Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 9/14

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luật tạng

सङ्घभेदवस्तु

Thông tin
GRETIL — R. Gnoli with the assistance of T. Venkatacharya: The Gilgit Manuscript of the Saṅghabhedavastu, Being the 17th and Last Section of the Vinaya of the Mūlasarvāstivādin, Roma 1977-78 (Serie Orientale Roma, 49).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

स्थविरस्थविरैर् भिक्षुभिः परिसर्पन्न् एव विज्ञातः देवदत्तः, समग्रस्य संघस्य भेदाय पराक्रमति इति; एतत् प्रकरणं भिक्षवः भगवत आरोचयन्ति; भदन्त देवदत्तः समग्रस्य संघस्य भेदाय पराक्रमति इति; तान् भगवान् भिक्षून् आमन्त्रयते स्म: आज्ञापयत यूयं भिक्षवो देवदत्तं (sbv ii 80) मेषकेन इति, यो वा पुनर् अन्यो ऽप्य् एवंजातीयः (अ 454अ) एवं च पुनर् आज्ञापयितव्यः; मा त्वं देवदत्त समग्रस्य संघस्य भेदाय पराक्रम; मा भेदकरणसंवर्तनीयम् अधिकरणं समादाय प्रगृह्य तिष्ठ; समेतु ते देवदत्त सार्धं संघेन; समग्रो हि संघः सहितः संमोदमानः अविवदमानः एकाग्रः एकोद्देशः एकक्षीरोदकीभूतः शास्तुः शासनं दीपयन् सुखस्पर्शं विहरतु इति; आज्ञापयन्ति ते भिक्षवो देवदत्तं मेषकेन; मेषकेनाज्ञाप्यमानस् तद् एव वस्तु स्थामशः परामृश्य अभिनिविश्यानुव्यवहरति: इदम् एव सत्यं मोहम् अन्यद् इति. एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति: आज्ञाप्तो ऽस्माभिर् भदन्त देवदत्तो मेषकेन; मेषकेनाज्ञाप्यमानस् तद् एव वस्तु स्थामशः परामृश्य अभिनिविश्यानुव्यवहरति इदम् एव सत्यं मोहम् अन्यद् इति; भगवान् आह: आज्ञापयत यूयं भिक्षवो देवदत्तं ज्ञप्तिचतुर्थेन कर्मणा इति, यो वा पुनर् अन्यो ऽप्य् एवंजातीयः एवं च पुनर् आज्ञापयितव्यः. शयनासनप्रज्ञप्तिं कृत्वा गण्डीम् आकोट्य पृष्टवाचिकया भिक्षून् समनुयुज्य सर्वसंघे सन्निषण्णे सन्निपतिते एकेन भिक्षुणा ज्ञप्तिं कृत्वा कर्म कर्तव्यं. शृणोतु भदन्ताः संघः; अयं देवदत्तः समग्रस्य संघस्य भेदाय पराक्रमते; भेदकरणसंवर्तनीयं चाधिकरणं समादाय

प्रगृह्य तिष्ठति; स एष संबहुलैर् भिक्षुभिर् मेषकेनाज्ञप्तः; मेषकेनाज्ञाप्यमानस् तद् एव वस्तु स्थामशः परामृश्य अनुव्यवहरति इदम् एव सत्यं मोहम् अन्यद् इति; सचेत् संघस्य प्राप्तकालं क्षमेत आनुजानीयात् संघो यत् संघः देवदत्तं ज्ञप्तिचतुर्थेन कर्मणा आज्ञापयेत् मा त्वं देवदत्त समग्रस्य संघस्य भेदाय पराक्रम; मा भेदकरणसंवर्तनीयम् अधिकरणं समादाय प्रगृह्य तिष्ठ; समेतु ते देवदत्त सार्धं संघेन; समग्रो हि संघः सहितः संमोदमानः अविवदमानः एकाग्रः एकोद्देशः एकक्षीरोदकीभूतः शास्तुः शासनं दीपयन् सुखस्पर्शं विहरतु; निःसृज त्वं (sbv ii 81) देवदत्त इदम् एवंरूपं संघभेदकरं वस्तु; इत्य् एषा ज्ञप्तिः; एवं च कर्म कर्तव्यं. शृणोतु भदन्ताः संघः; अयं देवदत्तः समग्रस्य संघस्य भेदाय पराक्रमते; भेदकरणसंवर्तनीयं चाधिकरणं समादाय प्रगृह्य तिष्ठति; स एष संबहुलैर् भिक्षुभिर् मेषकेनाज्ञप्तः; मेषकेनाज्ञाप्यमानस् तद् एव वस्तु स्थामशः परामृश्य अभिनिविश्यानुव्यवहरति इदम् एव सत्यं मोहम् अन्यद् इति; तत् संघः देवदत्तं ज्ञप्तिचतुर्थेन कर्मणा आज्ञापयति: मा त्वं देवदत्त समग्रस्य संघस्य भेदाय पराक्रम; मा भेदकरणसंवर्तनीयम् चाधिकरणं समादाय प्रगृह्य तिष्ठ; समेतु ते देवदत्त सार्धं संघेन; समग्रो हि संघः सहितः संमोदमानः अविवदमानः एकाग्रः एकोद्देशः एकक्षीरोदकीभूतः शास्तुः शासनं दीपयन् सुखस्पर्शं विहरत्व् इति; येषाम् आयुष्मतां क्षमते देवदत्तं ज्ञप्तिचतुर्थेन कर्मणा आज्ञापयितुं; मा त्वं देवदत्त समग्रस्य संघस्य भेदाय पराक्रम; (अ

454ब्) भेदकरणसंवर्तनीयम् चाधिकरणं समादाय प्रगृह्य तिष्ठ; समेतु ते देवदत्त सार्धं संघेन; समग्रो हि संघः सहितः संमोदमानः अविवदमानः एकाग्रः एकोद्देशः एकक्षीरोदकीभूतः शास्तुः शासनं दीपयन् सुखस्पर्शं विहरतु इति ते तूष्णीं; न क्षमन्ते भाषन्ताम् इयं प्रथमा कर्मवाचना; एवं द्वितीया तृतीया कर्मवाचना. आज्ञापयन्ति ते भिक्षवो देवदत्तं ज्ञप्तिचतुर्थेन कर्मणा; आज्ञाप्यमानस् तद् एव वस्तु स्थामशः परामृश्याभिनिविश्य अनुव्यवहरति: इदम् एव सत्यं मोहम् अन्यद् इति.

the behaviour of the four monks followers of devadatta is discused in the congregation

चत्वारश् चास्य भिक्षवः सहायकाः अनुवर्तिनो व्यग्रवादितायां, कोकालिकखण्डद्रव्यकटमोरकतिष्यसमुद्रदत्ताः; ते भिक्षून् एवं वदन्ति: मा यूयम् आयुष्मन्तो ऽस्य भिक्षोः किंचिद् वोचत कल्याणं वा पापकं वा; तत् कस्य हेतोः? एष हि भिक्षुर् धर्मवादी विनयवादी; धर्मं चैष भिक्षुर् विनयं च समादाय प्रगृह्य अनुव्यवहरति; जानंश् चैष भिक्षुर् भाषते, नाजानन्; (sbv ii 82) यच् चास्मै भिक्षवे रोचते, क्षमते च, अस्माकम् अपि तद् रोचते क्षमते च इति. एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति: आज्ञाप्तो ऽस्माभिर् भदन्त देवदत्तः ज्ञप्तिचतुर्थेन कर्मणा आज्ञाप्यमानस् तद् एव वस्तु स्थामशः परामृश्य अभिनिविश्यानुव्यवहरति इदम् एव सत्यं मोहम् अन्यद् इति; चत्वारश् चास्य भिक्षवः सहायकाः अनुवर्तिनो व्यग्रवादितायां, कोकालिकखण्डद्रव्यकटमोरकतिष्यसमुद्रदत्ताः; ते भिक्षून् एवं वदन्ति: मा यूयम् आयुष्मन्तो ऽस्य भिक्षोः किंचिद् वोचत कल्याणं वा पापकं वा; एष हि भिक्षुर् धर्मवादी विनयवादी; धर्मं चैष भिक्षुर् विनयं च समादाय प्रगृह्यानुव्यवहरति; जानंश् चैष भिक्षुर् भाषते, नाजानन्; यच् चास्मै भिक्षवे रोचते च क्षमते च, अस्माकम् अपि तद् रोचते च क्षमते च इति. भगवान् आह: आज्ञापयत यूयं भिक्षवः कोकालिकखण्डद्रव्यकटमोरकतिष्यसमुद्रदत्ता मेषकेन; एवं पुनर् आज्ञापयितव्याः: मा यूयं कोकालिकखण्डद्रव्यकटमोरकतिष्यसमुद्रदत्ताः जानन्तो यो भिक्षुसमग्रस्य संघस्य भेदाय पराक्रमते, भेदकरणसंवर्तनीयं चाधिकरणं समादाय प्रगृह्य तिष्ठति, तस्यानुवर्तिनो भवत व्यग्रवादितायां; मा च भिक्षून् एवं वदत: मा यूयम्

आयुष्मन्तः अस्य भिक्षोः किंचिद् वोचत कल्याणं वा पापकं वा; तत् कस्य हेतोः? धर्मवादी चैषो आयुष्मन्तो भिक्षुः, विनयवादी च; धर्मं चैष भिक्षुर् विनयं च समादाय प्रगृह्यानुव्यवहरति; जानंश् चैष भिक्षुर् भाषते, नाजानन्; यच् चास्मै भिक्षवे रोचते च क्षमते च, अस्माकम् अपि तद् रोचते च क्षमते च इति; मा यूयम् आयुष्मन्तः संघभेदं रोचयत; समेत्व् आयुष्मतां सार्धं संघेन; समग्रो हि संघः सहितः संमोदमानो ऽविवदमान एकाग्रः एकोद्देशः एकक्षीरोदकीभूतः शास्तुः शासनं दीपयन् सुखस्पर्शं विहरतु; निःसृजन्त्व् (अ 455अ) आयुष्मन्तः इमाम् एवंरूपं संघभेदानुवर्तनीं व्यग्रवादिताम् इति; आज्ञापयन्ति ते भिक्षवः कोकालिकखण्डद्रव्यकटमोरकतिष्यसमुद्रदत्तान् मेषकेन; ते मेषकेनाज्ञाप्यमानस् तद् एव वस्तु स्थामशः परामृश्यानुव्यवहरति इदम् एव सत्यं मोहम् अन्यद् इति. एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति: आज्ञाप्ता अस्माभिर् भदन्त कोकालिकखण्डद्रव्यकटमोरकतिष्यसमुद्रदत्ताः (sbv ii 83) मेषकेन; ते मेषकेनाज्ञाप्यमानस् तद् एव वस्तु स्थामशः परामृश्य अभिनिविश्य अनुव्यवहरति इदम् एव सत्यं मोहम् अन्यद् इति; भगवान् आह: आज्ञापयत यूयं भिक्षवः कोकालिकखण्डद्रव्यकटमोरकतिष्यसमुद्रदत्तान् ज्ञप्तिचतुर्थेन कर्मणा इति, ये वा पुनर् अन्ये ऽप्य् एवंजातीयः एवं च पुनर् आज्ञापयितव्याः. शयनासनप्रज्ञप्तिं कृत्वा गण्डीम् आकोट्य पृष्टवाचिकया भिक्षून् समनुयुज्य सर्वसंघे सन्निषण्णे सन्निपतिते एकेन भिक्षुणा ज्ञप्तिं कृत्वा कर्म कर्तव्यं. शृणोतु भदन्ताः संघः; इमे कोकालिकखण्डद्रव्यकटमोरकतिष्यसमुद्रदत्ताः जानन्तो यो

भिक्षुः समग्रस्य संघस्य भेदाय पराक्रमति, तस्यानुवर्तिनो भविष्यन्ति व्यग्रवादितायां; भिक्षूंश् चैवं वदन्ति: मा यूयम् आयुष्मन्तो ऽस्य भिक्षोः किंचिद् वोचत कल्याणं वा पापकं वा; तत् कस्य हेतोः? धर्मवादी चैषो आयुष्मन्तो भिक्षुः, विनयवादी च; धर्मं च एष भिक्षुर् विनयं च समादाय प्रगृह्य अनुव्यवहरति; जानंश् चैष भिक्षुर् भाषते, न अजानन्; यच् चास्मै भिक्षवे रोचते क्षमते च, अस्माकम् अपि तद् रोचते क्षमते च इति; त एवं संबहुलैर् भिक्षुभिर् मेषकेन आज्ञाप्यमानास् तद् एव वस्तु स्थामशः परामृश्याभिनिविश्य अनुव्यवहरन्ति इदम् एव सत्यं मोहम् अन्यद् इति; सचेत् संघस्य प्राप्तकालं क्षमेत अनुजानीयात् संघो यत् संघः कोकालिकखण्डद्रव्यकटमोरकतिष्यसमुद्रदत्तान् ज्ञप्तिचतुर्थेन कर्मणा आज्ञापयति: मा यूयं कोकालिकखण्डद्रव्यकटमोरकतिष्यसमुद्रदत्ताः जानन्तो यो भिक्षुः समग्रस्य संघस्य भेदाय पराक्रमति भेदकरणसंवर्तनीयं चाधिकरणं समादाय प्रगृह्य तिष्ठति; तस्यानुवर्तिनो भवत व्यग्रवादितायां; मा च भिक्षून् एवं वदत: मा यूयम् आयुष्मन्तो ऽस्य भिक्षोः किंचिद् वोचत कल्याणं वा पापकं वा; तत् कस्य हेतोः? धर्मवादी चैष भिक्षुः, विनयवादी च; धर्मं च एष भिक्षुर् विनयं च समादाय प्रगृह्य अनुव्यवहरति; जानंश् चैष भिक्षुर् भाषते, न अजानन्; यच् चास्मै भिक्षवे रोचते च क्षमते च, अस्माकम् अपि तद् रोचते च क्षमते च इति; तत् कस्य हेतोः? नैष आयुष्मन्तो भिक्षुर् धर्मवादी विनयवादी च; अधर्मवादी चैष भिक्षुर् अविनयवादी च; अधर्मं चैष भिक्षुर् अविनयं च समादाय प्रगृह्य अनुव्यवहरति; अजानंश्

