Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luật tạng
सङ्घभेदवस्तु
- Thông tin
- GRETIL — R. Gnoli with the assistance of T. Venkatacharya: The Gilgit Manuscript of the Saṅghabhedavastu, Being the 17th and Last Section of the Vinaya of the Mūlasarvāstivādin, Roma 1977-78 (Serie Orientale Roma, 49).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
दृष्टः; स तत्रावस्थितः. यावद् अपरेण समयेन कलभू राजा संप्राप्ते वसन्तकालसमये संपुष्पितेषु पादपेषु हंसक्रौञ्चमयूरशुकशारिकाकोकिलजीवञ्जीवकोन्नादिते वनषण्डे अन्तःपुरसहीयः उद्यानभूमिं निर्गतः; स तत्रोद्याने सुखम् अनुभूय खेदम् आपन्नो मिद्धम् अवक्रान्तः; पुष्पफललोलुपो मातृग्रामस् तस्मिन्न् उद्याने इतश् च अमुतश् च परिभ्रमितुम् आरब्धः; यावत् पश्यन्ति क्षान्तिवादिनम् ऋषिम् एकान्ते शान्तेर्यापथे निषण्णम्; दृष्ट्वा च पुनर् गौरवाप्यायितचित्तसन्तत्यः तस्य ऋषेः प्रणामं कृत्वा परिवार्यावस्थिताः; क्षान्तिवादी ऋषिस् तास् स्त्रियो शान्ततरेणेर्यापथेन धर्मं देशयितुम् आरब्धः; यावत् कलभू राजा निद्राक्लमं प्रतिविनोद्य प्रबुद्धो न पश्यत्य् अन्तःपुरजनम्; स खड्गम् आदाय युवतिजनं समन्वेषितुम् आरब्धः; यावत् पश्यति क्षान्तिवादिनं रिषिं परिवार्य अवस्थिताः; दृष्ट्वा च पुनर् ईर्ष्याजनितक्रोधपर्याकुलीकृतात्मभावः तस्य रिषेः सकाशम् उपसंक्रान्तः; मातृग्रामो राज्ञः सकाशम् अवस्थानं दृष्ट्वा सन्त्रस्तो विद्रुतः; राजा सावष्टम्भं क्षान्तिवादिनम् उवाच: भोः पुरुष, कस् त्वं? स कथयति: क्षान्तिवादी; कलभू राजा कथयति: मयि विकुपिते क्षान्तिवादिनम् आत्मानं प्रतिजानीषे? इदानीं क्षान्तिवादी वा भवान् न वेति तेन तस्य हस्तौ छिन्नौ; भूयः पृच्छति; को भवान् इति; स कथयति, क्षान्तिवादी; तेन तस्य पादौ छिन्नौ; स छिद्यमानेष्व् अङ्गप्रत्यङ्गेषु गाथां भाषते: यदि तिलशतम् अपि कृत्वा क्षेप्स्यसे कायम् उर्व्याम् न त्यजामि क्षान्तिं तिलशतो ऽपि चूर्णितगात्रः / यस्य मम शुभा मैत्री चेतसि परिभाविता सदा क्षान्तिम् तां नोत्सहे विहन्तुं सुतम् इव सुतवत्सला जननी
//
स एवं गाथाभिर् गीतेन रुजं विनोद्य प्रणिधानं कर्तुम् आरब्धः: यथैष राजा क्लेशाभिनिविष्टबुद्धिर् ममाकार्याकार्य अङ्गप्रत्यङ्गानि छिनत्ति; तथाहं क्षान्तिसौरत्यसमन्वागतेन (sbv ii 9) कुशलमूलेन क्लेशगणम् आत्मीयम् अभिनिर्जित्य अनुत्तरायां सम्यक्संबोधौ अभिसंबुद्धः स्याम्; ततः प्रज्ञाशस्त्रेणस्य आकार्याकार्य तत्प्रथमतः क्लेशान् प्रम्लायेयम् इति. अथ या देवता क्षान्तिवादिन्य् अभिप्रसन्ना सा संलक्षयति: अनेन कलिराजेन अयम् ऋषिर् अदूष्य् अनपकारी करचरणशून्यो व्यवस्थापितः; यन्व् अहम् अस्य वैरं निर्यातयेयम्; इति विदित्वा तीव्रेण (अ 427ब्) पर्यवस्थानेन क्षान्तिवादिनः पुरस्ताद् गाथां भाषते: कलभूं सपुत्रदारं सबन्धुवर्गं सपौरजानपदम् / कृत्स्नं च जीवलोकम् आज्ञापय नाशयिष्यामि // इति; सो ऽपि गाथां भाषते: करचरणनाशविकलं कृतं मम शरीरम् आकुलं येन / तस्यापि पापम् अण्व् अपि नेच्छामि कुतः पुनर् अदूषिनो जगतः //
तस्यापि या देवता वाराणस्याम् ईतिस् तत इतः सृष्टा; मूषिकाः शलभाः शुकाः प्रबलाः संवृत्ताः; देवो न वर्षति; जनकायो म्रियते; राज्ञा नैमित्तिका आहूय पृष्टाः: भवन्तः किमर्थं देवो न वर्षति? मुषिकाः शलभाः शुकाः प्रबलाः संवृत्ताः; जनकायश् च म्रियते इति; ते कथयन्ति: देव देवताप्रकोप इति; या देवता क्षान्तिवादिनो ऋषेर् अभिप्रसन्ना सा कुपिता; तया एषा ईतिः सृष्टा इति; राजा कथयति: भवन्तः कथम् अत्र प्रतिपत्तव्यम् इति; नैमित्तिकाः कथयन्ति: देव बलिमाल्योपहारेण देवताः प्रकुपिता आराध्यन्ते; बलिमाल्योपहारं कृत्वा क्षमापयितव्या स च ऋषिर् इति; ततो राज्ञा वाराणस्यां घण्टावघोषणं कारितम्: शृण्वन्तु भवन्तो वाराणसीनिवासिनः पौराः, उद्याननिवासिनी देवता क्षान्तिवादिनो ऋषेर् अभिप्रसन्ना; तया ईतिर् उत्सृष्टा; येन देवो न वर्षति; मूषिकाः शलभाः शुकाः प्रबलाः संवृत्ताः; जनकायश् च म्रियते; तद् युष्माभिर् ईतिव्युपशमार्थं श्वो बलिमाल्योपहारसमेतैर् उद्यानं गत्वा तस्याः पूजा संविधातव्या इति. (sbv ii 10) जनकायस् ताम् एव रात्रिं बलिमाल्योपहारं समुदानीय तद् उद्यानं गतः; राजा चान्तःपुरसहीयः; ततो जनकायेन श्रमणब्राह्मणकृपणवनीपकेभ्यो दानानि दत्वा देवतास्थाने च महतीं पूजां कृत्वा सा देवता क्षमिता; ततो राजा ऋषेः क्षान्तिवादिनः सकाशं गत्वा पादयोर् निपत्य क्षमयितुम् आरब्धः: क्षमस्व मे महर्षे यन् मया विषयाध्यवसितेन क्रोधपर्याकुलीकृतमतिना तवापराद्धम् इति; क्षान्तिवादी कथयति: क्षान्तं महाराज; यथाकथं ज्ञायते? स गाथां भाषते: गात्रेषु वहसि शस्त्रं मैत्री मे सर्वसत्वेषु / यदि संशयो ऽत्र भवतां पश्यत रुधिरं
प्रसन्नं मे //
इति; तस्य तद् रुधिरं परावृतम्; पापकर्मकारी स राजा प्रातिहार्यसन्दर्शनेनापि न श्रद्धत्ते; स भूयः कथयति, क्षमस्व महर्षे; क्षान्तं महाराज; यथाकथं ज्ञायते? ततो बोधिसत्वः छिन्नान्य् अङ्गप्रत्यङ्गानि यथास्वे स्थाने स्थापयित्वा सत्योपयाचनया गाथां भाषते: छिद्यमानेषु गात्रेषु त्वया राजन् यथा न मे / आघातो ऽस्ति सुसूक्ष्मो ऽपि स्यान् मे कायस् तथा पुरा // इति; तस्य सत्योपयाचनया शरीरं यथापुरं संवृत्तम्; ततो राजा विस्मयोत्फुल्ललोचनो गाथां भाषते: अहो व्रतम् इदं सिद्धम् अहो धर्मस् स्वनुष्ठितः / छिद्यमानेषु गात्रेषु यस्य ते नास्ति विक्रिया //
राजा कलभूः सान्तःपुरामात्यपौरनजानपदः तस्य ऋषेः पादौ शिरसा वन्दित्वा प्रक्रान्तः. किं मन्यध्वे भिक्षवो यो ऽसौ <तेन कालेन समयेन> (अ 429अ) क्षान्तिवादी ऋषिर् अहम् एव स; यो ऽसौ कलिभू राजा एष एवासौ कौण्डिन्यभिक्षुः; यन् मया तस्यान्तिके मैत्रचित्तम् उत्पाद्य प्रणिधानं कृतम्, अनेनाहं कुशलमूलेनास्य आकार्याकार्य क्लेशान् छेदयेयम् इति; (sbv ii 11) तत्प्रणिधानवशाद् एतर्हि तथागतेन अस्य आकार्याकार्य धर्मो देशितः; एकान्तकृष्णानां एकान्तकृष्णो विपाकः, पूर्ववद् यावद् एवं वो भिक्षवः शिक्षितव्यम्. यदा भगवता अशीतिर् देवतासहस्राणि धर्मरसेन संगृह्य सत्येषु प्रतिष्ठापितानि तदा भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: पश्य भदन्त भगवता अशीतिर् देवतासहस्राणि धर्मरसेन संगृह्य सत्येषु प्रतिष्ठापितानि; भगवान् आह: न भिक्षव एतर्हि यथातीते ऽप्य् अध्वनि मयैतानि अशीतिर् वणिक्सहस्राणि आमिषेण संगृह्य पंचसु व्रतपदेषु प्रतिष्ठापितानि; तच् छ्रूयताम्.
the story of the two merchants
भूतपूर्वं भिक्षवो द्वौ सार्थवाहौ अभूवतां विश्वभुक् सुयात्रश् च; एकैकश् च चत्वारिंशद्वणिक्सहस्रपरिवारः; तत्र सुयात्रो नैष्क्रम्याभिनन्दी; स रिषीनां मध्ये प्रव्रजितः; तेनैकाकिना वीर्यम् आस्थाय अनाचार्येणानुपाध्यायकेन सप्तत्रिंशद्बोधिपक्ष्यान् धर्मान् संमुखीकृत्य प्रत्येकबोधिः साक्षाकृता; तस्य ते सार्थिका सार्थवाहम् अपश्यन्तः इतश् चामुतः च समन्वेषितुम् आरब्धाः; यदा सर्वथा नारागयन्तस् तदानीं विश्वभुजः सार्थवाहो ऽनवलोक्य प्रक्रान्तः; समन्विष्टो ऽस्माभिर् नारागितः; कथम् अत्र प्रतिपत्तव्यम्? इति; स कथयति: तिष्ठत, मा काहलीभवत; समन्वेषामः सार्थवाहम् इति; ततो विश्वभुक् सार्थवाह अशीत्या वणिक्सहस्रैः परिवृतः सुयात्रं सार्थवाहं समन्वेषितुम् आरब्धः उद्यानावसथतपोवनेषु; स तेन दृष्टः पृष्टश् च: कस्मात् त्वं सार्थम् अपहाय प्रव्रजित इति; कायिकी तेषां महात्मनां धर्मदेशना न वाचिकी; तेनासौ सार्थवाहः सपरिवारो ज्वलनतपनवर्षनविद्योतनप्रातिहार्यैर् आवर्जितः; तेन तान्य् अशीतिर् वणिक्सहस्राणि आमिषोपसंहारोपसंहृतान्य् उक्तानि: अस्मै कारान् कुरुत; अस्मै काराः कृता नियतं फलदायका भवन्ति; तैः तस्मिन्न् अनेकाः काराः कृताः. किं मन्यध्वे भिक्षवो योऽ साव् विश्वभुक् सार्थवाह अहम् एव (sbv ii 12) स तेन कालेन तेन समयेन; यानि वणिक्सहस्राण्य् एतान्य् एव तान्य् अशीतिर् देवतासहस्राणि; तदाप्य् एतानि मयामिषेणोपसंहृत्य पंचसु व्रतपदेषु प्रतिष्ठापितानि; एतर्ह्य् अप्य् एतानि मया सद्धर्मरसेनोपसंहृत्य सत्येषु प्रतिष्ठापितानि; इति हि भिक्षवः एकान्तकृष्णानां कर्माणां व्यतिमिश्रः यावद् एवं वो भिक्षवः शिक्षितव्यम्. यदा
भगवता पंचका भिक्षवः संसारकान्ताराद् उत्तार्य इन्द्रियबलबोध्यङ्गरत्नैः संविभक्ताः सद्धर्मरसेन संतर्पिताः, तदा भिक्षवः (अ 429ब्) संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: पश्य भदन्त भगवता पंचका भिक्षवः संसारकान्ताराद् उत्तार्य सद्धर्मरसेन संतर्पिता इति; भगवान् आह: किम् अत्र, भिक्षव, आश्चर्यं यद् इदानीं मया विगतरागेण विगतद्वेषेण विगतमोहेन परिमुक्तेन जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासैः सर्वज्ञेन सर्वाकारज्ञेन सर्वज्ञानज्ञेयवशिप्राप्तेन पंचका भिक्षवः संसारकान्ताराद् उत्तर्य सद्धर्मरसेन संतर्पिताः; यत् तु मयापि अतीते ऽध्वनि सरागेण सद्वेषेण समोहेनापरिमुक्तेन जातिजाराव्यधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासैः सार्थवाहभूतेन पंचकैः कान्तारमार्गे कृच्छ्रसंकटसंबाधप्राप्ताः सलिलं विना प्राणैर् वियुज्यमाना देवतायाचनं कृत्वा माहेन्द्रा सलिलवर्षेण संतर्पिताः; तच् छ्रूयताम्.
