारयति । या अपि तदन्या दोषोपसंहिता वाचस्ताभ्यो बोधिसत्त्वः प्रतिविरतो भवति । ताश्च वाचः प्रतिश्रुत्कोपमा अवतरति । स्वप्नोपमा निर्मितोपमा मरीच्युपमाः प्रतिश्रुत्कोपमाः प्रतिभासोपमा मायोपमा अवतरति । स तामेवंभूतां वाचं नोपलभते, न कल्पयति,न मन्यते,नावलम्बते, नाभिनिविशते । अयमुच्यते कुमार (वैद्य 290) वाक्संवरः । परिशुद्धवाक्संवरो हि कुमार बोधिसत्त्वो महासत्त्वः सर्वापायेभ्यो न बिभेति । सर्वबुद्धधर्मान् प्रतिलभते । सर्वबुद्धर्द्धि सर्वाभिज्ञां प्रतिलभते ॥
अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत -
येनेह वाक्संवरणेनुपेतो लभत्यवशं स हि बोधिसत्त्वः / सर्वेषु धर्मेषु असङ्गज्ञानमयं हि सो उच्यति वाचसंवरः // srs_38.57 //
येनेह वाक्संवरणेन धीरा लभन्ति द्वात्रिंशति लक्षणानि / दशो बलावेणिकबुद्धधर्मानयं हि सो उच्यति वाचसंवरः // srs_38.58 //
येनह वाक्संवरणेन धीमान् प्राप्नोति सर्वानिम बुद्धधर्मान् / ये पूर्वमस्मिन् परिकीर्तिता मे अयं हि सो उच्यति वाचसंवरः // srs_38.59 //
येनेह वाचावरणेन धीमान् लभेद्विहारान् प्रतिसंविदश्च / अत्यद्भुतान् धर्म अचिन्तियांश्च अयं हि सो उच्यति वाचसंवरः // srs_38.60 //
येनेह वाचावरणेन धीमान् स्मृत्युपस्थानानि सम्यक्प्रहाणा / तथर्द्धिपादान् बल इन्द्रियाणि लभत्ययं सोच्यति वाचसंवरः // srs_38.61 //
येनेह वाक्संवरणेन धीमान् महा उपेक्षां लभते विशारदः / महाकृपां शुद्धविहारतां च अयं हि सो उच्यति वाचसंवरः // srs_38.62 //
येनेह वाक्संवरणेन धीमान् क्षेमान् वितर्कांल्लभते विशुद्धान् / (वैद्य 291) तथा वितर्कान् प्रविवेकशान्तानयं हि सो उच्यति वाचसंवरः // srs_38.63 //
येनेह वाक्संवरणेन धीमान् मृषा न भाषी पिशुनाश्च वाचः / संभिन्नप्रलापं परुषां च वाचं अयं खु सो उच्यति वाचसंवरः // srs_38.64 //
येनेह वाक्संवरणेन धीमान् सद्धर्मक्षेपं न करोति जातु / न बुद्धसंघं च अभ्याचक्षेत अयं खो सो उच्यति वाचसंवरः // srs_38.65 //
येनेह वाक्संवरणेन धीमान् मातापितृष्वाचरियानमन्तिके / असत्यवाचं पुरतो न भाषी अयं खु सो उच्यति वाचसंवरः // srs_38.66 //
येनेह वाक्संवरणेन धीमान् या अन्यवाचो इह दोषसंहिताः / ताभ्यो ऽप्यशेषं विरतः स भोति अयं खु सो उच्यति वाचसंवरः // srs_38.67 //
येनेह वाक्संवरणेन धीमान् प्रतिश्रुत्कसंनिभतां पि वाचम् / सुपिनोपमामो तरते विशारदो अयं खु सो उच्यति वाचसंवरः // srs_38.68 //
निरात्मनिर्जीवनिरीहतां चा प्रतीत्युत्पन्नां सुपिनोपमां मृषा / यदेव वाचोत्तरि बोधिसत्त्वो अयं खु सो उच्यति वाचसंवरः // srs_38.69 //
निरोधसत्यं सुपिनं यथैव स्वप्नस्वभावा अथ निर्वृतिं च / यदेव वाचोत्तरि बोधिसत्त्वो अयं खु सो उच्यति वाचसंवरः // srs_38.70 //
(वैद्य 292) नो चापि वाचं लभते स कांचिन्न कल्पयी नापि च मन्यते सः / नालम्बते नाभिनिवेश जातू अयं खु सो उच्यति वाचसंवरः // srs_38.71 //
तत्र भगवान् पुनरपि चन्द्रप्रभं कुमारभूतमामन्त्रयते स्म - तस्मात्तर्हि कुमार मनःसंवरसंवृतो भविष्यामीत्येवं बोधिसत्त्वेन महासत्त्वेन शिक्षितव्यम् । तत्र कुमार कतमो मनःसंवरः? येन मनःसंवरेण समन्वागतो बोधिसत्त्वो महासत्त्वो वज्रोपमं समाधिं प्रतिलभते । अयमुच्यते कुमार मनःसंवरः । येन मनःसंवरेण समन्वागतो बोधिसत्वो महासत्त्वो ज्वलनान्तराभां नाम रश्मिं प्रतिलभते । अयमुच्यते मनःसंवरः । येन मनःसंवरेण समन्वागतो बोधिसत्त्वो महासत्त्वो ऽष्टाङ्गोपेतस्वरघोषसंपदं प्रतिलभते । अयमुच्यते मनःसंवरः । येन मनःसंवरेण समन्वागतो बोधिसत्त्वो महासत्त्वो द्वात्रिंशन्महापुरुषलक्षणानि प्रतिलभते । दश तथागतबलानि, चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदः, अष्टादशावेणिकांश्च बुद्धधर्मान् प्रतिलभते । अयमुच्यते मनःसंवरः । येन मनःसंवरेण समन्वागतो बोधिसत्त्वो महासत्त्वः