Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 6/14

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luật tạng

सङ्घभेदवस्तु

Thông tin
GRETIL — R. Gnoli with the assistance of T. Venkatacharya: The Gilgit Manuscript of the Saṅghabhedavastu, Being the 17th and Last Section of the Vinaya of the Mūlasarvāstivādin, Roma 1977-78 (Serie Orientale Roma, 49).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

स भद्रिकेन शाक्यराजेनाहूतः; ततः सर्वैः सम्भूयाभिहितः: देवदत्त वयं सर्वे प्रव्रजामः; त्वं किं करिष्यसि; देवदत्तः संलक्षयति: यदि वक्ष्यामि न प्रव्रजामीति भद्रिकः शाक्यराजो न प्रव्रजिष्यति; तद् उपायसंविधानेन एनान् विप्रलम्भयामि; अपि नु मया यम् एव दिवसं भगवता न्यग्रोधारामे ऋद्धिप्रातिहार्यं विदर्शितं तदैव मे बुद्धिर् उत्पन्ना, यथैवानेन अन्वावर्तिन्या मायया महाजनकायो ऽन्वावर्तितः, तथैव मया अन्वावर्तितव्यः; इति विदित्वा कथयति: देव यूयं प्रव्रजथ; (अ 422अ) अहं किमर्थं तिष्ठामीति; भद्रिकः शाक्यराजः संलक्षयति: मृषावादिको ऽयम्; प्रतिज्ञायां स्थापयित्वा महाजनकायः प्रतिसंविदितः कर्तव्य इति; ततो राज्ञा तस्य तद् वचनं पत्राभिलिखितं कृत्वा कपिलवस्तुनि नगरे घण्टावघोषणं कारितम्: शृण्वन्तु भवन्तः कपिलवस्तुनिवासिनः पौरा, भद्रिकरेवतानिरुद्धदेवदत्तप्रमुखानि पञ्चशाक्यशतानि प्रव्रजिष्यन्ति; श्रुत्वा भवद्भिः प्रामोद्यम् उत्पादयितव्यम् इति; श्रुत्वा देवदत्तस्य महद् दुःखदौर्मनस्यम् उत्पन्नम्; यदि मया विज्ञातम् अभविष्यत् भद्रिकः शाक्यराजो निश्चयेन प्रव्रजेद् इति, न मया प्रतिज्ञातम् अभविष्यत्; इदानीं यदि न प्रव्रजिष्यामि, मृषावादिक इति कृत्वा राज्यम् अपि न लप्स्ये; सर्वथा किम् अत्र प्राप्तकालम्; प्रव्रजामि; प्रव्रजित एव राज्यम् कारयिष्यामीति

ordination of five hundred śākyas

अथ राज्ञः शुद्धोदनस्य एतद् अभवत्: अपश्चिमां शाक्यानां विभूतिं पश्यामीति; तेन तन् नगरम् अपगतपाषाणाशर्करकठल्लं व्यवस्थापितं, चन्दनवारिपरिषिक्तम् उच्छ्रितध्वजपताकम् आमुक्तपट्टदामकलापं सुरभिधूपघटिकोपनिबद्धं नानापुष्पावकीर्णं रमणीयम्; ततः अनेकशाक्यशतसहस्रपरिवारः नगरद्वारे सिंहासने निषण्णः; शाक्यस्त्रियः शाक्यकुमार्याश् च कुतूहलजाता गवाक्षवातायनवेदिकास्व् अवस्थिताः, शाक्यानाम् विभूतिं द्रष्टुकामः (sbv i 204) नानादेशभ्यागतश् च जनकायः रथ्यावीथीचत्वरशृङ्गाटकेषु; नैमित्तिका ब्राहमणा विपञ्चनका आहूताः शाक्यपरीक्षां प्रति, को ऽत्राराधकः को न वेति; अथ शाक्या मातापित्राव् अवलोक्य हारकटककेयूराद्यलङ्कारविभूषिताः प्रत्येकप्रत्येकं रथेष्व् अभिरुह्य निर्गन्तुम् आरब्धाः; पूर्वं भद्रिकः शाक्यराजो निर्गतः; नैमित्तिकैर् दृष्टः; ते कथयन्ति: एष तावद् आराधको भविष्यतीति; एवं रेवतानिरुद्धप्रभृतयो निर्गताः; ते ऽपि नैमित्तिकैर् व्याकृताः; ततो देवदत्तो निर्गतः; तस्य निर्गच्छतः श्येनकेन शकुनकेन चूडामणिर् अपहृतः; नैमित्तिकैर् दृष्टः; ते कथयन्ति: यादृशम् अस्य निमित्तं नियतम् अयं शास्तरि प्रहृत्य नरकपरायणो भवतीति; कोकालिकखण्डद्रव्यकटमोरकतिष्यसमुद्रदत्तानां निर्गच्छतां खरेण वाशितम्; ते ऽपि नैमित्तिकैर् व्याकृताः: एते ऽपि महाश्रावकेषु वाग्दुश्चरितं कृत्वा नरकपरायणा भविष्यन्ति इति; उपनन्दस्य हस्तिस्कन्धाभिरूढस्य इतश् चामुतश् च व्यवलोकयतो मुक्ताहारः पतितः; स हस्तिस्कन्धाद् अवतीर्य गृहीतः; सो ऽपि व्याकृतः: अनेनात्यन्तलोभान् नरकेषूपपत्तव्यम् इति; ततस् तेषां शाक्यानां

भद्रिकानिरुद्धदेवदत्तप्रमुखानि पञ्चशाक्यशतानि उद्यानयात्राप्रतिस्पर्धया शोभया येन भगवांस् तेनोपसङ्क्रान्तानि; भगवान् संलक्षयति: सचेद् अहं शाक्यान् एहिभिक्षुकया प्रव्राजयिष्यामि केचिद् आराधका भविष्यन्ति, केचिद् अनाराधकाः; ये अनाराधकास् तेषां भविष्यत्य् अन्यथात्वम्; सर्वश् चैहिभिक्षुश् चरमभविकः; यन्व् अहं सर्वान् एव भिक्षून् (अ 422ब्) ज्ञप्तिचतुर्थेन कर्मणा प्रव्राजयेयम् उपसंपादयेयम्; इति विदित्वा भिक्षून् आमन्त्रयते: प्रव्राजयत भिक्षवः कापिलवास्तवान् शाक्यान्, उपसंपादयत ज्ञप्तिचतुर्थेन कर्मणा इति; एवं भदन्तेति ते भिक्षवो भगवतः प्रत्यश्रौषुः

उपालिन्, थे बर्बेर्

शाक्यानाम् उपाली नाम कल्पकः राज्ञा शुद्दोदनेन तेषां प्रव्रजतां केशावरोपकः प्रेषितः; भद्रिकस्य शाक्यराजस्य केशान् अवतारयन् सो ऽश्रुदुर्दिनवदनो बाष्पोपरुद्ध्यमानहृदयो मुहुर् (sbv i 205) निश्वासपरायणः केशान् अवतारयति; भद्रिकः शाक्यराजः कथयति: उपालिन् किमर्थं रोदिषि? स करुणदीनविलम्बितैर् अक्षरैः कथयति: देव मया जम्बूद्वीपप्रधानानां पुरुषाणाम् उपस्थानं कृत्वा, इदानीं प्राकृतपुरुषाणाम् उपस्थानं कर्तव्यं भविष्यति; कामं प्राणवियोगः, न युष्माभिः परित्यक्तस्य जीवितम् इति; भद्रिकः शाक्यराजः कथयति: अलम् उपालिन् दर्शितस् त्वया स्वामिभक्त्यनुरागः; नियच्छ शोकम्; अहं तथा करिष्यामि यथा प्राकृतपुरुषाणाम् उपस्थानं न करिष्यसि; इति विदित्वा तेनैकस्मिन् प्रदेशे पटकः प्रसारितः, शाक्यकुमाराश् च अभिहिताः: शृण्वन्तु भवन्तः कुमारा एषो ऽस्माकम् उपाली कल्पकः कृतोपस्थानः; तद् अस्य जीविकानिमित्तम् अलङ्कारं पटे स्थापयत; नास्माभिः पुनर् अगारे वस्तव्यम् इति; तैर् हारार्धहारकटककेयूरकुण्डलानां नानारत्नप्रत्युप्तानाम् अलङ्कारविशेषाणां पटके महान् राशिः कृतः; उपालिना तेषाम् अनुपूर्वेण केशावरोपणं कृतम्; ते स्नातुं गताः; स संलक्षयति: इमे तावत् कुमाराः कुलविभवयौवनोपेताः स्फीतान्य् अन्तःपुराणि, स्फीतानि कोशकोष्ठागाराण्य् अपास्य प्रव्रजिताः; अहम् अस्मिन्न् अलङ्कारमात्रे सक्तो ऽनयेन व्यसनम् आपत्स्ये; यद्य् अहं न नीचकुलोत्पन्नः स्याम्, अहम् अपि स्वाख्याते धर्मविनये प्रव्रज्योद्युज्येयं, घटेयं, व्यायच्छेयम्, ओघानाम् उत्तरणाय, योगानां समतिक्रमणायेति धर्मता ह्य् एषा यथा बुद्धा भगवन्तस् त्री रात्रेः, त्रिर् दिवसस्य

बुद्धचक्षुषा लोकं व्यवलोकयन्ति, एवं महाश्रावका अपि; अद्राक्षीद् आयुष्मान् शारिपुत्रः उपालिनं कल्पकम् अतीव संविग्नम्; दृष्ट्वा च पुनर् येनोपाली कल्पकस् तेनोपसङ्क्रान्तः; उपसङ्क्रम्य उपालिनं कल्पकम् इदम् अवोचत्: कस्मात् त्वम् उपालिन् अतीव संविग्नः करे कपोलं दत्वा चिन्तापरस् तिष्ठसीति; स कथयति: कथम् अहं भदन्त शारिपुत्र न चिन्तापरो भवामि यत्रेदानीम् अमी कुमाराः कुलविभवयौवनोपेताः स्फीतान्य् अन्तःपुराणि स्फीतानि च कोशकोष्ठागाराण्य् अपास्य प्रव्रजिताः; अहम् अस्मिन्न् अलङ्कारमात्रे सक्तो ऽनयेन व्यसनम् आपत्स्ये? यद्य् अहं न नीचकुलोत्पन्नः स्याम् अहम् अपि स्वाख्याते धर्मविनये प्रव्रज्य उद्युज्येयं, घटेयं, (sbv i 206) व्यायच्छेयम् ओघानाम् उत्तरणाय, योगानां समतिक्रमणायेति; आयुष्मान् शारिपुत्रः कथयति: भद्रमुख नेदं मुनीन्द्रप्रवचनं जातिसारकं, न गोत्रसारकं, न श्रुतसारकम्; अपि तु प्रतिपत्तिसारकम् इदं मुनीन्द्रप्रवचनम्; (अ 423अ) न जातिकुलगोत्राणि परीक्षन्ते तथागताः; कर्माणि तु परीक्षन्ते चिरकालकृतान्य् अपि; सचेद् आकाङ्क्षसि स्वाख्याते धर्मविनये प्रव्रज्याम् उपसंपदां भिक्षुभावम्, एहि भगवत्सकाशं गच्छाव; प्रव्राजयिष्यति ते भगवान् इति; तेनाधिवासितम्

उपालिन् ओर्दैनेद्

अथायुष्मान् शारिपुत्रः उपालिनं कल्पकम् आदाय येन भगवांस् तेनोपसङ्क्रान्तः; उपसङ्क्रम्य भगवतः पादौ शिरसा वन्दित्वा भगवन्तम् इदम् अवोचत्: अयं भदन्त उपाली आकाङ्क्षते स्वाख्याते धर्मविनये प्रव्रज्याम् उपसंपदं भिक्षुभावम्; ततो भगवान् प्रव्राजयतु, उपसंपादयतु, अनुकम्पाम् उपादायेति; स भगवता आभाषितः एहि भिक्षो चर ब्रह्मचर्यम् इति; भगवतो वाचो ऽवसानसमनन्तरम् एव मुण्डः संवृत्तः, सङ्घाटीप्रावृतः, पात्रकरकव्यग्रहस्तः, सप्ताहावरोपितकेशश्मश्रुः, वर्षशतोपसम्पन्नस्य भिक्षोर् ईर्यापथेनावस्थितः; आह चात्र: एहीति चोक्तः स तथागतेन मुण्डश् च सङ्घाटिपरीतदेहः / सद्यः प्रशान्तेन्द्रिय एव तस्थौ नेपथ्यितो बुद्धमनोरथेन //

शाक्याः प्रव्रजिताः यथावृद्धिकया सामीचीं कार्यन्ते; भद्रिकेन शाक्यराजेन सामीचीं कुर्वता उपालिनः पादौ प्रत्यभिज्ञातौ, ततो मुखं व्यवलोकितम्; स कथयति: भगवन्न् एष उपाली; किम् अस्यापि मया पादयोर् निपतितव्यम् इति; भगवान् आह: वत्स मानप्रहाणाय प्रव्रज्या; तवैष वृद्धो निहतमदमानः; निपतेति; स तस्य पादयोर् निपतितः; षड्विकारं पृथिवीकम्पो जातः; इयं महापृथिवी चलति, संचलति, संप्रचलति; व्यथते, प्रव्यथते संप्रव्यथते; पूर्वा दिग् उन्नमति; पश्चिमावनमति; पश्चिमा उन्नमति; पुर्वा अवनमति; दक्षिणा उन्नमति; उत्तरा अवनमति; उत्तरा उन्नमति; दक्षिणा अवनमति; (sbv i 207) मध्य उन्नमति, अन्तो ऽवनमति; अन्त उन्नमति, मध्यो ऽवनमति; एवम् अनुपूर्वेण निपतिताः; देवदत्तो न निपतति; भगवान् कथयति: वत्स मानप्रहाणाय प्रव्रज्या, निपतेति; स कथयति; तव किं विद्यते? नाहम् अस्य पादयोर् निपतामीति; स न निपततीति तत्र देवदत्तेन भगवतस् तत्प्रथमतः आज्ञा प्रतिव्यूढा भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: पश्य भदन्त भद्रिकेन शाक्यराजेन उपालिनो वन्दनायां कृतायां षड्विकारं पृथिवीकम्पो जातः इति; भगवान् आह: न भिक्षव एतर्हि, यथातीते ऽपि अध्वन्य् एषा धर्मता; यो ऽसौ पादयोर् निपतितः; षड्विकारश् च पृथिवीकम्पो जातः; तच् छ्रूयताम्