the story of the thirsty caravan
भूतपूर्वं भिक्षवः विश्वभुङ् नाम सार्थवाहः पंचवणिक्शतैः सार्धं संव्यवहरन्न् अल्पसलिलकान्तारमार्गं प्रतिपन्नः अनुपूर्वेण विन्ध्याटवीं संप्राप्तः; तेषां तत्र सर्वं सलिलं परिक्षीणम्; वणिक्सार्थः सलिलविरहात् प्रतिसंख्याने संप्रस्थितः; पंच तु वणिजः सलिलम् अलभमाना अत्यर्थं काहलीभूताः; विश्वभुक् सार्थवाहस् तान् तथाविधान् दृष्ट्वा कारुण्याद् आकंपितहृदयो ऊर्ध्वमुखो देवतायाचनं कर्तुम् आरब्धः: शृण्वन्तु भवन्तः शिववरुणकुबेरवासवाद्या देवा येन सत्येन सत्यवचनेन मम सर्वेषु समप्रवृत्ता दया अनेन सत्येन सत्यवचनेन माहेन्द्रो देवो वर्षतु; बोधिसत्वानुभावेन माहेन्द्रं भवनम् आकम्पितम्; शक्रस्य देवेन्द्रस्याधस्ताज् ज्ञानदर्शनं प्रवर्तते; स संलक्षयति: केन माहेन्द्रं भवनम् आकम्पितम्? पश्यति बोधिसत्वेनानुभावात्; तेन तथाविधं माहेन्द्रं वर्षम् उत्सृष्टं एनासौ वणिक्सार्थः संतर्पितः कान्तारमार्गं समतिक्रान्तः. (sbv ii 13) किं मन्यध्वे भिक्षवः, यो ऽसौ विश्वभुक् सार्थवाहः अहम् एव स तेन कालेन तेन समयेन; ये ते पंच वणिजः सलिलविरहाद् अत्यर्थं काहलीभूता एत एव ते पंचका भिक्षवः; तदाप्य् एते मया सलिलेन संतर्प्य कान्तारमार्गाद् उत्तारिताः; एतर्ह्य् अपि मया एते सद्धर्मरसेन संतर्प्य संसारकान्ताराद् उत्तारिताः. यदा भगवता पंचका भिक्षवः संसारकान्ताराद् उत्तार्य इन्द्रियबलबोध्यङ्गैः संविभक्ताः, तदा भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: पश्य भदन्त भगवता पंचका भिक्षवः संसारकान्ताराद् उत्तार्य इन्द्रियबलबोध्यङ्गरत्नैः संविभक्ताः; भगवान्
आह: किम् अत्र, भिक्षव, आश्चर्यं यद् इदानीं मया विगतरागेण विगतद्वेषेण विगतमोहेन परिमुक्तेन जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासैः सर्वज्ञेन सर्वाकारज्ञेन सर्वज्ञानज्ञेयवशिप्राप्तेन पंचका भिक्षवः संसारकान्ताराद् उत्तर्य इन्द्रियबलबोध्यङ्गरत्नैः (अ 430अ) संविभक्ताः; यत् तु मयापि अतीते ऽध्वनि सरागेण सद्वेषेण समोहेनापरिमुक्तेन जातिजाराव्यधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासैः सार्थवाहभूतेन एते स्वजीवितपरित्यागेन महासमुद्राद् उत्तार्य रत्नैः संविभक्ताः; तच् छ्रूयताम्.
the story of the merchant dhanaratha
भूतपूर्वं, भिक्षवो, धनरथो नाम महासार्थवाहो बभूव; पंचभिः सार्थवाहैः सार्धं महासमुद्रं संप्रस्थितः; ते तस्य सार्थवाहस्य अन्योन्यकथालापसौमुख्या अन्योन्यकृतप्रणया संवृत्ताः; यावद् अनुपूर्वेण समुद्रतीरम् अनुप्राप्तैः प्रत्येकं वहनानि सज्जीकृतानि; अवतरणकाले तैर् धनरथः सार्थवाहो ऽभिहितः; सार्थवाह वयं त्वया विना धृतिं न लभामहे; स कथयति: यद्य् एवम् इहैवाभिरुहतः वहनानि मुच्यन्ताम् इति; ते तत्राभिरूढाः, वातश् चोत्थित्ः; संत्रस्तानां धनरथः कथयति: भवन्तो मा बिभीत; यदा वहनं विनाशम् उपैति तदा मम कण्ठे लगेत, अहं वो उत्तारयिष्यामि इति; कुशला भवन्ति (sbv ii 14) बोधिसत्वास् तेषु तेषु शिल्पस्थानकर्मस्थानेषु; तेन महार्हानि रत्नानि कक्षायाम् उपनिबद्धानि; यानपात्रं विपन्नम्; ते सार्थवाहस्य् लग्नाः; ते तेन श्रान्तकायेन ईषज्जीवितावशेषेण समुद्रतीरसंप्राप्तिताः; तैश् चासौ स्थलप्राप्तैः प्रतिमुक्तः; सो ऽत्यन्तनिरुत्साहः कालगतः; तैर् असौ जलात् स्थलम् उत्तारितः; यावत् पश्यन्ति कक्षोपनिबद्धानि महार्हानि रत्नानि; ते तान्य् आदाय प्रक्रान्ताः. किं मन्यध्वे भिक्षवः? यो ऽसौ धनरथो नाम सार्थवाह अहम् एव स तेन कालेन तेन समयेन; ये ते पंचका भिक्षवः तदाप्य् एते मया महासमुद्राद् उत्तार्य रत्नैः संविभक्ताः; एतर्ह्य् अप्य् मया संसारकान्ताराद् उत्तार्य इन्द्रियबलबोध्यङ्गरत्नैः संविभक्ताः. यदायुष्मान् आज्ञातकौण्डिन्यो वृद्धान्ते निषीदति, तदा पर्षदं छत्रीकृत्य निषीदति; भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: किं भदन्त आयुष्मता आज्ञातकौण्डिन्येन कर्म कृतं यस्य कर्मणो विपाकेन छत्रीकृत्य पर्षदं निषीदति? भगवान् आह: कौण्डिन्येन भिक्षवो भिक्षुणा कर्माणि कृतान्य् उपचितानि लब्धसंभारानि पूर्ववद् यावत् फलन्ति खलु देहिनाम्.
the story of saṃdhāna, the householder (concerning a previous birth of kauṇḍinya)
भूतपूर्वं भिक्षवो वाराणस्यां नगर्यां संधनो नाम गृहपतिः प्रतिवसत्य् आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी; तेन खलु समयेन वाराणस्यां ब्रह्मदत्तो नाम राजा राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं चाकीर्णबहुजनमनुष्यं च; यावन् नैमित्तिकैर् द्वादशवार्षिका अनावृष्टिर् अदिष्टा; ब्रह्मदत्तेन राज्ञा स्वविषये घण्टावघोषणं कारितम्: शृण्वन्तु भवन्तो मद्विषयनिवासिनः पौराः; नैमित्तिकैर् द्वादशवार्षिका अनावृष्टिर् आदिष्टा; तद् येषां युष्माकं द्वादशवर्षिकम् अन्नपानम् अस्ति तैर् मद्विषये वस्तव्यम्; अन्यैर् नानादिक्षु विप्रक्रमितव्यम्; द्वादशवर्षसमतिक्रमे पुनर् आगन्तव्यम् इति; ततः संधानो गृहपतिः (अ 430ब्) कोष्ठागारिकपुरुषम् आमन्त्रयते: भोः पुरुष अस्ति कोष्ठागारे द्वादशवार्षिकम् अन्नपानम् इति; स कथयति: आर्य (sbv ii 15) भविष्यति इति; <ततः संधानो गृहपतिः सपरिवारो निषण्णः> जनकायः समन्ताद् विद्रुतः; महद् दुर्भिक्षं प्रादुर्भूतं कृच्छ्रः कान्तारः दुर्लभः पिण्डको याचनकेन; असति बुद्धानाम् उत्पादे प्रत्येकबुद्धा लोके उत्पद्यन्ते हीनदीनानुकम्पका प्रान्ताशयनासनभक्ता एकदक्षिणीया लोकस्य; तेन खलु समयेन वाराणस्यां नातिदूरे अन्यतमस्मिन्न् आश्रमपदे पंच प्रत्येकबुद्धशतानि प्रतिवसन्ति; यदा दुर्भिक्षकालमृत्युभयभीतो जनकायः समन्ताद् विद्रुतः तदा तेषां पिण्डका समुच्छिन्नाः; ते सर्व एव संभूय संधनस्य गृहपतेस् सकाशम् उपसंक्रान्ताः कथयन्ति: गृहपते, अस्माकं पंचानां प्रव्रजितशतानाम् पिण्डकेन योगोद्वहनं कुरुष्व इति; स कथयति:
कोष्ठागार्कं तावद् अवलोकयामि इति; स कोष्ठागारिकम् आमन्त्रयते: अस्ति भोः पुरुष अस्माकं कोष्ठागारे अन्नपानम् यद् अस्माकं स्याद् एषां च पंचानां प्रव्रजितशतानां द्वादशवर्षाणि इति; स कथयति आर्य भविष्यति इति; संधानेन गृहपतिना पंचानां प्रव्रजितशतानां पिण्डक उपनिबद्ध इति; श्रुत्वा अपराणि पंच प्रत्येकबुद्धशतानि संधानस्य गृहपतेः सकाशम् उपसंक्रान्तानि; उपसंक्रम्य संधानं गृहपतिम् इदम् अवोचन्: गृहपते अस्माकं पंचानां प्रव्रजितशतानां पिण्डकेन योगोद्वहनं कुरुष्व इति; स कथयति: आर्यका दत्तम् एव युष्माकं किं भूयः प्रार्थयत इति; ते कथयन्ति गृहपते अन्ये ते वयम् अन्ये इति; स कथयति: आर्यका, यद्य् एवं कोष्ठागारिकं तावद् अवलोकयामि इति; स कोष्ठागारिकं पुरुषम् आमन्त्रयते: भोः पुरुष अस्ति अस्माकं कोष्ठागारे अन्नपानं यद् अस्माकं स्याद् अस्य च प्रव्रजितसहस्रस्य द्वादशवर्षाणि इति; स कथयति: भविष्यति इति; तेन ते प्रत्येकबुद्धा उक्ता: आर्यका तिष्ठत; को युष्माकं भक्तकाल इति; ते कथयन्ति: गृहपते अपरिणतो मध्याह्नः; ततः संधानेन गृहपतिना दानशाला मापिता दानाधिस्थायिकः पुरुषः स्थापितः कालारोचकश् च; ते प्रतिदिनम् आगम्य भक्तकृत्यं कुर्वन्ति; तस्य प्रत्येकबुद्धसहस्रस्य यः संघस्थविरः सो ऽतीव प्रासादिकः छत्राकारशिरास् तां पर्षदं छत्रीकृत्यावतिष्ठते; संधानस्य गृहपतेर् दुहिता तस्य संघस्थविरस्य (sbv ii 16) छत्राकारशिरस्कतां वर्णपुष्कलतां दृष्ट्वातीवाभिप्रसन्ना; यावद् अपरेण समयेन भक्तकाले देवो वर्षितुम् आरब्धः; ततः तया दारिकया संघस्थविरस्य मूर्ध्नि छत्रं धारितम्;
भुक्तस्य च पादयोर् निपत्य प्रणिधानं कृतम्: अनेनाहं कुशलमूलेन एवंविधानां गुणानां लाभी स्यां यादृशो ऽयम् आर्यः यथा चायं छत्रीकृत्य पर्षदि निषण्णः एवम् अहम् अपि छत्रीकृत्य पर्षदं निषीदेयम् इति. किं मन्यध्वे भिक्षवः? यासौ संधानस्द्य गृहपतेर् दुहिता एष एवासौ (अ 431अ) कौण्डिन्यो भिक्षुः; यद् अनेन कुमारिकाभूतेन प्रत्येकबुद्धसंघस्थविरस्य छत्रं विधार्य प्रणिधानं कृतं एवंविधानां गुणानां लाभी स्यां छत्रीकृत्य च पर्षदं निषीदेयम् इति, तद् एतर्हि सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतं छत्रीकृत्य च पर्षदम् अवस्थितः; इति हि भिक्षवः एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः पूर्ववद् यावद् एवं वो भिक्षवः शिक्षितव्यम्. यदा भगवता आज्ञातकौण्डिन्यम् आगम्य अशीतिर् देवतासहस्राणि सद्धर्मरसेन संतर्पितानि तदा भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: पश्य भदन्त भगवता आयुष्मन्तम् आज्ञातकौण्डिन्यम् आगम्य अशीतिर् देवतासहस्राणि सद्धर्मरसेन संतर्पितानि; भगवान् आह: किम् अत्र भिक्षव आश्चर्यं यद् इदानीं मया विगतरागेण विगतद्वेषेण विगतमोहेन परिमुक्तेन जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासैः सर्वज्ञेन सर्वाकारज्ञेन सर्वज्ञानज्ञेयवशिप्राप्तेन आज्ञातकौण्डिन्यम् आगम्य अशीतिर् देवतासहस्राणि धर्मरसेन संतर्पितानि? यत् तु मयातीते ऽध्वनि सरागेण सद्वेषेण समोहेनापरिमुक्तेन जातिजाराव्यधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासैः विनिपतितशरीरेण तिर्यग्योनाव् उपपन्नेन अशितिकीटसहस्राणि कौण्डिन्यं कीटिकीभूतम् आगम्य स्वरुधिरेण संतर्पितानि; तच्
छ्रूयताम्.