त्रीणि विमोक्षमुखानि प्रतिलभते । शून्यतामनिमित्तमप्रणिहितं विमोक्षमुखं प्रतिलभते । अयमुच्यते मनःसंवरः । येन मनःसंवरेणः समन्वागतो बोधिसत्त्वो महासत्त्वश्चतुरो ब्रह्मविहारान् प्रतिलभते । महामैत्रीं महाकरुणां महामुदितां महोपेक्षां प्रतिलभते । अयमुच्यते मनःसंवरः । येन मनःसंवरेण समन्वागतो बोधिसत्त्वो महासत्त्वश्चत्वारि स्मृत्युपस्थानानि प्रतिलभते । चत्वारि सम्यक्प्रहाणानि, चतुर ऋद्धिपादान्, पञ्चेन्द्रियाणि,पञ्च बलानि,सप्त बोध्यङ्गानि, आर्याष्टाङ्गं मार्गं प्रतिलभते । अयमुच्यते मनःसंवरः । येन मनःसंवरेण समन्वागतो बोधिसत्त्वो महासत्त्वो महाकरुणाविहारं प्रतिलभते । महोपेक्षाविहारं प्रतिलभते । क्षेमांश्च वितर्कान् प्रतिलभते । प्रविवेकांश्च वितर्कान् प्रतिलभते । हितैषितां च ईर्यां च चर्यां च प्रतिलभते । अयमुच्यते मनःसंवरः ॥
पुनरपरं कुमार मनःसंवर उच्यते - येन मनःसंवरेण समन्वागतो बोधिसत्त्वो महासत्त्वो मिथ्यादृष्टिप्रहाणाय मिथ्यादृष्ट्या सार्धं न संवसति । अभिध्याप्रहाणाय अनभिध्यालुर्भवति । व्यापादप्रहाणाय व्यापादेन सार्धं न संवसति । कौसीद्यप्रहाणाय कुसीदेन सार्धं न संवसति । गुरुणामन्तिके मातापित्रोराचार्यांणां चान्तिके शाठ्यचित्तं नोत्पादयति । रागद्वेषमोहचित्तं नोत्पादयति । न च तैः सार्धं संवसति । बोधिचित्तं नोत्सृजति । अध्याशयचित्तं च नोत्सृजति । ये चान्ये दोषोपसंहिता मनःसंकल्पास्तेभ्यः सर्वेभ्यः प्रतिविरतो भवति । न च तैः सार्धं संवसति । अयमुच्यते मनःसंवर । तच्च मनो मायोपममित्यवतरति । स्वप्नोपममपि मरीच्युपममपि । निर्मितोपममिति प्रतिभासोपममित्यवतरति । न कुतश्चिदागमनतो ऽवतरति । स्वप्नोपमं सुखमवतरति । स्वप्नोपममनित्यतो ऽवतरति । स्वप्नोपमं निर्जीवतो ऽवतरति । (वैद्य 293) स्वप्नोपमं शून्यतो ऽवतरति । तच्च नोपलभते न कल्पयति न मन्यते नावलम्बते नाभिनिविशते । अयमुच्यते कुमार मनःसंवरः ॥
परिशुद्धमनःसमुदाचारो हि कुमार बोधिसत्त्वो महासत्त्वः सर्वाक्षणांश्च वर्जयति । अचिन्त्यांश्च सर्वबुद्धधर्मान् प्रतिलभते । सर्वबुद्धेभ्यश्च सर्वबुद्धाभिज्ञां अकोप्यां च चेतोविमुक्तिं प्रतिलभते । अयमुच्यते मनःसंवरः ॥
अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत -
शृणोथ सर्वि अविक्षिप्तमना मम भाषतो मनःसंवरणम् / श्रुत्वा च तत्र प्रतिअपद्यथा मे यदीच्छथा लघु विशोधनताम् // srs_38.72 //
मनःसंवरेण लभि येन विदु परम प्रशान्त विपुलानचलान् / जिनधर्मचिन्तिय तथाद्भुततां मनःसंवरुच्यति विशुद्ध अयम् // srs_38.73 //
मनःसंवरेण लभि येन विदु चेतोविमुक्तिमचलां सततम् / वज्रोपमं तथ समाधिवरं मनःसंवरूच्यति हि श्रेष्ठ अयम् // srs_38.74 //
निष्पादयत्यपि च येन विदु उपचाररश्मिं विपुलार्थकरीम् / आर्याष्टाङ्गुपेतश्वर येन लभी मनःसंवरूच्यति विशुद्ध अयम् // srs_38.75 //
मनःसंवरेण विदु येन वरां द्वात्रिंशलक्षण लघू लभते / यश चो बलान्यखिलबुद्धगुणान् मनःसंवरः कथितु श्रेष्ठ अयम् // srs_38.76 //
मनसंवरेण लभि येन विदु प्रतिसंविदस्तथ विशारदताम् / परमाद्भुतान् गुण अचिन्त्य तथा मनःसंवरः कथितु श्रेष्ठु अयम् // srs_38.77 //
(वैद्य 294) मनःसंवरेण लभि येन विदु स्मृत्युपस्थान चतु ऋद्धिपादान् / सम्यक्प्रहाण बल इन्द्रिय चो मनःसंवर कथितु श्रेष्ठ अयम् // srs_38.78 //
मनःसंवरेण लघु येन विदु बोध्यङ्ग सप्त लभते विमलान् / अष्टाङ्गिकं च तथ मार्गवरं मनःसंवरः कथितु श्रेष्ठ अयम् // srs_38.79 //
मनःसंवरेण लभि येन विदु महुपेक्षताविहरणं प्रवरम् / करुणाविहारिममलं च परं मनःसंवरः कथितु श्रेष्ठ अयम् // srs_38.80 //
मनःसंवरेण लभि येन शिवान् क्षेमान् वितर्क विदु शुद्ध सदा / लभते गुणाढ्यु प्रविवेककथां मनःसंवरः कथितु श्रेष्ठ अयम् // srs_38.81 //
मनसंवरेण विदु येन युतो मिथ्याकुदृष्ट्या सह न वसति / व्यापादाभिध्या न च संजनयी मनःसंवरः कथितु श्रेष्ठ अयम् // srs_38.82 //
