Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 1/7

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa

समाधिराजसूत्र

Thông tin
GRETIL — P.L. Vaidya, Darbhanga: The Mithila Institute, 1961 (Buddhist Sanskrit Texts, 2.).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

समाधिराजसूत्र

सर्वधर्मस्वभावसमताविपञ्चित-समाधिराजसूत्रम् ।

1 निदानपरिवर्तः ।

एवं मया श्रुतम् । एकस्मिन् समये भगवान् राजगृहे विहरति स्म गृध्रकूटे पर्वते महता भिक्षुसंघेन सार्धं परिपूर्णेन भिक्षुनियुतशतसहस्रेण अशीत्या च बोधिसत्त्वनियुतैः सार्धम् । सर्वैरकजातिप्रतिबद्धैरभिज्ञाभिज्ञातैर्दशदिग्लोकधातुसंनिपतितैर्धारणीसूत्रान्तगतिं गतैः सर्वसत्त्वधर्मदानसंतोषकैर्महाभिज्ञाज्ञानोदाहारकुशलैः सर्वपारमितापरमपारमिताप्राप्तैः सर्वबोधिसत्त्वसमाधिसमापत्तिव्यवस्थानज्ञानकुशलैः सर्वबुद्धस्तुतस्तोभितप्रशस्तैः सर्वबुद्धक्षेत्रव्याक्रमणकुशलैः सर्वमारसंत्रासनज्ञानकुशलैः सर्वधर्मयथावज्ज्ञानकुशलैः सर्वसत्त्वेन्द्रियपरापरज्ञानकुशलैः बुद्धसर्वकर्मपूजासमादानप्रज्ञानकुशलैः सर्वलोकधर्मानुपलिप्तैः कायवाक्चित्तसमलंकृतैः महामैत्रीमहाकरुणासंनाहसंनद्धैः महावीर्यासंख्येयकल्पापरिक्षीणमानसैः महासिंहनादनादिभिः सर्वपरप्रवादानभिभूतैः अवैवर्तिकमुद्रामुद्रितैः सर्वबुद्धधर्माभिषेकप्राप्तैः । तद्यथा - मेरुणा च नाम बोधिसत्त्वेन महासत्त्वेन । सुमेरुणा च । महामेरुणा च । मेरुशिखरिंधरेण च । मेरुप्रदीपराजेन च । मेरुकूटेन च । मेरुध्वजेन च । मेरुगजेन च । मेरुशिखरे संघट्टनराजेन च । मेरुस्वरेण च । मेघराजेन च । दुन्दुभिस्वरेण च । रत्नपाणिना च । रत्नाकरेण च । रत्नकेतुना च । रत्नशिखरेण च । रत्नसंभवेन च रत्नप्रभासेन च । रत्नयष्टिना च । रत्नमुद्राहस्तेन च । रत्नव्यूहेन च । रत्नजालिना च । रत्नप्रभेण च । रत्नद्वीपेण च । रतिंकरेण च । धर्मव्यूहेन च । व्यूहराजेन च । लक्षणसमलंकृतेन च ।

स्वरव्यूहेन च । स्वरविशुद्धिप्रभेण च । रत्नकूटेन च । रत्नचूडेन च । दशशतरश्मिकृतार्चिषा ज्योति रसेन च । चन्द्रभानुना च । सहचित्तोत्पादधर्मचक्रप्रवर्तिना च । शुभकनकविशुद्धिप्रभेण च । सततमभयंददानेन च नाम बोधिसत्त्वेन महासत्त्वेन । अजितबोधिसत्त्वपूर्वंगमैश्च सर्वैर्भद्रकल्पिकैर्बोधिसत्त्वैर्महासत्त्वैः । मञ्जुश्रीपूर्वंगमैश्च षष्टिभिरनुपमचित्तैः । भद्रपालपूर्वंगमैश्च षोडशभिः सत्पुरुषैः । चतुर्महाराजपूर्वंगमैश्च चातुर्महाराजकायिकैर्देवपुत्रैः । पेयालम् । यावद् ब्रह्मपूर्वंगमैश्च ब्रह्मकायिकैर्देवपुत्रैस्तदन्यैश्च महेशाख्यमहेशाख्यैरुदारोदारैर्देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगमनुष्यामनुष्यैर्भगवान् (वैद्य 2) सत्कृतो गुरुकृतो मानितः पूजितो ऽर्चितो ऽपचायितश्चतसृणामपि पर्षदां सदेवलोकस्य लोकस्य वन्दनीयः पूजनीयो नमस्करणीयः । तत्र खलु भगवाननेकशतसहस्रया पर्षदा परिवृतः पुरस्कृतो धर्मं देशयति स्म आदौ कल्याणं मध्ये कल्याणं पर्यवसाने कल्याणम् । स्वर्थं सुव्यञ्जनं केवलं परिपूर्णं परिशुद्धं पर्यवदातं ब्रह्मचर्यं संप्रकाशयति स्म ॥

तेन खलु पुनः समयेन तस्मिन्नेव पर्षत्संनिपाते चन्द्रप्रभो नाम कुमारभूतः संनिपतितो ऽभूत् संनिषण्णः पूर्वजिनकृताधिकारो ऽवरोपितकुशलमूलो जातिस्मरो लब्धप्रतिभानो महायानसंप्रस्थितो महाकरुणाभियुक्तः । अथ खलु चन्द्रप्रभः कुमारभूत उत्थायासनादेकांसमुत्तरासङ्गं प्रावृत्य दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमेतदवोचत् - पृच्छेयमहं भगवन्तं तथागतमर्हन्तं सम्यक्संबुद्धं कंचिदेव प्रदेशम्, सचेन्मे भगवानवकाशं कुर्यात् पृष्टप्रश्नव्याकरणाय । एवमुक्ते भगवान् चन्द्रप्रभं कुमारभूतमामन्त्रयते स्म - पृच्छ त्वं कुमारभूत तथागतमर्हन्तं सम्यक्संबुद्धं यद् यदेव काङ्क्षसि । अहं तस्य तस्यैव प्रश्नस्य पृष्टस्य व्याकरणेन चित्तमाराधयिष्यामि । सर्वज्ञो ऽस्मि सम्यक्संबुद्धः कुमार सर्वदर्शी सर्वधर्मबलवैशारद्यवृषभतामनुप्राप्तो ऽनावरणविमोक्षज्ञानसमन्वागतः । नास्ति कुमार तथागतस्य सर्वधर्मेष्वज्ञातं वा अदृष्टं वा अश्रुतं वा अविदितं वा असाक्षात्कृतं वा अनभिसंबुद्धं वा अनन्तापर्यन्तेषु लोकधातुषु । नित्यकृतस्ते कुमार अवकाशो भवतु तथागतं प्रश्नपरिपृच्छनाय । अहं ते तस्य तस्यैव प्रश्नस्य पृष्टस्य व्याकरणेन चित्तमाराधयिष्यामि ॥

अथ खलु चन्द्रप्रभः कुमारभूतस्तुष्ट उदग्र आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजातस्तस्यां वेलायां भगवन्तं गाथाभिरध्यभाषत -

कथं चरन्तः संबुद्ध लोकनाथ प्रभंकर / लभते ऽचिन्तियं ज्ञानं व्याकुरुष्व हितंकर // srs_1.1 //

कथं चरन्तु नरेन्द्र सत्यवादि नरवृषभ नरदेवपूजनीय / अतुलियु वरु लब्धमग्रयाणं गिरवर पृष्ट वियाकुरुष्व नाथ // srs_1.2 //

अध्याशयेन पृच्छामि शाठ्यं मम न विद्यते / साक्षी न कश्चिदन्यो मे अन्यत्र पुरुषोत्तमात् // srs_1.3 //

विपुल प्रणिधि मह्यमस्ति छन्दश्चरिय प्रजानसि मह्य शाक्यसिंह / न च अहं वचनवित्तको भविष्ये लघु प्रतिपत्ति भणाहि मे नरेन्द्र // srs_1.4 //

(वैद्य 3) कतराहारका धर्मा बुद्धयाने बहुंकराः / व्याकुरुष्व महावीर सर्वधर्माण पारग // srs_1.5 //

उपकरे धर्म मम ब्रूहि नाथ यथ नरु निषेवतु भोति तीक्ष्णप्रज्ञः । अपगतभयभैरवो अत्रस्तो न च परित्यागु करोति शीलस्कन्धात् / व्यपगतमदरागदोषमोहश्चरति च चारिक सर्वशान्तदोषः // srs_1.6 //

कथं न त्यजते शीलं कथं ध्यानं न रिञ्चति / कथं निषेवते ऽरण्यं कथं प्रज्ञा प्रवर्तते // srs_1.7 //

कथं दशबलशासने उदारे अभिरति विन्दति शील रक्षमाणः / कथं भवति अच्छिद्रु शीलस्कन्धः कथं च तुलेति स्वभावु संस्कृतस्य // srs_1.8 //

कथं कायेन वाचा परिशुद्धो भोति पण्डितः / असंक्लिष्टेन चित्तेन बुद्धज्ञानं निषेवते // srs_1.9 //

कथं भवति विशुद्धकायकर्मा कथं च विवर्जित भोन्ति वाचदोषाः / कथं भवति असंक्लिष्टचित्तः पुरुषवर मम पृष्ट व्याकुरुष्व // srs_1.10 //

अथ खलु भगवांश्चन्द्रप्रभं कुमारभूतमेतदवोचत् - एकधर्मेण कुमार समन्वागतो बोधिसत्त्वो महासत्त्व एतान् गुणान् प्रतिलभते, क्षिप्रं चानुत्तरां सम्यक्संबोधिमभिसंबुध्यते । कतमेनैकधर्मेण? इह कुमार बोधिसत्त्वो महासत्त्वः सर्वसत्त्वेषु समचित्तो भवति हितचित्तो ऽप्रतिहतचित्तो ऽविषमचित्तः । अनेन कुमार एकधर्मेण समन्वागतो बोधिसत्त्वो महासत्त्व एतान् गुणान् प्रतिलभते क्षिप्रं चानुत्तरां सम्यक्संबोधिमभिसंबुध्यते ॥

अथ खलु भगवांस्तस्यां वेलायां चन्द्रप्रभं कुमारभूतं गाथाभिरध्यभाषत - (वैद्य 4)

एकधर्मं समादाय बोधिसत्त्वो य वर्तते / एतान् गुणान् स लभते क्षिप्रं बोधिं च बुध्यते // srs_1.11 //

न च कश्चि प्रतिहन्यते ऽस्य चित्तम् अप्रतिहतचित्तु यो भोति बोधिसत्त्वः / न च खिलु जनयति न प्रदोषं लभति यथा परिकीर्तितान् विशेषान् // srs_1.12 //

समं चित्तं निषेवित्वा विपाको दर्शितः समः / समाः पादतला भोन्ति समश्चाचारगोचरः // srs_1.13 //

सममविषमचित्तु भावयित्वा अपगतदोषखिलः प्रहीणकाङ्क्षः / चरणवरतलाः समास्य भोन्ति परमप्रभास्वर शुद्धदर्शनीयः // srs_1.14 //

दशदिशित विरोचि बोधिसत्त्वः स्फुरति शिरीय प्रभाय बुद्धक्षेत्रम् / यद भवति स लब्धु शान्तभूमि तद बहुसत्त्व स्थपेति बुद्धज्ञाने // srs_1.15 //

तत्र कुमार सर्वसत्त्वेषु समचित्तो बोधिसत्त्वो महासत्त्वो हितचित्तो ऽप्रतिहतचित्तो ऽविषमचित्तं इमं सर्वधर्मस्वभावसमताविपञ्चितं नाम समाधिं प्रतिलभते । कतमश्च स कुमार सर्वधर्मस्वभावसमताविपञ्चितं नाम समाधिः प्रतिलभते । कतमश्च स कुमार सर्वधर्मस्वभावसमताविपञ्चितो नाम समाधिः? यदुत कायसंवरः । वाक्संवरः । मनःसंवरः । कर्मपरिशुद्धिः । आलम्बनसमतिक्रमः । स्कन्धपरिज्ञा । धातुसमता । आयतनापकर्षः । तृष्णाप्रहाणम् । अनुत्पादसाक्षात्क्रियावतारः । हेतुदीपना । कर्मफलाविप्रणाशः । धर्मदर्शनम् । मार्गभावना । तथागतसमवधानम् । तीक्ष्णप्रज्ञता । सत्यानुप्रवेशः । धर्मज्ञानम् । प्रतिसंविदवतारज्ञानम् । अक्षरपदप्रभेदज्ञानम् । वस्तूनां समतिक्रमः । घोषपरिज्ञा । प्रामोद्यप्रतिलाभः । धर्मप्रीत्यनुभवनता । आर्जवता । मार्दवता । ऋजुकता । अकुटिलता विगतभृकुटिता । सुरतता । सुशीलता । साखिल्यम् । माधुर्यम् । स्मितमुखता । पूर्वाभिलापिता । एहीति स्वागतवादिता । अनालस्यम् । गुरुगौरवता । गुरुशुश्रूषा । उपपत्तिसंतुष्टिः । शुक्लधर्मातृप्तता । आजीवविशुद्धिः । अरण्यवासानुत्सर्गः । भूमिव्यवस्थानज्ञानम् । स्मृतेरविप्रणाशः । स्कन्धकौशल्यम् । धातुकौशल्यम् । आयतनकौशल्यम् । अभिज्ञासाक्षात्क्रियावतारः । क्लेशापकर्षणम् । वासनानुसंघिसमुद्धातः । ज्ञानविशेषगामिता । भावनानिष्यन्दः । आपत्तिव्युत्थानकौशल्यम् । पर्युत्थानविष्कम्भणम् । अनुशयप्रहाणम् । (वैद्य 5) भवसमतिक्रमः । जातिस्मरता । निष्काङ्क्षता । कर्मविपाके धर्मचित्तता । श्रुतपर्येष्टिज्ञानतीक्ष्णता । ज्ञानतृष्णा ।

