Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 2/7

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa

समाधिराजसूत्र

Thông tin
GRETIL — P.L. Vaidya, Darbhanga: The Mithila Institute, 1961 (Buddhist Sanskrit Texts, 2.).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

पुनः पुनस्तेन गवेषता च आसादितो वैद्य विदू विचक्षणः / कारुण्यतां तेन उपस्थपेत्वा प्रयुक्तु भैषज्यमिदं निषेव्यताम् // srs_9.44 //

गृहीत्व भैषज्य पृथुं वरां वरां न सेवते आतुरु येन मुच्यते / न वैद्यदोषो न च भैषजानां तस्यैव दोषो भवि आतुरस्य // srs_9.45 //

एवमिह शासनि प्रव्रजित्वा पर्यापुणित्वा बल ध्यान इन्द्रियान् / न भावनायामभियुक्त भोन्ति अयुक्तयोगीन कुतो ऽस्ति निर्वृतिः // srs_9.46 //

(वैद्य 51) स्वभावशून्याः सद सर्वधर्मा वस्तुं विभावेन्ति जिनान पुत्राः / सर्वेण सर्वं भव सर्वशून्यं प्रादेशिकी शून्यता तीर्थिकानाम् // srs_9.47 //

न विज्ञ बालेहि करोन्ति विग्रहं सत्कृत्य बालान् परिवर्जयन्ति / ममान्तिके एन्ति प्रदुष्टचित्ता न बालधर्मेहि करोति संस्तवम् // srs_9.48 //

न विज्ञ बालान करोति सेवनां विदित्व बालान स्वभावसंततिम् / कियच्चिरं बालु सुसेवितो ऽपि पुनो ऽपि ते भोन्ति अमित्रसंनिभाः // srs_9.49 //

न विज्ञ बालेष्विह विश्वसन्ति विज्ञाय बालान स्वभावधर्मताम् / स्वभावभिन्न प्रकृतीय बाला न चास्ति मित्रं हि पृथग्जनानाम् // srs_9.50 //

सहधर्मिकेनो वचनेन उक्ताः क्रोधं च दोषं च अप्रत्ययं च / प्राविष्करोन्ति इमि बालधर्मान् इममर्थु विज्ञाय न विश्वसन्ति // srs_9.51 //

बाला हि बालेहि समं समेन्ति यथा अमेध्येन अमेध्यु सार्धम् / विज्ञाः पुनर्विज्ञजनेन सार्धं समेन्ति सर्पिर्यथ सर्पिमण्डैः // srs_9.52 //

संसारदोषाण अप्रत्यवेक्षणात् कर्माण विपाकमनोतरन्तः / बुद्धान चो वाक्यमश्रद्दधानास्ते च्छेद्यभेद्यस्मि चरन्ति बालाः // srs_9.53 //

सुदुर्लभं लभ्य मनुष्यलाभं न शिल्पस्थानेषु भवन्ति कोविदाः / (वैद्य 52) दरिद्रभूतान धनं न विद्यते अजीवमानास्तद प्रव्रजन्ति // srs_9.54 //

ते प्रव्रजित्वा इह बुद्धशासने अध्युषिता भोन्तिह पात्रचीवरे / ते पापमित्रेहि परिगृहीतास्तां नाचरन्ते सुगतान शिक्षाम् // srs_9.55 //

ते आत्मनः शीलमपश्यमानाश्चित्तव्यवस्थां न लभन्ति बालाः / रात्रिंदिवं भोन्ति अयुक्तयोगा न ते जुगुप्सन्ति च पापकर्मतः // srs_9.56 //

कायेन चित्तेन असंयतानां न किंचि वाचाय स जल्पितव्यम् / सदा गवेषन्ति परस्य दोषान् अपराद्धु किं केन वा चोदयिष्ये // srs_9.57 //

आहारि अध्युषित भोन्ति बाला न चास्ति मात्रज्ञतु भोजनस्मिन् / बुद्धस्य पुण्येहि लभित्व भोजनं तस्यैव बाला अकृतज्ञ भोन्ति // srs_9.58 //

ते भोजनं स्वादुरसं प्रणीतं लब्ध्वा च भुञ्जन्ति अयुक्तयोगाः / तेषां स आहारु वधाय भोति यथ हस्तिपोतान बिसा अधौतकाः // srs_9.59 //

किं चापि विद्वान् मतिमान् विचक्षणो भुञ्जीत आहारु शुचि प्रणीतम् / न चैव अध्युषित तत्र भोति अगृघ्नु सो भुञ्जति युक्तयोगी // srs_9.60 //

किं चापि विद्वान् मतिमान् विचक्षणो आभाषते बालु कुतो हि स्वागतम् / (वैद्य 53) तथ संगृहीत्वा प्रियवद्यताय कारुण्यतां तत्र उपस्थपेति // srs_9.61 //

यो भोति बालान हितानुकम्पी तस्यैव बाला व्यसनेन तुष्टाः / एतेन दोषेण जहित्व बालान् मृगोवदेको विहरेदरण्ये // srs_9.62 //

इम ईदृशान् दोष विदित्व पण्डितो न जातु बालेहि करोति संगतिम् / विहीनप्रज्ञानुपसेवतो मे स्वर्गात्तु हानिः कुत बोधि लप्स्ये // srs_9.63 //

मैत्रीविहारी च भवन्ति पण्डिताः करुणाविहारी मुदिताविहारी / उपेक्षकाः सर्वभवेषु नित्यं समाधि भावेत्व स्पृशन्ति बोधिम् // srs_9.64 //

ते बोधि बुद्धित्व शिवामशोकां विदित्व सत्त्वान् जनव्याधिपीडितान् / कारुण्यतां तत्र उपस्थपेत्वा कथां कथेन्ति परमार्थयुक्ताम् // srs_9.65 //

ये तां विजानन्ति जिनान धर्मतामनाभिलप्यं सुगतान सत्यम् / ते धर्म श्रुत्वा इम एवरूपां लप्स्यन्ति क्षान्ति अरियां निरामिषाम् // srs_9.66 // इति श्रीसमाधिराजे गम्भीरधर्मक्षान्तिपरिवर्तो नाम नवमः ॥ 9 ॥ (वैद्य 54) 10 पुरप्रवेशपरिवर्तः ।

तत्र भगवान् पुनरपि चन्द्रप्रभं कुमारभूतमामन्त्रयते स्म - तस्मात्तर्हि कुमार प्रतिपत्तिसारो भविष्यामीत्येवं त्वया कुमार सदा शिक्षितव्यम् । तत् कस्य हेतोः? प्रतिपत्तिसारस्य हि कुमार बोधिसत्त्वस्य महासत्त्वस्य न दुर्लभा भवत्यनुत्तरा सम्यक्संबोधिः, किं पुनरयं समाधिः । अथ खलु चन्द्रप्रभः कुमारभूत उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमेतदवोचत् - आश्चर्यं भगवन् यावत् सुभाषिता चेयं भगवता बोधिसत्त्वानां महासत्त्वानामववादानुशासनी सर्वबोधिसत्त्वशिक्षा देशिता स्वाख्याता सुप्रज्ञप्ता । सर्वतथागतगोचरो ऽयं भगवन् यत्र अभूमिः सर्वश्रावकप्रत्येकबुद्धानां कः पुनर्वादो ऽन्यतीर्थिकानाम्? प्रतिपत्तिसाराश्च वयं भगवन् भविष्यामः अनपेक्षाः कायजीविते च भूत्वा तथागतस्यानु शिक्षिष्यामहे । तत् कस्य हेतोः? शिक्ःइतुकामाश्च वयं भगवंस्तथागतस्य, अभिसंबोद्धुकामा वयं भगवन्ननुत्तरां सम्यक्संबोधिम् । अर्थिका वयं भगवन् अनुत्तरायाः सम्यक्संबोधेः । विध्वंसयितुकामाश्च वयं भगवन् मारं पापीयांसम् । मोचयितुकामा वयं भगवन् सर्वसत्त्वान् सर्वभयेभ्यः सर्वदुःखेभ्यः । अधिवासयतु मे भगवान् श्वस्तने मम गृहे भक्तं भोक्तुं सार्धं बोधिसत्त्वगणेन सार्धं भिक्ःउसंघेन चानुकम्पामुपादाय । अधिवासयति स्म भगवांश्चन्द्रप्रभस्य कुमारभूतस्य तूःणींभावेन श्वस्तने गृहे भक्तं भोक्तुं सार्धं बोधिसत्त्वगणेन भिक्ःउसंघेन चानुकम्पामुपादाय । अथ खलु चन्द्रप्रभः कुमारभूतो भगवतस्तूःणींभावेनाधिवासनं विदित्वा उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा भगवतः पादौ शिरसाभिवन्द्य भगवन्तं त्रिः प्रदक्ःइणीकृत्य भगवतो ऽन्तिकात् प्राक्रामत् ॥

अथ खलु चन्दप्रभः कुमारभूतो येन राजगृहं महानगरं येन च स्वकं निवेशनं तेनोपसमक्रामत् । उपसंक्रम्य चन्द्रप्रभः स्वगृहं प्राविशत् । प्रविश्य च तामेव रात्रिं प्रभूतं प्रणीतं खादनीयं भोजनीयं स्वादनीयमभिसंस्कारयति स्म । शतरसं च भोजनं संपाद्य तस्या एव रात्र्या अत्ययेन राजगृहं महानगरं सुसिक्तं सुसंमृष्टं मुक्तकुसुमाभिकीर्णं गन्धघटिकानिर्घूपितमुच्छ्रितच्छत्रध्वजपताकं (वैद्य 55) धूपनधूपितं वितानविततमवसक्तपट्टदामकलापं सरथ्यान्तरापणमपगतपाषाणःअर्करकठल्लं विचित्रपुष्पाभिकीर्णं चन्दनचूर्णाभिकीर्णं गवाक्षतोरणनिर्यूहपञ्जरजालार्धचन्द्रसमलंकृतं चन्दनानुलिप्तमकार्षीत् । सर्वावन्तं नगरमुत्पलकुमुदपद्मपुण्डरीकाभ्यवकीर्णमकार्षीत् । स्वं च गृहं सर्वालंकारव्यूहितमकार्षीत् । अथ खलु चन्द्रप्रभः कुमारभूत इमानेवंरुपान् नगरव्यूहान् गृहव्यूहान् भोजनव्यूहान् समलंकृत्य राजगृहान्महानगरान्निष्क्रम्य येन गृध्रकूटपर्वतो येन भगवांस्तेनोपसमक्रामत् । उपसंक्रम्य भगवन्तं त्रिः प्रदक्षिणीकृत्य एकान्ते ऽस्थात् । एकान्ते स्थितः चन्द्रप्रभः कुमारभूतो भगवतः कालमारोचयामास - कालो भगवन्, कालः सुगत, सिद्धं भक्तं यस्येदानीं कालं मन्यसे । अथ खलु भगवान् उत्थायासनात् कल्यमेव निवास्य पात्रचीवरमादाय महता भिक्षुसंघेन सार्धं परिपूर्णेन भिक्षुशतसहस्रेण संबहुलैश्च बोधिसत्त्वैर्महासत्त्वैः परिवृतः पुरस्कृतो ऽनेकैश्च देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगमनुष्यामनुष्यशतसहस्रैः पूज्यमानो ऽभिष्टूयमानो महता बुद्धानुभावेन महता बुद्धप्रातिहार्येण महता बुद्धेर्यापथेन रश्मिकोटिनियुतशतसहस्रैर्निश्चरद्भिर्नानातूर्यशतसहस्रैः पुष्पगन्धमाल्यविलेपनचूर्णचीवरैः प्रवर्षद्भिर्येन राजगृहं महानगरं तेनोपसंक्रामति स्म । चन्द्रप्रभस्य कुमारभूतस्य निवेशने प्रक्षिप्तश्च भगवता दक्षिणश्चक्ररत्नसमलंकृतः अपरिमितकुशलसंचितपादरत्न इन्द्रकीले, अथ तावदेव तस्मिन् महानगरे अनेकानि आश्चर्याद्भुतानि प्रातिहार्याणि संदृश्यन्ते स्म । इयमत्र धर्मता । तत्रेदमुच्यते -

पुरवर प्रविशन्ति नायकस्मिन् चरणवरु स्थपितश्च इन्द्रकीले / चलति वसुमती शिरीय तस्य प्रमुदित भोन्ति पुरोत्तमस्मि सत्त्वाः // srs_10.1 //

ये नरः क्षुधिताः पिपासिता वा न भवति तेष जिघत्स तस्मि काले / अपगत भवती क्षुघा पिपासा यद जिनु निक्षिपतीन्द्रकीलि पादम् // srs_10.2 //

तथ पुन नर ये भवन्ति अन्धाः श्रोत्रविहीन अनाथ अल्पपुण्याः / सर्वि प्रतिलभन्ति चक्षु श्रोत्रं यद जिनु निक्षिपतीन्द्रकीलि पादम् // srs_10.3 //

यमविषये ये केचि भोन्ति प्रेताः सुदुःखित खेटसिंघाणकभोजनाशाः / सर्वि सुखित भोन्ति आभस्पृष्टा यद जिनु निक्षिपतीन्द्रकीलि पादम् // srs_10.4 //

(वैद्य 56) शैलशिखरशृङ्गपर्वताश्च तथ वरपादपशालकर्णिकाराः / सर्वि अभिनमन्ति येन बुद्धो यद जिनु निक्षिपतीन्द्रकीलि पादम् // srs_10.5 //

सनगरनिगमा ससागरान्ता प्रचलि वसुंधरि षड्विकार सर्वा / न भवति विहेठ कस्यपि चेह यद जिनु निक्षिपतीन्द्रकीलि पादम् // srs_10.6 //

मरुमनुजकुम्भाण्डराक्षसाश्च नभःस्थित तुष्ट उदग्रचित्ताः / छत्र धरिय च लोकनायकस्य परमप्रीणित जनेत्व बोधिछन्दम् // srs_10.7 //

श्रूयति च मनोज्ञ वाद्यशब्दस्तूर्यसहस्र अघट्टिता रणन्ति / प्रमुदितास्तद भोन्ति सर्वसत्त्वा यद जिनु निक्षिपतीन्द्रकीलि पादम् // srs_10.8 //

वृक्षशतसहस्र ओनमन्ति सर्वि प्रपुष्पित भोन्ति तस्मि काले / देवशतसहस्र अन्तरीक्षे पूज करोन्ति अमानुषी जिनस्य // srs_10.9 //

ऋषभगण तदा नदन्ति हृष्टा हयद्विरदाधिपती प्रवृद्धकायाः / मृगपतयो नदन्ति सिंहनादं यद जिनु निक्षिपतीन्द्रकीलि पादम् // srs_10.10 //

महीपतय ये केचि भूमिपाला दिशिविदिशासु च आगता भवन्ति / धरणितलि पतन्ति हृष्टचित्ता दृष्टु जिनस्य शिरीमिममेवरूपाम् // srs_10.11 //

अन्ये अभिष्टुवन्ति लोकनाथम् अपरि क्षिपन्ति जिनस्य पुष्पवृष्टिम् / (वैद्य 57) अपरि दशनखाञ्जलिं करित्वा अहो जिनु कारुणिको भणन्ति वाचम् // srs_10.12 //