मनःसंवरेण विदु येन युतः कुहनां करोति न मुहूर्तमपि / गुरूणां च शाठियु न संजनयी मनःसंवरः कथितु श्रेष्ठ अयम् // srs_38.83 //
मनःसंवरेण विदु येन युतो रागथ द्वेष न जनेति मनः / तथ मोहचित्तु न जनेति क्वचित् मनःसंवरः कथितु श्रेष्ठु अयम् // srs_38.84 //
मनःसंवरेण विदु येन युतो बोधाय चित्त न विनिःसृजती / अध्याशयं च न विकोपयती मनःसंवरः कथितु श्रेष्ठ अयम् // srs_38.85 //
(वैद्य 295) मनःसंवरेण विदु येन युतो ये चान्य दोष विविधा मनसः / सर्वेभि सार्ध न च संवसती मनःसंवरः कथितु श्रेष्ठु अयम् // srs_38.86 //
मायोपमं च मन ओतरती सुपिनोपमं तथ मरीचिसमम् / प्रतिभासलक्षणमथो सततं मनःसंवरः कथितु श्रेष्ठु अयम् // srs_38.87 //
सुपिमोपमं च सुखमोतरती तथनित्य शून्यत अशाश्वततः / मन एव ओतरति येन विदु मनसंवरः कथितु श्रेष्ठु अयम् // srs_38.88 //
निर्जीवमोतरति निःसत्त्व मनो उत्पन्नु प्रत्ययत चक्रसमम् / न कुतश्चिदागतु न चापि गतं मनसंवरः कथितु श्रेष्ठ अयम् // srs_38.89 //
न च तन्मन्ये उपलभाति क्वचि न च कल्पयत्यथ न मन्यत्यसौ / नालम्भते विनिविशति न चो मनसंवरः कथितु श्रेष्ठु अयम् // srs_38.90 //
परमार्थसत्य सुपिनेन समं निर्वाण स्वप्नसममोतरति / मन एवमोतरति येन विदु मनसंवरः कथितु श्रेष्ठ अयम् // srs_38.91 // इति श्रीसमाधिराजे कायवाङ्भनःसंवरपरिवर्तः अष्टत्रिंशतितमः ॥ 38 ॥ (वैद्य 296) 39 पदत्रिशतनिर्देशपरिवर्तः ।
तत्र कुमार कतमा कर्मविशुद्धिः? यदिदं स्वप्नोपमं त्रिभवं दृष्ट्वा तत्र विरागतामुत्पादयति । इयमुच्यते कर्मविशुद्धिः ॥ तत्र कतम आलम्बनसमतिक्रमः? यदिदं मायोपमतां स्कन्धधात्वायतनानां बुद्धा तेषां व्यवसर्गः । अयमुच्यते आलम्बनसमतिक्रमः ॥ तत्र कतमा स्कन्धपरिज्ञा? यदिदं मरीच्युपमतां स्कन्धानामवतरति ॥ तत्र कतमा धातुसमता? यदिदं निर्मितोपमानां धातूनां प्रतिनिसर्गः ॥ तत्र कतम आयतनाप्रकर्षः? यदिदं प्रतिभासोपमानामायतनानां प्रतिनिसर्गः ॥ - - - - तृष्णाप्रहाणम्? यदिदं सर्वधर्माणामनालम्बनता ॥ - - - - अनुत्पादसाक्षात्क्रिया? यदिदं सर्वधर्माणामनुपलब्धिः ॥ - - - - क्रियावतारः? यदिदं वीर्यसमुत्थितस्य दुःखस्य विप्रणाशः ॥ - - - - हेतुदीपना? यदिदं प्रतिश्रुत्कोपमानां स्कन्धानामभिनिर्वृत्तिः ॥ - - - - फलाविप्रणाशः? यदिदं स्वप्नोपमस्य कर्मफलस्याविप्रणाशः ॥ - - - - धर्मदर्शनम्? यदिदं सर्वधर्माणामपश्यनता ॥ - - - - मार्गभावना? यदिदं सर्वधर्माणामनुपलब्धिभावना ॥ - - - - तथागतसमवधानम्? यदिदं सर्वबुद्धानां शिक्षाप्रतिपत्तिः ॥ - - - - तीक्ष्णप्रज्ञता? यदिदं सर्वधर्माणामनुत्पत्तिकक्ःआन्तिः ॥ - - - - सत्त्वानुप्रवेशज्ञानम्? यदिदं इन्द्रियपरापरज्ञताज्ञानम् ॥
तत्र कतमद् धर्मज्ञानम्? यदिदं सर्वधर्माणामनुपलब्धिः ॥ - - - - प्रतिसंविदावतारज्ञानम्? यदिदं यथाभूतधर्मनयप्रवेशः ॥ - - - - अक्षरप्रभेदज्ञानम्? यदिदं त्रिमन्त्रप्रयोगज्ञानम्, आकारानाकारज्ञानम् ॥ - - - - वस्तुसमतिक्रमः? यदिदं अवस्तुबुध्यना ॥ - - - - घोषपरिज्ञा? यदिदं प्रतिश्रुत्कोपमावतारज्ञ्ःनम् ॥ - - - - प्र्ःमोद्यप्रतिल्ःभः? यदिदं सर्वधर्म्ःण्ःमनुपलब्धिः, संस्ःर्ःत् दुःखस्य उत्सर्गो भ्ःर्ःवहरणम् ॥ - - - - धर्मप्रीत्यनुभवनत्ः? यदिदं अवव्ःदसंतोषण्ःनुत्सर्गस्वय्ःन्ःनुशंस्ःपश्यन्ः ॥ - - - - ःर्जवत्ः? यदिदं ःर्यसत्यप्रतिवेधः ॥ - - - - रिजुकत्ः? यदिदं ईर्य्ःपथस्य्ःकल्पनत्ः ॥ - - - - अपगतभृकुटित्ः? यदिदं दोषप्रह्ःणम् ॥ - - - - सौशील्यत्ः? यदिदं सुखसंव्ःसत्ः ॥ - - - - म्ःधुर्यत्ः? यदिदं परेषु हितवस्तुत्ःं ॥ - - - - पूर्व्ःल्ःपित्ः? यदिदं एहिस्व्ःगतवचनत्ः लघूत्थ्ःनत्ः ॥ - - - - गुरुगौरवत्ः? यदिदं गुरूण्ःमन्तिके भयं च कल्य्ःणमित्रत्ः च ॥ - - - - गुरुशुश्रूष्ः? यदिदं गुरुण्ःमुपस्थ्ःन्ःवस्थ्ःनपरिचर्य्ः ॥ - - - - उपपत्तिसंतुष्टिः? यदिदं सर्वोपपत्तिष्वन्ःस्व्ःदनत्ः । - - - - शुक्लधर्म्ःतृप्तत्ः? यदिदं शुक्लधर्म्ःण्ःं पर्येष्टिः किंकुशलम्ःर्गणत्ः च ॥