the story of the tortoise (concerning a previous birth of kauṇḍinya)
भूतपूर्वं, भिक्षव, अनियतराश्यवस्थितो बोधिसत्वो महासमुद्रे कच्छपेषूपपन्नस् तेषाम् अधिपतिर् बभूव; यावत् पंचवणिक्शतानि महासमुद्रयानपात्रं प्रतिपद्य महासमुद्रम् (sbv ii 17) अवतीर्णानि; ततो नानारत्नसंग्रहं कृत्वा प्रतिनिर्वृत्तानि; यावद् वहनं मकरेण मत्स्यजातेनानयेन व्यसनम् आपादितम्; तत्र महान् कोलाहलो जातः; तच्छब्दश्रवणात् कच्छपो महासमुद्राद् उत्थितः; स तेषां सकाशम् उपसंक्रम्य कथयति: अलं भवतां विषादेन मम पृष्ठम् अभिरुहेत अहं वस् तारयिष्यामि इति; ते नष्टोपलब्धप्राणाः सर्वे कूर्मपृष्ठम् अभिरूढाः; स तान् आदाय समुद्रतीराभिमुखः संप्रस्थितः; अत्यन्तभारावष्टब्धो ऽपि वीर्यम् आस्थाय विषादं नापद्यते; स श्रान्तकायः तेषु संकीर्णेषु ग्रीवाम् अभिप्रसार्य सुप्तः; तस्य नातिदूरे कीटिकानां नगरम्; तस्माद् एका कीटिका परिभ्रमन्ती गन्धं घ्रात्वा तस्य सकाशम् उपसंक्रान्ता; ततस् तं महत्प्रमाणाकारविकारं दृष्ट्वा त्वरितगतिप्रचारिकी कीटिकानगरम् अभिगता; स्वस्वसंज्ञया कीटिकाः प्रबोध्य अशीतिः कीटिकासहस्राण्य् आदाय कच्छपसकाशं गता; ततः तं सुओतं मृतम् इव निश्चेष्टप्राणं भक्षयितुम् आरब्धाः; यदास्य स्थूलं मांसं भक्षयन्ति श्रमनपरिखिन्नो गाढमिद्धावष्टब्धो न चेतयते; यदा तु मर्मस्थानेषु मांसं भक्षयन्ति तदा प्रबुद्धः पश्यति कीटिकाभिः सर्वं शरीरम् आकीर्णम्; स संलक्षयति: यदि कायं चलयिष्ये (अ 431ब्) वा संपरिवर्तयिष्ये वा नियतम् एताः प्रघातयिष्यामि; कामं प्राणवियोगो न तु प्राणोपरोधः; इति विदित्वा छिद्यमानेषु मर्मसु मुच्यमानेषु संधिषु प्रणिधानं कर्तुम् आरब्धः: यथा मया एतानि
अशीतिर् कीटिकासहस्राणि मांसरुधिरेण संतर्पितानि, तान्य् एवम् अहम् अनागते ऽध्वनि अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्ध्य सद्धर्मरसेन संतर्पयेयम् इति. किं मन्यध्वे भिक्षवः? यो ऽसौ कीटिकानां मार्गोद्देशिक एष एवासौ कौण्डिन्यो भिक्षुः; यानि तानि अशीतिर् कीटिकासहस्राणि तम् आगम्य मांसरुधिरेण संतर्पितानि, तान्य् अशीतिर् देवतासहस्राणि; तदाप्य् एतानिमया स्वरुधिरेण संतर्पितानि; एतर्ह्य् अप्य् एतानि मया सद्धर्मरसेन संतर्पितानि; इति हि भिक्षवः एकान्तकृष्णानाम् इति यावद् एवं वो भिक्षवः शिक्षितव्यम्. यदा भगवता पंचका भिक्षवः सद्धर्मरसेन संतर्प्य संसारकान्ताराद् उत्तार्यात्यन्तनिष्ठे योगक्षेमे निर्वाणे प्रतिष्ठापिता (sbv ii 18) तदा भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: पश्य भदन्त भगवता भिक्षवः सद्धर्मरसेन संतर्प्य संसारकान्ताराद् उत्तार्यात्यन्तनिष्ठे योगक्षेमे निर्वाणे प्रतिष्ठापिताः इति; भगवान् आह: किम् अत्र भिक्षव आश्चर्यं यद् इदानीं मया विगतरागेण विगतद्वेषेण विगतमोहेन परिमुक्तेन जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासैः सर्वज्ञेन सर्वाकारज्ञेन सर्वज्ञानज्ञेयवशिप्राप्तेन पंचका भिक्षवः सद्धर्मरसेन संतर्प्य संसारकान्ताराद् उत्तार्यात्यन्तनिष्ठे योगक्षेमे निर्वाणे प्रतिष्ठापिताः? यत् तु मयातीते ऽध्वनि सरागेण सद्वेषेण समोहेनापरिमुक्तेन जातिजाराव्यधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासैर् एते स्वरुधिरेण संतर्प्य पंचसु व्रतपदेषु प्रतिष्ठापिताः; तच् छ्रूयताम्.
the story of the king vajrabāhu
भूतपूर्वं भिक्षवो वाराणस्यां नगर्यां वज्रबाहुर् नाम राजा राज्यं कारयति ऋद्धं च यावद् आकीर्णबहुजनमनुष्यं च; स राजा श्राद्धो भद्रः कल्याणाशयः आत्महितपरहितप्रतिपन्नः कारुणिको महात्मा धर्मकामः प्रजावत्सलः सर्वप्रदः सर्वपरित्यागी निःसङ्गपरित्यागी च महति त्यागे वर्तते; तेनात्यन्तं मैत्री स्वभ्यस्ता; त्रिर् दिवसस्य मैत्रीं समापद्यते; तस्य मैत्रीं समापद्यमानस्य याचनकजनो विहन्यते; तेनामात्यानाम् आज्ञा दत्ता; भवन्तो वाराणस्यां चतुर्षु नगरद्वारेषु दानशाला मापयित्वा श्रमणब्राह्मणकृपणवणीपकाध्वगयाचनकेभ्यो यो येनार्थी तस्मै तद् अनुप्रयच्छत इति; एवं देव इत्य् अमात्या रज्ञो वज्रबाहोर् प्रतिशुत्य वाराणस्यां चतुर्षु नगरद्वारेषु दानशाला मापयित्वा अन्नपानवस्त्रशयनासनहिरण्यसुवर्णमुक्तावैडूर्यशंखशिलाप्रवाडजातरूपरजताश्मगर्भमुसारगल्बलोहितिकादक्षिणावर्तादिद्रव्यसंभारेनावस्थिताः याचनकजनं संतर्पनाय; यावद् अपरेण (अ 432अ) समयेन वैश्रवणेन राज्ञा अडकवत्तायां राजधान्यां पंच यक्षा ओजोहारा निर्वासिताः; इतश् चामुतश् च परिभ्रमन्तो वाराणसीम् अनुप्राप्ताः; ते गोपालकान् पशुपालकान् तृणहारकान् काष्ठहारकान् पथाजीवान् उत्पथाजीवांश् च मनुष्यान् दृष्ट्वा कथयन्ति: भवन्तो न यूयम् अस्मान् बिभीत? (sbv ii 19) इति; भवन्तः किमर्थं बिभीमः येषाम् अस्माकं राजा मैत्र्यात्मकः कारुणिकः सर्वसत्वहिताध्याशयेन त्रिर् दिवसस्य मैत्रीं समापद्यते? इति; ततः ते ब्राह्मणवेषम् आत्मानम् अभिनिर्माय वाराणस्याम् चतुर्षु द्वारेषु दानशालां प्रत्यवेक्ष्य वज्रबाहुं राजानं मैत्र्या व्युत्थितं ज्ञात्वा विनीतवेषधारिणो रज्ञः
सकाशम् उपसंक्रान्ताः; उपसंक्रम्य जयेनायुषा च राजानं वर्धयित्वा ऊचुः: देव बुभुक्षिताः स्माहारेण अनुग्रहं कुरुष्व इति; राज्ञा अमात्यान् आहूयोक्ताः: भवन्त एतान् ब्राह्मणान् प्रणीतेनाहारेण संतर्पयत इति; ते कथयन्ति: मांसरुधिरभक्षा वयमिति; राज्ञा अमात्या अभिहिता: भवन्तो यदि मांसस्य <न> संभवो ऽस्ति रुधिरस्य वा वीथ्या धर्मन्यायलब्धं रुधिरं प्रयच्छत इति; ते कथयन्ति: सद्योहतरुधिरमांसभक्षका वयम्; सद्योहतेन मांसरुधिरेणानुग्रहं कुरुष्व इति; राजा संलक्षयति: कुतः सद्योहतस्य मांसरुधिरस्य संभवः परस्य पीडाम् अकृत्वा? यन्व् अहम् एभ्यः स्वरुधिरम् अनुप्रयच्छेयम् इति; ततो वैद्यान् आहूय कथयति: भवन्तो मम सर्वाङ्गिकं शिरावेधं कुरुत; याचनकजनं संतर्पयिष्यामि इति; वैद्याः कथयन्ति: न वयं प्राकृतपुरुषाणाम् अर्थाय देवस्य शरीरे शस्त्रं निपातयामः; कुशलाः भवन्ति बोधिसत्वास् तेषु तेषु शिल्पस्थानकर्मस्थानेषु; तेन स्वयम् एव पंचसु गात्रेषु शस्त्रनिपातः कृतः; ततः स्वरुधिरेण संतर्प्य तेषां तादृशी धर्मदेशना कृत्वा यां श्रुत्वा ते यक्षाः पंचसु व्रतपदेषु प्रतिष्ठापिताः. <किं मन्यध्वे भिक्षवः? यो ऽसौ वज्रबाहुर् नाम राजा अहम् एव स तेन कालेन तेन समयेन; ये अमी पंच यक्षा ओजोहारास् ते एवामी पंच भिक्षवः; तदाप्य् एते स्वरुधिरेण संतर्प्य पंचसु व्रतपदेषु प्रतिष्ठापिताः>; एतर्ह्य् अप्य् एते मया सद्धर्मरसेन संतर्प्य संसारकान्ताराद् उत्तार्यात्यन्तनिष्ठे योगक्षेमे निर्वाणे प्रतिष्ठापिता. यदा भगवता पंचका भिक्षवः सद्धर्मरसेन संतर्प्य संसारकान्ताराद् उत्तार्यात्यन्तनिष्ठे योगक्षेमे
निर्वाणे प्रतिष्ठापितास् तदा भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: पश्य भदन्त भगवता पंचका भिक्षवः सद्धर्मरसेन (sbv ii 20) संतर्प्य संसारकान्ताराद् उत्तार्यात्यन्तनिष्ठे योगक्षेमे निर्वाणे प्रतिष्ठापिताः इति; भगवान् आह: किम् अत्र भिक्षव आश्चर्यं यद् इदानीं मया विगतरागेण यावत् सर्वज्ञानज्ञेयवशिप्राप्तेन पंचका भिक्षवः सद्धर्मरसेन संतर्प्य संसारकान्ताराद् उत्तार्यात्यन्तनिष्ठे योगक्षेमे निर्वाणे प्रतिष्ठापिताः; यत् तु मयातीते ऽध्वनि सरागेण पूर्ववत् दुःखदौर्मनस्योपायासैः एते स्वरुधिरेण संतर्प्य पंचसु व्रतपदेषु प्रतिष्ठापिताः; तच् छ्रूयताम्.
the story of maitrabala
भूतपूर्वं भिक्षवो वाराणस्यां नगर्यां मैत्रबलो नाम राजा राज्यं कारयति ऋद्धं च यावद् बहुजनमनुष्यं च; मैत्र्यात्मकः कारुणिको महात्मा सर्वसत्वेषु दयावान्; (अ 432ब्) यावद् अपरेण समयेन वैश्रवणेन राज्ञा अडकवत्तायां राजधान्यां पंच ओजोहारा यक्षाः कस्मिण्चिद् एव अपराधे प्रवासिताः; ते तं जनपदम् अन्वाहिण्ड्य वाराणसीम् अनुप्राप्ताः; तेषां न कश्चिद् बलिमाल्योपहारं कुरुते; तैः प्रकोपम् आपन्नैर् ईतिर् उत्सृष्टा; वाराणस्यां जनकायो म्रियते; अमात्यै राज्ञे मैत्रबलाय निवेदितम्: देव वाराणस्याम् अतीव जनकायो मृत इति; राज्ञा तेषाम् आज्ञा दत्ता: गच्छत वाराणस्याम् एवं घण्टावघोषणं कारयत: भदन्तो राजा मैत्रबलः समाज्ञापयति, अहं सर्वसत्वहिताध्याशयतत्परेण मनसा रात्रिन्दिवम् अतिनमयामि; तद् युष्माभिर् अपि सर्वसत्वानुगता मैत्री मनसि कर्तव्या; एवं वः शान्तिर् भविष्यतीति; ते सर्वसत्वानुगतां मैत्रीं मनसि कर्तुम् आरब्धा; ओजोहारा यक्षा वाराणसीसामन्तकेन परिभ्रमितुम् आरब्धाः; प्रवेशं न लभन्ते; ते प्रवेशम् अलभमाना गोपालकां पशुपालकान् तृणहारकां काष्ठहारकां पथाजीवान् उत्पथाजीवांश् च मनुष्यान् दृष्ट्वा कथयन्ति: भवन्तो न यूयम् अस्मद् बिभीत? इति; ते कथयन्ति: न बिभीमः; किं कारणं? वयं हि यद् राजा मैत्रबलश् चिन्तयति तच् चिन्तयामः; किं मैत्रबलो राजा चिन्तयति? सर्वसत्वानुगतां मैत्रीं; ते संलक्षयन्ति: इदम् अत्र कारणं येन वयम् इदानीम् अवतारं न लभामह इति; ते वाराणस्यां द्वारेण (sbv ii 21) द्वारं परिभ्रमन्ति: कदाचिद् राजानं मैत्रबलं द्रक्ष्यामः इति; यावद् अपरेण समयेन मैत्रबलो राजा बहिर् उद्यानाय
संप्रस्थितः; ततस् ते ब्राह्मणवेषम् आत्मानम् अभिनिर्माय शान्तेर्यापथेन राजानम् उपसंक्रम्य जयेनायुषा च वर्धयित्वोचुः: देव बुभुक्षिता स्म; आहारेणानुग्रहं कुरुष्व इति; राज्ञा अमात्या आहूयोक्ताः: भवन्त एतान् ब्राह्मणान् प्रणीतेनाहारेण संतर्पयत; ते कथयन्ति: देव मांसरुधिरभक्षा वयम् इति; राज्ञा अमात्या अभिहिताः: भवन्त यदि मांसस्य <न> संभवो ऽस्ति रुधिरस्य वा विथ्या धर्मन्यायलब्धं मांसं रुधिरं च प्रयच्छत इति; देव सद्योहतरुधिरमांसभक्षा वयं सद्योहतेन मांसेनानुग्रहं कुरुष्व इति; राजा संलक्षयति: कुतस् सद्योहतस्य मांसरुधिरस्य संभवः परस्यपीडाम् अकृत्वा; यन्व् अहम् एभ्यः स्वरुधिरम् अनुप्रयच्छेयम् इति; ततो वैद्यान् आहूय कथयति: भवन्तो मम सर्वाङ्गिकं शिरावेधं कुरुत इति याचनकजनं संतर्पयिष्यामि इति; वैद्याः कथयन्ति: देव न वयं प्राकृतपुरुषाणाम् अर्थाय देवस्य शरीरे शस्त्रं निपातयामः; कुशला भवन्ति बोधिसत्वास् तेषु तेषु शिल्पस्थानकर्मस्थानेषु; तेन स्वयम् एव पंचसु गात्रेषु शास्त्रनिपातः कृतः; ततः स्वरुधिरेण संतर्प्य तेषां तादृशी धर्मदेशना कृता यां श्रुत्वा ते यक्षा पंचसु व्रतपदेषु प्रतिष्ठापिताः. किं मन्यध्वे भिक्षवः? यो ऽसौ मैत्रबलो नाम राजा ऽभूद् अहम् एव स तेन कालेन तेन समयेन; ये ते पंच ओजोहारास् यक्षा (अ 433अ) एते एव ते पंचका भिक्षवः; तदाप्य् एते मया स्वरुधिरेण संतर्प्य पंचसु व्रतपदेषु प्रतिष्ठापिताः; एतर्ह्य् अप्य् एते मया सद्धर्मरसेन संतर्पिताः संसारकान्ताराद् उत्तार्यात्यन्तनिष्ठे योगक्षेमे निर्वाणे प्रतिष्ठापिता. यदा भगवता षड्वर्षाणि दुष्करं
चरितम्; अनुत्तरा सम्यक्संबोधिर् अभिसंबुद्धा, वाराणस्यां गत्वा धर्मचक्रं प्रवर्तितं, पंचका विनीत उपपंचकाः षष्टिभद्रवर्गीयाः पूगाः, भिक्षुबहुत्वं जातम्, तदा भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: पश्य भदन्त भगवता कर्म कृतं यस्य कर्मणो विपाकेन षड्वर्षाणि दुष्करं चरितम्; भगवान् आह: तथागतेनैवैतानि भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभारानि पूर्ववद् यावत् फलन्ति खलु देहिनाम्. (sbv ii 22)
the story of nandapāla the potter (= ghaṭīkarasutta, mn 81, cf. mv i 319ff.)