सुन्दर, थे स्तुदेन्त्, अन्द् भद्रा, थे हर्लोत्

भूतपूर्वं भिक्षवो वाराणस्यां नगर्यां ब्रह्मदत्तो नाम राजा राज्यं कारयति, ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च; तेन खलु समयेन वाराणस्यां नगर्यां भद्रा नाम रूपाजीविनी प्रतिवसति; सुन्दराश् च नाम्ना माणवकः; स तस्याः सकाशम् उपसङ्क्रान्तः कथयति: भद्रे आगच्छ परिचारयाम इति; सा कथयति; सन्ति ते पञ्च कार्षापणशतानीति; (अ 423ब्) स कथयति, न सन्ति; गच्छ, पञ्च कार्षापणशतानि गृहीत्वा आगच्छ; तस्य विभवो नास्ति; स तस्याम् अत्यर्थम् अध्यवसितः; कालेन कालं नानाविचित्राणि पुष्पाणि, फलानि चोपनाम्यति; तस्यास् तस्मिन्न् अनुनय उत्पन्नः; यावद् अपरेण समयेन वाराणस्यां पर्वा प्रत्युपस्थितः; सर्वास् स्त्रियो वस्त्रमाल्यालङ्कारविभूषिताः स्वकस्वकेषु क्रीडारतिहर्षबहुला अवतिष्ठन्ते; ता दृष्ट्वा सुन्दरो माणवः परितस्यति; भद्रा रूपाजीविनी संलक्षयति: अद्य वाराणसेया मनुष्या वस्त्रालङ्कारविभूषिता स्वकस्वकाभिः स्त्रीभिः सार्धं परिचारयिष्यन्ति; सुन्दरो माणवकः मया सार्धं परिचारयिष्यति; सा चैवं चिन्तयति; सुन्दरश् च माणवकस् तं प्रदेशम् अनुप्राप्तः; सा तं दृष्ट्वा पूर्वोपकारसञ्जनितसौमनस्या कथयति: माणव गच्छ; सुगन्धानि पुष्पाण्य् आदायागच्छ; मया सार्धं परिचारयिष्यसीति; स नष्टोपलब्धप्राण इव विस्मयावर्जितसन्ततिः प्रक्रान्तः; तस्या रूपयौवनचातुर्यगुणान् विकल्पयन् मदाविष्टः कृत्स्नां रात्रिं जागरितः; प्रभातायां रजन्याम् अत्यर्थमिद्धर्पर्याकुलीकृतनयनस् तावत् सुप्तो यावद् आधित्योदय इति; सर्वोपयोगाय लोकेन यदा सर्वाणि पुष्पाण्य् उच्चितानि तदा प्रतिविबुद्धः; पुष्पनिमित्तम् इतश् (sbv i 208) चामुतश् च परिभ्रमति; नारागयति; शिरीषपुष्पाण्य् आदाय तस्याः सकाशम् उपसङ्क्रान्तः; सा गाथां भाषते: अलसो ऽजिनधार्य् अकर्मशीलो बटुकः सुन्दरको निरर्धमाषः / परिपुष्पितपादपे ऽद्य काले प्रददात्य् एष हि यच् छिरीषपुष्पम् //

इति विदित्वा कथयति: गच्छ अन्यानि पुष्पाण्य् आदायागच्छेति; कामान् खलु प्रतिसेवमानस्य संयोजनान्य् उपचयं गच्छन्तीति स प्रवृद्धकामरागो ग्रीष्मणां पश्चिमे मासे व्यभ्रे दिने विगतबलाहके, स्थिते मध्याह्नसमये, नगराद् अतिविप्रकृष्टदेशेष्व् अरण्येषु वक्त्रापरवक्त्रं गायन् पुष्पाण्य् उच्चिनोति; राजा च ब्रह्मदत्तो मृगवधाय निर्गतः; स तीक्ष्णार्करश्मिसन्तापितः छायायाः शीतलं प्रदेशम् अनुप्राप्तः; तस्य गीतशब्दं श्रुत्वा गाथां भाषते: ऊर्ध्वं तपति आदित्यः अधस्ताद् दहति वालुका / कस्माद् गायसि गात्राणि न ते दहति आतपः // इति;

सुन्दरको ऽपि गाथां भाषते: न मां तापयत्य् आदित्यः सङ्कल्पास् तापयन्ति माम् / कार्याकार्याणि लोके ऽस्मिंस् तापयन्ति तु नातपः // इति;

राजा संलक्षयति: नूनम् अयं माणवः शैत्यकथासु कृतावी येन स्थिते मध्याह्नसमये पुष्पाण्य् उच्चिनोतीति; स तेनाभिहितः: कुरु माणव शैत्यां तावत् कथाम्; शृणोमीति; स संलक्षयति; नूनम् अस्य राज्ञः शरीरदाहः, येनैवं वदतीति; तेन तस्य विचित्रा शैत्यकथा कृता, यां श्रुत्वा राज्ञः शरीरदाहः प्रतिविगतः; राजा अभिप्रसन्नः; अमात्यान् पृच्छति; भवन्तो यो राज्ञो क्षत्रियस्य मूर्धाभिषिक्तस्य जीवितम् अनुप्रयच्छति, तस्य कः प्रत्युपकारः? देव उपार्धराज्यम्; ततस् स राज्ञा अभिहितः; माणव अद्य राजकुले वासं कल्पयस्व; उपार्धराज्यं ते प्रयच्छामि इति; तस्य राजकुले प्रणीतं शयनासनं दत्तम्; स तस्मिन् शयितः भद्राम् अनुस्मृत्य चिन्तयति; तद् उपार्धराज्यं गृह्णामि यत्र भद्रा रूपाजीविनी इति; भूयः संलक्षयति: कीदृशः स राजा यत्र उपार्धराज्यं भुङ्क्ते; यन्व् अहम् एनम् जीविताद् व्यपरोपयेयम् इति; पुनः संलक्षयति: (अ 424अ) अलम् अनेन राज्येन यद् राजानं प्रघात्य इति; ग्मथां च भाषते: (sbv i 209) अप्राप्ते अर्थतर्षः प्राप्ते चार्थे न तर्षविनिवृत्तिः / अप्राप्ते च विघातस् तस्माद् अर्थे मतिर् अनर्थाय //

इति यावत् प्रभाता रजनी संवृत्ता, स विप्रतिसारजातः शयनाद् अवतीर्य कृष्णाजीनम् आस्तीर्य भूमौ शयितः; प्रभातायां रजन्यां राजा कथयति: भवन्तः शब्दयत तं माणवम्; उपार्धराज्यं तस्मै अनुप्रयच्छामीति; राजदूता गताः पश्यन्ति; महाशयनाद् अवतीर्य भूमौ शयितः; दृष्ट्वा च पुनर् अप्रसादं प्रवेदयन्तो राज्ञः सकाशं गताः कथयन्ति: देव नासाव् अर्हति राज्यम्; राजा कथयति, किमर्थम्? ते कथयन्ति: देव यो हि नाम प्रणीतं शयनासनम् अपहाय भूमौ कृष्णाजिने शयितस् तस्य हीनाधिमुक्तस्य किं राज्येनेति; राजा कथयति: भवन्तः स प्राज्ञः, कारणेनात्र भवितव्यम्; शब्दयत इति; तैर् असौ शब्दितः: राज्ञा पृष्टः: भो माणव किमर्थं त्वं महाशयनासनाद् कृष्णाजिने शयित इति; तेन यथावृत्तं राज्ञे समाख्यातम्; ततः कथयति: देव अनुजानीहि प्रव्रजामीति; राजा कथयति: समयतो ऽनुजानामि; यदि प्रव्रजित्वा किञ्चिद् गुणगणम् अधिगच्छसि ममारोचयितव्यम् इति; तेन प्रतिज्ञातम् एवं भवत्व् इति; ततस् तेन शान्तं प्रदेशं गत्वा अनाचार्यकेण अनुपाध्यायकेन प्रत्येकबोधिर् अनुगता; स प्रत्येकबुद्धः संलक्षयति; मया तस्य राज्ञः प्रतिज्ञातम्; गच्छामि तां पूर्विकां प्रतिज्ञां निर्यातयामि इति; स राज्ञः सकाशं गत्वा उपरि विहायसम् अभ्युद्गम्य ज्वलनतपनवर्षणविद्योतनप्रातिहार्याणि कर्तुम् आरब्धः; राजा तस्य पादयोर् निपत्य गाथां भाषते: पश्याल्पकल्पप्रभवं विपाकं महान् विशेषो ह्य् उपगेन लब्धः / लाभाः सुलब्धा बत माणवेन यत् प्राव्रजत् किं कुशलं गवेषी //

गङ्गापाल, थे बर्बेर्

राज्ञो ब्रह्मदत्तस्य गङ्गापालो नाम कल्पकः; तेनासौ सुन्दरप्रोक्तां गाथां गाथां ग्राहितः; उक्तश् च: गङ्गापाल भूयो भूयः माम् एतां गाथां स्मारयिष्यसीति; गङ्गापालः कल्पकः स्वशिल्पे अत्यर्थं कृतावी; स यदा राज्ञो ब्रह्मदत्तस्य श्मश्रुकर्म करोति तदासौ मिद्धम् अवक्रामति; रिच्छतया प्रबोध्यते; प्रबुद्धश् (sbv i 210) च गङ्गापालं वरेण प्रवारयति, वद कं ते वरम् अनुप्रयच्छामीति; स कथयति, देव विज्ञापयिष्यामीति; यदा गङ्गापालो राजानं गाथां स्मारयति तदा राज्ञः कामकथायाम् अपि चित्तं न क्रामति; प्राग् एव कामाध्याचरणे; सो ऽन्तःपुरं अन् व्यवलोकयति; अन्तःपुरिकाः क्लेशमदाविष्टाः गङ्गापालस्य कथयन्ति: मातुल यदा ते देवो वरेण प्रवारयति, तदा वक्तव्यम्, यदि मे देवो ऽभिप्रसन्नः तद् अस्या गाथाया अर्थं विस्तरेण संप्रकाशयेद् इति; राज्ञा तस्या गाथाया अर्थो विस्तरेण संविभक्तः; स संविग्नः पादयोर् निपत्य कथयति: देव कृतोपस्थानो ऽहम्; प्रव्रजाम्य् अगाराद् अनगारिकाम् इति; राजा कथयति: यदि प्रव्राजितः किञ्चिद् गुणगणम् अधिगमिष्यसि मम निवेदयिष्यसीति; स कथयति: देव एवं भवतु निवेदयिष्यामीति; (अ 424ब्) स गत्वा ऋषीणां मध्ये प्रव्रजितः; तेन पञ्चाभिज्ञाः साक्षात्कृताः; तस्यैतद् अभवत्: मया राज्ञो ब्रह्मदत्तस्य प्रतिज्ञातम्; गच्छामि, तां पूर्विकां प्रतिज्ञां निर्यातयामीति; स येन राजा ब्रह्मदत्तस् तेन उपसङ्क्रान्तः; उपसङ्क्रम्य उपरि विहायसम् अभ्युद्गम्य ज्वलनतपनवर्षणविद्योतनप्रातिहार्याणि कर्तुम् आरभः; अस्ति पृथग्जनस्य ऋद्धिर् आवर्जनकरी; स पादयोर् निपत्य कथयति: आर्य त्वया एवंविधगुणगणा अधिगताः? अधिगताः; राजा ब्रह्मदत्तः गङ्गापालस्य ऋषेः <पादयोर् निपतति> षड्विकारः पृथिवीकम्पो जातः; माता चास्य गाथां भाषते: एतत् ते देवाम्रवणं ब्रह्मदत्तस्य धीमतः / प्रविभज्य हि यत्रैष प्राव्रजत् क्षुरभाण्डिकम् // इति; राजा ब्रह्मदत्तो मातरम् अनुसंज्ञपयन् गाथां भाषते: मा वोचत ग्ङ्गपालम् एवं किञ्चिन् मौनपदेषु शिक्षमाणम् / तस्यैष हि दुष्करस्य कर्ता यत्कृत्वा पृथुबुद्धयो भवन्ति //

तपसा ह्य् अभिभूय सर्वपापम् तपसा चाप्य् अभिभूय सर्वलोकम् / तपसा ह्य् अभिभूय कर्मभाण्डम् तपसा भाति न वाच्य एष किञ्चित् // इति; (sbv i 211) किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन ब्रह्मदत्तो नाम राजाभूद् एष एव स भद्रिकः शाक्यराजः; यो ऽसौ गङ्गपालनामा ऋषिर् एष एवासाव् उपाली; तदापि भद्रिकेन शाक्यराजेन ब्रह्मदत्तभूतेन उपालिनो गङ्गपालऋषिभूतस्य प्रणामे कृते षड्विकारः पृथिवीकम्पो जातः; एतर्ह्य् अपि भद्रिकेन शाक्यराजेन उपालिनः प्रव्रजितस्य प्रणामे कृते षड्विकारः पृथिवीकम्पो जात इति.

appendix ii

conversion of nandā and nandabalā

अथ भगवान् नन्दां च नन्दबलां च ग्रामिकदुहितरौ धार्म्यया कथया सन्दर्शयित्वा समादापयित्वा समुत्तेजयित्वा संप्रहर्षयित्वोत्थायासनात् प्रक्रान्तः

marvellous deeds of the buddha before urubilvā kāśyapa

अ) थे बुद्ध सुब्दुएस् अ नाग

(cps 24a.1) अथ भगवतः सेनायनग्रामकात् प्रक्रम्यैतद् अभवत्: अस्तीह मगधेषु जनपदेषु कश्चिच् छ्रमणो वा ब्राह्मणो वा सुशीलः संमतो यम् अहम् अन्वावर्तयेयं यस्मिन् मे ऽन्वावृत्ते ऽल्पकृच्छ्रेण महाजनकायो ऽन्वावर्तिष्यते; तेन खलु समयेनोरुबिल्वाकाश्यपो जटिलो जीर्णो वृद्धो महल्लको; स विंशतिवर्षशतिको जात्या मागधकानां मनुष्याणां सत्कृतो गुरुकृतो मानितो पूजितो ऽर्हन् संमतः; पंचशतपरिवारो नद्या नैरंजनायास् तीर आश्रमपदे शाम्यते; अथ भगवत एतद् अभवत्: अयम् उरुबिल्वाकाश्यपो जटिलो जीर्णो महल्लकः पूर्ववद् यावच् छाम्यते; यन्व् अहम् उरुबिल्वाकाश्यपं जटिलम् अन्वावर्तयेयं यस्मिन् मे ऽन्वावृत्ते ऽल्पकृच्छ्रेण महाजनकायो ऽन्वावर्तिष्यते (cps 24a.4) अथ भगवान् येनोरुबिल्वाकाश्यपस्य जटिलस्याश्रमपदं तेनोपजगाम; अद्राक्षीद् उरुबिल्व्लाकाश्यपो जटिलो भगवन्तं दूरत एव; दृष्ट्वा च पुनर् भगवतो ऽर्थायासनं प्रज्ञप्य भगवन्तम् इदम् अवोचत्: आगच्छ महाश्रमण स्वागतं महाश्रमण; महाश्रमणश् चिरचिरस्य पर्यायम् अकार्षीद् इहागमनाय; निषीदतु महशृअमणः प्रज्ञप्त एवासने; न्यषीदद् भगवान् प्रज्ञप्त एवासने; अथोरुबिल्वाकाश्यपो भगवता सार्धं संमोदनीं संरञ्जनीं विविधां कथां व्यतिसार्यैकान्ते न्यषीदत्; (sbv i 218) एकान्तनिषण्णं भगवान् उरुबिल्वाकाश्यपं जटिलम् इदम् अवोचत्: यदि ते काश्यप अगुर्व् अहं तवाग्न्यागार एकरात्रीं विहरेयं; न मे महाश्रमण अगुरु; अपि तु तत्राशीविषो नागः प्रतिवसति; मा ते स विहेठयिष्यति; अङ्ग त्वं काश्यप अनुजानीहि न मे स विहेटयिष्यति; सचेन् महाश्रमण न ते विहेठयति तत्र महाश्रमण विहर