तत्र कतमा आजीवपरिशुद्धिः? यदिदं इतरेतरसंतुष्टिता अकूहणता अनैषिकता, लाभेन लाभाचिकीर्षणता च॥ - - - - अरण्यवासानुत्सर्गः? यदिदं अनिक्षिप्तधुरता कुशलेषु धर्मेषु (वैद्य 297) प्रान्तशय्यासनाभिरतिर्वनगहनगिरिदुर्गगुहाकन्दरेष्वभिरतिः धर्मप्रीत्यनुभवनता च । असंसर्गः गृहिप्रव्रजितैरभिसत्कारश्लोकेनानध्यवसानता तृष्णाप्रहाणध्यानप्रीत्यनुभवनता च । अयमुच्यते ऽरण्यवासानुत्सर्गः ॥ तत्र - - - - भूम्यवस्थानज्ञानम्? यदिदं श्रावकभूमिफलव्यवस्थानज्ञानं प्रत्येकबुद्धभूमिव्यवस्थानज्ञानं बोधिसत्त्वभूमिव्यवस्थानज्ञानं च । तत्र - - - - स्मृत्युविप्रणाशः? यदिदं अनित्यदुःखशून्यानात्ममनसिकारः ॥ तत्र - - - - स्कन्धकौशल्यज्ञानम्? यदिदं स्कन्धधात्वायतनप्रभेदज्ञानं च तत्र चानुपलब्धिः ॥ तत्र - - - - अभिज्ञासाक्षात्क्रिया? यदिदं चतुर्णामृद्धिपादानां प्रतिलम्भः ऋद्धिविकुर्वणता च ॥ तत्र - - - - क्लेशापकर्षः? यदिदं रागद्वेषमोहप्रहाणम् ॥ तत्र - - - - वासनानुसंघिसमुद्धातज्ञानम्? यदिद पूर्वबालचरिविजुगुप्सनता श्रावकप्रत्येकबुद्धभूम्यस्पृहणता च ॥ तत्र - - - - विशेषगामिता? यदिदं बुद्धवैशारद्यप्रतिसंविदां निष्पादनता ॥ तत्र - - - - भावनाभिनिष्यन्दः? यदिदं अनुनयप्रतिघप्रहाणम् ॥ तत्र - - - - आपत्तिकौशल्यम्? यदिदं प्रातिमोक्षविनयसंवरः ॥ - - - - पर्युत्थानविष्कम्भणम्? यदिदं अत्ययदेशना आयतिसंवरश्चाकुशलानां धर्माणाम् ॥ - - - - अनुनयप्रहाणम्? यदिदं त्रैधातुकभवतृष्णालतासमुद्धातो ऽसमुत्पन्नानां चाकुशलानां धर्माणामनुत्पादनता, उत्पन्नानां च
कुशलमूलानां धर्माणामविप्रणाशः । - - - - भवसमतिक्रमः? यदिदं त्रैधातुकानुपलब्धिः, अमनसिकारता च ॥ - - - - जातिस्मरता? यदिदं पूर्वेनिवासज्ञानम् ॥ - - - - कर्मविपाकनिष्काङ्क्षणता? यदिदं उच्छेदशाश्वतविवर्जनता ॥ तत्र - - - - धर्मचिन्ता? यदिदं यथाभूतचिन्ता ॥ तत्र - - - - श्रुतपर्येष्टिः? यदिदं श्रावकप्रत्येकबुद्धपिटकस्य बोधिसत्त्वपिटकस्य च आधारणता भावनता च ॥ - - - - ज्ञानतीक्ष्णता? यदिदं स्वप्नोपममनुत्पादज्ञानम् ॥ - - - - ज्ञानतृष्णा? यदिदं ज्ञानपर्येष्टिः ॥ - - - - ज्ञानावबोधः? यदिदं अनुत्तरसम्यक्संबोध्यभिनिष्पादनता च ॥ - - - - आजानेयभूमिः? यदिदं बोधिसत्त्वशिक्षास्थानम् ॥ - - - - शैलोपमता? यदिदं बोधिचित्तस्यानुत्सर्गः? - - - - अकम्पनता? यदिदं क्लेशैरसंहार्यता ॥ - - - - अचलनता? यदिदं सर्वनिमित्तानाममनसिकारः ॥ - - - - अवैवर्त्यलक्षणम्? यदिदं षट्पारमितानामखण्डनता, अन्यलोकधातुस्थितानां बुद्धानामभीक्ष्णदर्शनता च ॥ - - - - कुशलधर्माभिसंपत्? यदिदं आसन्नीभावो ऽनुत्तरायाः समक्संबोधेः ॥ - - - - पापकर्मजुगुप्सनता? यदिदं आयतिसंवरता चानुत्पादश्च पापस्य ॥ - - - - क्लेशानामसमुदाचारः? यदिदं अविद्याया भवतृष्णायाश्च क्रोधस्य चानुत्पादनता ॥ - - - - शिक्षाया अपरित्यागः? यदिदं कर्मविपाकपत्तीयनता बुद्धगौरवता च ॥ - - - - समाधिव्यवस्थानम्? यदिदं चित्तचैतसिकानां धर्माणामनुत्पादाव्ययकौशल्यं चित्तैकाग्रता च ॥ - - - - सत्त्वाशयज्ञानम्? यदिदं इन्द्रियपरापरज्ञताज्ञानम् ॥ - - - - उपपत्तिविशेषज्ञानम्? यदिदं पञ्चानां गतीनां