ज्ञानानुबोधः । आजानेयभूमिः । शैलोपमचित्तता । अकम्प्यता । अचलता । अविनिवर्तनीयभूमिव्यवस्थानज्ञानम् । कुशलधर्मनिष्यन्दः । पापधर्मजुगुप्सनता । असमुदाचारता क्लेशानाम् । शिक्षाया अपरित्यागः । समाधिव्यवस्थानम् । आशयज्ञानम् । सत्त्वेषूपपत्तिविशेषज्ञानम् । समताज्ञानम् । वचनप्रतिसंधिज्ञानम् । गृहावासपरित्यागः । त्रैधातुके ऽनभिरतिः । अनवलीनचित्तता । धर्मेष्वनभिनिवेशः । सद्धर्मपरिग्रहः । धर्मगुप्तिः । कर्मविपाकप्रत्ययनता । विनयकौशल्यम् । अधिकरणव्युपशमः । अविग्रहः । अविवादः । क्षान्तिभूमिः । क्षान्तिसमादानम् । गतिसमता । धर्मप्रविचयकौशल्यम् । प्रव्रज्याचित्तम् । धर्मविनिश्चयकौशल्यम् । धर्मपदप्रभेदज्ञानम् । धर्मपदाभिनिर्हारकौशल्यम् । अर्थानर्थसंभेदपदनिर्हारकौशल्यज्ञानम् । पूर्वान्तज्ञानम् । अपरान्तज्ञानम् । प्रत्युत्पन्नज्ञानम् । त्र्यध्वसमताज्ञानम् । त्रिमण्डलपरिशुद्धिज्ञानम् । कायावस्थानज्ञानम् । चित्तावस्थानज्ञानम् । ईर्यापथरक्षणम् । ईर्यापथविकोपनम् । ईर्यापथविकल्पनम् । ईर्यापथप्रासादिकता । अर्थानर्थकौशल्यज्ञानम् । युक्तभाणिता । लोकज्ञता । मुक्तत्यागिता । प्रततपाणिता । अनवगृहीतचित्तता । ह्रीव्यपत्रपिता । अकुशलचित्तजुगुप्सनता । धूतगुणानुत्सर्गः । चारित्रसमादानम् । प्रियसमुदाचारता । गुरूणां प्रत्युत्थानासनप्रदानता । माननिग्रहः । चित्तसंप्रग्रहः । चित्तसमुत्पादज्ञानम् । अर्थप्रतिवेधज्ञानम् । ज्ञानप्रतिवेधज्ञानम् । ज्ञानानुबोधः । अज्ञानविगमः । चित्तप्रवेशज्ञानम् । चित्तस्वभावानुबोधज्ञानम् । आहारनिर्हारकौशल्यज्ञानम् । सर्वरुतज्ञानम् । निरुक्तिव्यवस्थानज्ञानम् ।

अर्थविनिश्चयज्ञानम् । अनर्थविवर्जनम् । सत्पुरुषसमवधानम् । सत्पुरुषसंसेवनता । कापुरुषविवर्जनम् । ध्यानानां निष्पादनम्, तत्र चानास्वादनम् । अभिज्ञाविकुर्वणम् । नामसंकेतप्रज्ञप्तिस्वभावावतारज्ञानम् । प्रज्ञप्तिसमुद्धातः । संस्कारेषु निर्वेदः । सत्कारेष्वनभिलाषः । असत्कारेषूपेक्षा । लाभे ऽनर्थिकता । अलाभे ऽनवलीनता । यशस्यनभिलाषः । अयशस्यप्रतिघः । प्रशंसायामनुनयः । निन्दायामविषादः । सुखे ऽनभिष्वङ्गः । दुःखे ऽवैमुख्यम् । संस्काराणामनादानता । भूतवर्णे ऽसङ्गः । अभूतवर्णे ऽधिवासनता । गृहस्थप्रव्रजितैरसंस्तवः । अगोचरविवर्जनम् । गोचरप्रचारः । आचारसंपत् । अनाचारविवर्जनता । कुलानामदूषणता । शासनस्यारक्षणता । अल्पभाषणता । मितभाषणता । प्रतिवचनकौशल्यम् । प्रत्यर्थिकनिग्रहः । कालप्रतिक्रमणता । अकालविवर्जनता । पृथग्जनेष्वविश्वासः । दुःखितानामपरिभवनता, तेभ्यश्च धनप्रदानम् । दरिद्राणामनवसादनता । दुःशीलेष्वनुकम्पा । हितवस्तुता । कृपाबुद्धिता । धर्मेणानुग्रहः । आमिषपरित्यागः । असंचयस्थापिता । (वैद्य 6) शीलप्रशंसनता । दौःशील्यकुत्सनता । शीलवतामशाठ्यसेवनता । सर्वस्वपरित्यागिता । अध्याशयनिमन्त्रणता । यथोक्तकारिता । अभीक्ष्णप्रयोगिता । सत्कृत्य प्रीत्यनुभवनता । दृष्टान्तज्ञानम् । पूर्वयोगकौशल्यम् । कुशलमूलपूर्वंगमता । उपायकौशल्यम् । निमित्तप्रहाणम् । संज्ञाविवर्तः । वस्तूनां परिज्ञा । सूत्रान्ताभिनिर्हारः । विनयकौशल्यम् । सत्यविनिश्चयः । विमुक्तिसाक्षात्क्रियावतारः । एकांशवचनप्रव्याहारता । यथावज्ज्ञानदर्शनानुत्सर्जनम् । निष्काङ्क्षवचनता

। शून्यताया आसेवनता । अनिमित्तनिषेवणता । अप्रणिहितस्वभावोपलक्षणता । वैशारद्यप्रतिलम्भः । ज्ञानेनावभासः । शीलदृढता । समापत्त्यवतारः । प्रज्ञाप्रतिलम्भः । एकारामता । आत्मज्ञता । अल्पज्ञानता । संतुःटिः । चित्तस्यानाविलता । दृःटिकृतविवर्जनता । धारणीप्रतिलम्भः । ज्ञानावतारः । स्थानास्थानप्रस्थानप्रतिपत्तिज्ञानम् । हेतुयुक्तिनयद्वारम् । कारणम् । मार्गः । प्रतिपत्तिः । संदेशः । अववादः । अनुशासनी । चर्या । आनुलोमिकी क्ःआन्तिः । क्ःआन्तिभूमिः । अक्ःआन्तिविगमः । ज्ञानभूमिः । अज्ञानप्रहाणम् । ज्ञानप्रतिःठानम् । योगाचारभूमिः । बोधिसत्त्वगोचरः । सत्पुरुःअसेवना । असत्पुरुःअविवर्जना । सर्वधर्मस्वभावानुबोधप्रतिवेधज्ञानम् । तथागतेनाख्याता बुद्धभूमिः । पण्डितैरनुमोदिता । बालैः प्रतिक्ःइप्ता । दुर्विज्ञेया श्रावकैः । आज्ञाता प्रत्येकबुद्धैः । अभूमिस्तीर्थिकानाम् । बोधिसत्त्वैः । परिगृहीता । दशबलैरनुबद्धा । देवैः पूजनीया । ब्रह्मणा वन्दनीया । शक्रैरधिगमनीया । नागैर्नमस्करणीया । यक्ःऐरनुमोदनीया । किन्नरैः स्तोतव्या । महोरगैः प्रशंसनीया । बोधिसत्त्वैर्भावनीया । पण्डितैः पर्यवाप्तव्या । धनमनुत्तरम् । दानं निरामिःअम् । भैःअज्यं ग्लानानाम् । मोदिता शान्तचित्तानाम् । कोशो ज्ञानस्य । अक्ःअयः प्रतिभानस्य । नयः सूत्रान्तानाम् । विगमः कोशस्य । विःअयः शूराणाम् । परिज्ञा त्रैधातुकस्य । कोलः पारगामिनाम् । नौरोघमध्यगतानाम् । कीर्तिर्यशस्कामानाम् । वर्णो बुद्धानाम् । प्रशंसा तथागतानाम् । स्तवो दशबलानाम् । गुणो बोधिसत्त्वानाम् । उपेक्ःआ कारुणिकानाम् । मैत्री दोःअं शमयितुकामानाम् । मुदिता प्रशान्तचारिणाम् । आश्वासो

महायानिकानाम् । प्रतिपत्तिः सिंहनादनादिनाम् । मार्गो बुद्धज्ञानस्य । मोक्ःअः सर्वसत्त्वानाम् । मुद्रा सर्वधर्माणाम् । आहारिका सर्वज्ञानस्य । उद्यानं सर्वबोधिसत्त्वानाम् । वित्रासनं मारसेनायाः । विद्या क्ःएमगामिनाम् । अर्थः सिद्धार्थानाम् । परित्राणममित्रमध्यगतानाम् । प्रत्यर्थिकनिग्रहः सह धर्मेण । सत्याकरो वैशारद्यानाम् । भूते पर्येःटिर्बालानाम् । पूर्वनिमित्तमःटादशानामावेणिकानां बुद्धधर्माणाम् । अलंकारो धर्मकायस्य । निःयन्दश्चर्यायाः । आभरणं बुद्धपुत्राणाम् । रतिर्मोक्ःअकामानाम् । प्रीतिर्ज्येःठपुत्राणाम् । परिपूरिर्बुद्धज्ञानस्य । अभूमिः सर्वश्रावकप्रत्येकबुद्धानाम् । विशुद्धिश्चित्तस्य । परिशुद्धिः कायस्य । परिनिःपत्तिर्विमोक्ःअमुखानाम् । असंक्लेशो बुद्धज्ञानस्य । अनागमो रागस्य (वैद्य 7) । विगमो द्वेःअस्य । अभूमिर्मोहस्य । आगमो ज्ञानस्य । उत्पादो विद्यायाः । प्रहाणमविद्यायाः । तृप्तिर्विमुक्तिसाराणाम् । तुःटिः समाधिसाराणाम् । चक्ःउर्द्रःटुकामानाम् । अभिज्ञा विकुर्वितुकामानाम् । ऋद्धिरभिनिर्हर्तुकामानाम् । धारणी श्रुतार्थिकानाम् । स्मृतेरसंप्रमोःअः । अधिःठानं बुद्धानाम् । उपायकौशल्यं नायकानाम् । सूक्ःमं दुर्विज्ञेयमनभियुक्तानाम् । अज्ञेयममुक्तैः । विवर्ताक्ःअराणां दुर्विज्ञेयं घोःएण । आज्ञातं विज्ञैः । ज्ञातं सूरतैः । प्रतिविद्धमल्पेच्छैः । उद्गृहीतमारब्धवीर्यैः । धृतं स्मृतिमद्भिः । क्ःअयो दुःखस्य । अनुत्पादः सर्वधर्माणाम् । एकनयनिर्देशः सर्वभवगत्युपपत्त्यायतनानाम् । अयं स कुमार उच्यते सर्वधर्मस्वभावसमताविपञ्चितो नाम समाधिः ॥

अस्मिन् खलु पुनः सर्वधर्मपर्याये समाधिनिर्देशे भगवता भाष्यमाणे अशीतेर्नयुतानां देवमानुषिकायाः प्रजायाः पूर्वपरिकर्मकृताया अनुत्पत्तिकेषु धर्मेषु क्षान्तेः प्रतिलम्भो ऽभूत् । षण्णवतेश्च नयुतानामानुलोमिकायाः क्षान्तेः प्रतिलम्भो ऽभूत् । त्रिणवतेर्नयुतानां घोषानुगायाः क्षान्तेः प्रतिलम्भो ऽभूत् । परिपूर्णस्य भिक्षुशतसहस्रस्य अनुपादायास्रवेभ्यश्चित्तानि विमुक्तानि । षष्टेश्च प्राणिशतसहस्राणां देवमानुषिकायाः प्रजाया विरजो विगतमलं धर्मेषु धर्मचक्षुर्विशुद्धम् । अशीतेश्च भिक्षुसहस्राणामनुपादायास्रवेभ्यश्चितानि विमुक्तानि । पञ्चभिश्चोपासकशतैरनागामिफलं प्राप्तम् । षष्ट्या चोपासिकाशतैः सकृदागामिफलं प्राप्तम् । अयं च त्रिसाहस्रमहासाहस्रो लोकधातुः षड्विकारं कम्पितः प्रकम्पितः संप्रकम्पितः । चलितः प्रचलितः संप्रचलितः । वेधितः प्रवेधितः संप्रवेधितः । क्षुभितः प्रक्षुभितः संप्रक्षुभितः । रणितः प्ररणितः संप्ररणितः । गर्जितः प्रगर्जितः संप्रगर्जितः । पूर्वा दिगवनमति पश्चिमा दिगुन्नमति । पश्चिमा दिगवनमति पूर्वा दिगुन्नमति । उत्तरा दिगवनमति दक्षिणा दिगुन्नमति । दक्षिणा दिगवनमति उत्तरा दिगुन्नमति । अन्तादवनमति मध्यादुन्नमति । अन्तादुन्नमति मध्यादवनमति । अप्रमेयस्य चावभासस्य लोके प्रादुर्भावो ऽभूत् । सर्वश्च लोकधातुः सदेवकश्च समारकः सब्रह्मकः सश्रमणब्राह्मणिकाः प्रजास्तेनावभासेनावभासिताः स्फुटा अभूवन् । इमौ च चन्द्रसूर्यौ एवंमहर्द्धिकौ एवंमहानुभावौ एवंमहेशाख्यौ न भासतो न तपतो न विरोचतः । या अपि लोकान्तरिका अन्धकारतमिस्राः, ता अपि तेनावभासेन स्फुटा अभूवन् । ये ऽपि तासूपपन्नाः सत्त्वाः, ते ऽप्यन्योन्यं संजानते स्म । एवं चाहुः - अन्यो ऽपि किल भो अयं सत्त्व इहोपपन्नः । यावदवीचेर्महानरकादिति ॥

इति श्रीसमाधिराजे निदानपरिवर्तो नाम प्रथमः ॥

(वैद्य 8) 2 शालेन्द्रराजपूर्वयोगपरिवर्तो द्वितीयः ।

अथ खलु भगवांस्तस्यां वेलायां चन्द्रप्रभस्य कुमारभूतस्य एतदेव पूर्वयोगपरिवर्तं भूयस्या मात्रया गाथाभिगीतेन विस्तरेण संप्रकाशयति स्म -

स्मरति दशबलान षष्टिकोटी पुरिमभवे निवसिंसु गृध्रकूटे / पुरि मम चरमाणु बोधिचर्यामिम वरशान्त समाधि देशयिंसु // srs_2.1 //

तेषां पश्चिमको आसील्लोकनाथः प्रभंकरः / शालेन्द्रराज नामेन स मया परिपृच्छितः // srs_2.2 //

अहं च क्षत्रियो आसं राजश्रेष्ठो महीपतिः / मंम चो शत पुत्राणां पञ्चाभूवन्ननूनकाः // srs_2.3 //

कोटीमया विहारणां तस्य बुद्धस्य कारिता / चन्दनस्य विशिष्टस्य केचिद्रत्नमया अभूत // srs_2.4 //

प्रियो मनापश्च बहुजनस्य भीष्मोत्तरो नाम अभूषि राजा / अकार्षि बुद्धस्य विशिष्टपूजा अष्टादशवर्षसहस्रकोट्यः // srs_2.5 //

जिनस्य तस्य द्विपदोत्तमस्य शालेन्द्रराजस्य विनायकस्य / षटूसप्ततिवर्षसहस्रकोटियो आयुस्तदा आसि अनिन्दितस्य // srs_2.6 //

नियुतान्तशीतिसहस्र श्रावकाणां त्रैविद्य षडभिज्ञ जितेन्द्रियाणाम् / क्षीणास्रवाणान्तिमदेहधारिणां संघस्तदा आसि नरोत्तमस्य // srs_2.7 //