यथासुखम् एव; (cps 24a.9) अथ भगवान् बहिर् अग्न्यागारस्य पादौ प्रक्षाल्य अग्न्यागारं पर्विश्य न्यषीदत् पर्यङ्कम् आभुज्य ऋजुं कायं प्रणिधाय प्रतिमुखां स्मृतिम् उपस्थाप्य; अद्राक्षीद् आशीविषो नागो भगवन्तं दूरत एव; दृष्ट्वा च क्रोधानुभावेन धूमयति; भगवान् अप्य् ऋद्ध्यानुभावेन धूमयति; अथाशिविषो नागः क्रोधानुभावेन प्रज्वलितः; भगवांश् च तेजोधातुसमाधिं समापन्नः; अथाशीविषस्य नागस्य क्रोधानुभावेन भगवतश् च ऋद्ध्यानुभावेन सर्वो ऽग्न्यागार आदीप्तः प्रदीप्तः संप्रज्वलित एकज्वलीभूतो ध्यायति; अद्राक्षीद् उरुबिल्वाकाश्यपो जटिलो रात्र्याः प्रत्यूषसमये नक्षत्राणि व्यवलोकयमानः सर्वम् अग्न्यागारम् आदीप्तं प्रदीप्तं संप्रज्वलितम् एकज्वलीभूतं ध्यायन्तं; (cps 24a.13) दृष्ट्वा च तस्यैतद् अभवत्: तथा प्रासादिको महाश्रमणः; मा हैवाशीविषेण नागेन भस्मीकृतो भविष्यति; हा कष्टं मम वचनं नाश्रौषीत्; अथ भगवत एतद् अभवत्: धर्मदेशनार्थाय उरुबिल्वाकाश्यपस्य जटिलस्य सपरिषत्कस्य यन्व् अहं तद्रूपान् ऋद्ध्यभिसंस्कारान् अभिसंस्कुर्यां यथाशीविषस्य नागस्य तेजसा तेजः पर्यादद्यां न चास्य कायः क्लाम्येत दान्तं च तं कृत्वा पात्रेणादाय उरुबिल्वाकाश्यपस्य जटिलस्य प्रयच्छेयम्; अथ भगवान् तद्रूपान् ऋद्ध्यभिसंस्कारान् अभिसंकरोति यथा समाहिते चित्ते आशीविषस्य नागस्य तेजसा तेजः पर्याददाति न चास्य कायः क्लाम्यति; दान्तं च तं कृत्वा पात्रेणादाय येनोरुबिल्वाकाश्यपो जटिलस् तेनोपजगाम; (cps 24a.17) अद्राक्षीद् उरुबिल्वाकाश्यपो जटिलो भगवन्तं दूरत एव; दृष्ट्वा च भगवन्तम् इदम् अवोचत्: जीवसि महाश्रमण; जीवामि काश्यप; किं

नु ते महाश्रमण पात्रे; यस्य ते काश्यप आशीविषस्य नागस्यानुभावेन तवाग्न्यागार् ....... स मया दान्तः कृत्वा पात्रेणानीतः; अथोरुबिल्वाकाश्यपस्य जटिलस्यैतद् अभवत्: आश्चर्यं यावन् महर्द्धिको महाश्रमनो महानुभावः; अपि त्व् अहम् अप्य् अर्हन्

b) the buddha hinders the lighting of the fires of kāśyapa's students

(cps 24b.1) तत्रेदानिं भगवान् उरुबिल्वाकाश्यपस्य जटिलस्याश्रमपदे विहरति वनगुल्मके; तेन खलु समयेनोरुबिल्वाकाश्यपस्य जटिलस्याश्रमपदे पञ्च माणवशतानि अग्निं परिचरन्ति; एकैकस् त्रीण्य् (sbv i 219) अग्निकुण्डानि संक्षेपेण पञ्चदशाग्निकुण्डशतानि; अथ ते माणवका अग्निं प्रज्वालयित्वा परिचर्तुकामा न शक्नुवन्ति प्रज्वालयितुम्; अथ ते माणवका येनोरुबिलाकाश्यपो जटिलस् तेनोपजग्मुः; उपेत्योरुबुल्वाकाश्यपं जटिलम् इदम् अवोचत्: इह वयम् उपाध्यायाग्निं प्रज्वालयित्वा परिचर्तुकामा न शक्नुमः प्रज्वालयितुम्; (cps 24b.5) अथोरुबिल्वाकाश्यपस्य जटिलस्यैतद् अभवत्: महाश्रमणो ऽस्माकं सामन्तके प्रतिवसति; मा हैव तस्यानुभावो भविष्यति; अथोरुबिल्वाकाश्यपो जटिलो येन भगवांस् तेनोपजगाम; उपेत्य भगवन्तम् इदम् अवोचत्: इहास्मकं महाश्रमण ते माणवका अग्निं प्रज्वालयित्वा परिचर्तुकामा न शक्नुवन्ति प्रज्वालयितुम्; तस्य मे एतद् अभवत्: महाश्रमणो ऽस्माकं सामन्तके प्रतिवसति मा हैव तस्यानुभावो भविष्यति; (cps 24b.8) प्रज्वलतु काश्यपाग्निः; प्रज्वलतु महाश्रमण; अथ सो ऽग्निः स्वयम् एव प्रज्वलितो यथापितद् बुद्धस्य बुद्धानुभावेन देवतानां च देवतानुभावेन; अथोरुबिल्वाकाश्यपस्य जटिलस्यैतद् अभवत्: आश्चर्यं यावन् महर्द्धिको महाश्रमणो महानुभावः; अपि त्व् अहम् अप्य् अर्हन्

c) the buddha hinders the extinction of the fire of kāśyapa's students

(cps 24c.1) तत्रेदानीं भगवान् उरुबिल्वाकाश्यपस्य जटिलस्याश्रमपदे विहरति वनगुल्मके; अथ ते माणवका अग्निं परिचरित्वा निर्वापयितुकामा न शक्नुवन्ति निर्वापयितुम्; अथ ते माणवका येनोरुबिलाकाश्यपो जटिलस् तेनोपजग्मुः; उपेत्योरुबुल्वाकाश्यपं जटिलम् इदम् अवोचत्: इह वयम् उपाध्यायाग्निं परिचरित्वा निर्वापयितुकामा न शक्नुमो निर्वापयितुम्; (cps 24c.4) अथोरुबिल्वाकाश्यपस्य जटिलस्यैतद् अभवत्: महाश्रमणो ऽस्माकं सामन्तके प्रतिवसति; मा हैव तस्यानुभावो भविष्यति; अथोरुबिल्वाकाश्यपो जटिलो येन भगवांस् तेनोपजगाम; उपेत्य भगवन्तम् इदम् अवोचत्: इहास्मकं महाश्रमण ते माणवका अग्निं परिचरित्वा निर्वापयितुकामा न शक्नुवन्ति निर्वापयितुम्; तस्य मे तद् अभवत्: महाश्रमणो ऽस्माकं सामन्तके प्रतिवसति मा हैव तस्यानुभावो भविष्यति; (cps 24b.7) निर्वातु काश्यपाग्निः; निर्वातु महाश्रमण; अथ सो ऽग्निः स्वयम् एव निर्वृतो यथापितद् बुद्धस्य बुद्धानुभावेन देवतानां च देवतानुभावेन; अथोरुबिल्वाकाश्यपस्य जटिलस्यैतद् अभवत्: आश्चर्यं यावन् महर्द्धिको महाश्रमणो महानुभावः; अपि त्व् अहम् अप्य् अर्हन् (sbv i 220)

d) the buddha hinders the lighting of kāśyapas's fire

(cps 24d.1) तत्रेदानीं भगवान् उरुबिल्वाकाश्यपस्य जटिलस्याश्रमपदे विहरति वनगुल्मके; तेन खलु समयेनोरुबिल्वाकाश्यपो जटिलो ऽग्निं प्रज्वालयित्वा परिचर्तुकामो न शक्नोति प्रज्वालयितुम्; अथोरुबिल्वाकाश्यपस्य जटिलस्यैतद् अभवत्: महाश्रमणो ऽस्माकं सामन्तके प्रतिवसति; मा हैव तस्यानुभावो भविष्यति; अथोरुबिल्वाकाश्यपो जटिलो येन भगवांस् तेनोपजगाम; उपेत्य भगवन्तम् इदम् अवोचत्: इहाहं महाश्रमणाग्निं प्रज्वालयित्वा परिचर्तुकामो न शक्नोमि प्रज्वालयितुम्; तस्य मे तद् अभवत्: महाश्रमणो ऽस्माकं सामन्तके प्रतिवसति मा हैव तस्यानुभावो भविष्यति; प्रज्वलतु काश्यपाग्निः; प्रज्वलतु महाश्रमण; अथ सो ऽग्निः स्वयम् एव प्रज्वलितो यथापितद् बुद्धस्य बुद्धानुभावेन देवतानां च देवतानुभावेन; अथोरुबिल्वाकाश्यपस्य जटिलस्यैतद् अभवत्: आश्चर्यं यावन् महर्द्धिको महाश्रमणो महानुभावः; अपि त्व् अहम् अप्य् अर्हन्

e) the buddha hinders the extinction of kāśyapa's fire

(cps 24e.1) तत्रेदानीं भगवान् उरुबिल्वाकाश्यपस्य जटिलस्याश्रमपदे विहरति वनगुल्मके; तेन खलु समयेनोरुबिल्वाकाश्यपो जटिलो ऽग्निं परिचर्य निर्वापयितुकामो न शक्नोति निर्वापयितुम्; अथोरुबिल्वाकाश्यपस्य जटिलस्यैतद् अभवत्: महाश्रमणो ऽस्माकं सामन्तके प्रतिवसति; मा हैव तस्यानुभावो भविष्यति; अथोरुबिल्वाकाश्यपो जटिलो येन भगवांस् तेनोपजगाम; उपेत्य भगवन्तम् इदम् अवोचत्: इहाहं महाश्रमणाग्निं परिचर्य निर्वापयितुकामा न शक्नोमि निर्वापयितुम्; तस्य मे एतद् अभवत्: महाश्रमणो ऽस्माकं सामन्तके प्रतिवसति मा हैव तस्यानुभावो भविष्यति; निर्वातु काश्यपाग्निः; निर्वातु महाश्रमण; अथ सो ऽग्निः स्वयम् एव निर्वृतो यथापितद् बुद्धस्य बुद्धानुभावेन देवतानां च देवतानुभावेन; अथोरुबिल्वाकाश्यपस्य जटिलस्यैतद् अभवत्: आश्चर्यं यावन् महर्द्धिको महाश्रमणो महानुभावः; अपि त्व् अहम् अप्य् अर्हन्

f) the buddha sets fire to the fire-house of kāśyapa

(cps 24f.1) तत्रेदानीं भगवान् उरुबिल्वाकाश्यपस्य जटिलस्याश्रमपदे विहरति वनगुल्मके; अथापरेण समयेनोरुबिल्वाकाश्यपस्य जटिलस्य सर्वो ऽग्न्यागार आदीप्तः प्रदीप्तः संप्रज्वलित एकज्वालीभूतो ध्यायति (sbv i 221) तम् उरुबिल्वाकाश्यपः सपरिषत्को महता जनकायेन सार्धम् उद्यतो न शक्नोति निर्वापयितुम्; अथोरुबिल्वाकाश्यपस्य जटिलस्यैतद् अभवत्: महाश्रमणो ऽस्माकं सामन्तके प्रतिवसति; मा हैव तस्यानुभावो भविष्यति; अथोरुबिल्वाकाश्यपो जटिलो येन भगवांस् तेनोपजगाम; उपेत्य भगवन्तम् इदम् अवोचत्: जानीहि महाश्रमण इहास्माकं महाश्रमनो सर्वो ऽग्न्यागार आदीप्तः प्रदीप्तः संप्रज्वलित एकज्वालीभूतो ध्यायति; तम् अहं सपरिषत्को महता जनकायेन सार्धम् उद्यतो न शक्नोमि निर्वापयितुम्; तस्य मे एतद् अभवत्: महाश्रमणो ऽस्माकं सामन्तके प्रतिवसति; मा हैव तस्यानुभावो भविष्यति; निर्वापय काश्यपाग्न्यागारं; निर्वापयितु महाश्रमण; अथ सो ऽग्न्यागारः स्वयम् एव निर्वृतो यथापितद् बुद्धस्य बुद्धानुभावेन देवतानां च देवतानुभावेन; अथोरुबिल्वाकाश्यपस्य जटिलस्यैतद् अभवत्: आश्चर्यं यावन् महर्द्धिको महाश्रमणो महानुभावः; अपि त्व् अहम् अप्य् अर्हन्