केचि वर क्षिपन्ति मुक्तहारान् बहुविध आभरणान् जनेत्व प्रीतिम् / चीवर रतनान् क्षिपन्ति अन्ये अतुलियु अग्रु जिनत्व बोधिचित्तम् // srs_10.13 //

केचि वर क्षिपन्ति हेमजालं अपरि पुनर्मुखफुल्लकं क्षिपन्ति / केचि वर क्षिपन्ति हेमनिष्कांस्तथ अपरे परिहारकान् क्षिपन्ति // srs_10.14 //

कटकवर क्षिपन्ति केचि तत्र अपरि केयूर क्षिपन्ति रत्नचित्रान् / अम्बर कुसुमान् क्षिपन्ति अन्ये चित्त जनेत्व ऽसियां वयं पि बुद्धाःऽ // srs_10.15 //

अपरि नरः क्षिपन्ति हेमचित्रांस्तथ मणिसूत्रवरान् प्रसन्नचित्ताः / केचि च रतनजालकं क्षिपन्ति द्वारि यदा स्थितु भोति लोकनाथः // srs_10.16 //

परमदुःखित ये भवन्ति सत्त्वा बहुविधुपद्रुवु शोकशल्य प्राप्ताः / सर्वि सुखसमर्पिता भवन्ति पुरुषवरस्य शिरीय नायकस्य // srs_10.17 //

परभृतशुकसारिकामयूरास्तथपि च सारसचाषहंसक्रौञ्चाः / सर्वि द्विजगणा नभे स्थिहित्वा परममनोज्ञरुतानि व्याहरन्ति // srs_10.18 //

प्रमुदित तद भोन्ति पक्षिसंघा मधुरमनोज्ञरुतं प्रमुञ्चमानाः / रागु तथ समेन्ति दोषमोहं ये च शृणन्ति मनोज्ञ पक्षिशब्दान् // srs_10.19 //

(वैद्य 58) श्रुणिय रञ्जनीय सत्त्वकोट्यः सर्वि च लभन्ति क्षान्तिमानुलोमाम् / तांश्च सुगत व्याकरोति सर्वान् भविष्यथ यूय जिना अनागताश्च // srs_10.20 //

न भवति किलेशु तस्मि काले सर्वि सगौरव भोन्ति धर्मराजे / अपगतभयदोषमोहजालाः प्रणिपतिताः सुगतमभिष्टुवन्तः // srs_10.21 //

पश्यिय तद रूप नायकस्य स्पृह जनयन्ति वरस्मि बुद्धज्ञाने / कद वय लभे ज्ञानमेवरूपम् आशयु ज्ञात्व जिनो ऽस्य व्याकरोति // srs_10.22 //

रश्मि शतसहस्र निश्चरन्ति एकैकतः सुगतस्य रोमकूपात् / तदुत्तरि यथ गङ्गवालिका वा न पि च निमित्तु गृहीतु शक्यु तासाम् // srs_10.23 //

सूर्यप्रभ न भान्तिं तस्मि काले न पि मणि नाग्नि न सर्वदेवतानाम् / सर्वि प्रभ न भान्ति तस्मि काले यद प्रविशन्त पुरं विभाति बुद्धः // srs_10.24 //

पद्मशतसहस्र प्रादुर्भूता धरणितु कोटिसहस्रपत्र शुद्धाः / यत्र दशबलः स्थपेति पादं मार्ग गतः सुगतो महागणेन // srs_10.25 //

अशुचि कलिमला न भोन्ति तस्मि काले नगरवरं प्रविशन्ति नायकस्मिन् / नगरु सुरभि सर्वि धूपनेन गन्ध मनोज्ञ प्रवायते समन्तात् // srs_10.26 //

वीथि नगरि तद भोति सर्वा अपगतलोष्टकठल्ल सिक्त गन्धैः / (वैद्य 59) पुण्य दशलबस्य एवरूपा विविध विकीर्ण भवन्ति मुक्तपुष्पाः // srs_10.27 //

यक्ष शतसहस्र रौद्रचित्ताः कनकनिभं द्विपदेन्द्रु दृष्ट्व बुद्धम् / जनयि विपुलु नायकस्मि प्रेमं शरणमुपेति च बुद्धधर्मसंघान् // srs_10.28 //

ये च देवशतसहस्र कोटियो वा उपगत सर्वि नरेन्द्रदर्शनाय / वर्षति सुगतस्य पुष्पवर्षं गगनतले च स्थिहन्ति मुक्तपुष्पाः // srs_10.29 //

ये मनुज क्षिपी जिनस्य पुष्पं गगनतले भवतीति पुष्पछत्रम् / ये पुन कुसुमान् क्षिपन्ति देवा धरणितले स्तृत भोन्ति दिव्यपुष्पाः // srs_10.30 //

न भवति कदाचि दृष्ट्व तृप्ती देवमनुष्यकुभाण्डराक्षसानाम् / यद दशबलु दृष्ट्व लोकनाथं प्रमुदित भोन्ति उदग्रकल्यचित्ताः // srs_10.31 //

न मनसि तद भोन्ति दिव्यपुष्पा न च पुन विस्मयु जायते च तत्र / यद पुरुषवरस्य कायु दृष्ट्वा तुष्ट भवन्ति उदग्र सर्वसत्त्वाः // srs_10.32 //

ब्रह्म दशबलस्य दक्षिणेनो तथ पुन वामतु शक्र देवराजा / गगनतलगता अनल्प देवकोट्यः पुरुषवरस्य जनेन्ति चित्रिकारम् // srs_10.33 //

परिवृत जिनु देवदानवेहि मरुमनुजान शिरिं ग्रसित्व सर्वाम् / धरणि क्रमतलेहि चित्रयन्तो प्रविशि पुरं भगवान्निमन्त्रणाय // srs_10.34 //

(वैद्य 60) कुसुमित अनुव्यञ्जनेहि काये यथ गगनं परिपूर्ण तारकेहि / प्रतपति स्थितु राजमार्गि बुद्धश्चन्द्रो नभःस्थ यथैव पूर्णिमास्याम् // srs_10.35 //

मणिरतनु यथा विशुद्धु श्रेष्ठं व्यपगतदोषमलं प्रभासमानम् / दिशि विदिशि प्रमुञ्चि आभ शुद्धां तथ जिनु भासति सर्वलोकधातुम् // srs_10.36 //

परिवृतु जिनु देवदानवेहि प्रविशति राजगृहं नराण श्रेष्ठः / धरणि क्रमतलेहि चित्रयन्तो प्रविशति चन्द्रप्रभस्य गेहि बुद्धः // srs_10.37 //

पुरुवरु समलंकृतं समन्ताद् बहु ध्वज कोटिसहस्र उच्छितात्र / गन्धवरविलिप्त सर्वभूमी सुमनःप्रकीर्ण तथैव वार्षिकारम् // srs_10.38 //

यद सुगतु कथां कथेति नाथो वीथिगतो मनुजान् कृपायमानः / निर्मितु जिनु तत्र निर्मिणित्वा वितरति तेषु प्रणीत बुद्धधर्मान् // srs_10.39 //

दशनियुत जिनान निर्मितान कनकनिभा अभिरूप दर्शनीया / परिवृतु जिनु बुद्धु निर्मितेहि वितरति शून्यत शान्त बुद्धबोधिम् // srs_10.40 //

प्राणिशतसहस्र तं श्रुणित्वा प्रणिदधि चित्तु वराग्रबुद्धज्ञाने / कद वय लभि ज्ञानमेवरूपं आशयु ज्ञात्व जिनो ऽस्य व्याकरोति // srs_10.41 //

केचि स्पृह जनेन्ति तत्र काले परम अचिन्तिय लब्ध तेहि लाभाः / (वैद्य 61) येहि जिनु निमन्त्रितो नरेन्द्रो न च पर्यन्त स तेषु दक्षिणायाः // srs_10.42 //

केचि पुनरुपपादयि सुचित्तं श्वो वय कारुणिकं निमन्त्रयामः / हितकरमनुकम्पकं प्रजानां यस्य सुदुर्लभु दर्शनं भवेषु // srs_10.43 //

केचि स्थित निर्यूहखोटके हि सुभगु विभूषितगात्र प्रेमणीयाः / दिव्य दशबलस्य मुक्तपुष्पाण्यवकिरते ऽग्रु जनित्व बोधिचित्तम् // srs_10.44 //

सुरुचिर वर चम्पकस्य मालां तथ अतिमुक्तक गन्धवर्षिकां च / अपरि पुन क्षिपन्ति पट्टदामान् परम निरुत्तरु चित्तु संजनित्वा // srs_10.45 //

केचि स्थित गृहे गृहीतपुष्पाः परमविभूषितकायु चीवरेहि / पुष्प विविधु गृहीत्व पट्टदामान् प्रवर्षि येन जिनो महानुभावः // srs_10.46 //

पदुमकुमुदोत्पलान् क्षिपन्ति केचि अपरि क्षिपन्ति विशिष्ट हेमपुष्पान् / मणिरतन क्षिपन्ति केचि तस्मिन् अपरि क्षिपन्ति च चूर्ण चन्दनस्य // srs_10.47 //

अपरिमित भवन्ति अच्छरीया अतुलिय ये न च शक्यु कीर्तनाय / पुरवरु प्रविशन्ति नायकस्मिन् बहुजनकोट्य स्थिहिंसु बुद्धज्ञाने // srs_10.48 //

अबृह अतपाश्च दृष्टसत्त्याः सुदृश सुदर्शन ये च अन्य देवाः / तथ पुनरकनिष्ठ वीतरागा उपगत सर्वि नरेन्द्रदर्शनाय // srs_10.49 //

(वैद्य 62) तथ शुभमरुताश्च अप्रमेया अपरिमित शुभा उदग्रचित्ताः / शुभकृत्स्न नियुताश्च अप्रमेया उपगत पश्यितु नायकं महर्षिम् // srs_10.50 //

अपरिमितु तथाप्रमाणआभा तथ पुन देव परीत्त आभ ये च / बहु नियुत आभस्वराण तस्मिन् उपगत पश्यितु ते ऽपि लोकनाथम् // srs_10.51 //

बहव शतसहस्र पारिषद्यास्तथ पुन ब्रह्मपुरोहिताः प्रसन्नाः / बहुशत पुन ब्रह्मकायिकानां उपगत नायकदर्शनाय सर्वे // srs_10.52 //

तथ पुन परनिर्मितापि देवास्तथ निर्माणरतिश्च शुद्धसत्त्वाः / प्रमुदित तुषिताथ यामदेवा उपगत सर्वि नमस्यमान बुद्धम् // srs_10.53 //

त्रिदश अपु च शक्र देवराजा अप्सरकोटिशतैः सहागतो ऽत्र / कुसुमवर्ष संप्रवर्षमाणो उपगत बुद्धमुनीन्द्रदर्शनाय // srs_10.54 //

चतुरि चतुर्दिशासु लोकपाला वैश्रवणो धृतराष्ट्र नागराजा / विरूढकु विरूपाक्षु हृष्टचित्ता उपगत सर्वि नरेन्द्र ते स्तुवन्ता // srs_10.55 //

ऐलविल बलवन्त यक्षराजा परिवृत यक्षशतेहि प्रेमजातः / गगनतलि स्थिहित्व हृष्टचित्तः क्षिपति अनेक विचित्र पुष्पवर्षम् // srs_10.56 //

अपरि पुनरनन्त मालधारी विविध विचित्र गृहीत्व माल्यगन्धान् / (वैद्य 63) सर्वि सपरिवार हृष्टचित्ताः पुरुषवरस्य करोन्ति तत्र पूजाम् // srs_10.57 //

बहव शत करोटपाणि यक्षा अपि च सुभूषि तेष यक्षकन्याः / सुमधुर सुमनोज्ञ यक्षवाद्यैस्तूर्यशतेहि करोन्ति बुद्धपूजाम् // srs_10.58 //

ललितमधुरगीतवादितस्मिन् सुकुशलैः सह किन्नरीसहस्रैः / द्रुम उपगत गन्धमादनातो जिनवरु पूजितु किन्नराण राज्ञा // srs_10.59 //

शंबर बल वेमचित्र राहु दानवकन्य सहस्रपारिवाराः / असुरगण महर्द्धिकाश्च अन्ये उपगत ते रतनानि वर्षमाणाः // srs_10.60 //

शतनियुत अनन्त राक्षसानां राक्षसकोटिशतैरुपास्यमानाः । पृथु विविध विचित्र मुक्तपुष्पान् पुरुषवरस्य क्षिपन्ति गौरवेण ॥61 ॥

तथपि च अनवतप्तु नागराजा परमसुशिक्षिताश्च नागकन्याः / तूर्यशतसहस्र नादयन्त्यो उपगत पूजन तत्र लोकनाथम् // srs_10.62 //

पञ्चशत अनवतप्तु पुत्रा विपुलु अनुत्तरु ज्ञान प्रार्थयन्तः / स्वजनपरिवृता उदग्र भूत्वा उपगत पूजयितुं स्वयं स्वयंभूम् // srs_10.63 //

तथपि च अपलालु नागराजा पुरुषवरस्य कृताञ्जलिः प्रणम्य / (वैद्य 64) वर रुचिर गृहीत्व नागपुष्पान् स्थित गगने मुनिराज सत्करोन्तः // srs_10.64 //

तथपि च मुचिलिन्द नागराजा प्रीतमनाः परितुष्ट हर्षजातः / विविध रत्नमौक्तिकं गृहीत्वा उपगमि नायकु अभिकिरन्तु तत्र // srs_10.65 //

तथपि च कालिको ऽपि नागराजा उपगतु मुखु तथागतस्य हृष्टचित्तः / वर रूचिर गृहीत्व रत्नदामान् पुरुषवरस्य पूज करित्व श्रेष्ठाम् // srs_10.66 //

सो ऽपि परम गौरवं जनित्वा अनुस्मरमाणु गुणांस्तथागतस्य / स्वजनपरिवृतः सनागसंघो बहुविधु भाषति वर्ण नायकस्य // srs_10.67 //

नन्दु तथा उपनन्दु नागराजा तथ पुनस्तक्षक कृष्णगौतमौ च / उपगत जिनु ते नमस्यमानाः प्रणिपतिताः सुगतस्य पादयोर्हि // srs_10.68 //

उपगत एलपत्रु नागराजा परिवृत नागशतेहि रोचमानः / मुनिवर जिनु काश्यपं स्मरन्तो स्वक उपपत्ति अपश्यि अक्षणेषु // srs_10.69 //

अहो अहु पुरि आसि काङ्क्षप्राप्तो मयि पुरि च्छिन्नु परित्तमेलपत्रम् / सो अहु उपपन्नु अक्षणस्मिन् न सुकरु धर्म विजानितुं जिनस्य // srs_10.70 //

क्षिप्र अहु जहित्व नागयोनिं परम जुगुप्सितमेतु जन्तुकायम् / (वैद्य 65) धर्ममहु विजानि शान्तिभावं पुरुषवरेण य ज्ञातु बोधिमण्डे // srs_10.71 //

सागर अहिराजचक्रवर्ती परिवृतु नागत्रिकोटिसहस्रैः / वरुण मनस्वी गृहीत्व मुक्ताहारान् उपगतु ते भगवन्तु पूजनाय // srs_10.72 //