(वैद्य 9) बहुप्रकारा मयि तस्य पूजा कृता जिनस्य द्विपदोत्तमस्य / अर्थाय लोकस्य सदेवकस्य इमं समाधिं प्रतिकाङ्ता सदा // srs_2.8 //

सपुत्रदारेण मि प्रव्रजित्वा शालेन्द्रराजस्य जिनस्य अन्तिके / चतुर्दशवर्षसहस्रकोटियो अयं समाधिः परिपृच्छितो मया // srs_2.9 //

अशीति गाथा नियुता सहस्राण्यन्ये च कोटीशत बिम्बराणाम् / तस्योद्गृहीतः सुगतस्य अन्तिकादितः समाधेः परिवर्त एषः // srs_2.10 //

हस्ता शिरा भार्य तथैव पुत्रा रत्नं प्रभूतं तथ खाद्यभोज्यम् / न किंचि द्रव्यं मि न त्यक्तपूर्वम् इम समाधिं प्रतिकाङ्क्षता वरम् // srs_2.11 //

स्मरामि बुद्धान सहस्रकोटियो तदुत्तरे यत्तिक गङ्गवालुकाः / येहि स्थिहित्वा इह गृध्रकूटे अयं समाधिर्वरु शान्त देशितः // srs_2.12 //

सर्वे च शाक्यर्षभनामघेयाः सर्वेषु चो राहुल नाम पुत्राः / आनन्दनामा परिचारकाश्च कपिलाह्वयाः प्रव्रजिताश्च सर्वे // srs_2.13 //

अग्रेयुगं कोलितशारिपुत्रा समनाम सर्वे च अभूषि तायिनः / समनामिका चो तद लोकधातुः सर्वे ऽपि चोत्पन्न कषायकाले // srs_2.14 //

(वैद्य 10) सर्वे मया सत्कृत ते नरेन्द्रा इमां चरन्तेन मि बोधिचारिकाम् / यावन्ति चो काचि जिनान पूजा सर्वा कृता एतु समाधिमेषता // srs_2.15 //

प्रतिपत्तिय एष समाधि लभ्यते बहुप्रकारा प्रतिपत्तिरुक्ता / गुणेषु सर्वेषु प्रतिष्ठितस्य न दुर्लभस्तस्य समाधिरेषः // srs_2.16 //

रसेष्वगृध्रस्य अलोलुपस्य कुलेष्वसक्तस्य अनीर्षुकस्य / मत्रीविहारस्य अमत्सरस्य न दुर्लभस्तस्य समाधिरेषः // srs_2.17 //

सत्कारलाभेषु अनर्थिकस्य आजीवशुद्धस्य अकिंचनस्य / विशुद्धशीलस्य विशारदस्य न दुर्लभस्तस्य समाधिरेषः // srs_2.18 //

आरब्धवीर्यस्य अतन्द्रितस्य रण्याधिमुक्तस्य धुते स्थितस्य / नैरात्म्यक्षान्तीय प्रतिष्ठितस्य न दुर्लभस्तस्य समाधिरेषः // srs_2.19 //

सुदान्तचित्तस्य अनुद्धतस्य ईर्याय चर्याय प्रतिष्ठितस्य / त्यागाधिमुक्तस्य अमत्सरस्य न दुर्लभस्तस्य समाधिरेषः // srs_2.20 //

अनुव्यञ्जनलक्षणा बुद्धधर्मा ये ऽष्टादशा कीर्तित नायकेन / बलाविशारद्य न तस्य दुर्लभा धारेति यः शान्तमिमं समाधिम् // srs_2.21 //

(वैद्य 11) बुद्धेन ये चक्षुष दृष्ट सत्त्वास्त एककालस्मि भवेयु बुद्धाः / तेषैक एकस्य भवेयुरायुः अचिन्तियाकल्पसहस्रकोटियः // srs_2.22 //

तेषैक एकस्य शिरो भवेयुः सर्वु समुद्रेषु यथैव वालुकाः / यावन्ति ते सर्व शिरो भवेयुः शिरे शिरे जिह्व भवेयु तात्तिकाः // srs_2.23 //

ते तस्य सर्वे भणि आनुशंसा यो गाथ धारेय्य इतः समाधितः / न किंचिमात्रं परिकीर्तितं भवेत् किं वा पुनर्यो हि शिक्षित्व धारये // srs_2.24 //

धूतान् समादाय गुणांश्च वर्तते स्पृहेन्ति देवासुरयक्षगुह्यकाः / राजान भोन्ति अनुयात्रु तस्य धारेति यः शान्त समाधि दुर्लभम् // srs_2.25 //

परिगृहीतो भवति जिनेभिर्देवाश्च नागाः सद आनुयात्राः / प्रत्यर्थिकास्तस्य श्रिय नो सहन्ति धारेति यः शान्त समाधि दुर्लभम् // srs_2.26 //

अनन्तु तस्य प्रतिभानु भोति अनन्त सूत्रान्तसहस्र भाषते / न तस्य विष्ठा नु कदाचि भोति धारेति यः शान्तमिमं समाधिम् // srs_2.27 //

द्रक्ष्यन्ति बुद्धममिताभु नायकं सुखावतीं चाप्यथ लोकधातुम् / ये पश्चिमे कालि महाभयानके समाधि श्रुत्वा इमु धारयेयुः // srs_2.28 //

(वैद्य 12) प्रकाशयित्वा इमु आनुशंसा अध्येषते शास्तु स्वयं स्वयंभूः / परिनिर्वृतस्य मम पश्चिकाले समाधि धारेथ इमं विशुद्धम् // srs_2.29 //

ये केचि बुद्धा दशसु दिशासु अतीतकाले ऽपि च प्रत्युत्पन्नाः / सर्वे जिना अत्र समाधिशिक्षिता बुध्यन्ति बोधिं विरजामसंस्कृताम् // srs_2.30 //

इति श्रीसमाधिराजे शालेन्द्रराज(पूर्वयोग)परिवर्तो नाम द्वितीयः ॥

(वैद्य 13) 3 भूतगुणवर्णप्रकाशनपरिवर्तः ।

तत्र भगवान् पुनरपि चन्द्रप्रभं कुमारभूतमामन्त्रयते स्म - तस्मात्तर्हिं कुमार यो बोधिसत्त्वो महासत्त्व आकाङ्क्षति तथागतस्यार्हतः सम्यक्संबुद्धस्य भूतं बुद्धगुणवर्णं संप्रकाशयितुं नो चार्थतो वा व्यञ्जनतो वा पर्यादानं गन्तुं सर्वं च मे वचनं बुद्धपरिगृहीतं निश्चरितुमिति, तेन कुमार बोधिसत्त्वेन महासत्त्वेन सर्वसत्त्वानामर्थाय अयं समाधिरुद्ग्रहीतव्यः पर्यवाप्तव्यो धारयितव्यो वाचयितव्यः प्रवर्तयितव्यः उद्देष्टव्यः स्वाध्यातव्यः अरणाभावनया भावयितव्यो बहुलीकर्तव्यः परेभ्यश्च विस्तरेण संप्रकाशयितव्यः । कतमे च ते कुमार तथागतस्य भूता बुद्धगुणाः? इह कुमार बोधिसत्त्वो महासत्त्वो ऽरण्यगतो वा वृक्षमूलगतो वा अभ्यवकाशगतो वा शून्यागारमध्यगतो वा एवं प्रतिसंशिक्षते - एवं स भगवांस्तथागतो ऽर्हन् सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान् । निष्यन्दः स तथागतः पुण्यानाम् । अविप्रणाशः कुशलमूलानाम् । अलंकृतः क्षान्त्या । आगमः पुण्यनिधानानाम् । चित्रितो ऽनुव्यञ्जनैः । कुसुमितो लक्षणैः । प्रतिरूपो गोचरेण । अप्रतिकूलो दर्शनेन । अभिरतिः श्रद्धाधिमुक्तानाम् । अनभिभूतः प्रज्ञया । अनवमर्दनीयो बलैः । शास्ता सर्वसत्त्वानाम् । पिता बोधिसत्त्वानाम् । राजा आर्यपुद्गलानाम् । सार्थवाह आदिकर्मिकाणाम् । अप्रमेयो ज्ञानेन । अनन्तः प्रतिभानेन । विशुद्धःस्वरेण । आस्वादनीयो घोषेण । असेचनको रूपेण । अप्रतिसमः कायेन । अलिप्तः कामैः । अनुपलिप्तो रूपैः । असंसृष्ट आरूप्यैः । विमुक्तो दुःखेभ्यः । विप्रमुक्तः

स्कन्धेभ्यः । विसंयुक्तो धातुभिः । संवृत आयतनैः । प्रतिच्छन्नो ग्रन्थैः । विमुक्तः परिदाहैः । परिमुक्तस्तृष्णायाः । ओघादुत्तीर्णः । परिपूर्णो ज्ञानेन । प्रतिष्ठितो ऽतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां ज्ञाने । अप्रतिष्ठितो निर्व्ःणे । स्थितो भूतकोट्य्ःम् । स्थितः सर्वसत्त्वोल्लोकनीय्ःय्ःं भूमौ । इमे ते कुम्ःर तथ्ःगतस्य भूत्ः बुद्धगुण्ःः । एभिर्बुद्धगुणवर्णैः समन्व्ःगतो बोधिसत्त्वो मह्ःसत्त्व इमं सम्ःधिम्ःगम्य अन्ःच्छेद्येन प्रतिभ्ःनेन तथ्ःगतस्य्ःहतः सम्यक्संबुद्धस्य भूतं बुद्धगुणवर्णं संप्रक्ःशयन् नो च्ःर्थतो नो व्यञ्जनतश्च पर्य्ःद्ःनं गच्छति । सर्वं च्ःस्य वचनं बुद्धपरिगृहीतं निश्चरति ॥

अथ भगवांस्तस्यां वेलायामिमा गाथा अभाषत -

न सुकरु जिनवर्ण सर्वि वक्तुं बहुमपि कल्पसहस्र भाषमाणैः / (वैद्य 14) तथ गुण समुदानिता जिनेभिः इमु वरु शान्त समाधिमेषमाणैः // srs_3.1 //

परमसु-अभिरूपदर्शनीयाः कन्य अलंकृतगात्र प्रेमणीयाः / दत्त पुरि अदीनमानसेन इमु वरु शान्त समाधिमेषता मे // srs_3.2 //

तथ मयि धनधान्यदासिदासा तथ मणिमुक्तिसुवर्णरूप्यकं च / त्यक्त मयि अदीनमानसेन इमु वरु शान्त समाधिमेषता मे // srs_3.3 //

मणिरतनविचित्रमुक्तहारा रुचिर पु वसन शङ्खसुवर्णसूत्रा / त्यक्त मयि पुरा विनायकेषु इमु वरु शान्त समाधिमेषता मे // srs_3.4 //

अपरिमित अनन्त कल्पकोट्यः परमसुगन्धिक वार्षिकाश्च / त्यक्त मयि जिनान चेतियेषु परमनिरुत्तरु चित्तु संजनित्वा // srs_3.5 //

तथरिव मयि दत्तु धर्मदानं पर्षगतेन जनित्व चित्रिकारम् / न च मम समुत्पन्न जातु चित्तं सिय मम ज्ञात्रु ददित्व धर्मदानम् // srs_3.6 //

एत गुण समुदानितुं मि पूर्वा वन वरु सेवित नित्यमल्पशब्दम् / कृपबहुलु भवामि नित्यकालं सद मम चित्तु लभेय बुद्धज्ञानम् // srs_3.7 //

न च मम क्वचिदाग्रहो अभूषि प्रियतरवस्तुन आत्मनो ऽपि भोक्तुम् / (वैद्य 15) ददमि अहु प्रभूत देयधर्मं सद मम चित्तु लभेय बुद्धज्ञानम् // srs_3.8 //

अखिलमधुरसंविभागशीलः स्मितवदनः श्रुतिधारि स्निग्धघोषः / सुमधुरवचनः प्रियो बहूनां जन मम सर्वि अतृप्त दर्शनेन // srs_3.9 //

क्षणमपि च न मत्सरी भवामि भवनियुतेन न जातु ईर्ष्यमासीत् / सद अहु परितृप्त पिण्डपाते सकल निमन्त्रण वर्जितान्यशेषा // srs_3.10 //

बहुश्रुत श्रुतधारि ये भवन्ति गाथ इतो धरये चतुष्पदां पि / ते मयि सद सत्कृता अभूवन् परम निरुत्तर प्रेम संजनित्वा // srs_3.11 //

बहुविधमनन्त दानु दत्तं तथपि च रक्षितु शीलु दीर्घरात्रम् / पूज बहु कृता विनायकेषु इमु वरु शान्त समाधिमेषता मे // srs_3.12 //

पृथु विविध अनन्त लोकधातून् मणिरतनैः परिपूर्य दानु दद्यात् / इतु धरयि समाधितश्च गाथाम् इमु तत्पुण्य विशिष्यते उदारम् // srs_3.13 //

यावत् पृथु केचिदस्ति पुष्पा तथरिव गन्ध मनोरमा उदाराः / तेहि जिनु महेय्य पुण्यकामा बहुमपि कल्प अनन्त अप्रमेयान् // srs_3.14 //

यावत् पृथु केचिदस्ति वाद्या तथ बहु भोजन अन्नपानवस्त्राः / तेहि जिनु महेय्य पुण्यकामा बहुमपि कल्प अनन्त अप्रमेयान् // srs_3.15 //

(वैद्य 16) यश्च नरु जनित्व बोधिचित्तम् अहु जिनु भेष्यु स्वयंभु धर्मराजः / गाथमिमु धरे समाहितैकां ततो विशिष्यते पुण्यमुदारम् // srs_3.16 //

यावत पृथु गङ्गवालिकाः स्युस्तावत कल्प भणेय आनुशंसा / न च परिक्षय शक्यु कीर्त्यमाने बहुतर पुण्यसमाधि धारयित्वा // srs_3.17 //

तस्मात्तर्हि कुमार बोधिसत्त्वेन् महासत्त्वेन उद्ग्रहीतव्यो धारयितव्यो वाचयितव्यः पर्यवाप्तव्यः । उद्गृह्य धारयित्वा वाचयित्वा पर्यवाप्य अरणाभावनायोगमनुयुक्तेन च भवितव्यम् । तद् भविष्यति बहुजनहिताय बहुजनसुखाय लोकानुकम्पायै महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च । अथ खलु भगवास्तस्यां वेलायामिमा गाथा अभाषत -

तस्माच्छ्रुत्वेति बुद्धानामानुशंसान् सुभद्रकान् / क्षिप्रमुद्दिशथा एतं समाधिं बुद्धवर्णितम् // srs_3.18 //

त्रिसप्ततिबुद्धकोट्यः पूर्वजातिषु सत्कृताः / सर्वेहि तेहि बुद्धेहि इदं सूत्रं प्रकाशितम् // srs_3.19 //