व्यवस्थानज्ञानम् ॥ - - - - ज्ञानानन्तता? यदिदं लौकिकलोकोत्तरेषु शिल्पेष्वनाभोगज्ञानम् ॥ - - - - वचनप्रतिसंघिज्ञानम्? यदिदं तथागतसंघाभाष्यानुबुध्यनता ॥ - - - - गृहावासपरित्यागः? यदिदं कायचित्तविवेकाभिनिष्क्रमः ॥ - - - - त्रैधातुके ऽनभिरतिः? यदिदं त्रैधातुकयथाभूतदर्शनता ॥ - - - - चित्तस्यानवलीनता? यदिदं चित्तस्यापरित्यागः समापद्यमानापरित्यागश्च ॥ (वैद्य 298) - - - - धर्मेष्वभिनिवेशः? यदिदं सर्वस्नेहप्रहाणम् ॥ - - - - धर्मपरिग्रहः? यदिदं बुद्धबोध्यारक्षा, एषां चैव सूत्रान्तानां प्रतीच्छनता ॥ - - - - धर्मगुप्तिः? यदिदं सद्धर्मप्रतिक्षेपकाणां सहधर्मेण निग्रहः ॥ - - - - कर्मविपाकपत्तियनता? यदिदं लज्जया पापकात् कर्मणो विरतिः, कुशलधर्मपर्येष्टौ चाभियोगः ॥ - - - - विनयकौशल्यम्? यदिदं प्रकृत्यायपत्त्यनापत्तिबुध्यनता ॥ - - - - अधिकरणव्युपशमः? यदिदं गणविवर्जनता ॥ - - - - अविग्रहो ऽविवादः? यदिदं लौकिककथानिरर्थिकता ॥ - - - - क्षान्तिभूमिः? यदिदं कायचित्तपीडाधिवासनता ॥ - - - - क्षान्तिसमादानम्? यदिदं परतो दुरुक्तानां वचनपथानामध्युपेक्षा क्षान्त्यखण्डनता च ॥ - - - - धर्मप्रविचयः? यदिदं स्कन्धधात्वायतनानां प्रभेदः संक्लेशव्यवदानपक्षस्य च प्रभेदस्तेषां चानुपलब्धिः ॥ - - - - धर्मविनिश्चयकौशल्यम्? यदिदं सर्वधर्माणामनभिलापः ॥ - - - - धर्मपदप्रभेद्ज्ञानम्? यदिदं सर्वधर्माणां व्यवस्थाननिस्तीरणता ॥ - - - - धर्मपदनिर्हारकौशल्यम्? यदिदं यथाभूतानां धर्माणां निर्देशः ॥ - - - -
अर्थानर्थसंभेदनिर्हारकौशल्यज्ञानम्? यदिदं धर्मप्रकृत्यनुत्क्षेपाप्रक्षेपः ॥ - - - - पूर्वान्तज्ञानम्? यदिदं हेतुज्ञानम् ॥ - - - - अपरान्तज्ञानम्? यदिदं प्रत्ययज्ञानम् ॥ - - - - त्रिमण्डलपरिशुद्धिज्ञानम्? यदिदं अतीतानागतप्रत्युत्पन्नानां धर्माणामनुपलब्धिः, अमनसिकारिता च ॥ - - - - चित्तावस्थानम्? यदिदं चित्तानुपलब्धिः ॥ - - - - कायव्यवस्थानम्? यदिदं कायगतानुस्मृतिः ॥.... ईर्यापथलक्षणम्? येयमार्यधर्मासंभ्रान्तता । - - - - ईर्यापथस्याविकोपनता? यदिदं प्रच्छन्नकल्याणता ॥.... ईर्यापथस्याविकल्पनता? यदिदं विगतपापेच्छता ॥ - - - - इन्द्रियप्रासादिकता? यदिदं धर्मगतमनसिकारता युक्तभाणिता कालज्ञता यथाभूतानां धर्माणां भूतप्रकाशनता ॥ .... लोकज्ञता? यदिदं अतिक्रममसंप्रजानता ॥....मुक्तत्यागिता? यदिदं सतां वस्तूनामग्रहणता, अमात्सर्यता च ॥.... प्रततपाणिता? यदिदं संविभावशीलता ॥.... अगृहीतचित्तता? यदिदं श्रद्धानाविलता ॥....व्यपत्रापिता? यदिदं अमुखरता ॥....ह्रियापणत ॥ यदिदं अनभिमुखता ॥.... अकुशलचित्तजुगुप्सनता? यदिदं बालधर्मबुध्यनता तैश्चासमवधानम् ॥.... धूतानवसृजनता? यदिदं दृढसमादानता ॥.... चारित्रसमवधानता? यदिदं चर्यापथक्रमसंजाननता ॥.... प्रीतिसमुदाचारः? यदिदं कुशलानां धर्माणामनुशंसाचित्तता ॥.... गुरूणामासनप्रत्युत्थानम्? यदिदं निहतमानता, अनालस्यता चा ॥.... मानस्य निग्रहः? यदिदं आत्मनो ऽनुपलब्धिरनालम्बनता च ॥.... चित्तस्य संग्रहः? यदिदं शुक्लधर्माणामविप्रणाशज्ञानम् ।....चित्तोत्साहनता? यदिदं
वीर्यफलाविप्रणाशज्ञानम् ॥.... अर्थप्रतिसंविज्ज्ञानम्? यदिदं यथाभूतसत्यप्रतिवेधज्ञानम् ॥.... ज्ञानानुबोधः? यदिदं लौकिकलोकोत्तराणां धर्माणामनुबुध्यनता ॥.... अज्ञानविगमः? यदिदं यथाभूतानां धर्माणामध्यारोपविगमः ॥.... चित्तप्रवेशज्ञानम्? यदिदं उत्पादव्ययज्ञानम् ॥.... आहारनिर्हारकौशल्यज्ञानम्? यदिदं तीक्ष्णप्रज्ञता ॥.... रुतरवितज्ञानम्? यदिदं यथाभूतधर्मप्रकाशनता ॥....व्यवस्थानज्ञानम्? यदिदं यथाभूतस्यावतारज्ञानम् ॥....अर्थविनिश्चयः? यदिदं संस्कारस्कन्धोच्छेदः ॥....अर्थानर्थविवर्जनता? (वैद्य 299) यदिदं भवसमतिक्रमः, परेषां च भवसमतिक्रमणावतारणता च ॥.... सत्पुरुषाश्रयः? यदिदं बुद्धाविरहितता ॥....सत्पुरुषसमवधानम्? यदिदं बुद्धबोधिसत्त्वप्रत्येकबुद्धश्रावकसेवनता ॥.... असत्पुरुषवर्जनता? यदिदं उपलम्भिकानां कुसीदानां च विवर्जनता ॥.... ध्यानाभिरतिः? यदिदं कामकण्टकविवर्जनता, ध्यानानामनुत्सर्जनता, प्रीत्यविजहता च ॥.... ध्यानेष्वनध्यवसानम्? यदिदं त्रैधातुकसमतिक्रमणच्छन्दः सत्वपरिपाचनाच्छन्दः उत्तरिप्रज्ञावभासच्छन्दश्च ॥....अभिज्ञाविकुर्वणता? यदिदं पञ्चस्वभिज्ञासु स्थित्वा दुर्विज्ञेयानां बुद्धधर्माणां परेभ्यः संप्रकाशनता ॥.... नामसंकेतः? यदिदं अपरिनिष्पन्नानां नाम्नामनुबुध्यनता ॥.... प्रज्ञप्तिव्यवहारः? यदिदं लोकव्यवहारः ॥....प्रज्ञप्तिसमुद्धातः? यदिदं प्रव्याहारज्ञानम् ॥....संसारनिवृत्तिः? यदिदं संसारदोषप्रत्यवेक्षा ॥.... लाभानर्थिकता? यदिदं भूताल्पेच्छता ॥.... लाभसत्कारानादेयता? यदिदं
