Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luật tạng
सङ्घभेदवस्तु
- Thông tin
- GRETIL — R. Gnoli with the assistance of T. Venkatacharya: The Gilgit Manuscript of the Saṅghabhedavastu, Being the 17th and Last Section of the Vinaya of the Mūlasarvāstivādin, Roma 1977-78 (Serie Orientale Roma, 49).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
भूतपूर्वं भिक्षवः वाराणस्यां नातिदूरे पुष्पफलसंपन्नम् आश्रमपदं नानाविहगनिकूजितं विश्वस्तमृगपक्षिनिषेवितम्; तत्र द्वाव् ऋषी भ्रातरौ प्रतिवसतः फलमूलाम्बुभक्षाव् अजिनवल्कलधारिणौ शङ्खश् च लिखितश् च; शङ्ख उपाध्याय लिखितश् च शिष्यः; तौ वाराणस्यां सर्वलोकप्रख्यातौ; राज्ञापि ब्रह्मदत्ते<न> विदितौ: अमुष्मिन्न् उद्याने द्वाव् ऋषी भ्रातरौ प्रतिवसतः शङ्खश् च लिखितश् च; तत्र शङ्ख उपाध्यायो लिखितश् च शिष्यः इति; यावद् अपरेण समयेन शङ्ख उदकस्य कुण्डिकां पूरयित्वा मूलफलानाम् अर्थे वनं गतः; लिखितस् तु सरात्रम् एवोत्थाय पूर्वतरं गतः; स पुष्पफलान्य् आदाय त्वरितम् आगतः; आत्मीयाम् आटिकां प्रत्यवेक्षते; स्वल्पं पानीयं; स तृष्णार्तः संलक्षयति उपाध्यायसन्तकं पानीयं पिबामि इति; तेन पीतं; यावत् शङ्ख रिषिर् मूलफलान्य् आदाय तृषापर्याकुलीकृतमुखः आश्रमं प्रविष्टः; कुण्डिकां प्रत्यवेक्षते; पश्यति रिल्तिकां; स संजातामर्षः कथयति, केन चोरेण पानीयम् अपहृतं? इति; लिखितः कथयति: उपाध्याय अहं चोरः; मया पीतं; दण्डं प्रयच्छ इति; स कथयति: त्वं मम भ्राता शिष्यश् च; यदि पीतं सुपीतं यथासुखम् इति; स कथयति: उपाध्याय न शक्नोम्य् अहम् एतत् कौकृत्यं प्रतिविनोदयितुं; प्रयच्छ मे गुरुकं दण्डं यश् चोरस्य प्रदीयते इति; एवम् उक्तः शङ्ख ऋषिः (अ 441अ) प्रकुपितः कथयति: नाहं दण्डम् अनुप्रयच्छामि: यदि त्वं दण्डेनार्थी राज्ञः सकाशं गच्छ इति; स राज्ञः सकाशं गतः; तस्मिंश् च समये राजा मृगवधाय संप्रस्थितः; तेनासौ जयेनायुषा वर्धयित्वा गाथया विज्ञप्तः: अहं चोरो महाराज यो ऽस्यादत्तं जलं पिबेत् / प्रयच्छ मे गुरुं दण्डं यश् चोरस्य प्रदीयते //
राजा कथयति: नास्ति पानीयस्यादत्तादानम् इति; अपि तु कस्य सन्तकं त्वया जलम् अपहृतं? <इति>; तेन यथावृत्तं समाख्यातं; राजा कथयति: स तव भ्राता उपाध्यायश् च; गच्छ न त्वं दण्डार्हः इति; स कथयति देव न शक्नोम्य् अहं कौकृत्यं (sbv ii 44) प्रतिविनोदयितुं; प्रयच्छ मे गुरुं दण्डं यश् चोरस्य प्रदीयते इति; एवम् उक्ते राजा प्रकुपितः तीव्रेण पर्यवस्थानेन पर्यवस्थितः; स कथयति: यद्य् एवम् अत्रैव तिष्ठ न तावत् प्रयातव्यं यावद् अहं प्रतिनिर्वृत्तः इति; स राजा मृगवधं कृत्वा संचिन्त्यान्येन द्वारेण प्रविष्टः न भूयो निर्गच्छति; अमात्यै षष्टे दिवसे राज्ञो निवेदितं: देव तस्य रिषेर् अद्य षड्दिवसा<न्> तस्मिन्न् एव प्रदेशे तिष्ठतः आज्ञां दातुम् अर्हसि इति; राजा कथयति: उद्धृतदण्डो भवतु; गच्छतु, एषैवास्य दण्डः इति; अमात्यैस् तस्य रिषेर् आख्यातं: ऋषे देव कथयति उद्धृतदण्डो ऽसौ गच्छत्व् एष एवास्य दण्डः इति; स विगतकौकृत्यः प्रक्रान्तः. किं मन्यध्वे भिक्षवः? यो ऽसौ राजा ब्रह्मदत्त एष एव स राहुलः तेन कालेन तेन समयेन; यद् अनेन चित्तं प्रदूष्य रिषिर् अभिहितः; तस्मिन् प्रदेश तिष्ठ; न ते गन्तव्यम् इति; तस्य कर्मणो विपाकेन मातुः कुक्षौ षड्वर्षाण्य् उषितः; इति हि भिक्षवः एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः पूर्ववद् यावद् एवं वो भिक्षवः शिक्षितव्यम्. भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: किं भदन्त आयुष्मता भद्रिकेण कर्म कृतं यस्य कर्मणो विपाकेन प्रधानपुरुषाणां राजा संवृत्तः? भगवान् आह: भद्रिकेणैव भिक्षवः कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययान्य् ओघवत् प्रत्युपस्थितान्य् अवश्यभावीनि; भद्रिकेणैव कर्माण्य् उपचितानि को ऽन्यः प्रत्यनुभविष्यति; न भिक्षवः कर्माणि कृतान्य् उपचितानि <न> बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च; न प्रणश्यन्ति कर्माण्य् अपि कल्पशतैर् अपि / सामग्रीम् प्राप्य कालं च फलन्ति खलु देहिनाम् //
story of the beggar (concerning a previous birth of king bhadrika)
भूतपूर्वं भिक्षवः अन्यतमः कोट्टमल्लकः जनपदाद् वाराणसीम् आगतः; स तन्निवासिभिः कोट्टमल्लकैः ईर्ष्या<स्वभावैः> (sbv ii 45) प्रत्याखचपेटाप्रहारादिभिः प्रताडितं कृत्वा निष्कासितः; स बहिर् वाराणस्यां राजकीय उद्याने ऽवस्थितः; यावद् राजा ब्रह्मदत्तः सम्प्राप्ते वसन्तकालसमये संपुष्पितेषु पादपेषु हंसक्रौञ्चमयूरशुकशारिकाकोकिलजीवञ्जीवकोन्नादिते वनषण्डे (अ 441ब्) ऽन्तःपुरसहीयः उद्यानभूमिं निर्गतः; स तत्रान्तःपुरेण सार्धम् उद्याने सुखम् अनुभूय मिद्धम् अवक्रान्तः; पुष्पफललोलुपो मातृग्रामः पुष्पफलानि समन्वेषमाणः परिभ्रमितुम् आरब्धः; यावद् राजा ब्रह्मदत्तः निद्रालस्यं प्रतिविनोद्य लघु लघ्व् एव वाराणसीं प्रविष्टः; अन्तःपुरजनो ऽपि त्वरितत्वरितं संप्रस्थितः; यावद् अन्यतमा स्त्री संभ्रान्ता मुक्ताहारं छोरयित्वा प्रक्रान्ता; यावद् असौ कोट्टमल्लकस् तस्मिन्न् उद्याने परिभ्रमितुम् आरब्धः; तेनासौ मुक्ताहारो दृष्टः; स संलक्षयति: किं ममानेन प्रयोजनं; स्थानम् एतद् विद्यते यद् अर्थायानर्थं प्रापयामि इति; तेनासौ लतायां बद्ध्वा उद्याने ऽवस्थितः; यस्य सन्तको भविष्यति स ग्रहीष्यति इति; यावद् अन्तःपुरिकाभिः राजा विज्ञप्तः; देव अमुकया उद्याने मुक्ताहारो विस्मृतः इति; राज्ञामात्यानाम् आज्ञा दत्ता: भवन्त उद्याने उक्ताहारो विस्मृतः, समन्वेषत इति; ते उद्यानं गत्वा समन्वेषयितुम् आरब्धाः; यावत् पश्यति लतायाम् उपनिबद्धं; ते संलक्षयन्ति: विचारयामस् तावत् केनैष बद्ध इति; ते उद्यानं परिभ्रमितुम् आरब्धाः; यावत् पश्यन्ति कोट्टमल्लकं; स तैर् उक्तः: भोः पुरुष केनैष मुक्ताहारो लतायां बद्ध्वावस्थापितः; तेन यथावृत्तं
तेषां समाख्यातम्; अमात्यै रज्ञो मुक्ताहारो दत्तः; यथावृत्तम् आरोचितं; राजा कथयति भवन्तस् तं कोट्टमल्लकं शब्दापयत; पश्यामि इति; तैः शब्दितः; राज्ञा पृष्टः भोः पुरुष कस्मात् त्वया मुक्ताहारो लतायां बद्ध्वावस्थपितः, न स्वीकृतः इति; स कथयति: देव नाहम् अस्य भागी देवस्यैवार्हति इति; राजा अभिप्रसन्नः कथयति: भोः पुरुष वरार्हस् त्वं; वद कं ते वरम् अनुप्रयच्छामि इति; स कथयति: यदि देवः परितुष्टः कोट्टमल्लकान् भोजयित्वा तेषां प्रत्येकम् एकैकं वस्त्रयुगेनाच्छाद्य माम् (sbv ii 46) अधिपतिं स्थापयतु इति; राज्ञामात्यानाम् आज्ञा दत्ता: भवन्तो युष्माभिः कोट्टमल्लकान् भोजयित्वा प्रत्येकम् एकैकं वस्त्रयुगेनाच्छाद्य एतं पुरुषं तेषाम् अधिपतिं स्थापयत; तैः वाराणस्यां घण्टावघोषणं कारितं: देवसमाज्ञापयति यावन्तः कोट्टमल्लकाः वाराणस्यां सर्वैर् अमुष्मिन्न् उद्याने संनिपतितव्यम्; अहं कोट्टमल्लकान् भोजयामि एकैकं वस्त्रयुगेनाच्छादयामि इति; ते सर्वे संनिपतिताः आमत्यैः प्रणीतेनाहारेण संतर्पिताः; प्रत्येकं वस्त्रयुगेनाच्छादिताः; उक्ताश् च: देव समाज्ञापयति, अद्याग्रेण युष्माकम् एष कोट्टमल्लको राजा; युष्माभिर् अस्याज्ञा कर्तव्या इति; ते प्रणीतेनाहारेण संतर्पिताः वस्त्रयुगेनाच्छादिताः प्रीतमनसः कथयन्ति यथा देवः समाज्ञापयति इति; सो कोट्टमल्लको ऽधिपतिः संवृत्तः; प्रकृत्यैव कोट्टमल्लकाः क्षुत्पिपासाभिभूताः वीथ्याम् अन्नपानम् आच्छिन्दन्ति; ते राज्ञा सत्कृता इति भूयस्या मात्रया आच्छेत्तुम् आरब्धाः; पत्तनोपजीवि जनकायः क्षुब्धः; राज्ञो निवेदितं; राजा कथयति (अ 442अ) अप्रमत्तैर् भवद्भिर् आरक्षा कर्तव्या, न तु ते
ताडयितव्याः इति; यावद् अन्यतमः पुरुषः पूपकान् आदाय वीथीमध्येन गच्छति; तेन कोट्टमल्लकाधिपतिना तस्य सकाशात् पूपिका आच्छिन्नाः; स तान् आदाय प्रतिगुप्तं प्रदेशं गतः; कोट्टमल्लकैर् अनुबद्धः; स तैर् उपद्रूयमानो नदीं वारकाम् उत्तीर्य अन्यतमस्मिन् वृक्षमूले ऽवस्थितः; असति बुद्धानाम् उत्पादे प्रत्येकबुद्धा लोक उत्पद्यन्ते हीनदीनानुकम्पाः प्रान्तशयनासनभक्ता एकदक्षिणीया लोकस्य; यावद् अन्यतमः प्रत्येकबुद्धो दैवात् तं प्रदेशम् आगतः; तेनासौ दृष्टः कायप्रासादिकः शान्तेर्यापथश् च; स संलक्षयति: नूनं मया एवंविधे सद्भूतदक्षिणीये कारा न कृता येनाहं मानुष्यम् आसाद्य कोट्टमल्लको जातः; यद्य् अयं महात्मा ममान्तिकात् पूपान् प्रतिगृह्णीयाद् अहम् अस्मै दद्याम् इति; ततस् तेन प्रत्येकबुद्धेन तस्य चेतसा चित्तम् आज्ञाय परानुग्रहकारणात् पात्रम् उपनामितं; तेन तस्मै सत्कृत्य पूपिका दत्ताः; कायिकी तेषां महात्मनां धर्मदेशना न वाचिकी; स उपरि विहायसम् अभ्युद्गम्य ज्वलनतपनवर्षणविद्योतनप्रातिहार्याणि कर्तुम् आरब्धः; अस्त्य् आशु पृथग्जनस्य रिद्धिर् आवर्जनकरी; स मूलनिकृन्त इव (sbv ii 47) द्रुमः प्रत्येकबुद्धस्य पादयोर् निपत्य प्रणिधानं कर्तुम् आरब्धः: यन् मयैवंविधे सद्भूतदक्षिणीये काराः कृताः, अनेनाहं कुशलमूलेन प्रधानपुरुषाणां राजा स्याम्*; प्रतिविशिष्टतरं चातः शास्तारम् आरागयेयम् एव न विरागयेयम् इति; ततः ते कोट्टमल्लकाः संप्राप्ताः कथयन्ति: अस्माकम् अपि पूपिकां प्रयच्छ इति; स कथयति: अयं महात्मा रिषिः; अस्मै मया प्रतिपदिता इति; ते कथयन्ति: प्रतिपाद्य किं त्वया प्रणिधानं कृतम् इति; स कथयति:
प्रधानपुरुषाणां राजा स्याम् इति; ते कथयन्ति: वयम् एव ते प्रधानपुरुषाः स्याम येषां त्वं राजा भविष्यसि इति; स कथयति: शोभनम् एवं भवतु; किं त्व् अस्य रिषेः पादयोर् निपत्य प्रणिधानं कुरुत इति; तैस् तस्य प्रत्येकबुद्धस्य पादयोर् निपत्य प्रणिधानं कृतं वयं ते प्रधानपुरुषाः स्याम येषाम् अयं राजा भविष्यति इति. किं मन्यध्वे भिक्षवः? यो ऽसौ कोट्टमल्लकाधिपतिर् एष एव स भद्रिकः शाक्यराजः इति तेन कालेन तेन समयेन; ये ते कोट्टमल्लका एतान्य् एव तानि पञ्चशाक्यशतानि; भद्रिकेण कोट्टमल्लकभूतेन प्रत्येकबुद्धे प्रणिधानं कृतं; तस्य कर्मणो विपाकेन एषां पञ्चानां शाक्यशतानां राजा संवृत्तः; इति हि भिक्षवः एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः पूर्ववद् यावद् एवं वो भिक्षवः शिक्षितव्यम्.