महाकरुणजेतारमिदं सूत्रं निरुच्यते / बाहुश्रुत्यस्मि शिक्षित्वा बुद्धधर्मा न दुर्लभाः // srs_3.20 //

भेष्यन्ति पश्चिमे काले निर्वृते लोकनायके / बहु असंयता भिक्षु बाहुश्रुत्ये अनर्थिकाः // srs_3.21 //

शीलस्य वर्णं वक्ष्यन्ति शीलेन च अनर्थिकाः / समाधिवर्णं वक्ष्यन्ति समाधिय अनर्थिकाः // srs_3.22 //

प्रज्ञाय वर्णं वक्ष्यन्ति प्रज्ञाय च अनर्थिकाः / विमुक्त्या बहु भाषन्ते विमुक्त्या च अनर्थिकाः // srs_3.23 //

चन्दनस्य यथा कश्चिद् भाषते पुरुषो गुणान् / ईदृशं चन्दनं नाम गन्धजातं मनोरमम् // srs_3.24 //

अथान्यः पुरुषः कश्चिदेवं पृच्छेत तं नरम् / गृहीत चन्दनं किंचिद् यस्य वण प्रभाषसे // srs_3.25 //

(वैद्य 17) स नरं तं प्रतिब्रूयाद् गन्धवर्णं ब्रवीम्यहम् / जीविकां येन कल्पेमि तं च गन्धं न वेद्म्यहम् // srs_3.26 //

एवं योगे ऽप्ययुक्तानां शीलवर्णेन जीविका / पश्चिमे भेष्यते काले शीलं चैषां न भेष्यते // srs_3.27 //

एवं योगे ऽप्ययुक्तानां समाधिवर्णेन जीविका / पश्चिमे भेष्यते काले समाधिश्चैषां न भेष्यते // srs_3.28 //

एवं योगे ऽप्ययुक्तानां प्रज्ञावर्णन जीविका / भेष्यते पश्चिमे काले प्रज्ञा चैषां न भेष्यते // srs_3.29 //

एवं योगे ऽप्ययुक्तानां विमुक्तिवर्णेन जीविका / भेष्यते पश्चिमे काले विमुक्तिश्चैषां न भेष्यते // srs_3.30 //

यथ पुरुषु दरिद्रु कश्चिदेव सचे परिभूतु भवेन्महाजनस्य / स च लभति निधानु पश्चकाले धनपति भूत्व जनान सत्करेय्या // srs_3.31 //

एवमिमु न समाधि याव लब्धो न च बहुमतो भवतीह बोधिसत्त्वः / मरुमनुजकुम्भाण्डराक्षसा नो यथ पुरुषु दरिद्रु अर्थहीनः // srs_3.32 //

यद पुनरिय लब्ध भोति भूमी अतुलियु धर्मनिधानु पण्डितेन / मरु मनुज स्पृहं जनेन्ति तत्र स च धनु देति निरुत्तरं प्रजानाम् // srs_3.33 //

तस्म इमि श्रुणित्व आनुशंसां परमप्रणीतयः कीर्तिता जिनेन / सर्व जहिय ज्ञात्रलाभसौख्यमिमु वरमुद्दिशथा समाधि शान्तम् // srs_3.34 //

ये केचि बुद्धा दिशता सुनिर्वृता अनागता ये ऽपि च प्रत्युत्पन्नाः / सर्वे च शिक्षित्व इह समाधौ बोधिं विबुद्धा अतुलामचिन्तियाम् // srs_3.35 //

(वैद्य 18) चन्द्रप्रभः कुमारु हृष्टचित्तः पुरतु जिनस्य स्थिहित्व वाच भाषी / अहु पुरुषवरस्य निर्वृतस्य सुकिसरि कालि इदं धरिष्ये सूत्रम् // srs_3.36 //

काय अहु त्यजित्व जीवितं च तथपि च सौख्य यदस्ति लोके / तत्र अहु महाभये ऽपि काले इमु वरु शान्त समाधि धारयिष्ये // srs_3.37 //

महकरुण जनित्व सत्त्वकाये सुदुखित सत्त्व अनाथ प्राप्त दृष्ट्वा / तेष्वहमुपसंहरित्व मैत्रीमिमु वर शान्त समाधि देशयिष्ये // srs_3.38 //

पञ्चशत अनून तस्मिन् काले य उत्थित तत्र समाधिधारकाणाम् / पूर्वंगम कुमार तेष आसीदिह वरसूत्रपरिग्रहे उदारे // srs_3.39 //

इति श्रीसमाधिराजे भूतगुणवर्णप्रकाशनपरिवर्तो नाम तृतीयः ॥

(वैद्य 19) 4 बुद्धानुस्मृतिपरिवर्तः ।

अथ खलु चन्द्रप्रभः कुमारभूतो भगवन्तमेतदवोचत् - समाधिः समाधिरिति भगवन्नुच्यते । कतमस्यैतद्धर्मस्याधिवचनं समाधिरिति? एवमुक्ते भगवांश्चन्द्रप्रभं कुमारभूतमेतदवोचत् - समाधिः समाधिरिति कुमार उच्यते यदुत चित्तनिध्याप्तिः । अनुपपत्तिः । अप्रतिसंधिः । प्रतिसंधिज्ञानम् । अपहृतभारता । तथागतज्ञानम् । बुद्धवृषभिता । रागचिकित्सा । दोषव्युपशमः । मोहस्य प्रहाणम् । युक्तयोगिता । अयुक्तविवर्जनता । अकुशलधर्मच्छन्दः । संसारान्मोक्षकामता । अध्याशयप्रतिपत्तिः । जागरिकाया आसेवनम् । प्रहाणस्यानुत्सर्गः । आरक्षा शुक्लधर्माणाम् । उपपत्तिष्वविश्वासः । अनभिसंस्कारः । कर्मणामाध्यात्मिकानामायतनानाममनसिकारः । बाह्यानामायतनानामसमुदाचारः । आत्मनो ऽनुत्कर्षणम् । परेषामपंसनता । कुशलेष्वनध्यवसानम् । पृथग्जनेष्वविश्वासः । शीलस्य निष्यन्दः । दुरासदता । महौजस्कता । आत्मज्ञानम् । अचपलता । ईर्यापथसंपदवस्थानम् । अव्यापादः । अपारुष्यम् । परेष्वनुत्पीडा । मित्राणामनुरक्षणा । गुह्यमन्त्राणामारक्षणा । अविहिंसा । शीलवतामनुत्पीडना । श्लक्ष्णवचनता । सर्वत्रैधातुके अनिःश्रितता । सर्वधर्मेषु शून्यता । आनुलोमिकी क्षान्तिः । सर्वज्ञज्ञाने तीव्रच्छन्दता समाधिः समाधिरिति कुमार उच्यते । या एवेष्वेवंरूपेषु धर्मेषु प्रतिपत्तिरप्रतिपत्तिः, अयं स कुमार उच्यते समाधिरिति ॥

अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत -

अपावृतं मे अमृतस्य द्वारम् आचक्षितो धर्मस्वभावु यादृशः / निदर्शिता मे उपपत्ति यादृशी प्रकाशिता निर्वृति सानुशंसा // srs_4.1 //

विवर्जनीयाः सद पापमित्राः कल्याणमित्राश्च निषेवितव्याः / वनेषु वस्तव्य गणान् जहित्वा मैत्रं च चित्तं सद भावनीयम् // srs_4.2 //

शुद्धं च शीलं सद रक्षितव्यं धूतेषु पुष्टिः सद विन्दितव्या / त्यागश्च प्रज्ञा च निषेवितव्या । न दुर्लभो एष समाधि भेष्यति // srs_4.3 //

(वैद्य 20) ततो लभित्वा इम शान्तभूमि यस्यामभूमिः पृथु श्रावकाणाम् / प्रत्यक्षभूता सुगतस्य धर्म प्रतिलप्स्यथा बुद्धगुणानचिन्तियान् // srs_4.4 //

दृष्ट्वा नरान् भाजनबुद्धिमन्तान् तान् बोधिचित्तस्मि समादहेथ / अनुत्तरे ज्ञानि प्रतिष्ठपित्वा न दुर्लभो एष समाधिराजः // srs_4.5 //

यस्यार्थि ईर्षा पुन संजनेय्या आहारि निष्यन्दिह प्रत्यवेक्षतः / पर्येष्टितश्चो परिभोगतश्च न दुर्लभो एष समाधि भेष्यते // srs_4.6 //

समाधिराजो यदि वैष शून्यतो विशुद्धशीलानयु मूर्ध्नि तिष्ठति / स्वभावतो धर्म सदा समाहिता बाला न जानन्ति अयुक्तयोगाः // srs_4.7 //

येषामयं शान्त समाधिरिष्टो न तेष जातु भयबुद्धि तिष्ठति / सदानुपश्यन्ति नराणमुत्तममिमां निषेवित्व प्रशान्तभूमिम् // srs_4.8 //

आकारतो यः स्मरते तथागतान् स भोति शान्तेन्द्रियु शान्तमानसः / अभ्रान्तचित्तः सततं समाहितः श्रुतेन ज्ञानेन च सागरोपमः // srs_4.9 //

अस्मिन् समाधौ हि प्रतिष्ठिहित्त्वा यश्चंक्रमे चंक्रमि बोधिसत्त्वः / स पश्यति बुद्धसहस्रकोटियस्तदुत्तरे यात्तिक गङ्गवालुकाः // srs_4.10 //

उन्मादु गच्छेय नरस्य चित्तं यो बुद्धधर्माण प्रमाणु गृह्णीयात् / (वैद्य 21) नैवाप्रमाणस्य प्रमाणमस्ति अचिन्तिया सर्वगुणेहि नायकाः // srs_4.11 //

न सो ऽस्ति सत्त्वो दशसु दिशासु यो लोकनाथेन समः कुतोत्तरि / सर्वे हि सर्वज्ञगुणरुपेतमाकाङ्क्षथ लप्स्यथ बुद्धज्ञानम् // srs_4.12 //

सुवर्णवर्णेन समुच्छ्रयेण समन्तप्रासादिकु लोकनाथः / यस्यात्र आलम्बनि चित्तु वर्तते समाहितः सोच्यति बोधिसत्त्वः // srs_4.13 //

असंस्कृतं संस्कृतु ज्ञात्व विज्ञो निमित्तसंज्ञाय विभाविताय / सो आनिमित्ते भवति प्रतिष्ठितः प्रजानती शून्यक सर्वधर्मान् // srs_4.14 //

यो धर्मकाये भवति प्रतिष्ठितो अभाव जानाति स सर्वभावान् / अभावसंज्ञाय विभाविताय न रूपकायेन जिनेन्द्र पश्यति // srs_4.15 //

आरोचयामि प्रतिवेदयामि वो यथा यथा बहु च वितर्कयेन्नरः / तथा तथा भवति तन्निमित्तचित्तस्तेहि वितर्केहि तन्निश्रितेहि // srs_4.16 //

एवं मुनीन्द्रं स्मरतो नरस्य आकारतो ज्ञानतो अप्रमेयतः / अनुस्मृतिं भावयतः सदा च तन्निम्नचित्तं भवती तत्प्रोणम् // srs_4.17 //

स चंक्रमस्थो न निषद्यमाश्रित आकाङ्क्षते पुरुषवरस्य ज्ञानम् / आकाङ्क्षमाणः प्रणिघेति बोधये भविष्यहं लोकि निरुत्तरो जिनः // srs_4.18 //

(वैद्य 22) स बुद्ध संजानति बुद्ध पश्यते बुद्धान चो धर्मत प्रत्यवेक्षते / इह समाधिस्मि प्रतिष्ठिहित्वा नमस्यते बुद्ध महानुभावान् // srs_4.19 //

कायेन वाचा च प्रसन्न मानसा बुद्धान वर्णं भणती अभीक्ष्णम् / तथाहि सो भावितचित्तसंतती । रात्रिंदिवं पश्यति लोकनाथान् // srs_4.20 //

यदापि सो भोति गिलान आतुरः प्रवर्तते वेदन मारणान्तिका / न बुद्धमारभ्य स्मृतिः प्रमुष्यते न वेदनाभिरनुसंहरीयति // srs_4.21 //

तथा हि तेन विचिनित्व ज्ञाता अनागता आगत धर्मशून्यता / सो तादृशे धर्मनये प्रतिष्ठितो न खिद्यते चित्त चरन्तु चारिकाम् // srs_4.22 //

तस्माच्छ्रुणित्वा इमु आनुशंसा जनेथ छन्दमतुलाय बोधये / मा पश्चकाले परितापु भेष्यत सुदुर्लभं सुगतवराण दर्शनम् // srs_4.23 //

अहं च भाषेय प्रणीत धर्मं यूयं च श्रुत्वान समाचरेथाः / भैषज्य वस्त्रां च गृहीत्व आतुरो ऽपनेतु व्याधिं न प्रभोति आत्मनः // srs_4.24 //

तस्माद्विधिज्ञेन विचक्षणेन इमं समाधिं प्रतिकाङ्क्षता सदा / शीलं श्रुतं त्यागु निषेवितव्यं न दुर्लभो एष समाधि भेष्यति // srs_4.25 //

इति श्रीसमाधिराजे बुद्धानुस्मृतिपरिवर्तो नाम चतुर्थः ॥

(वैद्य 23) 5 घोषदत्तपरिवर्तः ।

तत्र भगवांश्चन्द्रप्रभं कुमारभूतमामन्त्रयते स्म - भूतपूर्वं कुमार अतीते ऽध्वन्यसंख्येये कल्पे असंख्येयतरे विपुले ऽप्रमेये ऽचिन्त्ये ऽपरिमाणे यदासीत् तेन कालेन तेन समयेन भगवान् घोषदत्तो नाम तथागतो ऽर्हन् सम्यक्संबुद्धो लोके उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान् । तेन कालेन तेन समयेन तस्य भगवतो घोषदत्तस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य अशीतिः श्रावककोट्यः प्रथमसन्निपातो ऽभूत् सर्वेषामर्हताम् । द्वितीयः श्रावकसन्निपातः सप्ततिकोट्यो ऽर्हतामभूत् । तृतीयः सन्निपातः षष्टिः श्रावककोट्यो ऽर्हतामभूत् । तेन खलु पुनः समयेन तस्य भगवतो घोषदत्तस्यार्हतः सम्यक्संबुद्धस्य चत्वारिंशद्वर्षसहस्राण्यायुःप्रमाणमभूत् । अयं च जम्बुद्वीप ऋद्धः स्फीतश्च क्षेमश्च सुभिक्षश्च रमणीयश्च बहुजनाकीर्णमनुष्यश्चाभूत् । तेन खलु पुनः समयेन अस्मिन् जम्बुद्वीपे द्वौ राजानावभूताम् । दृढबलश्च नाम महाबलश्च नाम । तत्रैको राजा अर्धं जम्बुद्वीपं परिभुङ्क्ते, द्वितीयो ऽप्यर्धं परिभुङ्क्ते ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च रमणीयं च बहुजनाकीर्णमनुष्यं च ॥ तेन कालेन तेन समयेन राज्ञो महाबलस्य विजिते भगवान् घोषदत्तस्तथागतो ऽर्हन् सम्यक्संबुद्ध उत्पन्नो ऽभूत् । इति हि कुमार राज्ञा महाबलेन स घोषदत्तस्तथागतः परिपूर्णं वर्षसहस्रं निमन्त्रितो ऽभूत् सार्धं बोधिसत्त्वसंघेन भिक्षुसंघेन च कल्पिकेन परिभोगेणानवद्येन चीवरपिण्डपात्रशयनासनग्लानप्रत्ययभैषज्यपरिष्कारेण । तेन च कुमार