भूतपूर्वं भिक्षवो वैभिडिङ्गी नाम ग्रामनिगमो ऽभूद् ऋद्धश् च स्फीतश् च बहुजनमनुष्यश् च; वैभिडिङ्ग्यां भिक्षवो ग्रामनिगमे न्यग्रोधो नाम ब्राह्मणमहाशालः प्रतिवसति, आढ्यो महाधनो महाभोगः स्फीतः, वैभिडिङ्गीं परिभुंक्ते सोत्सदां सतृणकाष्ठोदकां कृकिना राज्ञा ब्रह्मदेयां दत्ताम्; न्यग्रोधस्य खलु भिक्षवो ब्राह्मणमहशालस्य उत्तरो नामो माणवो ऽन्तेवासी उपेतो मातृतः पितृतः संशुद्धो गृहिण्याम् अनाक्षिप्तो जातिवादेन गोत्रवादेन च यावद् आसप्तमं मातामहपैतामहं युगम् उपादाय; अध्यापको मन्त्रधरो त्रयाणां वेदानां पारंगतः सनिघण्टुकैटभानां साक्षरप्रभेदानाम् इतिहासपंचमानां सादृशो व्याकरकः, अभिरूपो दर्शनीयः प्रासादिकः; न्यग्रोधस्य ब्राह्मणमहशालस्य पंचमात्राणि माणवकशतानि ब्राह्मणकान् मन्त्रान् वाचयन्ति; वैभिडिङ्ग्यां भिक्षवो ग्रामनिगमे नन्दीपालो घटीकरः प्रतिवसति; बुद्धे ऽभिप्रसन्नो धर्मे संघे ऽभिप्रसन्नः; बुद्धं शरणं गतो धम्मं संघं शरणं गतः; बुद्धे एकान्तिको धर्मे संघे एकान्तिकः; बुद्धे निष्कांक्षो निर्विचिकित्सो धर्मे संघे निष्कांक्षो निर्विचितः; दुःखे समुदये निरोधे मार्गे निष्कांक्षो निर्विचिकित्सो दृष्टसत्य आगतफलाभिसमितवां निक्षिप्तपर्णमुसलो न स्वहस्तं पृथिवीं खनति न खानयति; नान्यत्र, यत् तद् भवति दकप्ररुग्नं वा मूषिकोत्किरा वा ततः कायेन मृत्तिकां संहृत्य निष्प्राणकेनोदकेन तीमयित्वा भाजनानि कृत्वा एकान्तम् उपनिक्षिप्य एवम् आह: एत आर्या एत भद्रमुखा तिलान् वा तण्डुलान् वा मुद्गप्रभृतीन् वा माषप्रभृतीन् वा एकान्त उपनिक्षिप्य यो वा येन भाजनेनार्थी स तद् आदाय प्रक्रामतु
इति; स तस्माद् अन्धौ मातापितरौ बिभर्ति; काश्यपं सम्यक्संबुद्धं कालेन (sbv ii 23) कालं पिण्डकेन प्रतिपादयति; उत्तरस्य माणवस्य मित्रं सुहृद् वयस्यको च नन्दीपालो घटीकरो येन काश्यपः सम्यक्संबुद्धः तेनोपसंक्रान्तः; उपसंक्रम्य काश्यपस्य सम्यक्संबुद्धस्य पादौ शिरसा वन्दित्वा एकान्तनिषण्णः; एकान्तनिषण्णं (अ 433ब्) नन्दीपालं घटीकरं काश्यपः सम्यक्संबुद्धः धर्म्यया कथया संदर्शयति समादापयति समुत्तेजयति संप्रहर्षयति; अनेकपर्यायेण धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्य तूष्णीम्; अथ नन्दीपालो घटीकरः काश्यपस्य सम्यक्संबुद्धस्य पादौ शिरसा वन्दित्वा उत्थायासनात् प्रक्रान्तः; तेन खलु समयेन उत्तरो माणवः सर्वश्वेतं वडवारथम् अभिरुह्य सौवर्णेन दण्डकमण्डलुना धार्यमानेन माणवकगणपरिवृतो माणवकगणपुरस्कृतो वैभिडिङ्ग्यान् निर्याति; बहिर् वैभिडिङ्ग्याः ब्राह्मणकान् मन्त्रान् वाचयितुकामः अद्राक्षीद् उत्तरो माणवो नन्दीपालं घटीकरं दूराद् एव; दृष्ट्वा च पुनर् एवम् आह: कुतस् त्वं सोम्य नन्दीपाल एतर्ह्य् आगच्छसि? इतो ऽहं सोम्य उत्तर एतर्ह्य् आगच्छामि काश्यपं सम्यक्संबुद्धं पर्युपास्य; एह्य् आवां सोम्य उत्तर गमिष्यावाः; काश्यपं सम्यक्संबुद्धं पर्युपासिष्यावहे; अलं सोम्य नन्दीपाल काश्यपेन सम्यक्संबुद्धेन दृष्टेनालं पर्युपासितेन; तत् कस्य हेतोः; कुतस् तस्मिन् मुण्डके श्रमणके बोधिः; बोधिर् हि परमदुष्करा; मा त्वं सोम्य उत्तर एवं वद: कुतस् तस्मिन् श्रमणके बोधिः; बोधिर् हि परमदुष्करा; अपि तु बुद्धः स भगवान्, बुद्धाश् चानेन सर्वधर्मा इति; द्विर् अपि त्रिर् अपि नन्दीपालो
घटीकरः उत्तरं माणवकम् इदम् अवोचत्: एह्य् आवां सोम्य उत्तर गमिष्यावः; काश्यपं सम्यक्संबुद्धं पर्युपासिष्यावहे इति; द्विर् अपि त्रिर् अपि उत्तरो माणवो नन्दीपालं घटीकरम् इदम् अवोअत्: अलं सोम्य नन्दीपाल काश्यपेन सम्यक्संबुद्धेन दृष्टेन अलं पर्युपासितेन; तत् कस्य हेतोः? कुतस् तस्मिन् मुण्डले श्रमणके बोधिः; बोधिर् हि परमदुष्करा; मा त्वं सोम्योत्तर एवं वद कुतस् तस्मिन् मुण्डके श्रमणके बोधिः; बोधिर् हि परमदुष्करा; अपि तु बुद्धः स भगवान्, बुद्धाश् चानेन सर्वधर्मा इति; अथ नन्दीपालो घटीकर उत्तरस्य माणवस्य रथम् अभिरुह्य उत्तरं माणवम् इदम् अवोचत्: एह्य् आवां सोम्य उत्तर गमिष्यावः; काश्यपं सम्यक्संबुद्धं पर्युपासिष्यावहे इति; अथोत्तरस्य माणवस्यैतद् अभवत्: न बतावरो बुद्धो भविष्यति; (sbv ii 24) नावरं धर्माख्यानं; यत्रेदणीं नन्दीपालो घटीकरो दीर्घरात्रम् अचण्डो ऽरभसो ऽकर्कश ऽसाहसिकः केशग्रहणम् अप्य् अगमद् इति विदित्वा नन्दीपालं घटीकरम् इदम् अवोचत्: सोम्य नन्दीपाल अतो ऽपि यावत्; सोम्य उत्तर, अतो ऽपि यावत्; अतो ऽपि यावत् सोम्य नन्दीपाल; अतो ऽपि यावत्, सोम्य उत्तर; तेन हि सोम्य नन्दीपाल मुंच, गमिष्यावः, काश्यपं सम्यक्संबुद्धं पर्युपासिष्यावहे; अथोत्तरो माणवो नन्दीपालश् च घटीकरः रथम् अभिरुह्य येन काश्यपः सम्यक्संबुद्धस् तेनोपसंक्रान्तौ; तयोर् यावती यानस्य भूमिस् तावद् यानेन गत्वा यानाद् अवतीर्य येन काश्यपः सम्यक्संबुद्धस् तेनोपसंक्रान्तौ; उपसंक्रम्य काश्यपस्य सम्यक्संबुद्धस्य पादौ शिरसा वन्दित्वा एकान्ते निषण्णौ; एकान्तनिषण्णो नन्दीपालो घटीकरः काश्यपं सम्यक्संबुद्धम्
इदम् अवोचत्: अयं भदन्त उत्तरो (अ 434अ) माणवो न बुद्धे ऽभिप्रसन्नो न धर्मे न संघे ऽभिप्रसन्नः; साध्व् अस्य भगवान् तथा धर्मं देशयेद् यथा उत्तरो माणवो बुद्धे ऽभिप्रसीदेद् धर्मे संघे ऽभिप्रसीदेद् इति; अधिवासयति काश्यपः सम्यक्संबुद्ध उत्तरं माणवं धर्म्यया कथया संदर्शयति समादापयति समुत्तेजयति संप्रहर्षयति; अनेकपर्यायेण धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्य तूष्णीम्; अथोत्तरो माणवो नन्दीपालं घटीकरम् इदम् अवोचत्: कस्मात् त्वं, सोम्य नन्दीपाल, स्वाख्यातं धर्मविनयं श्रुत्वा न प्रव्रजसि सम्यग् एव श्रद्धया अगाराद् अनागारिकाम्? न त्वं, सोम्य कुमार, जानीषे यथाहम् अन्धं मातापितरं बिभर्मि, काश्यपं सम्यक्संबुद्धं कालेन च कालं पिण्डकेन प्रतिपादयामि; प्रव्रज त्वं सोम्य नन्दीपाल मा वा; अहं तावत् प्रव्रजिष्ये इति; अथ नन्दीपालो घटीकरः काश्यपं सम्यक्संबुद्धम् इदम् अवोचत्: अयं भदन्त उत्तरो माणव आकांक्षति स्वाख्याते धर्मविनये प्रव्रज्याम् उपसंपदं भिक्षुभावम्; तं भगवान् प्रव्राजयतूपसंपादयतु अनुकंपाम् उपादाय इति; अधिवासयति काश्यपः (sbv ii 25) सम्यक्संबुद्धो नन्दीपालस्य घटीकरस्य तूष्णींभावेन; अथ नन्दीपालो घटीकरः काश्यपस्य सम्यक्संबुद्धस्य तूष्णींभावेनाधिवासनां विदित्वा काश्यपस्य सम्यक्संबुद्धस्य पादौ शिरसा वन्दित्वोत्थायासनात् प्रक्रान्तः; अथ काश्यपः सम्यक्संबुद्धश् अचिरप्रक्रान्तं नन्दीपालं घटीकरं विदित्वा उत्तरं माणवं प्रव्राज्य उपसंपाद्य यथाभिरम्यं वैभिडिंग्यां विहृत्य येन वाराणसी काशीनां निगमस् तेन चारिकां प्रक्रान्तः;
अनुपूर्वेण चारिकां चरन् वाराणसीम् अनुप्राप्तः; वाराणस्यां विहरति ऋषिवदने मृगदावे. अश्रौषीत् कृकी राजा काश्यपः सम्यक्संबुद्धः काशिषु जनपदे चारिकां चरन् वाराणसीम् अनुप्राप्तो वाराणस्यां विहरति ऋषिवदने मृगदावे इति; श्रुत्वा च पुनर् वाराणस्याः निष्क्रम्य येन काश्यपः सम्यक्संबुद्धस् तेनोपसंक्रान्तः; उपसंक्रम्य उपसंक्रम्य काश्यपस्य सम्यक्संबुद्धस्य पादौ शिरसा वन्दित्वा एकान्ते निषण्णौ; एकान्तनिषण्णं कृकिं राजानं काश्यपः सम्यक्संबुद्धो धर्म्यया कथया संदर्शयति समादापयति समुत्तेजयति संप्रहर्षयति; अनेकपर्यायेण धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्य तूष्णीम्; अथ कृकी राजा उत्थायासनाद् एकांसम् उत्तरासंगं कृत्वा येन काश्यपः सम्यक्संबुद्धः तेनाञ्जलिं प्रणम्य काश्यपम् इदम् अवोचत्: अधिवासयतु मे भगवान् श्वो ऽन्तर्गृहे भक्तेन सार्धं भिक्षुसंघेन इति; अधिवासयति काश्यपः सम्यक्संबुद्धः कृकिनो राज्ञस् तूष्णींभावेन; अथ कृकी राजा काश्यपस्य सम्यक्संबुद्धस्य तूष्णींभावेनाधिवासनां विदित्वा कास्यपस्य सम्यक्संबुद्धस्य पादौ शिरसा वन्दित्वोत्थायासनात् प्रक्रान्तः; अथ कृकी राजा ताम् एव रात्रिं शुचि प्रणीतं खादनीयभोजनीयं समुदानीय काल्यम् एवोत्थायासनकानि प्रज्ञप्य उदकमणिं प्रतिष्ठाप्य (अ 434ब्) काश्यपस्य सम्यक्संबुद्धस्य दूतेन कालम् आरोचयति: समयो भदन्त सज्जं भक्तं यस्येदानीं भगवान् कालं मन्यते इति; अथ कास्यपः सम्यक्संबुद्धः पूर्वाह्णे निवास्य पात्रचीवरम् आदाय भिक्षुगणपरिवृतो भिक्षुसंघपुरस्कृतो येन कृकेः राज्ञो भक्ताभिसारस् तेनोपसंक्रान्तः; उपसंक्रम्य पुरस्ताद्
भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः; अथ कृकी राजा सुखोपनिषण्णं बुद्धप्रमुखं भिक्षुसंघं विदित्वा शुचिना प्रणीतेन खादनीयभोजनीयेन स्वहस्तं संतर्पयति संप्रवारयति; अनेकपर्यायेण शुचिना प्रणीतेन खादनीयभोजनीयेन स्वहस्तं संतर्प्य संप्रवार्य काश्यपं सम्यक्संबुद्धं भुक्तवन्तं विदित्वा धौतहस्तम् अपनीतपात्रं सौवर्णं भृङ्गारम् आदाय काश्यपस्य सम्यक्संबुद्धस्य (sbv ii 26) पुरतो ऽस्थाद् आयाचमानः: अधिवासयतु मे भगवान् त्रैमासीं चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः सार्धं भिक्षुसंघेन; अहं भगवतो ऽर्थाय पंच विहारशतानि मापयिष्यामि; पंच मंचपीठवृषिकोचवबिम्बोपधानचतुरश्रकशतानि कारयिष्यामि; अनेन चैवंरूपेन पर्णोपगूढेन शालिना भगवन्तं उपस्थास्यामि भिक्षुसंघं च; अलं महाराजा कृतम् एतावद् यावद् एव चित्तम् अभिप्रसन्नम्; द्विर् अपि त्रिर् अपि कृकी राजा काश्यपं सम्यक्संबुद्धम् इदम् अवोचत्: अधिवासयतु मे भगवान् त्रैमासीं चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः सार्धं भिक्षुसंघेन; अहं भगवतो ऽर्थाय पंच विहारशतानि मापयिष्यामि; पंच मंचपीठवृषिकोचवबिम्बोपधानचतुरश्रकशतानि कारयिष्यामि; अनेन चैवंरूपेन पर्णोपगूढेन शालिना भगवन्तं उपस्थास्यामि भिक्षुसंघं च; द्विर् अपि त्रिर् अपि काश्यपः सम्यक्संबुद्धाः कृकिं राजानम् इदम् अवोचत्: अलं महाराजा कृतम् एतावद् यावद् एव चित्तम् अभिप्रसन्नम्; अथ कृकी राजा काश्यपं संयक्संबुद्धम् इदम् अवोचत्: अस्ति कश्चिद् भगवन् यो ऽप्य् एवंरूप उपस्थायकः तद्यथा अहम् एतर्ह्य्? अस्ति महाराज तवैव