अनुत्कण्ठता च विअगतपापेच्छता च ॥.... अवर्णैरमङ्कुभावता? यदिदं स्कन्धधातुपरीक्षाज्ञानम् ॥.... भूतानां वर्णानामनधिवासनता? यदिदं प्रतिच्छन्नकल्याणता च लाभसत्कारस्य चान्तरायबुध्यनता ॥ ....सत्कारेषूपेक्षा? यदिदं कर्मविपाकबुध्यनता ॥.... असत्कारेष्वमङ्कुभावता? यदिदं योगस्यानुत्सर्जनता ॥.... निन्दायामकुप्यनता? यदिदं लौकिकधर्मप्रत्यवेक्षा ॥.... प्रशंसायामुपेक्षा? यदिदं कल्याणधर्मपर्येष्टिनिष्क्रमणम् ॥.... अलाभे ऽलीनता? यदिदं स्वयंकृतानां धर्माणां प्रत्यवेक्षणता ।.... गृहीभिः सार्धमसंस्तवः? यदिदं आमिषकिंचिद्विवर्जनता ॥ .... प्रव्रजितैः सार्धमसंस्तवः? यदिदं अयुक्तविवर्जनता च युक्तपर्येषणता च ॥....अगोचरविवर्जनता? यदिदं पञ्चानां निवरणानां प्रहाणम् ॥.... गोचरप्रचारः? यदिदं स्मृत्युपस्थानानां भावना ॥....आचारसंपद्? यदिदं परानुरक्षा ॥....आचारविवर्जनता? यदिदं आत्मनः कल्याणधर्मानुरक्षणता ॥.... कुलानामदूषणता? यदिदं ज्ञात्रविवर्जनता ॥.... शासनरक्षाः? यदिदं धर्मपर्येष्टिसमादानता धर्मानुधर्मप्रतिपत्तिश्च ॥ ....अल्पभाष्यता? यदिदं शमथप्रतिलम्भः ॥.... मार्दवता? यदिदं विपश्यनाप्रतिलम्भः ॥....प्रतिवचनकौशल्यम्? यदिदं उत्तरप्रत्युत्तरज्ञानम् ॥.... प्रत्यर्थिकनिग्रहः? यदिदं यथाभूतानां धर्माणां प्रकाशनता व्यवस्थापनता च, उपालम्भानिग्रहश्च ॥....कालप्रतिक्रमः? यदिदं कालज्ञता ॥.... पृथग्जनेष्वविश्वासः? यदिदं बालधर्मदोषदर्शिता ॥....दुःखितानामपरिभवः? यदिदं सर्वसत्त्वेषु समचित्तता ॥.... दुःखितानां
धनानुप्रयच्छनता? यदिदं लोकामिषदानम् ॥.... दरिद्राणामनवसादनम्? यदिदं परेषामन्तिके कृपाबुद्धिता ॥.... दुःशीलानामनुकम्पना? यदिदं परेषामापत्तेरुद्धरणता च शीलप्रतिष्ठापनता च ॥ ....हितवस्तुता? यदिदं परेषामुपकारकरणता ॥....कृपाबुद्धिता? यदिदं सत्त्वानामनागतदुःखपश्यनता ॥.... धर्मानुग्रहः? यदिदं परेषां यथाभूतधर्मावतरणता ॥.... आमिषपरित्यागः? यदिदं स्कन्धपरित्यागः, परेषां चामिषानुग्रहः ॥.... असंनिचयस्थानम्? यदिदं आमिषजुगुप्सनता आरक्षादोषदर्शनता च ॥.... शीलप्रशंसा? यदिदं शीलफलानुबोधः ॥ (वैद्य 300) .... दौःशील्यजुगुप्सनता? यदिदं दौःशील्यदोषबुद्ध्यनता ॥.... शीलवतामकम्प्यसेवनता? यदिदं शीलवत्सु दुर्लभसंज्ञाज्ञानम् ॥....सर्वास्तिपरित्यागिता? यदिदं कल्याणाशयता ॥....अध्याशयनिमन्त्रणता? यदिदं परेषां सुखार्थिकता ॥....यथोक्तकारिता? यदिदं कल्याणाशयसंपत् ॥.... अभीक्ष्णपर्युपासनता? यदिदं कुशलगवेषणपरिपृच्छनता ॥....प्रीत्यनुभवनता? यदिदं अधिगमज्ञानं चागमज्ञानं च ।.... दृष्टान्तज्ञानम्? यदिदं उपमाज्ञानमववादज्ञानं च ॥.... पूर्वयोगकौशल्यम्? यदिदं जात्यनुस्मरणता श्रुतबहुलता च ॥....कुशलमूलपूर्वंगमता? यदिदं बोधौ तीव्रच्छन्दता च परेषां समुत्साहनता च ॥ .... उपायकौशल्यम्? यदिदं प्रतिदेशनानुमोदनाध्येषणा कुशलानां च परिणामनाकौशल्यम् ॥ ....निमित्तप्रहाणम्? यदिदं स्वप्नोपमानां धर्माणां बुध्यनता च वस्तुविभावनता च ।.... संज्ञाविवर्तः? यदिदं विपर्यासोत्सर्गः ॥.... वस्तुलक्षणता? यदिदं अलक्षणज्ञानम्