the story of madhuvāsiṣṭha
बुद्धो भगवान् नादिकायां विहरति गुञ्जिकावसथे; तेन खलु समयेन संबहुलानि पात्राण्य् अभ्यवकाश उपरि क्षिप्तानि; भगवतश् च पात्रम्; अथान्यतमो मर्कतः शालवृक्षाद् अवतीर्य येन पात्राणि (अ 442ब्) तेनोपसंक्रमति; भिक्षवस् तं वारयन्ति, मा भेत्स्यति पात्राणि इति; तत्र भगवान् भिक्षूणाम् आमन्त्रयते स्म: मा भिक्षवः एतं मर्कटं वारयत; तत् कस्य हेतोः; नैष भेत्स्यते पात्राणि; अथ स मर्कटो येन भगवतः पात्रं तेनोपसंक्रान्तः; उपसंक्रम्य भगवतः पात्रम् आदाय तं शालावृक्षम् अभिरुह्य क्षौद्रस्य मधुनो ऽनेडकस्य पूरयित्वा शनैर् मन्दमन्दं शालवृक्षाद् अवतीर्य भगवत उपनामयति; तस्य भगवान् न प्रतिगृह्णाति सप्राणकम् इति कृत्वा; अथ स मर्कट एकान्ते प्रक्रम्य (sbv ii 48) निष्प्राणकं कृत्वा भगवत उपनामयति; तस्य भगवान् न प्रतिगृह्णाति अकल्पिकम् इति कृत्वा; अथ स मर्कट एकान्ते प्रक्रम्य शीतलेन वारिणा परिषिच्य भगवत उपनामयति; तस्य भगवान् प्रतिगृह्णाति कृतकल्पिकम् इति; अथ स मर्कट प्रतिगृहीतं मे भगवता मधुपात्रम् इति विदित्वा हृष्टतुष्टप्रमुदितः उदग्रप्रीतिसौमनस्यजातः प्राञ्जलीकृतः प्रतिपुटकं प्रत्यवसृतो नर्तमानः भगवन्तं नमस्यमानः भगवति प्रसादजातो भगवन्तं निरीक्षमाणः पृष्ठतो नावलोकयति; कूपे पतितः; कालगतः; नादिकायाम् एव षट्कर्मनिरते ब्राह्मणकुले उपपन्नः; यम् एव दिवसं प्रतिसन्धिर् गृहीतस् तम् एव दिवसं मधुवर्षं पतितं; पित्रा चास्य नैमित्तिका आहूय पृष्टाः; ते कथयन्ति: अस्य सत्वस्यानुभाव इति; यावद् असौ ब्राह्मणी अष्टानां व नावानां वा मासानाम् अत्ययात् प्रसूता; दारको
जातः; यम् एव दिवसं जातस् तम् अपि दिवसं मधुवर्षं पतितं; तस्य ज्ञातयः संगम्य समागम्य त्रीणि सप्तकान्य् एकविंषतिदिवसान् विस्तरेण जातस्य जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते, किं भवतु दारकस्य नाम इति; ज्ञातय ऊचुः: अयं दारको यम् एव दिवसं मातुः कुक्षिम् अवक्रान्तस् तम् एव दिवसं मधुवर्षं पतितं; यम् अपि दिवसं जातः तम् अपि दिवसं मधुवर्षं पतितं; वासिष्ठसगोत्रश् च; तस्माद् भवतु दारकस्य मधुवासिष्ठ इति नामधेयं व्यवस्थापितं; स उन्नीतो वर्धितो महान् संवृत्तः; यदा महान् संवृत्तः तदा स्व्याख्याते धर्मविनये प्रव्रजितः; तस्य प्रव्रजितस्यापि सतः दिने दिने त्रीणि मधुपात्राणि संपद्यन्ते; स तेषाम् एकं भगवतो ऽनुप्रयच्छति; द्वितीयं संघाय; त्रितीयं सप्रेमकैः सार्धं परिभुङ्क्ते. भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: किं भदन्तायुष्मता मधुवासिष्ठेन कर्म कृतं यस्य कर्मणो विपाकेनास्य दिने दिने त्रीणि पात्राणि संपद्यन्ते इति; भगवान् आह: मधुवासिष्ठेनैव भिक्षवः (sbv ii 49) कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययान्य् ओघवत् प्रत्युपस्थितानि पूर्ववद् यावद् फलन्ति खलु देहिनां; दृष्टो युष्माभिर् भिक्षवः स मर्कटः येन तथागतस्य मधुपात्रम् उपनामितं? (अ 443अ) दृष्टो भदन्त; यो ऽसौ मर्कट एष एवासौ मधुवासिष्ठः तेन कालेन तेन समयेन; तेन तथागतस्य मधुपात्रम् उपनामितं; तस्य कर्मणो विपाकेन षट्कर्मनिरते ब्राह्मणकुले उपपन्नः प्रतिसन्धौ चास्य जातौ च मधुवर्षं पतितं; यावद् एतर्ह्य् अपि दिवसे दिवसे त्रीणि मधुपात्राणि
संपद्यन्ते; इति हि भिक्षवः एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः पूर्ववद् यावद् एकान्तशुक्लेष्व् एव कर्मस्व् आभोगः करणीयः; तत् कस्य हेतोः; यदि मधुवासिष्ठो भिक्षुः पूर्वं महासमुद्रं मध्व् अधिमुच्यते; तद् अपि मधु स्यात्; एवं हि भिक्षवः अप्रमेया तथागतदक्षिणा इति. भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: किं भदन्तायुष्मता उपालिना कर्म कृतं यस्य कर्मणो विपाकेन राजेनापितः संवृत्तः; भगवान् आह: उपालिनैव भिक्षवः अप्रमेया तथागतदक्षिणा इति पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि पूर्ववद् यावद् फलन्ति खलु देहिनां.
the story of the royal barber (concerning a previous birth of upālin)
भूतपूर्वं भिक्षवो ऽन्यतमस्य राजनापितस्य प्रत्येकबुद्धः उपसंक्रान्तः: भद्रमुख केशान् मे ऽवतार्य, पुण्यं भविष्यति इति; स च राजकुलं संप्रस्थितः; तेन भागिनेय उक्तः: भागिनेय अस्य प्रव्रजितस्य केशान् अवतारय; अहं राजकुलं संप्रस्थितः; तथा चावतारय यथा राज्ञः इति; स संलक्षयति: यथा मातुलः कथयति; नूनम् अत्र पुण्येन भवितव्यम् इति; तेनादरं कृत्वा केशश्मश्र्व् अवतारितं; प्रत्येकबुद्धः संलक्षयति: बह्व् अनेन सत्वेन पुण्यं प्रसुतं; कुशलमूलावरोपणम् अस्य कर्तव्यम् इति विदित्वा तस्यानुकम्पार्थम् उपरि विहायसम् (sbv ii 50) अभ्युद्गम्य ज्वलनतपनवर्षणविद्योतनप्रातिहार्याणि कर्तुम् आरब्धः; अस्त्य् आशु पृथग्जनस्य ऋद्धिर् आवर्जनकरी; स मूलनिकृन्त इव द्रुमः पादयोर् निपत्य प्रणिधानं कर्तुम् आरब्धः: अनेनाहं कुशलमूलेन यथा मे मातुलो राजनापितः एवम् अहम् अपि राजनापितः स्याम् इति. किं मन्यध्वे भिक्षवः? योऽ सौ राजनापितस्य भागिनेय एष एवासाव् उपालिर् भिक्षुः; यद् अनेन प्रत्येकबुद्धस्य केशश्मश्रूण्य् अवतार्य प्रणिधानं कृतं तस्य कर्मणो विपाकेन रजनापितः संवृत्तः; भूयो ऽपि यद् अनेन प्रणिधानं कृतं तच् छ्रूयताम्.
another story of a barber
भूतपूर्वं भिक्षवो ऽन्यतरस्मिन् कर्वटके गृहपतिः प्रतिवसति; तेन सदृशात् कुलात् कलत्रम् आनीतं; स तया सार्धं क्रीडति रमते परिचारयति; तस्य क्रीडतो रममाणस्य परिचारयतः पुत्रो जातः; भूयो ऽपि क्रीडतो रममाणस्य परिचारयतः पुत्रो जातः; भूयो ऽपि क्रीडतो रममाणस्य परिचारयतः पुत्रो जातः; यावत् क्रमेण सप्त पुत्राः जाताः; तस्य राजनापितो वयस्यः; सो ऽपुत्रः; करे कपोलं कृत्वा चिन्तापरो ऽवस्थितः; न मे पुत्रो न दुहिता; ममात्ययात् सर्वं स्वापतेयम् अपुत्रकम् इति कृत्वा राजविधेयं भविष्यति इति; स तेन गृहपतिना दृष्ट उक्तश् च: वयस्य किम् असि चिन्तापरः? स (अ 443ब्) कथयति: वयस्य कथं न चिन्तापरो भविष्यामि यस्य मे इयत् धनजातं न पुत्रो न दुहिता, ममात्ययात् सर्वम् एतद् राजविधेयं भविष्यति इति; स कथयति: यद्य् एवम् एष मम सर्वकनीयान् पुत्रः: स मया तव दत्तः इति; तेनासौ प्रतिगृहीतः; यावद् गृहपतिः कालगतः; ते तस्य पुत्राः यदा केनचित् सार्धं कलिं कुर्वन्ति तदा तेन परिभाष्यन्ते: यूयम् अपि कलिं कुरुथ येषां भ्राता नापितः इति; ते दौर्मनस्यजाताः संलक्षयन्ति: यत् किंचिद् वयं परिभूताः सर्वं तद् अस्य भ्रातुर् दोषात्; सर्वथा आच्छेत्तव्य इति; स तैर् आच्छिन्नो नापितः; तेन सर्वनापिताः क्रियाकारं कारिताः, अमुकस्य गृहपतेः पुत्राणां न केनचित् श्मश्रुकर्म कर्तव्यम् इति; ते दीर्घश्मश्रुनखा जाताः; ते राज्ञा दृष्टा उक्ताश् च: भवन्तः किमर्थं यूयं दीर्घश्मश्रुनखास् तिष्ठथ? इति ते कथयन्ति (sbv ii 51) अनेन नापितेन सर्वनापिता निवारिताः; न केनचिद् एषां श्मश्रुकर्म कर्तव्यम् इति; किं कारणात्; तैर्
यथावृत्तं समाख्यातं; राजा कथयति: अर्हति पिता पुत्रं दातुं; किम् इति युष्माभिर् आच्छिन्नः? तस्यैव प्रयच्छत इति; तैर् अकामकैः प्रतिमुक्तः; ते दौर्मनस्यजाताः लोकापवादभयात् तं घातयितुम् इच्छन्ति; मित्रामित्रमध्यमो लोकः; तस्यापरैः समाख्यातं; तेनासौ नापित उक्तः: ते मां प्रघातयितुम् इच्छन्ति; अनुजानीहि प्रव्रजामि इति; स संलक्षयति: कामम् एव प्रव्रजतु मा तैः प्राणान् वियोक्ष्यत इति विदित्वा उक्तः: पुत्र यद्य् एवं गच्छ प्रव्रज; यत् किंचिद् गुणगणम् अधिगच्छेथास् तदा ममारोचयिष्यसि इति; स लब्धानुज्ञो रिषीणां मध्ये प्रव्रजितः; तेनानुपचार्यकेनानुपाध्यायकेन प्रत्येकबोधिः साक्षात्कृता; स संलक्षयति: मया तस्य पितुः प्रतिज्ञातम् उपदर्शयिष्यामि इति; गच्छामि, ताम् इमां पूर्विकां प्रतिज्ञां निर्यातयामि इति; स तस्य सकाशं गत्वा ज्वलनतपनवर्षणविद्योतनप्रातिहार्यं यावत् मूलनिकृन्त इव द्रुमः स पादयोर् निपत्य प्रणिधानं कर्तुम् आरब्धः: यन् मया एवंविधे सद्भूतदक्षिणीये काराः कृताः अनेनाहं कुशलमूलेन राजनापितः स्याम् इति; भूयो ऽपि अनेन पञ्चसु प्रत्येकबुद्धशतेषु कारान् कृत्वा प्रणिधानं कृतम्: अनेनाहं कुशलमूलेन राजनापितः स्याम् इति; पुनर् अपि चतुर्षु सम्यक्संबुद्धेषु कारान् कृत्वा प्रणिधानं कृतम् अनेनाहं कुशलमूलेन राजनापितः स्याम् इति; तस्य कर्मणो विपाकेन बहून् वारान् राजनापितः संवृत्तः. भूयो ऽपि भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: किं भदन्त उपालिना कर्म कृतं येन विनयधाराणाम् अग्रो निर्दिष्टः इति; भगवान् आह: कुत्र प्रणिधानं कृतं?