विजिते वैभिडिंगी नाम ग्रामनिगमः; तत्र नन्दीपालो नाम घटीकर प्रतिवसति; स बुद्धे ऽभिप्रसन्नो धर्मे संघे ऽभिप्रसन्नः; बुद्धं शरणं गतो धम्मं संघं शरणं गतः; बुद्धे एकान्तिको धर्मे संघे एकान्तिकः; बुद्धे निष्कांक्षो निर्विचिकित्सो धर्मे संघे दुःखे समुदये निरोधे मार्गे निष्कांक्षो निर्विचिकित्सो दृष्टसत्ये आगतफलो ऽभिसमितवां निक्षिप्तपर्णमुसलः स न स्वहस्तं पृथिवीं खनति न खानयति; नान्यत्र, यत् तद् भवति दकप्ररुग्नं वा मूषिकोत्किरा वा ततः कायेन मृत्तिकां संहृत्य निष्प्राणकेनोदकेन तीमयित्वा भाजनानि कृत्वैकान्तम् उपनिक्षिप्यैवम् आह: एत आर्या एत भद्रमुखा तिलान् वा तण्डुलान् वा मुद्गप्रभृतीन् वा माषप्रभृतीन् वा एकान्त उपनिक्षिप्य यो वा येन भाजनेनार्थी भवति स तद् आदाय प्रक्रामतु; स तस्माद् अन्धं मातापितरौ बिभर्ति; मां च कालेन कालं पिण्डकेन प्रतिपादयति; (sbv ii 27) एकम् अहं महाराज समयं वैभिडिंगीं ग्रामनिगमम् उपनिश्रित्य विहरामि; सो ऽहं पूर्वाह्णे निवास्य पात्रचीवरम् आदाय वैभिडिंगीं ग्रामनिगमं पिण्डाय प्राविक्षम्; (अ 435अ) सावादानं वैभिडंगीं पिण्डाय चरन् येन घटीकरस्य निवेशनं तेनोपसंक्रान्तः; उपसंक्रम्य शनैर् मन्दमन्दम् अर्गडम् आकोटयामि; तेन खलु समयेन नन्दीपालो घटीकरः बहिर् निर्गतो ऽभूत् केनचिद् एव करणीयेन; अश्रौष्टां नन्दीपालस्य घटीकरस्यान्धौ मातापितराव् अर्गडस्याकोटनशब्दम्; श्रुत्वा च पुनर् एवम् आहतुः; क एष आर्यः क एष भद्रमुखः शनैर् मन्दमन्दम् अर्गडम् आकोटयति? ताव् अहम् एवं वदामि: अहं काश्यपः सम्यक्संबुद्धः पिण्डकेनार्थी; ताव् एवम् आहतुः:
प्रविशतु आर्यः प्रविशतु भद्रमुख एते कुण्डालिकायां कुल्माषाः पिठिरिकायां च सूपिकम्; सचेद् आकांक्षस्य् आत्मना गृहीत्वा परिभुंक्ष्व; बहिर्गत ते उपस्थायक इति; सो ऽहं महाराज उत्तरकौरवं समयम् अधिष्ठाय स्वयम् एव कुण्डलिकायाः कुल्माषान् पिठिरिकायाश् च सूपिकं गृहीत्वा भुक्तवान्; ततः पश्चाद् आगतो नन्दीपालो घटीकरः; अद्राक्षीन् नन्दीपालो घटीकरः कुण्डलिकायां कुल्माषान् पिठिरिकायां च सूपिकं परिभुक्तम्; दृष्ट्वा च पुनर् अन्धौ मातापितराव् इदम् अवोचत्: अम्ब तात केनैते कुण्डलिकायां कुल्माषाः पिठिरिकायां च सूपिकं परिभुक्तम्; ताव् एवम् आहतुः: इह ते सोम्य नन्दीपाल अचिरनिर्गतस्याश्रौष्व अर्गडकस्याकोटनशब्दम्; श्रुत्वा च पुनर् एवं वदावः: क एष आर्यः क एष भद्रमुखः शनैर् मन्दमन्दम् अर्गडम् आकोटयति? स एवम् आह: अहं काश्यपः सम्यक्संबुद्धः पिण्डकेनार्थी; तम् एनम् एवं वदावः: प्रविशतु आर्य प्रविशतु भद्रमुख; एते कुण्डलिकायां कुल्माषाः पिठिरिकायां सूपिकम्; सचेद् आकांक्षस्य् आत्मना गृहीत्वा परिभुंक्ष्व; बहिर्गतस् ते उपस्थायकः; तेन ते कुण्डालिकायां कुल्माषाः पिठिरिकायां च सूपिकं परिभुक्तं भविष्यति; अथ नन्दीपालस्य घटीकरस्यैतद् अभवत्: लाभा मे सुलब्धा यस्य मे काश्यपः सम्यक्संबुद्धः कुले ऽत्यर्थं विश्वस्तो विश्वासम् आपन्नः इति विदित्वा तेनैव प्रीतिप्रामोद्येन सप्ताहम् एकपर्यंकेनातिनामयति अर्धमासं चास्य सततसहगता स्मृतिः कायं न विजहाति; साव्युच्छिन्ना काये वर्तते; सप्ताहं मातापित्रोः यथा कुण्डालिकायाः कुल्माषम्. पिठिरिकायश् च सूपिकम् एवं कुण्डिकाया ओदनं पिठिरिकायाश् च सूपिकम्; एकम् इमं महाराज (sbv ii 28)
समयं वैभिडिंगीं ग्रामनिगमम् उपनिश्रित्य अहं वर्षा उपगतः; तस्य मम तत्प्रथमवर्षिणा देवेन विहारो ऽभिवृष्यते; तेन खलु समयेन नन्दीपालस्य घटीकारस्यावेशनशाला नवतृणप्रतिच्छन्ना ऽभूत्; सो ऽहम् उपस्थायकान् भिक्षून् आमन्त्रयामि: गच्छत यूयं भिक्षवो नन्दीपालस्य घटीकारस्यावेशनशालां नवतृणप्रतिच्छन्नाम् अवच्छाद्य मम विहारं छादयत; ते मम ओम् इति प्रतिश्रुत्य नन्दीपालस्य घटीकारस्य नवतृणप्रतिच्छन्नाम् आवेशनशालाम् अवच्छादयन्ति; तेन खलु समयेन नन्दीपालो घटीकरो बहिर्निर्गतो ऽभूत् केनचिद् एव करणीयेन; अश्रौष्टां नन्दीपालस्य (अ 435ब्) घटीकरस्यान्धौ मातापितराव् आवेशनशालायाम् अवच्छादनशब्दं; श्रुत्वा च पुनर् एवम् आहतुः: क एष आर्यः क एष भद्रमुखो नन्दीपालस्य घटीकरस्य नवतृणप्रतिच्छन्नाम् आवेशनशालाम् अवच्छादयति? ते एवम् आहुर् वयं भिक्षवः काश्यपस्य सम्यक्संबुद्धस्योपस्थायिकाः; काश्यपस्य सम्यक्संबुद्धस्य तत्प्रथमवर्षिणा देवेन विहारो वृष्यते; ते वयं नन्दीपालस्य घटीकारस्य नवतृणप्रतिच्छन्नाम् आवेशनशालाम् अवच्छाद्य काश्यपस्य सम्यक्संबुद्धस्य विहारं प्रतिच्छादयामः; ताव् एवम् आहतुः हरत आर्या हरत भद्रमुखा बहिर्निर्गतो वः उपस्थायकः; तैस् ताम् अवच्छाद्य मम विहारः प्रतिच्छादितः; पश्चाद् आगतो नन्दीपालो घटीकरो ऽद्राक्षीन् नवतृणप्रतिच्छन्नाम् आवेशनशालाम् अवच्छादितां; दृष्ट्वा च पुनर् अन्धौ मातापितराव् इदम् अवोचत्: अम्ब तात केनैषा नवतृणप्रतिच्छन्ना आवेशनशाला अवच्छादिता; ताव् एवम् आहतुः: इह ते सोम्य नन्दीपाल अचिरनिर्गतस्य अश्रौष्व नवतृणप्रतिच्छन्नाया आवेशनशालाया
अवच्छादनशब्दम्; श्रुत्वा च पुनर् एवं वदावः क एष आर्यः क एष भद्रमुखो नवतृणप्रतिच्छन्नाम् आवेशनशालाम् अवच्छादयति? ते एवम् आहुर् वयं भिक्षवः काश्यपस्य सम्यक्संबुद्धस्योपस्थायिकाः; काश्यपस्य सम्यक्संबुद्धस्य तत्प्रथमवर्षिणा देवेन विहारो वृष्यते; ते वयं नन्दीपालस्य घटीकरस्य नवतृणप्रतिच्छन्नाम् आवेशनशालाम् अवच्छाद्य काश्यपस्य सम्यक्संबुद्धस्य विहारं प्रतिच्छादयामः; तान् आवाम् एवं वदावः हरत आर्या हरत भद्रमुखा बहिर्निर्गतो वः उपस्थायकः; तैर् एषा आवेशनशाला अवच्छादिता भविष्यति. अथ नन्दीपालस्य घटीकरस्यैतद् अभवत्: लाभा मे सुलब्धा यस्य मे काश्यपः सम्यक्संबुद्धः कुले ऽत्यर्थं विश्वस्तो विश्वासम् (sbv ii 29) आपन्नः इति विदित्वा तेनैव प्रीतिप्रामोद्येन सप्ताहम् एकपर्यंकेनातिनामयति अर्धमासं चास्य सततसमिता स्मृतिः कायं न जहाति; सा चाव्युच्छिन्ना काये वर्तते; सप्ताहं मातापित्रोः तं खलु वर्षावासं नन्दीपालस्य घटीकरस्यावेशनशाला एकवारिबिन्दुनापि नाभिवृष्टा; यथापितद् बुद्धस्य बुद्धानुभावेन देवतानां च देवतानुभावेन. स्यात् खलु ते महाराज चेतसो ऽन्यथात्वम् नाधिवासयति मे काश्यपः सम्यक्संबुद्धस् त्रैमासीं चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारान्? न त्व् एव नन्दीपालस्य घटीकरस्य नवतृणप्रतिच्छन्नायाम् आवेशनशालायाम् अवच्छादितायां चेतसो ऽन्यथात्वं; लाभा भदन्त नन्दीपालेन घटीकरेण सुलब्धा यस्यास्य भगवान् कुले ऽत्यर्थं विश्वस्तो विश्वासम् आपन्नः. अथ कास्यपः सम्यक्संबुद्धः कृकेः राज्ञस् तद्दानम् अनयाभ्यनुमोदनयाभ्यनुमोदते; अग्निहोत्रमुखा यज्ञाः
गायत्री छन्दसां मुखम् /
राजा मुखं मनुष्याणां नदीनां सागरो मुखम् //
नक्षत्राणां मुखं चन्द्र आदित्यस् तपतां मुखम् / ऊर्ध्वं तिर्यग् अधश् चापि यावती जगतो गतिः / सदेवकेषु लोकेषु संबुद्धो हीज्यतां वरः //
अथ काश्यपः सम्यक्संबुद्धः कृकिणं राजानं धर्म्यया कथया (अ 436अ) संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्योत्थायासनात् प्रक्रान्तः; अथ कृकी राजा अचिरप्रक्रान्तं काश्यपं सम्यक्संबुद्धं यत्रोत्सदनधर्मकं तत् सर्वं विसर्जनधर्मकम् इति कृत्वा काश्यपं सम्यक्संबुद्धं पृष्ठतः पृष्ठतः समनुबद्धः; अथ कृकी राजा कास्यपं सम्यक्संबुद्धं यावत् तावत् पृष्ठतः पृष्ठतः समनुबद्ध्य काश्यपस्य पादौ शिरसा वन्दित्वा काश्यपं सम्यक्संबुद्धं त्रिर् प्रदक्षिणीकृत्य तत एव प्रतिनिवृत्तः; अथ कृकी राजा अचिरप्रक्रान्तं काश्यपं सम्यक्संबुद्धं विदित्वा अन्यतमं पुरुषम् आमन्त्रयते: एहि त्वं भोः पुरुष पर्णोपगूढस्य शालेः पंचमात्राणि शकटशतानि पूरयित्वा येन नन्दीपालो घटीकरस् तेनोपसंक्राम; उपसंक्रम्य नन्दीपालं (sbv ii 30) घटीकरम् इदम् अवोचः: इमानि ते सोम्य नन्दीपाल कृकिणा राज्ञा पंचमात्राणि शकटशतानि पर्णोपगूढस्य शालेर् अनुप्रेषितानि; अतस् त्वम् आत्मानं सम्यक् सुखेन प्रीणय अन्धं च मातापितरम्; काश्यपं च सम्यक्संबुद्धं कालेन कालं पिण्डकेन प्रतिपादय; एवं देव इति स पुरुषः कृके रज्ञः प्रतिश्रुत्य पर्णोपगूढस्य शालेः पंचमात्राणि शकटशतानि पूरयित्वा येन नन्दीपाल्प् घटीकरस् तेनोपसंक्रान्तः; उपसंक्रम्य नन्दीपालं घटीकरम् इदम् अवोचत्: इमानि ते सोम्य नन्दीपाल कृकिणा राज्ञा पर्णोपगूढस्य शालेः पंचमात्राणि शकटशतान्य् अनुप्रेषितानि; अतस् त्वम् आत्मानं सम्यक् सुखेन प्रीणय अन्धं च मातापितरम्; काश्यपं च सम्यक्संबुद्धं कालेन कालं पिण्डकेन प्रतिपादय; भोः पुरुष राजा बहुकृत्यो बहुकरणीय इत्य् उक्त्वा
नाधिवासयति. किं मन्यध्वे भिक्षवः? यो ऽसौ उत्तरो माणवः अहम् एव स तेन कालेन तेन समयेन; यन् मया काश्यपे सम्यक्संबुद्धे खरं वाक्कर्म निश्चरितं: कुतः तस्मिन् मुण्डके श्रमणके बोधिः; बोधिर् हि परमदुष्करा; तस्य कर्मणो विपाकेन एतर्हि मया षड्वर्षाणि दुष्करं चरितं; यदि पुनर् बोधिर् अपवदिताभविष्यत् पुनर् अपि मया त्रिणि कल्पासंख्येयानि आत्मबोधिनिमित्तं परिखेदितो ऽभविष्यम्; इति हि भिक्षव एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः पूर्ववद् यावद् एकान्तशुक्लेष्व् एव कर्मस्व् आभोगः करणीयः; इत्य् एवं वो भिक्षवः शिक्षितव्यम्.