क्षिप्त शिल जिनस्य तत्र येनो गगनस्थितेन गृहीत्व तस्मि काले / राजगृहि स किम्पिलो ऽपि यक्षः पुरतः स्थितः सुगतस्य गौरवेण // srs_10.73 //

अलकवती समग्र राजधानी शून्य अभूषि न तत्र कश्चि यक्षः / सर्वि क्रिय करित्व अन्यमन्यं उपगत पश्यितु सर्वलोकनाथम् // srs_10.74 //

तथपि च खरकर्ण सूचिरोमा आटविकस्तथ यक्ष भेषकश्च / हैमवत शतगिरिश्च यक्ष उपगत गर्दभको जिनं स्वयंभूम् // srs_10.75 //

इन्द्रकेतु विकटश्च सुरूपो वक्कुलु पञ्चिकु शाक्य प्रवृद्धो / एते परे ऽपि च यक्षेन्द्र सहस्ता उपगत धूपघटं परिगृह्य // srs_10.76 //

विकृत बहु दुःसंस्थितात्मभावा विगलितआभरणा अनेकरूपाः / बहव शतसहस्र तस्मि काले उपगत तत्र गृहीत्व यक्ष पुष्पान् // srs_10.77 //

(वैद्य 66) जलनिधि निवसन्ति ये सुपर्णा उपगत ब्राह्मणवेश निर्मिणित्वा / मुकुटधर विचित्र दर्शनीया गगनस्थिताः सुगतं नमस्यमानाः // srs_10.78 //

नगरशत ये केचि जम्बुद्वीपे वनविहरेषु य तत्र देवताश्च / सर्व नगरदेवताः समग्रा उपगत पूज करोन्त नायकस्य // srs_10.79 //

उपगत वनदेवता अनन्तास्तथपि च सर्वि य शैलदेवताश्च / तथपि च नदिदेवताः समग्रा उपगत पूज करोन्त नायकस्य // srs_10.80 //

अटविमरुषु देवताशतानि गिरिशिखरेषु य देवता समग्राः / उत्ससरतडागदेवताश्च उपगत सागरदेवताश्च बुद्धम् // srs_10.81 //

देवअसुरनागयक्षसंघा गरुडमहोरगकिन्नराः कुम्भाण्डाः / तथपि च बहु प्रेतपूतनाश्चो पुरुषवरस्य करोन्ति चित्रिकारम् // srs_10.82 //

ते ऽपि च जिनवरे करित्व पूजां नगरवरं प्रविशन्ति नायकस्मिन् / देव असुरनागयक्षराजा । सततमतृप्त भवन्ति दर्शनेन // srs_10.83 //

यथ पुरिमभवेषु लोकनाथः पुरिमजिनेषु अकार्षि पूज श्रेष्ठाम् / पुण्यफलविपाक एवरूपो न च जनु तृप्तु नरेन्द्र पश्यमानः // srs_10.84 //

मेरु तथ सुमेरु चक्रवाला हिमगिरिस्तथ गन्धमादनश्च / (वैद्य 67) आवरणा न ते जिनस्य भोन्ति आभ यदा जिनु मुञ्चि बुद्धक्षेत्रे // srs_10.85 //

ये च इह समुद्र बुद्धक्षेत्रे ते ऽपि महीय समास्तदा भवन्ति / सर्वमिमु समन्तु बुद्धक्षेत्रं समु भवती कुसुमेहि संप्रकीर्णम् // srs_10.86 //

रश्मि शतसहस्र अप्रमेया अवकिरि पादतलेहि धर्मराजा / सर्वि निरय शीतला भवन्ति धर्मदुःख उपनीत सुखं च वेदयन्ति // srs_10.87 //

धर्म दशबल संप्रभाषि तत्रो मरुमनुजान विशुद्ध भोति चक्षुः / प्राणि शतसहस्र अप्रमेया नियत भवन्ति च सर्वि बुद्धज्ञाने // srs_10.88 //

बहु इमि सुगतस्य प्रतिहार्या न सुकरु वक्तु च कल्पकोटियेभिः / पुरवर प्रविशन्ति नायकस्मिन् प्रमुदित सर्व जगज्जिनप्रवेशे // srs_10.89 //

इमि गुण सुगतस्य अप्रमेया नरवृषभस्य गुणाग्रपारगस्य / सर्वगुणविशेषपारगस्य शिरसि नमस्यथ बुद्धपुण्यक्षेत्रम् // srs_10.90 //

इति श्रीसमाधिराजे पुरप्रवेशपरिवर्तो नाम दशमः ॥

(वैद्य 68) 11 सूत्रधारणपरिवर्तः ।

अथ खलु भगवांश्चन्द्रप्रभस्य कुमारभूतस्य निविशनरथ्यामवगाहमानश्चन्द्रप्रभस्य कुमारभूतस्य निवेशनं प्रविष्टो ऽभूत् । प्रविश्य च न्यषीदत् प्रज्ञप्त एवासने । यथार्हे चासने बोधिसत्त्वसंघो भिक्षुसंघश्च निषण्णो ऽभूत् । अथ खलु चन्द्रप्रभः कुमारभूतो भगवन्तं बोधिसत्त्वसंघं भिक्षुसंघं च निषण्णं विदित्वा स्वयमेव शतरसेन भोजनेन प्रणीतेन प्रभूतेन खादनीयेन भोजनीयेन लेह्येन चोष्येण पेयेन भगवन्तं संतर्प्य संप्रवार्य भगवन्तं भुक्तवन्तमपनीतधौतपाणिं विदित्वा दिव्येन नवनवतिकोटीशतसहस्रमूल्येन दूष्ययुगेन भगवन्तमभिच्छादयामास । तेषां च बोधिसत्त्वानां भिक्षुसंघस्य च प्रत्येकं प्रत्येकं त्रिचीवरमदातू ॥

अथ खलु चन्द्रप्रभः कुमारभूत एकांसमुत्तरासङ्ग कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य भगवतः पादौ शिरसाभिवन्द्य येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तं गाथाभिगीतेन प्रश्नं परिपृच्छति स्म -

कथं चरन्तो विदु बोधिसत्त्वः स्वभावु धर्माण सदा प्रजानते / कथं क्रियामाचरते विचक्षणः क्रियामाचरते भोतारु वदाहि नायक // srs_11.1 //

कथं च जातिस्मरु भोति नायक न चापि गर्भे उपपद्यते कथम् / कथं परीवारु भवेदभेद्य प्रतिभानु भोतीह कथमनन्तकम् // srs_11.2 //

सर्वेष सत्त्वान चरिं प्रजानसे सर्वेषु धर्मेषु ति ज्ञानु वर्तते / अनाभिभूता द्विपदानमुत्तमा पृच्छामि प्रश्नं मम व्याकरोहि // srs_11.3 //

स्वभाव धर्माणमभावु जानसे अनाभिलप्यां गिर संप्रभाषसे / सिंहेन वा धर्षित सर्व क्रोष्टका स्तथैव बुद्धेनिह अन्यतीर्थिकाः // srs_11.4 //

(वैद्य 69) सर्वेष सत्त्वान चरिं प्रजानसे सर्वेषु धर्मेषु ज्ञानानुवर्तते / असङ्गज्ञानी परिशुद्धगोचरा तं व्याकरोहि मम धर्मस्वामी // srs_11.5 //

अतीतु जानासि तथा अनागतं यच्च इहा वर्तति प्रत्युत्पन्नम् / त्रियध्वज्ञानं ति असङ्गु वर्तते तेनाहु पृच्छामिह शाक्यसिंहम् // srs_11.6 //

त्रियध्वयुक्तान जिनान धर्मता त्वं धर्मतां जानसि धर्मराज / धर्मस्वभावकुशलः स्वयंभूस्तेनाहु पृच्छामिह ज्ञानसागरम् // srs_11.7 //

यत् किंचि धर्मं स्खलितं न ते ऽस्ति ततो ति चित्तं निखिलं प्रहीणम् / प्रहीण ग्रन्था खिलमोहसादका देशेहि मे बोधिचरिं नरेन्द्र // srs_11.8 //

यल्लक्षणा धर्म जिनेन बुद्धास्तल्लक्षणं धर्म मम प्रकाशय / यल्लक्षणं धर्ममहं विदित्वा तल्लक्षणं बोधि चरिष्यि चारिकाम् // srs_11.9 //

विलक्षणां सत्त्वचरीमनन्तां कथं चरन्तश्चरिमोतरन्ति / चरीप्रवेशं मम देशय स्वयं श्रुत्वा च सत्त्वान चरिं प्रजानियाम् // srs_11.10 //

विलक्षणं धर्मस्वभावलक्षणं स्वभावशून्यं प्रकृतीविविक्तम् / प्रत्यक्ष भोन्ति कथ बोधिसत्त्वः प्रकाशयस्व मम बुद्धनेत्रीम् // srs_11.11 //

सर्वेषु धर्मेष्विह पारमिंगताः सर्वेषु निर्देशपदेषु शिक्षिताः / (वैद्य 70) निःसंशयी संशयकाङ्क्षक्षछेदके प्रकाशयाही मम बुद्धबोधिम् // srs_11.12 //

अथ खलु भगवांश्चन्द्रप्रभस्य कुमारभूतस्य चेतसैव चेतःपरिवितर्कमाज्ञाथ चन्द्रप्रभं कुमारभूतमामन्त्रयते स्मएकधर्मेण कुमार समन्वागतो बोधिसत्त्वो महासत्त्वः एतान् गुणान् प्रतिलभते, क्षिप्रं चानुत्तरां सम्यक्संबोधिमभिसंबुध्यते । कतमेनैकेन धर्मेण इह कुमार बोधिसत्त्वो महासत्त्वः सर्वधर्माणां स्वभावं यथाभूतं प्रजानाति?कथं च कुमार बोधिसत्त्वो महासत्त्वः सर्वधर्माणां स्वभावं जानाति? इह कुमार बोधिसत्त्वो महासत्त्वः सर्वधर्माननामकान् नामापगतान् प्रजानाति । घोषापगतान् वाक्पथापगतान् अक्षरापगतान् उत्पादापगतान् निरोधापगतान् हेतुविलक्षणान् प्रत्ययविलक्षणान् विपाकलक्षणानारम्भणलक्षणान् विवेकलक्षणान् एकलक्षणान् यदुतालक्षणान् निमित्तापगतान् अचिन्त्यांश्चिन्तापगतान् मनोपगतान् सर्वधर्मान् यथाभूतं प्रजानाति । अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत -

एकु निर्देश धर्माणां सर्वधर्मा अलक्षणाः / देशिता वरप्रज्ञेन यथाभूतं प्रजानता // srs_11.13 //

य एवं धर्मनिर्देशं बोधिसत्त्वः प्रजानति / न तस्य भोति विष्ठानं सूत्रकोट्या प्रभाषतः // srs_11.14 //

अधिष्ठितो नायको हि भूतकोटीं प्रजानति / प्रजानाति च तां कोटीं न चात्रो किंचि भाषितम् // srs_11.15 //

एकेन सर्वं जानाति सर्वमेकन पश्यति / कियद् बहुं पु भाषित्वा न तस्योत्पद्यते महः // srs_11.16 //

तथास्य चित्तं निध्याप्तं सर्वधर्मा अनामकाः / शिक्षितो नामनिर्देशे भूतां वाचं प्रभाषते // srs_11.17 //

शृणोति घोषं यं कंचित् पूर्वान्तं तस्य जानति / ज्ञात्वा घोषस्य पूर्वान्तं घोषेण ह्रियते न सः // srs_11.18 //

यथा घोषस्य पूर्वान्तं एवं धर्माण लक्षणम् / एवं धर्मान् प्रजानन्तो न गर्भेषूपपद्यते // srs_11.19 //

अजातिः सर्वधर्माणामनुत्पत्तिं प्रजानति / प्रजानन् जातिनिर्देशं भवेज्जातिस्मरः सदा // srs_11.20 //

यदा जातिस्मरो भोति तदा च चरते क्रियाम् / क्रियामोतरमाणस्य परिवारो न भिद्यते // srs_11.21 //

(वैद्य 71) यं एवं शून्यकान् धर्मान् बोधिसत्त्वः प्रजानति / न तस्य किंचिदज्ञातमेषा कोटिरकिंचना // srs_11.22 //

अकिंचनायां कोट्यां हि किंचिद् बालैर्विकल्पितम् / येन ते कल्पकोटीयः संसरन्ति पुनः पुनः // srs_11.23 //

सचेत्ते कल्प जानीयुर्यथा जानति नायकः / न तेषां दुःखु जायेत नापि गच्छेयु दुर्गतिम् // srs_11.24 //

एवं पृथग्जनाः सर्वे अजानन्त इमं नयम् / क्षिपन्ति ईदृशान् धर्मान् यत्र दुःखं निरुध्यते // srs_11.25 //

अलब्धिः सर्वधर्माणां धर्मसंज्ञा प्रवर्तते / सा एवंजातिका संज्ञा संज्ञामेव विजानथ // srs_11.26 //

विजानना च संज्ञा च बालैरेतद्विकल्पितम् / प्रकल्पितेषु धर्मेषु नात्र मुह्यन्ति पण्डिताः // srs_11.27 //

पण्डितानामियं भूमिर्बालानां नात्र गोचरः / गोचरो बुद्धपुत्राणां शून्या धर्मा अनाविलाः // srs_11.28 //

बोधिसत्त्वानामियं भूमिर्बुद्धपुत्रचरी इयम् / बुद्धधर्माणलंकारो देशिता शान्त शून्यता // srs_11.29 //

यदा च बोधिसत्त्वानां प्रहीणा भोति वासना / न ते ह्रियन्ति रूपेहि बुद्धगोत्रस्मि ते स्थिताः // srs_11.30 //

अस्थान सर्वधर्माणां स्थानमेषां न विद्यते / य एवं स्थान जानाति बोधिस्तस्य न दुर्लभा // srs_11.31 //

दानं शीलं श्रुतं क्षान्तिं सेवित्वा मित्र भद्रकान् / इमां क्रियां विजानन्तः क्षिप्रं बोधिं स बुध्यते // srs_11.32 //

देवाथ नागाः सद सत्करोन्ति गन्धर्व यक्षा असुरा महोरगाः / सर्वे च राजान सुपर्णि किन्नरा निशाचराश्चास्य करोन्ति पूजाम् // srs_11.33 //

यशो ऽस्य भाषन्ति च बुद्धकोटियो बहुकल्पकोट्यो ऽपि अधिष्ठिहन्तः / (वैद्य 72) धर्म प्रकाशन्तिय भोति वर्णो न शक्यु पर्यन्तु क्षपेतु तस्य // srs_11.34 //

यः शून्यतां जानति बोधिसत्त्वः करोति सो ऽर्थं बहुप्राणिकोटिनाम् / देशेति धर्मं पर्यायसूत्रतो श्रुत्वास्य प्रेम जनयन्ति गौरवम् // srs_11.35 //

ज्ञानं च तेषां विपुलं प्रवर्तते येनेति पश्यन्ति नरोत्तमान् जिनान् / क्षेत्रे च पश्यन्ति वियूह शोभनं धर्मं च देशेन्ति ते लोकनाथाः // srs_11.36 //