upāli is the foremost among those who master and know the vinaya
भूतपूर्वं भिक्षवो ऽस्मिन्न् एव भद्रके कल्पे विंशतिवर्षसहस्रायुषि प्रजायां काश्यपो नाम सम्यक्संबुद्धो लोक उदपादि पूर्ववद् यावत् स वाराणसीं नगरीम् (अ 444अ) उपनिश्रित्य विहरति ऋषिवदने मृगदावे; तस्यायं प्रवचने प्रव्रजितः; यः प्रव्रजितो (sbv ii 52) भिक्षुः स पुनः काश्यपेन सम्यक्संबुद्धेन विनयधराणाम् अग्रो निर्दिष्टः; तत्रानेन यावदायुर् ब्रह्मचर्यं चरितं; न कश्चिद् गुणगणो ऽधिगतः; तद् अनेन मरणकालसमये प्रणिधानं कर्तुम् आरब्धं: यद् मया काश्यपे भगवति सम्यक्संबुद्धे यावदायुर् ब्रह्मचर्यं चरितं, न कश्चिद् गुणगणो ऽधिगतः; अनेनाहं कुशलमूलेन यो ऽसौ भगवता काश्यपेन सम्यक्संबुद्धेन उत्तरो नाम माणवो व्याकृतो भविष्यसि त्वं माणव वर्षशतायुषि प्रजायां शाक्यमुनिर् नाम तथागतो ऽर्हन् सम्यक्संबुद्ध इति; तस्याहं प्रवचने प्रव्रज्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कुर्याम्; यथा च मे उपाध्यायेन भगवता काश्यपेन सम्यक्संबुद्धेन विनयधाराणाम् अग्रो निर्दिष्टः; एवं माम् अपि स भगवांस् शाक्यमुनिर् विनयधराणाम् अग्रं निर्दिषेद् इति तत्प्रणिधानवशात् तथागतेन विनयधराणाम् अग्रो निर्दिष्टः; इति हि भिक्षवः एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः पूर्ववद् यावद् आभोगः करणीयः; इत्य् एवं वो भिक्षवः शिक्षितव्यम्.
untrue announcement of the death of the buddha and the birth of ānanda
यदा भगवता षट्त्रिंशद्भूतकोटिपरिवारं मारं पपीयंसम् अभिनिर्जित्य अनुत्तरं ज्ञानम् अधिगतं, तदा सान्तःपुरामात्यपौरजनपदस्यारोचितम्: अद्य श्रमणो गौतमः कालगतः इति; राजा शुद्धोदनः सान्तःपुरकुमारामात्यपौरजनपदः शोचितुम् आरब्धः; देवतानां दर्शनम् अधस्तात् प्रवर्तते; शुद्धावासकायिकाभिर् देवताभिर् अरोचितं: न भगवान् कालगतो ऽपि तु भगवतानुत्तरं ज्ञानम् अधिगतम् इति; ततो राजा शुद्धोदनः परम् आनन्दम् उपागतः; तेन् असमयेनामृतोदनस्य दारको जातः; तस्य जातौ जातिमहं विस्तरेण कृत्वा नामधेयं व्यवस्थाप्यते, किं भवतु दारकस्य नाम इति; ज्ञातस्य कथयंति: अयं दारकः आनन्दे वर्तमाने जातः; तद् भवतु दारकस्यानन्द इति नामधेयं व्यवस्थापितम्; आनन्दो दारको ऽष्टाभ्यो धात्रीभ्यो ऽनुप्रदत्तः; द्वाभ्याम् अंशधात्रीभ्यां द्वाभ्यां क्रीडनिकाभ्यां धात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां; स धात्र्यंशगतो नैमित्तिकैर् व्याकृतो ऽनेन दारकेण भगवतः शाक्यमुनेर् उपस्थानं कर्तव्यम् इति; दारको नैमित्तिकैर् व्याकृत इति श्रुत्वा अमृतोदनः संलक्षयति: यद्य् एवं भगवान् प्रव्राजयिष्यति, न तत्पुरस्ताद् अवतारो ऽप्य् अनेन कर्तव्य इति; स यदा भगवान् कपिलवस्त्व् आगच्छति तदा (sbv ii 53) वैशालीन् नीयते; यदा भगवान् वैशालीं गच्छति तदा पुनः कपिलवस्तु नीयते; अत्रान्तरे नास्ति किंचिद् बुद्धानां भगवताम् अज्ञातम् अदृष्टम् अविदितम् अविज्ञातं; धर्मता खलु बुद्धानां भगवतां महाकारुणिकानां लोकानुग्रहप्रवृत्तानाम् एकारक्षाणां शमथविपश्यनाविहारिणां त्रिदमथवस्तुकुशलानां चतुरोघोत्तीर्णानां
चतुरृद्धिपादचरणतलसुप्रतिष्ठितमतीनां चतुर्षु संग्रहवस्तुषु दीर्घरात्रकृतपरिचयानां पञ्चाङ्गविप्रहीनानां पञ्चगतिसमतिक्रान्तानां षडङ्गसमन्वागतानां षट्पारमितापरिपूर्णानां सप्तबोध्यङ्गकुसुमाढ्यानाम् अष्टाङ्गमार्गदेशिकानां नवानुपूर्वविहारसमापत्तिकुशलानां दशबलिनां दशदिक्समापूर्णयशसां दशशतवशवर्तिप्रतिविशिष्टानां त्री रात्रेस् त्रिर् दिवसस्य च बुद्धचक्षुषा लोकं व्यवलोक्य ज्ञानदर्शनं प्रवर्तते: को हीयते को वर्धते कः कृच्छ्रप्राप्तः कः संकतप्राप्तः कः संबाधप्राप्तः को ऽपायनिम्नः को ऽपायप्रवणः को ऽपायप्राग्भारः कम् अहम् अपायाद् उद्धृत्य स्वर्गे मोक्षे च प्रतिष्ठापयेयं; कस्य अनवरोपितानि कुशलमुलान्य् अवरोपयेयं? कस्यावरोपितानि परिपाचयेयं? कस्य पक्वानि विमोचयेयम्? आह च: अप्य् एवातिक्रमेद् वेलां सागरो मकरालयः /
न तु वैनेयवत्सानां बुद्धो वेलाम् अतिक्रमेत् //
आनन्दऽस् चोन्वेर्सिओन्
भगवान् संलक्षयति: चरमभविको आनन्दो दारकः; स मम शासने प्रव्रजिष्यति, प्रव्रज्य चानेन ममोपस्थानं कर्तव्यं वचनं च धारयितव्यं मयि च परिनिर्वृते अमृतम् अधिगन्तव्यं यन् न्व् अहम् आनन्दं कुमारं शासने ऽवतारयेयम् इति; अप्रविदित एव कपिलवस्तुनगरं प्रविश्यामृतोदनस्य भवनम् आगम्य प्रज्ञप्त एवासने निषण्णः; अमृतोदनेनानन्दः कुमारो ऽववरकं प्रविश्य स्थापितः; भगवता तथाधिष्ठितो येन स्वयम् एव द्वारम् अपावृतं; प्रथमत एव च भगवतो पादौ शिरसा (sbv ii 54) वन्दित्वा भगवतः पृष्ठतः स्थितो ऽभूद् व्यजनं गृहीत्वा च भगवन्तं वीजयमानः; ततो ऽमृतोदनो भगवतः पादौ शिरसा वन्दित्वैकान्ते निषण्णः; एकान्ते निषण्णंम् अमृतोदनं भगवान् धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्य आसनाद् उत्थाय प्रक्रान्तः; महद् अपि हेतुबलं प्रत्ययबलम् अपेक्षते; इत्य् आनन्दश् चरमभविकः सत्वो भगवन्तः पृष्ठतः पृष्ठतः समनुबद्धः; अमृतोदनेन सान्तःपुरपरिवारेण न शक्यते निवर्तयितुं; भगवान् आह: अयं चरमभविकः सत्वः न त्वया शक्यते निवर्तयितुं, मा निवर्तेत इति; अमृतोदनः कथयति; भगवन् यद्य् एवम् आनुपूर्वीम् अस्य कुर्मः; भगवान् आह: एवं कुरु; ततो ऽमृतोदनेन श्रमणब्राह्मणकृपणवणीपकपरिव्राजकयाचनकेभ्यो दानानि दीयन्ते; पुण्यानि क्रियन्ते; स्वबन्धुजनं च क्षमापयित्वा सर्वालंकारविभूषितो हस्तिस्कन्धम् अभिरुह्य अनेकजनपरिवृतो न्यग्रोधारामाभिमुखो भगवत्सकाशं प्रेषितः; (अ 445अ) ततश् च तस्य वीथीमध्येन गच्छतो हस्तिना उत्पलहस्तको निगीर्णः; नैमित्तिकैर् दृष्टः; ते
कथयन्ति: अनेन कुमारेण श्रुतिधराणाम् अग्रेण भवितव्यम् इति; तस्य यानस्य यावती भूमिस् तावद् यानेन गत्वा यानाद् अवतीर्य पद्भ्याम् एव न्यग्रोधारामं प्रविश्य येन भगवांस् तेनोपसंक्रान्तः; उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्ते निषण्णः; भगवता दशबलकाश्यपस्य समर्पितः काश्यप प्रव्राजय कुमारम् इति; तेन प्रव्राजित उपसंपादितः; अथ भगवान् यथाभिरम्यं कपिलवस्तुनि विहृत्य येन राजगृहं तेन चारिकां प्रक्रान्तः; अनुपूर्वेण चारिकां चरन् राजगृहम् अनुप्राप्तः; राजगृहे विहरति वेणुवने कलन्दकनिवापे. आयुष्मतः आनन्दस्य मूर्ध्नि पिटको जातः; भगवता जीविकस्याज्ञा दत्ता आनन्दस्य भिक्षोश् चिकित्सां कुरुष्व इति; एवं भदन्त इति जीविकः कुमारभृतो भगवतः प्रत्यशौषीद्; अथ भगवान् पुरस्ताद् भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः धर्मं देशयति; आयुष्मान् अप्य् आनन्दस् तत्रैव निषण्णः धर्मश्रवणाय; जीविकः कुमारभृतः संलक्षयति: अयम् अस्य कलश् चिकित्सायाः; (sbv ii 55) धर्मवेगप्राप्तो ऽयं न चेतयिष्यति इति; तेन तस्य पिटके पाचनं दत्तं; तत्रैव च पाटितः; तत्र पर्यवसिते धर्मे जीवकः कथयति: भगवन् मया अर्यानन्दस्यात्रैव निषण्णस्य पिटकः पाचितः पाटितो रोहितश् च; आयुष्मान् आनन्दः कथयति: यदि मम शरीरं तिलशश् छिन्नम् अभविष्यत् तथापि मया न परिज्ञातम् अभविष्यद् भगवतो धर्मं देशयतो धर्मान्वयप्रसादावर्जितसन्ततिना; जीवकः परं विस्मयम् आपन्नः. भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: किं भदन्त आयुष्मता आनन्देन कर्म कृतं येनास्य पृष्ठे पिटको
जातः इति; भगवान् आह: आनन्देनैव भिक्षवः भिक्षुणा कर्माणि कृतान्य् उपचितानि पूर्ववद् यावद् फलन्ति खलु देहिनां.
the story of the king kirātas (a previous birth of ānanda)
भूतपूर्वं भिक्षवो ऽन्यतमस्मिन् कर्वटके किरातानाम् अधिपतिः प्रतिवसति; असति बुद्धानाम् उत्पादे प्रत्येकबुद्धा लोक उत्पद्यन्ते हीनदीनानुकम्पकाः प्रान्तशयनासनभक्ताः एकदक्षिणीया लोकस्य; अथान्यतमः प्रत्येकबुद्धस् तेन तेनान्वाहिण्डमानः किरातनगरम् अनुप्राप्तः; स तत्र पिण्डार्थी किरातराजस्य गृहं प्रविष्टः; स तेन संजातामर्षेण चित्तं प्रदूष्य गुडिकया पृष्ठे ताडितः; स महात्मा निहतमदमानत्वात् तस्याभव्यतां ज्ञात्वा प्रक्रान्तः. किं मन्यध्वे भिक्षवः? यो ऽसौ किरातराजः एष एव स आनन्दो भिक्षुः; यद् अनेन प्रत्येकबुद्धः संजातामर्षेण चित्तं प्रदूष्य पृष्ठे गुडिकया ताडितः तस्य कर्मणो विपाकेन यत्र यत्र जायते तत्र तत्रास्य पंचजन्मशतानि पृष्ठे पिटको जायते; यावद् एतर्ह्य् अप्य् अस्य चरमे भवे पृष्ठे पिटको जातः (sbv ii 56)
ānanda follows the buddha and makes an exhibition of mathematical knowledge
यदा आयुष्मान् आनन्दो भगवता सार्धं गच्छति तदास्य भगवति तीव्रप्रसादगौरवं (अ 445ब्) ह्रीव्यपत्राप्यं छम्बितत्वं चोपतिष्ठति; यदा निर्माणेन न तादृशं प्रसादगौरवं ह्रीव्यपत्राप्यं छम्बितत्वं चोपतिष्ठति; यावद् अन्यतमेन गृहपतिना बुद्धप्रमुखो भिक्षुसंघो ऽन्तर्गृहे भक्तेनोपनिमन्त्रितः; भगवान् पूर्वाह्णे निवास्य पात्रचीवरम् आदाय भिक्षुगणपरिवृतो भिक्षुसंघपुरस्कृतः तस्य गृहपतेर् गृहं प्रविश्य भुक्त्वा प्रक्रान्तः; भिक्षुभिर् आयुष्मान् आनन्दः पृष्टः; आयुष्मन्न् आनन्द किं त्वम् अद्य भगवता सार्धं गतः आहोस्विन् निर्माणेन इति; स कथयति: भगवता सार्धं गतो न बुद्धनिर्माणेन; कथं कृत्वा; यदाहं भगवता सार्धं गच्छामि ततो मम भगवतो ऽन्तिके तीव्रप्रसादगौरवं ह्रीव्यपत्राप्यं छम्बितत्वं चोपतिष्ठति; यदा बुद्धनिर्माणेन तदा न तथा इति भिक्षवः परस्परं मन्त्रयन्ति: आयुष्मान् आनन्दो निमित्तकुशलः इति; दिग्विदिक्षु शब्दो विसृतः आनन्दो भिक्षुर् निमित्तकुशलः इति; अथ भगवान् यथाभिरम्य राजगृहे विहृत्य येन श्रावस्ती तेन चारिकां प्रक्रान्तः; अनुपूर्वेण चारिकां चरन् श्रावस्तीम् अनुप्राप्तः; श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे; अथायुष्मान् आनन्दः पूर्वाह्णे निवास्य पात्रचीवरम् आदाय श्रावस्तीं पिण्डाय प्राविक्षत्; अन्यतमेन ब्राह्मणेन दृष्टः; स संलक्षयति: अयं श्रमणस्य गौतमस्य श्रावकः आनन्दो भिक्षुः, यो ऽसौ श्रूयते निमित्तकुशल इति; पृच्छामि तावद् एनम् अस्याः शिंशपायाः कियन्ति पत्राणि इति; स तेन पृष्टः: आर्य अस्याः शिंशपायाः कियन्ति पत्राणि इति; स कथयति: एतावन्ति शतानि सहस्राणि शतसहस्राणि
इत्य् उक्त्वा प्रक्रान्तः; तेन ब्राह्मणेन कतिपयानि पत्राण्य् अपनीय गणयित्वा छोरितानि; आयुष्मान् आनन्दः पिण्डपातम् अटित्वा प्रतिनिवृत्तः; तेन ब्राह्मणेन भूय उक्तः; आर्य इदानीं जानीष्व अस्याः शिंशपायाः कियन्ति पत्राणि इति; स कथयति: पूर्वम् एतावन्ति शतानि सहस्राणि शतसहस्राणि च; अत एतावन्त्य् अपनीतानि इति उक्त्वा प्रक्रान्तः; स ब्राह्मणः परं विस्मयम् आपन्नः; ईदृशो ऽप्य् आर्यो गणिते कृतावी इति. भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: किं भदन्त आयुष्मतानन्देन कर्म (sbv ii 57) कृतं येन निमित्तकुशलो जातः इति; भगवान् आह: आनन्देनैव भिक्षवः भिक्षुणा कर्माणि कृतान्य् उपचितानि पूर्ववद् यावत् फलन्ति खलु देहिनां.