yaśodharā brings forth a son
यम् एव दिवसं बोधिसत्वो निर्गतस् तम् एव दिवसं यशोधरा आपन्नसत्वा संवृत्ता; यदा बोधिसत्वो दुष्कराणि चरति तदान्तःपुरम् अपि दुष्करं चरितुम् आरब्धं; यशोधरायाः स गर्भो लयं गतः; यदा भगवान् निष्किंचनं दुष्करम् इति विदित्वा यथासुखम् आश्वसिति; यथासुखं प्रश्वसिति; ओदारिकम् आहारम् आहरत्य् ओदनकुल्माषं, सर्पिस्तैलाभ्यां गात्राणि म्रक्षयति सुखोदकेन च कायं परिषिंचति; अन्तःपुरम् अपि तदा यथासुखम् आश्वसिति, यथासुखं प्रश्वसिति, ओदारिकम् आहारम् आहरत्य् ओदनकुल्माषान्, सर्पिस्तैलाभ्यां गात्राणि म्रक्षयति, सुखोदकेन च कायं परिषिंचति; तदासौ गर्भः पुनर् अपि पुष्टिं गतः तस्या (sbv ii 31) गर्भनिमित्तानि प्रादुर्भूतानि; सा शाक्यैः सपरिहासम् उच्यते: त्वं बोधिसत्वे तपोवनं गते व्यभिचरिता इति; सा कथयति: शान्तं पापं, नाहं व्यभिचरामि; कथं ज्ञायते? युष्माकं प्रत्याययिष्यामि; यावद् असौ प्रसूता, दारको जातः; यम् एव दिवसं जातः, तम् एव दिवसं राहुणा चन्द्रो गृहीतः; तस्य जातौ जातिमहं कृत्वा नामधेयं (अ 436ब्) व्यवस्थाप्यते; किं भवतु दारकस्य नाम इति; तस्य ज्ञातयः कथयन्ति: अस्य जन्मनि राहुणा चन्द्रो गृहीतः तद् भवतु दारकस्य राहुल इति नाम इति; जाते कुमारे भूयस्या मात्रया शाक्या विब्रुवते एव; तयासौ सत्योपयाचनं कृत्वा राहुलभद्रो बोधिसत्वस्य व्यायामशिलायां स्थापयित्वा क्रीडापुष्करिण्याम् आप्लावितः: यद्य् अयं बोधिसत्वेन जातः प्लवताम् इति; प्लवितुम् आरब्धः; सा कथयति: पाराद् अपारम् आगच्छतु इति; स पाराद् अपारम् आगतः; ते विस्मयम् आपन्नाः; यशोधरा कथयति: भूयो ऽपि भवतां प्रत्यक्षीकरिष्यामि
यथायं बोधिसत्वेन जातः, नाहं व्यभिचरिता इति. यदा भगवान् अतिक्रान्तः षड्वर्षाण्य् अभिसंबुद्धः कपिलवस्त्व् अनुप्राप्तः एकं दिवसं राजकुले भुंक्ते, एकम् अन्तःपुरे; तदा यशोधराया एतद् अभवत्: को ऽसाव् उपायः स्याद् येनाहं भगवन्तम् अन्वावर्तेयम् इत्; कपिलवस्तुनि चान्यतमा परिव्राजिका वशीकरणादिकर्मस्व् अत्यर्थं प्रवीणा; यशोधरया तस्याः पंचकार्षापणशतानि दत्तानि: आर्ये कार्षापणैर् वशीकरणं कृत्वा प्रेषय इति; तया वशीकरणमोदको यशोधरायाः प्रेषितः; यशोधरया राहुलस्य हस्ते दत्त उक्तश् च: पुत्र यस् तव पिता तस्मै अनुप्रयच्छ इति; अत्रान्तरे नास्ति किंचिद् बुद्धानां भगवताम् अज्ञातम् अदृष्टम् अविदितम् अविज्ञातं; भगवान् संलक्षयति: यशोधराया असच्छब्दो निर्गतः; तस्यापन्नयाः कर्तव्य इति; भगवता पंचबुद्धशतानि निर्मितानि; राहुलेन सर्वान् बुद्धान् प्रत्यवेक्ष्य भगवतो वृद्धान्ते स्थितस्य दत्तः; भगवता गृहीत्वा पुनस् तस्यैव दत्तः; राहुलेन भक्षितः; भगवान् दक्षिणादेशनां कृत्वा प्रक्रान्तः; राहुलभद्रः कुमारो भगवतः पृष्ठतः पृष्ठतो ऽनुबद्धः निर्वर्त्यमानो ऽपि न निर्वर्तते: अरोदीत् इति; भगवान् संलक्षयति: चरमभविको ऽयं सत्वः, न शक्यम् अनेन गृहवासे वस्तुम् (sbv ii 32) इति; राहुलेन भगवतः प्रत्यभिज्ञातेन कृतेन राजा शुद्धोदनः सान्तःपुरजनः शाक्याश् च परं विस्मयम् उपगताः यशोधरायां चात्यर्थम् अभिप्रसन्नाः; ततो यशोधराभ्याख्यानं सर्वेण सर्वं प्रतिवुगतं; भगवान् राहुलं कुमारं प्रव्राजयितुम् आरब्धः; राज्ञा शुद्धोदनेन श्रुतं; स भगवत्सकाशम् उपसंक्रान्तः; उपसंक्रम्य भगवन्तम् इदम्
अवोचत्: भगवन्, यदि राहुलभद्रः कुमारो ऽवश्यं प्रव्राज्यते अद्यैकं दिवसं तिष्ठतु यावद् अहम् अस्य पूजां करोमि इति; राज्ञा शुद्धोदनेन राहुलस्य महान् उत्सवः कृतः; तत्र भगवता आयुष्मान् शारिपुत्रो ऽभिहितः; प्रव्राजय, शारिपुत्र, राहुलं कुमारम् इति; एवं भदन्त इत्य् आयुष्मता शारिपुत्रेण भगवतः प्रतिश्रुत्य राहुलभद्रः कुमारः प्रव्राजितः. भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: पश्य भदन्तायुष्मता राहुलेन भगवान् मोदकेन महाजनकायस्य मध्ये विज्ञात इति; भगवान् आह: न भिक्षव एतर्ह्यि यथातीते ऽप्य् अध्वनि अहम् अनेन राहुलेन मालया विज्ञातः; तच् छ्रूयताम्.
the story of the great thief
भूतपूर्वं भिक्षवो अन्यतरस्मिन् कर्वटके गृहपतिः प्रतिवसति; तेन सदृशात् कुलात् कलत्रम् आनीतं; स तया सार्धं क्रीडति रमते परिचारयति; तस्य क्रीडतो रममाणस्य परिचारयतः (अ 437अ) पुत्रो जातः; स पत्नीम् आमन्त्रयते: भद्रे जातो ऽस्माकं धनहरो ऋणहरः; गच्छामि पण्यम् आदाय महासमुद्रम् अवतरामि इति; सा कथयति: आर्यपुत्र एवं कुरुष्व इति; स पण्यम् आदाय महासमुद्रम् अवतीर्णः; स तत्रैव च निधनम् उपयातः; ततस् तस्य पत्न्या शोकविनोदनं कृत्वा स दारको हस्तबलेन ज्ञातिबलेन चाप्यायितः पोषितः संवर्धितः; तस्य नातिदूरे कुविन्दः प्रतिवसति स्वशिल्पकृतावी; तस्य स्वशिल्पात् सर्वं संपद्यते; सा तस्य स्वशिल्पाद् भोगसंपत्तिं दृष्ट्वा कथयति: वरं कुविन्दकर्म न समुद्रावतरणं; तस्मिन् गते अनयेन व्यसनम् आपद्यन्ते इति; तयासौ कुविन्दो ऽभिहितः: भ्रात इमम् अपि भागिनेयं कुविन्दकर्म शिक्षयेति; स कथयति: शोभनम् एवं (sbv ii 33) भवतु इति; स तं शिक्षयितुम् आरब्धः; पटुप्रचारो ऽसौ; तेनाल्पीयसा कालेन कुविन्दकर्म शिक्षितं; स कुविन्दः सुस्नातः सुप्रावृतः प्रणीतम् आहारं भुंक्ते; सा दारकः कथयति: मातुल त्वम् अपि तद् एव कर्म करोषि; अहम् अपि तद् एव; अथ कस्मात् त्वं सुस्नातः सुप्रावृतः प्रणीतम् आहारं भुंक्षे; मम तु न संपद्यते इति; स कथयति: भागिनेय अहं कर्मद्वयं करोमि, दिवा कुविन्दत्वं रात्रौ चौर्यम् इति; स कथयति: मातुल यद्य् एवम् अहम् अपि चौर्यं करोमि; भागिनेय शक्ष्यसि त्वं चौर्यं कर्तुं? मातुल शक्ष्यामि; स संलक्षयति: जिज्ञासयामि तावद् एनम् इति; स तम् आदाय वीथिं गतः; तेन तत्र
शशकः क्रीत्वा तस्य दत्तः भागिनेय साधय तावद् यद् अहं स्नात्वागच्छामि; स स्नात्वा आगतः; तेन तं लघु लघ्व् एव साधयित्वा एकपादो भक्षितः; स कुविन्दः स्नात्वा आगतः; भागिनेय साधितः शशकः? मातुल साधितः; पश्यामि तावत्; तेन समर्पितः; पश्यति पादत्रयं; स कथयति भागिनेयास्य चतुर्थः पादः क्व गतः? स कथयति: मातुल शशकस्य चतुर्थः पादो नास्ति; क्व गमिष्यति? इति; स संलक्षयति: अहं तावच् चोरः, अयं तु महाचोर इति; स तम् आदाय त्रिपादकं च शशकं पानागारं प्रविष्टः: भागिनेय मद्यं पिबामः; पिबामः; ताभ्यां पीतं; कुविन्दः कथयति: भागिनेय मद्यमूल्यम् अपलपामः; स कथयति: मातुल येन पीतं सो ऽपलपतु; अहं नैव पिबामि; किम् अपलपामि इति; स कुविन्दः संलक्षयति: महाचोरो ऽयं; शक्यम् अनेन सार्धं चौर्यं कर्तुम् इति; स तेन सार्धं चौर्यं कर्तुम् आरब्धः; स कुविन्दः सन्धौ शिरः प्रक्षिपति; तेनोच्यते: मातुल चौर्यम् अपि न ज्ञायते त्वया कर्तुं; पादौ पूर्वं प्रक्षेप्तव्यं न शिरः; यदि शिरः छिद्यते प्रत्यभिज्ञायते, कुलं सर्वं विनाशम् उपैति; पादौ प्रक्षिप इति; तेन पादौ प्रक्षिप्तौ; ततश् चोरश् चोर इति कोलाहलो जात इति पद्भ्यां गृहीतः; महाजनकायो लग्नः; स एको न शक्नोत्य् आकर्ष्टुं; स शिरश् छित्वा तद् आदाय प्रक्रान्तः; अमात्यै राज्ञो निवेदित: देव एकश् चोरः सन्धिं प्रविष्टो गृहीतः; तस्य को ऽपि शिरश् छित्वा तद् आदाय प्रक्रान्तः; राज कथयति: भवन्तः यः शिरश् (sbv ii 34) छित्वा प्रक्रान्तः स महाचोरः; गच्छत तं कबन्धं चतुर्महापथे स्थापयित्वा प्रतिगुप्ते प्रदेशे तिष्ठत; यस् तं गृहीत्वा
रोदिति तेनैकचोरेण भवितव्यं, गृह्णीत इति; ततस् ते राजपुरुषाः तं कबन्धं चतुर्महापथे स्थापयित्वा प्रतिगुप्ते प्रदेशे स्थिताः; स एकचोरः संलक्षयति: न नाम मया मातुलं कण्ठे गृहीत्वा रोदितव्यं; स उन्मत्तकवेषम् (अ 437ब्) आत्मानं कृत्वा स्त्रियम् अपि कण्ठे गृह्णाति; पुरुषम् अपि वृक्षम् अपि अश्वम् अपि वृषभम् अपि महिषम् अपि छागम् अपि कुक्कुरम् अपि ग्रहीतुम् आरब्धः; यदा लोकेन विज्ञात उन्मत्तको ऽयम् इति तदा तं कबन्धं कण्ठे गृहीत्वा यावदाप्तं रुदित्वा प्रक्रान्तः; राजपुरुषै राज्ञो निवेदितं: देव उन्मत्तकस् तं कबन्धं कण्ठे गृहीत्वा यावदाप्तं रुदित्वा प्रक्रान्त इति; राज कथयति: भवन्तः स एवासाव् एकचोरकः; न शोभनं कृतं यन् न गृहीतः; इदानीं गृह्णीत इति; एकचोरकः संलक्षयति: न नाम मया मातुलः सत्कारयितव्यः? इति; स शाकटिकवेषं कृत्वा काष्ठस्य शकटं पूरयित्वा तं प्रदेशं गतः; तस्योपरि शकटं काष्ठपूर्णं स्थापयित्वा बलीवर्दान् उत्सृज्य शकटे अग्निं दत्वा प्रक्रान्तः; तेन दह्यमानेन स कबन्धो दग्धः; राजपुरुषै राज्ञ निवेदितं: देव स एकचोरको दग्धः; राजा कथयति, केन; तैर् यथावृत्तं समाख्यातं; राजा कथयति: भवन्तो यो ऽसौ शाकटिकः स एवासाव् एकचोरिकः; न शोभनं कृतं यन् न गृहीतः; गृह्णीत इति; स एकचोरिकः संलक्षयति: न नाम मया मातुलस्य श्मशाने पितृकार्यं कृतम् इति; स ब्रह्मणवेषं कृत्वा अधिष्ठाने भिक्षाम् अटित्वा तय तां भिक्षां श्मशाने पक्त्वा पिण्डान् दत्वा प्रक्रान्तः; राजपुरुषै राज्ञो निवेदितं: देव ब्राह्मणेनाधिष्ठाने भिक्षाम् अटित्वा यस्मिन् प्रदेशे स कबन्धो दग्धः तत्र पंच पिण्डान्