g) the four heavenly kings visit the buddha

(cps 24g.1) तत्रेदानीं भगवान् उरुबिल्वाकाश्यपस्य जटिलस्याश्रमपदे विहरति वनगुल्मके; अथ तं रात्रिं चत्वारो महाराजानो ऽतिक्रान्तवर्णा अभिक्रान्तायां रात्र्यां येन भगवांस् तेनोपजग्मुः; उपेत्य भगवत्पादौ शिरसा वन्दित्वैकान्ते न्यषीदन्; तेषाम् अयम् एव रूपआत्मभावस् तद्यथा चतुर्णाम् अग्निस्कन्धानाम् आदीप्तानां प्रदीप्तानां संप्रज्वलितानां एकज्वलीभूतानां ध्यायताम्; अद्राक्षीद् उरुबिल्वाकाश्यपो जटिलो रात्र्याः प्रत्यूषसमये नक्षत्राणि व्यवलोकयमानो भगवतः पुरस्ताच् चत्वारो महान्तो ऽग्निस्कन्धा आदीप्ताः प्रदीप्ताः संप्रज्वलिता एकज्वालीभूता ध्यायन्ति; अथोरुबिल्वाकाश्यपस्य जटिलस्यैतद् अभवत्: मा हैव महाश्रमणो ऽप्य् अग्निं परिचरति तथा ह्य् अस्य पुरतो चत्वारो महान्तो ऽग्निस्कन्धा आदीप्ताः प्रदीप्ताः संप्रज्वलिता एकज्वालीभूता ध्यायन्ति; अथोरुबिल्वाकाश्यपो जटिल आश्रमपदम् अन्वाहिण्ड्य येन भगवांस् तेनोपजगाम; उपेत्य भगवन्तम् इदम् अवोचत्; (cps 24g.7) इहाहं महाश्रमणाद्राक्षं रात्र्याः प्रत्यूषसमये नक्षत्राणि व्यवलोकयमानो महाश्रमणस्य पुरस्ताच् चत्वारो महान्तो ऽग्निस्कन्धा आदीप्ताः प्रदीप्ताः संप्रज्वलिता एकज्वालीभूत ध्यायन्ति; दृष्ट्वा च पुनर् मे एतद् अभवत्: मा हैव महाश्रमणो ऽप्य् अग्निं परिचरति तथा ह्य् अस्य पुरस्ताच् चत्वारो महान्तो ऽग्निस्कन्धा आदीप्ताः प्रदीप्ताः संप्रज्वलिता एकज्वालीभूता ध्यायन्ति; नाहं काश्यप अग्निं परिचरामि; न अग्निं परिचरिष्ये; अपि तु इमां रात्रिं चत्वारो महाराजानो ऽतिक्रान्तवर्णा अभिक्रान्तायां रात्र्यां येनाहं तेनोपसंक्रान्ताः; उपेत्य मम पादौ शिरसा वन्दित्वा (sbv i 222) एकान्ते न्यषीदन्; तेषाम् अयम् एव रूपआत्मभावस् तद्यथा चतुर्णाम् अग्निस्कन्धानाम् आदीप्तानां प्रदीप्तानां संप्रज्वलितानाम् एकज्वालीभूतानां ध्यायताम्; अथोरुबिल्वाकाश्यपस्य जटिलस्यैतद् अभवत्: आश्चर्यं यावन् महर्द्धिको महाश्रमणो महानुभावः; अपि त्व् अहम् अप्य् अर्हन्

ह्) शक्र विसित्स् थे बुद्ध

(cps 24h.1) तत्रेदानीं भगवान् उरुबिल्वाकाश्यपस्य जटिलस्याश्रमपदे विहरति वनगुल्मके; अथ तां रात्रिं शक्रो देवेन्द्रो ऽतिक्रान्तवर्णो अभिक्रान्तायां रात्र्यां येन भगवांस् तेनोपजगाम; उपेत्य भगवत्पादौ शिरसा वन्दित्वैकान्ते न्यषीदत्; तस्यायम् एव रूपआत्मभावस् तेषाम् एव चतुर्णाम् अग्निस्कन्धानाम् उत्तरे अतिक्रान्ततरश् च प्रणीततरश् च; अद्राक्षीद् उरुबिल्वाकाश्यपो जटिलो रात्र्याः प्रत्यूषसमये नक्षत्राणि व्यवलोकयमानो भगवतः पुरस्तान् महान् अग्निस्कन्ध आदीप्तः प्रदीप्तः संप्रज्वलित एकज्वालीभूतो ध्याति; अथोरुबिल्वाकाश्यपस्य जटिलस्यैतद् अभवत्: मा हैव महाश्रमणो ऽप्य् अग्निं परिचरति तथा ह्य् अस्य पुरतो महान् अग्निस्कन्ध आदीप्तः प्रदीप्तः संप्रज्वलित एकज्वालीभूतो ध्याति; अथोरुबिल्वाकाश्यपो जटिल आश्रमपदम् अन्वाहिण्ड्य येन भगवांस् तेनोपजगाम; उपेत्य भगवन्तम् इदम् अवोचत्; इहाहं महाश्रमणाद्राक्षं रात्र्याः प्रत्यूषसमये नक्षत्राणि व्यवलोकयमानो महाश्रमणस्य पुरतो महान् अग्निस्कन्ध आदीप्तः प्रदीप्तः संप्रज्वलित एकज्वालीभूतो ध्याति; दृष्ट्वा च पुनर् मे एतद् अभवत्: मा हैव महाश्रमणो ऽप्य् अग्निं परिचरति तथा ह्य् अस्य पुरतो महान् अग्निस्कन्ध आदीप्तः प्रदीप्तः संप्रज्वलित एकज्वालीभूतो ध्याति; नाहं काश्यप अग्निं परिचरामि; न मयाग्निं परिचरितः; अपि तु तां रात्रिं शक्रो देवेन्द्र अतिक्रान्तवर्ण अभिक्रान्तायां रात्र्यां येनाहं तेनोपसंक्रान्तः; उपेत्य मम पादौ शिरसा वन्दित्वैकान्ते न्यषीदत्; तस्यायम् एव रूपआत्मभावस् तेषाम् एव चतुर्णाम् अग्निस्कन्धानाम् उत्तरे अतिक्रन्ततरश् च प्रणीततरश् च; अथोरुबिल्वाकाश्यपस्य जटिलस्यैतद् अभवत्: आश्चर्यं यावन् महर्द्धिको महाश्रमणो महानुभावः; अपि त्व् अहम् अप्य् अर्हन्

h) brahma visits the buddha

(cps 24i.1) तत्रेदानीं भगवान् उरुबिल्वाकाश्यपस्य जटिलस्याश्रमपदे विहरति वनगुल्मके; अथ तां रात्रिं ब्रह्मा सभापतिर् अतिक्रान्तवर्णो अभिक्रान्तायां रात्र्यां येन भगवांस् तेनोपजगाम; उपेत्य भगवत्पादौ शिरसा वन्दित्वैकान्ते न्यषीदत्; तस्यायम् एव रूपआत्मभावस् (sbv i 223) तेषाम् एव पंचानाम् अग्निस्कन्धानाम् उत्तरे अतिक्रान्ततरश् च प्रणीततरश् च; अद्राक्षीद् उरुबिल्वाकाश्यपो जटिलो रात्र्याः प्रत्यूषसमये नक्षत्राणि व्यवलोकयमानो भगवतः पुरस्तान् महान् अग्निस्कन्ध आदीप्तः प्रदीप्तः संप्रज्वलित एकज्वालीभूतो ध्याति; अथोरुबिल्वाकाश्यपस्य जटिलस्यैतद् अभवत्: मा हैव महाश्रमणो ऽप्य् अग्निं परिचरति तथा ह्य् अस्य पुरतो महान् अग्निस्कन्ध आदीप्तः प्रदीप्तः संप्रज्वलित एकज्वालीभूतो ध्याति; अथोरुबिल्वाकाश्यपो जटिल आश्रमपदम् अन्वाहिण्ड्य येन भगवांस् तेनोपजगाम; उपेत्य भगवन्तम् इदम् अवोचत्; इहाहं महाश्रमणाद्राक्षं रात्र्याः प्रत्यूषसमये नक्षत्राणि व्यवलोकयमानो महाश्रमणस्य पुरतो महान् अग्निस्कन्ध आदीप्तः प्रदीप्तः संप्रज्वलित एकज्वालीभूतो ध्याति; दृष्ट्वा च पुनर् मे एतद् अभवत्: मा हैव महाश्रमणो ऽप्य् अग्निं परिचरति तथा ह्य् अस्य पुरतो महान् अग्निस्कन्ध आदीप्तः प्रदीप्तः संप्रज्वलित एकज्वालीभूतो ध्याति; नाहं काश्यप अग्निं परिचरामि; न मयाग्निं परिचरितः; अपि तु तां रात्रिं ब्रह्मा सभापतिर् अतिक्रान्तवर्ण अभिक्रान्तायां रात्रौ येनाहं तेनोपसंक्रान्तः; उपेत्य मम पादौ शिरसा वन्दित्वैकान्ते न्यषीदत्; तस्यायम् एव रूपआत्मभावस् तेषाम् एव पंचानाम् अग्निस्कन्धानाम् उत्तरे अतिक्रन्ततरश् च प्रणीततरश् च; अथोरुबिल्वाकाश्यपस्य जटिलस्यैतद् अभवत्: आश्चर्यं यावन् महर्द्धिको महाश्रमणो महानुभावः; अपि त्व् अहम् अप्य् अर्हन्

ज्) थे बुद्ध रेअद्स् काश्यपऽस् थोउघ्त्स्

(cps 24j.1) तत्रेदानीं भगवान् उरुबिल्वाकाश्यपस्य जटिलस्याश्रमपदे विहरति वनगुल्मके; तेन खलु समयेनोरुबिल्वाकाश्यपस्य जटिलस्यावसथे सप्ताहिको यज्ञः प्रत्युपस्थितः; अथोरुबिल्वाकाश्यपस्य जटिलस्यैतद् अभवत्: सचेद् मागधका मनुष्या जानीयुर् एवंमहर्धिको महाश्रमण एवंमहानुभावः स्थानम् एतद् विद्यते यद् अस्यैव कारा कर्तव्या मन्येरन् न तथा मम; अहो बत महाश्रमण इदं सप्ताहम् एवान्यत्र विप्रक्रमेत; अथ भगवान् उरुबिल्वाकाश्यपस्य जटिलस्य चेतसा चित्तम् आज्ञाय तत् सप्ताहम् एवान्यत्र विप्रक्रान्तः; तत् खलु सप्ताहम् उरुबिल्वाकाश्यपस्य जटिलस्य महां लाभसत्कारः प्रादुर्भूतः प्रभूतं खादनीयभोजनीयं संपन्नं महाजनकायश् च वशे वृत्तः; अथोरुबिल्वाकाश्यपस्य जटिलस्य तस्य सप्ताहस्यात्ययाद् एतद् अभवत्: अहो तत् सप्ताहं मे महां लाभसत्कारः प्रादुर्भूतः प्रभूतं खादनीयभोजनीयं संपन्नं महाजनकायश् च वशे वृत्तः; अहो बत महाश्रमण आगच्छेत् सो ऽपीतः परिभुंजीत; अथ भगवान् उरुबिल्वाकाश्यपस्य जटिलस्य चेतसा चित्तम् आज्ञाय येनोरुबिल्वाकाश्यपो जटिलस् तेनोपजगाम (sbv i 224) अद्राक्षीद् उरुबिल्वाकाश्यपो भगवन्तं दूरत एव; दृष्ट्वा च पुनर् एवम् आह: आगतो ऽसि महाश्रमण; आगतो ऽस्मि काश्यप; कस्यार्थं त्वं महाश्रमण तत् सप्ताहम् एवान्यत्र विप्रक्रान्तः; ननु ते काश्यप एतद् अभूद् यदि मागधका मनुष्या जानीयुर् एवंमहर्द्धिको महाश्रमण एवंमहानुभावः स्थानम् एतद् विद्यते यद् अस्यैव पूर्ववद् यावद् अहो बत महाश्रमण इदं सप्ताहम् एवान्यत्र विप्रक्रमेत; एवं महाश्रमण; अहं तव चेतसा चित्तम् आज्ञायान्यत्र विप्रक्रान्तः; कस्यार्थं त्वं महाश्रमण आगतः; ननु ते काश्यप तस्य सप्ताहस्यात्ययाद् एतद् अभवद् अहो तत् सप्ताहं मे महां लाभसत्कारः प्रादुर्भूतः प्रभूतं खादनीयभोजनीयं संपन्नं महाजनकायश् च वशे वृत्तः; अहो बत महाश्रंअण आगच्छेत् सो ऽपीतः परिभुंजीत; एवं महाश्रमण; अहं तव चेतसा चित्तम् आज्ञायागतः; परिभुंक्तां महाश्रमणो यथासुखम् एव; अथोरुबिल्वाकाश्यपस्य जटिलस्यैतद् अभवद् आश्चर्यं यावन् महर्द्धिको महाश्रमणो महानुभावः; अपि त्व् अहम् अप्य् अर्हन्

k) the buddha procures fruits of jambu etc.

(cps 24k.1) तत्रेदानीं भगवान् उरुबिल्वाकाश्यपस्य जटिलस्याश्रमपदे विहरति वनगुल्मके; अथोरुबिल्वाकाश्यपो जटिलो भगवन्तम् इदम् अवोचत्: तेन हि महाश्रमणास्माकं सामन्तके प्रतिवस; अहं ते यात्राधर्मेण; अधिवासयति भगवान् उरुबिल्वाकाश्यपस्य जटिलस्य तूष्णींभावेन; अथोरुबिल्वाकाश्यपो जटिलो भगवतो ऽर्थाय भोजनं प्रतिपादयित्वा येन भगवांस् तेनोपजगाम; उपेत्य भगवन्तम् इदम् अवोचत्: समयो महाश्रमण सद्यो भक्तं यस्येदानीं महाश्रमणः कालं मन्यते; तेन हि काश्यप गच्छ; एष आगच्छामि; अथ भगवान् अचिरप्रक्रान्तम् उरुबिल्वाकाश्यपं जटिलं विदित्वा यस्या जंब्वा नाम्ना जंबुद्वीपः प्रज्ञायते ततो जंबुपेशीनां वर्णगन्धरसोपेतानां पात्रपूरम् आदाय येनोरुबिल्वाकाश्यपस्य जटिलस्याश्रमपदं तेनोपजगाम; उपेत्य प्रज्ञप्त एवासने न्यषीदत्; ततः पश्चाद् आगत उरुबिल्वाकास्यपो जटिलः; अद्राक्षीद् उरुबिल्वाकाश्यपो जटिलो भगवन्तम् आश्रमपदे निषण्णम्; दृष्ट्वा च पुनर् एवम् आह: आगतो ऽसि महाश्रमण; आगतो ऽस्मि काश्यप; किन् नु ते महाश्रमण पात्रे; इहाहम् अचिरप्रक्रान्ते त्वयि तद्रूपं समाधिं समापन्नो यथा समाहिते चित्ते यस्या जंब्वा नाम्ना जंबुद्वीपः प्रज्ञायते ततो जंबुपेशीनां वर्णगन्धरसोपेतानां पात्रपूरम् आदायागतः; सचेद् आकांक्षसि परिभुंक्ष्व; परिभुंक्तां महाश्रमणो यथासुखम् एव; अथोरुबिल्वाकास्यपस्य जटिलस्यैतद् अभवत्: आश्चर्यं यावन् महर्द्धिको महाश्रमणो महानुभावः; (sbv i 225) अपि त्व् अहम् अप्य् अर्हन्; (च्प्स् 24ल्-न्) यथा जम्बुपेशीनां तथापि आमलकपेशीनाम्; उत्तरकुरुद्वीपं गत्वा अकृष्टोप्तानां तण्डुलफलशालीनां पात्रपूरम् आदाय