the story of the astronomer (a previous birth of ānanda)
भूतपूर्वं भिक्षवो वाराणस्याम् अन्यतमो ब्राह्मणः, तेन सदृशात् कुलात् कलत्रम् आनीतं; स तया सार्धं क्रीडति रमते परिचारयति; तस्य क्रीडतो रममाणस्य परिचारयतः पुत्रो जातः; तस्य त्रीणि सप्तकान्य् एकविंषतिदिवसान् विस्तरेण जातस्य जातिमहं कृत्वा कुलसदृशं नामधेयं व्यवस्थाप्यतं; स उन्नीतो वर्धितो महान् संवृत्तः; तेन देशान्तरं गत्वा षष्टिसहस्रकं होराशास्त्रम् अधीतम्; एवं यावत् संसारे संसरता पंच जन्मशतानि होराज्ञानम् अधीतं; परेषां चोपदिष्टं; तेन हेतुना तेन प्रत्ययेन यत्र यत्रोपपन्नः तत्र तत्र (अ 446अ) नैमित्तिकानाम् अग्रो जातः; यावद् एतर्ह्य् अपि पश्चिमे भवे नैमित्तिकानाम् अग्रो जातः.
the story of the rice, the two patridges and the sugar-cane (concerning king prasenajit and a previous birth of him)
राज्ञः प्रसेनजितः कोशलस्य प्रतिदिनं भोजनकाले शाल्योदनं फेलायां निपतति तित्तिरी द्वाव् इक्षुयष्टिश् च; तयोर् एकः फेलायां द्वितीयो भूम्यां; तेनायुष्मत आनन्दस्य निवेदितं; तेन भिक्षूणाम्. भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: किं भदन्त राज्ञा प्रसेनजिता कोशलेन कर्म कृतं येनास्य भोजनवेलायां शाल्योदनं फेलायां निपतति तित्तिरी द्वाव् इक्षुयष्टिश् च; तयोर् एकः फेलायां, द्वितीयो भूम्यां? इति; भगवान् आह: राज्ञैव भिक्षवः प्रसेनजिता कोशलेन पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि येनास्य भोजनवेलायां (sbv ii 58) शाल्योदनं फेलायां निपतति तित्तिरी द्वाव् इक्षुयष्टिश् च; तयोर् एकः फेलायां, द्वितीयो भूम्यां. भूतपूर्वं भिक्षवो वाराणस्यां नगर्यां अन्यतमो गृहपतिः प्रतिवसत्य् आढ्यो महाधनो महाभोगः; तस्य परिचारकैः क्र्षिग्रामान् नवशालिर् आनीतः; द्वे तित्तिरी इक्षुषष्टिश् च; असति बुद्धानाम् उत्पादे प्रत्येकबुद्धा लोक उत्पद्यन्ते हीनदीनानुकम्पकाः प्रान्तशयनासनभक्ताः एकदक्षिणीया लोकस्य; अन्यतमः प्रत्येकबुद्धो वाराणसीम् अनुप्राप्तः; स पूर्वाह्णे निवास्य पात्रचीवरम् आदाय पिण्डपातम् अटंस् तस्य गृहपतेर् निवेशनं प्रविष्टः; स तेन दृष्टः कायप्रासादिकः चित्तप्रासादिकश् च; तेन तस्मै तत्प्रथमतो नवान्नम् आनेतव्यम् इति कृत्वा शाल्योदनम् इक्षुयष्टिस् तित्तिरिद्वयं दत्तं; तत्रैकः पात्रे निपतितो द्वितीयो भूम्यां. भगवान् आह: किं मन्यध्वे भिक्षवः? यो ऽसौ गृहपतिर् एष एवासौ राजा प्रसेनजित् कोशालस् तेन कालेन तेन समयेन; यद् अनेन प्रत्येकबुद्धाय नवं शाल्योदनम् इक्षुयष्टिस् तित्तिरिद्वयं च
दत्तं तेन कर्मणा बहूनि वर्षाणी बहूनि वर्षशतानि बहूनि वर्षशतसहस्राणि दिव्यमानुषं सौख्यम् अनुभूतम्; एतर्ह्य् अप्य् अस्य भोजनवेलायां शाल्योदनम् इक्षुयष्टिस् तित्तिरिद्वयं एकः फेलायां पतति द्वितीयो भूम्यां. राज्ञा प्रसेनजिता कोशलेन श्रुतं: मम भगवता एवं कर्मप्लोतिर् व्याकृता; तद् अयं प्राक्तनस्य कर्मणः फलविपाक इति विदित्वा भगवति सश्रावकसंघे प्रसन्नः; स चैवं कर्मविपाकावर्जितमतिस् तिष्ठति; नैमित्तिकेन च व्याकृतम् आर्यानन्दस्य पट्टबन्धो भविष्यति इति; यावत् प्रभातायां रजन्याम् आयुष्मत आनन्दस्य ललाटे पिटको जातः; राज्ञा प्रसेनजिता कोशलेन श्रुतं; तस्यैतद् अभवत्; भवति दक्षिणीयेषु कारान् कृत्वा अवन्ध्यपुण्यफलविशेषः; यन्न्व् अहम् अस्य स्वयम् एवोपस्थानं कूर्याम् इति; तेन सर्ववैद्या आहूतः: आर्यानन्दस्य चिकित्सां कुरुत इति; ते तस्य चिकित्सां कर्तुम् आरब्धाः; राज्ञा प्रसेनजिता कोशलेन आयुष्मत आनन्दस्य स्वयम् एव शतशलाकं छत्रं धारितं; शिरायां च मुक्तायां ललाटे (अ 446ब्) पट्टो बद्धः. (sbv ii 59) भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: किं भदन्तायुष्मतानन्देन कर्म कृतं यस्य कर्मणो विपाकेन राज्ञा प्रसेनजिता कोशलेन मूर्ध्नि शतशलाकं छत्रं धारितं स्वयम् एव शुक्लपट्टो बद्धः उपस्थानं च कृतम् इति; भगवान् आह: आनन्देनैव भिक्षवः भिक्षुणा पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि पूर्ववद् यावत् फलन्ति खलु देहिनां.
the story of the physician (a previous birth of ānanda)
भूतपूर्वं भिक्षवो वाराणस्याम् अन्यतमो वैद्यः प्रतिवसति; तस्य समीपे प्रत्येकबुद्धो ग्लान उपसंक्रान्तः; स तेन सर्वोपकरणैः प्रवारितः; स्वयम् एव चिकित्सा कृता उपस्थानं च. किं मन्यध्वे भिक्षवः? यो ऽसौ वैद्य एष एवासौ आननदभिक्षुः तेन कालेन तेन समयेन; यद् अनेन प्रत्येकबुद्धाय कारान् कृत्वा प्रणिधानं कृतं तस्य कर्मणो विपाकेन अनेकानि वर्षाणि वर्षशतानि वर्षसहस्राणि राजामात्यब्राह्मणगृहपतिभिर् अस्योपस्थानं कृतं; यावद् एतर्ह्य् अस्य राज्ञा प्रसेनजिता कोशलेन शतिशलाकं छत्रं धारितं; स्वयं चोपस्थानं कृतम् इति.
थे बुद्ध छोओसेस् आनन्द अस् सेर्वन्त्
अथ भगवान् यथाभिरम्यं श्रावस्त्यां विहरति; येन शाला तेन चारिकां <चरन्> प्रक्रान्तः; अनुपूर्वेण चारिकां चरन् शालाम् अनुप्राप्त्ः; शालायां विहरति ब्राह्मणग्रामके; तेन खलु समयेन एवंरूपा संबहुला स्थविरस्थविरा महाश्रावका भगवतः सामन्तकम् उपनिश्रित्य विहरन्त्य् अरण्यकुटिकाया<ं>, तद्यथा आयुष्मान् आज्ञातकौण्डिन्यः, आयुष्मान् अश्वजिद् भद्रिकः बाष्पः महानामा यशा पूर्णः विमलः गवाम्पतिः सुबाहुः आयुष्मान् शारिपुत्रः आयुष्मान् महामौद्गल्यायनः आयुष्मान् महाकाश्यपः (sbv ii 60) आयुष्मान् महाकौष्ठिलः आयुष्मान् महाकप्फिनः आयुष्मान् अनिरुद्धः नन्दिकः किम्पिलः यशा शालाविहरीयकस्थविरः पूर्णः कुण्डोपधानीयकस्थविर इतीमे चान्ये च स्थविरस्थविरा महाश्रावका भगवतः सामन्तकम् उपनिश्रित्य विहरन्ति. तत्र भगवान् भिक्षून् आमन्त्रयते स्म: अहम् अस्मि भिक्षवः एतर्हि जीर्णो वृद्धो महल्लकः, क्लाम्यामि चतस्रः पर्षदो ऽववदितुं भिक्षून् भिक्षुणीः उपासिकान् उपासिक्यः; उत्साहयत मे भिक्षवो भिक्षुम् उपस्थायकं यो माम् उपस्थानं करिष्यति मनापेन नामनापेन, भाषितं चोद्ग्रहीष्यति, स्वम् अर्थं च न रिंचिष्यति; अथायुष्मान् आज्ञातकौण्डिन्य उत्थायासनाद् एकांशम् उत्तरासङ्गं कृत्वा येन भगवांस् तेनाञ्जलिं प्रणमय्य भगवन्तम् इदम् अवोचत्*: अहं भदन्तम् उपस्थास्यामि मनापेन नामनापेन, भाषितं चोद्ग्रहीष्यामि, स्वं चार्थं न रिंचिष्यामि; त्वं तावत् कौण्डिन्य जीर्णो वृद्धो महल्लकः; तवैव तावद् उपस्थायकेन करणीयं; निषीद त्वं कौण्डिन्य यथास्वके आसने; निषण्ण आयुष्मान् (अ 447अ) आज्ञातकौण्डिन्यो यथास्वके आसने; अथायुष्मान् अश्वजिद् भद्रिकः बाष्पः
महानामा यशा पूर्णः विमलः गवंपतिः सुबाहुः आयुष्मान् शारिपुत्रः आयुष्मान् महामौद्गल्यायनः आयुष्मान् महाकाश्यपः आयुष्मान् महाकौष्ठिलः आयुष्मान् महाकप्फिनः आयुष्मान् अनिरुद्धः नन्दिकः किंपिलः यशा शालाविहारीयकस्थविरः पूर्णः कुण्डोपधानीयकस्थविर उत्थायासनाद् एकांशम् उत्तरासङ्गं कृत्वा येन भगवांस् तेनाञ्जलिं प्रणमय्य भगवन्तम् इदम् अवोचन्*: अहं भदन्तम् भगवन्तम् उपस्थास्यामि मनापेन नामनापेन, भाषितं चोद्ग्रहीष्यामि, स्वं चार्थं न रिंचिष्यामि; त्वम् अपि पूर्णो जीर्णो वृद्धो महल्लकः; तवैव तावद् उपस्थायकेन करणीयं; निषीद त्वं पूर्ण यथास्वके आसने; निषण्ण आयुष्मान् पूर्णो यथास्वके आसने. अथायुष्मतो महामौद्गल्यायनस्यैतद् अभवत्*: कः पुनर् भगवतो भिक्षुर् अभिप्रेत उपस्थायको भविष्यति? यन्न्व् अहं तद्रूपं समाधिं समापद्येयं यथा समाहिते चित्ते भगवतो मानसम् (sbv ii 61) अवलोकयेयम्; अथायुष्मान् महामौद्गल्यायनस् तद्रूपं समाधिं समापन्नो यथा समाहिते चित्ते भगवतः मानसम् अवलोकयति; अद्राक्षीद् आयुष्मान् महामौद्गल्यायनो भगवतो मानसं आयुष्मत्य् आनन्दे प्रतिष्ठितम् आनन्दो मे भिक्षुर् उपस्थास्यति मनापेन नामनापेन, भाषितं चोद्ग्रहीष्यति, स्वं चार्थं न रिंचिष्यति; दृष्ट्वा च पुनस् तस्मात् समाधेर् व्युत्थायायुष्मन्तं शारिपुत्रम् इदम् अवोचत्*: यत् खलु आयुष्मन् जानीयाः भगवतो मानसम् आयुष्मत्य् आनन्दे प्रतिष्ठितम् आनन्दो मे भिक्षुर् उपस्थास्यति मनापेन नामनापेन, भाषितं चोद्ग्रहीष्यति, स्वं चार्थं न रिंचिष्यति; तद्यथा कूटागारे वा कूटागारशालायां वा उत्तरायतायां प्राचीनायतायां पूर्वेण वातायनेन सूर्यरश्मयः
प्रविष्य पश्चिमां भित्तिं निश्रित्य तिष्ठेयुः; एवम् एव भगवतो मानसम् आयुष्मत्य् आनन्दे प्रतिष्ठितम् आनन्दो मे भिक्षुर् उपस्थास्यति मनापेन नामनापेन, भाषितं चोद्ग्रहीष्यति, स्वं चार्थं न रिंचिष्यति; एहि गत्वा उत्साहयावः. अथायुष्मान् छारिपुत्र आयुष्मां च महामौद्गल्यायनो येनायुष्मान् आनन्दस् तेनोपसंक्रान्तौ; उपसंक्रम्यायुष्मता आनन्देन सार्धं संमुखं संमोदनीं संरञ्जनीं विविधां कथां व्यतिसार्य एकान्ते निषण्णौ; एकान्तनिषण्णाव् आयुष्मत्शारिपुत्रमौद्गल्यायनौ; आयुष्मान् शारिपुत्र आयुष्मन्तम् आनन्दम् इदम् अवोचत्: उत्सह त्वम् आयुष्मन् आनन्द भगवन्तम् उपस्थातुं, महर्द्धिका ते भविष्यति सुगतपरिचर्या; नाहं आयुष्मन् शारिपुत्र उत्सहे भगवन्तम् उपस्थातुं; तत् कस्य हेतोः; दुरासदा हि बुद्धा भगवन्तो दुष्प्रसहाः; तद्यथा अग्निः प्रज्वलितो दुरासदो भवति दुष्प्रसहो यदुतार्चिरन्तरिकया, एवम् एव दुरासदा बुद्धा भगवन्तो दुष्प्रसहाः; नाहम् उत्सहे भगवन्तम् उपस्थातुं; तद्यथा सिंहो मृगराजा (अ 447ब्) गिरिगुहागतो दुरासदो भवति दुष्प्रसहो यदुत दंष्ट्रान्तरिकया, एवम् एव दुरासदा बुद्धा भगवन्तो दुष्प्रसहाः; तद्यथा राज्ञो नागो मत्तो मातङ्गः कुञ्जरः षष्टिहायन ईषादन्तो व्यूढोरस्कः संग्रामावचरः संग्राममध्यगतो दुरासदो भवति दुष्प्रसहो यदुत दन्तान्तरिकया, एवम् एव दुरासदा बुद्धा भगवन्तो दुष्प्रसहाः; नाहं आयुष्मन् शारिपुत्र उत्सहे भगवन्तम् उपस्थातुं. (sbv ii 62) अथायुष्मान् महामौद्गल्यायन आयुष्मन्तम् आनन्दम् इदम् अवोचत्: यत् खलु आयुष्मन् जानीयः भगवतो मानसम् आयुष्मत्य् आनन्दे प्रतिष्ठितम् आनन्दो मे भिक्षुर् उपस्थास्यति