दत्वा प्रक्रान्त इति; राजा कथयति: भवन्तः स एवासाव् एकचोरिकः; न शोभनं कृतं यन् न गृहीत इति; एकचोरिकः संलक्षयति: न नाम मया मातुलस्यास्थीनि गंगायां प्रक्षेप्तव्यानि? इति; स कापालिकवेषं कृत्वा तं प्रदेशं गतः; स तत्र गात्रं भस्मना उद्धूलयित्वा अस्थीनां भस्मनां च कर्परकं पूरयित्वा गंगायां प्रक्षिप्य प्रक्रान्तः; राजपुरुषै राज्ञो यथावृत्तम् आरोचितं; राजा कथयति: भवन्तः स एवासाव् एकचोरिकः; (sbv ii 35) न शोभनं कृतं यन् न गृहीतः; सर्वथा तिष्ठत यूयं; अहम् एवैनं गृह्णामि इति; राज्ञा गंगायां नौभिर् उद्यानं कारितं; उभयकूले आरक्षकाः पुरुषाः स्थापिताः; राज्ञो दुहिता अभिरूपा दर्शनीया प्रासादिका तस्मिन् जलोद्याने स्थापिता; उक्ता च यदि त्वां कश्चिद् गृह्णाति रावयिष्यसि इति: आरक्षकपुरुषाणां चाज्ञा दत्ता: यदैषा रावयति तदा युष्माभिर् जलोद्यानं गन्तव्यं; यदि कश्चित् तत्र पुरुषो भवति स गृहीत्वा मां नेयः इति; एकचोरकः संलक्षयति: न नाम मया राजदुहित्र्या सार्धं परिचारयितव्यम् इति; स तत्र गंगायाम् अनुस्रोतो ऽवस्थितः; स तत्र रिक्तपिठरिकान् क्षेप्तुम् आरब्धः; एकः क्षिप्तः; आरक्षकपुरुषाः चोर इति कृत्वा धाविताः; तैर् असौ प्रहारेण भग्नः; द्वितीयः क्षिप्तः; सो ऽपि भग्नः; तृतीयः क्षिप्तः; सो ऽपि भग्नः; आरक्षका रिक्तपिठरिका एत उह्यन्ते इत्य् अप्य् उपेक्षिता व्यवस्थिताः; ततो ऽसाव् एकचोरिकः रिक्तपिठरिकायां शिरः प्रक्षिप्य श्रोतसा उह्यमानस् तं प्रदेशम् आगतः; ततो नावम् अभिरूढो दारिकायाः कथयति: मा शब्दं करिष्यसि; न त्वां प्रघातयिष्यामि इति; सा संत्रस्ता तूष्णीम् अव्स्थिता; तया सार्धं परिचार्य
प्रक्रान्तः; सा प्रलपितुम् आरब्धा: एष चोरो मां परिचार्य गच्छति इति; आरक्षकाः कथयन्ति: यदा परिचारयति तदा तूष्णीं तिष्ठसि; यदा परिचारयित्वा प्रक्रान्तस् तदा रोदिषि; इदानीं कुत्र समन्वेषाम इति; आरक्षकै राज्ञो यथावृत्तम् आरोचितं; राजा कथयति: न शोभनं कृतं यन् न गृहीतः इति; दारिका चोरेण सार्धं परिचारयित्वा आपन्नसत्वा संवृत्ता; सा अष्टानां वा नवानां वा मासानाम् (अ 438अ) अत्ययात् प्रसूता; दारको जातः; एकचोरकेन श्रुतं; स संलक्षयति: न मया पुत्रस्य जन्मनि प्रमोदः कृतः इति; स कांचुकीयम् आत्मानं कृत्वा राजकुलान् निर्गम्य पौरुषेयान् आमन्त्रयते: भवन्तो देव आज्ञापयति पत्तनं लुण्ठयत इति; ते संलक्षयन्ति: राज्ञो नप्ता जातः; तेनास्माभिर् आज्ञा दत्ता; लुण्ठयामः; ते लुण्ठयितुम् आरब्धाः; उच्चशब्दमहाशब्दो जातः; राजा पृच्छति किम् एतद् इति; अमात्यैर् विस्तरेण समाख्यातं; स कथयति: एवम् अप्य् अहं तेन खलीकृतः; राज्यं वा परित्यजामि तस्य वा निग्रहं करोमि इति; तेन विदित्वा मण्डलवाटः कारितः; कंचित् कालं विनोद्य अमात्यानाम् (sbv ii 36) आज्ञा दत्ता: भवन्त अधिष्ठाने एवंविधं घण्टावघोषणं कारयत; यावन्तो पुरुषाः प्रतिवसन्ति तैः सर्वैर् निष्परिहारैर् भूत्वा मण्डलवाटं प्रवेष्टव्यं; यो न प्रविशति तस्य वधो दण्ड इति; आमत्यैर् घण्टावघोषणा कारिता; सर्वे ऽधिष्ठाननिवासिनः पुरुषा प्रविष्टाः; ततो राज्ञा तस्मै दारकाय मालां दत्वा उक्तं: यस् तव पिता तस्मै तां मालाम् अनुप्रयच्छ इति; आरक्षकाश् च पुरुषा उक्ताः: यस्यायं दारको मालां ददाति युष्माभिर् गृहीत्वा मत्सकाशम् उपनेयः इति; ततस् तां पुष्पमालां गृहीत्वा
परिभ्रमितुम् आरब्धो जनकायान् निरीक्षमाणः; तेनासौ चोरो दृष्टः; अचिन्त्यः सत्वानां कर्मविपाकः; तेन तस्मै माला दत्ता; राजपुरुषै एकचोरो गृहीत्वा राज्ञ उपनामितः; राजा अमात्यान् आमन्त्रयते: भवन्तः कथम् अत्र प्रतिपत्तव्यं? इति; ते कथयन्ति; देव प्रघात्यताम् इति; राजा कथयति: भवन्तः कथम् ईदृशो वीरपुरुषः प्रघात्यः; उपसंग्रहो ऽस्य कर्तव्यः इति; तेन तस्मै सा दुहिता सर्वालंकारविभूषिता भार्यार्थं दत्ता; उपार्धराज्येन संविभक्तः. किं मन्यध्वे भिक्षवः? यो ऽसाव् एकचोरिक अहम् एव स तेन कालेन तेन समयेन; यो ऽसौ तस्य पुत्रः एष एवासौ राहुलस् तेन कालेन तेन समयेन; तदाप्य् अनेन मालया विज्ञातः; एतर्ह्य् अप्य् अहम् अनेन मोदकेन विज्ञातः; एवं हि वो भिक्षवो ऽचिन्त्यः सत्वानां कर्मविपाकः इति कर्मपरायणैर् भवितव्यं.
यशोधरा सेएक्स् तो ब्रिन्ग् थे बुद्ध बच्क् तो हेर्
यशोधरा संलक्षयति: यदि राहुलस्य पिता अन्तःपुरं प्रविशति तथाइवानुचरितव्यो यथा न भूयो निर्गच्छति इति; तत आत्मानम् आदौ कृत्वा गोपिकामृगजाप्रमुखानि षष्टिस्त्रीसहस्राणि नानाविधालंकारैर् अलंकृतानि सुरभिमाल्यधूपवस्त्रैर् विभूषितानि; अथ भगवान् पूर्वाह्णे निवास्य पात्रचीवरम् आदाय भिक्षुगणपरिवृतो भिक्षुसंघपुरस्कृतो विनेयजनापेक्षा अन्तःपुरं प्रविष्टः; ततो यशोधरामृगजागोपिकाप्रमुखानि षष्टिस्त्रीसहस्राणि रूपयौवनविभ्रमाशाखेदाकुलविलसितचलितशिथिलमेखलाकलापनिस्वनैर् (अ 438ब्) हसितमधुरगीतमधुनेत्रभ्रूविकारोत्कंपनपयोधरोदरदर्शनांगविस्पष्टचेष्टितैर् भावं दर्शयाम् आसुः; अथ भगवत एतद् अभवत्: सचेद् भोक्ष्ये वैनेयजनकालातिक्रमो भविष्यति; एताः स्त्रियाः कामरागाभिभूताः सत्यानाम् अभाजनभूता (sbv ii 37) भविष्यन्ति; अस्त्य् आशु पृथग्जनस्य रिद्धिर् आवर्जनकरी; यन्न्व् अहम् अन्तःपुरम् ऋद्धिप्रातिहार्येणावर्जयेयम् इति; विदित्वा पूर्वस्यां दिश्य् उपरि विहायसम् अभ्युद्गम्य चतुर्विधम् ईर्यापथं कल्पयति; तद्यथा चंक्रम्यते तिष्ठति निषीदति शय्यां कल्पयति; तेजोधातुम् अपि समापद्यते; तेजोधातुसमापन्नस्य बुद्धस्य भगवतो विविधान्य् अर्चींषि कायान् निश्चरन्ति; तद्यथा नीलानि पीतानि लोहितान्य् अवदातानि मंजिष्ठानि स्फटिकवर्णानि; यमकान्य् अपि प्रातिहार्याणि विदर्शयति; अधःकायः प्रज्वलति, उपरिमात् कायाच् छितला वारिधाराः स्यन्दन्ते, उपरिमः प्रज्वलति, अधःकायाच् छितला वारिधारा स्यन्दन्ते; यथा पूर्वस्यां दिश्य् अवं दक्षिणायां पश्चिमायाम् उत्तरस्यां दिशि इति चतुर्दिशं चतुर्विधम् ऋद्धिप्रातिहार्यं विदर्शयन्
ऋद्ध्यभिसंस्कारान् प्रतिप्रस्रभ्य पुरस्ताद् भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः; अथ ताः स्त्रियो भगवत ऋद्धिप्रातिहार्यं दृष्ट्वा आवर्जिता मूलनिकृन्ता इव द्रुमा भगवतः पादयोर् निपत्य पुरस्तान् निषण्णाः धर्मश्रवणाय; ततो भगवता तासाम् आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरार्यसत्यसंप्रतिवेधिकी धर्मदेशना कृता यां श्रुत्वा गोपिकामृगजाप्रमुखैः षष्टिस्त्रीसहस्रैः स्रोतआपत्तिफलं साक्षात्कृतं; यशोधराया अत्यर्थं कामरागाभिभूताया सत्यदर्शनं न कृतं; तस्या एतद् अभवत्: यन्न्व् अहं भगवन्तं रसतृष्णया अन्वावर्तेयम् इति; विदित्वा स्वयम् एव भगवतो ऽर्थाय अन्नपानं साधयित्वा कथयति: अद्याहं स्वहस्तं भगवन्तं संतर्पयामि इति; श्रुत्वा भिक्षुभिर् भगवत आरोचयन्ति: यशोधरा भदन्त भगवन्तं स्वहस्तं रसतृष्णया अन्वावर्तयितुकाम इति; भगवान् आह: पूर्वम् अहं भिक्षवः सरागः सद्वेषः समोहः रसप्रतिसंवेदी रसरागप्रतिसंवेदी च; एतर्ह्य् अहं विगतरागो विगतद्वेषो विगतमोहो रसप्रतिसंवेदी नो तु रसरागप्रतिसंवेदी; तत् कथम् इदानीं यशोधरा रसतृष्णया अन्वावर्तयति इति. भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: पश्य भदन्त यशोधरा भगवन्तं वशीकरणमोदकेनान्वावर्तयितुकामारब्धा; भगवान् आह: न भिक्षव एतर्हि यथातीते ऽप्य् अध्वनि अहम् अनया मोदकेनान्वावर्तितः; तच् छ्रूयताम् (sbv ii 38)
the story of ṛṣyaśṛṅga
भूतपूर्वं भिक्षवो अन्यतमस्मिन् ग्रामके ऽरण्यायतने पुष्पफलसलिलकन्दसंपन्ने रिषिः (अ 439अ) प्रतिवसति; स कष्टतपा मूलफलाम्बुभक्षो ऽजिनवल्कलवासा; अनेन पंचाभिज्ञाः साक्षात्कृता; तस्य व्याडमृगा अप्य् आश्रमपदे विश्वस्तविहारिणो विहरन्ति; सो ऽन्यतमं प्रदेशं प्रस्रावं कर्तुम् अभिसंप्रस्थितः; मृगी पृष्ठतः समनुबद्धा; तेन सशुकः प्रस्रावः कृतः; स तया मृग्या पीतः; स्त्रीन्द्रियं जिह्वया निर्लीढम्; अचिन्त्यः सत्वानां कर्मविपाकः; आपन्नसत्वा संवृत्ता; प्रसवनकाले तम् एव देशम् आगम्य प्रसूता; दारको जातः; सा गन्धं घ्रात्वा विसभागः सत्वः इति संत्रस्ता मूत्रपुरीषम् उत्सृजन्ती छोरयित्वा प्रक्रान्ता; यावद् असौ रिषिस् तं प्रदेशम् अनुप्राप्तः; तेन स दारको दृष्टः; स समन्वाहर्तुं प्रवृत्तः कस्यायं पुत्रः इति; पश्यति अत्मनः; तेन स्वाश्रमपदं नीत्वा आपायितः पोषितः संवर्धितः; तस्यापि वृद्धिं गच्छतः शिरसि मृगडृङ्गे प्रादुर्भूते; तस्य मृगस्य यादृशे शृङ्गे इति रिष्यशृण्ग इति संज्ञा संवृत्ता; यावद् असौ रिषिर् म्लानः संवृत्तः; स ऋषिः प्रतिरूपैर् भैषज्यैर् उपस्थीयते; न चासौ व्याधिर् उपशमं गच्छति; यदा तस्य मरणान्तिकी वेदना प्रादुर्भूता न चिरेण कालं करिष्यामि इति; तदा तेनासौ पुत्रो ऽभिहितः; पुत्र अस्मिन्न् आश्रमपदे नानादेशनिवासिनः रिषयः कालेन कालम् उपसंक्रामन्ति; ते त्वया मत्प्रियतया स्वागतवादसमुदाचारेण संमोद्य आसनेनोपनिमन्त्रयितव्या यथाशक्तितश् च फलमूलैः प्रतिपाद्याः इत्य् उक्त्वा सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः / संयोगा विप्रयोगान्ता मरणान्तं हि जीवितम्* //