चैष भिक्षुर् भाषते, न अजानन्; निःसृजन्त्व् आयुष्मन्तः इमाम् एवंरूपां संघभेदानुवर्तिनीं (sbv ii 84) व्यग्रवादितायां; समेत्व् आयुष्मतां सार्धं संघेन; समग्रो हि संघः संमोदमानः अविवदमानः एकाग्रः एकोद्देशः एकक्षीरोदकीभूतः शास्तुः (अ 455ब्) शासनं दीपयन् सुखस्पर्शं विहरतु; इत्य् एषा ज्ञप्तिः; एवं च कर्म कर्तव्यं. शृणोतु भदन्ताः संघः; इमे कोकालिकखण्डद्रव्यकटमोरकतिष्यसमुद्रदत्ताः जानन्तो यो भिक्षुः समग्रस्य संघस्य भेदाय पराक्रमति, तस्यानुवर्तिनो भविष्यन्ति व्यग्रवादितायां; भिक्षूंश् चैवं वदन्ति: मा यूयम् आयुष्मन्तो ऽस्य भिक्षोः किंचिद् वोचत कल्याणं वा पापकं वा; तत् कस्य हेतोः? धर्मवादी चैषो आयुष्मन्तो भिक्षुः, विनयवादी च; धर्मं च एष भिक्षुर् विनयं च समादाय प्रगृह्य अनुव्यवहरति; जानंश् चैष भिक्षुर् भाषते, न अजानन्; यच् चास्मै भिक्षवे रोचते क्षमते च, अस्माकम् अपि तद् रोचते क्षमते च इति; त एवं संबहुलैर् भिक्षुभिर् मेषकेन आज्ञाप्यमानास् तद् एव वस्तु स्थामशः परामृश्याभिनिविश्य अनुव्यवहरन्ति इदम् एव सत्यं मोहम् अन्यद् इति; तत् संघः कोकालिकखण्डद्रव्यकटमोरकतिष्यसमुद्रदत्तान् ज्ञप्तिचतुर्थेन कर्मणाज्ञापयति: मा यूयं कोकालिकखण्डद्रव्यकटमोरकतिष्यसमुद्रदत्ता जानन्तो यो भिक्षुः समग्रस्य संघस्य भेदाय पराक्रमते भेदकरणसंवर्तनीयं चाधिकरणं समादाय प्रगृह्य तिष्ठति; तस्यानुवर्तिनो भवत व्यग्रवादितायां; मा च भिक्षून् एवं वदत: मा यूयम् आयुष्मन्तो ऽस्य भिक्षोः किंचिद् वोचत कल्याणं वा पापकं वा; तत् कस्य हेतोः? धर्मवादी चैष भिक्षुः, विनयवादी च; धर्मं

चैष भिक्षुर् विनयं च समादाय प्रगृह्य अनुव्यवहरति; जानंश् चैष भिक्षुर् भाषते, न अजानन्; यच् चास्मै भिक्षवे रोचते च क्षमते च, अस्माकम् अपि तद् रोचते च क्षमते च इति; तत् कस्य हेतोः? नैष भिक्षुर् धर्मवादी न विनयवादी; अधर्मं चैष भिक्षुर् अविनयं च समादाय प्रगृह्यानुव्यवहरति; अजानंश् चैष भिक्षुर् भाषते, न जानन्; मा आयुष्मन्तः संघभेदं रोचयन्तु; संघसामग्रीम् एव रोचयन्तु; समेत्व् आयुष्मतां सार्धं संघेन; समग्रो हि संघः सहितः संमोदमानः अविवदमानः एकाग्रः एकोद्देशः एकक्षीरोदकीभूतः शास्तुः शासनं दीपयन् सुखस्पर्शं विहरतु; निःसृजन्त्व् आयुष्मन्तः इमाम् एवंरूपं संघभेदानुवर्तिनीं व्यग्रवादिताम् इति. येषाम् आयुष्मतां क्षमन्ते कोकालिकखण्डद्रव्यकटमोरकतिष्यसमुद्रदत्तान् ज्ञप्तिचतुर्थेन कर्मणा आज्ञापयितुं; मा यूयं कोकालिकखण्डद्रव्यकटमोरकतिष्यसमुद्रदत्ताः जानन्तो यो भिक्षुः समग्रस्य संघस्य भेदाय पराक्रमते भेदकरणसंवर्तनीयं चाधिकरणं समादाय प्रगृह्य तिष्ठति; तस्यानुवर्तिनो भवत व्यग्रवादितायां; मा च भिक्षून् एवं वदत: मा यूयम् आयुष्मन्तो ऽस्य भिक्षोः किंचिद् वोचत कल्याणं वा पापकं वा; तत् कस्य हेतोः? धर्मवादी चैष भिक्षुः, विनयवादी च; धर्मं चैष भिक्षुर् विनयं च समादाय प्रगृह्य अनुव्यवहरति; जानंश् चैष भिक्षुर् भाषते, न अजानन्; यच् चास्मै भिक्षवे रोचते च क्षमते च, अस्माकम् अपि तद् रोचते च क्षमते च इति; तत् कस्य हेतोः? नैष भिक्षुर् धर्मवादी न विनयवादी; अधर्मं चैष भिक्षुर् अविनयं च समादाय प्रगृह्यानुव्यवहरति; अजानंश् चैष भिक्षुर्

भाषते, न जानन्; मा आयुष्मन्तः संघभेदं रोचयन्तु; संघसामग्रीम् एव रोचयन्तु; समेत्व् आयुष्मतां सार्धं संघेन; समग्रो हि संघः सहितः संमोदमानः अविवदमानः एकाग्रः एकोद्देशः एकक्षीरोदकीभूतः शास्तुः शासनं दीपयन् सुखस्पर्शं विहरतु; निःसृजन्त्व् आयुष्मन्तः इमाम् एवंरूपं संघभेदानुवर्तिनीं व्यग्रवादिताम् इति ते तूष्णीं; न क्षमन्ते भाषन्ताम् इयं प्रथमा कर्मवाचना; एवं द्वितीया तृतीया कर्मवाचना. (sbv ii 85) आज्ञापयन्ति ते भिक्षवः कोकालिकखण्डद्रव्यकटमोरकतिष्यसमुद्रदत्तान् ज्ञप्तिचतुर्थेन कर्मणा; ते भ्क्षुभिर् ज्ञप्तिचतुर्थेन कर्मणा आज्ञाप्यमानस् तद् एव वस्तु स्थामशः परामृश्य अभिनिविश्य अनुव्यवहरति: इदम् एव सत्यं मोहम् अन्यद् इति.

the monks inform the buddha of the result of the motion (jñapti). devadatta gets stronger in his resolution to bring about the schism in the congregation

एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति: आज्ञाप्ता अस्माभिर् भदन्त कोकालिकखण्डद्रव्यकटमोरकतिष्यसमुद्रदत्ताः ज्ञप्तिचतुर्थेन कर्मणा; आज्ञाप्यमानस् ते तद् एव वस्तु स्थामशः परामृश्याभिनिविश्य अनुव्यवहरति: इदम् एव सत्यं मोहम् अन्यद् इति; तत्र भगवान् भिक्षून् आमन्त्रयते स्म: प्रतिबलो मे भिक्षवो देवदत्तः समग्रं श्रावकसंघं भेत्तुं चक्रभेदं च कर्तुं; तथा चास्य चत्वारो भिक्षवः सहायकाः अनुवर्तिनो व्यग्रवादितायां कोकालिकखण्डद्रव्यकटमोरकतिष्यसमुद्रदत्ताः. देवदत्तेन श्रुतं व्याकृतो ऽहं श्रमणेन गौतमेन प्रतिबलो मे भिक्षवो देवदत्तः समग्रं श्रावकसंघं भेत्तुं चक्रभेदं च कर्तुं; तथा चास्य चत्वारो भिक्षवः सहायकाः अनुवर्तिनो व्यग्रवादितायां कोकालिकखण्डद्रव्यकटमोरकतिष्यसमुद्रदत्ताः इति; श्रुत्वा च पुनः कोकालिकखण्डद्रव्यकटमोरकतिष्यसमुद्रदत्तान् आमन्त्रयते: (अ 456अ) यत् खलु कोकालिकखण्डद्रव्यकटमोरकतिष्यसमुद्रदत्ताः जानीयात, व्याकृतो ऽहं श्रमणेन गौतमेन प्रतिबलो देवदत्तः समग्रं श्रावकसंघं भेत्तुं चक्रभेदं च कर्तुं; तथा चास्य चत्वारो भिक्षवः सहायकाः कोकालिकखण्डद्रव्यकटमोरकतिष्यसमुद्रदत्ता इति; यन्न्व् अहं भूयस्या मत्रया संघभेदाय पराक्रमेय इति; स पंचभिर् भिक्षुशतैः सार्धम् अन्ते आरामस्य गणभोजनं भुङ्क्ते; एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति. भगवान् आह: किं मन्यध्वे भिक्षवः? किमर्थं तथागतेन त्रिकभोजनम् अनुज्ञातं; गणभोजनं प्रतिक्षिप्तं? ननु द्वाव् अर्थाउ संपश्यता, कुलोदयतां च प्रतीत्य, पापेच्छानां (sbv ii 86) च पुद्गलानां पक्षप्रलोपनार्थं; मा हैव पापेच्छः पुद्गलः संघम् एवागम्य, संघम् एवोद्दिश्य, संघम् एवावेदयित्वा पाषण्डिक इव कृत्वा संघेनैव सार्धं विगृह्य विवादं स्थापयेत् इति.

devadatta loses his magical powers

यदा आयुष्मता दशबलकाश्यपेन देवदत्तस्य ऋद्धेर् मार्गो व्यपदिष्टः, तदासौ भिक्षुभिर् उच्यते: कस्मात् त्वया स्थविर देवदत्तस्य पापेच्छस्य ऋद्धेर् मार्गो व्यपदिष्टः? स कथयति: नाहम् आयुष्मन्तो जाने यथायं पापेच्छ इति; यदि मया ज्ञातम् अभविष्यत् ऋकारो ऽप्य् अस्य मया न व्यपदिष्टो ऽभविष्यत्; प्राग् एव ऋद्धेर् मार्गः इति; ततो देवदत्तः भिक्षुभिः प्रणयम् आस्थायोच्यते; देवदत्त या काचित् श्रीसौभाग्यसंपत्, सर्वासौ स्थविरं दशबलकाश्यपम् आगम्य; न त्वं तस्य सकाशम् उपसंक्रामसि इति; ते संलक्षयन्ति: अप्य् एव नामायम् अस्माभिः प्रबोधितः तस्य सकाशम् उपसंक्रामेत्; स एवं प्रतिनिवर्तयेत् इति; स एवं प्रतिचोदितः कथयति: किं मम तेन कृतं? ननु मया वीर्यम् आधाय, पूर्वरात्रापररात्रं जागरिकायोगम् अनुयुक्तेन विहरता प्रथमं ध्यानं निश्रित्य ऋद्धिर् अभिनिर्हृता इति; स वाक्प्रव्याहरणकालसमनन्तरम् एव तया अकृतज्ञतया ऋद्धेः परिहीणः. भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: पश्य भदन्त देवदत्तः अकृतज्ञतया ऋद्धेः परिहीणः इति; भगवान् आह: न भिक्षव एतर्हि, यथा अतीते ऽप्य् अध्वन्य् एषः अकृतज्ञतया विद्यायाः परिहीणः; तच् छ्रूयतां.

the story of an out-caste versed in magic and of a brāhmaṇa student (concerning a previous birth of devadatta)

भूतपूर्वं भिक्षवो वाराणस्यां नगर्यां ब्रह्मदत्तो नाम राज्यं कारयति ऋद्धं च यावद् आकीर्णबहुजनमनुष्यं च; (sbv ii 87) तत्र चण्डालो विद्यामन्त्रधरो विद्यामन्त्रकुशलः गान्धारीविद्यां परिवर्त्य ऋद्ध्या गन्धमादनात् पर्वतात् अकालर्तुकानि पुष्पफलान्य् आदाय राज्ञे ब्रह्मदत्तायोपनयति; राजा ब्रह्मदत्तस् तस्याभिप्रसन्नः अभिसारम् अनुप्रयच्छति; यावद् अन्यतमो माणवो मन्त्रार्थी मन्त्रगवषी श्रवपरम्पया जनपदात् वाराणसीम् अनुप्राप्तः; ततो मार्गश्रमं प्रतिविनोद्य तस्य चण्डालस्य विद्यामन्त्रधारिणः सकाशम् उपसंक्रान्तः; उपसंक्रम्य कथयति: इच्छाम्य् अहम् उपाध्यायस्य शुश्रूषां कर्तुं; कस्यार्थे? विद्यायाः; स गाथां भाषते: (अ 456ब्) न विद्या कस्यचिद् देया मर्तव्यं सह विद्यया / प्रयच्छेद् विद्यया विद्यां शुश्रूषाभिर् धनेन वा //

<इति> स कथयति: उपाध्याय यद्य् एवम् अहं शुश्रूषां करोमि; कियन्तं कालं कर्तव्या? स कथयति: द्वादशभिर् वर्षैः शुश्रूषया दीयेत वा न वा; सो ऽत्यर्थं विद्याप्रतिपन्नः अनुज्ञातवान्; तत आराधनपरमः सत्कृत्य गुरुशुश्रूषां कर्तुम् आरब्धः; यावद् अपरेण समयेनासौ चण्डालो मद्यमदाक्षिप्तो गृहम् आगतः; स माणवः संलक्षयति; अयम् उपाध्यायः अतीव मद्यमदाक्षिप्तः; पार्श्वे अस्य शय्या कल्पयितव्या इति; यावद् असौ चण्डालः संपरिवर्तितुम् आरब्धः; तस्य संपरिवर्तमानस्य खट्वाया अङ्गणिका भग्ना; माणवः श्रुत्वा प्रतिबुद्धः; स संलक्षयति: उपाध्यायः दुःखं शयिष्यते; यन्न्व् अहम् अङ्गणिकायां पृष्ठं दत्वा अवस्थितः; धर्मता ह्य् एषा शौण्डानां यो बलवांस् तस्य वान्तिर् भवति; तस्य प्रथमे यामे मद्यं विगच्छति; तेन तीक्ष्णमद्यवेगात् माणवस्य पृष्ठे वान्तं; स संलक्षयति: यद्य् अहं कायं चालयेयं वाचं वा निश्चारयेयं स्थानम् एतद् विद्यते यद् उपाध्यायः शब्दं श्रुत्वा प्रतिबुद्धो न पुनः शय्यां कल्पयेत्; स प्रतिसङ्ख्यानेन अवस्थितः; यावद् चण्डालः स्वयम् एव प्रतिबुद्धः पश्यति तं तथा विप्रकृतं; ततः पृच्छति, को ऽयं; स कथयति: उपाध्याय अहं सोमशर्मा; वत्स (sbv ii 88) किम् अस्य् एवंस्थितः? तेन यथावृत्तं समाख्यातं; सो ऽभिप्रसन्नः कथयति: वत्स परितुष्टो ऽहं; गत्वा स्नात्वा आगच्छ; विद्यां तुभ्यम् अनुप्रयच्छामि इति; सोमशर्मा आगतः; तेन तस्मै विद्या दत्ता; चपला ब्राह्मणा भवन्ति; स वेगम् असहमानः चिन्तयति; इहैव तावद् एनां विद्यां जिज्ञासयामि, ततो ऽन्यत्र गमिष्यामि इति; तेन सा विद्या परिवर्तिता; भवनतलम् उत्पत्य, आश्व्

एव गन्धमादनं पर्वतं गत्वा, अकालर्तुकानि पुष्पान्य् आदाय आगतः; तेन तानि राज्ञः पुरोहिताय दत्तानि; तेनापि राज्ञे ब्रह्मदत्ताय; राजा कथयति: कुतस् तवैतानि; स कथयति: विप्रकृष्टाद् देशान् माणवो ऽभ्यागतः; तेनैतानि मम दत्तानि; स चात्यर्थं विद्यामन्त्रधारी अकामकरणीयश् च ब्राह्मणः; किम् अनेन चण्डालेन सर्वलोकप्रत्याख्यातेन? तस्य वृत्तिम् आच्छिद्य अस्मै माणवाय दीयताम् इति; राजा कथयति: एवं कारय इति; ततः पुरोहितेन चण्डालाद् वृत्तिम् आच्छिद्य तस्मै ब्राह्मणाय दत्ता; स तया अकृतज्ञतया तस्य विद्यायाः परिहीणः. किं मन्यध्वे भिक्षवः यो ऽसौ चण्डालः एष एवासौ दशबलकाश्यपः तेन कालेन तेन समयेन; सो ऽसौ माणवः एष एव असौ देवदत्तः तेन कालेन तेन समयेन; तदाप्य् एष विद्यायाः परिहीणः; अद्याप्य् एष ऋद्धेः परिहीणः; तस्मात् तर्हि भिक्षवः एवं शिक्षितव्यं यत् कृतज्ञा भविष्यामः; स्वल्पम् अपि कृतं न नाशयिष्यामः प्राग् एव प्रभूततरम्; इत्य् एवं वो भिक्षवः शिक्षितव्यं.