॥.... सूत्रान्ताभिनिर्हारकौशल्यम्? यदिदं यथाभूतानां धर्माणां कुशलाकुशलानां उपमावदानैः संप्रकाशनता ॥.... सत्यविनिश्चयः? यदिदं विज्ञाननिरोधो नामरूपानुत्पत्तिश्च ॥.... विमुक्तिसाक्षात्क्रिया? यदिदं वज्रोपमसमाधेरचलनता अप्रकुप्यनता च ॥.... एकप्रव्याहारः? यदिदं तीर्थ्यायतनविजुगुप्सनता चानुत्पत्तिकज्ञानता च ॥.... वैशारद्यप्रतिलम्भः? यदिदं बुद्धधर्मावबुध्यनता ॥.... शीलाधिष्ठानता? यदिदं कायसंवरः प्रातिमोक्षसंवरश्च ॥.... समापत्त्यवतारः? यदिदं त्रैधातुकवैराग्यता ॥.... प्रज्ञाप्रतिलाभः? यदिदं सामर्थ्यज्ञानं चानुपलब्धिश्च ॥.... एकारामता? यदिदं संगणिकादोषविवर्जनता च शुक्लधर्मानुत्सृजनता ॥.... अल्पज्ञात्रसंतुष्टिः? यदिदं इतरेतरसंतुष्टिः ॥.... चित्तस्यानाविलता? यदिदं निवरणानां विष्कम्भणता ॥.... दृष्टिकृतानां विवर्जनता? यदिदं उपलम्भदृष्टिविवर्जनता ॥.... धारणीप्रतिलम्भः? यदिदं यथादृष्टानां धर्माणां यथाभूतासङ्गसंप्रकाशनता ॥ ....ज्ञानावतारः? यदिदं प्रकृतिप्रवेशः ॥.... स्थानम्? यदिदं शीलस्थानम् ॥....अवस्थानम्? यदिदं चित्तावस्थानम् ॥.... प्रतिष्ठानम्? यदिदं श्रद्धाप्रतिष्ठानम् ॥.... प्रतिपत्तिः? यदिदं मार्गप्रतिपत्तिः ॥.... हेतुः? यदिदं अविद्या हेतुः संसारस्य ॥.... युक्तिः? यदिदं विद्या युक्तिर्मोक्षस्य ॥....नयः? यदिदं तृष्णाप्रहाणम् ॥.... द्वारम्? यदिदं दोषप्रहाणम्? ....मार्गः? यदिदं अनित्यदुःखशून्यानात्मज्ञानम् ॥.... भूमिः? यदिदं दशाप्रणिहितभूमिः ॥....जातिविगमः? यदिदं जात्युपच्छेदः ॥.... ज्ञानभूमिः? यदिदं असंमोहः ॥....
अज्ञानप्रहाणम्? यदिदं मोहप्रहाणम् ॥....ज्ञानप्रतिष्ठानम्? यदिदं अप्रतिष्ठानम् ॥.... योगाचारभूमिः? यदिदं सप्तत्रिशतां बोधिपक्षिकाणां धर्माणां भावना ॥.... बोधिसत्त्वगोचरः? यदिदं षट्पारमिता ॥....सत्पुरुषसंसेवना? यदिदं बुद्धाभिनिषेविता ॥....असत्पुरुषविवर्जनता? यदिदं तीर्थिकानां उपलम्भदृष्टिकानां विवर्जनता ॥.... तथागतैराख्यातः? यदिदं बुद्धबलेषु स्थित्वा प्रकृतिज्ञानेन मोक्षः ॥.... बुद्धभूमिः? यदिदं सर्वेषां कुशलानां धर्माणां प्रतिलाभिता ॥.... पण्डितैरनुमोदिता? यदिदं अतीतानागतप्रत्युत्पन्नैर्बुद्धैभगवद्भिः श्रावकैश्चानुमोदिताः ॥.... बालै प्रतिक्षिप्तम्? यदिदं सर्वबालैर्दुर्विज्ञेयम् ॥.... श्रावकप्रत्येकबुद्धैर्दुविज्ञेयम्? यदिदं बुद्धधर्माचिन्त्यता ॥....अभूमिस्तीर्थिकानाम्? (वैद्य 301) यदिदं मिथ्यामानो योगिनाम् ॥.... बोधिसत्त्वैः परिगृहीताः? यदिदं दुर्लभता च महाभैषज्यता च ॥.... दशबलैरनुबद्धम्? यदिदं कृच्छ्रयोगेन ॥.... देवैः पुजनीयम्? यदिदं सर्वसुखाहारकमुपादाय ॥.... ब्रह्मणा वन्दनीयम्? यदिदं सर्वमोक्षाहारकयोगेन ।.... नागैर्नमस्यनीयम्? यदिदं सर्ववासनासमुत्यागतामुपादाय ॥....यक्षैरनुमोदनीयम्? यदिदं सर्वदुर्गतीनां मार्गच्छेदनतामुपादाय ॥....किन्नरैः स्तवनीयम्? यदिदं सर्वमोक्षप्रामोद्याहरणतामुपादाय? महोरगैः प्रशंसनीयम्? यदिदं संसारोच्छेदनतामुपादाय ॥.... बोधिसत्त्वैर्भावयितव्यम्? यदिदं सर्वज्ञानाहारिकमुपादाय ॥.... पण्डितैः पर्यवाप्तव्यम्? यदिदं अवैवर्त्यभूम्याहारित्रकमुपादाय ॥....धनमनुत्तरम्? यदिदं देवमानुषिकायाः
प्रजायाः संपत्तेराहातित्रकं चोपादाय मोक्षाहारित्रकमुपादाय ॥.... दानं निरामिषम्? यदिदं सर्वक्लेशच्छेदित्रकतामुपादाय ॥.... भैषज्यं ग्लानानाम्? यदिदं रागद्वेषमोहप्रशमनतामुपादाय ॥.... कोशो ज्ञानस्य? यदिदं भावनामुपादाय ॥.... अक्षयता प्रतिभानस्य? यदिदं यथाभूतज्ञानदर्शनतामुपादाय ॥.... विगमः शोकस्य? यदिदं निरर्थकः व्याधिदुःखबुध्यनावतरणतामुपादाय नैरात्म्यदुःखप्रजाननतामुपादाय ॥.... परिज्ञा त्रैधातुकस्य? यदिदं स्वप्नमायाबुध्यनतामुपादाय ॥.... नावः पारमितानाम्? यदिदं अध्याअशयेन परिनिर्वातुकामानामनित्यदुःखशून्यताभावनतामुपादाय ॥.... नौरोघमध्यगतानाम्? यदिदं निर्वाणस्याहारकतामुपादाय ॥.... कीर्तिर्यशस्कामानाम्? यदिदं विपुलधर्माहारकतामुपादाय ॥.... वर्णो बुद्धानाम्? यदिदं अनन्तगुणभैषज्यदानपतिमुपादाय ॥.... यशस्तथागतानाम्? यदिदं सर्वगुणसुखमोक्षदानपतिमुपादाय ॥.... स्तवो दशबलानाम्? यदिदं दुर्लभधर्मरत्नदानपतिमुपादाय ॥.... गुणा बोधिसत्त्वानाम्? यदिदं धर्मशिक्षिततामुपादाय ॥.... उपेक्षा कारुणिकानाम्? यदिदं कृतबुद्धकृत्यकरणीयतामुपादाय ॥.... मैत्र्या दोषप्रशमनम्? यदिदं प्रतिघप्रतिपक्षतामुपादाय ॥....