मायोपमान् जानथ सर्वधर्मान् यथान्तरीक्षं प्रकृतीय शून्यम् / प्रकृतिं पि सो जानति तेष तादृशीमेवं चरन्तो न कहिंचि सज्जति // srs_11.37 //

ज्ञानेनासङ्गेन करोति सो ऽर्थं लोके चरन्तो वरबोधिचारिकाम् / ज्ञानेन ते वीक्षिय सर्वधर्मान् प्रेषेन्ति ते निर्मित अन्यक्षेत्रान् // srs_11.38 //

ते बुद्धकृत्यं करियाण निर्मिता प्रकृतीय गच्छन्ति यथैव धर्मताम् / यथाभिप्रायं च लभन्ति ते ऽर्थं ये बोधिचित्तस्मि नराः प्रतिष्ठिताः // srs_11.39 //

स भोति बुद्धान् सदा कृतज्ञो यो बुद्धवंशस्य स्थितीय युज्यते / विरोचमानेन समुच्छ्रयेण द्वात्रिंश काये ऽस्य भवन्ति लक्षणाः // srs_11.40 //

अन्याननन्तान् बहु आनुशंसान् श्रेष्ठं समाधौ चरमाणु लप्स्यते / महाबलो भोति सदा अकम्पियो राजान् तस्यो न सहन्ति तेजः // srs_11.41 //

(वैद्य 73) प्रासादिको भोति महाभिषट्कः पुण्येन तेजेन शिरीय चोद्गतः / देवापि नो तस्य सहन्ति तेजो यो बुद्धधर्मेषु चरेय पण्डितः // srs_11.42 //

मित्रं स भोति सद सर्वप्राणिनां यो बोधिचित्तस्मि दृढं प्रतिष्ठितः / न चान्धकारो ऽस्य कदाचि भोति प्रकाशयन्तस्मि स बुद्धबोधिम् // srs_11.43 //

अपगतगिरवाक्पथा अनभिलप्या यथ गगनं तथ ताः स्वभावधर्माः / इम गति परमां विजानमानो तथ तु भवति प्रतिभानु अक्षयं से // srs_11.44 //

सूत्रशतसहस्र भाषमाणः सूक्ष्म प्रजानति पूर्विकां स कोटिम् / सद विदु भवती असङ्गवाक्यः सुसुखुम धर्मस्वभावु जानमानः // srs_11.45 //

नयशतकुशलश्च नित्यु भोति बहुविधघोषनिरुक्तिकोविदश्च / कर्मफलविभक्ति निश्चिताश्चो भोन्ति विशिष्ट विशेष एवरूपाः // srs_11.46 //

अविकलवेशधारी भोति दशबलआत्मज पण्डितो महात्मा / सद स्भृति परिशुद्ध तस्य भोति सुसुखुम धर्मस्वभावु जानमानः // srs_11.47 //

न श्रुणति अमनोज्ञ शब्द जातु श्रुणति प्रणीत मनापु नित्य शब्दान् / सद भवति मनोज्ञ तस्य वाचा सुसुखुम धर्मस्वभावु जानमानः // srs_11.48 //

स्मृतिमतिगतिप्रज्ञवन्तु भोति तथपि च चित्तमनाविलं प्रसन्नम् / (वैद्य 74) सूत्रशतसहस्रु भाषते अनेकान् सुसुखुम धर्मस्वभावु जानमानः // srs_11.49 //

अक्षरपदप्रभेदकोविदश्चो रुत बहु जानति नैक अन्यमन्ये / अर्थकुशल भोति व्यञ्जनो च इम गुण धर्मस्वभावु जानमानः // srs_11.50 //

देवमनुजनागराक्षसानाम् असुरमहोरगकिन्नराण नित्यम् / तेष सद प्रिय मनाप भोति सुसुखुम धर्मस्वभावु जानमानः // srs_11.51 //

भूतगणपिशाचराक्षसाश्चो परमसुदारुण ये च मांसभक्षाः / ते ऽस्य भयु न जातु संजनेन्ति सुसुखुम धर्मस्वभावु जानमानः // srs_11.52 //

विपुल कथं श्रुणित्व पण्डितानां विपुल प्रजायति रोमहर्ष तेषाम् / विपुल तद जनेन्ति बुद्धप्रेमं विपुल अचिन्तियु तेषु भोति अर्थः // srs_11.53 //

पुण्यबल न शक्यु तेष वक्तुं बहुमपि कल्पसहस्र भाषमाणैः / अपरिमित अनन्त अप्रमेय इमु सुगतान धरेत्व धर्मगञ्जम् // srs_11.54 //

सर्व जिन अतीत पूजितास्ते अपरिमिता य अनागताश्च बुद्धाः / दशसु दिशासु ये स्थिताश्च बुद्धा इम वर शान्त समाधि धारयित्वा // srs_11.55 //

यथ नरु इह कश्चि पुण्यकामो दशबल कारुणिकानुपस्थिहेय्या / अपरिमित अनन्त कल्पकोटीरपरिमितं च जनेतु प्रेम तेषु // srs_11.56 //

(वैद्य 75) द्वितीय नरु भवेत पुण्यकामो इतु परमार्थनयात्तु गाथमेकाम् / धरिय चरिमकालि वर्तमाने परिमकु पुण्यकला न भोति तस्य // srs_11.57 //

परम इयं विशिष्ट बुद्धपूजा चरिमकि दारुणि कालि वर्तमाने / चतुपदमित गाथमेकु श्रुत्वा धारयि पूजित तेन सर्वबुद्धाः // srs_11.58 //

परम सद सुलब्ध तेहि लाभा परम सुभुक्तु सदा व राष्ट्रपिण्डम् / परम दशबलस्य ज्येष्ठपुत्रा बहु जिन पूजित तेहि दीर्घरात्रम् // srs_11.59 //

अहमपि इह दृष्ट गृघ्रकूटे तथ मय व्याकृत ते ऽपि बुद्धज्ञाने / अपि च मय परीतु मैत्रक स्यां पुनरपि व्याकरणाय तस्मि काले // srs_11.60 //

तथ पुनरमितायु तेष तत्रो भाषते बुद्ध अनेक आनुशंसाम् / सर्वि इमि सुखावतीं प्रविष्टो अभिरति गत्व अक्षोभ्य पश्यि बुद्धम् // srs_11.61 //

कल्पशतसहस्र अप्रमेया न च विनिपातभयं कदाचि भोति / इमु वरु चरमाणु बोधिचर्यामनुभवति स हि नित्य सौमनस्यम् // srs_11.62 //

तस्य इमु विशिष्ट एवरूपा य इमु प्रकाशित श्रेष्ठ आनुशंसाम् / प्रतिपदमनुशिक्षमाण मह्यं पश्चिमि कालि धरेयु एत सूत्रम् // srs_11.63 // इति श्रीसमाधिराजे सूत्रधारणपरिवर्तो नामैकादशः ॥ 11 ॥ (वैद्य 76) 12 समाध्यनुशिक्षणापरिवर्तः ।

तत्र कुमार यो बोधिसत्त्वो महासत्त्वः सर्वधमाणां स्वभावं प्रजानाति, तस्येमे एवंरूपा गुणानुशंसा भवन्ति - स तथागतानां भूतं गुणवर्णं भाषते । न च तथागतान् व्याख्याति असता अभूतेन । तत् कस्य हेतोः? यया धर्मतया तथागतः प्रभाव्यते, तां धर्मतां यथाभूतं प्रजानाति । अनन्तात् बुद्धगुणान् प्रजानाति । तत् कस्य हेतोः? अनन्ता हि कुमार बुद्धगुणा अचिन्त्याश्चिन्तापगताः । तेनाशक्यं चिन्तयितुं वा प्रमातुं वा । तत् कस्य हेतोः? चित्तं हि कुमार निःस्वभावमरूप्यनिदर्शनम् । इति हि कुमार यत्स्वभावं चित्तं तत्स्वभावा बुद्धगुणाः, यत्स्वभावा बुद्धगुणास्तत्स्वभावास्तथागताः, तत्स्वभावाः सर्वधर्माः । यः कुमार बोधिसत्त्वो महासत्त्व एवं सर्वगुणस्वभावनिर्देशं यथाभूतं प्रजानाति, अयं कुमार उच्यते बोधिसत्त्वो महासत्त्वो निध्याप्तिमानसः । निःसरणकुशलः । त्रैधातुकनिःसरणं यथाभूतं प्रजानाति । यथावदर्शी अवितथवादी अनन्यथाभाषी, यथावादी तथाकारी, अनभिनिविष्टस्त्रैधातुके त्रैधातुकसमतिक्रान्तः । समतिक्रान्तः कामभूमिं रूपभूमिं आरूप्यभूमिं क्लेशभूमिं नामभूमिं घोषभूमिम् । अक्षरपदनयकुशलः । अक्षरविभावितज्ञानः । अनभिलप्यधर्मकोविदः । अक्षरज्ञः । अक्षरकुशलः । अक्षरपदप्रभेदज्ञानकुशलः । अक्षरपदप्रभेदविस्तारज्ञानकुशलः । सर्वधर्मपदप्रभेदकुशलः । सर्वधर्मपदप्रभेदविस्तारकुशलः । सर्वधर्मव्यवस्थानज्ञानकुशलः । निश्चितया बुद्ध्या समन्वागतो ऽनभिभूतः सर्वमारैः पापीयोभिर्मारकायिकाभिश्च देवताभिः ॥

अस्मिन् खलु पुनर्धर्मपर्याये भाष्यमाणे अष्टानवतेर्नियुतानां देवमानुषिकायाः प्रजायाः पूर्वपरिकर्मकृतायाः कोटीशतसहस्रावर्ताया धारण्या अनावरणायाश्च धर्मविपश्यनायाः क्षान्तेः प्रतिलम्भो ऽभूत् । ते च सर्वे भगवता व्याकृउता अष्टाचत्वारिंशता कल्पैरसंख्येयशतसहस्रैरनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यन्ते । सर्वे च अन्यान्यनामान एकायुष्प्रमाणा अन्यान्येषु बुद्धक्षेत्रेषु अनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यन्ते । तत्रेदमुच्यते -

यो बोधिसत्त्व मतिमान् प्राप्नोति अनुत्तरां वरां बोधिम् / अर्थे च धर्मि कुशलो चरति स धर्मस्वभावस्मि // srs_12.1 //

नाभूत् भणति वाचं बुद्धानां यादृशा गुणविशेषाः / स हि धर्मु तं जिनानां जानति शूरो विगतकङ्क्षाः // srs_12.2 //

एकार्थ सर्वधर्मान् प्रजानति च शून्यतां स एकांशम् / नानार्थु नास्ति तेषां एकार्थे शिक्षितो भवति // srs_12.3 //

(वैद्य 77) निष्कल्पानविकल्पान् अनोपलम्भांश्च जानाति मतिमान् / क्षति अक्षये ऽस्य संज्ञा प्रहीण सर्वा निरवशेषा // srs_12.4 //

न हि रूपतो दशबलान् पश्यति सो धर्मकाय नरसिंहान् / नापि लक्षणेहि तस्य प्रहीण सर्वे विपर्यासाः // srs_12.5 //

धर्मा अचिन्त्य एते चिन्तापगता स्वभाव उपशान्ताः / एवं प्रजानमानः पश्यति बुद्धान् द्विपदश्रेष्ठान् // srs_12.6 //

यथ ज्ञात्वात्मसंज्ञास्तथैव सर्वत्र प्रेषिता बुद्धिः / सर्वे च तत्स्वभावा धर्म विशुद्धा गगनकल्पाः // srs_12.7 //

न हि जात मानसे ऽस्य निःसरणं ज्ञात्व सर्वधर्माणाम् / त्रैधातुके विमुक्तिप्रणिधानु न विद्यते तस्य // srs_12.8 //

यथावदर्शि भोति अवितथवचनो ऽनन्यथाभाषी / सर्वं च तस्य वचनं निश्चरति जिनानुभावेन // srs_12.9 //

अतिक्रान्तु कामभूमिं किलेशभूमिं च रूप आरूप्यान् / धर्मेष्वसक्तमनसः प्रमुदित चरते जगहिताय // srs_12.10 //

अतिक्रान्तु नामभूमिं घोषो ज्ञान स्वभावेन चयिकः / यावच्चिरं पि भणतो न विद्यते निश्रयस्तस्य // srs_12.11 //

संज्ञाप्रचारु नास्ति दृष्टिविपर्यासु सर्वशः क्षीणः / सुनिश्चिता बुद्धिश्च ते गगनोपमधीराः // srs_12.12 //

विहार कोटीनियुता भवेयु विक्षेपणार्थ चित्तस्य / अभिभवति सर्वमारान् न चापि तेषां वशमुपैति // srs_12.13 //

सर्वि जह्यु मारजालं परिशुद्धः शीलवानपरिदाहः / ध्यानसुखस्मि निरतः प्रजानति च शून्यकं लोकम् // srs_12.14 //

लोकाश्च स्कन्ध उक्तास्तांश्चापि स शून्यकान् प्रजानति / अनुत्पादाननिरोधान् सर्वान् गगनोपमान् धर्मान् // srs_12.15 //

आत्मानं स त्यजते न चैव शिक्षां श्रुतां दशबलस्य / सो शीलपारमिं गत उपपद्यति यत्र प्रणिधेति // srs_12.16 //

विचरन्तु बुद्धक्षेत्रान् पश्यति बुद्धकोटीनियुतानि / न स्वर्गं प्रार्थयते न चापि प्रणिधानतो मुक्तः // srs_12.17 //

(वैद्य 78) न भ्रंशयति स वीर्यं मुहूर्तमात्रमपि धर्म चरमाणः / प्रशंसितश्च भोति बुद्धभिर्दशदिशे लोके // srs_12.18 //

तस्मात्तर्हि कुमार श्रुत्वा धर्मानिमान् समाधिस्मिन् / जहियान ज्ञात्रलाभं प्रकाशय महाजने धर्मम् // srs_12.19 //

य इच्छति स्वयंभूर्भवेय बुद्धो महागुणसमङ्गी / इह शिक्षित्वा कुशलो दशबलधारी भवति बुद्धः // srs_12.20 // इति श्रीसमाधिराजे समाध्यनुशिक्षणापरिवर्तो नाम द्वादशः ॥ 12 ॥ (वैद्य 79) 13 समाधिनिर्देशपरिवर्तः ।