थे बुद्ध गोएस् तो गया

अथ भगवान् यथाभिरम्यं राजगृहे विहृत्य भिक्षुगणपरिवृतः भिक्षुसंघपुरस्कृतः, मगधेषु जनपदेषु चारिकां चरन् गयाम् अनुप्राप्तः गयायां विहरति; (अ 457अ) राज्ञा बिम्बिसारेण भगवतः पर्णोपगूढस्य शालेः पंचमात्राणि शकटशतानि प्रापितानि; देवदत्तेन अजातशत्रुर् अभिहितः: पश्य वृद्धराजा श्रमणस्य गौतमस्य कीदृशान् कारान् करोति; अहम् अपि जनपदचारिकां चरिष्यामि; अस्माकम् अपि त्वया पिण्डकेन अविघातः करणीयः. (sbv ii 89) अथ देवदत्तो ऽपि पंचशतपरिवारो जनपदचारिकां प्रक्रान्तः; देवदत्तस्याजातशत्रुणा राज्ञा पर्णोपगूढस्य शालेः पंचमात्राणि शकटशतानि प्रतिमार्गं प्रेषितानि; भिक्षवो दृष्ट्वा संलक्षयन्ति: कस्यैतानि पंच शकटशतान्य् आगच्छन्ति इति; तैः कुतूहलजातैः अध्वगतपुरुषाः पृष्टाः; तैर् विस्तरेण समाख्यातं. भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: पश्य भदन्त राजा अजातशत्रुर् अपात्रम् अपात्रवर्षी च इति; भगवान् आह: न भिक्षव एतर्हि, राजा अजातशत्रुर् अपात्रम् अपात्रवर्षी, यथा अतीते ऽप्य् अध्वन्य् एषः अपात्रम् अपात्रवर्षी; तच् छ्रूयतां.

the story of a mango tree (concerning a previous birth of prince ajātaśatru)

भूतपूर्वं भिक्षवः अन्यतमस्मिन्न् अग्रामके अरण्यायतने ऋषीणाम् आश्रमपदं, नानापुष्पफलसलिलसंपन्नं; तत्र ऋषयः प्रतिवसन्ति फलमूलाम्भुभक्षाः, जटावल्कलधारिणः, प्रमुक्तफलभोजिनः; यावत् तस्मिन्न् आश्रमपदे आम्रवृक्षः फलभारावनतशाखः पक्वफलस् तिष्ठति; ऋशयः फलानि याचन्ते; या तस्मिन् वृक्षे अध्युषिता देवता सा मात्सर्याभिभूता न प्रयच्छति; ततस् ते ऋषयः मूलार्थिनः एकम् ऋषिम् आश्रमपदे स्थापयित्वा भ्रान्ताः; तत्समनन्तरम् एव पंच चोरशतान्य् आश्रमपदम् अनुप्राप्तानि; तैर् असौ वृक्षो दत्तः; ते कथयन्ति: कथम् अस्मात् फलानि परिभोक्तव्यानि इति; चोरसेनापतिः कथयति: वृक्षं परशुना मूले छित्वा फलानि भक्षयत इति; एवम् उक्ते देवतया सर्वाणि फलानि भूम्यां पातितानि; चोरा यावदाप्तं भक्षयित्वा प्रक्रान्ताः; ऋषय आगताः पृच्छन्ति: केन तान्य् आम्रफलानि भक्षितानि? चोरैः; स ऋषिर् गाथां भाषते: ददाति वृक्षो न फलं शान्तानां ब्रह्मचारिणां / ददाति तु फलं तेषां चोराणां पापकारिणां // इति

ते पृच्छन्ति: ऋषे किम् एतत्? तेन यथावृत्तं समाख्यातं; ते अवध्यातुम् आरब्धाः; मात्सर्याभिभूतया देवतया फलानि ऋषीणां न दत्तानि; अपात्राणां चोराणां दत्तानि इति. भगवान् आह: किं मन्यध्वे भिक्षवः यासौ देवता एष एवासव् अजातशत्रुः तेन कालेन तेन समयेन; तदाप्य् एष अजातशत्रुः देवताभूतः अपात्रम् अपात्रवर्षी च; एतर्हि अप्य् एष अपात्रम् अपात्रवर्षी च इति. (sbv ii 90)

थे बुद्ध इन् राजगृह

अथ भगवान् मगधेषु जनपदेषु चारिकां चरन् राजगृहम् अनुप्राप्तः राजगृहे विहरति वेणुवने कलन्दकनिवापे; देवदत्तो राजगृहनिवासिनो जनकायस्य नित्यम् एवापराधं करोति; यस्य यस्यापराधः क्रियते, स भगवत उपालम्भं प्रेषयति; तत्र भगवान् आयुष्मन्तम् आनन्दम् आमन्त्रयते: गच्छ आनन्द संघाटीम् (अ 457ब्) आदाय अन्यतमेन भिक्षुणा पश्चाच्छ्रमणेन राजगृहे रथ्यावीथीचत्वरशृङ्गाटकेषु ब्राह्मणगृहपतीनाम् आरोचय यद् देवदत्तो वा, देवदत्तपक्षिको वा अपराधं करोति; न तेन बुद्धो वा धर्मो वा संघो वा संबध्यते इति; यदि कथयन्ति: महर्धिको देवदत्तो महानुभावः इति, वक्तव्याः: आसीन् महर्धिकः; इदानीं परिहीणस् तस्या ऋद्धेः इति; तेन गत्वा राजगृहे नगररथ्यावीथीचत्वरशृङ्गाटकेषु ब्राह्मणगृहपतीनाम् आरोचितं, ते न भूयो भगवत उपालम्भं प्रेषयन्ति.

the buddho grows ill

भगवतो ग्लान्यम् उत्पन्नं; जीवकेन भगवते नाराचघृतम् उपनीतं; तत्र भगवान् जीवकं वैद्यराजम् आमन्त्रयते: आश्चर्यं जीवक? आश्चर्यं भगवन्; अद्भुतं जीवक? अद्भुतं भगवन्, जानासि जीवक? जानामि भगवन्; न जानासि जीवक; न चापि सुगत; 1) किं जीवक आश्चर्यं? भगवन् गावस् तृणानि चरन्ति; पानीयं पिबन्ति; तत इदम् अमृतं समुत्पन्नं; येनेदं नाराचघ्र्तं पक्वन्; 2) किम् अद्भुतं? भगवन् बुद्धोत्पादः, सद्धर्मस्य च देशना, संघस्य च सुप्रतिपत्तिः; 3) किं जानासि? भगवन् जातेनावश्यं मर्तव्यं; 4) किं न जानासि? भगवन् केन कुत्र मर्तव्यम् इति. भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: पश्य भदन्त जीवकेन भगवतः संधाय भाषितं विज्ञातम् इति; भगवान् आह: न भिक्षव एतर्हि, यथा अतीते ऽप्य् अध्वन्य् अनेन मम संधाय भाषितं विज्ञातं; तच् छ्रूयतां. (sbv ii 91)

the story of a gṛhapati and his son (concerning a previous birth of jīvaka)

भूतपूर्वं भिक्षवो ऽन्यतमस्मिन् कर्वटके गृहपतिः प्रतिवसति, आढ्यो महाधनो महाभोगः; तेन सदृशात् कुलात् कलत्रम् आनीतं; स तया सार्धं क्रीडति रमते परिचारयति; तस्य क्रीडतो रममाणस्य परिचारयतः कालान्तरेण पत्नी आपन्नसत्वा संवृत्ता; सा अष्टानां व नावानां वा मासानाम् अत्ययात् प्रसूता; दारिका जाता; तस्यास् त्रीणि सप्तकान्य् एकविंषतिदिवसान् जातायाः जातिमहं कृत्वा वलयेति नामधेयं व्यवस्थापितं; भूयो ऽप्य् अस्य क्रीडतो रममाणस्य परिचारयतः पुत्रो जातः; तस्यापि कुलसदृशं नामधेयं व्यवस्थापितं; स संलक्षयति: जातो मे ऋणहरो धनहरश् च; गच्छामि पण्यम् आदाय देशान्तरम् इति; भूयः स संलक्षयति: इयं मम पत्नी रूपवती; यद्य् अहम् अस्याः प्रभूतान् कार्षापणान् दत्वा गच्छामि, स्थानम् एतद् विद्यते यत् परपुरुषैः सार्धं विकरिष्यति; यन्न्व् अहम् अस्याः स्वल्पान् कार्षापणान् दत्वा गच्छेयम् इति; स तस्याः स्तोकान् कार्षापणान् दत्वा, अवशिष्टं सुवर्णकलशे प्रक्षिप्य, ग्रीवायां मुक्ताहारं बद्ध्वा श्मशाने अश्वकर्णस्य मूले निखन्य पण्यम् आदाय देशान्तरं गतः; तस्य तत्र प्रभूतो लाभः संपन्नः; स तत्रैव दारसङ्ग्रहं कृत्वा अवस्थितः; तस्य च बहवः पुत्रा जाताः; ततस् तया पूर्विकया पत्न्या वलया स च दारकः हस्तबलेन ज्ञातिबलेन च पायितौ, पोषितौ, संवर्धितौ; तौ कथयतः: अम्ब पिता अस्माकं क्व गतः? सा कथयति: पुत्र अस्मिन् देशे अमुकम् अधिष्ठानं तत्र तिष्ठति (अ 458अ) तस्य च महती धनसंपत्तिः श्रूयते, गच्छ यदि किंचिद् अस्योज्जीवनोपायस् ते भविष्यति इति; स पितरं समन्वेषमाणः अनुपूर्वेण तस्य सकाशं गतः; स

वीथ्याम् अन्वाहिण्डमानः पित्रा मुखबिम्बकेन प्रत्यभिज्ञातः; शब्दयित्व्या अभिहितः: कुतस् त्वम् इहागच्छसि? कुत्र वा गन्तुम्? इति; तेन विस्तरेण समाख्यातं; स संलक्षयति: एष एवासौ मम पुत्रः इति; स तेन स्वगृहीतः उक्तश् च: पुत्र न ते कस्यचिद् आख्येयं, ममायं पिता इति; स तस्यात्यर्थं स्नेहं कर्तुं आरब्धः; (sbv ii 92) ततस् तैर् अन्यैः पुत्रैर् उच्यते: तात कस्यायं दारकः? स कथयति: ममायं वयस्यस्य पुत्रः इति; तैः संलक्षितं: यथायम् अस्यात्यर्थं स्नेहवान् नूनम् अस्यैव पुत्रः इति; ते परस्परं संजल्पं कर्तुम् आरब्धाः: अयम् अपरो भ्राता इति; स संलक्षयति: प्रेषयाम्य् एनं; प्रतिक्रुष्टम् एतद् वैराणां, यदुत सापत्न्यकं; स्थानम् एतद् विद्यते यद् एनं प्रघातयिष्यन्ति; यदि च किंचिद् दास्यामि अन्तर्मार्गे दायाद्यकारणाद् घातयिष्यन्ति; यन्न्व् अहम् एवं प्रेषयेयम् इति विदित्वा चीरिका लिखित्वा दत्ता: ग्रामश्मशाने हयकर्णमूलं प्राग्भूमितो योजनम् अन्तरेण /

तस्मिन् खनन् वै निपुणो ऽप्रमत्तो दायाद्यम् आत्मीयम् उपैष्यसि त्वं //

कण्ठे तु यत् तद् वलयाया देयम् इति.