श्वासो महायानिकानाम्? यदिदं सर्वबुद्धधर्माभिप्रायपारिपूरित्रकमुपादाय ॥.... प्रतिपत्तिः सिंहनादनादिनाम्? यदिदं अग्रधर्मश्रेष्ठधर्माहारित्रकमुपादाय ॥.... मार्गो बुद्धज्ञानस्य? यदिदं सर्वकुशलधर्माहारित्रकमुपादाय ॥ .... मुद्रा सर्वधर्माणाम्? यदिदं पारादपारमवबुध्यनतामुपादाय ॥.... असंहार्यता सर्वज्ञानस्य? यदिदं
सर्वाकुशलधर्मप्रहाणाय च संवर्तते सर्वकुशलधर्माहारणतायै च सर्वसत्त्वमोक्षाहरणतायै संवर्तते ॥....उद्यानं बोधिसत्त्वानाम्? यदिदं सर्वप्रीतिप्रामोद्यात्मसुखेन सर्वसत्त्वसुखाहरणतामुपादाय ॥ ....विद्रापणं मारसैन्यानाम्? यदिदं सर्वबलाहारित्रकमुपादाय सर्वक्लेशशमनं चोपादाय ॥ ....विद्या क्षेमगामिनाम् यदिदं सर्वोपद्रवक्षयाय संवर्तते ॥.... अर्थः सिद्धानाम्? यदिदं सर्वधर्मसंपत्त्याहारित्रकमुपादाय ॥.... परित्राणममित्रमध्यगतानाम्? यदिदं सर्वोपलम्भिकानां मिथ्यादृष्टिकानां पराजयतायै संवर्तते ॥ ....सहधर्मेण तीर्थिकानां निग्रहः? यदिदं सहधर्मेण तीर्थिकानां निग्रहमुपादाय ॥....सत्याकारो वैशारद्यानाम्? यदिदं सर्वधर्माकोटितप्रत्याकोटितक्षेमतामुपादाय ॥.... भूतपर्येष्टिर्बलानाम्? यदिदं अविपरीतयोगेन ॥.... पूर्वनिमित्तमष्टादशानामावेणिकानां बुद्धधर्माणाम्? यदिदं सर्वशुक्लधर्माहरणतामुपादाय ॥ (वैद्य 302).... अलंकारः? यदिदं द्वात्रिंशतां महापुरुषलक्षणानामाहारकमुपादाय ॥.... रतिर्मोक्षकामानाम्? यदिदं आदिमध्यपर्यवसानकल्याणतामुपादाय ॥.... प्रीतिर्ज्येष्ठपुत्राणाम्? यदिदं पैतृकं धनं बुद्धधनानुभावाहारकमुपादाय ॥.... पारिपूरिर्बुद्धज्ञानस्य? यदिदं सर्वशुक्लधर्मानुरक्षणतामुपादाय सर्वशुक्लधर्मानन्यपोषणाहरणतामुपादाय ॥....अभूमिः सर्वश्रावकप्रत्येकबुद्धानाम्? यदिदं उदाराप्रमेयबुद्धधर्माहारकमुपादाय ॥.... संविशुद्धिश्चित्तस्य? यदिदं सर्वमलप्रहाणाय संवर्तते ॥.... परिशुद्धिः कायस्य? यदिदं सर्वग्लानिप्रशमनतामुपादाय ॥.... परिनिष्पत्तिः
विमोक्षमुखानाम्? यदिदं अनित्यदुःखशून्यानात्मशान्तप्रत्यवेक्षणतामुपादाय ॥ ....असंक्लिष्टता रागेण? यदिदं अमृतपदाहारिकमुपादाय ॥.... विगमो दोषस्य? यदिदं महामैत्र्याहारिकमुपादाय ॥.... अभूमिर्मोहस्य? यदिदं भूतधर्मालोकाहारकमुपादाय ॥.... आगमः संज्ञानस्य? यदिदं सर्वलौकिकलोकोत्तरकायज्ञानस्योत्पादमुपादाय ॥.... उत्पादो विद्यायाः? यदिदं सर्वयोनिशोमनसिकारहरणतामुपादाय ॥.... प्रहाणमविद्यायाः? यदिदं सर्वयोनिशोमनसिकारविगमाय संवर्तते ॥.... तृप्तिर्विमुक्तिसाराणाम्? यदिदं आर्यमाहात्म्याहरणतामुपादाय ॥.... तुष्टिः समाधिसाराणाम्? यदिदं सर्वसुखचित्तैकाग्राहरणतामुपादाय ॥.... चक्षुर्द्रष्टुकामानाम्? यदिदं अहंपश्यितामुपादाय ॥.... अभिज्ञा विकुर्वितुकामानाम्? यदिदं अनावरणतामुपादाय कामनीयधर्मतां चोपादाय ॥.... ऋद्धिरभिभवितुकामानाम्? यदिदं सर्वधर्मविकल्पितज्ञानानावरणतामुपादाय ॥.... धारणी श्रुतार्थिकानाम्? यदिदं सर्वधर्मनिर्वाणसमतामुपादाय ॥.... स्मृतेरसंप्रमोषः? यदिदं निर्वाणालम्बनप्रकृतिव्युपशमतामुपादाय ॥.... अधिष्ठानं बुद्धानाम्? यदिदं अनन्ताहरणतामुपादाय ॥.... उपायकौशल्यं नाथानाम्? यदिदं सर्वसुखक्षेमगमनतामुपादाय ॥.... सूक्ष्मम? यदिदं निर्वाणालम्बनव्युपशमतामुपादाय ॥.... दुर्विज्ञेयम्? यदिदं दुःखप्रतिज्ञानतामुपादाय ॥.... दुराजानतानभियुक्तैः? यदिदं अप्रतिलब्धपूर्वतामुपादाय ॥.... विवर्तो ऽक्षराणाम्? यदिदं सर्ववाक्यकथानुपलब्धितामुपादाय ॥.... दुर्विज्ञेयो घोषेण? यदिदं सर्वधर्माचिन्त्यतामुपादाय ॥.... अज्ञातं विज्ञैः? यदिदं
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