कालेन तेन समयेन तस्य भगवतो घोषदत्तस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य बोधिसत्त्वसंघस्य सश्रावकसंघस्य चोत्सदो लाभसत्कारश्लोको ऽभूत् । श्राद्धाश्च ब्राह्मणगृहपतयो भगवतो घोषदत्तस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य सबोधिसत्त्वसंघस्य चोत्सदं लाभसत्कारमकार्षुः । ते च श्राद्धा ब्राह्मणगृहपतयो भगवतो घोषदत्तस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य लाभसत्कारायोद्युक्ता अभूवन् लोकामिषपूजायै यदुत राज्ञ एव च महाबलस्यानुशिक्षमाणरूपम् । इति हि कुमार तस्य भगवतो घोषदत्तस्य एतदभूत् - परिहीयन्ते बतेमे सत्त्वाः शीलपोषधसमादानतस्तथागतानामुपसंक्रमणतस्तथागतपर्युपासनतो ब्रह्मचर्यावासतः प्रव्रज्योपसंपन्नभिक्षुभावतश्च । त एते सत्त्वास्तदनन्तरं सुखगुरुकाः । तत् कस्य हेतोः? तथा हि तदनन्तरं सुखमिदं यदुत लोकामिषपूजा । त एते सत्वा दृष्टधर्मगुरुकाश्च संपरायगुरुकाश्च नात्यन्तनिष्ठाः कुशलमूलाय । तत्रेयं कुमार कतमा दुष्टधर्मगुरुकता? यदुत पञ्चकामगुणाभिप्रायता । (वैद्य 24) तत्र कुमार कतमा सांपरायिकगुरुकता? यदुत स्वर्गलोकाध्यालम्बनता । कतमा चात्यन्तनिष्ठकुशलमूलगुरुकता? यदुतात्यन्तविशुद्धिः । अत्यन्तविमुक्तिः । अत्यन्तयोगक्षेमता । अत्यन्तब्रह्मचर्यावासः । अत्यन्तपर्यवसानम् । अत्यन्तकुशलमूलनिष्ठा । अत्यन्तपरिनिर्वाणम् । यन्नवहमेतेषां सत्त्वानां तथा तथा धर्मं देशयेयं यदमी सत्त्वा यथानुत्तरया धर्मपूजया धर्मप्रतिपत्त्या च तथागतं पूजयेयुः ॥

अथ खलु कुमार घोषदत्तस्तथागतो ऽर्हन् सम्यक्संबुद्धस्तस्यां वेलायां राज्ञो महाबलस्य तेषां च ब्राह्मणगृहपतीनां संवेजनाभिप्राय इमा गाथा अभाषत -

दानप्रदानेन अन्योन्य सेवतां तेषान्यमन्यस्मि न भोति गौरवम् / ना तादृशीं सेवन वर्णयन्ति बुद्धा विदू येष प्रहीण वासना // srs_5.1 //

ते तादृशा भोन्ति नराः सुसेविता ये धर्म देशेन्ति हिताय प्राणिनाम् / तेषान्यमन्यस्मि अभेद्य प्रेम यन्मारकोटीभिरशक्यु भिन्दितुम् // srs_5.2 //

लोकामिषेणो नर सेवतां नृणां सर्वेषं सांदृष्टिक भोति अर्थः / निरामिषं धर्म निषेवतां हि महान्त अर्थो भवती नराणाम् // srs_5.3 //

निरामिषं चित्तु उपस्थपित्वा निरामिषं धर्म प्रकाशयित्वा / निरामिषं येष भवेत प्रेम ते तादृशाः क्षिप्र भवन्ति बुद्धाः // srs_5.4 //

न जातु कामान् प्रतिसेवमानः पुत्रेषु दारेषु जनित्व तृष्णाम् / गृहं च सेवन्तु जुगुप्सनीयमनुत्तरां प्राप्स्यति सो ऽग्रबोधिम् // srs_5.5 //

ये काम वर्जेन्ति यथाग्निकर्षूं पुत्रेषु दारेषु जहित्व तृष्णाम् / (वैद्य 25) उत्त्रस्तु गेहादभिनिष्क्रमन्ति न दुर्लभा तेष्वियमग्रबोधिः // srs_5.6 //

न कश्चि बुद्धः पुरिमेण आसी अनागते भेष्यति वावतिष्ठते / येहि स्थितैरेवमगारमध्ये प्राप्ता इयमुत्तम अग्रबोधिः // srs_5.7 //

प्रहाय राज्यं यथ खेटपिण्डं वसेत रण्येषु विवेककामः / क्लेशान् प्रहाय प्रतिहत्य मारं बुद्ध्यन्ति बोधिं विरजामसंस्कृताम् // srs_5.8 //

यो बुद्धवीरान् यथ गङ्गवालुका उपस्थिहेय्या बहुकल्पकोटियः / यश्चो गृहातः परिखिन्नमानसो ऽभिनिष्क्रमेय्या अयु तत्र उत्तमः // srs_5.9 //

अन्नेहि पानेहि च चीवरेहि पुष्पेहि गन्धेहि विलेपनेहि / नोपस्थिता भोन्ति नरोत्तमा जिना यथ प्रव्रजित्वा चरियाण धर्मम् // srs_5.10 //

यश्चैव बोधिं प्रतिकाङ्क्षमाणः सत्त्वार्थ निर्विण्णु कुसंस्कृतातः / रण्यामुखः सप्त पदानि प्रक्रमे अयं ततः पुण्यविशिष्ट भोति // srs_5.11 //

अश्रौषीत् खलु पुनः कुमार राजा महाबलो भगवता घोषदत्तेन तथागतेनार्हता सम्यक्संबुद्धेन इमामेवंरूपां प्रवर्तितां नैष्क्रम्यप्रतिसंयुक्तां कथाम् । श्रुत्वा च विमृशति - यथाहं भगवतो भाषितस्यार्थमाजानामि, न भगवान् दानपारमितां वर्णयति, न शीलपारमितां वर्णयति । अत्यन्तनिष्ठां संवर्णयति । अत्यन्तविशुद्धिम् । अत्यन्तब्रह्मचर्यावासम् । अत्यन्तनिर्वाणं संवर्णयति । तस्यैतदभूत् - नेदं सुकरमगारमध्यावसता अनुत्तरधर्मप्रतिपत्तिं संपादयितुम्, अर्थं वा अनुप्राप्तुम् । परिहीणो ऽस्म्यनुत्तराया धर्मप्रतिपत्तितः । यन्न्वहं केशश्मश्रूण्यवतार्य काषायाणि वस्त्राणि परिधाय सम्यगेव श्रद्धया अगारादनगारिकां प्रव्रजेयम् । इति हि (वैद्य 26) कुमार राजा महाबलः सार्धमशीत्या ब्राह्मणगृहपतिशतसहस्रैः परिवृतः पुरस्कृतो येन भगवान् घोषदत्तो नाम तथागतो ऽर्हन् सम्यक्संबुद्धस्तेनोपसंक्रामत् । उपसंक्रम्य भगवतः पादौ शिरसाभिवन्द्य त्रिः प्रदक्षिणीकृत्य एकान्ते ऽस्थात् । अथ खलु कुमार भगवान् घोषदत्तो राज्ञो महाबलस्य अध्याशयं विदित्वा इमं सर्वधर्मस्वभावसमताविपञ्चितं समाधिं देशयते । अथ खलु कुमार राजा महाबल इमं समाधिं श्रुत्वा तुष्ट उदग्र आत्तमनाः केशश्मश्रण्यवतार्य काषायाणि वस्त्राणि परिधाय सम्यगेव श्रद्धया अगारादनगारिकां प्रव्रजितो ऽभूत् । स तथा प्रव्रजितः सन्निमं समाधिमुद्गृहीतवान् । उद्गृह्य पर्यवाप्य धारयित्वा वाचयिओत्वा भावनायोगमनुयुक्तो व्यहार्षीत् । स तेनैव कुशलमूलेन दशकल्पकोट्यो न जातु दुर्गतिविनिपातमगमत्, विंशतिं च बुद्धकोटीरारागयामास । तेषां च

तथागतानामन्तिकादिमं समाधिमश्रौषीत् । श्रुत्वा तेभ्यो बुद्धेभ्यस्तेनोद्गृहीतः पर्यवाप्तो धारितो वाचितो भावनायोगमनुयुक्तो व्यहार्षीत् । स ततः पश्चात् तेनैव कुशलमूलेन दशानां कल्पकोटीनामत्ययेन परिपूर्णेन कल्पशतसहस्रेण अनुत्तरां सम्यक्संबोधिमभिसंबुद्धो ऽभूत् । सो ऽप्रमेयाणां सत्त्वानामर्थं कृत्वा पश्चाद् बुद्धपरिनिर्वाणेन परिनिर्वृतो ऽभूत् । तत्र कुमार यान्यशीतिप्राणिशतसहस्राणि राज्ञा महाबलेन सार्धं भगवन्तं घोषदत्तं तथागतमुपसंक्रान्तानि, ते ऽपि सर्वे इमं समाधिं श्रुत्वा तुष्टा उदग्रा आत्तमनसः प्रमुदिताः प्रीतिसौमनस्यजाताः केशश्मश्रूण्यवतार्य काषायाणि वस्त्राणि परिधाय सम्यगेव श्रद्धया अगारादनगारिकां प्रव्रजिता अभूवन् । ते ऽपि तथा प्रव्रजिता इमं समाधिमुद्गृह्य पर्यवाप्य धारयित्वा वाचयित्वा भावनायोगमनुयुक्ता विहृत्य तेनैव कुशलमूलेन विंशतिकल्पकोट्यो न जातु दुर्गतिविनिपातमगमन् । सर्वत्र च कल्पे कल्पे बुद्धकोटीर्बुद्धकोटीरारागयामास । सर्वेषां च तेषां तथागतानामन्तिके इमं समाधिं श्रुत्वोद्गृह्य पर्यवाप्य धारयित्वा वाचयित्वा भावनायोगमनुयुक्ता विहृत्य तेनैव पूर्वक्रेण कुशलमूलेन विंशतीनां कल्पकोटीनामत्ययेन ततः पश्चात् परिपूर्णदशभिः कल्पसहस्रैरनुत्तरां सम्यक्संबोधिमभिसंबुद्धा दृढशूरनामानस्तथागता अर्हन्तः सम्यक्संबुद्धा लोके उत्पन्ना अभुवन् । ते ऽप्यप्रमेयानसंख्येयान् सत्त्वान् परिपाच्य तेषां चार्थं कृत्वा बुद्धपरिनिर्वृता अभूवन् । तदनेनापि ते कुमार पर्यायेण एवं वेदितव्यं यथायं समाधिर्बहुकरो बोधिसत्त्वानां महासत्त्वानामनुत्तरस्य सर्वज्ञज्ञानस्याहरणाय

संवर्तत इति ॥ अथ खलु भगवांश्चन्द्रप्रभस्य कुमारभूतस्य तस्यां वेलायामेतदेव पूर्वयोगपरिवर्तं भूयस्या मात्रया गाथाभिगीतेन विस्तरेण संप्रकाशयति स्म -

स्मराम्यहं पूर्वमतीतमध्वनि अचिन्तिये कल्पि नराण उत्तमः / (वैद्य 27) उत्पन्नु लोकार्थकरो महर्षि नामेन सो उच्यति घोषदत्तः // srs_5.12 //

अशीति कोट्यः परिपूर्ण तस्य प्रथमो गणो आसि य श्रावकाणाम् / द्वितीय चासीत् परिपूर्ण सप्ततिस्तृतीय चो षष्ट्यरहन्तकोटियः // srs_5.13 //

सर्वे च क्षीणास्रव निष्किलेशाः सर्वे च ऋद्धीबलपारमिं गताः / वर्षं सहस्रा दुवि विशं चायुः क्षेत्रं च आसीत् परिशुद्ध शोभनम् // srs_5.14 //

अभिषेकप्राप्ता परहित अप्रमेया वशितेहि भूमिहि च सुप्रतिष्ठिताः / आसन्न ते द्रुमवरि बोधि बोधितुं ये बोधिसत्वास्त अभूषि तायिनः // srs_5.15 //

इह जम्बुद्वीपस्मि अभूषि राजा दृढबलो नाम महाबलश्च / उपार्धु राज्यस्य तदेकु भुञ्जते द्वितीय चाधस्य अभूषि राजा // srs_5.16 //

महाबलस्यो विजितस्मि बुद्धो उत्पन्न सो देवमनुष्यपूजितः / लभित्व राजा सुगतस्मि श्रद्धाम् उपस्थिही वर्षसहस्र पूर्णम् // srs_5.17 //

तस्यानुशिक्षी बहु अन्यसत्त्वाः कुर्वन्ति सत्कार तथागतस्य / लोकामिषेणैव हि धर्मपूजया सश्रावकस्य अतुलो ऽभू उत्सदः // srs_5.18 //

अभूषि चित्तं पुरुषोत्तमस्य देशिष्य धर्ममिमि धर्मकामाः / यन्नून सर्वे प्रजहित्व कामानिह प्रव्रजेयुर्मम शासनस्मिन् // srs_5.19 //

(वैद्य 28) स भाषते गाथ नराणमुत्तमः संलेखिधर्मं सुगतान शिक्षाम् / गृहवासदोषांश्च अनन्तदुःखान् प्रतिपत्ति धर्मेष्विह धर्मपूजा // srs_5.20 //

श्रुणित्व गाथां तद राजपार्थिवो एको विचिन्तेति रहोगतो नृपः / न शक्य गेहस्मि स्थिहित्व सर्वे प्रतिपद्यितुमुत्तधर्मपूजा // srs_5.21 //

स राज्य त्यक्त्वा यथ खेटपिण्डं प्राणिसहस्रेभिरशीतिभिः सह / उपसंक्रमी तस्य जिनस्य अन्तिकं वन्दित्व पादौ पुरतः स्थितो ऽभूत् // srs_5.22 //

तेषां जिनो आशयु जानमानो देशेतिमं शान्त समाधि दुर्दृशम् / ते प्रीतिप्रामोद्यसुखेन प्रीणितास्तुष्टा उदग्रास्तद प्रव्रजिंसु // srs_5.23 //