इति कालधर्मेण संयुक्तः; स तेन ऋषिधर्मसमुदाचारेण ध्यापितः; तेन पितृशोकाभिभूतेन संवेगात् पंचाभिज्ञाः साक्षात्कृताः; सो ऽपरेण समयेन सलिलार्थी घटम् आदाय संप्रस्थितः; देवश् च वर्षितुम् आरब्धः; स पानीयघटं पूरयित्वा आगन्तुम् आरब्धः; स्खलितः पतितः; आशुप्रकोपिनो रिषयः; तेन पानीयस्तोकं गृहीत्वा क्षिपता शापो दत्तः; दुराचार त्वया पानीयघटः पूर्णो भग्नः; तस्मात् त्वया इदं दिवसम् उपादाय द्वादशवर्षाणि न वर्षितव्यम् (sbv ii 39) इति; देवो न वर्षितुम् आरब्धः; वाराणस्यां महादुर्भिक्षं प्रादुर्भूतं; जनकायः समन्ताद् विद्रुतः; रज्ञा नैमित्तिका आहूय पृष्टाः: भवन्तः कस्यानुभावाद् देवो न वर्षति इति; ते कथयन्ति: देव रिषिप्रकोपाद् यद्य् अयं रिषिस् तस्मात् तपसः चालयितुं शक्येत, एवं देवो वर्षति, अन्यथा न इति; राजा चिन्तापरो व्यवस्थितः; अन्तःपुरामात्यकुमारैर् उच्यते: देव किमर्थं चिन्तापरः? स कथयति: रिषिप्रकोपाद् देवो न वर्षयति; नैमित्तिकाश् चैवं कथयन्ति, यद्य् असौ रिषिस् तस्मात् तपसश् चाल्यते एवं देवो वर्षयति; अन्यथा न; तन् न विज्ञायते: कस् तं शक्नोति तस्मात् तपशश् चालयितुम् (अ 439ब्) इति; तस्य राज्ञो दुहिता शान्ता नाम; सा कथयति: देव यद्य् एवम् अल्पोत्सुको भव; अहं तथा करिष्यामि यथासौ रिषिस् तस्मात् तपसः चलति इति; स कथयति केनोपायेन? सा कथयति: मां ब्राह्मणकान् मन्त्रान् पाठय अन्यांश् च कन्याः; नौसंक्रमे च आश्रमपदं कारय पुष्पफलसलिलसंपन्नम् इति; तेन ब्राहम्णकान् मन्त्रान् पाठिता अन्याश् च कन्याः, नौसंक्रमे च तादृशम् आश्रमपदं कारितं, ततः तया तानि फलानि वशीकरणद्रव्यैः मद्येन च समापूरितानि; अपराणि च नानाविचित्राणि च फलानि कारितानि; रिषिवेषः कृतः; सा चीवरवल्कलप्रावृता; सा ताभिः कन्याभिः ब्राह्मणकान् मन्त्रान् पाठयन्ती आश्रमपदं गता; रिषेः शिष्यैर् निवेदितम् उपाध्याय बहवस् तवाश्रमपदं रिषय आगताः; स्वागतं रिषीणां प्रविशन्तु इति; ते प्रविष्टाः; स दृष्ट्वा गाथां भाषते: व्यायामहीना च गतिः सलीला मुखानि च श्मश्रुविवर्जितानि / उरांसि चैषां विषमोन्नतानि वेषो ह्य् अपूर्वो ऽयं महारिषीनाम्* //
इति; तेन ता विचिकित्सापर्याकुलीकृतमतिनापि मूलफलैः प्रवारिताः; ताभिस् तानि फलानि परिभुज्य स रिषिर् अभिहितो: युष्माकम् एतानि फलानि कटुकतिक्तकषयानि; अस्माकं त्व् आश्रमो जलमध्ये यत्र फलान्य् अमृतप्रख्यानि; अपि तु त्वम् अस्माभिर् आश्रमपदे उपनिमन्त्रितो भव; तेनाधिवासितं; स ताभिः नौसंक्रमोद्यानम् (sbv ii 40) अभिरोहितः; तस्य तत्र मद्यपूर्णानि वशीकरणद्रव्यसंयुक्तानि नारिकेलफलानि च दत्तानि; स मद्यमदाक्षिप्तो वशीकरणद्रव्ययोगात् तया सार्धं विप्रतिपन्नः रिद्धिपरिहीणः; मेघाः समन्ताद् उन्नताः; वर्षाभिप्राया देवतेति ऋषिणा सन्तर्जिता; शान्ता कथयति: अद्यापि त्वम् आत्मानं न जानीषे को ऽहम् इति; स तया रागपाशपाशितो राज्ञः सकासम् उन्नीतः देव अयं स रिषिः इति; ततो देवो वर्षितुम् आरब्धः; सुभिक्षं प्रादुर्भूतं; राज्ञा सा तस्यैव रिषेर् भार्यार्थं सपरिवारा दत्ता; स शान्तां प्रत्याख्याय ताभिर् अन्याभिः सार्धं परिचारयितुम् आरब्धः; तत्र शान्ता ईर्ष्याकुलीकृतहृदया तस्यासत्कारं कर्तुम् आरब्धा; तत उत्तराद् उत्तरं; स तया सोपानत्केन पादेन शिरसि पराहतः; स संलक्षयति: यो ऽहं मेघस्यापि गर्जितं न सहे स इदानीं रागपाशितः स्त्रीमात्रेणैवं खलीकृतः इति; तेन वीर्यम् आस्थाय पुनर् अपि पंचाभिज्ञाः साक्षात्कृताः. किं मन्यध्वे भिक्षवः? यो ऽसाव् ऋषिर् अहम् एव स तेन कालेन तेन समयेन; यासौ शान्ता एषैव सा यशोधरा; तदाप्य् अहम् अनया रसतृष्णया अन्वावर्तितः; एतर्ह्य् अप्य् एषा मां मोदकेनान्वावर्तितुं प्रवृत्ता.
यशोधरा अत्तेम्प्त्स् तो चोम्मित् सुइचिदे
यदा भगवान् अन्तःपुरान् भुक्त्वा निष्क्रामति तदा यशोधरया नैराश्यम् आपन्नया भर्तुः स्नेहवैमुख्याच् छरणपृष्ठम् अभिरुह्य आत्मा मुक्तः; (अ 440अ) असंमोषधर्माणो बुद्धा भगवतः; सा भगवता ऋद्ध्या प्रतिगृहीता. भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: पश्य भदन्त यशोधरया भगवन्तो ऽर्थाय शरणपृष्ठाद् आत्मा मुक्तः इति; भगवान् आह: न भिक्षव एतर्हि यथातीते ऽप्य् अध्वन्य् अनया ममार्थायात्मा परित्यक्तः; तच् छ्रूयताम् (sbv ii 41)
the story of the kinnara and the kinnarī
भूतपूर्वं भिक्षवो वाराणस्यां नगर्यां ब्रह्मदत्तो नाम राजा बभूव; सो ऽपरेण समयेन मृगवधाय निर्गतः; अनुपूर्वेण पर्वतकन्दरं प्रविष्टः; तेन तत्र किन्नरः किन्नरी च दृष्टा; किन्नरः सुप्तः, किन्नरी जागर्ति; रज्ञा आकर्णं धनुः पूरयित्वा किन्नरः शरेण मर्मनि ताडितः; प्राणैर् वियुक्तः; राज्ञा किन्नरी गृहिता भार्याऋथाय; राजा ताम् आदाय संप्रस्थितः; सा कथयति: देव तिष्ठतु तावत्, अनुजानीहि मां यावद् अस्य किन्नरस्य शरीरपूजां करिष्यामि इति; राजा संलक्षयति: क्व गमिष्यति; पश्यामि तावत् कथम् अस्य शरीरपूजां करोति इति; सा तेन समनुज्ञाता; ततस् तया तं किन्नरं काष्ठैर् अवष्टभ्य चितां प्रज्वाल्यात्मा प्रक्षिप्तः; देवता गाथां भाषते अन्यथा चिन्तितो प्य् अर्थ अन्यथा परिवर्तितः / किन्नरीं रमयामीति कृतं प्राणिवधद्वयम् // इति
किं मन्यध्वे भिक्षवः? यो ऽसौ किन्नर अहम् एव स तेन कालेन तेन समयेन; यासौ किन्नरी एषैव सा यशोधरा; तदाप्य् अनया ममार्थायात्मा चितायां मुक्तः; एतर्ह्य् अप्य् अनया ममार्थायात्मा शरणपृष्ठान् मुक्तः इति.
conversion of yaśodharā
भगवान् संलक्षयति: इदानीं यशोधराया प्राप्तो विनयकालः; यद् अहम् एनां संसारकान्ताराद् उत्तारयेयम् इति विदित्वा तस्य तादृशी चतुरार्यसत्यसंप्रतिवेधिकी धर्मदेशना कृता यां श्रुत्वा यशोधरया विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतआपत्तिफलं साक्षात्कृतं; सा सम्यग् एव श्रद्धया अगाराद् अनगारिकां प्रव्रजिता; यावद् अर्हन्तिनी संवृत्ता; स्वकुलसंशानुरूपतया आर्यमार्गप्रतिलम्भाच् च भिक्षुणीनां मध्ये समुत्पन्नेषु कार्येष्व् अत्यर्थं जिह्रेति; तत्र भगवान् भिक्षून् आमन्त्रयति: एषाग्रा मे भिक्षवो भिक्षुणीनां मम श्राविकानां ह्रीमतीनां यदुत यशोधरा राहुलमाता इति. पुनर् अपि भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: किं भदन्त यशोधरया कर्म (sbv ii 42) कृतं यस्य कर्मणो विपाकेन षड्वर्षाणि कुक्षिणा गर्भो धारितः इति; भगवान् आह: यशोधरयैव भिक्षवः पूर्वम् अन्यासु जातीषु कर्माणि कृतान्य् उपचितानि पूर्ववद् यावद् फलन्ति खलु देहिनाम्.
the story of the two ābhīrīs
भूतपूर्वं भिक्षवो ऽन्यतमस्मिन् गोकुले द्वौ आभीर्यौ प्रतिवसतः; माता च दुह्ता च; ते अभिक्ष्णं मथितघटम् आदाय ग्रामान्तं गच्छतः; तयोर् दुहिता शाठ्यसमुदाचारजाता माता ऋजुका; दुहिता कथयति: अम्ब गृहाण (अ 440ब्) तावन् मथितघटं प्रस्रावं करोमि इति; सागृहीत्वा संप्रस्थिता; सा शाठ्यसमुदाचारेण पृष्ठतो लम्बत एव, न ताम् अनुगच्छति; एवं तयासौ माता षट्क्रोषान् मथितघटं वाहिता. किं मन्यध्वे भिक्षवः? यासाव् आभीरीदुहिता एषा एव सा यशोधरा तेन कालेन तेन समयेन; यद् अनया माता शाठ्यसमुदाचारेण षट्क्रोषान् मथितघटं वाहिता, तस्य कर्मणो विपाकेनानया राहुलः षड्वर्षाणि कुक्षिणा ऊढः इति हि भिक्षव एकान्तकृष्णानाम् कर्मणाम् एकान्तकृष्णो विपाकः पूर्ववद् यावद् एवं वो भिक्षवः शिक्षितव्यम्. भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: किं भदन्त आयुष्मता राहुलेन कर्म कृतं यस्य कर्मणो विपाकेन मातुः कुक्षौ षड्वर्षाण्य् अवस्थितः इति; भगवान् आह: राहुलेनैव भिक्षवः कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययान्य् ओघवत् प्रत्युपस्थितान्य् अवश्यभावीनि; राहुलेन कर्माणि कृतान्य् उपचितानि को ऽन्यः प्रत्यनुभविष्यति; न भिक्षवः कर्माणि कृतान्य् उपचितानि न बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च;
न प्रणश्यन्ति कर्माण्य् अपि कल्पशतैर् अपि / सामग्रीम् प्राप्य कालं च फलन्ति खलु देहिनाम् // (sbv ii 43)
story of śaṅkha and likhita
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