स चीरिकाम् आदाय संप्रस्थितः; अन्तर्मार्गे भ्रातृभिर् गृहीतः; उक्तश् च: किं त्वया पितुः सकाशाल् लब्धं स कथयति: न किंचिद् इयं चीरिका; ते संलक्षयन्ति: व्यंशितो ऽयं पित्रा; गच्छतु इति; स तैर् मुक्तः; अनुपूर्वेण स्वगृहे प्रविष्टो मार्गश्रमं प्रतिविनोदयति; मात्रा अभिहितः: किं त्वया पितुः सकाशाल् लब्धम् इति; स कथयति: न किंचिद् अपि, किंतु इयं चीरिका; सा कथयति: व्यंशितस् त्वं तेन, मार्गश्रमश् च जातो, न किंचित् संपन्नम् इति; स कथयति: अम्ब महात्मासौ; न मां व्यंशयिष्यति इति; स तां चीरिकां वाचयितुम् आरब्धः: ग्रामेति, यत्र जायते सो ऽत्र ग्रामो ऽभिप्रेतः; श्मशानेति, यत्र मृतो (sbv ii 93) दह्यते; हयकर्णमूले इति, हया उच्यन्ते अश्वाः; तत्कर्णनामा वृक्षः; अश्वकर्णमूले इत्य् उक्तं भवति; प्राग्भूमित इति, पूर्वस्यां दिशि; योजनम् अन्तरेणेति, युगमात्रम् अन्तरेन इति; स एवं गाथार्थं विचार्य निःसंपातवेलायां श्मशानं गतः; तत्समीपे पश्यति, अश्वकर्णवृक्षः, स तस्य पूर्वे दिग्भागे युगमात्रं मापयित्वा खनितुम् आरब्धः; यावत् पश्यति सुवर्णकलशं; ग्रीवायां चास्य हारं बद्धं; स तम् आदाय आत्तमनात्तमनो गृहं गतः; मुक्ताहारं चापनीय वलयायैव दत्तवान्. किं मन्यध्वे भिक्षवः? यो ऽसौ गृहपतिर् अहम् एव सः तेन कालेन तेन समयेन; यो ऽसौ तस्य पुत्रः एष एवासौ जीवकः तेन कालेन तेन समयेन; तदाप्य् अनेन मम संधाय भाषितं विज्ञातं.

the sichness of the buddha. the buddha heals devadatta

जीवकः संलक्षयति: वज्रकायशरीरो भगवान् बृहत्कायश् च; न शक्यम् अत्यल्पेन घृतेन चिकित्सां कर्तुं; तेन पात्रं गृहीत्वा द्वात्रिंशद् घृतपलानि तुलोन्मितानि कृत्वा भगवते प्रदत्तानि; भगवता पात्रशेषं भिक्षूणां चार्यते; भिक्षवः (अ 458ब्) भगवतः पात्रशेषम् इति कृत्वा नमस्यन्ति. देवदत्तः संलक्षयति: अहम् अपि घृतं पिबामीति; तेन जीवकः पृष्टः: जीवक कियति मात्रा घृतस्य श्रमणेन गौतमेन पीता? इति; स कथयति: द्वात्रिंशत् पलानि इति; स कथयति: अहम् अपि द्वात्रिंशत् पलानि पिबामि इति; जीवकः कथयति: वज्रमयशरीरो भगवान् बृहत्कायश् च; शक्नोति इयतीं मात्रां जरयितुं; त्वं पुनर् न शक्ष्यसि जरयितुम् इति; स कथयति: अहम् अपि वज्रशरीरः; किमर्थं न जरयामि? इति; तेन द्वात्रिंशत्पलिका मात्रा बलात् पीता; भगवतः सम्यक् परिणतं; देवदत्तस्य न परिणतम्; अपरस्मिन्न् एव दिवसे जीवकेन भगवतो मण्डो दत्तः; देवदत्तेन मानाद् भगवान् पिबतीति अजीर्णे एव घृते मण्डः पीतः; शूलः समुत्पन्नः; मर्मोपरोधिकी वेदना प्रादुर्भूता; स तन्निमित्तं दुःखां तीव्रां खरां कटुकाम् (sbv ii 94) अमनापां वेदनां वेदयते; न रात्रौ न दिवा निद्राम् आसादयति. आयुष्मान् आनन्दो ज्ञातिवत्सलः; तेन स वृत्तान्तो भगवते निवेदितः; ततो भगवता गजभुजसदृशं बाहुम् अभिप्रसार्य गृध्रकूटं पर्वतं भित्वा चक्तस्वस्तिकनन्द्यावर्तेन अनेकपुण्यशतनिर्जातेन भीतानाम् आश्वासनकरं करं देवदत्तस्य स्थापयित्वा सत्योपयाचनं कृतं; येन सत्येन यथा राहुलभद्रे प्रिये एकपुत्रके चित्तम् अनूनानधिकं तथैव देवदत्ते तेन सत्येन रुजा शमं गच्छेद्

इति; सत्योपयाचनकालसमनन्तरम् एव देवदत्तस्य रुजा प्रशान्ता; स नष्टोपलब्धप्राणो भगवतः पाणिं निरीक्षते; तेन संप्ररिज्ञातं; स संलक्षयति: श्रमणस्य गौतमस्य पाणिर् इति; सो ऽनल्पकल्पशाठ्यसमुदाचारमदावलेपावर्जितसन्तैः; तथापि बुद्धमाहात्म्योपशान्तरुजः कथयति: शोभनं ते सिद्धार्थ वैद्यकम् अधिगतं; शक्ष्यस्य् अनेन जीविकां कल्पयितुम् इति; सामन्तकेन शब्दो विसृतः: देवदत्तो भगवता सत्योपयाचनया प्रगाढवेदनाभिभूतः प्राणैर् वियुज्यमानः स्वस्थीकृतः इति; यं श्रुत्वा देवदत्तपक्ष्या अप्य् अत्यन्ताभिनिविष्टा भगवत्य् आश्चर्यं प्रवेदितवन्तः: अहो ऽस्य सम्यक्संपन्ना मैत्री; अहो सत्वेषु सुभाविता करुणा इति. भिक्षुभिर् देवदत्तो ऽभिहितः: देवदत्त त्वं भगवता स्वस्थीकृतः; अन्यथा प्राणैर् वियुक्तः स्याः इति; स कथयति: जानात्य् असाव् अन्वावर्तनीं मायां, यया लोकं समन्वावर्तयति इति; भिक्षवः कथयन्ति: देवदत्त अलम् अनेन विकत्थितेन; स्वचित्तं प्रतिलभस्व; स्वस्थीकृतस् त्वं भगवता इति; स कथयति: किं मम तेन कृतं? घृते परिणते रुजा व्युपशान्ता इति. अकृतज्ञो ऽयम् अकृतवेदी इति कृत्वा प्रक्रान्ताः; येन भगवांस् तेनोपसंक्रान्ताः; उपसंक्रम्य संशयजातः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: पश्य भदन्त देवदत्तः अकृतज्ञः अकृतवेदी; भगवान् आह: न भिक्षव एतर्हि, यथा (अ 459अ) अतीते ऽप्य् अध्वनि एष अकृतज्ञ अकृतवेदी; तच् छ्रूयतां. (sbv ii 95)

उद्दानं: कौशिको महेन्द्रसेन आम्राणि दारुकोटकः / द्वौ ऋक्षौ शिबिराजा च विदारा जुज्जुकेन च //

the story of a sage and of an ungrateful elephant (concerning a previous birth of devadatta)

भूतपूर्वं भिक्षवो ऽन्यतमस्मिन्न् अग्रामके अरण्यायतने नानाविधपुष्पफलसलिलसंपन्नम् उद्यानं; तस्मिन् कौशिकसगोत्रो ऋषिः प्रतिवसति; प्रमुक्तफलभोजी मूलफलाम्बुभक्षः अजिनवल्कलवासाः; तस्याश्रमपदसमन्तके विश्वस्ता मृगपक्षिणो यथेष्टं विहरन्ति; तस्य नातिदूरे हस्तिनी प्रसूता; तत्प्रसवसमनन्तरं सिंहेन नादो मुक्तः; सा भीता त्रस्ता कलभं परित्यज्य मूत्रपुरीषम् उत्सृजन्ती निष्पलायिता; यावद् असौ ऋषिर् आश्रमपदान् निष्क्रम्य आश्रमपदसामन्तकेन दिशो व्यवलोकयन् संपरिभ्रमितुम् आरब्धः; यावत् पश्यति तम् अभिनवजातं हस्तिकलभकं; ततो ऽसौ ऋषिः कारुण्याद् आकम्पितहृदयः तन्मातृसमन्वेषणाभिनिविष्टबुद्धिः समन्ततो व्यवलोकयितुम् आरब्धः; यदा सर्वावस्थं न पश्यति तदा तम् आदायाश्रमपदं प्रविष्टः; स तेन पुत्रवद् आपायितः पोषितः संवर्धितः; महान् संवृत्तः; तदा तस्य ऋषेर् आश्रमपदे अपराध्यते; पुष्पविटपान् उत्पाटयति; फलवृक्षान् शाखाः भिनत्ति; एतानि चान्यानि चापराधसहस्राणि करोति; स ऋषिस् तं तर्जयति; ऋषिणा सन्तर्जितः संकोचम् आपद्यते; स यदा संजातरागः संवृत्तः तदा सन्तर्ज्यमानो ऽप्य् अवज्ञां करोति; यावद् अपरेण समयेन ऋषिणा भृशं तर्जितः, तम् एव ऋषिं हन्तुं प्रधावितः; स ऋषेर् देहैकदेशं भङ्क्त्वा निष्पलायितः; देवता गाथां भाषते: (sbv ii 96) न संगतिः कापुरुषेण भद्रिक कृतघ्नसत्वेन सुदारुणेन / चिरानुयातो ऽपि करोति पापिकं नागो यथैवाश्रमकौशिकस्य // इति किम् आदराद् दुर्जनं सेवसे त्वम् अन्नेन पानेन तथोभयेन / अवश्यम् अन्ते स निहन्ति मित्रं नागो यथैवाश्रमकौशिकस्य // इति

भगवान् आह: किं मन्यध्वे भिक्षवः? यो ऽसौ ऋषिर् अहम् एव सः तेन कालेन तेन समयेन; यो ऽसौ हस्तिनागः एष एवासौ देवदत्तः तेन कालेन तेन समयेन; तदाप्य् एष अकृतज्ञ अकृतवेदी; एतर्ह्य् अप्य् एष अकृतज्ञ अकृतवेदी; पुनर् अपि यथैष अकृतज्ञ अकृतवेदी, तच् छ्रूयतां.

the story of mahendrasena (concerning a previous birth of devadatta)

भूतपूर्वं भिक्षवः अतीते ऽध्वनि वाराणस्यां नगर्यां महेन्द्रसेन नाम राजा राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं चाकीर्णबहुजनमनुष्यं च; तस्य चन्द्रप्रभा नाम देवी सत्यस्वप्ना; यत् किंचित् स्वप्ने पश्यति सर्वं तत् तथैव भवति; तस्य च राज्ञो विजिते सुवर्णपार्श्वो नाम बोधिसत्वः मृगेषूपपन्नो मृगाणाम् अधिपतिः; सो ऽचिन्तनीयरूपप्रभावयोगात् सर्वलोकमनोनयनप्रह्लादनकरः, प्रार्थनीयश् च; यस् तं पश्यति स निरीक्षमानस् तत्रैव तिष्ठति; सो ऽत्यर्थम् अभिवीक्ष्यमानः शङ्की संवृत्तः; स लुब्धकभयाद् अन्यलोकभयाच् च भीतश् चरति; धर्मता ह्य् एषा अचिरव्यतिवृत्ते लोकसन्निवेशे तिर्यञ्चो ऽपि वाक्प्रव्याहरणसमर्था भवन्ति; अथान्यतरः काकस् (अ 459ब्) तस्य समीपम् उपसंक्रान्तः; स तेन सार्धं प्रेमप्रणयसौख्यः कथयति: भो मातुल कस्मात् त्वम् एवं भीतभीतश् चरसि? इति; स कथयति: भागिनेय ममेदं रूपं सर्वलोकशुभं संप्रार्थनीयं च; सो ऽहं लोकभयाल् लुब्धकभयाच् च भीतभीतश् (sbv ii 97) चरामि इति; स कथयति: ममाप्य् अतीवोलूकभयं; तद् अन्योन्यं रक्षां कुर्वः; अहं त्वां दिवा रक्षामि; त्वं मां रात्रौ रक्ष इति; ताव् एवं कृतमर्यादौ व्यवस्थितौ; यावद् अन्यतमः पुरुषो द्विषद्भिः पश्चाद्बाहुगाढबन्धनबद्धो नवाम्बुपूर्णायां हेमलोह्यां हेममालिन्यां शीघ्रस्रोतसि नद्यां प्रक्षिप्तः; तत्र उह्यमान आर्तस्वरं विललाप: पर्यदेवत: भवामि कस्य दासो ऽहं कस्य वा परिचारकः / यो मे ऽद्य जीवितं दद्याद् यल् लोकेषु सुदुर्लभम् //

इति; दैवाद् असौ मृगाधिपतिः सलिलाशयात् मृगगणपरिवृतो नदीसमीपम् उपसंक्रान्तः; ततः पुरुषविरावं श्रुत्वा ते मृगाः समन्ताद् विद्रुताः; धर्मता ह्य् एषा बोधिसत्वानां यद् अपि कायेन विनिपतन्ति, नो तु चित्तेन; ततः स मृगाधिपतिः कारुण्याद् आम्रेडितहृदयः सहसा नदीम् अवतर्तुम् आरब्धः; काकश् चास्य पूर्वमर्यादावधृतमतिः पृष्ठतः अनुबद्ध एव संरक्षणाय; स तं पुरुषं कृतोद्धरणव्यवसायं विदित्वा एवम् आह: अलम् अलं मृगाधिपते; मा साहसं कार्षीः; अकृतज्ञा ह्य् एते मनुष्याः नोपकारं मन्यन्ते इति; अनिवर्तका भवन्ति बोधिसत्वा महासत्वाः; स तस्य वचनम् अवचनं कृत्वा नदीम् अवगाह्य तं पुरुषं प्रियम् इवैकपुत्रं पृष्ठम् अभिरोह्य, नद्यास् तीरं संप्राप्य, बन्धनान्य् अवमुच्य, मुहूर्तं समाश्वास्य, कथयति: वत्स अनेन पथा यथेष्टं गच्छ इति; ततो ऽसौ पुरुषः कृतांजलिः पादयोर् निपत्य तं मृगाधिपतिम् इदम् अवोचत्: तव दासो ह्य् अहं तात तवैव परिचारकः / त्वया मे जीवितं दत्तं यल् लोकेषु सुदुर्लभम् // इति स कथयति म मे त्वम् अद्य दासः स्याः मा चैव परिचारकः / न वाच्यस् त्व् अहम् अन्येभ्यो हन्युर् मां चर्मकारणात् //