तत्र खलु भगवान् पुनरेव चन्द्रप्रभं कुमारभूतमामन्त्रयते स्म - तस्मात्तर्हि कुमार बोधिसत्त्वेन महासत्त्वेन अनुत्तरां सम्यक्संबोधिमभिसंबोद्धुकामेन समाधिनिर्देशकुशलेन भवितव्यम् । तत्र कुमार कतमः समाधिनिर्देशः?या यथावत्तता सर्वधर्माणां समता अविषमता । अकल्पना अविकल्पना । अविठपना असमुत्थापना । अनुत्पादः अनिरोधः । कल्पविकल्पपरिकल्पसमुच्छेदः । चित्तानालम्बनता । अमनसिकारः । प्रज्ञप्तिसमुच्छेदः । वितर्कविकल्पसमुच्छेदः । रागद्वेषमोहसमुच्छेदः । नान्तानन्तमनसिकारः । मनसिकारसमुच्छेदः । स्कन्धधात्वायतनस्वभावज्ञानम् । स्मृतिमतिगतिह्रीधृतिचारित्राचारगोचरप्रतिपत्तिस्थानम् । अरणाभूमिः । शान्तभूमिः । सर्वप्रपञ्चसमुच्छेदः । सर्वबोधिसत्त्वशिक्षा । सर्वतथागतगोचरः । सर्वगुणपरिनिष्पत्तिः । अयमुच्यते कुमार समाधिनिर्देशः । यत्र समाधिनिर्देशे प्रतिष्ठितो बोधिसत्त्वो महासत्त्वो ऽविरहितो भवति समाधिना, अभ्रान्तचित्तश्च भवति, महाकरुणासमन्वागतो ऽप्रमेयाणां च सत्त्वानमर्थं करोति ॥

अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत -

समाध्यविषमा भूमिः शान्ता सूक्ष्मा सुदुर्दृशा / सर्वसंज्ञासमुद्धातः समाधिस्तेन चोच्यते // srs_13.1 //

अकल्पश्चाविकल्पश्चाग्राह्यत्वमनिदर्शनम् / अनुपलब्धिश्चित्तस्य समाधिस्तेन चोच्यते // srs_13.2 //

समाहितो यदा भोति सर्वधर्मा न मन्यते / अमन्यना यथाभूतं समाधिरिति शब्दितः // srs_13.3 //

न धर्मे ऽस्ति रजोमात्र रजश्चापि न विद्यते / अनुपलब्धिर्धर्माणां समाधिस्तेन चोच्यते // srs_13.4 //

चित्तस्यानुपलब्धिश्च विकल्पो ह्येष चोच्यते / अविकल्पिताश्च ते धर्मा समाधिरेष जानथः // srs_13.5 //

शब्देन सूचितो ह्यर्थः स च शब्दो अवस्तुकः / प्रतिश्रुत्कोपमः शब्दो अन्तरीक्षं यथा नभः // srs_13.6 //

अस्थिता हि इमे धर्माः स्थितिरेषां न विद्यते / अस्थितिः स्थितिशब्देन स्वभावेन न लभ्यते // srs_13.7 //

च्यवते अगतीत्येवं गतिश्चासौ न विद्यते / अगतिर्गतिशब्देन समाधिर्नदितस्तथा // srs_13.8 //

(वैद्य 80) असमाहितो वुच्यति एष मन्यना समाहितो एष द्वितीय मन्यना / अमन्यमाना विचरन्ति बोधये अमन्यमाना स्पृशि बोधिमुत्तमाम् // srs_13.9 //

समविषम एष शान्तभूमिः शमथविपश्यनानिमित्त एषा / सेविय इमु शान्त बुद्धबोधिं स इह प्रयुक्त समाधिभावनायाम् // srs_13.10 //

न च पुनरियमक्षरेहि शक्यं प्रविशितु अर्थगति प्रवेशे / सर्वरुत जहित्व भाष्यघोषं भवति समाहित नो च मन्यनास्य // srs_13.11 //

यश्च इह समाधि बोधिसत्त्वो यथ- उपदिष्टु तथा स्थिहेत युक्तः / सचेदिह भवि कल्पदाहु क्षेत्रे गिरिवरमध्यगतं न तं दहे ऽग्निः // srs_13.12 //

यथ गगनु न जातु दग्धपूर्वं सुबहुकल्पशतेहि दह्यमानम् / गगनसमा अधिजानमान धर्मांस्ते न जातु दह्यति सो ऽग्निमध्ये // srs_13.13 //

सचि पुन ज्वलमान बुद्धक्षेत्रे प्रणिधि करोति समाधिये स्थिहित्वा / ज्वलनु अयु प्रशाम्यतामशेषं पृथिवी विनश्यि न चास्य अन्यथात्वम् // srs_13.14 //

ऋद्धिबलु अनन्तु तस्य भोति खगपथि गच्छति सो असज्जमानः / इमि गुण अनुभोति बोधिसत्त्वो यथ-अनुशिष्टु समाधिये स्थिहित्वा // srs_13.15 //

जायते च्यवते वापि न च जाति न च्युतिः / यस्य विजानना एषा समाध्यस्य न दुर्लभा // srs_13.16 //

(वैद्य 81) न च्युतिर्नापि चो जाति लोकनाथेन देशिता / लोकनाथं विदित्वैवं समाधिं तेन जानथ // srs_13.17 //

अनोपलिप्ता लोकेन लोकधर्मे न सज्जति / असज्जमानः कायेन बुद्धक्षेत्राणि गच्छति // srs_13.18 //

क्षेत्रेषु पश्यते नित्यं संबुद्धान् लोकनायकान् / धर्मं च शृणुते तत्र बुद्धक्षेत्रेषु भाषितम् // srs_13.19 //

न जातु तस्य अज्ञानं धर्मधातुं च भाषते / गतिज्ञः सततो धर्मे धर्मधातुमयो हि सः // srs_13.20 //

भाषतः कल्पकोट्यो ऽपि प्रतिभानं न हीयते / निर्मिणोति बहूनन्यान् बोधिसत्त्वान् विचक्षणः // srs_13.21 //

क्षेत्रातः क्षेत्र गच्छन्ति बोधिसत्त्वान निर्मिताः / सहस्रपत्रपद्मेषु पर्यङ्केन निषण्णकाः // srs_13.22 //

बुद्धबोधिं प्रकाशेन्ति धारणीसूत्रशोभनम् / अन्याश्च सूत्रकोटीयो समाधिं शान्त भावयन् // srs_13.23 //

अविवर्तिकपथे स्थापेन्ति बहून् सत्त्वानचिन्तियान् / प्रतिभानं क्षयं नैति बुद्धबोधिं प्रकाशिय // srs_13.24 //

कूटागारे हि गच्छन्ति रतनेहि विचित्रिते / ओकिरन्ति च पुष्पेहि गन्धवद्भिर्विनायकम् // srs_13.25 //

ओकिरन्ति च चूर्णेहि गन्धवन्तेहि नायकम् / कुर्वन्ति विपुलां पूजां सर्वे ते बोधिकारणात् // srs_13.26 //

अप्रमेया गुणा एते बोधिसत्त्वान तायिनाम् / निष्किलेशा यदा भोन्ति तदा ऋद्धिं लभन्ति ते // srs_13.27 //

अनुपत्तिकिलेशान अच्छाः शुद्धाः प्रभास्वराः / असंस्कृता अकोप्याश्च बोधिसत्त्वान गोचराः // srs_13.28 //

प्रशान्ता उपशान्ताश्च निष्किलेशा अनङ्गनाः / अप्रपञ्चा निष्प्रपञ्चाः प्रपञ्चसमतिक्रमाः // srs_13.29 //

अप्रचारो ऽक्षराणां च सर्वधर्माण लक्षणम् / दुर्विज्ञेयश्च घोषेण समाधिस्तेन चोच्यते // srs_13.30 //

अक्षया उपशान्ता च अनाभोगा अदर्शना / गोचरः सर्वबुद्धानां भूतकोटिरनाविला // srs_13.31 //

(वैद्य 82) सर्वबुद्धानियं शिक्षा सर्वधर्मस्वभावता / इह शिक्षित्व संबुद्धा गुणानां पारमिं गताः // srs_13.32 //

न संपारं न वापारं पूर्वान्तो न विकल्पितः / तेन ते सर्व संबुद्धा गुणानां पारमिं गताः // srs_13.33 //

अनागतानगतिकान् धर्मान् ज्ञात्वा स्वभावतः / निष्प्रपञ्चाननाभोगांस्तत्र ते पारमिं गताः // srs_13.34 // इति श्रीसमाधिराजे समाधिनिर्देशपरिवर्तस्त्रयोदशः ॥ 13 ॥ (वैद्य 83) 14 स्मितसंदर्शनपरिवर्तः ।

अथ खलु चन्द्रप्रभः कुमारभूत उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमेतदवोचत् - आश्चर्यं भगवन् यावत् सुभाषितेयं भगवता तथागतेनार्हता सम्यक्संबुद्धेन सर्वधर्मस्वभावसमता सर्वबोधिसत्त्वशिक्षासमाधिनिर्देशः । यथापि नाम भगवन् दीर्घरात्रमत्र शिक्षित्वा समुदागतो ऽनुत्तरायां सम्यक्संबोधौ । प्रतिभाति च मे भगवन्, प्रतिभाति च मे सुगत । भगवानाह - प्रतिभातु ते कुमार यस्येदानीं कालं मन्यसे । अथ खलु चन्द्रप्रभः कुमारभूतो भगवता कृतावकाशो भगवन्तं संमुखं सारूप्याभिर्गाथाभिरभ्यष्टावीत् -

दृष्ट्वान सत्त्वान् दुखितानुपद्रुतान् रागेण दोषेण सदाभिभूतान् / चित्तं त्वयोत्पादितु बोधिकारणादू बुद्धो भवेयं ति प्रजान मोचकाः // srs_14.1 //

चीर्णो ऽसि वीर्ये बहुकल्पकोटियो दाने दमे संयमि नित्यु शिक्षितः / शीले च क्षान्तौ तथ वीर्ये ऽतन्द्रितो दानं च दत्तं विपुलमनन्तकम् // srs_14.2 //

न चो तव मानसु जातु खिन्नं हस्तांश्च पादांस्त्यजमानु जीवितम् / हिरण्यसुवर्णं तथ पुत्रदारं राज्थं च त्यक्तमनपेक्ष भूत्वा // srs_14.3 //

शीलं तवाच्छं विमलं विशुद्धम् आत्मा च त्यक्तो न च शील खण्डितम् / कायेन वाचा मनसा सुसंवृता सुदान्तचित्ता सुगता नमो ऽस्तु ते // srs_14.4 //

क्षान्तीरताः क्षान्तिपथे प्रतिष्ठिताः काये कृते खण्ड पि नैव क्रुध्यसे / क्षीरं ततः प्रस्रवि मैत्रभावना आश्चर्यभूता सुगता नमो ऽस्तु ते // srs_14.5 //

(वैद्य 84) बलैरुपेता दशभिर्बलैः स्थिता असङ्गुज्ञानी विदि सर्वधर्मान् / करुणानि लोकहितकर धर्मस्वामिन् अनुकम्पसे प्रजा इम अर्थकामः // srs_14.6 //

शून्यं ति ज्ञानं न च पुनिहास्ति सत्त्वो लोकं च दृष्ट्व तथा ति प्रनष्टमार्गम् / विबोधितास्ते प्रकृतिनिरात्मधर्मे विमुक्तिजाता न च क्वचि सा विमुक्तिः // srs_14.7 //

प्रत्यादिशं जहिय सदा प्रमत्तं जित्वा च मारं सबलमनन्तसैन्यम् / बुद्धित्व बोधि विपुलामनन्तज्ञानं दिशेहि धर्मं परम विशुद्धशान्तम् // srs_14.8 //

गगनं पतेय्या सह शशितारकेहि पृथिवी विनश्येत् सनगरशैलसंस्था / आकाशधातुरपि च सियान्यथात्वं नो चैव तुभ्यं वितथ भणेय्य वाचा // srs_14.9 //

दृष्ट्वा त्वं दुःखितान् सत्त्वानुपलम्भरताः प्रजाः / अनोपलम्भं देशेसि गम्भीरां शान्तशून्यताम् // srs_14.10 //

शिक्षितो ऽसि महावीर कल्पकोटीरचिन्तिया / अनोपलम्भशिक्षायां स्खलितं ते न विद्यते // srs_14.11 //

यादृशे शिक्षितो धर्मे तादृशं धर्मु भाषसे / अभूमिरत्र बालानां यावन्त अन्यतीर्थिकाः // srs_14.12 //

ये स्थिता आत्मसंज्ञायां ते स्खलन्ति अविद्वसु / ज्ञात्वा धर्माण नैरात्म्यं स्खलितं ते न विद्यते // srs_14.13 //

भूतवादी महावीर भूतधर्मप्रतिष्ठितः / भूते सत्ये स्थितो नाथ भूतां वाचं प्रभाषसे // srs_14.14 //

भूता ते चारिका आसीद् यथा ते प्रणिधिः कृतः / तस्य भूतस्य निष्यन्दा भूतां वाचं प्रभाषसे // srs_14.15 //

भूतचर्यासु संपन्नो भूतकोटीसुशिक्षिता / भूताशया भूतचरी भूतप्रज्ञ नमो ऽस्तु ते // srs_14.16 //

(वैद्य 85) समस्ते प्रज्ञया नास्ति ज्ञानवादि प्रभाकर / ज्ञाने विशेषतां प्राप्त ज्ञानवादि नमो ऽस्तु ते // srs_14.17 //

मित्रस्त्वं सर्वसत्त्वानां मैत्री तव सुभाविता / अप्रकम्प्यो यथा मेरुरचलः सुप्रतिष्ठितः // srs_14.18 //

गणे सुविपुले शास्तुर्गणान् संपरिकर्षसि / गभीरप्रज्ञा सुगता नदसे परिषद्गता // srs_14.19 //

सिंहनादं नदि बुद्धः सिंहविक्रान्तविक्रमः / जितास्ते तीर्थिकाः सर्वे सिंहेन क्रोष्टुका यथा // srs_14.20 //

अदान्तदमको वीर अदान्ता दमितास्त्वया / ते च मित्रा दृढा भोन्ति अभेद्या भोन्ति सुस्थिताः // srs_14.21 //

दृष्ट्वा त्वं दुःखितान् सत्त्वानात्मदृष्टिसमाश्रितान् / नैरात्म्य धर्मं देशेमि यत्र नास्ति प्रियाप्रियम् // srs_14.22 //

अशिक्षितानां बालानां कुमार्गपथचारिणाम् / मार्गं त्वं संप्रकाशेसि येन गच्छन्ति नायकाः // srs_14.23 //

ये स्थिता आत्मसंज्ञायां दुःखे ते सुप्रतिष्ठिताः / न ते जानन्ति नैरात्म्यं यत्र दुःखं न विद्यते // srs_14.24 //

अखिलितपदधर्मदेशको ऽसि स्खलितु न लभ्यति लोकनाथ / अवितथ गिर संप्रभाषसे त्वं दुःखमोक्षकरा नमस्ते नाथ // srs_14.25 //

बहुनियुतशता सहस्रकोट्यो गगनस्थिताः पृथु देवनागयक्षाः / सर्विं स्पृह जनेन्ति नायकस्मिन् भगवतु वाच श्रुणित्व अर्थयुक्ताम् // srs_14.26 //

स्निग्धमृदुमनोज्ञकालयुक्तां सुमधुर वाच प्रणीत प्रेमणीयाम् / अपरिमितस्वराङ्गसंप्रयुक्तां हितकर मोक्षकरीं बहुजनस्य // srs_14.27 //

तुरियशतसहस्र अप्रमेया सुमधुर युक्त भवेयुरेककाले / (वैद्य 86) दिव्यस्वर विशिष्ट प्रेमणीया अभिभवति सुगतस्य एकवाचा // srs_14.28 //