मनापेन नामनापेन, भाषितं चोद्ग्रहीष्यति, स्वं चार्थं न रिंचिष्यति; तद्यथा कूटागारे वा कूटागारशालायां वा उत्तरायतायां प्राचीनायतायां पूर्वेण वातायनेन सूर्यरश्मयः प्रविष्य पश्चिमां भित्तिं निश्रित्य तिष्ठेयुः; एवम् एव भगवतो मानसम् आयुष्मत्य् आनन्दे प्रतिष्ठितम् आनन्दो मे भिक्षुर् उपस्थास्यति मनापेन नामनापेन, भाषितं चोद्ग्रहीष्यति, स्वं चार्थं न रिंचिष्यति; उत्सह त्वम् आयुष्मन् आनन्द भगवन्तम् उपस्थातुं, महर्द्धिका ते भविष्यति सुगतपरिचर्या; एवम् अहम् आयुष्मान् महामौद्गल्यायन उतसहे भगवन्तम् उपस्थातुं सचेन् मे भगवान् त्रीन् वरान् दद्यात्, नाहं भगवतो निर्वसनं चीवरं धारयेयं; नाहं भगवतः पौद्गलिकं निमन्त्रणं स्वीकूर्यां; न च मे कश्चिद् अकालः स्याद् भगवन्तं दर्शनायोपसंक्रमितुं पर्युपासनाय; सचेन् मे आयुष्मन् महामौद्गल्यायन भगवान् इमान् त्रीन् वरां दद्यात्, एवम् अहम् उत्सहे भगवन्तम् उपस्थातुं, नान्यथा. अथायुष्मान् महामौद्गल्यायन आयुष्मान् शारिपुत्र आयुष्मन्तम् आनन्दं भगवत उपस्थायकम् उत्साह्य येन भगवांस् तेनोपसंक्रान्तौ; उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्ते निषण्णौ; एकान्तनिषण्णो आयुष्मान् महामौद्गल्यायनो भगवन्तम् इदम् अवोचत्*: उत्साहित आवाभ्यं भदन्त भिक्षुर् भगवत उपस्थायको यदुतायुष्मान् आनन्द; स एवम् आह: सचेन् मे आयुष्मन् महामौद्गल्यायन भगवांस् त्रीन् वरान् दद्याद् एवम् अहम् उत्सहे भगवन्तम् उपस्थातुं; नाहं भगवतो निर्वसनं चीवरं धारयेयं, नाहं भगवतः पौद्गलिकं निमन्त्रणं स्वीकूर्यां; न च मे कश्चिद् अकालः स्याद् भगवन्तं दर्शनायोपसंक्रमितुं
पर्युपासनाय; सचेद् भगवान् इमान् त्रीन् वरान् दद्यात्, एवम् अहम् उत्सहे भगवन्तम् उपस्थातुं; साधु साधु मौद्गल्यायन पण्डित आनन्दो भिक्षुः; स पश्यत्य् अनागतं (sbv ii 63) सब्रह्मचारिणाम् अन्तिकाद् वादानुवादं गर्हस्थानीयं धर्मं; स्युर् मे अतोनिदानं सब्रह्मचारिणो वक्तारः, चीवरहेतोर् आनन्दो भिक्षुः शास्तारम् उपतिष्ठति; मौद्गल्यायन आनन्दस्य भिक्षोर् आश्चर्याद्भुतो धर्मः; साधु साधु मौद्गल्यायन पण्डित आनन्दो भिक्षुः; स पश्यत्य् अनागतं सब्रह्मचारिणाम् अन्तिकाद् वादानुवादं गर्हस्थानीयं धर्मं; स्युर् मे अतोनिदानं सब्रह्मचारिणो वक्तारः, (अ 448अ) पिण्डपातहेतोर् आनन्दो भिक्षुः शास्तारम् उपतिष्ठति; साधु साधु मौद्गल्यायन पण्डित आनन्दो भिक्षुः कालज्ञः कालवित्*; स कालं ज्ञास्यत्य् अयं मे कालो भगवन्तं दर्शनयोपसंक्रमितुम्, अयम् अकालः; अयं कालो भिक्षुसंघस्य भिक्षुणीसंघस्य उपासकपर्षदः उपासिकापर्षदः अयं कालो ऽन्यतीर्थिकपरिव्राजकानां दर्शनयोपसंक्रमितुम्, अयम् अकालः; अमी अन्यतीर्थिकपरिव्राजिका भगवतः कथाप्रातिभानिका अमी न कथाप्रातिभानिकाः; इदं खादनीयभोजनीयं भगवतः सुखोपचयाय संवर्तेत, इदं न सौखोपचयाय; मौद्गल्यायन पण्डित आनन्दो भिक्षुः कालज्ञः कालवित्; स कालं ज्ञास्यति अयं मे कालो भगवन्तं दर्शनयोपसंक्रमितुम्, अयम् अकालः; अयं कालो भिक्षुसंघस्य भिक्षुणीसंघस्योपासकपर्षदः उपासिकापर्षदः अयं कालो ऽन्यतीर्थिकपरिव्राजकानां भगवन्तं दर्शनयोपसंक्रमितुम्, अयम् अकालः; अमी अन्यतीर्थिकपरिव्राजिका भगवतः कथाप्रातिभानिका अमी न कथाप्रातिभानिकाः; इदं खादनीयभोजनीयं
भगवतः सुखोपचयाय संवर्तेत, इदं न सौखोपचयाय; अयं मौद्गल्यायन आनन्दस्य भिक्षोर् आश्चर्याद्भुतो धर्मः; साधु साधु मौद्गल्यायन पण्डित आनन्दो भिक्षुः; स चेतःपर्यायकुशलः; एवं संज्ञास्यति तथागतं सायाह्ने प्रतिसंलयनाद् व्युत्थितं निमित्तेन वा परिकथया वा आदेष्टुम्; अनेन चानेन च सुखविहारेण भगवान् बहुलं व्याहार्षीद्; अनेन चानेन च सुखविहारेण सुगतो बहुलं व्याहार्षीद्; यच् च यदा आदेक्ष्यति तत् सर्वं तथैव भविष्यति, नान्यथा; अयं मौद्गल्यायन आनन्दस्य भिक्षोर् आश्चर्याद्भुतो धर्मः; स तथागतम् उपस्थास्यति मनापेन नामनापेन, भाषितं चोद्ग्रहीष्यति, स्वं चार्थं न रिंचिष्यति; यन् मौद्गल्यायनानन्दो भिक्षुः तथागतम् उपस्थास्यति मनापेन नामनापेन, (sbv ii 64) भाषितं चोद्ग्रहीष्यति, स्वं चार्थं न रिंचिष्यति, अयम् आनन्दस्य भिक्षोः आश्चर्याद्भुतो धर्मः. यदायुष्मद्भ्यां शारिपुत्रमौद्गल्यायनाभ्याम् आयुष्मान् आनन्दो भगवत उपस्थायक उत्साहितः, भगवता चानुवर्णितः, तदा भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: किं भदन्त आयुष्मता आनन्देन कर्म कृतं यस्य कर्मणो विपाकेन भगवतो भ्राता संवृत्तः, उपस्थायको, बहुश्रुतः., श्रुतधरः, श्रुतसन्निचय इति; भगवान् आह: आनन्देनैव भिक्षवः भिक्षुणा कर्माणि कृतान्य् उपचितानि पूर्ववद् यावत् फलन्ति खलु देहिनां.
the story of bhānumān and bhānumantaḥ (concerning a previous birth of ānanda)
भूतपूर्वं भिक्षवो वाराणस्यां नगर्यां भानुर् नाम राजा राज्यं कारयति ऋद्धं च यावद् आकीर्णबहुजनमनुष्यं च; स देव्या सार्धं क्रीडति रमते परिचारयति; तस्य क्रीडतो रममाणस्य परिचारयतः पुत्रो जातः; तस्य जातौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते, किं भवतु दारकस्य नामेति; अमात्याः कथयन्ति; (अ 448ब्) पितास्य भानुः, तस्माद् भवतु दारकस्य भानुमान् इति नाम; तस्य भानुमान् इति नाम कृतं; स उन्नीतो वर्धितो महान् संवृत्तः; पित्रा यौवराज्ये ऽभिषिक्तः; भूयो ऽप्य् अस्य क्रीडतो रममाणस्य परिचारयतः पुत्रो जातः; तस्यापि जातौ जातिमहं कृत्वा भानुमन्त इति नाम कृतं; भानुमान् कुमारो नैष्क्रम्याभिनन्दी; स पितरं पश्यति धर्माधर्मेण राज्यं कारयन्तं; स संलक्षयति; अहम् अपि पितुर् अत्ययाद् राजा भविष्यामि; अहम् अपि धर्माधर्मेण राज्यं कारयित्वा नरकपरायणो भविष्यामि इति; स पितुः सकाशम् उपसंक्रान्तः पादयोर् निपत्य कथयति: देव अनुजानीहि प्रव्रजामि इति; स कथयति: पुत्र यस्यार्थे यज्ञा इज्यन्ते होमा हूयन्ते तपांसि तप्यन्ते तत् तव करतलगतं राज्यं; कस्यार्थे प्रव्रजसि इति; स निवार्यमाणो ऽपि नावतिष्ठते; राज्ञा अवश्यनिर्बन्धं ज्ञात्वा अनुज्ञातः; स ऋषीणां मध्ये प्रव्रजितः; राज्ञा भानुमन्तः कुमारो यौवराज्ये अभिषिक्तः; भानुमता ऋषिमध्ये प्रव्रजितेन एकान्ते प्रक्रम्य अनाचार्यकेण अनुपाध्यायकेन प्रत्येकबोधिः साक्षात्कृता; सो ऽपरेण समयेन ग्लानः संवृत्तः; स इतश् चानुतश् च परिभ्रमन् वाराणसीम् अनुप्राप्तः; राज्ञा श्रुतं; भानुमता (sbv ii 65) प्रत्येकबोधिः साक्षात्कृता, स चेह इति; स तस्य सकाशम् उपसंक्रान्तः
पादयोर् निपत्य कथयति: महर्षे त्वं पिण्डकेनार्थी, अहं पुण्येन; इहैव मदीये उद्याने प्रतिवस; अहं ते सर्वोपकरणैर् वैघातं करोमि इति; तेनाधिवासितं; राज्ञा तस्य भानुमन्तः कुमारः उपस्थायको दत्तः; स तस्योपस्थानं कर्तुं प्रवृत्तः; प्रत्येकबुद्धेन तस्य अल्पलक्षणं दृष्टं, सप्ताहस्यात्ययात् कालं करिष्यतीति; स तेनोक्तः: भ्रातः किमर्थं न प्रव्रजसि? इति; स कथयति: महर्षे प्रव्रजामि; यद्य् एवं गच्छ, पितरम् अवलोक्य; स राज्ञः सकाशं गतः; देव अनुजानीहि मां, प्रव्रजामि; राजा कथयति: तव भ्राता प्रव्रजितः; ममात्ययात् त्वम् एव राजा; किमर्थं प्रव्रजसि इति; स न लभते प्रव्रज्यां; स प्रत्येकबुद्धः स्वयम् एव राज्ञः सकाशम् उपसंक्रान्तः; उपसंक्रम्य गाथया कथयति: मुञ्च भानो भानुमन्तं प्रव्राजयति भानुमान् / प्रव्रज्या श्रेयसि भानो यस्मात् संवर्णिता जिनैः //
इति; राजा कथयति: महर्षे त्वं प्रव्रजितः; एष ममात्ययाद् राजा भविष्यति; इहैव दानानि दास्यति; पुण्यानि करिष्यति; किमर्थं प्रव्रजति इति; प्रत्येकबुद्धो गाथां भाषते: अन्यथा चिन्तिता ह्य् अर्था अन्यथा परिवर्तिताः / अल्पकं जीवितं भानो परं सप्ताहम् एव तु //
महर्षे अस्य सप्ताहं जीवितं? प्रत्येकबुद्धः कथयति, सप्ताहं; राजा कथयति: महर्षे यद्य् एवम् अनुज्ञातो भवतु; प्रव्राजय; स आत्मनः अल्पकं जीवितं ज्ञात्वा तीव्रेण प्रसादेन तस्योपस्थानं कर्तुम् आरब्धः; स प्रत्येकबुद्धो व्यावाबाधिकः; तस्य पात्रं करतले हृहीत्वा भुंजानस्य वायुना हस्तः कम्पते; ततस् तेन राजकुमारेण कटकम् अवतार्य पात्रस्य (अ 449अ) आधारको दत्तः; तत्पात्रं निश्चलं स्थितं; स तं दृष्ट्वा प्रणिधानं कर्तुम् आरब्धः: यथैतत् पात्रं निश्चलं, एवं ममानेन (sbv ii 66) कुशलमूलेन ये धर्मसन्ताने प्रविशेयुः ते निश्चला अवतिष्ठेयुः इति; स तस्य पूर्वं परिमण्डलैः पदव्यञ्जनैर् धर्मं देशयति; स कथयति: त्वं पूर्वम् आगारिकभूतः परिमण्डलपरिमण्डलैः पदैर् व्यञ्जनैर् धर्मं देशयसि; इदानीं त्वया प्रत्येकबोधिः साक्षात्कृता; किमर्थं न देशयसि इति; स कथयति: नाहं देशयामि; अर्थो को देशयति? ये ते तथागता अर्हन्तः सम्यक्संबुद्धाः ते बुद्धा भगवन्तः परिमण्डलपरिमण्डलैः पदव्यञ्जनैर् धर्मं देशयन्ति इति; तेन प्रणिधानं कृतं; यो ऽसौ बुद्धो भगवान् परिमण्डलपरिमण्डलैः पदव्यञ्जनैर् धर्मं देशयति, तस्याहं भ्राता स्याम् उपस्थायकश् च; स तेन प्रत्येकबुद्धेन प्रव्राजितः उक्तश् च: वत्स एतद् एव ते मनसि कर्तव्यं मया सप्ताहस्यात्ययात् मर्तव्यम् इति; तेन तेन सप्ताहेन न किंचिद् अधिगतं; स मरणकालसमये प्रणिधानं करोति; अनेनाहं कुशलमूलेन तस्य भगवतस् तथागतस्यार्हतः सम्यक्संबुद्धस्य शासने प्रव्रज्य बहुश्रुतः स्यां, श्रुतधरः, श्रुतसन्निचय इति. किं मन्यध्वे
भिक्षवो यो ऽसौ राजकुमारः प्रत्येकबुद्धस्य भ्राता एष एवासाव् आनन्दो भिक्षुः; यद् अनेन प्रत्येकबुद्धस्य भ्रातुर् उपस्थानं कृत्वा प्रणिधानं कृतं तस्य कर्मणो विपाकेन भगवतो भ्राता संवृत्तः उपस्थायको बहुश्रुतः श्रुतधरः श्रुतसन्निचयश् च. भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: किं भदन्त आयुष्मता आनन्देन कर्म कृतं यस्य कर्मणो विपाकेन भगवता बहुश्रुताणां श्रुतधराणां श्रुतसन्निचयाणाम् अग्रो निर्दिष्ट इति; भगवान् आह: आनन्देनैव भिक्षवो भिक्षुणा कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि पूर्ववद् यावत् फलन्ति खलु देहिनां.