येनोरुबिल्वाकाश्यपस्य जटिलस्याश्रमपदं तेनोपजगाम; उपेत्य प्रज्ञप्त एवासने न्यषीदत्; ततः पश्चाद् आगत उरुबिल्वाकाश्यपो जटिलः; अद्राक्षीद् उरुबिल्वाकाश्यपो जटिलो भगवन्तम् आश्रमपदे निषण्णम्; दृष्ट्वा च पुनर् एवम् आह: आगतो ऽसि महाश्रमण; आगतो ऽस्मि काश्यप; किन् नु ते महाश्रमण पात्रे; इहाहम् अचिरप्रक्रान्ते त्वयि तद्रूपं समाधिं समापन्नो यथा समाहिते चित्ते उत्तरकुरुद्वीपं गत्वा अकृष्टोप्तानां तण्डुलफलशालीनां पात्रपूरम् आदाय आगतः; सचेद् आकांक्षसि परिभुंक्ष्व; परिभुंक्तां महाश्रमणो यथासुखम् एव; अथोरुबिल्वाकाश्यपस्य जटिलस्यैतद् अभवत्: आश्चर्यं यावन् महर्द्धिको महाश्रमणो महानुभावः; अपि त्व् अहम् अप्य् अर्हन्

o) śakra supplies the buddha with water

(cps 24o.1) तत्रेदानीं भगवान् उरुबिल्वाकाश्यपस्य जटिलस्याश्रमपदे विहरति वनगुल्मके; अथोरुबिल्वाकाश्यपो जटिलो भगवतो ऽर्थाय भोजनं प्रतिपादयित्वा येन भगवांस् तेनोपजगाम; उपेत्य भगवन्तम् इदम् अवोचत्; समयो महाश्रमण सद्यो भक्तं यस्येदानीं महाश्रमणः कालं मन्यते; अथ भगवान् पूर्वाह्णे निवास्य पात्रचीवरम् आदाय येनोरुबिल्वाकाश्यपस्य जटिलस्याश्रमपदं तेनोपजगाम; उपेत्य प्रज्ञप्त एवासने न्यषीदत्; अथोरुबिल्वाकाश्यपो जटिलः सुखोपनिषण्णं भगवन्तं विदित्वा शुचिना प्रणीतेन खादनीयभोजनीयेन पात्रं पूरयित्वा पर्तिपादितः; अथ भगवान् उरुबिल्वाकाश्यपस्य जटिलस्यान्तिकात् पिण्डपातम् आदाय अन्यतरस्मिं प्रदेशे भक्तकृत्यम् अकार्षीत्; तत्र भगवत उदकेनोदककार्यम् उत्पन्नम्; अथ शक्रो देवेन्द्रो भगवत उदकेनोत्पन्नम् उदककार्यं विदित्वा भगवतः पुरतः पाणिना पृथिवीं पराहन्ति; तत्र महद् उदपानं प्रादुर्भूतं वारिविष्यन्दि; यतो भगवान् उदककार्यम् अकार्षीत्; अद्राक्षीद् उरुबिल्वाकाश्यपो जटिल आश्रमपदे चंक्रमन् महद् उदपानं प्रादुर्भूतं वारिविष्यन्दि; दृष्ट्वा च तस्यैतद् अभवत्: न इदं पूर्वे उदपानं मया दृष्टम्: एतर्हि उदकं कुत आगतम्: अथोरुबिल्वाकाश्यपो जटिलो येन भगवांस् तेनोपजगाम; उपेत्य भगवन्तम् इदम् अवोचत्: जानीहि महाश्रमण; इहाहम् आश्रमपदे चंक्रमन्न् अद्राक्षं महद् उदपानं वारिविष्यन्दि; दृष्ट्वा च ममैतद् अभवत्: न इदं महाश्रमण पूर्वे उदपानं मया दृष्टं, एतर्हि उदकं कुत आगतं; अत्र तव काश्यप अन्तिकात् पिण्डपातम् आदाय अन्यतरस्मिं प्रदेशे भक्तकृत्यं कृत्वा मम उदकेनोदककार्यम् (sbv i 226) उत्पन्नम्; अथ शक्रो देवेन्द्रो मम उदकेनोत्पन्नम् उदककार्यं विदित्वास्मिं प्रदेशे पाणिना पृथिवीं पराहन्ति; अत्र महद् उदपानं प्रादुर्भूतं यतो ऽहम् उदकेनोदककार्यम् अकार्षम्; पाणिखाता नाम काश्यप एषा पुष्करिणी; अथोरुबिल्वाकाश्यपस्य जटिलस्यैतद् अभवत्: आश्चर्यं यावन् महर्द्धिको महाश्रमणो महानुभावः; अपि त्व् अहम् अप्य् अर्हन्

p) an arjuna-tree inclines the branch

(cps 24p.1) तत्रेदानीं भगवान् उरुबिल्वाकाश्यपस्य जटिलस्याश्रमपदे विहरति वनगुल्मके; अथ भगवान् सायाह्ने प्रतिसंलयनाद् व्युत्थाय येन पाणिखाता पुष्करिणी तेनोपजगाम; उपेत्य पाणिखातायाः पुष्करिण्यास् तीरे एकान्तं चीवरकाण्य् उपनिक्षिप्य पाणिखातां पुष्करिणीम् अभ्यवगाह्य गात्राणि परिषिच्य पाणिखातायाः पुष्करिण्या उत्तर्तुकामो येन ककुभवृक्षस् तेन बाहुं प्रसारयति; ततः सा महती ककुभशाखा नता याम् अवलंब्य भगवान् पाणिखातायाः पुष्करिण्या उत्तीर्णः; अद्राक्षीद् उरुबिल्वाकाश्यपो जटिल आश्रमपदम् अन्वाहिण्डन् पाणिखातायाः पुष्करिण्यास् तीरे महतीं ककुभशाखां नतां; दृष्ट्वा च तस्यैतद् अभवत्: नैषा मे पूर्वे ककुभशाखा नमति; न को महतीं ककुभशाखां नमयति; अथोरुबिल्वाकाश्यपो जटिलो येन भगवांस् तेनोपजगाम; उपेत्य भगवन्तम् इदम् अवोचत्: जानीहि महाश्रमण; इहाहं आश्रमपदम् अन्वाहिण्डन्न् अद्राक्षं पाणिखातायाः पुष्करिण्यास् तीरे महतीं ककुभशाखां नताम्; दृष्ट्वा च ममैतद् अभवत्: नैषा मे महाश्रमण पूर्वे ककुभशाखा नमति; मा कश्चिन् महतीं ककुभशाखां नमयति; इहाहं काश्यप सायाह्ने प्रतिसंलयनाद् व्युत्थाय येन पाणिखाता पुष्करिणी तेनोपजगाम; उपेत्य पाणिखातायाः पुष्करिण्यास् तीरे एकान्तं चीवरकाण्य् उपनिक्षिप्य पाणिखातां पुष्करिणीम् अभ्यवगाह्य; गात्राणि परिषिच्य पाणिखातायाः पुष्करिण्या उत्तर्तुकामो येन ककुभवृक्षस् तेन बाहुं प्रसारयमि; ततः सा महती ककुभशाखा नमति याम् अवलंब्य पाणिखातायाः पुष्करिण्या अहम् उत्तीर्णः; बाहुगृहीतो नाम काश्यप एष ककुभः; अथोरुबिल्वाकाश्यपस्य जटिलस्यैतद् अभवत्: आश्चर्यं यावन् महर्द्धिको महाश्रमणो महानुभावः; अपि त्व् अहम् अप्य् अर्हन्

q) śakra makes the washing of clothes possible

(cps 24q.1) तत्रेदानीं भगवान् उरुबिल्वाकाश्यपस्य जटिलस्याश्रमपदे विहरति वनगुल्मके; तेन खलु समयेन भगवतः शाणकानि पांसुकूलानि संपन्नानि; अथ भगवत एतद् अभवत्: कुत्र न्व् अहं शाणकानि (sbv i 227) पांसुकूलानि प्रविषिंचेयम्; अथ खलु शक्रो देवेन्द्रो भगवतश् चेतसा चित्तम् आज्ञायान्यतरस्मात् प्रदेशां महतीं पाषाणशिलाम् आदाय येन भगवांस् तेनोपजगाम; उपेत्य भगवन्तम् इदम् अवोचत्: इह भगवाञ् शाणकानि पांसुकूलानि प्रविषिंचतु; तत्र भगवता शाणकानि पांसुकूलानि प्रविषिक्तानि; अथ भगवत एतद् अभवत्: कुत्र न्व् अहं शाणकानि पांसुकूलानि शोचयेयम्; अथ खलु शक्रो देवेन्द्रो भगवतश् चेतसा चित्तम् आज्ञायान्यतरस्मात् प्रदेशान् महतीं पाषाणशिलाम् आदाय येन भगवांस् तेनोपजगाम; उपेत्य भगवन्तम् इदम् अवोचत्: इह भगवाञ् शाणकानि पांसुकूलानि शोचयतु; तत्र भगवता शाणकानि पांसुकूलानि शोचितानि; अद्राक्षीद् उरुबिल्वाकाश्यप आश्रमपदम् अन्वाहिण्डंस् ते महत्यौ पाशाणशिले; दृष्ट्वा च तस्यैतद् अभवत्: नैते महत्यौ पाषाणशिले पूर्वे अभूतम्; केन ते एतर्ह्य् आनीते; अथ उरुबिल्वाकाश्यपो जटिलो येन भगवांस् तेनोपजगाम; उपेत्य भगवन्तम् इदम् अवोचत्: जानीहि महाश्रमण; इहाहम् आश्रमपदम् अन्वाहिण्डन्न् अद्राक्षं महत्यौ पाषाणशिले; दृष्ट्वा च ममैतद् अभवत्: नैते महत्यौ पाषाणशिले पूर्वे अभूतम्; केन ते एतर्ह्य् आनीते; इह मम काश्यप शाणकानि पांसुकूलानि संपन्नानि; तस्य मे एतद् अभवत्: कुत्र न्व् अहं शाणकानि पांसुकूलानि प्रविषिंचेयम्; अथ खलु शक्रो देवेन्द्रो मम चेतसा चित्तम् आज्ञायान्यतरस्मात् प्रदेशां महतीं पाषाणशिलाम् आदाय येनाहं

तेनोपजगाम; उपेत्य माम् इदम् अवोचत्: इह भगवाञ् शाणकानि पांसुकूलानि प्रविषिंचतु; तत्र मया शाणकानि पांसुकूलानि प्रविषिक्तानि; तस्य मे एतद् अभवत्: कुत्र न्व् अहं शाणकानि पांसुकूलानि शोचयेयम्; अथ खलु शक्रो देवेन्द्रो मम चेतसा चित्तम् आज्ञायान्यतरस्मात् प्रदेशान् महतीं पाषाणशिलाम् आदाय येनाहं तेनोपजगाम; उपेत्य माम् इदम् अवोचत्: इह भगवाञ् शाणकानि पांसुकूलानि शोचयतु; तत्र मया शाणकानि पांसुकूलानि शोचितानि; यक्षाहृता नाम काश्यप एषा महती पाषाणशिला; अथोरुबिल्वाकाश्यपस्य जटिलस्यैतद् अभवत्: आश्चर्यं यावन् महर्द्धिको महाश्रमणो महानुभावः; अपि त्व् अहम् अप्य् अर्हन्

r) buddha's command on the element water

(cps 24r.1) तत्रेदानीं भगवान् उरुबिल्वाकाश्यपस्य जटिलस्याश्रमपदे विहरति वनगुल्मके; तेन खलु समयेन नैरंजनाया महोदकवाहः प्रादुर्भूतः; अथ भगवान् साधिकपौरुषेणोदकस्कन्धेन परिक्षिप्तो रेणुहते ऽभ्यवकाशे चंक्रमति; अथोरुबिल्वाकाश्यपस्य जटिलस्यैतद् अभवत्: तथा प्रासादिको महाश्रमणः; मा हैवोदकवाहेन हृतो भविष्यति इति महाश्रमणं समन्वेषिष्यामीत्य् एकवृक्षिकां (sbv i 228) नावम् अधिरोहन् भगवन्तं समन्वेषति; अद्राक्षीद् उरुबिल्वाकास्यपो जटिलो भगवन्तं साधिकपौरुषेणोदकस्कन्धेन परिक्षिप्तं रेणुहते ऽभ्यवकाशे चंक्रमन्तम्; दृष्ट्वा च पुनर् भगवन्तम् इदम् अवोचत्: जीवसि महाश्रमण; जीवामि काश्यप; अधिरोह महाश्रमण; अधिरोक्ष्यसि महाश्रमण एकवृक्षिकां नावम्; अधिरोहामि काश्यप; अथ भगवत एतद् अभवत्: यन्व् अहं तद्रूपान् ऋद्ध्याभिसंस्कारान् अभिसंस्कुर्यां यथा समाहिते चित्ते यथोदकम् एव एकवृक्षिकां नावम् अधिरोहेयम्; अथ भगवान् तद्रूपन् ऋद्ध्याभिसंस्कारान् अभिसंस्करोति यथा समाहिते चित्ते यथोदकम् एव एकवृक्षिकां नावम् अधिरोहति; अथोरुबिल्वाकाश्यपस्य जटिलस्यैतद् अभवत्: आश्चर्यं यावन् महर्द्धिको महाश्रमणो महानुभावः; अपि त्व् अहम् अप्य् अर्हन्