ते प्रव्रजित्वान इमं समाधिं धारित्व वाचित्व पर्यापुणित्व / न जातु गच्छे विनिपातदुर्गतिं कल्पान कोट्यः परिपूर्ण विंशतिम् // srs_5.24 //

ते तेन सर्वे कुशलेन कर्मणा अद्राक्षु बुद्धान सहस्रकोटियः / सर्वेषु चो तेषु जिनानुशासने ते प्रव्रजित्वेमु समाधि भावयी // srs_5.25 //

ते पश्चिमे कालि अभूषि बुद्धा दृढशूरनामान अनन्तवीर्याः / कृत्वा च अर्थं बहुप्राणिकोटिनां ते पश्चिकालेस्मि शिखीव निर्वृताः // srs_5.26 //

(वैद्य 29) महाबलो राजा य आसि पूर्वं स ज्ञानशूरो अभु बुद्ध लोके / तदा बहु प्राणिसहस्रकोटियः स्थपेत्व बोधाय स पश्चि निर्वृतः // srs_5.27 //

तस्माच्छ्रुणित्वा इमु पश्चिकाले धारेय सूत्रमिमु बुद्धवर्णितम् / धारेत्विममीदृश धर्मकोषं भविष्यथा क्षिप्र नराणमुत्तमाः // srs_5.28 //

इति श्रीसमाधिराजे घोषदत्तपरिवर्तो नाम पञ्चमः ॥

(वैद्य 30) 6 समाधिपरिवर्तः ।

तत्र भगवान् पुनरपि चन्द्रप्रभं कुमारभूतमामन्त्रयते स्म - तस्मात्तर्हि कुमार बोधिसत्त्वेन महासत्त्वेन इमं समाधिमाकाङ्क्षता क्षिप्रं चानुत्तरां सम्यक्संबोधिमभिसंबोद्धुकामेन समाधिपरिकर्म करणीयम् । तत्र कुमार कतमत् समाधिपरिकर्म? इह कुमार बोधिसत्त्वो महाकरुणासंप्रस्थितेन चित्तेन तिष्ठतां वा तथागतानां परिनिर्वृतानां वा पूजाकर्मणे उद्युक्तो भवति, यदुत चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिस्तूर्यतालावचरैर्वैजयन्तीभिः तच्च कुशलमूलं समाधिप्रतिलम्भाय परिणमयति । स न कंचिद्धर्ममाकाङ्क्षंस्तथागतं पूजयति न रूपं न कामान् न भोगान् न स्वर्गान् न परिवारान् । अपि तु खलु पुनर्धर्मचित्तको भवति । स आकाङ्क्षन् धर्मकायतो ऽपि तथागतं नोपलभते, किमङ्ग पुना रूपकायत उपलप्स्यते । तस्मात्तर्हि कुमार एषां सा तथागताना पूजा यदुत तथागतस्यादर्शनमात्मनश्चानुपलब्धिः कर्मविपाकस्य चाप्रतिकाङ्क्षमाणता । अनया कुमार त्रिमण्डलपरिशुद्धया पूजया तथागतं पूजयित्वा बोधिसत्त्वो महासत्त्व इमं समाधिं प्रतिलभते क्षिप्रं चानुत्तरां सम्यक्संबोधिमभिसंबुध्यते ॥

अथ खलु भगवांस्तस्यां वेलायां चन्द्रप्रभस्य कुमारभूतस्य एतदेव समाधिपरिकर्मनिर्देशं भूयस्या मात्रया गाथाभिगीतेन विस्तरेण संप्रकाशमति स्म -

अनन्तज्ञानस्य ददित्व गन्धान् अनन्तगन्धो भवती नराणाम् / न कल्पकोटीय व्रजन्ति दुर्गतिं दुर्गन्धियं तेषु न जातु भोति // srs_6.1 //

ते कल्पकोट्यश्चरमाणु चारिकां पूजित्व बुद्धान सहस्रकोटियः / ते ज्ञानगन्धेन समुद्गतेन भवन्ति बुद्धा वरशीलगन्धिकाः // srs_6.2 //

सचेत् पुनर्जानति वास्ति सत्त्वो यो गन्ध देती तथ यस्य दीयते / एतेन चित्तेन ददाति गन्धमेषास्य क्षान्तिर्मृदु आनुलोमिकी // srs_6.3 //

(वैद्य 31) तस्यैतं क्षान्तिमधिमात्र सेवतः सचेन्नरः काकणिच्छेद्यु छिद्यते / कल्पान कोट्यो यथ गङ्गवालिका न तस्य चित्तं भवति विवर्तियम् // srs_6.4 //

किं कारणं वुच्यति क्षान्ति नाम कथं पुनो वुच्यति आनुलोमिकी / अविवर्तिको वुच्यति केन हेतुना कथं पुनो वुच्यति बोधिसत्त्वः // srs_6.5 //

क्षान्त्यस्मि धर्मे प्रकृतौ निरात्मके नैरात्म्यसंज्ञस्य किलेशु नास्ति / खं यादृशं जानति सर्वधर्मास्तस्मादिह स्या क्व तु क्षान्ति नाम // srs_6.6 //

आनुलोमि सर्वेष जिनान शिक्षतो न चास्ति धर्मश्चरते विचक्षणः / न बुद्धधर्मेषु जनेति संशयानियं स क्षान्तिर्भवतानुलोमिकी // srs_6.7 //

एवं चरन्तस्य य लोकि मारास्ते बुद्धरूपेण भणेय्य वाचा / सुदुर्लभा बोधि भवाहि श्रावका न गृह्णोती वाक्यु न चो विवर्तते // srs_6.8 //

बोधेति सत्त्वान् विषमातु दृष्टितो न एष मार्गो अमृतस्य प्राप्तये / कुमार्ग वर्णित्व पथे स्थपेति तं कारणमुच्यति बोधिसत्त्वः // srs_6.9 //

क्षमिष्यनूलोमपथे स्थितस्य नैरात्म्यसङ्गाय विबोधितस्य / स्वप्नान्तरे ऽप्यस्य न जातु भोति अस्ति नरो पुद्गल जीव सत्त्वः // srs_6.10 //

(वैद्य 32) सचे मारकोट्यो यथ गङ्गवालुकास्ते बुद्धरूपेण उपागमित्वा / भणेयुरभ्यन्तरकायु जीवो ते मं वदे नास्ति न यूय बुद्धा // srs_6.11 //

ज्ञानेन जानाम्यहु स्कन्धशून्यकं ज्ञात्वा च क्लेशेहि न संवसामि / व्याहारमात्रेण च व्योहरामि परिनिर्वृतो लोकमिमं चरामि // srs_6.12 //

यथा हि पुत्र पुरुषस्य जातु कृतंसि नामा अयमेव नाम / नामं न तस्यो दिशता सुलभ्यते तथास्य नामं न कुतश्चिदागतम् // srs_6.13 //

तथैव नामं कृतु बोधिसत्त्वो न चास्य नामं दिशता सुलभ्यते / पर्येषमाणो अयु बोधिसत्त्वो जानाति यो एष स बोधिसत्त्वः // srs_6.14 //

समुद्रमध्ये ऽपि ज्वलेत अग्नि र्न बोधिसत्त्वस्य सत्कायदृष्टिः / यतो ऽस्य बोधाय उत्पन्नु चित्तमत्रान्तरे तस्य न जीवदृष्टिः // srs_6.15 //

न ह्यत्र जातो न मृतो च कश्चिदुत्पन्न सत्त्वो मनुजो नरो वा / मायोपमा धर्म स्वभावशून्या न शक्यते जानितु तीर्थिकेहि // srs_6.16 //

न चापि आहारविमूर्छितेहि लुब्धेहि गृद्धेहि च पात्रचीवरे / न चोद्धतेहि नपि चोन्नतेहि शक्या इयं जानितु बुद्धबोधिः // srs_6.17 //

(वैद्य 33) न स्त्यानमिद्धाभिहतैः कुसीदैः स्तब्धेहि मानीहि अनात्रपेहि / येषां न बुद्धस्मि प्रसादु अस्ति न शक्यते ही वरबोधि जानितुम् // srs_6.18 //

न भिन्नवृत्तेहि पृथग्जनेहि येषां न धर्मस्मि प्रसादु अस्ति / सब्रह्मचारीषु च नास्ति गौरवं न शक्यते ही वरबोधि बुद्धितुम् // srs_6.19 //

अभिन्नवृत्ता हिरिमन्त लज्जिनो येषां स्ति बुद्धे अपि धर्मे प्रेम / सब्रह्मचारीषु च तीव्रगौरवं ते प्रापुणन्ती वरबोधिमुत्तमाम् // srs_6.20 //

स्मृतेरुपस्थान इह येष गोचरः प्रामोद्य प्रीति शयनमुपस्तृतम् / ध्यानानि चाहारु समाधि पानियं बुध्यन्ति ते ऽपि वरबोधिमुत्तमाम् // srs_6.21 //

नैरात्म्यसंज्ञा च दिवाविहारो अनुस्मृतिश्चंक्रमशून्यभावः / बोध्यङ्गपुष्पा सुरभी मनोरमा ते युज्यमाना वरबोधि प्रापयी // srs_6.22 //

या बोधिसत्त्वान चरी विदूनामभूमिरन्यस्य जनस्य तत्र / प्रत्येकबुद्धान च श्रावकाण च को वात्र विज्ञो न जनेय छन्दम् // srs_6.23 //

सचेन्ममा आयु भवेत एत्तकं कल्पान कोट्यो यथ गङ्गवालुकाः / एकस्य रोमस्य भणेय वर्णं बौद्धेन ज्ञानेन पर्यन्तु नास्ति // srs_6.24 //

(वैद्य 34) तस्माच्छुणित्वा इमु आनुशंसामनाभिभूतेन जिनेन देशिताम् / इमं समाधिं लघु उद्दिशेया न दुर्लभा भेष्यति अग्रबोधिः // srs_6.25 //

इति श्रीसमाधिराजे समाधिपरिवर्तो नाम षष्ठः ॥

(वैद्य 35) 7 त्रिक्षान्त्यवतारपरिवर्तः ।

तत्र भगवान् पुनरपि चन्द्रप्रभं कुमारभूतमामन्त्रयते स्म - तस्मातर्हि कुमार बोधिसत्त्वेन महासत्त्वेनेमं समाधिमाकाङ्क्षता क्षिप्रं चानुत्तरां सम्यक्संबोधिमभिसंबोद्धुकामेन त्रिक्षान्तिज्ञानकुशलेन भवितव्यम् । तेन प्रथमा क्षान्तिः प्रज्ञातव्या । द्वितीया क्षान्तिः प्रज्ञातव्या । तृतीया क्षान्तिः प्रज्ञातव्या । त्रिक्षान्तिविशेषकुशलेन भवितव्यं त्रिक्षान्तिज्ञानविशेषकुशलेन च । तत् कस्य हेतोः? तथाहि कुमार यदा बोधिसत्त्वो महासत्त्वस्त्रिक्षान्तिविशेषकुशलो भवति त्रिक्षान्तिज्ञानविशेषकुशलश्च भवति, तदायं कुमार बोधिसत्त्वो महासत्त्वः क्षिप्रं समाधिं प्रतिलभते, क्षिप्रं चानुत्तरां सम्यक्संबोधिमभिसंबुध्यते । तस्मात्तर्हि कुमार बोधिसत्त्वेन महासत्त्वेन क्षिप्रं चानुत्तरां सम्यक्संबोधिमभिसंबोद्धुकामेनायं त्रिक्षान्त्यवतारो धर्मपर्याय उद्ग्रहीतव्यः । उद्गृह्य न परेभ्यो विस्तरेण संप्रकाशयितव्यः । तद् भविष्यति बहुजनहिताय बहुजनसुखाय लोकानुकम्पायै महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां चेति ॥

अथ खलु भगवांश्चन्द्रप्रभस्य कुमारभूतस्येमं त्रिक्षान्त्यवतारं धर्मपर्यायं गाथाभिगीतेन विस्तरेण संप्रकाशयति स्म -

न केनचित् सार्धं करोति विग्रहं न भाषते वाचमनर्थसंहिताम् / अर्थे च धर्मे च सदा प्रतिष्ठितः प्रथमाय क्षान्तीय सद निर्दिशीयति // srs_7.1 //

मायोपमान् जानति सर्वधर्मान् न चापि सो भोति निमित्तगोचरः / न हीयते ज्ञानविवृद्धभूमेः प्रथमाय क्षान्तीय इमे विशेषाः // srs_7.2 //

स सर्वसूत्रान्तनयेषु कोविदः सुभाषिते ऽस्मिन्नधिमुक्तिपण्डितः / अनन्तज्ञानी सुगतान ज्ञाने प्रथमाय क्षान्तीय इमे विशेषाः // srs_7.3 //

यः कश्चि धर्मं शृणुते सुभाषितं बुद्धान चो भाषित तन्न काङ्क्षति / अधिमुच्यते सर्वजिनान धर्मतां प्रथमाय क्षान्तीय इमे विशेषाः // srs_7.4 //

(वैद्य 36) नीतार्थसूत्रान्तविशेष जानति यथोपदिष्टा सुगतेन शून्यता / यास्मिन् पुनः पुद्गल सत्त्व पूरुषो नेयार्थतां जानति सर्वधर्मान् // srs_7.5 //

ये अस्मि लोके पृथु अन्यतीर्था न तस्य तेषु प्रतिहन्यते मनः / कारुण्यमेतेषु उपस्थपेति प्रथमाय क्षान्तीय इमे विशेषाः // srs_7.6 //

आभासमागच्छति तस्य धारणी तस्मिंश्च आभासि न जातु काङ्क्षति / सत्यानुपरिवर्तिनि वाच भाषते प्रथमाय क्षान्तीय इमे विशेषाः // srs_7.7 //

चतुर्ण धातून सियान्यथात्वं वाय्वम्बुतेजःपृथिवीय चापि / न चो विवर्तेत स बुद्धबोधेः प्रथमाय क्षान्तीय इमे विशेषाः // srs_7.8 //

ये शिल्पस्थाना पृथु अस्ति लोके सर्वेषु सो शिक्षितु बोधिसत्त्वः / न चात्मन उत्तरि किंचि पश्यति प्रथमाय क्षान्तीय इमे विशेषाः // srs_7.9 //

अकम्पियः समथबलेन भोति शेलोपमो भोति विपश्यनाय / न क्षोभितुं शक्यु स सर्वसत्त्वैर्द्वितीयाय क्षान्तीय स निर्दिशीयति // srs_7.10 //

समाहितस्तिष्ठति भाषते च समाहितश्चंक्रमते निषीदति / समाधिये पारमितागतो विदु द्वितीयाय क्षान्तीय इमे विशेषाः // srs_7.11 //