ānanda is the foremost among the learned monks
भूतपूर्वं भिक्षवो ऽस्मिन्न् एव भद्रके कल्पे विंशतिवर्षशतायुषि प्रजायां काश्यपो नाम सम्यक्संबुद्धो लोक उदपादि, विद्याचरणसंपन्नः यावद् बुद्धो भगवान्; स वाराणसीं नगरीम् (sbv ii 67) उपनिश्रित्य विहरति ऋषिवदने मृगदावे; तस्यायं प्रवचने प्रव्रजितः; तत्रानेन न कश्चिद् गुणगणो ऽधिगतः; यस्य सकाशे प्रव्रजितः भगवता काश्यपेन बहुश्रुतानां श्रुतधराणां श्रुतसन्निचयानाम् अग्रो व्याकृतः; स मरणकालसमये प्रणिधानं करोति: यन् मया भगवति काश्यपे सम्यक्संबुद्धे अनुत्तरे दक्षिणीये यावदायुर् ब्रह्मचर्यं चरितं, न कश्चिद् गुणगणो ऽधिगतः; अनेनाहं कुशलमूलेन यो ऽसौ भगवता काश्यपेन सम्यक्संबुद्धेन उत्तरो माणवो व्याकृतः, भविष्यसि त्वं माणव वर्षशतायुषि प्रजायां शाक्यमुनिर् नाम तथागतो ऽर्हन् सम्यक्संबुद्ध इति; तस्याहं प्रवचने प्रव्रज्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कुर्याम्; यथा च मे उपाध्यायो भगवता काश्यपेन सम्यक्संबुद्धेन बहुधाराणाम् (अ 449ब्) श्रुतधराणां श्रुतसन्निचयाणाम् अग्रो व्याकृतः; एवं माम् अपि स भगवान् शाक्यमुनिर् शाक्याधिराज बहुश्रुतानां श्रुतधराणां श्रुतसन्निचयानाम् अग्रं व्याकुर्याद्; इति हि भिक्षवः एकान्तकृष्णानाम् इति यावद् इत्य् एवं वो भिक्षवः शिक्षितव्यम्. उद्दानं: ऋद्धिः शास्ता तृका वक्ता चण्डालेनायं गया / यस्य चैते पराध्यन्ति सत्वश्राणाश् च कुक्कुराः // (sbv ii 68)
famine in rājagṛha cf. matsuda, "a vinaya fragment of the msv from 'bendall's puka'", fests. bechert (1997)
भगवान् राजगृहे विहरति वेनुवने कलन्दकनिवापे; तेन खलु समयेन दुर्भिक्षम् अभूत् कृच्छ्रः कान्तारो दुर्लभः पिण्डको याचनकेन; तत्र ये भिक्षवः ऋद्धेर् लाभिनस् ते यस्या जम्ब्वा नाम्ना जम्बूद्वीपः प्रज्ञायते ततो वर्णगन्धरसोपेतानां जम्बूपेशीनां पात्रपूरम् आदाय आत्मना परिभुंजते; सतश् च शेषेण भिक्षून् संविभजन्ते; यद्वा पुनर् अस्यास् सामन्तकेन बिल्ववनं कपित्थवनम् आमलकीवनं ततो वर्णगन्धरसोपेतानाम् आमलकपेशीनां पात्रपूरम् आदाय आत्मना परिभुंजते; शतश् च शेषेण भिक्षून् संविभजन्ते; उत्तरकुरुद्वीपं गत्वा अकृष्टोप्तस्य तण्डुलफलशालेः पात्रपूरम् आदाय आत्मना परिभुंजते; शतश् च शेषेण भिक्षून् संविभजन्ते; चातुर्महाराजिकान् त्रयस्त्रिंशान् देवान् गत्वा दिव्यायाः सुधायाः पात्रपूरम् आदाय आत्मना परिभुंजते; शतश् च शेषेण भिक्षून् संविभजन्ते; ये वा ते जनपदाः ऋद्धाश् च यावद् आकिर्णबहुजनमनुष्याश् च ततः शुचिनः प्रणीतस्य खादनीयभोजनीयस्य पात्रपूरम् आदाय आत्मना परिभुंजते; शतश् च शेषेण भिक्षून् संविभजन्ते.
devadatta strives to win magical power cf. matsuda, "a vinaya fragment of the msv from 'bendall's puka'", festsch. bechert (1997)
अथ देवदत्तस्य एतद् अभवत्*: एतर्हि दुर्भिक्षं कृच्छ्रः कान्तारो दुर्लभः पिण्डको याचनकेन; ये भिक्षवः ऋद्धिलाभिनस् ते यस्या जम्ब्वा नाम्ना जम्बूद्वीपः प्रज्ञायते ततो वर्णगन्धरसोपेतानां जम्बूपेशीनां पात्रपूरम् आदाय आत्मना परिभुंजते; सतश् च शेषेण भिक्षून् संविभजन्ते; यद्वा पुनर् अस्यास् सामन्तकेन बिल्ववनं कपित्थवनम् आमलकीवनं ततो वर्णगन्धरसोपेतानाम् आमलकपेशीनां पात्रपूरम् आदाय आत्मना परिभुंजते; शतश् च शेषेण भिक्षून् संविभजन्ते; उत्तरकुरुद्वीपं गत्वा अकृष्टोप्तस्य तण्डुलफलशालेः पात्रपूरम् आदाय आत्मना परिभुंजते; शतश् च शेषेण भिक्षून् संविभजन्ते; चातुर्महाराजिकान् त्रयस्त्रिंशान् देवान् गत्वा दिव्यायाः सुधायाः पात्रपूरम् आदाय आत्मना परिभुंजते; शतश् च शेषेण भिक्षून् संविभजन्ते; ये वा ते जनपदाः ऋद्धाश् च यावद् आकिर्णबहुजनमनुष्याश् च ततः शुचिनः प्रणीतस्य खादनीयभोजनीयस्य पात्रपूरम् आदाय आत्मना परिभुंजते; शतश् च शेषेण भिक्षून् संविभजन्ते; अहम् अपि यदि ऋद्धेर् लाभी स्याम् अहम् अपि यस्या जम्ब्वा नाम्ना जम्बूद्वीपः प्रज्ञायते ततो वर्णगन्धरसोपेतानां जम्बूपेशीनां पात्रपूरम् आदाय आत्मना परिभुंजीय; सतश् च शेषेण भिक्षून् संविभजन्ते; यद्वा पुनर् अस्यास् सामन्तकेन बिल्ववनं कपित्थवनम् आमलकीवनं ततो वर्णगन्धरसोपेतानाम् आमलकपेशीनां पात्रपूरम् आदाय आत्मना परिभुंजते; शतश् च शेषेण भिक्षून् संविभजन्ते; उत्तरकुरुद्वीपं गत्वा अकृष्टोप्तस्य तण्डुलफलशालेः पात्रपूरम् आदाय आत्मना परिभुंजते; शतश् च शेषेण भिक्षून् संविभजन्ते; चातुर्महाराजिकान् त्रयस्त्रिंशान् देवान् गत्वा
दिव्यायाः सुधायाः पात्रपूरम् आदाय आत्मना परिभुंजते; शतश् च शेषेण भिक्षून् संविभजन्ते; ये वा ते जनपदाः ऋद्धाश् च यावद् आकिर्णबहुजनमनुष्याश् च ततः शुचिनः प्रणीतस्य खादनीयभोजनीयस्य पात्रपूरम् आदाय आत्मना परिभुंजते; शतश् च शेषेण भिक्षून् संविभजन्ते. (अ 450अ) अथ को नु मे प्रतिलभः स्याद् ऋद्धेर् मार्गं व्यपदेष्टुम् इति; अथ देवदत्तो येन भगवांस् तेनोपसंक्रान्तः; उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते अस्थात्*; एकान्तस्थितो देवदत्तो भगवन्तम् इदम् अवोचत्*; व्यपदिशतु मे भगवान् ऋद्धेर् मार्गम् इति; अथ भगवान् देवदत्तस्य इदम् एवंरूपं पापकम् इच्छागतम् उत्पन्नं विदित्वा देवदत्तम् इदम् (sbv ii 69) अवोचत्: अधिशीले त्वं गौतम योनिशो मनसि कुरु, ऋद्धिश् च ते भविष्यति, अन्यच् च; अधिचित्ते अधिप्रज्ञे त्वं गौतम योनिशो मनसि कुरु; ऋद्धिश् च ते भविष्यति, अन्यच् च; अथ देवदत्तस्यैतद् अभवत्: न व्यपदिशति मे भगवान् ऋद्धेर् मार्गम् इति विदित्वा प्रक्रान्तः; येन आयुष्मान् आज्ञातकौण्डिन्यस् तेनोपसंक्रान्तः; उपसंक्रम्य आयुष्मन्तम् आज्ञातकौण्डिन्यम् इदम् अवोचत्: व्यपदिशतु मे स्थविर ऋद्धेर् मार्गं; अथायुष्मान् आज्ञातकौण्डिन्यो भगवतो मानसं व्यवलोक्य देवदत्तस्य चेदम् एवंरूपं पापकम् इच्छागतं विदित्वा देवदत्तम् इदम् अवोचत्: रूपं त्वं देवदत्त योनिशो मनसि कुरु, ऋद्धिश् च ते भविष्यति, अन्यच् च; अथ देवदत्तस्यैतद् अभवत्: स्थविरो ऽपि मे कौण्डिन्यो न व्यपदिशति ऋद्धेर् मार्गम् इति विदित्वा आयुष्मान् अश्वजिद् भद्रिको बाष्पो महानामा पूर्णो विमलो गवंपतिः सुबाहुर् येन पंच स्थविरशतानि तेनोपसंक्रान्तः;
उपसंक्रम्य पंच स्थविरशतानि इदम् अवोचत्: व्यपदिशन्तु मे स्थविरा ऋद्धेर् मार्गं; अथ पंच स्थविरशतानि भगवतो मानसं व्यवलोक्य स्थविरस्थविराणां च भिक्षूणां देवदत्तस्य चेदम् एवंरूपं पापकम् इच्छागतं विदित्वा देवदत्तम् इदम् अवोचत्: रूपं त्वं देवदत्त योनिशो मनसि कुरु, ऋद्धिश् च ते भविष्यति, अन्यच् च; वेदनासंज्ञासंस्कारान् विज्ञानं त्वं देवदत्त योनिशो मनसि कुरु, ऋद्धिश् च ते भविष्यति, अन्यच् च; अथ देवदत्तस्यैतद् अभवत्: पंचापि स्थविरशतानि ऋद्धेर् मार्गं न व्यपदिशन्ति; किं पुनर् एभिर् आयुष्मद्भिर् भगवता सार्धं पुर्वम् एव सङ्गीतं भविष्यति? तथा हि मे न कश्चिद् व्यपदिशन्ति ऋद्धेर् मार्गं; अथ देवदत्तस्यैतद् अभवत्*: अथ को नु मे प्रतिबलः स्याद् ऋद्धेर् मार्गं व्यपदेष्टुं?