conversion of urubilvākāśyapa and of his five hundred students

(cps 25a.1) अथ भगवान् उरुबिल्वाकाश्यपस्य जटिलस्य चेतसा चित्तं आज्ञाय उरुबिल्वाकाश्यपं जटिलम् इदम् अवोचत्: नैव त्वं काश्यपार्हन् नैवार्हत्वफलसाक्षात्क्रियां समापन्नो नैवाजानास्य् अर्हत्वमार्गम्; अथोरुबिल्वाकाश्यपस्य जटिलस्यैतद् अभवत्: जानाति मे महाश्रमणश् चेतसा चित्तम्; इति विदित्वा भगवन्तम् इदम् अवोचत्: लभेयाहं महाश्रमणस्यान्तिके प्रव्रज्याम् उपसंपदं भिक्षुभावम्; चरेयम् अहं महाश्रमणस्यान्तिके ब्रह्मचर्यम्; अथ भगवान् उरुबिल्वाकाश्यपम् आमन्त्रयते: अवलोकिता ते काश्यप परिषन् नो श्रमण; तेन हि काश्यप परिषदं तावद् अवलोकय; परिषदवलोकनम् एव साधु यथापितत् त्वादृशानां यशस्विनां ज्ञातमनुष्याणाम्; अथोरुबिल्वाकाश्यपो जटिलो माणवकान् आमन्त्रयति: अहं माणवका महाश्रमणस्यान्तिके ब्रह्मचर्यं चरिष्यामि; भवन्तः किं करिष्यन्ति; यत् किञ्चिद् वयम् उपाध्याय प्रजानीमः सर्वं तद् उपाध्यायम् आगम्य; सचेद् उपाध्यायो महाश्रमणस्यान्तिके ब्रह्मचर्यं चरिष्यति ते वयम् उपाध्यायं प्रव्रजितम् अनुप्रव्रजिष्यामः; तेन हि यूयं माणवका एतान्य् अजिनानि वल्कलानि दण्डकमण्डलूनि स्रुग्भाजनानि नद्यां नैरंजनायां प्रक्षिपत; एवम् उपाध्याय; इति ते माणवका अजिनानि वल्कलानि दण्डकमण्डलूनि स्रुग्भाजनानि नद्यां नैरंजनायां प्रक्षिप्य येनोरुबिल्वाकाश्यपो जटिलस् तेनोपजग्मुः; उपेत्योरुबिल्वाकाश्यपं जटिलम् इदम् अवोचन्: उपाध्याय एवम् अस्माभिः कृतम्; अस्ति किंचित् करणीयम्; अथोरुबिल्वाकास्यपो जटिलः पंचशतं जटिलमाणवकान् आदाय येन भगवांस् तेनोपजगाम; उपेत्य भगवन्तम् इदम् अवोचत्: अवलोकिता मे महाश्रमण परिषत्; लभेयाहं स्वाख्याते धर्मविनये प्रव्रज्याम् उपसंपदं (sbv i 229) भिक्षुभावम्; चरेयम् अहं महाश्रमणस्यान्तिके ब्रह्मचर्यम्; लब्धवान् उरुबिल्वाकाश्यपो जटिलो भगवतो ऽन्तिके ब्रह्मचर्यम्; सा एवास्यायुष्मतः प्रव्रज्याभूद् उपसंपद् भिक्षुभावः

conversion of nadī- and gayākāśyapa with their two hundred and fifty students

(cps 25b.1) तेन खलु समयेनोरुबिल्वाकाश्यपस्य जटिलस्य नदीगयाकाश्यपौ भ्रातराव् अर्धतृतीयशतपरिवारौ नद्या नैरंजनाया अधस्ताद्भागेनाश्रमपदे शाम्येते; अद्राष्टां नदीगयाकाश्यपौ भ्रातराव् अजिनानि वल्कलानि दण्डकमण्डलूनि स्रुग्भाजनानि नद्यां नैरंजनायाम् उह्यमानानि; दृष्ट्वा च काश्यपयोर् एतद् अभवत्: मा हैवावयोः सब्रह्मचारिणां कश्चिद् एवादीनवो भविष्यति राजतो वा चौरतो वा अग्नितो वा उदकतो वा; यन्व् चावां सब्रह्मचारिणो ऽन्वेषेव; अथ नदीगयाकाश्यपौ भ्रातराव् अन्वेषन्ताव् उरुबिल्वाकाश्यपं येनोरुबिल्वाकाश्यपस्य जटिलस्याश्रमपदम् तेनोपजग्मतुः; तेन समयेनोरुबिल्वाकाश्यपो जटिलो मुण्डः संघाटीप्रावृतो भगवतः पुरतो निषण्णः धर्मश्रवणाय; अपश्यतां नदीगयाकाश्यपौ भ्रातराव् उरुबिल्वाकाश्यपं जटिलं मुण्डं संघाटीप्रावृतं भगवतः पुरतो निषण्णं धर्मश्रवणाय; दृष्ट्वा चोरुविल्वाकास्यपं जटिलम् इदम् ऊचतुः; एतत् काश्यप वरं नेदम्; इदं काश्यपौ वरं नैतत्; अथ नदीगयाकाश्यपयोर् एतद् अभवत्: न बतावरो बुद्धो भविष्यति नावरं धर्माख्यानं यत्रेदानीं उरुबिल्वाकाश्यपो जटिलो जीर्णो वृद्धो महल्लकः स विंशतिवर्षशतिको जात्या मागधकानां मनुष्याणां सत्कृतो गुरुकृतो मानितः पूजितो ऽर्हन् सम्मतः स महाश्रमणस्यान्तिके द्विर् अपि प्रव्रज्याम् उपगतः; यन्व् आवाम् अपि महाश्रमणस्यान्तिके ब्रह्मचर्यां चरेव; इति विदित्वा भगवन्तम् इदम् अवोचतां: लभेवह्य् आवां महाश्रमण स्वाख्याते धर्मविनये प्रव्रज्याम् उपसंपदं भिक्षुभावम्; चरेव आवां महाश्रमणस्यान्तिके ब्रह्मचर्यम्; अवलोकिता वां काश्यपौ परिषन् नो महश्रमण; तेन हि काश्यपौ

परिषदं तावद् अवलोकयताम्; परिषदवलोकनम् एव साधु यथापितद् युष्मद्विधानां यशस्विनां ज्ञातमनुष्याणाम्; अथ नदीगयाकाश्यपौ भ्रातरौ येन स्वकीयाश्रमस् तेनोपजग्मतुः; उपेत्य स्वकान् माणवकान् इदम् अवोचताम्: आवां माणवका महाश्रमणस्यान्तिके ब्रह्मचर्यं चरिष्यावः; भवन्तः किं करिष्यन्ति; यत् किंचिद् वयम् उपाध्यायौ प्रजानीमः सर्वं तद् उपाध्यायाव् आगम्य; सचेद् उपाध्यायौ महाश्रमणस्यान्तिके ब्रह्मचर्यं चरिष्यतस् ते वयम् उपाध्यायौ प्रव्रजिताव् अनुप्रव्रजिष्यामः; यस्येदानीं माणवकाः कालं मन्यध्वे; अथ नदीगयाकाश्यपौ (sbv i 230) भ्रातराव् अर्धतृतीय्शतपरिवारौ येन भगवांस् तेनोपजग्मतुः; उपेत्य भगवन्तम् इदम् अवोचताम्; अवलोकिता नौ महाश्रमण परिषत्; लभेवह्य् आवां महाश्रमणस्यान्तिके प्रव्रज्याम् उपसंपदं भिक्षुभावम्; चरेवावां महाश्रमणस्यान्तिके ब्रह्मचर्यम्; लब्धवन्तौ नदीगयाकाश्यपौ भ्रातरौ भगवतो ब्रह्मचर्यम्; सा एवानयोर् आयुष्मन्तोः प्रव्रज्याभूद् उपसंपद् भिक्षुभावः

थे सेर्मोन् अत् गयाशीर्ष

(cps 26.1) अथ भगवांस् तद् जटिलसहस्रं प्रव्राजयित्वोपसंपादयित्वा यथाभिरम्यम् उरुबिल्वायां विहृत्य येन गया तेन चार्यां प्रक्रान्तः; अनुपूर्वेण चार्यां चरन् गयाम् अनुप्राप्तः; विहरति गयाशीर्षे चैत्ये सार्धं भिक्षुसहस्रेण सर्वैः पुराणजटिलैः; तत्र भगवांस् तद् भिक्षुसहस्रं तृभिः प्रातिहार्यैर् अववदति; ऋद्धिप्रातिहार्येणादेशनाप्रातिहार्येणानुशासनीप्रातिहार्येण; तत्रेदं भगवत ऋद्धिप्रातिहार्यम्; अथ भगवांस् तद्रूपं समाधिं समापन्नो यथा समाहिते चित्ते स्वस्मिन्न् आसने ऽन्तर्हितः पूर्वस्यान् दिश्य् उपरि विहायसम् अभ्युद्गम्य चतुर्विधम् ईर्यापथं कल्पयति चंक्रमति तिष्ठति निषीदति शय्यां कल्पयति; तेजोधातुम् अपि समापद्यते; तेजोधातुं समापन्नस्य बुद्धस्य भगवतो विविधान्य् अर्चींषि कायान् निश्चरन्ति नीलानि पीतानि लोहितान्य् अवदातानि मांजिष्ठानि स्पटिकवर्णानि; यमकानि च प्रातिहार्याणि विदर्शयति; अधः कायः प्रज्वलति; उपरिमात् कायाच् छीतला वारिधाराः स्यन्दन्ते; उपरिमः कायः प्रज्वलति; अधः कायाच् छीतला वारिधाराः स्यन्दन्ते; एवं दक्षिणस्यां पश्चिमस्याम् उत्तरस्यान् दिश्य्; अथ चतुर्दिशं चतुर्विधं विविधम् ऋद्धिप्रातिहार्यं विदर्शयित्वा तान् ऋद्ध्यभिसंस्कारान् प्रतिप्रस्रभ्य पुरस्ताद् भिक्षुसंघस्य प्रज्ञप्त एवासने न्यषीदत्; इदं तत्र भगवत ऋद्धिप्रातिहार्यम्; तत्रेदं भगवत आदेशनाप्रातिहार्यम्; युष्माकं भिक्षवश् चित्तम् एवम्; मन इदम्; विज्ञानम् इदं; वितर्कयतेदं मा वितर्कयतेदम्; मनसिकुरुतेदं; न मनसिकुरुतेदम्; प्रजहतेदं; मा प्रजहतेदम्; इदं कायेन साक्षात्कृत्वोपसंपद्य विहरत; इदं तत्र भगवता

आदेशनाप्रातिहार्यम्; तत्रेदं भगवतो ऽनुशासनीप्रातिहार्यम्; सर्वं भिक्षवः आदीप्तं; किं च सर्वम् आदीप्तं; चक्षुर् आदीप्तं रूपं चक्षुर्विज्ञानं चक्षुःसंस्पर्शः; यद् अपि चक्षुःसंस्पर्शप्रत्ययम् आध्यात्मम् उत्पद्यते वेदयितं सुखं वा दुःखं वा अदुःखम् असुखं वा तद् अप्य् आदीप्तं; एवं श्रोत्रं घ्राणं जिह्वा कायो मन आदीप्तम्; आदीप्तं मनोविज्ञानं मनःसंस्पर्शः; यद् अपि मनःसंस्पर्शप्रत्ययम् (sbv i 231) अध्यात्मम् उत्पद्यते वेदयितं सुखं वा दुःखं वा अदुःखम् असुखं वा तद् अप्य् आदीप्तं; केनादीप्तं; रागाग्निना द्वेषाग्निना मोहाग्निना; आदीप्तं जातिजराव्याधिमरणपरिदेवदुःखदौर्मनस्योपायासैः; आदिप्तं दुःखेनेति; इदं तत्र भगवतो ऽनुशसनीप्रातिहार्यम्; अस्मिन् खलु धर्मपर्याये भाष्यमाणे तस्य भिक्षुसहस्रस्यानुपादायास्रवेभ्यश् चित्तं विमुक्तं

the first anouncement of the birth of a great man

(cps 27a.1) अथ भगवान् गयायां गयाशीर्षे चैत्य एव विहरति सार्धं भिक्षुसहस्रेण सर्वैः पुराणजटिलैः सर्वैश् चार्हद्भिः क्षीणास्रवैः कृतकृत्यैः कृतकरणीयैर् अवहृतभारैर् अनुप्राप्तस्वकार्थैः परिक्षीणभवसंयोजनैः सम्यगाज्ञया सुविमुक्तचित्तैः; अश्रौषू राज्ञो मागधस्य श्रैण्यस्य बिंबिसारस्य पौरुषेया जनपदान् अन्वाहिण्डन्तः; शाक्यानां कुमार उत्पन्नो ऽनुहिमवत्पार्श्वे नद्या भागिरथ्यास् तीरे कपिलस्यर्षेर् आश्रमपदस्य नातिदूरे; स ब्राह्मणैर् निमित्तिकैर् विपंचनकैर् व्याकृतः; सचेद् अगारम् अध्यावत्स्यति राजा भविष्यति चक्रवर्ती चतुरन्त्यां विजेता धार्मिको धर्मराजा सप्तरत्नसमन्वागतः; तस्यैवंरूपाणि सप्त रत्नानि भविष्यन्ति तद्यथा चक्ररत्नं हस्तिरत्नं अश्वरत्नं मणिरत्नं स्त्रीरत्नं गृहहपतिरत्नं परिणायकरत्नम् एव सप्तमम्; पूर्णं चास्य भविष्यति सहस्रं पुत्राणां शूराणां वीराणां वराङ्गरूपिणां परसैन्यप्रमर्दकानाम्; स इमां समुद्रपर्यन्तां महापृथिवीम् अखिलाम् अकण्टकाम् अनुत्पाताम् अदण्डेनाशस्त्रेण धर्मेण समेनाभिनिर्जित्याध्यवत्स्यति; सचेत् केशश्मश्रूण्य् अवतार्य काषायाणि वस्त्राण्य् आच्छाद्य सम्यग् एव श्रद्धयागाराद् अनगारिकां प्रव्रजिष्यति तथागतो भविष्यत्य् अर्हन् सम्यक्संबुद्धो विघुष्टशब्दो लोके; श्रुत्वा च पुनर् येन राजा मागधः श्रैण्यो बिंबिसारस् तेनोपजग्मुः; उपेत्य राजानं मागधं श्रैण्यं बिंबिसारम् इदम् अवोचन्: यत् खलु देव जानीयाः; इह वयम् अश्रौष्म देवस्य जनपदान् अन्वाहिण्डन्तः; शाक्यानां कुमार उत्पन्नो ऽनुहिमवत्पार्श्वे नद्या भागिरथ्यास् तीरे कपिलस्यर्षेर् आश्रमपदस्य नातिदूरे; स ब्राह्मणैर् निमित्तिकैर्