द्विजगणकलविङ्कमञ्जुधोषाः सुरुचिर प्रेमणीयाः सुगीतशब्दाः / शङ्खपटहभेरिवीणशब्दाः कलमपि न लभन्तिः बुद्धशब्दे // srs_14.29 //

परभृतशुकशारिकाण शब्दास्तथ पुनः क्रौञ्चमयूरकिन्नराणाम् / रुत रवित य केचि प्रेमणीयाः कलमपि बुद्धस्वरस्य नानुभोन्ति // srs_14.30 //

प्रिय मधुर मनोज्ञ प्रेमणीयाः सुमधुर शान्तगिरा प्रशंसनीयाः / सर्वि गिर प्रयुक्त एककाले गिरवर हर्षणियास्तथागतस्य // srs_14.31 //

सुरमनुजनरेन्द्रदानवानां सकलभवे त्रिभवे य अस्ति सत्त्वाः / या प्रभा अभवत् प्रभाकराणां अभिभवति सुगतस्य एकरश्मिः // srs_14.32 //

कुसुमितु सुगतस्य आत्मभावः परिवृतु विचित्रु सर्वलक्षणैः / पुण्यशतनिर्वृतु अच्छ शुद्धः प्रतपति सर्वजगे जिनस्य कायः // srs_14.33 //

शङ्खान शब्द पणवसुघोषकाणां भेरीण शब्द तथपि च किम्पलानाम् / सर्वे च शब्द सुमधुर प्रेमणीया बुद्धस्य शब्दे शतिम कलां न भोन्ति // srs_14.34 //

तूर्याण कोटिनियुतसहस्रशब्दा आस्वादनीय सुमधुर दिव्यकल्पाः / प्रामोदनीय मरुगण अप्सराणां बुद्धस्य शब्दे शतिम कलां न भोन्ति // srs_14.35 //

(वैद्य 87) क्रौञ्चा मयूर परभृत चक्रवाका हंसाः कुणाला बहुविधपक्षिसंघाः / ये ते सशब्दाः सुमधुर एककाले बुद्धस्य शब्दे शतिम कलां न भोन्ति // srs_14.36 //

नागान यक्षाण असुरमहोरगाणां देवेन्द्रब्रह्ममरुपतीनां च शब्दाः / यावन्त शब्दास्त्रिभवे मनोज्ञ कान्ता बुद्धस्वरस्य कलमपि ते न भोन्ति // srs_14.37 //

या ब्रह्मणो वा मरुपतिनश्च आभा प्रभास्वराणां मणिरतनान आभाः / सर्वा य आभा विविधमनेकरूपाः सर्वास्त एका अभिभवि बुद्धरश्मिः // srs_14.38 //

कायेन शुद्धो वचसा मनेन चैव ज्ञानेन शुद्धस्त्रिभवि अनोपलिप्तः / गुणसारराशि गुणरतनो नरेन्द्रः सर्वगुणेहि असमसमः स्वयंभूः // srs_14.39 //

एवं स्तवित्वा दशबल सत्यवादिं वाचं प्रभाषि मुदितमनः कुमारः / पूजित्व बुद्धमतुलियमप्रमेयं बुद्धो भवेय यथ इव शाक्यसिंहः // srs_14.40 //

तस्यो विदित्वा सुगतु विशिष्ट चर्यामसङ्गज्ञानी स्मितमकरोन्नरेन्द्रः / मैत्रेयु पृच्छी दशबलज्येष्ठपुत्रं कस्यार्थि एतं स्मितु कृतु नायकेन // srs_14.41 //

आकम्पिताभूद्वसुमति षड्विकारं देवाश्च नाग गगनस्थिता उदग्राः / प्रेक्षन्ति बुद्धं प्रमुदित हृष्टचित्तास्तं व्याकरोहि सुगत अनाभिभूतः // srs_14.42 //

अभूमिरस्मि भगवतु श्रावकाणां यत्र प्रवृत्तं पुरुषवरस्य ज्ञानम् / सुविशुद्धज्ञानिन्ननुपमप्रज्ञभूमि अखिला ते स्मितु कृतु जिन कस्य अर्थे // srs_14.43 //

(वैद्य 88) पृच्छमि दशबलं विनायकं शाक्यसिंह द्विपदानमुत्तमम् / ज्ञानपारमिं गतं प्रभाकरं रागद्वेषखिलमोहसादकम् // srs_14.44 //

कल्पकोटि चरितो ऽसि नायको गङ्गवालुकसमास्ततोत्तरम् / एषमाणु वरबोधिमुत्तमां कस्य अर्थि स्मितु एतु दर्शितम् // srs_14.45 //

हस्तपाद परिकृत्त शास्तुना पुत्रदार प्रियज्ञाति बान्धवान् / एषमाणु वरज्ञानमुत्तमं को नु हेतु स्मितदर्शने मुने // srs_14.46 //

अश्वहस्तिरथपत्तियो त्वया दासदासिमणिरत्न रूप्यकम् / नैव द्रव्यरतनं च लभ्यते यन्न त्यक्तु चरता ति चारिकाम् // srs_14.47 //

ज्ञानु श्रेष्ठु त्रिभवे ऽतिवर्तते सर्वसत्त्वचरियां प्रजानसे / धातुचित्तु अधिमुक्तिकोविदा कस्य अर्थि स्मितु एतु दर्शितम् // srs_14.48 //

केन पूजित नराणमुत्तमाः कस्य वार्थ विपुलो भविष्यति / को च अस्य चरियाय ग्राहकः कस्य अर्थि स्मितु दर्शितं मुने // srs_14.49 //

षड्विकार पृथिवी प्रकम्पिता पद्मकोट्य धरणीतु उत्थिताः / कोटिपत्रपरमा प्रभास्वरा हेमवर्णरुचिरा मनोरमा // srs_14.50 //

यत्रिमे स्थित जिनस्य औरसा बोधिसत्त्व परमा महर्द्धिकाः / धर्मभाणक बहू समागतास्तेष कारुणिक पृच्छि नायकम् // srs_14.51 //

(वैद्य 89) भेरिशङ्खतुणवाः सुघोषकास्तूर्य कोटिनियुताः प्रवादिताः / तेष शब्द गगनस्मि श्रूयते यादृशः सुगतघोष अचिन्तियः // srs_14.52 //

हंसक्रौञ्चकलविङ्ककोकिलाः पक्षिसंघ बहुकाः समागताः / मुञ्चि घोष परमं प्रभास्वरं बुद्धघोषकल नानुभोन्ति ते // srs_14.53 //

केन दान दम संयमः पुरे कल्पकोटि बहुका निषेविताः / केन पूजित नराण उत्तमा कस्य अर्थि स्मितु एतु दर्शितम् // srs_14.54 //

केन पूर्वि द्विपदेन्द्रु पृच्छितो गौरवं परमु संजनित्वन / बुद्धबोधि कथमेष लभ्यते कस्य अर्थि स्मितु एतु दर्शितम् // srs_14.55 //

यात्तिका दशबला अतीतकाः प्रत्युत्पन्न सुगता अनागताः / सर्व जानसि नराणमुत्तमो तेन पृच्छमि प्रजाय कारणात् // srs_14.56 //

चित्तसंतति प्रजाय जानते सर्वि प्राणिन अनन्तगोचराः / यस्य यादृशु नरस्य आशयस्तेन पृच्छमि नराणमुत्तमम् // srs_14.57 //

ये चरन्ति चरियामनुत्तमां हेतुयुक्तिविनयस्मि कोविदाः / बुद्धज्ञान कथमेतु लभ्यते एतदर्थि द्विपदेन्द्रु पृच्छिहम् // srs_14.58 //

ये हि धर्म सुखुमाः सुदुर्दृशाः शून्य शान्त अतुला अचिन्तियाः / भाविता दशबलान गोचरास्तेष अर्थ अहु पृच्छि नायकम् // srs_14.59 //

(वैद्य 90) येष मैत्रि करुणा सुभाविता सर्वप्राणिषु जगे अचिन्तिया / सत्त्वसंज्ञ न च येष वर्तते तेष अर्थि द्विपदेन्द्रु पृच्छियाम् // srs_14.60 //

येष ज्ञानमतुलमचिन्तियं तेष ग्राह्य न कदाचि विद्यते / चित्तगोचरिय पारमिं गता तेष अर्थि अहु नाथ पृच्छमि // srs_14.61 //

शीलज्ञानगुणपारमिं गता त्र्यध्वज्ञानमतुलं भिवर्तते / नैव तुभ्य स्खलितूपलभ्यते कस्य अर्थि स्मितु एतु दर्शितम् // srs_14.62 //

शारिपुत्र अनिरुद्ध कोलिता ये च अन्य सुगतस्य श्रावकाः / नैव तेष इह ज्ञानु वर्तते बुद्धगोचरु अयं निरूत्तरः // srs_14.63 //

सर्वधर्मवशिपारमिं गताः सर्वशिक्षचरियाय उद्गताः / संजनेत्व करुणां विनायका मुञ्च घोष परमार्थकोविदा // srs_14.64 //

ये ऽपि पूर्व बहुकल्पकोटियो एव चिन्ति द्विपदेन्द्रु पृच्छितः / भष्यमग्रु शरणं परायणं तेष अद्य फल ब्रूहि नायका // srs_14.65 //

यक्षराक्षसकुम्भाण्डगुह्यकाः प्रेक्षमाण द्विपदानमुत्तमम् / सर्वि प्राञ्जलिस्थिताः सगौरवाः श्रोतु व्याकरणमग्रपुद्गलान् // srs_14.66 //

(वैद्य 91) बोधिसत्त्व बहवो ऽद्य आगता ऋद्धिमन्त बहुक्षेत्रकोटिभिः / जेष्ठपुत्र सुगतस्य औरसाः सर्वि प्राञ्जलिस्थिताः सगौरवाः // srs_14.67 //

गन्धहस्ति पुरिमादिशा गतो ऽक्षोभ्यक्षेत्र दिशि लोकविश्रुतः / बोधिसत्त्वनयुतैः पुरस्कृतः शाक्यसिंहु द्विपदेन्द्रु पृच्छना // srs_14.68 //

सुखावतीय वरलोकधातुतो महास्थाम प्राप्त अवलोकितेश्वरः / बोधिसत्त्वनयुतैः पुरस्कृतः शाक्यसिंहु द्विपदेन्द्रु पृच्छना // srs_14.69 //

येन पूर्व बहुकल्पकोटियो अप्रमेय सुगता उपस्थिताः / सागराण सकला च वालिका एषता परम ज्ञानमुत्तमम् // srs_14.70 //

सर्वबुद्धस्तुत संप्रशंसितः सर्वधर्मगुणपारमिं गतः / सर्वलोकदिशतासु विश्रुतो मञ्जुघोष स्थितु प्राञ्जलीकृतः // srs_14.71 //

बुद्धक्षेत्रनियुतैश्चरित्वना सुदुर्लभमीदृशकान दर्शनम् / बुद्धपुत्रगुणवत् सुशिक्षिताः सर्वि प्राञ्जलिस्थिताः सगौरवाः // srs_14.72 //

नास्ति अन्य इह कश्चि भाजनं एवरूपि यथ एत सूरताः / धर्मकोषधर सर्वशास्तुनां स्निग्धभाव गिर मुञ्च नायका // srs_14.73 //

न ह्यकारणक जिना विनायका दर्शयन्ति स्मितमग्रपुद्गलाः / मुञ्च घोषवर दुन्दुभिस्वर कस्य अर्थि स्मितु एतु दर्शितम् // srs_14.74 //

(वैद्य 92) हंसकोकिलमयूरसारसा मेघनाद वृषभाः प्रगर्जिताः / दिव्यवाद्यमधुराः प्रवादिता व्याकरोहि गिर सत्त्वमोचनी // srs_14.75 //

मैत्रसंजननि प्रेमवर्धनी ज्ञानदर्शनि अविद्यरिञ्चनी / अर्थतीरणि प्रज्ञाविवर्धनी कल्पकोटिनियुता विशोधनी // srs_14.73 //

विनिश्चितभावविभावितदुःखनिरोधपदार्थनिदर्शनी / सर्वकुतीर्थकवादध्वंसनी शून्य निसत्त्व निजीव विभावनि // srs_14.77 //

पुण्यसहस्रशतेहि अलंकृतः बुद्धसहस्रशतेहि चरित्विह / देवसहस्रशतेहि सुसंस्तुतः ब्रह्मसहस्रशतेहि नमस्कृतः // srs_14.78 //

राक्षसयक्षकुम्भाण्डप्रसादनि नागसुपर्णमहोरगमोचनि / नित्यमसक्तप्रयुक्तौदीरणि कर्मफलेहि शुभेहि समुद्गतः // srs_14.79 //

ये च केचि जिनाः परिनिर्वृता ये च अनागत ये च अवस्थिताः / सर्वि प्रजानसि सङ्गु न ते ऽस्तीति सर्वगुणेहि समुद्गत नायक // srs_14.80 //

भूतधरा ससमुद्रपर्वत सर्वि मही षड्विकार प्रकम्पिता / देवगणा नभि पुष्प क्षिपन्ति च दिव्यु प्रवायति गन्धु मनोरमु // srs_14.81 //

हतरागदोषतिमिरा निखिला परिशुद्धशील परिशुद्धमनाः / (वैद्य 93) प्रशान्त शून्य अनिमित्तरता नरसिंहनादु नद कारुणिका // srs_14.82 //

प्रतिभानवन्त सुविशालयशा सुसमाप्तप्रज्ञ तथज्ञान जिना / तव लोकि नास्ति समु कारुणिका भण कस्यु अर्थि स्मितु दर्शयसे // srs_14.83 //

कलविङ्ककोकिलमयूररवास्तथ जीवंजीवं जीवकमनोज्ञरुताः / रञ्जनीय शब्दु भुवि एकक्षणे कल तेन भोन्ति सुगतस्य स्वरे // srs_14.84 //

भेर्यो मृदङ्गपणवाश्च तथा शङ्ख सवेणु तथा वल्लरियो / तूर्यासहस्र सिय एकरवाः कल नानुभोन्ति सुगतस्य रुते // srs_14.85 //

तूर्यसहस्र वर दिव्यरुता रञ्जनीय गीत सिय अप्सरसाम् / सुगीति शब्दरति संजने कल न भोन्ति सुगतस्य रुते // srs_14.86 //

एकस्वरा तु तव लोकहिता नानाधिमुक्ति स्वरु निश्चरति / एकैकु मन्यि मम भाषि जिनो ब्रूहि स्मितं ति कृतु कस्य कृते // srs_14.87 //

देवान शब्द तथ नागरुता ये चापि किन्नररुता मधुराः / प्रशमेन्ति क्लेश न कदाचिदपि बुद्धस्वरास्तु सद क्लेशनुदाः // srs_14.88 //

प्रीतिं जनेति न च रागरतिं मैत्रीं जनेति न च दोषमतिम् / प्रज्ञां जनेति न च मोहरतिं बुद्धान सर्व मलनाशि स्वरः // srs_14.89 //

न बहि च शब्दु परिषातु प्रजा सर्वेष छिन्दति स काङ्क्षशतान् / (वैद्य 94) न च ओनतो न हि च औन्नमतो समसौख्यदर्शन स्वरो मुनिनः // srs_14.90 //