अपि तु वत्स इदं त्वया कर्तव्यं; कृते प्रत्युपकारात् नाहं त्वया कस्यचिन् निवेद्यः; अतिलोभनीयम् इदं मे शरीरं प्रार्थनीयं सर्वलोकस्य इति; ततस् स पुरुष तथेति प्रतिज्ञाय मृगाधिपतिं (sbv ii 98) त्रिः प्रदक्षिणीकृत्य पादयोर् निपत्य प्रक्रान्तः; यावद् अपरेण समयेन चन्द्रप्रभा देवी रतिपरिखेदखिन्ना महाशयने अत्यर्थं मिद्धम् अवक्रान्ता रात्र्याः पश्चिमे यामे स्वप्नम् अद्राक्षीद् अतिपरमरमणीयशरीरं मृगाधिपतिं सिंहासने निषद्य महत्यां राजपर्षदि धर्मं देशयन्तं; दृष्ट्वा च पुनः प्रत्यक्षवत् स्वप्नदर्शनसंजनितसौमनस्या लघु लघ्व् एव महाशयनाद् उत्थाय राज्ञो निवेदितवती; श्रुत्वा राजा तस्याः सत्यस्वप्नायाः परं विस्मयम् आपन्नः: अनिष्टगत्युपपन्नेन सता कथं नाम सिंहासने निषद्य महत्यां राजपर्षदि धर्मो देशयितव्यः इति; ततश् चन्द्रप्रभा देवी प्रियमधुरचातुर्यकथासमुदाचारयोगेन मुहूर्तं राजानम् उपलाड्य कथयति: देव क्रियतां यत्नः तस्य मृगस्यानयनाय इति; ततो राज्ञा अमात्यानाम् (अ 460अ) आज्ञा दत्ता: भवन्तो यावन्तो मद्विषयनिवासिनो मृगलुब्धकास् तिष्ठन्ति ते सर्वे मत्सकाशम् उपनेयाः इति; अमात्यैः प्रतिप्रतिविषयेषु राजपुरुषाणाम् आज्ञा दत्ता: देवः समाज्ञापयति मद्विषयनिवासिभिर् मृगलुब्धकैर् इहागन्तव्यम् इति; तद् युष्माभिः सर्वमृगलुब्धका इह प्रेषयितव्याः इति; तैः सर्वे विषयनिवासिनो मृगलुब्धका राज्ञः सकाशं प्रेषिताः; अमात्यै रज्ञे उपनीताः; राजा कथयति: भवन्तो श्रुतं मया मद्विजिते परमरमणीयरूपविग्रहो मृगो ऽस्तीति; स युष्माभिर् मृदुशिथिलबन्धनोपनिबद्धो मत्सकाशम् अखेदित उपनेयः इति; ते

कथयन्ति: देव वयं तज्जीविन एव; इयता कालेन देवस्य विजिते पर्यटद्भिर् न कदाचिद् एवंविधो मृगवरः श्रुतपूर्वः; किमुत दृष्टः तम् अर्हति देवः श्रवपरम्परया समन्वेष्य अमुष्मिन् देशे तिष्ठतीति; अस्माकम् आज्ञातुम्; एवं देवस्य वयं नियतम् आज्ञां संपादयामः इति; ततो राज्ञा अमात्यानाम् आज्ञा दत्ता: भवन्तो वाराणस्यां घण्टावघोषणं कारयत समाज्ञापयति देवः; अतिरमणीयविग्रहो मृगाधिपतिर् अस्ति; यो मे तस्य प्रवृत्तिं निवेदयति तम् अहं महता सत्कारेण सत्करोमि; पंच चास्मै ग्रामवरान् प्रयच्छामि इति; अमात्यै राज्ञः प्रतिश्रुत्य वाराणस्यां घण्टावघोषणं कारितं: शृण्वन्तु भवन्तो वाराणसीनिवासिनः पौरा नानादेशाभ्यागताश् च जनाः; देव एवं समाज्ञापयति मद्विजिते अतिपरमरमणीयविग्रहो मृगाधिपतिर् अस्ति; यो मे तस्य प्रवृत्तिं निवेदयति तम् अहं महता सत्कारेण सत्करोमि; पंच चास्मै ग्रामवरान् प्रयच्छामि इति; ततस् तद्दर्शिनः पुरुषस्य एतद् अभवत्: किं तावत् कुटुम्बम् अनुपालयामि, आहोस्वित् कृतज्ञताम्? इति; कामान् खलु प्रतिसेवमानस्य (sbv ii 99) नास्ति किंचित् पापकं कर्म अकरणीयम् इति स कामनिदानोत्थेन द्वेषवह्नितीव्रेण सन्तापितहृदयः संलक्षय्ति: तिष्ठतु कृतज्ञता; शत्रोर् वैरनिर्यातनाय समुपस्थितः कालः; किं मया पुनस् तादृशी अवस्था प्रापयितव्या? तस्य तावद् वैरनिर्यातनं करोमि इति; स प्रभातायां रजन्यां राज्ञः पर्षदि सन्निषण्णस्य राजकार्यम् अधितिष्ठतः, अनिवारिते राजकुलद्वारे नानाविचित्रसुरभिपुष्पाण्य् आदाय दौवारिकामात्यपरंपरया राजानं संश्राव्य पर्षदम् अभ्यवगाह्य सत्कारविधिपूर्वकेण राज्ञो निवेदितयति: अमुष्मिन्

देशे नानातरुषण्डमण्डिते विश्वस्तमृगपक्षिणि सुवर्णपार्श्वो मृगाधिपतिर् अनेकमृगगणपरिवृतस् तिष्ठति; अहं तं देवस्य अतिरमणीयविग्रहं मृगवरम् उपदर्शयामि इति; ततो राजा तच्छ्रवणसंजनितसौमनस्यः अनेकामात्यशतसहस्रपरिवृतः कुतूहलजातेनान्येन नानादेशाभ्यागतेन वाराणसीनिवासिना च पौरजानपदेन संपुरस्कृतः, देशितमार्गस् तेन पुरुषेण, अनुपूर्वेण तं प्रदेशम् अनुप्राप्तः; यावद् असौ काकः बोधिसत्वस्य कृतावधिः दिशाम् अवलोककः तस्मिन् वनषण्डवृक्षशिखरे निषण्णः; यावत् पश्यति वनषण्डाभिमुखं (अ 460ब्) महाजनकायं; त्वरितत्वरितं मृगाधिपतेः सकाशम् उपसंक्रम्य कथयति; मृगराज मया त्वं पूर्वम् उक्तः अकृतज्ञा मनुष्याः, अकृतवेदिनः, नोपकारं मन्यते इति; अयं स पुरुषो महता प्राभृतेनागतः इति; तच्छब्दप्रतिसंवेदिनो मृगा भीताः समन्ताद् प्रद्रुताः; मृगाधिपतिर् बोधिसत्वः संलक्षयति: यद्य् अहम् एतान् न रक्षिष्यामि, अद्यैव निधनम् उपयास्यन्ति; कामं स्वप्राणविनाशो न तु सत्वाध्युपेक्षणम् इति विदित्वा राजानं प्रत्युद्गतः; ततः स पुरुषो निर्घृणहृदयस् त्यक्तपरलोको मृगदर्शनाद् आवर्जितमतिस् तं मृगवरम् उभाभ्यां पाणिभ्याम् उपदर्शयन्न् आह: देव अयं स मृगाधिपतिर् इति; अत्युदीर्णपरिपूर्णानि हि कर्माणि न विपाककालम् अपेक्षन्ते; वाक्प्रव्याहरणकालसमनन्तरम् एव तस्य पुरुषस्य उभौ पाणी पृथिव्यां निपतितौ; ततः स राजा संवेगजातस् तं पुरुषं पृष्टवान्: भोः पुरुष किम् इदम्? इति; स दुःखवेदनाभ्याहतः सगद्गदं गाथां भाषते: नासौ चोरो महाराज हरत्य् अर्थं निहत्य यः / स तु चोरो महाराज यस्य नास्ति कृतज्ञता //

(sbv ii 100) राजा कथयति: को ऽस्य भाषितस्यार्थः? इति; तेन सर्वं यथाविस्तरेण समाख्यातं; ततो राजा अकृतज्ञपुरुषं गाथया प्रत्याभाषत: कथं पृथिव्यां न निमज्जसे ऽधमः कथं न जिह्वा शतधा विदीर्यते / कथं न वज्राशनिशक्तितोमरैस् तवेह गात्रे प्रहरन्ति गुह्यकाः //

इति ततो राजा बोधिसत्वस्य तां प्रभावमहत्तां ज्ञात्वा अमात्यान् आमन्त्रयते: सत्कारार्थो ऽयं मृगाधिपतिर् महात्मा; गच्छत; नगरशोभां मार्गशोभां च कारयत इति; तैस् तन्नगरम् अपगतपाषाणशर्करकठल्लं व्यवस्थापितं, चन्दनवारिपरिषिक्तं सुरभिधूपघटिकोपनिबद्धम् उच्छृतध्वजपताकम् आमुक्तपट्टादामकलापं नानापुष्पावकीर्णं रमणीयं, देवानाम् इव नन्दनवनोद्यानम्; एवं मार्गशोभा कारिता; वाराणसीनिवसी जनकायः मल्योपहारशोभाम् आदाय प्रत्युद्गतः; ततो राज्ञा असाव् अतिरमणीयविग्रहो मृगाधिपतिर् महत्या विभूत्या वाराणसीं नगरीं प्रवेश्य सिंहासने निषादितः; ततो महत्या राजऋद्ध्या महता राजानुभावेन राजा सान्तःपुरकुमारामात्यपौरजानपदैस् परिवार्य निषण्णः; अथ मृगाधिपतिबोधिसत्वेन समन्तात् तां पर्षदम् अवलोक्य राज्ञस् तस्याश् च पर्षदस् तथाविधो धर्मो देशितः, यं श्रुत्वा राज्ञा सपरिवारेण पंचशिक्षापदानि गृहीतानि; अनेकैश् च सत्वैः कुशलमूलान्य् आसादितानि; ततो राज्ञा सदा बोधिसत्वमृगेभ्यो ऽभयं दत्तं; सर्वप्राणिभूतेष्व् अभयं दत्तं. किं मन्यध्वे भिक्षवः? यो ऽसौ सुवर्णपार्श्वो मृगाधिपतिर् अहम् एव सः तेन कालेन तेन समयेन; यो ऽसौ पुरुषः एष एवासौ देवदत्तः तेन कालेन तेन समयेन; तदाप्य् एष अकृतज्ञः अकृतवेदी; एतर्ह्य् अप्य् एष अकृतज्ञ अकृतवेदी; पुनर् अपि यथा देवदत्तः अकृतज्ञ अकृतवेदी तच् छ्रूयतां.

the story of a lord of monkeys and of a maker of garlands (concerning a previous birth of devadatta)

भूतपूर्वं भिक्षवो ऽन्यतमस्मिन् कर्वटके मालाकारः प्रतिवसति; (अ 461अ) तत्र नद्याः पारे पुष्पवाटिका; स दिवा दिवसम् एव नदीपुष्पाण्य् (sbv ii 101) उच्चिनोति; यावद् अपरेण समयेन नदीम् उत्तरता आम्रफलम् उह्यमानम् अनार्तवं दृष्टं; तेन गृहीत्वा दौवारिकाय दत्तं; दौवारिकेण प्रतीहाराय; प्रतीहारेण राज्ञे; राज्ञा देव्यै; देव्या तद् आस्वादितम्; आस्वाद्य रसाभिगृद्धया राजा विज्ञप्तः: देव ईदृशान्य् आम्रफलानि दातुम् अर्हसि इति; राज्ञा प्रतीहारः पृष्टः: कुतस् तवाम्रफलानि? इति; स कथयति: दौवारिकेण दत्तम् इति; दौवारिकः पृष्टः; स कथयति: मालाकारेण दत्तम् इति; राजा कथयति: भवन्त अआहूयतां मालाकारः इति; राजपुरुषैर् आहूतः; राजा कथयति: मालाकार कुतस् त्वया आम्रफलं लब्धं? तेन यथावृत्तं समाख्यातं; राज्ञा तस्यैवाज्ञा दत्ता: गच्छ, तादृशान्य् आम्रफलान्य् आनय इति; अकोप्या नराधिपाणाम् आज्ञा; स शङ्कापरिहतहृदयः आम्राणि समन्वेष्टुम् आरब्धः; तेन पूर्वकाम्रफलानुसारेण सम्बलम् आदाय गच्छता पर्वतैकदेशे स आम्रवृक्षो दृष्टः; स मर्कटानां गम्यो, न मनुष्याणां; ततः स मालाकारस् तं वृक्षम् इतश् चामुतश् च निरीक्षते सम्धिरोढुं; स प्रपाताभिवृद्धत्वाद् अगम्यो मनुष्याणां; तस्य् तत्र आम्रफलाशयाद् बहवो दिवसा अतिक्रान्ताः; पथ्यदनं परिक्षीणं; स संलक्षयति: एवम् अहं पथ्यदनविरहात् प्राणाइर् वियोक्ष्ये; यथा वा तथा वा अधिरुहामि इति; स पाषाणन् अवलम्ब्य अवलम्ब्य अधिरोढुम् आरब्धः; अप्राप्यैव आम्रफलानि गर्तायां पतितः; तस्मिंश् च पर्वते वानरभूतो बोधिसत्वो वानराणाम् अधिपतिर् बभूव; दैवाद् असौ तस्मिन् पर्वते यूथम् अपहाय

तं प्रदेशम् अनुप्राप्तः; यावत् तेनासौ मालाकारः कृच्छ्रसङ्कटसंबाधप्राप्तो दृष्टः; कुशला भवन्ति बोधिसत्वाः तेषु तेषु शिल्पस्थानकर्मस्थानेषु; स तस्य हिताधानतत्परतया न शक्यते क्रमम् अन्तरेण उद्धर्तुम् इति पाषाणैर् अभ्यासं कर्तुम् आरब्धः; यदास्य परिविदितः शक्नोम्य् अहम् एनम् उद्धर्तुम् इति तदा स तेन प्रपातात् क्रमेणोद्धृतः; पाषाणव्यायामात् तस्य च मालाकारस्योद्धरणाद् अतीव परिश्रान्तः; तस्मिंश् च समये तिर्यञ्चो मानुषप्रलापिनः; तेनासु पृष्टः; किमर्थं त्वम् एवंविधं सङ्कटम् आपन्नः? इति; तेन यथावृत्तं समाख्यातं; बोधिसत्वः संलक्षयति: गतो (sbv ii 102) ऽप्य् अयम् आम्रफलैर् विना अनर्थं प्राप्नोति; ददाम्य् अहम् अस्मै आम्रफलानि इति; अनिक्षिप्तोत्साहः स महात्मा परहिताधानतत्परः परिश्रान्तो ऽपि तं वृक्षम् अधिरुह्य आम्रफलानि पातयितुम् आरब्धः; तेन पुरुषेण यावदाप्तम् आम्रफलानि भक्षितानि; उत्संगं च पूरितं; तदासौ वानराधिपतिर् अवतीर्णः; सर्वसत्वविश्वासिनो बोधिसत्वाः; स तं पुरुषम् उवाच: भोः पुरुष दिगवलोकनं तावत् कुरु; परिश्रान्तो ऽस्मि; मुहूर्तं स्वपामि इति; स कथयति: एवं कुरुष्व; स मिद्धम् अवक्रान्तः; पुरुषः संलक्षयति: क्षीणपथ्यदनो ऽहं यद्य् आम्रफलं भक्षयन् गमिष्यामि राज्ञः किं मया देयं? (अ 461ब्) तस्माद् एतम् एव वानरं हत्वा शुण्डीवल्लूरकाणि कृत्वा मार्गं गच्छामि इति; तेनासौ निर्घृणहृदयेन त्यक्तपरलोकेन महत्या शिलया जीविताद् व्यपरोपितः; देवता गाथां भाषते: उपकारलक्षणं प्राहुर् मित्रं तथोपकारज्ञम् /