(वैद्य 37) समाहितो लभति अभिज्ञ पञ्च क्षेत्रशतं गच्छति धर्मदेशकः / नो चापि सो ऋद्धिबलात्तु हीयते द्वितीयाय क्षान्तीय इमे विशेषाः // srs_7.12 //

स तादृशं शान्त समाधिमेषते समाहितस्य न स अस्ति सत्त्वः / यस्तस्य चित्तस्य प्रमाणु गृह्णीया द्वितीयाय क्षान्तीय इमे विशेषाः // srs_7.13 //

ये लोकधातुष्विह केचि सत्त्वास्ते बुद्धज्ञानेन भणेयु धर्मान् / उद्गृह्णतो सर्व यतो हि भाषिउतं द्वितीयाय क्षान्तीय इमे विशेषाः // srs_7.14 //

पुरिमोत्तरा दक्षिणपश्चिमासु हेष्ठे तथोर्ध्वं विदिशासु चैव / सर्वत्र सो पश्यति लोकनाथान् तृतीयाय क्षान्तीय स निर्दिशीयति // srs_7.15 //

सुवर्णवर्णेन समुच्छ्रयेण अचिन्तियां निर्मित निर्मिणित्वा / देशेति धर्मं बहुप्राणिकोटिनां तृतीयाय क्षान्तीय इमे विशेषाः // srs_7.16 //

य जम्बुद्वीप इह बुद्धक्षेत्रे सर्वत्र सो दृश्यति बोधिसत्त्वः / ज्ञातश्च भोती ससुरासुरे जगे तृतीयाय क्षान्तीय इमे विशेषाः // srs_7.17 //

बुद्धान आचारु तथैव गोचरा ईर्यापथो यादृश नायकानाम् / सर्वत्र सो शिक्षितु भोति पण्डितस्तृतीयाय क्षान्तीय इमे विशेषाः // srs_7.18 //

ये लोकधातुष्विह केचि सत्त्वास्ते बोधिसत्त्वस्य भणेयु वर्णम् / (वैद्य 38) सचे ऽस्य तस्मिन् नानुनीयते मनो न शिक्षितो उच्यति बुद्धज्ञाने // srs_7.19 //

ये लोकधातुइष्विह केचि सत्त्वास्ते बोधिसत्त्वस्य भणेयु वर्णम् / सचे ऽस्य तेषु प्रतिहन्यते मनो न शिक्षितो ऽद्यापि स बुद्धज्ञाने // srs_7.20 //

अर्थेन लब्धेन न भोति सूमनो न चाप्यनर्थेन स भोति दुर्मनाः / शैलोपमे चित्ति सदा प्रतिष्ठितो अयं विशेषस्तृतीयाय क्षान्तियाः // srs_7.21 //

घोषानुगामी इय क्षान्तिरुक्ता चिन्तामयी भावनानुलोमिकी / श्रुतंमया सा अनुत्पत्तिका या शिक्षा च अत्राप्ययु बोधिमार्गः // srs_7.22 //

तिस्रो ऽपि क्षान्तीय सदा निरुत्तराः स बोधिसत्त्वेन भवन्ति लब्धाः / दृष्ट्वा ततस्तं सुगता नरोत्तमा वियाकरोन्ति विरजाय बोधये // srs_7.23 //

ततो ऽस्य तं व्याकरणं श्रुणित्वा प्रकम्पिता मेदिनी षड्विकारम् / आभाय क्षेत्रं भवते प्रभास्वरं पुष्पाणि च वर्षिषु देवकोट्यः // srs_7.24 //

तस्यो च तं व्याकरणं श्रुणित्वा सत्त्वान कोटी नियुता अचिन्तिया / उत्पादयी चित्त वराग्रबोधये वयं पि भेष्याम जिन आर्यचेतिकाः // srs_7.25 //

क्षान्त्या इमास्तिस्र निरुत्तरा यदा संबोधिसत्त्वेन भवन्ति लब्धाः / न चापि सो जायति नापि म्रीयते न चापि स च्यवति नोपपद्यते // srs_7.26 //

(वैद्य 39) यदा इमा क्षान्ति त्रयो निरुत्तरा संबोधिसत्त्वेन भवन्ति लब्धाः / न पश्यतेः जायति यश्च म्रीयते स्थितधर्मतां पश्यति सर्वधर्मान् // srs_7.27 //

तथाहि तेनो वितथेति ज्ञाता मायोपमा धर्म स्वभावशून्याः / न शून्यता जायति नो च म्रीयते स्वभावशून्या इमि सर्वधर्माः // srs_7.28 //

यदात्त्यसौ सत्कृतु भोति केनचिद् उपस्थितो मानितु पूजितो ऽर्चितः / न तस्य तस्मिन्ननुनीयते मनो जानाति सो धर्मस्वभावशून्यताम् // srs_7.29 //

आक्रुष्ट सत्त्वेहि प्रहारतर्जितो न तेषु क्रोधं कुरुते न मानम् / मैत्रीं च तेषु दृढ संजनेति तथैव सत्त्वान प्रमोचनाय // srs_7.30 //

लोष्टेहि दण्डेहि च ताड्यमानः प्रतिघातु तेषु न करोति पण्डितः / नैरात्म्यक्षान्तीय प्रतिष्ठितस्य न विद्यते क्रोधखिलं न मानः // srs_7.31 //

तथाहि तेनो वितथेति ज्ञाता मायोपमा धर्म स्वभावशून्याः / स तादृशे धर्मनये प्रतिष्ठितः सुसत्कृतो भोति सदेवलोके // srs_7.32 //

यदापि सत्त्वाः प्रगृहीतशस्त्राश्छिन्देयु तस्यो पृथु अङ्गमङ्गम् / न तस्य तेषु प्रतिहन्यते मनो न चापि मैत्री करुणा तु हीयते // srs_7.33 //

एवं च सो तत्र जनेति चित्तं छिन्दन्ति ते हि पृथु अङ्गमङ्गम् / (वैद्य 40) तथा न मह्यं शिव शान्ति निर्वृती यावन्न स्थाप्ये इमि अग्रबोधये // srs_7.34 //

एतादृशे क्षान्तिबले निरुत्तरे नैरात्म्यक्षान्तीसमताविहारिणाम् / संबोधिसत्त्वान महायशानां कल्पान कोट्यः सततं सुभाविताः // srs_7.35 //

ततोत्तरे यात्तिक गङ्गवालिका न ताव बोधी भवतीह स्पर्शिता / ये बुद्धज्ञानेन न करोति कार्यं किं वा पुनर्ज्ञान तथागतानाम् // srs_7.36 //

क्षपेतु वर्णं सुकरं न तेषां प्रभाषता कल्पशतान्यचिन्तिया / अनन्तकीर्तेन महायशानां नैरात्म्यक्षान्तीय प्रतिष्ठितानाम् // srs_7.37 //

तस्माद्धि यो इच्छति बोधि बुद्धितुं तं ज्ञानस्कन्धं प्रवरं निरुत्तरम् / स क्षान्ति भावेतु जिनेन वर्णितां न दुर्लभा बोधि वरा भविष्यति // srs_7.38 // इति श्रीसमाधिराजे त्रिक्षान्त्यवतारपरिवर्तो नाम सप्तमः ॥ 7 ॥ (वैद्य 41) 8 अभावसमुद्गतपरिवर्तः ।

तत्र पुनरपि भगवान् चन्द्रप्रभं कुमारभूतमामन्त्रयते स्म - भूतपूर्वं कुमार अतीते ऽध्वनि असंख्येयैः कल्पैरसंख्येयतरैर्विपुलरैप्रमेयैरचिन्त्यैरपरिमाणैर्यदासीत् । तेन कालेन तेन समयेन अभावसमुद्गतो नाम तथागतो ऽर्हन् सम्यक्संबुद्धो लोके उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान् । तत् किं मन्यसे कुमार केन कारणेन स तथागतो ऽभावसमुद्गत इत्युच्यते? स खलु पुनः कुमार तथागतो जातमात्र एवोपर्यन्तरीक्षे सप्ततालमात्रं वैहायसमभ्युद्गम्य सप्त पदानि प्रक्रमित्वा इमामेवंरूपां वाचमभाषत - अभावसमुद्गताः सर्वधर्माः, अभावसमुद्गताः सर्वधर्मा इति । तेन च कुमार शब्देन त्रिसाहस्रमहासाहस्रो लोकधातुः स्वरेणाभिविज्ञप्तो ऽभूत् । तत्र भौमान् देवानुपादाय यावद् ब्रह्मलोकं परंपरया शब्दमुदीरयामासुः घोषमनुश्रावयामासुः - अभावसमुद्गतो बतायं तथागतो भविष्यति, यो जातमात्र एवोपर्यन्तरीक्षे सप्ततालमात्रमभ्युद्गम्य सप्त पदानि प्रक्रमित्वा अभावशब्दमुदीरयति । इति ह्यभावसमुद्गतो ऽभावसमुद्गत इति तस्य तथागतस्य नामधेयमुदपादि । तस्य च भगवतो बोधिप्राप्तस्य सर्ववृक्षपत्रेभ्यः सर्वतृणगुल्मौषधिवनस्पतिभ्यः सर्वशैलशिखरेभ्यश्चाभावसमुद्गतशब्दो निश्चरति । यावति च तत्र लोकधातौ शब्दप्रज्ञप्तिः सर्वतो ऽभावसमुद्गतविज्ञप्तिशब्दो निश्चरति । तेन च कुमार कालेन तेन समयेन तस्य भगवतो ऽभावसमुद्गतस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य प्रवचने महाकरुणाचिन्ती नाम राजकुमारो ऽभूदभिरूपः प्रासादिको दर्शनीयः परमशुभवर्णपुष्कलतया समन्वागतः । अथ खलु कुमार स महाकरुणाचिन्ती नाम राजकुमारो येन भगवान् अभावसमुद्गतस्तथागतो ऽर्हन् सम्यक्संबुद्धस्तेनोसंक्रामत् । उपसंक्रम्य तस्य भगवतः पादौ शिरसाभिवन्द्य भगवन्तं त्रिः प्रदक्षिणीकृत्य एकान्ते ऽस्थात् ॥

अथ खलु कुमार स भगवान् अभावसमुद्गतस्तथागतो ऽर्हन् सम्यक्संबुद्धो महाकरुणाचिन्तिनो राजकुमारस्याध्याशयं विदित्वा इमं समाधिं देशयामास । अथ खलु कुमार स महाकरुणाचिन्ती राजकुमारः इमं समाधिं श्रुत्वा तुष्ट उदग्र आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजातः प्रसीदति स्म । प्रसन्नचित्तश्च केशश्मश्रूण्यवतार्य काषायाणि वस्त्राणि परिधाय सम्यगेव श्रद्धया अगारादनगारिकां प्रव्रजितो ऽभूत् । स प्रव्रजितः सन्निमं समाधिमुद्गृहीतवान् । उद्गृह्य पर्यवाप्य धारयित्वा वाचयित्वा भावनायोगमनुयुक्तो व्यहार्षीत् । स तैनैव कुशलमूलेन (वैद्य 42) विंशतिकल्पकोट्यो न जातु दुर्गतिविनिपातमगमत् । विंशतीनां कल्पानामत्ययेन अनुत्तरां सम्यक्संबोधिमभिसंबुद्धो ऽभूत् । सुविचिन्तितार्थो नाम तथागतो ऽर्हन् सम्यक्संबुद्धो लोक उदपादि । सर्वेषु च तेषु कल्पेषु विशतिं च बुद्धकोटीरारागयामास । पश्य कुमार यथायं समाधिर्बहुकरो बोधिसत्त्वानां महासत्त्वानामनुत्तरस्य बुद्धज्ञानस्य परिपूरणाय संवर्तते ॥

अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत -

स्मराम्यहं पूर्वमतीतमध्वनि अचिन्तिये कल्पि नराणमुत्तमः / उत्पन्नु लोकार्थकरो महर्षिर्नाम्ना हि सो ऽभावसमुद्गतो ऽभूत् // srs_8.1 //

स जातमात्रो गगने स्थिहित्वा सर्वेष धर्माण अभावु देशयी / तदानुरूपं कृतु नामधेयं शब्देन सर्वं त्रिसहस्र विज्ञपी // srs_8.2 //

देवापि सर्वे प्रमुमोच शब्दं अभावु नाम्नेति जिनो भविष्यति / यो जातमात्रः पद सप्त प्रक्रमन्नभावु धर्माण ब्रवीति नायकः // srs_8.3 //

बुद्धो यदा भेष्यति धर्मराजः सर्वेष धर्माण प्रकाशको मुनिः / तृणवृक्षगुल्मौषधिशैलपर्वते अभावु धर्माण रवो भविष्यति // srs_8.4 //

यावन्ति शब्दास्तहि लोकधातौ सर्वे ह्यभावा न हि कश्चि भावः / तावन्ति खो तस्य तथागतस्य स्वरु निश्चरी लोकविनायकस्य // srs_8.5 //

तस्मिंश्च काले अभु राजपुत्रः करुणाविचिन्ती सद नामधेयः / अभिरूप प्रासादिक दर्शनीय उपागमी तस्य जिनस्य अन्तिकम् // srs_8.6 //

(वैद्य 43) वन्दित्व पादौ मुनिपुंगवस्य प्रदक्षिणं कृत्य च गौरवेण / प्रसन्नचित्तो निषसाद तत्र श्रवणाय धर्मं विरजमनुत्तरम् // srs_8.7 //

स चो जिनो आशयु ज्ञात्व धीरः प्रकाशयामास समाधिमेतम् / श्रुत्वा च सो इमु विरजं समाधिं लघु प्रव्रजी जिनवरशासने ऽस्मिन् // srs_8.8 //

स प्रव्रजित्वान इमं समाधिं धारित्व वाचित्व पर्यापुणित्वा / कल्पान कोट्यः परिपूर्ण विंशतिं न जातु गच्छे विनिपातभूमिम् // srs_8.9 //

स तेन चैवं कुशलेन कर्मणा आरागयी विंशति बुद्धकोट्यः / तेषां च सर्वेषु जिनान अन्तिकादिमं वरं शान्त समाधि भावयी // srs_8.10 //

स पश्चिकाले अभु बुद्ध लोके सुचिन्तितार्थो सदनामधेयः / कृत्वा च अर्थं बहुप्राणकोटिनां स पश्चकालस्मि शिखीव निर्वृतः // srs_8.11 //

तस्माद्धि य इच्छति बोधि बुद्धितुं सत्त्वांश्च उत्तरायितुं भवार्णवात् / धारेत सूत्रमिमु बुद्धवर्णितं न दुर्लभा भेष्यति सो ऽग्रबोधिः // srs_8.12 // इति श्री समाधिराजे अभावसमुद्गतपरिवर्तो नामाष्टमः ॥ 8 ॥ (वैद्य 44) 9 गम्भीरधर्मक्षान्तिपरिवर्तः ।