भज्यादियं मही सशैलरणा क्षीयते सागरजलं च तथा / चन्द्रो ऽथ सूर्यु धरणीं प्रपतेद् गिरमन्यथा न पुन भाषि जिनः // srs_14.91 //

सर्वाङ्गवाक्य परिशुद्धगिरा सिंहस्वरा मधुरमञ्जगिरा / ब्रह्मस्वरा सुगत कारुणिका भण कस्य अर्थि स्मितु दर्शयसे // srs_14.92 //

यावन्त सत्त्व इह सर्व जगे सर्वेष चित्त चरते कुशलः / ये अतीतनागत ये सांप्रतिका भण कस्य अर्थि स्मितु दर्शयसे // srs_14.93 //

यावन्त केचिज्जिन कारुणिका ज्ञानस्मि सर्वि वशि पारमिं गताः / न च ते जिना विमलचन्द्रमुखा नाहैतुकं स्मित सद दर्शयसे // srs_14.94 //

अपि कल्पकोटि भणि अप्रतिमा यथ गङ्गवालिक भणेय्य गुणान् / न च शक्यु कीर्तितु प्रमाणु गुणे भण कस्य अर्थि स्मितु दर्शयसे // srs_14.95 // इति श्रीसमाधिराजे स्मितसंदर्शनपरिवर्तश्चतुर्दशः ॥ 14 ॥ (वैद्य 95) 15 स्मितव्याकरणपरिवर्तः ।

अथ खलु भगवांस्तस्यां वेलायां मैत्रेयं बोधिसत्त्वं महासत्त्वमाभिः सारूप्याभिर्गाथाभिः प्रत्यभाषत -

चन्द्रप्रभो एष कुमारभूतः संस्तुत्य बुद्धमतुलीय प्रीतिया / भाषित्व बुद्धान विशिष्ट वर्णं प्रशंसनीयः सद कालि भेष्यति // srs_15.1 //

इहैव चो राजगृहस्मि पूर्वं दृष्ट्वैव बुद्धान सहस्रकोटयः / सर्वेष चानेन जिनान अन्तिके अयं वरः शान्तसमाधि पृच्छितः // srs_15.2 //

सर्वत्र चो एष ममासि पुत्रो इमां चरन्तो वरबोधिचारिकाम् / सर्वत्र चासीत् प्रतिभानवन्तः सर्वत्र चासीत् सद ब्रह्मचारी // srs_15.3 //

स पश्चिमे कालि महाभयानके त्वमेव साक्षी अजिता ममात्र / स्थिहित्व शुद्धे सद ब्रह्मचर्ये वैस्तारिकं एष समाधि काहिते // srs_15.4 //

समाधिमेषन्तु इदं प्रणीतं एतेन मार्गेण स बोधि लप्स्यते / परिगृहीतो बहुबुद्धकोटिभिः पूजां वरां काहिति नायकानाम् // srs_15.5 //

ज्ञाने स्थिहित्वा अहु व्याकरोमि चन्द्रप्रभस्याचरितं विशिष्टम् / न पश्चकाले ऽस्य भवे ऽन्तरायो न ब्रह्मचर्यस्य न जीवितस्य // srs_15.6 //

हस्ते यथा आमलकानि पञ्च प्रजानाति बुद्धसहस्रकोटयः / (वैद्य 96) तदुत्तरे यात्तिक गङ्गवालिका अनागता येष्विय पूजना होति // srs_15.7 //

देवान नागान अशीतिकोटयः यक्षाण चो कोटिसहस्र सप्ततिः / औत्सुक्यमेषन्ति य पश्चकाले पूजां करोन्ता द्विपदोत्तमानाम् // srs_15.8 //

स पूज कृत्वा द्विपदान उत्तमान् समुदाचरि ज्ञानमिमं निरुत्तरम् / स पश्चिमे चोच्छ्रयि लोकनाथो विमलप्रभो नाम जिनो भविष्यति // srs_15.9 //

इदं स्वकं व्याकरणं श्रुतित्वा प्रीतिस्फुटो आसि कुमारभूतः / चन्द्रप्रभो उद्गत सप्त ताल उदानुदानेति नभे स्थिहित्वा // srs_15.10 //

अहो जिना उत्तमधर्मदेशका विमुक्तिज्ञानाधिपतीबले स्थिता / सुनिश्चिते उत्तमज्ञानि तिष्ठसि अनाभिभूतो ऽसि परप्रवादिभिः // srs_15.11 //

विवर्जिता सङ्ग विमुक्ति स्पर्शिता विभावितं वस्तु भवे न सज्जसि / प्रपञ्च सर्वे सकला न भोन्ति ते असङ्गज्ञानं त्रिभवे ऽभिवर्तते // srs_15.12 //

सर्वप्रपञ्चेभिरनोपलिप्ता दृष्टिः प्रपञ्चाः सकलाः प्रहीणाः / सुभाविअते मार्ग निकेतु नास्ति अनाभिभूता अविरुद्ध केनचित // srs_15.13 //

निकेतु त्रैधातुकि नास्ति तुभ्यं ओघाश्च ग्रन्थाश्च प्रहीण सर्वे / तृष्णालताबन्धन सर्वि छिन्ना भव प्रहीणो भवसंघि नास्ति // srs_15.14 //

(वैद्य 97) स्वभावु धर्माणमभावु जानसे अनाभिलप्या गिर संप्रभाषसे / सिंहेन वा क्रोष्टुक तीर्थ नाशिता ये ते विपर्यासस्थिता अविद्वसु // srs_15.15 //

निधान श्रेष्ठं मयि लब्धमद्य धर्मं निधानं सुगतेन देशितम् / प्रहीण सर्वा विनिपातु दुर्गति काङ्क्षा न मेहास्ति भविष्य नायकः // srs_15.16 //

मूर्धस्मि पाणिं प्रतिस्थापयित्वा सुवर्णवर्णं रुचिरं प्रभास्वरम् / अभिषिञ्च बोधाय नरर्षभस्तं सदेवकं लोक स्थपेत्व साक्षिणम् // srs_15.17 // इति श्रीसमाधिराजे स्मितव्याकरणपरिवर्तो नाम पञ्चदशः ॥ 15 ॥ (वैद्य 98) 16 पूर्वयोगपरिवर्तः ।

स्मरामि पूर्वं चरमाणु चारिकां सिंहध्वजस्य सुगतस्य शासने / अभूषि भिक्षु विदु धर्मभाणको नामेन सो उच्यति ब्रह्मदत्तः // srs_16.1 //

अहं तदासीन्मति राजपुत्रो आबाधिको बाढ गिलान दुःखितः / मह्यं च सि आचरियो अभूषि यो ब्रह्मदत्तस्तद धर्मभाणकः // srs_16.2 //

पञ्चोत्तरा वैद्यशता अनूनका व्याधिं चिकित्सन्ति उद्युक्तमानसाः / व्याधिं न शक्नन्ति मम चिकित्सितुं सर्वे मम ज्ञातय आसि दुःखिताः // srs_16.3 //

श्रुत्वा च गैलान्यु स मह्य भिक्षु गिलानपृच्छो मम अन्तिकागतः / कृपां जनेत्वा मम ब्रह्मदत्तो इमं समाधिं वरु तत्र देशयी // srs_16.4 //

तस्य ममा एतु समाधि श्रुत्वा उत्पन्न प्रीति अरिया निरामिषा / स्वभावु धर्माण प्रजानमानो उच्छ्वासि व्याधी तुहु तस्मि काले // srs_16.5 //

दीपंकरः सो चरमाणु चारिकामभूषि भिक्षुर्विदु धर्मभाणकः / अहं च आसीन्मतिराजपुत्रः समाधिज्ञानेन हु व्याधि मोचितः // srs_16.6 //

तस्मात् कुमारा बहु पश्चकाले अनुस्मरन्तो इमु पारिहाणिम् / सहेसि बालान दुरुक्त वाक्यं धारेन्तु वाचेन्तु इमं समाधिम् // srs_16.7 //

(वैद्य 99) भेष्यन्ति भिक्षु बहु पश्चकाले लुब्धाश्च दुष्टाश्च असंयताश्च / पापेच्छ अध्योषित पात्रचीवरे प्रतिक्षिपिष्यन्ति इमं समाधिम् // srs_16.8 //

ईर्ष्यालुका उद्धत प्राकटेन्द्रियाः कुलेषु चाध्योषित लाभकामाः / प्रायोगिके संस्तवि नित्य संश्रिताः प्रतिक्षिपिष्यन्ति इमं समाधिम् // srs_16.9 //

हस्तांश्च पादांश्च तथ विद्यमाना हास्ये च लास्ये च सदा प्रयुक्ताः / परस्परं कण्ठित श्लिष्यमाणा ग्रामेषु चर्यापथि अन्यु भेष्यति // srs_16.10 //

अयुक्तयोगानिमि भोन्ति लक्षणाः परकुमारीषु च नित्य ध्योषिताः / रूपेण रक्ता ग्रथिता भवन्ति हिण्डन्ति ग्रामान्निगमांश्च राष्ट्रान् // srs_16.11 //

ते खाद्यपेयस्मि सदा प्रयुक्ता नाट्ये य गीते च तथैव वादिते / क्रयविक्रये चो सद भोन्ति उत्सुकाः पाने ऽपि चाध्योषित नष्टलज्जाः // srs_16.12 //

लेखान पिष्यन्ति अयुक्तयोगाः शीलं तथेर्यापथु छोरयित्वा / मर्याद भिन्दित्व गृहीभि सार्धं ते भिन्नवृत्ता वितथप्रतिष्ठिताः // srs_16.13 //

ये कर्म बुद्धेहि सदा विवर्जितास्तुलमानकूटे च सदा प्रयुक्ताः / तत्कर्म कृत्वान किलिष्टपापकान् अपायु यास्यन्ति निहीनकर्माः // srs_16.14 //

प्रभूतवित्तं मणिहेमशंखं गृहांश्च ज्ञातींश्च विहाय प्रव्रजि / (वैद्य 100) ते प्रव्रजित्वानिह बुद्धशासने पापानि कर्माणि सदाचरन्ति // srs_16.15 //

धने च धान्ये च ते सारसंज्ञिनो धेनूश्च गावः शकटानि सज्जयी / किमर्थ तेहि इम केश छोरिता शिक्षाय येषां प्रतिपत्ति नास्ति // srs_16.16 //

मया च पूर्वे चरियां चरित्वा सुदुष्करं कल्पसहस्र चीर्णम् / अयं च मे शान्त समाधिरेषितो यत्तेष श्रुत्वा तद हास्यु भेष्यति // srs_16.17 //

चिरं मृषावादि अब्रह्मचारिणो अपायनिम्नाः सद कामलाभाः / ते ब्रह्मचारीण ध्वजं गृहीत्वा दुःशील वक्ष्यन्ति न एष धर्मः // srs_16.18 //

भेदाय स्थास्यन्ति च ते परस्परं अयुक्तिभिर्लाभ गवेषमाणाः / अवर्ण भाषित्व त अन्यमन्यं च्युता गमिप्यन्ति अपायभूमिम् // srs_16.19 //

शतःसहस्रेषु सुदुर्लभास्ते क्षान्तीबलं येषु तदा भविष्यति / अतो बहू ये कलहस्मि उत्सुकाः प्रपञ्च काहिन्ति जहित्व क्षान्तिम् // srs_16.20 //

वक्ष्यन्ति वाचा वय बोधिसत्त्वाः शब्दो ऽपि तेषां व्रजि देशदेशे / अभूतशब्देन मदेन मत्ता विपन्नशीलान कुतो ऽस्ति बोधिः // srs_16.21 //

न मे श्रुतं नापि कदाचि दृष्टमध्याशयो यस्य विशुद्ध नास्ति / इमेषु धर्मेषु च नास्ति क्षान्तिः स लप्स्यते बोधि क्षिपित्व धर्मान् // srs_16.22 //

(वैद्य 101) भीताश्च त्रस्ताश्च गृहं त्यजन्ति ते प्रव्रजि दृढतरा भवन्ति / विशेषकामा विलयं प्रयान्ति क्षिपित्व यानं पुरुषोत्तमानाम् // srs_16.23 //

निहीनप्रज्ञा गुणविप्रहीना वक्ष्यन्ति दोषं सद अग्रयाने / यस्मै च ते तच्छरणं प्रपन्नास्तत्रैव ये दोषशतान् वदन्ति // srs_16.24 //

आजीवका ये बहु प्रव्रजित्वा अनर्थिकाः सर्वसुबुद्धबोधये / ते आत्मदृष्टीय स्थिहित्व बाला उत्त्रस्त भेष्यन्ति श्रुणित्व शून्यताम् // srs_16.25 //

विहारु कृत्वान त अन्यमन्यं व्यापाददोषांश्च खिलं जनेत्वा / अभ्याख्य दत्वा च परस्परेण लप्स्यन्ति प्रामोद्य करित्व पापकम् // srs_16.26 //

यः शीलवन्तो गुणवन्तु भेष्यति मैत्रीविहारी सद क्षान्तिकोविदः / सुसंवृतो मार्दवसूरतश्च परिभूत सो भेष्यति तस्मि काले // srs_16.27 //

यो खो पुनर्भेष्यति दुष्टचित्तः सुदारुणो रौद्रातिहीनकर्मा / अधर्मचारी कलहे रतश्च स पूजितो भेष्यति तस्मि काले // srs_16.28 //

आरोचयामि प्रतिवेदयामि सचेत् कुमारा मम श्रद्ध गच्छसि / इमां स्मरित्वा सुगतानुशासनीं मा जातु विश्वस्तु भवेसि तेषाम् // srs_16.29 //

ते तीव्ररागास्तथ तीव्रदोषास्ते तीव्रमोहाः सद मानमत्ताः / (वैद्य 102) अदान्तकायाश्च अदान्तवाचः अदान्तचित्ताश्च अपायनिम्नाः // srs_16.30 //

अहं च भाषेय्य गुणान वर्णान् न चो गुणान् भिक्षु समाचरेय्या / न घोषमात्रेण च बोधि लभ्यते प्रतिपत्तिसाराण न बोधि दुर्लभा // srs_16.31 // इति श्रीसमाधिराजे पूर्वयोगपरिवर्तो नाम षोडशः ॥ 16 ॥ (वैद्य 103) 17 बहुबुद्धनिर्हारसमाधिमुखपरिवर्तः ।

अथ खलु भगवांस्तां महतीं सागरोपमां पर्षदं धर्मकथया संदर्श्य समुत्तेज्य संप्रहर्ष्य समादाप्य उत्थायासनात् प्राक्रामत् । येन च गृध्रकूटपर्वतराजस्तेनैव उपसमक्रामत् । उपसंक्रम्य च प्रज्ञप्त एवासने न्यषीदत् । भिक्षुसंघपरिवृतो देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगमनुष्यामनुष्यनमस्कृतः सागरोपमायां पर्षदि धम संदेशयति स्म । अथ खलु चन्द्रप्रभः कुमारभूतो भगवन्तं निर्गतं विदित्वा अशीत्या प्राणिकोटीशतैः सार्धं सर्वैर्देवभूतैरन्यलोकधात्वागतैश्च संबहुलैर्बोधिसत्त्वमहासत्त्वनियुतैः सार्धं पुष्पधूपगन्धमाल्यविलेपनं गृहीत्वा तूर्यशतैर्वाद्यमानैश्छत्रध्वजघण्टापताकाभिरत्युच्छ्रिताभिः महामाल्याभिनिर्हारमादाय भगवतः पूजाकर्मणे येन गृध्रकूटपर्वतो येन च भगवांस्तेनोपजगाम । उपेत्य च भगवतः पादौ शिरसाभिवन्द्य भगवन्तं त्रिः प्रदक्षिणीकृत्य तैः पुष्पधूपगन्धमाल्यविलेपनैस्तूर्यतालावचरैः प्रवाद्यमानैर्महतीं पूजां कृत्वा एकान्ते न्यषीदत् सगौरवः सप्रतीशो धर्मपरिपृच्छायै ॥