daśabalakāśyapa teaches to devadatta the way to obtain magical power cf. matsuda, "a vinaya fragment of the msv from 'bendall's puka'", festsch. bechert (1997)
तेन खलु समयेन आयुष्मान् दशबलकाश्यपो राहगृहे विहरति सेनिकागुहायं (अ 450ब्) अथ देवदत्तस्यैतद् अभवत्*: अयं स्थविरो दशबलकाश्यपो दीर्घरात्रम् अशठ अमायावी; ऋजुकऋजुकजातीयो भ्रातृसालोहितस्य च मे नन्दस्य उपाध्यायो भवति; प्रतिबलश् च मे स्थविरो दशबलकाश्यपः ऋद्धेर् मार्गं व्यपदेष्टुम् इति विदित्वा येनायुष्मान् दशबलकाश्यपस् तेन उपसंक्रान्तः; उपसंक्रम्य (sbv ii 70) आयुष्मतो दशबलकाश्यपस्य पादौ शिरसा वन्दित्वा एकान्ते अस्थात्*; एकान्तस्थितो देवदत्तः आयुष्मन्तं दशबलकाश्यपम् इदम् अवोचत्*: व्यपदिशतु मे स्थविरो ऋद्धेर् मार्गं; अथायुष्मान् दशबलकाश्यपः भगवतो मानसम् अव्यवलोक्य स्थविरस्थविराणां च भिक्षूणां देवदत्तस्य चेदम् एवंरूपं पापकम् इच्छागतम् उत्पन्नम् इत्य् अविदित्वा ऋद्धेर् मार्गं व्यपदिशति; तत्र देवदत्तेन पूर्वरात्रापररात्रं जागरिकायोगम् अनुयुक्तेन विहरता प्रथमं ध्यानं निश्रित्य ऋद्धिर् अभिनिर्हृता; स एको भूत्वा बहुधा भवति; बहुधा भूत्वा एकीभवति: आविर्भावतिरोभावं ज्ञानदर्शनेन प्रत्यनुभवति; तिरःकुड्यं तिरःशैलं तिरःप्राकारम् असज्जमानेन कायेन गच्छति तद्यथा आकाशे; पृथिव्यां उन्मज्जननिमज्जनं करोति तद्यथा उदके; उदके ऽप्य् अभिन्नस्रोतो गच्छति तद्यथा पृथिव्याम्; आकाशे पर्यङ्केन क्रामति तद्यथा पक्षी शकुनकः इमौ वा सूर्याचन्द्रमसौ एवंमहर्धिकाव् एवंमहानुभावौ पाणिना आमार्ष्टि परिमार्ष्टि. अथ देवदत्तस्यैतद् अभवत्*: किं पुनर् मे यस्या जम्ब्वा नाम्ना जम्बूद्वीपः प्रज्ञायते ततो वर्णगन्धरसोपेतानां जम्बूपेशीनां पात्रपूरम् आदाय आत्मना परिभोक्तुं? सतश् च भिक्षून् शेषेण
संविभक्तुं? यद्वा पुनर् अस्यास् सामन्तकेन बिल्ववनं कपित्थवनम् आमलकीवनं ततो वर्णगन्धरसोपेतानाम् आमलकपेशीनां पात्रपूरम् आदाय आत्मना परिभोक्तुं? शतश् च भिक्षून् शेषेण संविभक्तुं? उत्तरकुरुद्वीपं गत्वा अकृष्टोप्तस्य तण्डुलफलशालेः पात्रपूरम् आदाय आत्मना परिभोक्तुं? शतश् च भिक्षून् शेषेण संविभक्तुं? चातुर्महाराजिकान् त्रयस्त्रिंशान् च देवान् गत्वा दिव्यायाः सुधायाः पात्रपूरम् आदाय आत्मना परिभोक्तुं? शतश् च भिक्षून् शेषेण संविभक्तुं? ये वा ते जनपदा ऋद्धाश् च यावद् आकिर्णबहुजनमनुष्याश् च ततः शुचिनः प्रणीतस्य खादनीयभोजनीयस्य पात्रपूरम् आदाय आत्मना परिभोक्तुं? शतश् च भिक्षून् शेषेण संविभक्तुं?
देवदत्त सेदुचेस् प्रिन्चे अजातशत्रु
अथ देवदत्तस्यैतद् अभवत्*: किं पुनर् अहम् अस्मिन् मगधक्षेत्रे प्रधानपुरुषम् अन्वावर्तयेयं: यस्मिन्न् अन्वावृत्ते (sbv ii 71) अकृच्छ्रेण महाजनकायो ऽन्वावर्तेत; अथ देवदत्तस्यैतेअद् अभवत्*: अयम् अजातशत्रुः कुमारः पितुर् अत्ययात् पैत्र्यराज्यैश्वर्याधिपत्ये प्रतिष्ठास्यति; यन्न्व् अहम् अजातशत्रुम् अन्वावर्तयेयं; यस्मिन् मे अन्वावृत्ते अल्पकृच्छ्रेण महाजनकायो ऽन्वावर्तिष्यते; अथ देवदत्तः अभिजातो हस्त्याजानेयो भूत्वा अजातशत्रोः कुमारस्य (अ 451अ) निवेशनम् अपद्वारेण प्रविश्य द्वारेण प्रतिनिष्क्रामति; द्वारेण प्रविश्य अपद्वारेण प्रतिनिष्क्रामति अभिजातः अश्वाजानेयः भिक्षुर् अपि मुण्डः सङ्घाटीप्रावृतः; दह्रो ऽपीदानीं कुमारः सुवर्णमेखलाधारी भूत्वा अजातशत्रोः कुमारस्य उत्सङ्गे आवर्तते; परिवर्तते संवर्तते; अजातशत्रुर् अपि एनं कुमारम् आलिङ्गति चुम्बति परिष्वजति; अपीदानीं खेटपिण्डम् अप्य् आस्ये प्रक्षिपति; तद् अपि देवदत्तो ऽभ्यवहरति यथापितल् लाभसत्कारेण अभिभूतः पर्यादत्तचित्तः इति; तत्राजातशत्रुः कुमारो भूयस्या मात्रया पापकं दृष्टिगतं प्रतिलब्धवान्: महर्धिकतरो बतार्यो देवदत्तः शास्तुर् अन्तिकात्* इति; प्रसन्नश् चास्य प्रसन्नाधिकारम् अकार्षीत्; पंचमात्रै रथशतैः सार्धं सायं च प्रातश् च उपस्थानकरो निर्याति; पंचमात्राणि चास्य स्थालीपाकशतानि भक्ताभिसारे भक्ताभिसारे उपसंहरति; देवदत्तो ऽपि पंचमात्रैर् भिक्षुशतैर् भक्ताग्र उपनिषीदति.
the gifts and honours of ajātaśatru infatuate devadatta and his magical powers leave him entirely atha saṃbahulā bhikṣavaḥ pūrvāhṇe nivāsya pātracīvaram ādāya rājagṛhaṃ piṇḍāya prāvikṣan; aśrauṣuḥ saṃbahulā bhikṣavaḥ rājagṛhaṃ piṇḍāya carantaḥ; devadattasya ayam evaṃrūpo lābhasatkāra udapādi; rājāsya māgadhaḥ ajātaśatruḥ vaidehīputraḥ paṃcamātrai rathaśataiḥ sārdhaṃ sāyaṃ ca prātaś ca upasthānakaro niryāti; paṃcamātrāṇi cāsya sthālīpākaśatāni bhaktābhisāre bhaktābhisāre upasaṃharati; devadattaḥ paṃcamātrair bhikṣuśataiḥ sārdhaṃ bhaktāgra (sbv ii 72) upaniṣīdati iti; śrutvā punaḥ rājagṛhaṃ piṇḍāya caritvā kṛtabhaktakṛtyāḥ paścādbhaktapiṇḍapātapratikrāntaḥ pātracīvaraṃ pratiśamayya pādau prakṣālya yena bhagavāṃs tenopasaṃkrantāḥ; upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇāḥ; ekāntaniṣaṇṇāḥ saṃbahulā bhikṣavo bhagavantam idam avocan: iha vayaṃ bhadanta saṃbahulā bhikṣavaḥ pūrvāhṇe nivāsya pātracīvaram ādāya rājagṛhaṃ prāvikṣāma; aśrauṣma vayaṃ bhadanta saṃbahulā bhikṣavo rājagṛhaṃ piṇḍāya caranto: devadattasyāyam evaṃrūpo lābhsatkāraḥ udapādi; rājasya māgadhaḥ ajātaśatrur vaidehīputraḥ paṃcamātrai rathaśataiḥ sārdhaṃ sāyaṃ ca prātaś ca upasthānakaro niryāti; paṃcamātrāṇi cāsya sthālīpākaśatāni bhaktābhisāre bhaktābhisāre upasaṃharati; devadatto 'pi paṃcamātrair bhikṣuśataiḥ sārdhaṃ bhaktāgra upaniṣīdati; mā yūyaṃ bhikṣavo devadattasya lābhasatkāraṃ spṛhayata; tat kasya hetoḥ? vadhāya devadattasya lābhasatkāraḥ; parābhavāya devadattasya lābhasatkāraḥ; tadyathā
भिक्षवो वधाय कदली फलं ददाति पराभवाय कदली फलं ददाति; एवम् एव वधाय (अ 451ब्) देवदत्तस्य लाभसत्कारः; पराभवाय देवदत्तस्य लाभसत्कारः; तद्यथा वधाय वेणुर् नडः फलं ददाति; एवम् एव वधाय देवदत्तस्य लाभसत्कारः; पराभवाय देवदत्तस्य लाभसत्कारः; तद्यथा वधाय अश्वतरी गर्भं गृह्णाति; पराभवाय अश्वतरी गर्भं गृह्णाति; एवम् एव वधाय देवदत्तस्य लाभसत्कारः; यावच् च भिक्षवो देवदत्तस्य अयम् एवंरूपो लाभसत्कारः उत्पद्यते, तत् कस्य भविष्यति मोहपुरुषस्य दीर्घरात्रम् अनर्थाय दुःखाय; तस्मात् तर्हि भिक्षवः एवं शिक्षितव्यं यल् लाभसत्कारम् अभिभविष्यामः; न च न उत्पन्नो लाभसत्कारः चित्तं पर्यादाय स्थास्यति; इत्य् एवं वो भिक्षवः शिक्षितव्यं; फलं वै कदलीं हन्ति फलं वेणुं फलं नडम्* / <सत्कारः> पुरुषं हन्ति स्वगर्भो ऽश्वतरीं यथा //
(sbv ii 73) यावद् एव ह्य् अनर्थाय ज्ञातो भवति बालिशः / हन्ति बालस्य शुक्लांसं मूर्ध्नो ऽप्य् अस्य निपातयत्* //
अथ देवदत्तस्य लाभसत्काराभिभूतस्य पर्यादत्तचित्तस्य इदम् एवंरूपो पापकम् इच्छागतम् उत्पन्नम्: एतर्हि भगवान् जीर्णो वृद्धो महल्लकः क्लाम्यति चतस्रः पर्षदो ऽववदितुम्; अहो वत भगवान् मम भिक्षुसंघं प्रतिनिसृजेत्; अहं भिक्षुसंघं परिकर्षयेयं; भगवान् अल्पोत्सुको विहरेत् दृष्टधर्मसुखविहारम् अनुयुक्तः इति; सहचित्तोत्पादात् स पुनर् देवदत्तस् तस्य ऋद्धेः परिहीणः; परिहीणश् च पुनर् नाज्ञासीद् इत्य् अप्य् अहं परिहीणः इति.
maudgalyāyana informs the buddha as devadatta is aiming at the direction of the congregation
तेन खलु समयेन ककुदो भिक्षुः क्रोडपुत्रो भगवतः श्रावको भगवतो ऽन्तिके ब्रह्मचर्यं चरित्वा चतुरो ब्रह्मविहारान् भावयित्वा, कामेषु कामच्छन्दं प्रहाय, तद्बहुलविहारी ब्रह्मलोकसभागतायाम् उत्पन्नः; तेन खलु समयेन आयुष्मान् महामौद्गल्यायनः भार्गवेषु विहरति शिशुमारगिरौ भीषणिकावने मृगदावे; अथ ककुदो ब्रह्मा देवदत्तं तस्या ऋद्धेः परिहीणं विदित्वा, तद्यथा बलवान् पुरुषः संकुचितं वा बाहुं प्रसारयेत्, प्रसारितं वा संकुचयेद् एवम् एव ककुदो ब्रह्मा ब्रह्मलोके ऽन्तर्हितो भार्गवेषु प्रत्यष्ठाद् आयुष्मतो महामौद्गल्यायनस्य पुरस्ताद्; अथ ककुदो ब्रह्मा आयुष्मन्तं महामौद्गल्यायनम् इदम् अवोचत्*; यत् खलु भदन्त मौद्गल्यायन जानीया देवदत्तस्य लाभसत्कारेणाभिभूतस्य पर्यादत्तचित्तस्य इदम् एवंरूपो पापकम् इच्छागतम् उत्पन्नम्: एतर्हि भगवान् जीर्णो वृद्धो महल्लकः क्लाम्यति चतस्रः पर्षदो ऽववदितुम्; अहो (sbv ii 74) वत भगवान् मम भिक्षुसंघं प्रतिनिसृजेत्; अहं भिक्षुसंघं परिकर्षयेयं; भगवान् अल्पोत्सुको विहरेत् दृष्टधर्मसुखविहारयोगम् अनुयुक्तः इति; सहचित्तोत्पादात् स पुनस् तस्या ऋद्धेः परिहीणः; परिहीणश् च पुनर् नाज्ञासीद् इत्य् अप्य् अहं परिहीण इति; भदन्त साधु मौद्गल्यायन (अ 452अ) येन बहगवांस् तेनोपसंक्रामेः; उपसंक्रम्य भगवन्तम् एतम् एवार्थं विस्तरेणारोचयेः अनुकम्पाम् उपादाय; अधिवासयत्य् आयुष्मान् महामौद्गल्यायनः ककुदस्य ब्रह्मणस् तूष्णींभावेन; अथ ककुदो ब्रह्मा आयुष्मतो महामौद्गल्यायनस्य तूष्णींभावेनाधिवासनां विदित्वा आयुष्मतो महामौद्गल्यायनस्य पादौ शिरसा वन्दित्वा तत्रैवान्तर्हितः;
अथायुष्मान् महामौद्गल्यायनः अचिरप्रक्रान्तं ककुदं ब्रह्माणं विदित्वा तद्रूपं समाधिं समापन्नः, यथा समाहिते चित्ते भार्गेष्व् अन्तर्हितः राजगृहे प्रत्यष्ठाद् वेणुवने कलन्दकनिवापे; अथायुष्मान् महामौद्गल्यायनो येन भगवांश् तेनोपसंक्रान्तः; उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णः; एकान्तनिषण्ण आयुष्मान् महामौद्गल्यायनो यावान् एवाभूत् ककुदेन ब्रह्मणा सार्धम् अन्तराकथासमुदाहारस् तत् सर्वं विस्तरेणारोचयति; एवम् उक्तो भगवान् आयुष्मन्तं महामौद्गल्यायनम् इदम् अवोचत्*: न खलु मौद्गल्यायन देवदत्तः पूर्वम् एव चेतसा स्फरित्वा विदितः? किं ततः पश्चात् ककुदेन ब्रह्मणा आरोचितम्? एवं भदन्त इति; इयं च पुनर् भगवत आयुष्मता महामौद्गल्यायनेन सार्धम् अन्तराकथा विप्रसृता.