तत्र भगवान् पुनरपि चन्द्रप्रभं कुमारभूतमामन्त्रयते स्म - तस्मात्तर्हि कुमार बोधिसत्त्वेन महासत्त्वेनेमं समाधिमाकाङ्क्षता क्षिप्रं चानुत्तरां सम्यक्संबोधिमभिसंबोद्धुकामेन गम्भीरधर्मक्षान्तिकुशलेन भवितव्यम् । कथं च कुमार बोधिसत्त्वो महासत्त्वो गम्भीरधर्मक्षान्तिकुशलो भवति? इह कुमार बोधिसत्त्वेन महासत्त्वेन मायोपमाः सर्वधर्मा यथाभूततः प्रज्ञातव्याः । स्वप्नोपमा मरीच्युपमाः प्रतिश्रुत्कोपमाः प्रतिभासोपमा उदकचन्द्रोपमा निर्मितोपमाः प्रतिबिम्बोपमा आकाशोपमाः सर्वधर्माः प्रज्ञातव्याः । यदा च कुमार बोधिसत्त्वेन महासत्त्वेन मायोपमाः सर्वधर्माः परिज्ञाता भवन्ति, स्वप्नोपमा मरीच्युपमाः प्रतिश्रुत्कोपमाः प्रतिभासोपमा उदकचन्द्रोपमा निर्मितोपमाः प्रतिबिम्बोपमा आकाशोपमाः सर्वधर्माः परिज्ञाता भवन्ति यथाभूततः तदायं कुमार बोधिसत्त्वो महासत्त्वो गम्भीरधर्मक्षान्तिकुशल इत्युच्यते । स गम्भीरया धर्मक्षान्त्या समन्वागतो रञ्जनीयेषु धर्मेषु न रज्यते, दोषणीयेषु धर्मेषु न दुष्यते, मोहनीयेषु धर्मेषु न मुह्यते । तत् कस्य हेतोः? तथा हि - स तं धर्मं न समनुपश्यति, तं धर्मं नोपलभते । यो रज्येत, यत्र वा रज्येत, येन वा रज्येत । यो दुष्येत, यत्र वा दुष्येत, येन वा दुष्येत । यो मुह्येत, यत्र वा मुह्येत, येन वा मुह्येत । स तं धर्मं न समनुपश्यति, तं धर्म नोपलभते । तं धर्ममसमनुपश्यन्ननुपलभमानो ऽरक्तो ऽदुष्टो ऽमूढो ऽविपर्यस्तचित्तः समाहित इत्युच्यते । निष्प्रपञ्चः...... । तीर्णः पारगतः...... । स्थलगतः...... । क्षेमप्राप्तः । अरूपप्राप्तः । शीलवान् । ज्ञानवान् ।

प्रज्ञावान् । पुण्यवान् । ऋद्धिमान्...... । स्मृतिमान्...... । मतिमान्...... । गतिमान् । ह्रीमान् ...... । धृतिमान् । चारित्रवान् । धूतगुणसंलेखवान् । अनङ्गनः । निष्किंचनः । अर्हन् । क्षीणास्रवः । निष्क्लेशो वशीभूतः सुविमुक्तचित्तः सुविमुक्तप्रज्ञः आजानेयो महानागः कृतकृत्यः कृतकरणीयो ऽपहृतभारो ऽनुप्राप्तस्वकार्थः परिक्षीणभवसंयोजनः सम्यगाज्ञासुविमुक्तचित्तः सर्वचेतोवशिपरमपारमिताप्राप्तः श्रमणः । ब्राह्मणः स्नातकः । पारगः वेदकः श्रोत्रियः । बुद्धपुत्रः । शाक्यपुत्रः । मर्दितकण्टकः । उत्क्षिप्तपरिखः । उदीर्णपरिखः । आक्षिप्तशल्यः । निर्जरः । भिक्षुः । अपरिवेष्टनः । पुरुषः । सत्पुरुषः । उत्तमपुरुषः । महापुरुषः । पुरुषसिंहः । पुरुषनागः । पुरुषाजानेयः । पुरुषधौरेयः पुरुषशूरः । पुरुषवीरः । पुरुषपुष्पः । पुरुषपद्मः । पुरुषपुण्डरीकः । पुरुषदमकः । पुरुषचन्द्रः । अकापुरुषः । पुरुषानुपलिप्तः इत्युच्यते । अथ खलु भगवास्तस्यां वेलायमिमा गाथा अभाषत -

यद लोकधातु न विवर्त भोति आकाशु भोति अयु सर्वलोकः / (वैद्य 45) यथैव तं पूर्वु तथैव पश्चात् तथोपमान् जानथ सर्वधर्मान् // srs_9.1 //

इदं जगद् याव च किंचि वर्तते अधस्तमेति अभूदापस्कन्धः / यथैव तं हेष्ठे तथैव ऊर्ध्वं तथोपमान् जानथ सर्वधर्मान् // srs_9.2 //

यथान्तरीक्षस्मि न किंचिदभ्रं क्षणेन चो दृश्यति अभ्रमण्डलम् / पूर्वान्तु जानीय कुतः प्रसूतं तथोपमान् जानथ सर्वधर्मान् // srs_9.3 //

तथागतस्यो यथ निर्वृतस्य मनसि करोन्तः प्रतिबिम्बु दृश्यते / यथैव तं पूर्वु तथैव पश्चात् तथोपमान् जानथ सर्वधर्मान् // srs_9.4 //

यथैव फेनस्य महान्तु पिण्डमोघेन उच्छेत्तु नरो निरीक्षते / निरीक्ष्य सो तत्र न सारसंदर्शी तथोपमान् जानथ सर्वधर्मान् // srs_9.5 //

देवे यथा वर्षति स्थूलबिन्दुके पृथक् पृथग् बुद्बुद संभवन्ति / उत्पन्नभग्ना न हि सन्ति बुद्बुदास्तथोपमान् जानथ सर्वधर्मान् // srs_9.6 //

यथैव ग्रामान्तरि लेखदर्शनात् क्रियाः प्रवर्तन्ति पृथक् शुभाशुभाः / न लेखसंक्रान्ति गिराय विद्यते तथोपमान् जानथ सर्वधर्मान् // srs_9.7 //

यथा नरो मानमदेन मोहितो भ्रमन्ति संजानतिमां वसुंधराम् / न चो महीया चलितं न कम्पितं तथोपमान् जानथ सर्वधर्मान् // srs_9.8 //

(वैद्य 46) आदर्शपृष्ठे तथ तैलपात्रे निरीक्षते नारि मुखं स्वलंकृतम् / सा तत्र रागं जनयित्व बाला प्रधाविता काम गवेषमाणा // srs_9.9 //

मुखस्य संक्रान्ति यदा न विद्यते बिम्बे मुखं नैव कदाचि लभ्यते / यथा स मूढा जनयेत रागं तथोपमान् जानथ सर्वधर्मान् // srs_9.10 //

यथैव गन्धर्वपुरं मरीचिका यथैव माया सुपिनं यथैव / स्वभावशून्या तु निमित्तभावना तथोपमान् जानथ सर्वधर्मान् // srs_9.11 //

यथैव चन्द्रस्य नभे विशुद्धे ह्रदे प्रसन्ने प्रतिबिम्ब दृश्यते / शशिस्य संक्रान्ति जले न विद्यते तल्लक्षणान् जानथ सर्वधर्मान् // srs_9.12 //

यथा नरः शैलवनान्तरे स्थितो भणेय्य गायेय्य हसेय्य रोदये / प्रतिश्रुत्का श्रूयति नो च दृश्यते तथोपमान् जानथ सर्वधर्मान् // srs_9.13 //

गीते च वाद्ये च तथैव रोदिते प्रतिश्रुत्का जायति तं प्रतीत्य / गिराय घोषो न कदाचि विद्यते तथोपमान् जानथ सर्वधर्मान् // srs_9.14 //

यथैव कामान् सुपिनन्त सेविय प्रतिबुद्धसत्त्वः पुरुषो न पश्यति / स बाल कामेष्वतिकामलोभी तथोपमान् जानथ सर्वधर्मान् // srs_9.15 //

रूपान् यथा निर्मिणि मायकारो हस्तीरथानश्वरथान् विचित्रान् / (वैद्य 47) न चात्र कश्चिद् रथ तत्र दृशते तथोपमान् जानथ सर्वधर्मान् // srs_9.16 //

यथा कुमारी सुपिनान्तरस्मिन् सा पुत्र जातं च मृतं च पश्यति / जाते ऽतितुष्टा मृते दौर्मनःस्थिता तथोपमान् जानथ सर्वधर्मान् // srs_9.17 //

यथा मृतां मातरमात्मजं वा स्वप्ने तु वै रोदिति उच्चशब्दम् / न तस्य माता म्रियते न पुत्रस्तथोपमान् जानथ सर्वधर्मान् // srs_9.18 //

यथैव रात्रौ जल चन्द्र दृश्यते अच्छस्मि वारिस्मि अनाविलस्मि / अग्राह्य तुच्छो जल चन्द्रशून्य तथोपमान् जानथ सर्वधर्मान् // srs_9.19 //

यथैव ग्रीष्माण मध्याह्नकाले तृषाभितप्तः पुरुषो व्रजेत / मरीचिकां पश्यति तोयराशिं तथोपमान् जानथ सर्वधर्मान् // srs_9.20 //

मरीचिकायामुदकं न विद्यते स मूढ सत्त्वः पिबितुं तदिच्छति / अभूतवारिं पिबितुं न शक्यते तथोपमान् जानथ सर्वधर्मान् // srs_9.21 //

यथैव आर्द्रं कदलीय स्कन्धं सारार्थिकः पुरुषु विपाटयेत / बहिर्वा अध्यात्म न सारमस्ति तथोपमान् जानथ सर्वधर्मान् // srs_9.22 //

न चक्षुं प्रमाणं न श्रोत्र घ्राणं न जिह्व प्रमाणं न कायचित्तम् / प्रमाण यद्येत भवेयुरिन्द्रिया कस्यार्यमार्गेण भवेत कार्यम् // srs_9.23 //

(वैद्य 48) यस्मादिमे इन्द्रिय अप्रमाणा जडाः स्वभावेन अव्याकृताश्व / तस्माद् य निर्वाणपथैव अर्थिकः स आर्यमार्गेण करोतु कार्यम् // srs_9.24 //

पूर्वान्तु कायस्य अवेक्षमाणो नैवात्र कायो नपि कायसंज्ञा / न यत्र कायो नपि कायसंज्ञा असंस्कृतं गोत्रमिदं प्रवुच्यति // srs_9.25 //

निवृत्ति धर्माण न अस्ति धर्मा येनेति नास्ति न ते जातु अस्ति / अस्तीति नास्तीति च कल्पनावतामेवं चरन्तान न दुःख शाम्यति // srs_9.26 //

अस्तीति नास्तीति उभे ऽपि अन्ता शुद्धी अशुद्धीति इमे ऽपि अन्ता / तस्मादुभे अन्त विवर्जयित्वा मध्ये ऽपि स्थानं न करोति पण्डितः // srs_9.27 //

अस्तीति नास्तीति विवाद एष शुद्धी अशुद्धीति अयं विवादः / विवादप्राप्तान न दुःख शाम्यति अविवादप्राप्तान दुःखं निरुध्यते // srs_9.28 //

स्मृतेरुपस्थानकथां कथित्वा मन्यन्ति बाला वय कायसाक्षी / न कायसाक्षिस्य च अस्ति मन्यना प्रहीण तस्यो पृथु सर्व मन्यना // srs_9.29 //

चतुर्षु ध्यानेषु कथां कथित्वा वदन्ति बाला वयं ध्यानगोचराः / न क्लेशध्यायि न च अस्ति मन्यना विदित्व ज्ञानेन मदः प्रहीयते // srs_9.30 //

चतुर्षु सत्त्वेषु कथां कथित्वा वदन्ति बाला वय सत्यदर्शिनः / (वैद्य 49) न सत्यदर्शिस्य च काचि मन्यना अमन्यना सत्य जिनेन देशिता // srs_9.31 //

रक्षेत शीलं न च तेन मन्ये श्रुणेय्य धर्मं न च तेन मन्ये / यनैव सो मन्यति अल्पप्रज्ञो तन्मूलकं दुःख विवर्धते ऽस्य // srs_9.32 //

दुःखस्य मूलं मदु संनिदर्शितं सर्वज्ञिना लोकविनायकेन / मदेन मत्तान दुःखं प्रवर्धते अमन्यमानान दुखं निरुध्यते // srs_9.33 //

कियद्बहून् धर्म पर्यापुणेय्या शीलं न रक्षेत श्रुतेन मत्तः / न बाहुश्रुत्येन स शक्यु तायितुं दुःशील येन व्रजमान दुर्गतिम् // srs_9.34 //

सचेत् पुनः शीलमदेन मत्तो न बाहुश्रुत्यस्मि करोति योगम् / क्षयेत्व सो शीलफलमशेषं पुनो ऽपि स प्रत्यनुभोति दुःखम् // srs_9.35 //

किंचापि भावेय्य समाधि लोके न चो विभावेय्य स आत्मसंज्ञाम् / पुनः प्रकुप्यन्ति किलेशु तस्य यथोद्रकस्येह समाधिभावना // srs_9.36 //

नैरात्म्यधर्मान् यदि प्रत्यवेक्षते तान् प्रत्यवेक्ष्य यदि भावयेत / स हेतु निर्वाणफलस्य प्राप्तये यो अन्यहेतुर्न स भोति शान्तये // srs_9.37 //

यथा नरश्चौरगणैरुपद्रुतः पलायितुमिच्छति जीवितार्थिकः / न तस्य पादाः प्रभवन्ति गच्छितुं गृहीत्व चौरेहि स तत्र हन्यते // srs_9.38 //

(वैद्य 50) एवं नरः शीलविहीन मूढः पलायितुमिच्छति संस्कृतातः / स शीलहीनो न प्रभोति गच्छितुं जराय व्याध्या मरणेन हन्यते // srs_9.39 //

यथैव चौराण बहू सहस्रो नानामुखेहि प्रकरोति पापम् / एवं किलेशा विविधैर्मुखेभिर्यथैव चौरो हनि शुक्लपाक्षम् // srs_9.40 //

येन सुनिध्याप्तु निरात्मस्कन्धा आक्रुष्ठु परिभाष्टु न शङ्कु भोति / स क्लेशमारस्य वशं न गच्छते यः शून्यतां जानति सो न कुप्यते // srs_9.41 //

बहू जनो भाषति स्कन्धशून्यतां न च प्रजानाति यथा निरात्मकाः / ते अप्रजानन्त परेहि चोदिताः क्रोधाभिभूताः परुषं वदन्ति // srs_9.42 //

यथा नरो आतुरु कायदुःखितो बहूहि वर्षेहि न जातु मुच्यते / स दीर्घगैलान्यदुखेन पीडितः पर्येषते वैद्यु चिकित्सनार्थिकः // srs_9.43 //

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.