अथ खलु चन्द्रप्रभः कुमारभूतो भगवन्तमेतदवोचत् - पृच्छेयमहं भगवन्तं तथागतमर्हन्तं सम्यक्संबुद्धं कंचिदेव प्रदेशं सचेन्मे भगवानवकाशं कुर्यात् पृष्टप्रश्नव्याकरणाय । एवमुक्ते भगवांश्चन्द्रप्रभं कुमारभूतमेतदवोचत् - पृच्छ त्वं कुमार तथागतमर्हतं सम्यक्संबुद्धं यद् यदेवाकाङ्क्षसि । नित्यकृतस्ते कुमार तथागतेनावकाशः । एवमुक्ते चन्द्रप्रभः कुमारभूतो भगवन्तमेतदवोचत् - कतिभिर्भगवन् धर्मैः समन्वागतो बोधिसत्त्वः इमं सर्वधर्मस्वभावसमताविपञ्चितं समाधिं प्रतिलभते? एवमुक्ते भगवांश्चन्द्रप्रभं कुमारभूतमेतदवोचत् - चतुर्भिः कुमार धर्मैः समन्वागतो बोधिसत्त्वः इमं सर्वधर्मस्वभावसमताविपञ्चितं समाधिं प्रतिलभते । कतमैश्चतुर्भिः? इह कुमार बोधिसत्त्वो महासत्त्वः सूरतो भवति सुविसंवासो दान्तो दान्तभूमिमनुप्राप्तः । स परैराक्रुष्टो वा परिभाषितो वा दुरुक्तानां दुर्भाषितानां वचनपथानां क्षमो भवत्यधिवासनजातीयः कर्मदर्शी निहतमानो धर्मकामः । अनेन कुमार प्रथमेन धर्मेण समन्वागतो बोधिसत्त्वो महासत्त्वः इमः समाधिं प्रतिलभते । पुनरपरं कुमार बोधिसत्त्वो महासत्त्वः शीलवान् भवति । परिशुद्धशीलः (वैद्य 104) अखण्डशीलः अच्छिद्रशीलः अशबलशीलः अकल्मषशीलः अच्युतशीलः अनाविलशीलः अगर्हितशीलः अभ्युद्गतशीलः अनिश्रितशीलः अपरामृष्टशीलः अनुपलम्भशीलः आर्यप्रशस्तशीलो विज्ञप्रशस्तशीलः । अनेन कुमार द्वितीयेन धर्मेण समन्वागतो बोधिसत्त्वो महासत्त्वः इम समाधिं प्रतिलभते । पुनरपरं कुमार बोधिसत्त्वो

महासत्त्वस्त्रैधातुके उत्त्रस्तचित्तो भवति संत्रस्तचित्तो निर्विण्णचित्तो निःसरणचित्तः । अनर्थिकः अनभिरतः अनध्यवसितः अनभिषक्तः । सर्वत्रैधातुके उद्विग्नमानसः । अन्यत्र त्रैधातुकात् सत्त्वानि मोचयिष्यामीति व्यायमते । समुदागच्छत्यनुत्तरायां सम्यक्संबोधौ । अनेन कुमार तृतीयेन धर्मेण समन्वागतो बोधिसत्त्वो महासत्त्व इमं समाधिं प्रतिलभते । पुनरपरं कुमार बोधिसत्त्वो महासत्त्वः श्राद्धो भवति । अतृप्तो भवति धर्मपर्येष्ट्याम् । बहुश्रुतो भवति । विशारदो भवति । धर्मकामश्च धर्मगुरुकः । न लाभसत्कारश्लोकगुरुको न ज्ञानगुरुकः । यथाश्रुतांश्च धर्मान् यथापर्यवाप्तान् परेभ्यश्च विस्तरेण देशयति संप्रकाशयति हितवस्तुपूर्वगमेन चित्तेन न ज्ञात्रलाभकामनया । अपि तु खलु पुनः किमितीमे सत्त्वा इमान् धर्मान् श्रुत्वा अविनिवर्तनीया भवेयुरनुत्तरायाः सम्यक्संबोधेरिति । अनेन कुमार चतुर्थेन धर्मेण समन्वागतो बोधिसत्त्वो महासत्त्वः इमं समाधिं प्रतिलभते ॥

एभिः कुमार चतुर्भिर्धर्मैः समन्वागतो बोधिसत्त्वो महासत्त्व इमं सर्वधर्मस्वभावसमताविपञ्चितं समाधिं प्रतिलभते क्षिप्रं चानुत्तरां सम्यक्संबोधिभभिसंबुध्यते । तदनेनापि ते कुमार पर्यायेणैवं वेदितव्यं यथायं समाधिर्बहुबुद्धदेशितो बहुबुद्धवर्णितो बहुबुद्धसंप्रकाशितो बहुबुद्धप्रविचितः । बहूनां च बुद्धानां भगवतामन्तिकान्मया प्रव्रजित्वा अयं कुमार सर्वधर्मस्वभावसमताविपञ्चितः समाधिर्विस्तरेण श्रुत उद्गृहीतः पृष्टो धारितो वाचितः प्रवर्तितो ऽरणभावनया भावितो बहुलीकृतः परेभ्यश्च विस्तरेण संप्रकाशितः । अथ खलु भगवानिममेव बहुबुद्धनिर्हारसमाधिमुखं पूर्वयोगकथानिर्देशं भूयस्या मात्रया तस्यां वेलायां चन्द्रप्रभस्य कुमारभूतस्य विस्तरेण गाथाभिगीतेन संप्रकाशयति स्म -

स्मरामि कल्पे ऽतुलियाप्रमेये यदा जिनो आसि स्वराङ्गघोषः / स्वराङ्गघोषस्य तथागतस्य वर्षं शता षष्टि अभूषि आयुः // srs_17.1 //

तस्यानु बुद्धो परिमेण आसीत् ज्ञानेश्वरो नाम नराणमुत्तमः / ज्ञानेश्वरस्य द्विपदोत्तमस्य वर्षं सहस्रा दश द्वौ च आयुः // srs_17.2 //

ज्ञानेश्वरस्यापि परेण बुद्धो तेजेश्वरो नाम जिनो अभूषि / (वैद्य 105) तेजेश्वरस्य द्विपदोत्तमस्य षट्सप्तती वर्षसहस्र आयुः // srs_17.3 //

तेजेश्वरस्योपरतेन बुद्धो मतीश्वरो नाम जिनो अभूषि / मतीश्वरस्य द्विपदोत्तमस्य वर्षाण कोटी परिपूर्ण आयुः // srs_17.4 //

मतीश्वरस्योपरतेन बुद्धो ब्रह्मेश्वरो नाम जिनो अभूषि / ब्रह्मेश्वरस्य द्विपदोत्तमस्य चतुर्दशो वर्षसहस्र आयुः // srs_17.5 //

ब्रह्मेश्वरस्योपरतेन बुद्धो अग्नीश्वरो नाम जिनो अभूषि / अग्नीश्वरस्य द्विपदोत्तमस्य षष्टिस्तदा वर्षसहस्र आयुः // srs_17.6 //

अग्नीश्वरस्योपरतेन बुद्धो ब्रह्माननो नाम जिनो अभूषि / ब्रह्माननस्य द्विपदोत्तमस्य रात्रिंदिवा सप्त अभूषि आयुः // srs_17.7 //

ब्रह्माननस्योपरतेन बुद्धो गणेश्वरो नाम जिनो अभूषि / गणेश्वरस्य द्विपदोत्तमस्य षड्वर्षकोट्यः परिपूर्ण आयुः // srs_17.8 //

गणेश्वरस्योपरतेन बुद्धो घोषेश्वरो नाम जिनो अभूषि / घोषेश्वरस्य द्विपदोत्तमस्य नववर्षकोट्यः परिपूर्ण आयुः // srs_17.9 //

घोषेश्वरस्योपरतेन बुद्धो घोषाननो नाम जिनो अभूषि / घोषाननस्य द्विपदोत्तमस्य दशवर्षकोट्यः परिपूर्ण आयुः // srs_17.10 //

(वैद्य 106) घोषाननस्योपरतेन बुद्धश्चन्द्राननो नाम जिनो अभूषि / चन्द्राननस्य द्विपदोत्तमस्य रात्रिंदिवा एक अभूषि आयुः // srs_17.11 //

चन्द्राननस्योपरतेन बुद्धः सूर्याननो नाम जिनो अभूषि / सूर्याननस्य द्विपदोत्तमस्य अष्टादशो वर्षसहस्र आयुः // srs_17.12 //

सूर्याननस्योपरतेन बुद्धो ब्रह्माननो नाम जिनो अभूषि / ब्रह्माननस्य द्विपदोत्तमस्य त्रिविंशति वर्षसहस्र आयुः // srs_17.13 //

ब्रह्माननस्योपरतेन बुद्धो ब्रह्मश्रवो नाम जिनो अभूषि / ब्रह्मश्रवस्य द्विपदोत्तमस्य अष्टादशो वर्षसहस्र आयुः // srs_17.14 //

एकस्मि कल्पस्मि इमे उपन्ना दुवे शते लोकविनायकानाम् / श्रुणोहि नामानिह कीर्तयिष्ये अनाभिभूतान् तथागतानाम् // srs_17.15 //

अनन्तघोषश्च विघुष्टघोषो विघुष्टतेजश्च विघुःटशब्दः / स्वराविघुष्टश्च स्वरार्चितश्च स्वराङ्गशूरश्च स्वराङ्गशब्दः // srs_17.16 //

ज्ञानाबलो ज्ञानविशेषगश्च ज्ञानाभिभूर्ज्ञानसमुद्गतश्च / ज्ञानार्चिमान् ज्ञानअभ्युद्गतश्च विघुष्टज्ञानस्तथ ज्ञानशूरः // srs_17.17 //

ब्रह्माबलो ब्रह्मवसुः सुब्रह्म ब्रह्मा च देवस्तथ ब्रह्मघोषः / (वैद्य 107) ब्रह्मेश्वरो ब्रह्मनरेन्द्रनेत्रे ब्रह्मस्वराङ्गः स्वरब्रह्मदत्तः // srs_17.18 //

तेजोबलस्तेजवतिः सुतेजाः तेजेश्वरस्तेजसमुद्रतश्च / तेजोविभुस्तेजविनिश्चितश्च । तेजस्वरेन्द्रः सुविघुष्टतेजाः // srs_17.19 //

भीष्मो बलो भीष्ममतिः सुभीष्मो भीष्माननो भीष्मसमुद्रतश्च / भीष्मार्चि र्भीष्मोत्तरु र्भीष्मघोषा एते जिना लोकविनायका ऽभूत् // srs_17.20 //

गम्भीरघोषः शिरिधारणश्च विशुद्धघोषेश्वरु शुद्धघोषः / अनन्तघोषः सुविमुक्तघोषो मारो बलो मारवित्रासनश्च // srs_17.21 //

सुनेत्र शुद्धाननु नेत्रशुद्धो विशुद्धनेत्रश्च अनन्तनेत्रः / समन्तनेत्रश्च विघुष्टनेत्रो नेत्राभिभूर्नेत्र अनिन्दितश्च // srs_17.22 //

दान्तोत्तरो दान्त सुदान्तचित्तः सुदान्त शान्तेद्रिय शान्तमानसः / शान्तोत्तरः शान्तशिरी प्रशान्तः शान्तीय पारंगतु शान्तिशूरः // srs_17.23 //

स्थितोत्तरः शान्त सुदान्तचित्तः सुदान्तशान्तेन्द्रियु शान्तमानसः / शान्तोत्तरः शान्तश्रिया ज्वलन्तः शान्तप्रशान्तेश्वरु शान्तिशूरः // srs_17.24 //

गणेन्द्र गणमुख्यु गणेश्वरश्च गणाभिभूर्गणिवर शुद्धज्ञानी / महागणेन्द्रश्च गणेन्द्रशूरो अन्यो पुनो गणिवर प्रमोचकः // srs_17.25 //

धर्मध्वजश्चो तथ धर्मकेतुः धर्मोत्तरो धर्मस्वभाव उद्गतः / (वैद्य 108) धर्मबलश्चैव सुधर्मशूरः स्वभावधर्मोत्तरनिश्चितश्च // srs_17.26 //

स्वभावधर्मोत्तरनिश्चितस्य अशीतिकोट्यः सहनामधेयाः / द्वितीयकल्पस्मि उत्पन्न नायका एते मया पूजित बोधिकारणात् // srs_17.27 //

स्वभावधर्मोत्तरनिश्चितस्य यो नामधेयं शृणुते जिनस्य / श्रुत्वा च धारेति विघुष्ट नाम स क्षिप्रमेतं लभते समाधिम् // srs_17.28 //

एतेष बुद्धान् परेण अन्यो अचिन्तिये अपरिमितस्मि कल्पे / अभूषि बुद्धो नरदेवपूजितः स नामधेयेन नरेन्द्रघोषः // srs_17.29 //

नरेन्द्रघोषस्य तथागतस्य षट्सप्तती वर्षसहस्रमायुः / त्रयश्च कोटीशत श्रावकाणां यः सन्निपातः प्रथमो अभूषि // srs_17.30 //

षडभिज्ञ त्रैविद्य जितेन्द्रियाणां महानुभावान महर्द्धिकानाम् / क्षीणास्रवाणान्तिमदेहधारिणां संघस्तदा आसि प्रभाकरस्य // srs_17.31 //

अशीति कोटीनियुता सहस्रा यो बोधिसत्त्वान गणो अभूषि / गम्भीरबुद्धीन विशारदानां महानुभावान महर्द्धिकानाम् // srs_17.32 //

अभिज्ञप्राप्ताः प्रतिभानवन्तो गतिगताः सर्वित शुन्यतायाः / ऋद्धीय गच्छन्ति ते क्षेत्रकोटियो ततोत्तरे यात्तिक गङ्गवालुकाः // srs_17.33 //

(वैद्य 109) पृच्छित्व प्रश्नं द्विपदाननुत्तमान् पुनेन्ति तस्यैव जिनस्य अन्तिके / सूत्रान्तनिर्हारनिरुक्तिकोविदा आलोकभूता विचरन्ति मेदिनीम् // srs_17.34 //

सत्त्वानमर्थाय चरन्ति चारिकां महानुभावाः सुगतस्य पुत्राः / न कामहेतोः प्रकरोन्ति पापं देवा पि तेषां स्पृह संजनेन्ति // srs_17.35 //

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.