एकत्यास् तु मनुष्याः कृतम् उपकारं न जानन्ति //

किं मन्यध्वे भिक्षवः? यो ऽसौ मर्कटाधिपतिर् अहम् एव सः तेन कालेन तेन समयेन; यो ऽसौ मालाकरः एष एवासौ देवदत्तः तेन कालेन तेन समयेन; तदाप्य् एष अकृतज्ञः अकृतवेदी; एतर्ह्य् अप्य् एष अकृतज्ञ अकृतवेदी; पुनर् अपि यथैष अकृतज्ञ अकृतवेदी तच् छ्रूयतां.

the story of a lord of a dārukoṭaka bird and a lion (concerning a previous birth of devadatta)

भूतपूर्वं भिक्षवः अनियतराश्यवस्थितो बोधिसत्वः अन्यतमस्मिन्न् अग्रामके अरण्यायतने पर्वतगिरिगुहाप्रवणे पुष्पफलसमृद्धे पक्षिषूपपन्नो दारुकोटको बभूव; तस्मिन्न् एव च पर्वतैकदेशे सिंहो मृगराजः यथेष्टप्रचारविहारतया मृगान् प्रघात्य प्रघात्य भक्षयति; तस्यापरेण समयेन मांसं भक्षयतः अस्थि दन्तान्तरेण प्रविष्टं; स शूलरुजोपरुद्ध्यमानविग्रहो (sbv ii 103) विगतत्रासभयो ऽपि काहलीभूतः; आहारम् आहर्तुं न शक्नोतो; दैवात् स दारुकोटको वृक्षान्तरसञ्चाराभ्यासाद् यस्मिन् प्रदेशे मृगाधिपतिस् तं प्रदेशम् अनुप्राप्तः; तेन असौ सिंहो दुःखवेदनाभ्याहतो दृष्टः; उक्तश् च: मातुल किम् असि काहलः? इति? स कथयति: भागिनेय दुःखवेदनाभ्याहतो ऽस्मि; कीदृशं तव दुःखं? तेन विस्तरेण समाख्यातं; स कथयति: मातुल अहं तव चिकित्सां करोमि; त्वं हि सर्वचतुष्पदाम् अधिपतिः; शक्तः सर्वोपकारं कर्तुं; तत् त्वया मम कालेन कालं योगोद्वहनं कर्तव्यं; स कथयति: एवं भवतु; करिष्यामि इति; स दारुकोटकः संलक्षयति: तथास्य चिकित्सां करोमि यथा कृतम् अपि न जानीते; स्वस्थस् तु संजानीते; स तस्याचारविहारसमन्वेषणया हिताधानतत्परस् तिष्ठति; यावद् असौ मृगाधिपतिः सुखवायुसंस्पर्शविष्कम्भितास्यो महत्यां पृथिवीशिलायां वामपार्श्वं शिरस्य् आधाय मिद्धम् अवक्रान्तः; ततो ऽसौ दारुकोटकस् तस्य मृगाधिपतेस् समीपम् उपसंक्रान्तः; पश्यति तथा तथा विप्रलम्भविहारिणं; स संलक्षयति: अयं स कालो ऽस्य चिकित्सायाः; इति विदित्वा सुपरीक्षितं कृत्वा दन्तानतरविलग्नम् अस्थि पक्षनिपातक्रमेण सहसा अपकृष्य मुखविवरान्

निष्क्रम्य तम् एव निरीक्षमाणो वृक्षे ऽवस्थितः निषण्णः; ततः स मृगाधिपतिर् अस्थिशल्यापहारसंजनितसौमनस्यो निद्राक्लमं प्रतिविनोद्य उत्थाय प्रक्रान्तः; अथासौ दारुकोटकः तं मृगाधिपतिं व्यपगतदुःखदौर्मनस्यं विदित्वा प्रमुदितमनास् तत्समीपम् उपसंक्रम्य कथयति: मातुल इदं तद् अस्थि तव दुःखनिमित्तभूतम् इति; ततो ऽसौ मृगाधिपतिः परं विस्मयम् आपन्नः कथयति: भागिनेय अस्योपकारस्य मया तवावश्यं प्रत्युपकारः कर्तव्यः कालेन कालम् उपसंक्रमेथाः इति; शोभनम् एव तथा भवतु इत्य् उक्त्वा स दारुकोटकः प्रक्रान्तः; यावद् अपरेण समयेन स (अ 462अ) मृगाधिपतिर् मांसं भक्षयति; स च दारुकोटकः श्येनकस्य पक्षिणः क्रमान्तरपरिभ्रष्टः, मृतम् इव आत्मानं मन्यमानः क्षुधापरिगतहृदयः तस्य मृगाधिपतेः सकाशम् उपसंक्रान्तः आर्तिनिवेदनं कृत्वा कथयति: मातुल क्षुधाभिभूतो ऽहं; मांसस्तोकं (sbv ii 104) प्रयच्छ इति; स गाथां भाषते: प्राणातिपातिनो मे ऽद्य रौद्रस्याशुभकारिणः / दंष्ट्रान्तरालसक्तस् त्वं जीवन् न बहुमन्यसे //

इति सो ऽपि गाथां भाषते: नष्टं समुद्रपतितं नष्टं स्वप्ने विचिन्तितम् / नष्टं कापुरुषे सेवा अकृतज्ञे च यत् कृतम् // इति भगवान् आह: किं मन्यध्वे भिक्षवः? यो ऽसौ दारुकोटकः अहम् एव सः तेन कालेन तेन समयेन; यो ऽसौ सिंहो मृगराजः एष एवासौ देवदत्तः तेन कालेन तेन समयेन; तदाप्य् एष अकृतज्ञः अकृतवेदी; एतर्ह्य् अप्य् एष अकृतज्ञ अकृतवेदी; पुनर् अपि यथैष अकृतज्ञ अकृतवेदी तच् छ्रूयतां.

the story of a lord of a bear and a poor man (concerning a previous birth of devadatta)

भूतपूर्वं भिक्षवो वाराणास्यां नगर्याम् अन्यतमो दरिद्रपुरुषः प्रतिवसति; स काष्ठानि विक्रीय जीविकां कल्पयति: सो ऽपरेण समयेन काल्यम् एवोत्थाय परशुम् आभङ्गीम् आदाय काष्ठार्थी वनं गतः; महांश् चाकालमेघो जलमुचमारुतपूर्वरूपः समागतः; ततः स पुरुषः युक्तं वायुक्तं वा इदम् इति स्थानान्तरसमन्वेषणया वृक्षाद् वृक्षान्तरं गच्छति; तथाप्य् अतिवृष्यत एव; स वृक्षान्तरचारतया अनुपूर्वेण पर्वतगुहां प्रविष्टः; तस्यां च गुहायाम् ऋक्षस् तिष्ठति; स तं दृष्ट्वा सन्त्रस्तो निष्पलायितुम् आरब्धः; ऋक्षः कथयति: वत्स किं त्रस्तो ऽसि; नास्ति ते मत्सकाशाद् भयं; तिष्ठ इति; स जातशङ्को ऽपि साध्वसान् न शक्नोति गन्तुं; ततस् तेन ऋक्षेण बाहुभ्याम् उपगृह्य धारितः; मूलफलैश् च सन्तर्पितः; सप्ताहदुर्दिनं च संवृत्तं; वर्षत्य् एव देवः, न तिष्ठति; सप्ताहस्यात्ययाद् अष्टमे दिवसे व्यभ्रे दिने विगतबलाहके देवे ऋक्षेण चतुर्दिशं व्यवलोक्य प्रभूतानि मूलफलानि दत्वा स पुरुषः अभिहितः: वत्स अपेतं दुर्दिनं; व्य्भ्रं दिनं; विगतबलाहको देवः; यथासुखं गच्छ इति; स पुरुषः पादयोर् निपत्य कथयति: तात गच्छामि; अपि तु मया तव प्रत्युपकारः कर्तव्यः इति; स कथयति (sbv ii 105) वत्स एतद् एव मे कृतं, यथा मां न कस्यचिन् निवेदयसि इति; स कथयति: तात एवं भवतु उतु; स तं प्रदक्षिणीकृत्य पादयोर् निपत्य प्रक्रान्तः; स च वाराणसीं प्रविशति; अन्यतमश् च मृगलुब्धको मृगवधाय निर्गच्छति; स तेन दृष्टः उक्तश् च: मित्र त्वम् इयता कालेन इहागतः; पुत्रदारं ते विक्लवीभूतम्; अतीव विरौति: त्वं किलाकालसाप्ताहिकमेघेन

श्वापदेन वा प्रघातितः इति; अनेके मृगपक्षिनः साप्ताहिकाकालमेघेन प्रघातिताः; त्वं पुनः कथं परिभ्रष्टः? इति; तेन यथावृतं सर्वम् आरोचितं; स कथयति: वयस्य कामं येन वा तेन वा जीविकं कल्पयामि, न भूयो वनं प्रविशामि इति; स तेन तथा तथा प्रतिलोभितो मांसप्रत्यंशद्वयेन यथा प्रतिपन्नो मार्गम् उपदर्शयन् संप्रस्थितः; यावद् अनुपूर्वेण (अ 462ब्) गुहाम् अनुप्राप्तः यत्रासौ महात्मा ऋक्षस् तिष्ठति; ततो नैर्घृण्यम् आस्थाय अकृतज्ञतां च कथयति: एषा गुहा यत्रासौ तिष्ठति इति; ततस् तेन लुब्धेन परप्राणोपरोधिना गुहायाम् अग्निर् दत्तः; अथ स महात्मा ऋक्षो धूमव्याकुलीकृतमना अश्रुपर्याकुलेषणो गाथां भाषते: कस्य किं व्यपनीतं मे वसता गिरिगह्वरे /

फलमूलाम्बुभक्षेण सत्वेषु हितबुद्धिना //

इदानीं किं करिष्यामि मृत्युकाल उपस्थिते / कर्म त्व् अनुप्रसर्तव्यम् इष्टानिष्टं शरीरिणाम् //

इत्य् उक्त्वा कालगतः; ततस् तैर् विशस्यमांसस्य भागान् कृत्वा स कृतघ्नपुरुषो ऽभिहितः: गृहाण मांसस्य प्रत्यंशद्वयम् इति; तेन हस्तौ प्रसारितौ ग्रहीष्यामीति; पृथिव्यां निपतितौ; ततस् तेन मृगलुब्धकेन तं तथा विप्रकृतं दृष्ट्वा हा कष्टं हा कष्टम् इत्य् उक्त्वा स्वकान् अपि प्रत्यंशान् परित्यज्य प्रक्रान्तम्; एतद् अत्यद्भुतं श्रुत्वा महाजनकायस् तस्मिन् प्रदेशे सन्निपतितः; राजा ब्रह्मदत्तः कुतूहलजातस् तत्रैव गतः; तस्मिंश् च पर्वतैकदेशे संघारमः; ततो राजा ब्रह्मदत्तस् तस्य चर्म गृहीत्व विस्मयोत्फुल्ललोचनः (sbv ii 106) एतम् अर्थं भिक्षुसंघाय निवेदयामीति तं संघारामं गतः; चर्म पुष्करिण्यां स्थापयित्वा वृद्धान्ते निषण्णः संघस्यैतम् अर्थं विस्तरेण रोचयति; तत्र च संघस्थविर अर्हन्; स गाथया राज्ञः कथयति: नैष ऋक्षो महाराज बोधिसत्व द्युतिंधरः / पूजनीयस् त्रिभिर् लोकैः त्वयाप्य् एष नरोत्तम // इति राजा संलक्षयति: कर्तव्यास्य पूजेति; भिक्षवः कथयन्ति: देव भद्रकल्पिको ऽयं बोधिसत्वः; संविधातव्यास्य पूजा इति; ततो राजा ब्रह्मदत्तः सान्तःपुरकुमारामात्यपौरजानपदः सर्वगन्धकाष्ठान्य् आदाय तं प्रदेशम् अभिगतः; सर्वं तन् मांसम् अस्थि कलेबरं च एकध्ये कारयित्वा कथयति: भवन्तः सर्वगन्धकाष्ठैश् चितां चित्वा महता सत्कारेण ध्यापयत इति; तस्मिंश् च प्रदेशे महान् स्तूपः प्रतिष्ठापितः; छत्रध्वजपताकाश् च रोपिताः; महश् च प्रस्थापितम् -एद्. प्रतिस्थापितम्-; यैश् च तत्र काराः कृताः ते सर्वे मोक्षपरायणाः संवृत्ताः. किं मन्यध्वे भिक्षवः? यो ऽसौ ऋक्षः अहम् एव सः तेन कालेन तेन समयेन; यो ऽसाव् अकृतज्ञः पुरुषः एष एवासौ देवदत्तः तेन कालेन तेन समयेन; तदाप्य् एष अकृतज्ञः अकृतवेदी; एतर्ह्य् अप्य् एष अकृतज्ञ अकृतवेदी; पुनर् अपि यथैष अकृतज्ञ अकृतवेदी तच् छ्रूयतां.

another story of a bear of a poor man (concerning a previous birth of devadatta)