विपंचनकैर् व्याकृतः; सचेद् अगारम् अध्यावत्स्यति राजा भविष्यति चक्रवर्ती चतुरन्त्यां विजेता पूर्ववद् यावद् परिणायकरत्नम् एव सप्तमम्; पूर्णं चास्य भविष्यति सहस्रं पुत्राणां पूर्ववद् यावद् धर्मेण समेनाभिनिर्जित्याध्यवत्स्यति; सचेत् केशश्मश्रूण्य् अवतार्य काषायाणि वस्त्राण्य् आच्छाद्य पूर्ववद् याचद् अर्हन् सम्यक्संबुद्धो विघुष्टशब्दो लोके; तं देवो घातयतु; (sbv i 232) म् #### ग्रामण्य शाक्यानां कुमार उत्पन्नो ऽनुहिमवत्पार्श्वे नद्या भागिरथ्यास् तीरे कपिलस्यर्षेर् आश्रमपदस्य नातिदूरे पूर्ववद् यावत् सचेद् अगारम् अध्यावत्स्यति राजा भविष्यति चक्रवर्ती पूर्ववद् यावद् धर्मेण समेनाभिनिर्जित्याध्यवत्स्यति; पुर्ववद् यावत् सचेत् केशश्मश्रूण्य् अवतार्य काषायाणि वस्त्राण्य् आच्छाद्य सम्यग् एव श्रद्धयागाराद् अनगारिकां प्रव्रजिष्यति तथागतो भविष्यत्य् अर्हन् सम्यक्संबुद्धो विघुष्टशब्दो लोके; तं देवो घटयितु; म् ### मा ग्रामन्य एवं वोचत; तत् कस्य हेतोः; (cps 27a.14) मा ग्रामन्य शाक्यानां कुमार उत्पन्नो इति पूर्ववद् यावत् सचेत् राजा भविष्यति चक्रवर्ती अनुयात्रका अस्य भविष्यामः; अथ राजा मागधः श्रैण्यो बिंबिसार उपरि प्रासादतलगतः पंचायाचनवस्तून्य् आयाचते; अहो बतायं मम विजिते तथागत उत्पद्येतार्हन् सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्; तं चाहं दर्शनायोपसंक्रमयेयम्; उपसंक्रान्तस्य च मे धर्मं देशयेत्; तं चाहं धर्मं आजानीयां; आज्ञातधर्मस्य च मे शिक्षां प्रज्ञापयेत्; यच् चाहं तां शिक्षां समादाय वसेयम्; तत्र भगवान् भिक्षून् आमन्त्रयते; एष भिक्षवो

राजा मागधः श्रैन्यो बिंबिसार उपरि प्रासादतलगतः पंचायाचनवस्तून्य् आयाचते: अहो बतायं मे विजिते तथागत उत्पद्येतार्हन् सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्; तं चाहं दर्शनायोपसंक्रमयेयम्; उपसंक्रान्तस्य च मे धर्मं देशयेत्; तं चाहं धर्मं आजानीयां; आज्ञातधर्मस्य च मे शिक्षां प्रज्ञापयेत्; यच् चाहं तां शिक्षां समादाय वसेयम्

the buddha in magadha. the invitation of bimbisāra

(cps 27b.1) अश्रौषू रज्ञो मागधस्य श्रैण्यस्य बिम्बिसारस्य पौरुषेया जनपदान् अन्वाहिण्डन्तः: शाक्यानां कुमार उत्पन्नो ऽनुहिमवत्पार्श्वे नद्या भागिरथ्यास् तीरे कपिलस्यर्षेर् आश्रमपदस्य नातिदूरे; स ब्राह्मणैर् निमित्तिकैर् विपंचनकैर् व्याकृतः पूर्ववद् यावद् विघुष्टशब्दो लोके; स केशश्मश्रूण्य् अवतार्य काषायाणि वस्त्राण्य् आच्छाद्य सम्यग् एव श्रद्धयागाराद् अनगारिकां प्रव्रजितः; सो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धो गयायां विहरति गयाशीर्षे चैत्ये सार्धं भिक्षुसहस्रेण सर्वैः पुराणजटिलैः सर्वैश् चार्हद्भिः (sbv i 233) क्षीणास्रवैः कृतकृत्यैः कृतकरणीयैर् अवहृतभारैर् अनुप्राप्तस्वकार्थैः परिक्षीणभवसंयोजनैः सम्यगाज्ञया सुविमुक्तचित्तैः; श्रुत्वा च पुनर् येन राजा मागधः श्रैण्यो बिम्बिसारस् तेनोपजग्मुः; उपेत्य राजानं मागधं श्रैण्यं बिम्बिसारम् इदम् अवोचन्: यत् खलु जानीयाः; इह वयं अश्रौष्म देवस्य जनपदान् अन्वाहिण्डन्तः: यः शाक्यानां कुमार उत्पन्नः पूर्ववद् यावद् विघुष्टशब्दो लोके; स केशश्मश्रूण्य् अवतार्य काषायाणि वस्त्राण्य् आच्छाद्य सम्यग् एव श्रद्धयागाराद् अनगारिकां प्रव्रजितः; सो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धो गयायां गयाशीर्षे चैत्ये एव विहरति सार्धं भिक्षुसहस्रेण सर्वैः पुराणजटिलैः सर्वैश् चार्हद्भिः क्षीणास्रवैः कृतकृत्यैः पूर्ववद् यावद् सम्यगाज्ञया सुविमुक्तचित्तैः; तन् देवः पर्युपासीत; एवं देवः ### भविष्यति; अथ राजा मागधः श्रैण्यो बिंबिसारो ऽन्यतमं पुरुषम् आमन्त्रयते: एहि भोः पुरुष येन भगवांस् तेनोपसंक्रम; उपेत्यास्माकं वचनेन भगवतः पादौ शिरसा वन्दस्व; अल्पाबाधतां च

पृच्छाल्पातङ्कतां च लघूत्थानतां च यात्रां च बलं च सुखं चानवद्यतां च स्पर्शविहारतां च; एवं च वद; आगच्छतु भगवान् राजगृहम्; अहं भगवन्तं यावज्जीवम् उपस्थास्यामि चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः सार्धं भिक्षुसंघेन; एवं देवेति स पुरुषो राज्ञो मागधस्य श्रैण्यस्य बिंबिसारस्य प्रतिश्रुत्य येन भगवांस् तेनोपजगाम; उपेत्य भगवत्पादौ शिरसा वन्दित्वैकान्ते न्यषीदत्; एकान्तनिषण्णः स पुरुषो भगवन्तम् इदम् अवोचत्: राजा भदन्त मागधः श्रैण्यो बिंबिसारो भगवत्पादौ शिरसा वन्दत्य् अल्पाबाधतां च पृच्छत्य् अल्पातङ्कतां च पूर्ववद् यावत् स्पर्शविहारतां च; सुखी भवतु पुरुष राजा मागधः श्रैण्यो बिंबिसारस् त्वं च

the visit of biṃbisāra. urubilvākāśyapa and the buddha

(cps 27b.14) राजा भदन्त मागधः श्रैण्यो बिंबिसार एवं वदति: आगच्छतु भगवान् राजगृहम्; अहं भगवन्तं यावज्जीवम् उपस्थास्यामि चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः सार्धं भिक्षुसंघेन; अधिवासयति भगवांस् तस्य पुरुषस्य तूष्णींभावेन; अथ सो पुरुषो भगवतस् तूष्णींभावेनाधिवासनां विदित्वा भगवत्पादौ शिरसा वन्दित्वा भगवतो ऽन्तिकात् प्रक्रान्तः; (cps 27c.1) अथ भगवान् महता भिक्षुसंघेन सार्धं भिक्षुसहस्रेण सर्वैः (sbv i 234) पुराणजटिलैः सर्वैश् चार्हद्भिः क्षीणास्रवैः कृतकृत्यैः कृतकरणीयैर् अवहृतभारैर् अनुप्राप्तस्वकार्थैः परिक्षीणभवसंयोजनैः सम्यगाज्ञया सुविमुक्तचित्तैर् मागधेषु जनपदेषु चर्यां चरन् येन यष्टिवनं सुप्रतिष्ठितो मागधकानां चैत्यस् तेन चर्यां प्रक्रान्तः; अथ भगवान् सुप्रतिष्ठितं चैत्यं अनुप्राप्तो यष्टिवने सुप्रतिष्ठिते विहरति मागधकानां चैत्ये; अश्रौषीद् राजा मागधः श्रैन्यो बिंबिसारः; भगवान् महता भिक्षुसंघेन सार्धं भिक्षुसहस्रेण सर्वैः पूर्ववद् यावत् सम्यगाज्ञया सुविमुक्तचित्तैर् मागधेषु जनपदेषु चर्यां चरन् येन यष्टिवनं सुप्रतिष्ठितो मागधकानां चैत्यस् तेनानुप्राप्तो यष्टिवने विहरति मागधकानां चैत्ये

fol. 513ff. first ed. in msv iv 213ff.

उद्दानम्:

कौण्डिन्यो नन्दीपालश् च मोदका उदकं पिबेत् / पूपको मधुवासिष्ठो विनयाग्रं गणितेन च //

करकः कलभुश् चैव विश्वभुग् वनरथेन च / छत्रं कीतशिरामैत्री तथा घण्टेन घोषिता //

यदा आयुष्मता कौण्डिन्येन सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम् <इति> भगवता सङ्घाटीध्वजधारिणाम् अग्रो निर्दिष्टः, तदा भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: किं भदन्त आयुष्मता कौण्डिन्येन कर्म कृतम् येन भगवता सङ्घाटीध्वजधारिणाम् अग्रो निर्दिष्टः? भगवान् आह: कौण्डिन्येन भिक्षुणा कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययान्य् ओघवत् प्रत्युपस्थितान्य् अवश्यभावीनि; कौण्डिन्येनैव कर्माणि कृतान्य् उपचितानि को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ; (sbv ii 2) अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च;

न प्रणश्यन्ति कर्माण्य् अपि कल्पशतैर् अपि / सामग्रीम् प्राप्य कालं च फलन्ति खलु देहिनाम् //

story of kauṇḍinya

भूतपूर्वं भिक्षवः अस्मिन्न् एव भद्रके कल्पे वर्षसहस्रायुषि प्रजायां काश्यपो नाम सम्यक्संबुद्धो लोक उदपादि, विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्; *स वाराणसीं नगरीम् उपनिश्रित्य विहरति करकच्छेदके पर्वते; यावद् अपरेण समयेन काश्यपः सम्यक्संबुद्धः पूर्वाह्णे निवास्य, पात्रचीवरम् आदाय वाराणसीं प्रविशति; पञ्चमात्राणि च गोष्ठिकशतानि निर्गच्छन्ति; अद्राक्शुस् ते गोष्ठिकास् तं बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलङ्कृतम्, अशित्या चानुव्यञ्जनैर् विराजितगत्रम्, व्यामप्रभालङ्कृतं, सूर्यसहस्रातिरेकप्रभम्, जङ्गमम् इव रत्नपर्वतं समन्ततो भद्रकम्; सहदर्शनाच् च प्रसादजाताः सञ्जल्पं कर्तुम् आरब्धाः: भवन्तो ऽस्माभिर् अस्य सकाशे प्रव्रजितव्यम् इति; तेषाम् एवं कृतसङ्केतानां केचिन् महासमुद्रम् अवतीर्णाह्; केचिद् देशान्तरं गताः; केचित् कालधर्मेण संयुक्ताः; षोदशजनाः परिशिष्टाः; ते कर<क>च्छेदकं पर्वतं गत्वा काश्यपस्य सम्यक्संबुद्धस्य सकाशे प्रव्रजिताः; ते तत्र ध्यानाध्ययनयोगेनावस्थिताः; यावद् अपरेण समयेन काश्यपः सम्यक्संबुद्धः सकलं बुद्धकार्यं कृत्वा इन्धनक्षयाद् इवाग्निः ऋषिवदने मृगदावे निरुपधिशेषे निर्वाणधातौ परिनिर्वृतह्; तेषां देवताभिर् आरोचितम्: भवन्तः काश्यपः परिनिर्वृतः; सप्ताहपरिनिर्वृतस्य चास्य शासनम् अन्तर्हितम्; किं यूयम् अफलकंबुका पुरतस्तिष्ठत इति; ते श्रुत्वा अकृतकार्यत्वान् महता दुःखेनाभ्याहताह्; पञ्च सहश्रवणाद् एव करकच्छेदकात् पर्वताद् अवतीर्य वाराणसीं प्रविष्टाः; षड्भिस् तेनैव संवेगेन

वीर्यम् अवलम्ब्य प्रत्येकबोधिः साक्षात्कृता; पञ्च पश्चाद् अवतीर्य वाराणसीं प्रवेष्टुम् (sbv ii 3) आरब्धाः; यावच् छकटसार्थो निर्गच्छति; एकस्य शाकटिकस्य बलीवर्दा दुर्बलाः; स तान् प्रतोदयष्ट्या भूयो ताडयति; दुर्बलप्राणत्वान् न शक्नुवन्ति गन्तुम्; स च शाकटिकस् तस्य शकटसार्थस्याग्रतो यायी; स तैर् भिक्षुभिर् उक्तः: भोः शाकटिक तवेमे बलीवर्दा दुर्बलाः; किम् एतान् प्रतोदयष्ट्या भूयोभूयस् ताडयसि? यदि न शक्नुवन्ति गन्तुम्, विस्रब्धगतिप्रचारतया पृष्ठतो ऽनुगच्छेति; स कथयति: ममाग्रतो गच्छतो न शक्यम् अनेन शकटसार्थेन सार्धं गन्तुम्; यद्य् अहं पृष्ठतो ऽनुगच्छामि, नूनम् अयं शकटसार्थो छोरयित्वा गच्छतीति; ते शाकटिकस्यान्तिके असद्विकल्पसंज्ञनितवैमुख्याः परस्परं कथयन्ति: भवन्तः काश्यपे सम्यक्संबुद्धे परिनिर्वृते वयं विलम्बिता इत्य् अनेनास्माकम् एषा चोदना कृता; यन् नु वयं वीर्यम् आरभेमहि; इति विदित्वा गाथां भाषन्ते: यद्य् अप्य् अन्तर्हितो धर्मः काश्यपस्य महामुनेः /

वीर्यं न स्रंसयिष्यामः सम्यक्संबुद्धदेशितम् //

परिक्षयं न यास्यन्ति यद्य् अप्य् अस्माकम् आस्रावाः / श्रावकाग्रा भविष्यामः शाक्यसिंहस्य तायिनः // इति;