devadatta visits the buddha and departs indignant
अथ देवदत्तश् चतुभिर् भिक्षुभिः सहायकैः कोकालिकेन खण्डद्रव्येण कटमोरकतिष्येण समुद्रदत्तेन च सार्धं येन भगवांस् तेनोपसंक्रान्तः; अद्राक्षीद् भगवान् देवदत्तं दूराद् एव दृष्ट्वा च पुनर् आयुष्मन्तं महामौद्गल्यायनम् आमन्त्रयते: रक्षेदानीं मौद्गल्यायन, रक्षेदानीं मौद्गल्यायन, एष गच्छति देवदत्तः; इदानीं एष मोहपुरुषो मम पुरस्ताद् आत्मनैवात्मानं व्याकरिष्यति; अथायुष्मान् महामौद्गल्यायनः भगवतः (sbv ii 75) पादौ शिरसा वन्दित्वा तद्रूपं समाधिं समापन्नः, यथा समाहिते चित्ते वेणुवने ऽन्तर्हितो भार्गवेषु प्रत्यष्ठाद् शिशुमारगिरौ भीषणिकावने मृगदावे. अथ देवदत्तो येन भगवांस् तेनोपसंक्रान्तः; उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते अस्थात्*; एकान्तस्थितो देवदत्तओ भगवन्तम् इदम् अवोचत्*: एतर्हि भगवान् जीर्णो वृद्धो महल्लकः क्लाम्यति चतस्रः पर्षदो ऽववदितुम्; अहो वत भगवान् मम भिक्षुसंघं प्रतिनिसृजेत्; अहं भिक्षुसंघं परिकर्षयेयं; भगवान् अल्पोत्सुको विहरेत् दृष्टधर्मसुखविहारयोगम् अनुयुक्त; शारिपुत्रमौद्गल्यायनयोस् तावद् अहं मोहपुरुष पेशलयोः सब्रह्मचारिणोर् अपि भिक्षुसंघं न प्रतिनिसृजामि; कुतः पुनस् त्वयि निस्रक्ष्यामि शवे खेटाशके? अथ देवदत्तस्यैतद् अभवत्*: भगवान् शारिपुत्रमौद्गल्यायनयोर् वर्णं भाषते; मां च शवखेटाशकवादेन समुदाचरति इति; तत्र देवदत्तो (अ 452ब्) भगवतो ऽन्तिके कोपं च द्वेषं च मानं च म्रक्षं च आघातं च अक्षान्तिं च अप्रत्ययं च प्राविष्कार्षीत्*; अथ देवदत्तो हुम् इति कृत्वा त्रिः शिरः कम्पयित्व भगवतो अन्तिकात् प्रक्रान्तः.
the buddha assembles the monks the sermon on the five teachers
तेन खलु समयेन आयुष्मान् आनन्दो भगवतः पृष्ठतः स्थितो ऽभूद् व्यजनं गृहीत्वा च भगवन्तं वीजयमानः; तत्र भगवान् आयुष्मन्तम् आनन्दम् आमन्त्रयते: गच्छानन्द यावन्तो वेणुवनं कलन्दकनिवापम् उपनिश्रित्य विहरन्ति तान् सर्वान् उपस्थानशालायां सन्निपातय; एवं भदन्त इत्य् आयुष्मान् आनन्दो भगवतः प्रतिश्रुत्य, यावन्तो भिक्षवो वेणुवनं कलन्दकनिवापम् उपनिश्रित्य विहरन्ति तान् सर्वान् उपस्थानशालायां सन्निपात्य येन भगवांस् तेनोपसंक्रान्तः; उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते अस्थात्*; एकान्तस्थित आयुष्मान् आनन्दो भगवन्तम् (sbv ii 76) इदम् अवोचत्*: यावन्तो भदन्त भिक्षवो वेणुवनं कलन्दकनिवापम् उपनिश्रित्य विहरन्ति, ते सर्वे उपस्थानशालायां सन्निषण्णाः, सन्निपतिताः; यस्येदानीं भगवान् कालं मन्यत इति. अथ भगवान् येनोपस्थानशाला तेनोपसंक्रान्तः, उपसंक्रम्य पुरस्तात् भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः; निषद्य भगवान् भिक्षून् आमन्त्रयते स्म; पंचेमे भिक्षवः शास्तारः सन्तः संविद्यमाना लोके; कतमे पंच? 1) इहैकः शास्ता अपरिशुद्धशील एव सन् परिशुद्धं मे शीलम् अक्लिष्ट इति प्रतिजानीते; तम् एनं श्रावकाः संवासान्वयात् प्रतिजानन्ति: अयं भगवान् शास्ता अपरिशुद्धशील एव सन् परिशुद्धं मे शीलम् असंक्लिष्ट इति प्रतिजानीते; वयं चेद् एनं परेषाम् आरोचयेम तेनास्य स्याद् अमनापं; येनास्य स्याद् अमनापं किं वयं तेन शास्तारं समुदाचरिष्यामः? एष भगवान् शास्ता स्वयम् एव प्रतिजानाति; स्मन्वाहरत्य् एषो ऽस्मान् यदुत चीवरपरिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः; इत्य् अप्य् एनं श्रावकाः शीलवन्तो
ऽनुरक्षितव्यं मन्यन्ते; एवंरूपः शास्ता श्रावकाणाम् अन्तिकात् शीलानुरक्षनं प्रत्याशंसति; अयं प्रथमः शास्ता सन् सन्विद्यमानो लोके. 2) पुनर् अपरम् इहैकः शास्ता अपरिशुद्धजीव एव परिशुद्धो मे अजीवः अक्लिष्ट इति प्रतिजानीते; तम् एनं श्रावकाः संवासान्वयात् प्रतिजानन्ति: अयं भगवान् शास्ता अपरिशुद्धजीव एव सन् परिशुद्धो मे आजीव असंक्लिष्ट इति प्रतिजानीते; वयं चेद् एनं परेषाम् आरोचयेम तेनास्य स्याद् अमनापं; येनास्य स्याद् अमनापं किं वयं तेन शास्तारं समुदाचरिष्यामः? एष भगवान् शास्ता स्वयम् एव प्रतिजानाति; स्मन्वाहरत्य् एषो ऽस्मान् यदुत चीवरपरिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः; इत्य् अप्य् एनं श्रावकाः आजीवतो ऽनुरक्षितव्यं मन्यन्ते; एवंरूपः शास्ता श्रावकाणाम् अन्तिकात् शीलानुरक्षनं प्रत्याशंसति; अयं द्वितीयः शास्ता सन् सन्विद्यमानो लोके. 3) पुनर् अपरम् इहैकः शास्ता (अ 453अ) अपरिशुद्धज्ञानदर्शन एव सन् परिशुद्धं मे ज्ञानदर्शनम् अक्लिष्ट इति प्रतिजानीते; तम् एनं श्रावकाः संवासान्वयात् प्रतिजानन्ति: अयं भगवान् शास्ता (sbv ii 77) अपरिशुद्धज्ञानदर्शन एव सन् परिशुद्धं मे ज्ञानदर्शनम् असंक्लिष्ट इति प्रतिजानीते; वयं चेद् एनं परेषाम् आरोचयेम तेनास्य स्याद् अमनापं; येनास्य स्याद् अमनापं किं वयं तेन शास्तारं समुदाचरिष्यामः? एष भगवान् शास्ता स्वयम् एव प्रतिजानाति; स्मन्वाहरत्य् एषो ऽस्मान् यदुत चीवरपरिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः; इत्य् अप्य् एनं श्रावकाः ज्ञानदर्शनतो ऽनुरक्षितव्यं मन्यन्ते; एवंरूपः शास्ता श्रावकाणाम् अन्तिकाद् ज्ञानदर्शनानुरक्षनं प्रत्याशंसति; अयं तृतीयः शास्ता सन्
सन्विद्यमानो लोके. 4) पुनर् अपरम् इहैकः शास्ता असंपन्नव्याकरण एव सन् संपन्नं मे व्याकरणम् असंक्लिष्टम् इति प्रतिजानीते; तम् एनं श्रावकाः संवासान्वयात् प्रतिजानन्ति: अयं भगवान् शास्ता असंपन्नव्याकरण एव सन् संपन्नं मे व्याकरणम् असंक्लिष्ट इति प्रतिजानीते; वयं चेद् एनं परेषाम् आरोचयेम तेनास्य स्याद् अमनापं; येनास्य स्याद् अमनापं किं वयं तेन शास्तारं समुदाचरिष्यामः? एष भगवान् शास्ता स्वयम् एव प्रतिजानाति; स्मन्वाहरत्य् एषो ऽस्मान् यदुत चीवरपरिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः; इत्य् अप्य् एनं श्रावकाः संपन्नव्याकरणो ऽनुरक्षितव्यं मन्यन्ते; एवंरूपः शास्ता श्रावकाणाम् अन्तिकात् संपन्नव्याकरणानुरक्षनं प्रत्याशंसति; अयं चतुर्थः शास्ता सन् सन्विद्यमानो लोके. 5) पुनर् अपरम् इहैकः शास्ता दुराख्यातधर्मविनय एव सन् स्वाख्यातो मे धर्मविनयः असंक्लिष्ट इति प्रतिजानीते; तम् एनं श्रावकाः संवासान्वयात् प्रतिजानन्ति: अयं भगवान् शास्ता दुराख्यातधर्मविनय एव सन् स्वाख्यातो मे धर्मविनयः असंक्लिष्ट इति प्रतिजानीते; वयं चेद् एनं परेषाम् आरोचयेम तेनास्य स्याद् अमनापं; येनास्य स्याद् अमनापं किं वयं तेन शास्तारं समुदाचरिष्यामः? एष भगवान् शास्ता स्वयम् एव प्रतिजानाति; स्मन्वाहरत्य् एषो ऽस्मान् यदुत चीवरपरिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः; इत्य् अप्य् एनं श्रावकाः स्वाख्यातधर्मविनयतो ऽनुरक्षितव्यं मन्यन्ते; एवंरूपः शास्ता श्रावकाणाम् अन्तिकात् स्वाख्यातधर्मविनयानुरक्षनं प्रत्याशंसति; अयं पंचमः शास्ता सन् सन्विद्यमानो लोके. अथ खलु भिक्षवः परिशुद्ध्शील एव सन् परिशुद्धं (स्ब्व् इइ
78) मे शीलम् असंक्लिष्ट इति प्रतिजाने; न मे श्रावका शीलवतो ऽनुरक्षितव्यं मन्यन्ते; नाहं श्रावकाणाम् अन्तिकात् शीलानुरक्षनं प्रत्याशंसामि; अयं खलु भिक्षवः परिशुद्धजीव एव सन् परिशुद्धो मे अजीवः असंक्लिष्ट इति प्रतिजाने; न मां श्रावका आजीवतो ऽनुरक्षितव्यं मन्यन्ते; नाहं श्रावकाणाम् अन्तिकाद् आजीवानुरक्षणं प्रत्याशंसामि; अहं खलु भिक्षवः परिशुद्धज्ञानदर्शन (अ 453ब्) एव सन् परिशुद्धं मे ज्ञानदर्शनम् असंक्लिष्ट इति प्रतिजाने; न मां श्रावकाः ज्ञानदर्शनतो ऽनुरक्षितव्यं मन्यन्ते; नाहं श्रावकाणाम् अन्तिकाद् ज्ञानदर्शनानुरक्षनं प्रत्याशंसामि; अहं खलु भिक्षवः संपन्नव्याकरण एव सन् संपन्नं मे व्याकरणम् असंक्लिष्ट इति प्रतिजाने; न मां श्रावकाः संपन्नव्याकरणतो ऽनुरक्षितव्यं मन्यन्ते; नाहं श्रावकाणाम् अन्तिकात् संपन्नव्याकरणानुरक्षनं प्रत्याशंसामि; अहं खलु भिक्षवः स्वाख्यातधर्मविनय एव सन् स्वाख्यातो मे धर्मविनयः असंक्लिष्ट इति प्रतिजाने; न मां श्रावकाः स्वाख्यातधर्मविनयतो ऽनुरक्षितव्यं मन्यन्ते; नाहं श्रावकाणाम् अन्तिकात् स्वाख्यातधर्मविनयानुरक्षनं प्रत्याशंसामि; निगृह्य निगृह्य वो ऽहं भिक्षवः प्रवक्ष्यामि, प्रसह्य प्रसह्य; न च वो धनयिष्ये, कुम्भकार इवामभाजनानां; यत् सारं तत् स्थास्यति; क्षमाश् च यूयं भगवतो वचनपथानां. (sbv ii 79)
devadatta decides to bring about schism in the congregation
अथ देवदत्तः कोकालिकखण्डद्रव्यकटमोरकतिष्यसमुद्रदत्तन् आमन्त्रयते: एत एवं कोकालिकखण्डद्रव्यकटमोरकतिष्यसमुद्रदत्ताः; तिष्ठते एव श्रमणस्य गौतमस्य समग्रं श्रावकसंघं भेत्स्यामः; चक्रभेदं करिष्यामः; तद् अस्माकम् अभ्यतीतकालगतानां दिग्विदिक्षु उदारः कल्याणः कीर्तिशब्दश्लोकः अभ्युद्गमिष्यति; तिष्ठत एव श्रमणस्य गौतमस्य तावन्महर्धिकस्य तावन्महानुभावस्य देवदत्तेन कोकालिकेन खण्डद्रव्येण कटमोरकतिष्येण समुद्रदत्तेन समग्रः श्रावकसंघः भिन्नश् चक्रभेदश् च क्रियते इति; ते कथयन्ति: न शक्ष्यामो वयं देवदत्त भगवतः समग्रं श्रावकसंघं भेत्तुं; तत् कस्य हेतोः? सन्त्य् आयुष्मन् देवदत्त भगवतः श्रावकाः महर्धिका महानुभावा दिव्यचक्षुषः परचित्तविदः; ये दूराद् अपि पश्यन्ति, अन्तिके ऽपि न दृश्यन्ते; ते चेतसा चित्तं स्फरित्वा मनसा मनो विजानन्ति; ते अस्मान् परिसर्पत एव ज्ञास्यन्ति इति; स कथयति: अस्ति कोकालिक उपायः; एते वयं स्थविरस्थविरान् भिक्षून् उपसंक्रमामः सर्वोपकरणैः अल्पोत्सुखा भवन्तु स्थविरा वयं स्थविराणां सर्वोपकरणैर् अविघातं करिष्याम इति; नवकांश् च भिक्षून् उपस्थापयामः उपलाडायामः पात्रेण चीवरेण शिक्येन सरितेन कायबन्धनेन उद्देशेन पाठेन स्वाध्यायेन योगेन मनसिकारेण; अस्त्य् एष आयुष्मन् देवदत्त उपाय इति; तत्र देवदत्तः समग्रस्य संघस्य भेदाय पराक्रमितुम् आरब्धः.
the behaviour of devadatta is discussed in the congregation
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