भूतपूर्वं भिक्षवो वाराणास्यां नगर्याम् अन्यतमो दरिद्रपुरुषः प्रतिवसति; स काष्ठानि विक्रीय जीविकां कल्पयति: सो ऽपरेण समयेन काल्यम् एवोत्थाय परशुम् आभङ्गीम् आदाय काष्ठार्थी वनं गतः; तत्पर्वतप्रदेशे विविधतरुषण्डमण्डिते नानापुष्पफलसमृद्धे अनियतराश्यवस्थितो बोधिसत्वः ऋक्षेषूपपन्नः; यावद् असौ काष्ठहारकः काष्ठानि पर्येषमाणः अन्यतमस्मिन् प्रदेशे व्याघ्रेणाभिद्रुतः; मरणभयभीतो दैवात् तं (sbv ii 107) वृक्षम् अभिरूढो यस्मिन्वृक्षे स ऋक्षो बोधिसत्वस् तिष्ठति; स तं दृष्ट्वा भूयः सन्त्रस्तः; तेन महात्मना समाश्वास्य उत्सङ्गेन धारितः; स च व्याघ्र आहारगृद्धस् तं वृक्षतलं नैव मुञ्चति; कथयति (अ 463अ) च: भो महात्मन्न् एते मनुष्याः कृष्णशिरसः अकृतज्ञाः भवन्ति; पातयैनं; भक्षयित्वा गच्छामि इति; प्रायः शरणागतवत्सला अन्य ऽपि मनुष्याः; प्रागेव बोधिसत्वाः; स कथयति: ममायं शरणागतः; नाहम् एतं पातयामि इति; तथाप्य् असौ व्याघ्रः मांसशोणिताभिलाषी तिष्ठत्य् एव; न तस्माद् विप्रक्रामति; अथासौ ऋक्षस् तं पुरुषम् आह: श्रान्तो ऽहं; त्वं तावत् तिष्ठ; अहं विश्रमामि इति; स तस्योत्सङ्गनिषण्णः श्रमखेदितपरिष्रान्तश् च मिद्धम् अवक्रान्तः; स व्याह्ग्रः कथयति: भोः पुरुष कियन्तं कालं त्वयात्र स्थातव्यं? पातयैनं; भक्षयित्वा गमिष्यामि: इति; स निर्घृणहृदयः पापकर्मा त्यक्तपरलोकः संलक्षयति: शोभनम् एष कथयति; कियन्तं कालं मयात्र स्थातव्यं? पातयामि इति; स तेन पातितः; तेन महात्मना पतताभिहितं हा नै वा ते हा किं चित् दुस् से मि इत्य् उक्त्वा पतितः; व्याघ्रेणानयेन व्यसनम् आपादितः; स

तस्य संधाय भाषितं श्रुत्वा संलक्षयति: ममायं केनचित् संविभागं कर्तुकामः, येनैवं कथयति इति; तस्य तृष्णान्धस्य प्रलापो लग्नः; क्षिप्तचित्तस् तेन तेनान्वाहिण्डन्न् एवम् आह: हा नै वा ते हा किं चित् दुस् से मि इति; स ज्ञातिभिर् गृहं नीतः; प्रलपत्य् एव न सन्तिष्ठते; ते विद्यामन्त्रधारिणो भूतचिकित्सकान् अन्यांश् च श्रमणब्राह्मणान् सुहृत्सम्बन्धिबान्धवान् पृच्छति; ते बहुधा कथयन्ति; न कश्चित् चिकित्सां करोति; तेन खलु समयेन वाराणस्यां नातिदूरे आश्रमपदे विविधतरुषण्डमण्डिते पुष्पफलसलिलसंपन्ने अनेकविहगनिकूजिते ऋषिः पंचाभिज्ञः प्रतिवसति; तस्य पुरुषस्य ज्ञातयस् तं पुरुषन् आदाय तस्य ऋषेः सकाशं गताः पादयोर् निपत्य कथयन्ति: महर्षे अयम् अस्माकं ज्ञातिः; मुहुर् मुहुर् एवं प्रलपति; किम् अस्य कर्तव्यम् इति; पापकारी अयं सत्वः; अनेन दुरात्मना कृतोपकारी बोधिसत्वो व्याघ्रस्य पुरस्तात् पातितः; तेन महात्मना चिन्तितम् अस्मै धर्मं देशयामि इति; सो ऽनेन पातितः; तस्य पततो भ्रान्तस्य दशानां श्लोकानाम् एकैकम् अक्षरं प्रतिभातं हा नै वा ते हा किं चित् दुस् से मि इति; तस्य ऋषेः शिष्यः (sbv ii 108) कथयति: उपाध्याय कथयस्व तावत् कीदृशस् ते श्लोकाः इति; स ऋषिर् अनुपूर्वेण तान् श्लोकान् कथयितुम् आरब्धः: हा काष्टं बत लोके ऽस्मिन् अधर्मः खलु दारुणः / असत्य् एषु मनुष्येषु हिंसा मित्रेषु विद्यते //

1 //

नैवासने न शयने नापि चैव च चङ्क्रमे / न कस्यांचिद् अवस्थायां मित्रद्रुक् सुखम् एधते // 2 //

वाणी ते करुणार्त्तेन तता या चैव भाषिता / सा त्वां दहति दुर्बुद्धे खाण्डवं ज्वलितं यथा // 3 //

तेन हि त्वं परे लोके ऽनुभविष्यसि वेदनाम् // असातां दुःखसंस्पर्शां कर्म कृत्वा सुदारुणाम् // 4 // हा हेति क्रन्दमानस् त्वं रौरवे भृशदारुणे / संप्राप्स्यसि महद् दुःखं निहीनम् अधमाधम // 5 //

किं ते न प्रकृतं कर्म रौद्रस्याशुभकर्मणः / असत्येषु मनुष्येषु हिंसा मित्रेषु विद्यते // 6 //

चित्तं पापं व्यवस्यन्ति धर्मलोपो (अ 463ब्) हि धारुणः / स्मर ऋक्षं च व्याघ्रं च यत् पापं प्रकृतं त्वया // 7 //

दुर्बुद्धे त्वं न जानीषे यथा मित्रेषु वर्तितुम् / हन्तारं लभते हन्ता वैरी वैराणि पश्यति // 8 //

सेवितस् त्वं चिरं कालं प्राप्ते व्याघ्रमहाभये / रक्षितश् च शयानस् त्वं त्वयासौ किं न रक्षितः // 9 //

मित्रभेदं परं गर्ह्यं ब्रुवते धर्मवादिनः / कायस्य भेदाद् दुर्बुद्धे नरकेषूपपत्स्यते // 10 // इति किं मन्यध्वे भिक्षवो? यो ऽसौ ऋक्षः अहम् एव सः तेन कालेन तेन समयेन; यो ऽसौ कृतघ्नः सत्वः एष एवासौ देवदत्तः तेन कालेन तेन समयेन; तदाप्य् एष अकृतज्ञः अकृतवेदी; एतर्ह्य् अप्य् एष अकृतज्ञ अकृतवेदी; पुनर् अपि यथैष अकृतज्ञ अकृतवेदी तच् छ्रूयतां.

the story of the king śibi (concerning a previous birth of devadatta)

भूतपूर्वं भिक्षवो शिबिघोषायां राजधान्यां शिबिर् नाम राजा राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं (sbv ii 109) चाकीर्णबहुजनमनुष्यं च; स च राजा श्राद्धो भद्रः कल्याणाशयः आत्महितप्रतिपन्नः कारुणिको महात्मा धर्मकामः प्रजावत्सलः सर्वप्रदः सर्वपरित्यागि निस्सङ्गपरित्यागी महति च त्यागे वर्तते; तस्य नास्ति किंचिद् अदत्तम् अपरित्यक्तं यदुत श्रमणब्राह्मणेभ्यः कृपणेभ्यो वणीपकेभ्यः अध्वगेभ्यः याचनकेभ्यः; यद्भूयसा तु ग्लानेभ्यः आचरितं तस्य राज्ञः; काल्यम् एवोत्थाय मातापितराव् अभिवाद्य ग्लानावलोक्यनं कृत्वा अर्थाधिकरणे निषीदति; यावद् अन्यतरः पुरुषो ग्लानः; स सर्ववैद्यप्रत्याख्यातो निरपेक्षो जीविते मरणाभिमुक्तः तेन तेनान्वाहिण्डमानः शिबिघोषां राजधानीम् अनुप्राप्तः; तस्मिंश् च समये राजा संप्राप्ते वसन्तकालसमये संपुष्पितफलितेषु पादपेषु हंसक्रौञ्चमयूरशुकाकोकिलजीवञ्जीवोन्नादिते वनषण्डे अन्तःपुरपरिवृतः उद्यानभूमिं संप्रस्थितः; स च व्याधितस् तीव्ररुजोपतापसङ्जनितदौर्मनस्यो मुहुः श्वासोपरुध्ह्यमानतनुर् अश्रुपर्याकुलेकणो दण्डपाणिः शनैः शनै राज्ञः सकाशम् उपसंक्रान्तः; शिरःप्रणामं कृत्वा कथयति: देव परित्रायस्व माम् अस्माद् व्याधेः; प्रयच्छ जीवितम् इति; ततः शिबिराजा करुणदीनविलम्बितैर् अक्षरैर् उच्यमानस् तदातुरवचनं श्रुत्वा कारुण्याद् आकम्पितहृदयः तत्र एव प्रतिनिवृत्तः अमात्यान् आमन्त्रयते: आहूयन्तां मद्विषयनिवासिनो वैद्याः इति; तैस् सर्वे वैद्या आहूताः; राज्ञ उपनीताः; ततो राजा तं पुरुषं शब्दयित्वा कथयति: भवन्तः कुरुतास्य चिकित्साम् इति; वैद्या विचार्यैकमतेन

कथयन्ति: देव यः पुरुषः जन्मनो न कस्यचिद् रुषितपूर्वः तस्य रुधिरेण यवागूं साधयित्वा यदि भोज्यते, एवम् अयं स्वस्थीभवति; नान्यथा इति; श्रुत्वा राजा संलक्षयति: किं ममानेन एवंविधेन जीवितेन, राज्यैश्वर्याधिपत्येन वा? ईदृशेन यो ऽहं परेषां दुःखार्तानां न शक्नोमि शान्तिं कर्तुम् इति; एवं विचिन्त्य राजा स्वसन्ततिं प्रत्यवेक्षितुम् आरब्धः; तेन धात्री पृष्टा: अम्ब अस्त्य् अहं कस्यचिद् रुषितपूर्वः? सा कथयति: देव यदा (अ 464अ) त्वं ममांसगतस् तदा अहम् अपि न कस्यचिद् रुषितपूर्वा; प्रागेव त्वम् इति; ततो मातुः सकाशम् उपसंक्रम्य कथयति: पुत्र यदा त्वं मम कुक्षिगतस् तदा अहम् अपि न कस्यचिद् रुषितपूर्वा, प्रागेव त्वम् इति; राजा कथयति: इदानीं संपन्नं भैषज्यम् इति; तेन वैद्या उक्ताः: मम पंचसु गात्रेषु शिरां (sbv ii 110) मुञ्चत इति; ते कथयन्ति: देव न वयं प्राकृतपुरुषस्यार्थाय देवस्य काये शस्त्रं निपातयामः इति; कुशला भवन्ति बोधिसत्वास् तेषु तेषु शिल्पस्थानकर्मस्थानेषु; तेन स्वयम् एव पंचसु गात्रेषु शिरा मुक्ता; रुधिरस्य कर्परः पूर्णः; ततः पेया साधयित्वा दत्ता; अनुरक्तपौरजानपदः स राजा; अन्तःपुरकुमारामात्यपौरजानपदा विक्रोष्टुम् आरब्धाः; नानादेशाभ्यागतश् च जनकयो विवाचयितुम् आरब्धः: कथं नाम एकस्य प्राकृतसत्वस्यार्थाय इयन्तः सत्वाः परित्यज्यन्ते? इति; ततो राज्ञा स जनकायः समाश्वासितः; तद् अनेनोपायेन षण् मासान् पंचसु गात्रेषु शिरा मुक्ता; यवागूं भोजितः; राज्ञः शिबेः तच्छरीरं चालनीसदृशं संवृत्तम्; ओजः परिहातुम् आरब्धः; शुद्धावासकायिका देवाः संलक्षयन्ति: यद्य् एवं भद्रकल्पिको

बोधिसत्वः परिहीयते, न शोभनं; ते तस्य प्रत्यहम् ओज उपहरन्ति, येनासौ यापयति; यदा तस्य पुरुषस्य व्याधिर् उपशान्तः, तदा शिबिना राज्ञा पंचभिर् ग्रामवरैः संविभक्तः, वाराणस्यां प्रधानसंमतो जातः; तदा सामन्तकेन शब्दो विसृतः; शिबिना राज्ञा पंचसु गात्रेषु शिरा मुक्ता; स्वरुधिरेण ग्लानस्य इयन्तं कालम् उपस्थानं कृतं; स च स्वस्थीकृतः इति; ततः कुतूहलजातः सत्वा आगम्य तं पुरुषं पृच्छन्ति: भोः पुरुष सत्यं तव किल शिबिना राज्ञा इयन्तं कालम् उपस्थानं कृतम्? इति; स कथयति: किं ममानेन कृतं? दुष्टशोणितं पृथिव्यां वा छोर्येत अन्यस्य वा दीयेत, किम् अत्र आश्चर्यम् इति; वचो ऽवसानसमनन्तरम् एवास्य गृहे अग्निर् निपतितः; येनास्य गृहं सर्वं च स्वापतेयं दग्धं. किं मन्यध्वे भिक्षवो? यो ऽसौ शिबी राजा अहम् एव सः तेन कालेन तेन समयेन; यो ऽसौ कृतघ्नःपुरुषः एष एवासौ देवदत्तः तेन कालेन तेन समयेन; तदाप्य् एष अकृतज्ञः अकृतवेदी; एतर्ह्य् अप्य् एष अकृतज्ञ अकृतवेदी; पुनर् अपि यथैष अकृतज्ञ अकृतवेदी तच् छ्रूयतां.

the story of kalyāṇakārin (concerning a previous birth of devadatta)

भूतपूर्वं भिक्षवो ऽन्यतमस्यां राजधान्याम् अन्यतमो राजा राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च; सो ऽपरेण समयेन देव्या सार्धं क्रीडति रमते परिचारयति; तस्य क्रीडतो रममाणस्य परिचारयतः (sbv ii 111) कालान्तरेण देवी आपन्नसत्वा संवृत्ता; सा अष्टानां व नावानां वा मासानाम् अत्ययात् प्रसूता; दारको जातः अभिरूपो दर्शनीयः प्रासादिको गौरः कनकवर्णः छत्राकारशिराः प्रलम्बबाहुर् विस्तीर्णललाटः संगतभ्रूस् तुङ्गनासो (अ 464ब्) सर्वाङ्गप्रत्यङ्गोपेतः; जन्मनि चास्य अनेकानि कल्याणसहस्राणि प्रादुर्भूतानि; तस्य जातौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते; किं भवतु दारकस्य नाम? इति; अमात्याः कथयन्ति: देवास्य जन्मनि अनेकानि कल्याणसहस्राणि प्रादुर्भूतानि; तस्माद् भवतु दारकस्य कल्याणकारीति नाम इति; तस्य कल्याणकारीति नामधेयं व्यवस्थापितं; कल्याणकारी दारकः अष्टाभ्यो धात्रीभ्यो ऽनुप्रदत्तः; द्वाभ्याम् अंशधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां क्रीडनिकाभ्यां धात्रीभ्यां; सो ऽष्टाभिर् धात्रीभिर् उन्नीयते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिर्मण्डेन अन्यैश् चोत्तप्तोत्तप्तैर् उपकरणविशेषैर् आशु वर्धते ह्रदस्थम् इव पङ्कजम्; भूयः स राजा देव्या सार्धं क्रीडति रमते परिचारयति; तस्य क्रीडतो रममाणस्य परिचारयतः देवी आपन्नसत्वा संवृत्ता; सा अष्टानां व नावानां वा मासानाम् अत्ययात् प्रसूता; दारको जातः; तस्यापि जन्मनि अकल्याणसहस्राणि प्रादुर्भूतानि; तस्य अकल्याणकारीति नामधेयं व्यवस्थापितं; सो ऽपि उन्नीतो महान् संवृत्तः; कल्याणकारी कुमारो