ते वाराणसीं प्रविश्य पिण्डपातं चरित्वा पुनर् अपि करकच्छेदकं पर्वतं गत्वा ध्यानाध्ययनयोगेनावस्थिताः; तेषां चत्वारः कालगताः; एको ऽवस्थितः; स उत्सुक उदानम् उदानयति: अयम् एव स करकच्छेदकः पर्वतो यत्र मया काश्यपः सम्यक्संबुद्धः पर्युपासितः; दृष्टश् च तस्य विंशतिभिक्षुसहराणाम् एकः (अ 425ब्) सकलजम्बूद्वीपे ऽपि सङ्घाटीध्वजधारीति; स प्रणिधानं कर्तुम् आरब्धः: यन् मया भगवति काश्यपे सम्यक्संबुद्धे यावदायुर् ब्रह्मचर्यं चरितम्; न कश्चिद् गुणगणो ऽधिगतः; अनेनाहं कुशलमूलेन यो ऽसौ भगवता काश्यपेन सम्यक्संबुद्धेन उत्तरो नाम माणवो व्याकृतः, भविष्यसि त्वं माणव वर्षशतायुषि प्रजायां शाक्यमुनिर् नाम तथागतः अर्हन् सम्यक्संबुद्धः इति; तस्याहं शासने प्रव्रज्य तत्प्रथमतः सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कुर्याम्; मां च भगवान् शाक्यमुनिः सङ्घाटीध्वजधारिणाम् अग्रं निर्दिशेद् इति. किं मन्यध्वे भिक्षवः? यो ऽसौ तेन कालेन समयेन भगवतः काश्यपस्य सम्यक्संबुद्धस्य परिनिर्वृतस्य विंशतिभिक्षुसहराणाम् (sbv ii 4) सकलजम्बूद्वीपे एको भिक्षुर् अवशिष्टः सङ्घाटीध्वजधारी, येन तत्करकच्छेदके पर्वते प्रणिधानं कृतम्, एष एवासौ कौण्डिन्यो भिक्षुः; तत्प्रणिधान्वशाद् एतर्हि भगवता सङ्घाटीध्वजधारिणाम् अग्रतायां निर्दिष्टः; इति हि भिक्षवः एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः, एकान्तशुक्लानाम् एकान्तशुक्लः, व्यतिमिश्राणां व्यतिमिश्रः; तस्मात् तर्हि भिक्षवः एकान्तकृष्णानि कर्माण्य् अपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्व् एव कर्मस्व् आभोगः करणीयः; इत्य् एवं वो भिक्षवः शिक्षितव्यम्. यदा भगवता

आयुष्मतः कौण्डिन्यस्य आकार्याकार्य धर्मो देशितः, आज्ञातस् ते कौण्डिन्य धर्मः? आज्ञतो भगवन्; आज्ञतस् ते कौण्डिन्य धर्मः? आज्ञतस् सुगत, इति, तदा भिक्षवः संशयजातः सर्वसंशयछेत्तारं बुद्धं भगवन्तं पप्रच्छुः: किं भदन्त आज्ञातकौण्डिन्येन कर्म कृतं येनास्य भगवता आकार्याकार्य धर्मो देशितः, आज्ञातस् ते कौण्डिन्य धर्मः? आज्ञतो भगवन्; आज्ञतस् ते कौण्डिन्य धर्मः? आज्ञतस् सुगत इति; भगवान् आह: कौण्डिन्येनैव भिक्षवो भिक्षुणा कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि पूर्ववद् यावत् फलन्ति खलु देहिनाम्.

story of kāśisundaraka (kṣāntivādin) (concerning a previous birth of kauṇḍinya)

भूतपूर्वं भिक्षवो वाराणस्यां नगर्यां ब्रह्मदत्तो नाम राजा राज्यं कारयति, ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च; सो ऽपरेण समयेन देव्या सार्धं क्रीडति रमते परिचारयति; तस्य क्रीडतो रममाणस्य परिचारयतः देवी आपन्नसत्वा संवृत्ता; अष्टानां वा नवानां वा मासानाम् अत्ययात् प्रसूता; दारको जातः, अभिरूपो दर्शनीयः प्रासादिकः सर्वाङ्गप्रत्यङ्गोपेतः; तस्य जातौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते, किं भवतु दारकस्य नामेति; अमात्याः ऊचुः: देव आचरितं मध्यदेशे यो ऽभिरूपो भवति प्रासादिकः स सुन्दर इत्य् उच्यते; अयं च दारकः अभिरूपो दर्शनीयः प्रासादिकः, काशिराजस्य च पुत्रः; भवतु दारकस्य काशिसुन्दर इति नामेति; तस्य काशिसुन्दर इति नामधेयं व्यवस्थापितम्; काशिसुन्दरो दारकः अष्टाभ्यो धात्रीभ्यो दत्तः; द्वाभ्याम् अङ्गधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां (अ 426अ) मलधात्रीभ्यां द्वाभ्यां क्रीडनिकाभ्यां धात्रीभ्याम्; अष्टाभिर् धात्रीभिर् उन्नीयते क्षीरेण (sbv ii 5) दध्ना नवनीतेन सर्पिषा सर्पिर्मण्डेन अन्यैश् चोत्तप्तोत्तप्तैर् उपकरणविशेषैर् आशु वर्धते ह्रदस्थम् इव पङ्कजम्. भूयो ऽपि राज्ञः क्रीडतो रममाणस्य परिचारयतः देवी आपन्नसत्वा संवृत्ता; सा अष्टानां वा नवानां वा मासानाम् अत्ययात् प्रसूता; दारको जातः; यस्मिन्न् एव दिवसे वाराणस्यां पौरजानपदानां महान् कलिर् उत्पन्नः; तस्यापि जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते, किं भवतु दारकस्य नामेति; अन्तःपुरजनः कथयति: देव अस्य जन्मनि वाराणस्यां पौरजानपदानां महान् कलिर् अभूत्; तस्माद् भवतु दारकस्य कलिभूर् इति

नामेति; राजा ब्रह्मदत्तः धर्माधर्मेण राज्यं कारयति; काशिसुन्दरः कुमारः पश्यति पितरं धर्माधर्मेण राज्यं कारयन्तम्; दृष्ट्वा च पुनर् अस्यैतद् अभवत्: अहम् अपि पितुर् अत्ययाद् राजा भविष्यामि; अहम् अपि धर्माधर्मेण राज्यं कारयित्वा नरकपरायणो भविष्यामि; यन्न्व् अहम् अगाराद् अनगारिकां प्रव्रजेयम् इति; स पितुस् सकाशम् उपसंक्रान्तः; पादयोर् निपत्य कथयति: तात अनुजानिष्व, प्रव्रजाम्य् अगाराद् अनगारिकाम् इति; स कथयति: पुत्र यस्यार्थे यज्ञा इज्यन्ते, होमा हूयन्ते, तपांसि तप्यन्ते, तत् तव करतलगतं राज्यम्; कस्यार्थे अपास्य प्रव्रजसीति; स गाथां भाषते: वरं वने वल्कलचीरवाससा फलाशिना व्याडमृगैः सहोषितम् / न राज्यहेतोर् वधबन्धताडनं बुधेन कर्तुं परलोकभीरुणा //

इति; राज कथयति; यत् खलु कुमार जानीयास् त्वम् अस्माकम् एकपुत्रः प्रियो मनापः क्षान्तो ऽप्रतिकूलः; मरणेन ते वयम् अकामका वियुज्येम; न तु जीवन्तं परित्यक्ष्यामः; काशिसुन्दरः कुमारः कथयति; तात सचेद् अनुज्ञास्यसीत्य् एवं कुशलम्; नो चेद् अनुज्ञास्यसि, अद्य न भोक्ष्ये, न पास्यामीति; तत्र काशिसुन्दरः कुमारः एकम् अपि भक्तच्छेदम् अकार्षीद्, द्वौ, त्रीन्, यावद् षड् भक्तच्छेदान् अकार्षीत्; अथ राज ब्रह्मदत्तः काशिसुन्दरं कुमारम् इदम् अवोचत्: (sbv ii 6) यत् खलु तात कुमार जानीया दुश्चरं ब्रह्मचर्यम्, दुष्करं प्राविवेक्यं, दुरभिरमम् एकत्वे, दुरभिसंबुधान्य् अरण्यवनप्रस्थानि, प्रान्तानि शयनासनान्य् अध्यावस्तुम्, दुःखम् एकाकिनो ऽरण्ये वासः; यावज्जीवं ते व्याडमृगैः सह वस्तव्यम्; यावज्जीवं ते परदत्तभोजिनो भवितव्यम्; यावज्जीवं ते मानुषकेभ्यः कामेभ्यः आवरणं कर्तव्यम्; यावज्जीवं ते मानुषिकाभ्यो रतिक्रीडाभ्य आवरणं कर्तव्यम्; एहि त्वं तात कुमार इहैव स्थितो यौवराज्यं कारय; कामांश् च परिभुंक्ष्व; दानानि च देहि पुण्यानि च कुरु; एवम् उक्त काशिसुन्दरः कुमारस् तूष्णीम्. अथ राजा ब्रह्मदत्तः अन्तःपुरम् अमात्यान् पौरोहितांश् चोद्योजयति; अङ्ग तावद् भवन्तः कुमारम् उत्थापयत; एवं देवेत्य् अन्तःपुरामात्यपौरोहिता येन काशिसुन्दरः कुमारस् तेनोपसंक्रान्ताः; उपसंक्रम्य काशिसुन्दरं कुमारं इदम् अवोचन्: यत् खलु (अ 426ब्) तात कुमार जानीयास्, त्वं हि सुकुमारः सुखैषी; न त्वं ज्ञाता दुःखस्य; दुश्चरं ब्रह्मचर्यम्; दुष्करं प्राविवेक्यं, दुरभिरमम् एकत्वे, दुरभिसंबुधान्य् अरण्यवनप्रस्थानि, प्रान्तानि शयनासनान्य् अध्यावस्तुम्, दुःखम्

एकाकिनो ऽरण्ये वासः; यावज्जीवं ते व्याडमृगैः सह वस्तव्यम्; यावज्जीवं ते परदत्तभोजिनो भवितव्यम्; यावज्जीवं ते मानुषकेभ्यः कामेभ्यः आवरणं कर्तव्यम्; यावज्जीवं ते मानुषिकाभ्यो रतिक्रीडाभ्य आवरणं कर्तव्यम्; एहि त्वं तात कुमार इहैव स्थितो यौवराज्यं कारय; कामांश् च परिभुंक्ष्व; दानानि च <देहि पुण्यानि च> कुरु; एवम् उक्त काशिसुन्दरः कुमारस् तूष्णीम्. अथ राजा ब्रह्मदत्तः काशिसुनद्रस्य कुमारस्य पांसुक्रीडनकामात्यपुत्रान् पौरोहितपुत्रान् अन्यांश् च कुमाराण् उद्योजयति; अङ्ग तावद् कुमारकाः काशिसुन्दरं कुमारम् उत्थापयत; अथामात्यपुत्राः पुरोहितपुत्राः कुमाराश् च राज्ञो ब्रह्मदत्तस्य प्रतिश्रुत्य, येन काशिसुन्दरः कुमारस् तेनोपसंक्रान्ताः; उपसंक्रम्य काशिसुन्दरं कुमारं इदम् अवोचन्: यत् खलु सोम्य कुमार जानीयास् त्वं हि सुकुमारः सुखैषी; न त्वं ज्ञाता दुःखस्य; दुश्चरं ब्रह्मचर्यम्; दुष्करं प्राविवेक्यं, दुरभिरमम् एकत्वे; दुरभिसंबुधान्य् अरण्यवनप्रस्थानि, प्रान्तानि शयनासनान्य् अध्यावस्तुम्, दुःखम् एकाकिनो ऽरण्ये वासः; यावज्जीवं ते व्याडमृगैः (sbv ii 7) सह वस्तव्यम्; यावज्जीवं ते परदत्तभोजिनो भवितव्यम्; यावज्जीवं ते मानुषकेभ्यः कामेभ्यः आवरणं कर्तव्यम्; यावज्जीवं ते मानुषिकाभ्यो रतिक्रीडाभ्यः आवरणं कर्तव्यम्; एहि त्वं सोम्य कुमार इहैव स्थितो यौवराज्यं कारय; कामांश् च परिभुंक्ष्व; दानानि <च> देहि; पुण्यानि च कुरु; एवम् उक्त काशिसुन्दरः कुमारस् तूष्णीम्. अथामात्यपुत्राः पुरोहितपुत्राः च येन राजा ब्रह्मदत्तस् तेनोपसंक्रान्ताः; उपसंक्रम्य राजानं ब्रह्मदत्तम् इदम् अवोचन्: अनुजानीहि देव सोम्यं

काशिसुन्दरं कुमारम्; किं हि मृतेन करिष्यसि? विज्ञप्रशस्ता हि प्रव्रज्या; सचेद् अभिरंस्यसे, जीवन्तम् एनं द्रक्ष्यसि; नो चेद् अभिरंस्यसे, पुनर् आवर्तिका हि ऋषयो भवन्ति; कान्या पुत्रस्य गतिर्, अन्यत्र मातापितृभ्याम्. राजा ब्रह्मदत्तः कथयति: कुमारका यद्य् एवम्, अनुज्ञतो भवतु; अथामात्यपुत्राः पुरोहितपुत्राः कुमाराश् च येन काशिसुन्दरः कुमारस् तेनोपसंक्रान्ताः; उपसंक्रम्य काशिसुन्दरं कुमारं इदम् अवोचन्: यत् खलु सोम्य कुमार जानीयाः, अनुज्ञतो ऽसि राज्ञा प्रव्रज्यायै, यस्येदानीं कालं मन्यसे: अथ काशिसुन्दरः कुमारः मण्डानुपूर्वीं कृत्वा कायस्य स्थाम च बलं च वीर्यं च सञ्जन्य वाराणस्याः च निष्क्रम्य ऋषीणां मध्ये प्रव्रजितः; तेनोद्यच्छमानेन, व्यायच्छमानेन, कामेषु वैरग्यं कृत्वा मैत्री समधिगता; सो ऽत्यन्तं सत्वेषु दयावान् संवृत्तः; तस्यैतया मत्र्या व्याडमृगा अप्य् आश्रमपदे विश्वासम् आपद्यन्ते; नापराध्यन्ते; तस्य क्षान्तिवादी क्षान्तीवादीति संज्ञासंवृत्ता; यावद् अपरेण समयेन (अ 427अ) राजा ब्रह्मदत्तः कालगतः; कलभू राज्ये प्रतिष्ठापितः; स धर्माधर्मेण <राज्यं> कारयति; क्षान्तिवादी ऋषिः कथयति: उपाध्याय ममान्नपानाभिवर्जितम्; न शक्नोम्य् आरण्यकाभिर् ओषधीभिर् यापयितुम्; ग्रामान्तं समवसरामीति; कथयति: वत्स ग्रामे वारण्ये <वा> वसतो ऋषिणो रक्षितव्याण्य् एवेन्द्रियाणि; गच्छ वाराणसीसामन्तकम्; गत्वा शाखापर्णकुटीरकाणि कृत्वा वासं कल्पयेति; स उपाध्यायाल् लब्धानुज्ञो वाराणसीं (sbv ii 8) गत्वा शान्तविहारसमन्वेषणया इतश् चामुतश् च परिभ्रमन्न् अनुपूर्वेण पितुः सन्तकम् उद्यानं गतः; तेन तस्मिन् पर्यटता शान्तः प्रदेशो

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.