मैत्र्यात्मकः कारुणिकः सर्वसत्वेषु दयावान् दानरुचिर् दानाभिरतः; स श्रमणब्राह्मणकृपणवणीपकयाचनकेभ्यो दानं ददाति; स पित्रा उच्यते: पुत्र मा त्वं सततं दानम् अनुप्रयच्छ; कुतो ऽस्माकम् एतावद् धनजातं भविष्यति यन्न्व् अहम् अन्वहम् एवं दास्यामीति; धर्मता ह्य् एषा दातुर् दानपतेर् यद् बहुजनस्य प्रियो भवति मनापश् च; दिग्विदिक्षु चास्य उदारः कल्याणकीर्तिशब्दश्लोको ऽभ्युद्गच्छति; तस्यान्यतरेण भूम्यन्तरेण राज्ञा गुणमाहात्म्यं श्रुत्वा दुहिता दत्ता; राज्ञा महता श्रीसमुदायेन प्रतीष्टा; कल्याणकारी कथयति: न तावद् अहं भार्योपादानं करोमि, यावन् न धनोपार्जनं कृतं; तद् अनुज्ञातुम् आर्हसि तात, महासमुद्रम् अवतरामि इति; स कथयति: एवं कुरुष्व इति; स पण्यम् आदाय महासमुद्रं संप्रस्थितः; सो ऽस्य भ्राता अकल्याणकारी संलक्षयति: अयं बहुजनस्य प्रियो मनापश् च; यदि महासमुद्रात् समृद्धयानपात्रो ऽभ्यागच्छति भूयसा बहुजनप्रियो भवति (sbv ii 112) मनापश् च; स्थानम् एतद् विद्यते यत् तिष्ठत एव पितुः राज्यैश्वर्याधिपत्यं कारयति; सर्वथा किम् अत्र प्राप्तकालम्? अहम् अप्य् अनेन साकम् अवतरामि: अत्रैवैनं जीविताद् व्यपरोपयिष्यामि; एवं ममाकामस्यापि यौवराज्याभिषेकः; इति विदित्वा पितुः सकाशम् उपसंक्रम्य कथयति: देव कल्याणकारी महासमुद्रं संप्रस्थितः; अहम् अपि तेन सार्धं गच्छामि इति;स कथयति एवं कुरुष्वेति; ततः कल्याणकारिणा स्वे ऽधिष्ठाने घण्टावघोषणं कारितं; शृण्वन्तु भवन्तो नगरनिवासिनो वणिजः; कल्याणकारी कुमारो महासमुद्रं संप्रस्थितः; यो युष्माकम् उत्सहते कल्याणकारिणा सार्थवाहेन सार्धम् अशुल्केन

अगुल्मेन अतरपण्येन महासमुद्रम् अवतर्तुं (अ 465अ) महासमुद्रगमनीयं पण्यं समुदानयतु इति; अनेकैर् वणिक्छतैर् महासमुद्रगमनीयं पण्यं समुदानीतं; ततः कल्याणकारी सार्थवाहः अकल्याणकारिणा भ्रात्रा सार्धं कृतकुतूहलमङ्गलस्वस्त्ययनः अनेकवणिक्शतपरिवारः शकटैर् भारैर् मूटैः पिटकैः उष्ट्रैर् गोभिर् गर्दभैः प्रभूतं महासमुद्रगमनीयं पण्यम् आदाय संप्रस्थितः; सो ऽनुपूर्वेण ग्रामनिगमराजराष्ट्रधानीषु पट्टनान्य् अवलोक्य समुद्रतीरम् अनुप्राप्तः; स पंचभिः पुराणशतैर् वहनं कृत्वा पंच पौरुषेयान् गृहीत्वा आहारकं निर्हारकं नाविकं कैवर्तं कर्णधारं च त्रिर् घण्टावघोषणं कृत्वा महासमुद्रम् अवतीर्णः; संप्रस्थिते वहने भ्रातुर् अकल्याणकारिणः कथयति: महासमुद्रमध्यगतानां यदि तद् वहनं विपद्येत, मम गले लगेः; मा काहलीभविष्यसि इति; स कथयति: शोभनम् एवं भवतु इति; यावत् तद् वहनम् अनुगुणेन वायुना रत्नद्वीपम् अनुप्राप्तं; कर्णधारः कथयति: शृण्वन्तु भवन्तो जम्बूद्वीपका वणिजः; यो ऽसौ श्रूयते रत्नद्वीपो नाम वज्रवैडूर्येन्द्रनीलमरकतादीनां रत्नानाम् आकरः इति तम् अनुप्राप्ताः स्म; यथेष्टं रत्नसङ्ग्रहं कुरुत इति; ततस् तैः प्रमुदितमनोभिः उपपरीक्ष्य, तद् वहनं रत्नानां पूरितं (sbv ii 113) तद्यथा तिलतण्डुलकोलकुत्थानां; निपुणा भवन्ति बोधिसत्वाः कुशलश् च; कल्याणकारिणा कुमारेण महार्हाणि रत्नानि कट्याम् उपनिबद्धानि; यावत् तद् वहनं विपरिवृत्तं; तीरस्य नातिदूरे मकरेण मत्स्यजातेन अनयेन व्यसनम् आपादितं; ततः अकल्याणकारी कल्याणकारिणो गले लग्नः; स तेन महता यत्नेन

उत्तारितः; स तावत् कृतपरिष्रमो मिद्धम् अवक्रान्तः; तस्य परिवर्तमानस्य अकल्याणकारिणा कट्युपनिबद्धानि रत्नानि दृष्टानि; स संलक्षयति: अयं नाम रत्नानि गृहीत्वा गमिष्यति; अहं रिक्तपाणिर् गमिष्यामि; इति विदित्वा तेन तस्य गाढमिद्धावष्टब्धस्य तानि रत्नान्य् अपहृतानि; कण्टकैश् च अक्षिणी उत्पाटिते; स तम् अन्धं समुद्रतीरे छोरयित्वा प्रक्रान्तः; दैवात् गोपालका गाश् चारयन्तस् तं प्रदेशम् अनुप्राप्ताः; तैर् असौ दृष्टः पृष्टश् च: भोः पुरुष कस् त्वम् ईदृशः इति; तेन यथावृतं समाख्यातं; श्रुत्वा तेषां कारुण्यम् उत्पन्नं; तैर् असौ पालबन्धोर् गृहे नीतः; स तेन विणाम् आश्रावयितुम् आरब्धः; तस्य पालबन्धोर् भार्या यौवनमदाक्षेपात् वीणास्वनं श्रुत्वा तं प्रार्थयितुं प्रवृत्ता; स कृतघ्नचेष्टितम् अनुस्मृत्य कर्णौ पिधायावस्थितो नाधिवासयति; कामाध्यवसितानां नास्ति किंचिद् अकरणीयम् इति तया स्वामि विग्राहितः: माम् अयम् अन्धः पुरुषः प्रार्थयति इति; (अ 465ब्) ईदृशानां त्वं संग्रहं करोषि इति; प्रतिक्रुष्टम् एतद् वैराणां यदुत स्त्रीवैरं; स संलक्षयति: कृतनिग्रहो ऽयं; नास्ति किंचिद् अस्य करणीयम् ऋते निर्वासनाद् इति; स तेन गृहान् निर्वासितः रथ्यावीथीचत्वरशृङ्गाटकेषु वीणया जीविकां कल्पयति; तस्य पिता कालगतः; भ्राता अस्य अकल्याणकारी राज्यैश्वर्याधिपत्ये प्रतिष्ठितः; सो ऽप्य् अनुपूर्वेण सीमान्तरस्य राज्ञो नगरम् अनुप्राप्तः येनास्य पूर्वं दुहिता दत्ता; सा च महती संवृत्ता; तस्या नानादेशनिवासिनो राजपुत्राः पुरोहितपुत्राश् च वरका आगच्छन्ति; सापि तातेनोच्यते: पुत्रि यस्य त्वं दत्ता स कल्याणकारी कुमारो महासमुद्रं (sbv ii 114) गतः; तत्रैव च

अनयेन व्यसनम् आपन्नः; तव चेदानीं याचका आगच्छन्ति; यस्यैव त्वां न दास्यामि स विसुखो भविष्यति; कथम् अत्र प्रतिपत्तव्यम्? इति; सा कथयति: तात यद्य् एवं नगरशोभां कारय; अहं स्वयंवराय अवतरामि इति; राजा कथयति: पुत्रि एवं कुरुष्व इति; ततो नानादेशेषु नानाधिष्ठानेषु स्वयंवरणं श्रावितं; तच् च नगरम् अपगतपाषाणशर्करकठल्लं व्यवस्थापितं चन्दनवारिपरिषिक्तं सुरभिधूपघटिकोपनिबद्धम् उच्छ्रितध्वजपताकम् आमुक्तपट्टदामकलापं नानापुष्पावकीर्णं रमणीयं देवानाम् इव नन्दनवनोद्यानं; घण्टावघोषणं च कारितं: शृण्वन्तु भवतो नगरनिवासिनः पौरा, नानादेशाभ्यागतश् च जनकायः; श्वो राजकुमारी स्वयंवराय अवतरिष्यति; तद् युष्माभिर् यथाविभवेन सन्निपतितव्यम् इति; ततः प्रभातायां रजन्यां सा राजकुमारी नानालंकारविभूषिता अनेककुमारीपरिवृत्ता वनदेवतेव कुसुमितवनमध्ये अतीव विभ्राजमाना महता श्रीसमुदायेन मध्ये नगरस्य अनेकेषु प्राणिशतसहस्रेषु सन्निपतितेषु स्वयंवराय अवतीर्णा; स कल्याणकारी अन्यतमस्मिन् प्रदेशे वीणाम् आश्रावयंस् तिष्ठति; कर्माण्य् एव सत्वानां परस्परं संयोजकानि; बलवद् अपि हेतुबलं प्रत्यबलम् अपेक्षत इति; ततः सा राजकुमारी वीणास्वनावर्जितहृदया वीणावादके कल्याणकारिण्य् आक्षिप्ता; तया तस्य स्रग्दाम क्षिप्तम्: एष मम स्वामी इति; जनकायो दुर्मनाः संवृत्तः; केचिद् वेगम् असहमानाः अवध्यातुम् आरब्धाः: कथं नाम नानादेशाभ्यागतान् राजामात्यपुरोहितपुत्रान् अन्यांश् च नगरनिवासिनः प्रधानपुरुषान् प्रत्याख्याय राजकुमार्या एवंरूपयौवनकलासंपद्युक्तया अन्धलकः स्वामी वृतः

इति; पौरुषेयैर् दौर्मनस्यविमुखै राज्ञो निवेदितं; देव कुमार्या स्वयंवरावतीर्णया स्वामी वृतः इति; राजा कथयति: कीदृशः? देव अन्धलकः; सो ऽपि श्रुत्वा दुर्मनाः संवृत्तः; ततस् तेन सा आहूयोक्ता; पुत्रि संविद्यन्ते राजानो धनिनः श्रेष्ठिनः सार्थवाहाः अमात्यपुत्राः पुरोहितपुत्राश् (अ 466अ) च रूपयौवनविभवसंपन्नाः; कस्मात् त्वया एवंविधः स्वामी वृतः? इति; सा कथयति: तात स एव मे रोचते इति; राजा कथयति: यद्य् एवं किमर्थं तिष्ठसि इति; सा तस्य सकाशम् उपसंक्रान्ता कथयति: त्वं मया स्वामी (sbv ii 115) वृतः इति; न ते शोभनं कृतं; किं त्वं चिन्तयसि? एषो ऽन्धलकः; अहं परपुरुषैः सार्धं परिचारयिष्यामि इत्: सा कथयति: नाहम् एवंविधस्य कर्मणः कारिणी इति; स कथयति: कथं ज्ञायते? सा सत्योपयाचनं कर्तुम् आरब्धा: येन सत्येन सत्यवचनेन तस्य कल्याणकारिणो राजकुमारस्य तव चान्तिके रागः समुत्पन्नः, नान्यस्य कस्यचित्, अनेन सत्येन सत्यवचनेन तवैकम् अक्षि यथापौराणं स्याद् इति; सत्याधिष्ठानसमनन्तरम् एव तस्यैकं चक्षुः यथापौराणं संवृत्तं: स कथयति: स एवाहं कल्याणकारी; अकल्याणकारिणा भ्रात्रा एतां दशां नीतः; सा कथयति: कथं ज्ञायते त्वम् एवासौ कल्याणकारी इति; सो ऽपि सत्योपयाचनं कर्तुम् आरब्धः: येन सत्येन सत्यवचनेन तस्य ममाक्षिणी समुत्पाटयतो ऽन्तिके ईषद् अपि न प्रदुष्टं चित्तं मे, अनेन सत्येन सत्यवचनेन मम द्वितीयम् अक्षि यथापौराणं भवेद् इति; तस्य सह सत्ययाचनया द्वितीयम् अक्षि यथापौराणं संवृत्तं; ततः सा राजकुमारी कल्याणकारिणम् अविकलेन्द्रियम् आदाय राज्ञः सकाशं

गता कथयति: तात एष एवासौ कल्याणकारी इति; राजा न श्रद्धत्ते; तेन यथावृत्तम् आरोचितं; राजा परं विस्मयम् आपन्नः; ततस् तेनासौ दुहिता महता श्रीसमुदायेन परिणीता; स च कल्याणकारी महता बलसमुदायेन तन्नगरं गत्वा अकल्याणकारिणं च्यावयित्वा पितृके राज्ये प्रतिष्ठापितः. किं मन्यध्वे भिक्षवः? यो ऽसौ कल्याणकारी अहम् एव सः तेन कालेन तेन समयेन; यो ऽसौ अकल्य्णकारी एष एव स देवदत्तः तेन कालेन तेन समयेन; तदाप्य् एष अकृतज्ञः अकृतवेदी; एतर्ह्य् अप्य् एष अकृतज्ञ अकृतवेदी; पुनर् अप्य् एष यथा अकृतज्ञ अकृतवेदी तच् छ्रूयतां.

the story of viśākha (concerning a previous birth of devadatta)

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.