Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luật tạng
पुद्गलवस्तु
- Thông tin
- GRETIL — N. Dutt: Gilgit Manuscript, vol. III: Mūlasarvāstivādavinayavastu, part 3 (Srinagar 1943), pp. 59-88: Pudgalavastu (second edition: Delhi 1984).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
पुद्गलवस्तु
पुद्गलवस्तु
पिण्डोद्दानम्* /
उदायी समुच्छ्रयः पर्यन्तो ऽथापरेण भवति पश्चिमम्* /
उद्दानम्* /
उदायी अन्येन स्मरन्ति लज्जित इदानीं जानामि द्वय द्वय कृतम्* / सुदत्त दुर्दत्त चतुष्कभाषितम्* स्मृतिप्रमोषेण चत्वारः प्रकाशिताः //
बुद्धो भगवान् श्रावस्त्यां विहरति जेतवने अनाथपिण्डदस्यारमे / तेन खलु समयेन उदायी संघावशेषाम् आपत्तिम् आपन्नः संचिन्त्यशुक्रविसृष्टिसमुत्थिताम् (303र्1 = ग्ब्म् 6.918) अर्धमासप्रतिच्छन्नाम्* / एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति / भगवान् आह / ददत यूयं भिक्षवः उदायिनो भिक्षोर् अस्याः संघावशेषाया आपत्तेः संचिन्त्यशुक्रविसृष्टिसमुत्थिताया अर्धमासप्रतिच्छन्नाया अर्धमासं परिवासम् इति / यो वा पुनर् अन्यो ऽप्य् एवंजातीयः /
अथापरः पुद्गलः संघावशेषाम् आपत्तिम् आपन्नः अप्रतिच्छन्नाम्* / एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति / भगवान् आह / ददत यूयं भिक्षवो ऽस्य पुद्गलस्यास्याः संघावशेषाया आपत्तेर् अप्रतिच्छन्नायाः षड् रात्रं मानाप्यम् इति / यो वा पुनर् अन्यो ऽप्य् एवंजातीयः /
अथापरः पुद्गलः संघावशेषाम् आपत्तिम् आपन्नः / स ते द्वे आपत्ती द्वौ मासौ न जानाति / द्वयोर् मासयोर् अत्ययाज् ज्ञात्वा द्वौ मासौ (msv iii 62) प्रतिच्छाद्य एकां भिक्षूणाम् आरोचयति / एकां नारोचयति / तस्य संघेन द्वौ मासौ परिवासो दत्तः / स पारिवासिक एव सन् ताम् अन्यापत्तिं प्रतिजानाति या अनेन संघमध्ये नारोचयति / स एतत् प्रकरणं भिक्षूणाम् आरोचयति / भिक्षवो भगवतः / भगवान् आह / ददत यूयं भिक्षवस् तस्य पुद्गलस्यापत्तेस् ताव् एव द्वौ मासौ परिवासम् इति / यो वा पुनर् अन्यो ऽप्य् एवंजातीयः / यथा प्रतिजानात्य् एवं स्मरति /
अथापरः पुद्गलः संघावशेषे द्वे आपत्ती आपन्नः / स ते द्वे आपत्ती द्वौ मासौ न जानाति / द्वयोर् मासयोर् अत्ययाज् ज्ञात्वा द्वौ मासौ प्रतिच्छाद्य एकां भिक्षूणाम् आरोचयति / एकां नारोचयति / तस्य संघेन द्वौ मासौ परिवासो दत्तः / स पारिवासिको लज्जी धर्मम् अवक्रान्तः / स एतत् प्रकरणं भिक्षूणाम् आरोचयति / अहम् अस्म्य् आयुष्मन्तः संघावशेषे द्वे आपत्ती आपन्नः / सो ऽहं ते द्वे आपत्ती द्वौ मासौ न जानामि / द्वयोर् मासयोर् अत्ययाज् ज्ञात्वा द्वौ मासौ प्रतिच्छाद्य एकां भिक्षूणाम् आरोचयामि / तस्य मम संघेन द्वौ मासौ परिवासो दत्तः / सो ऽहं पारिवासिको लज्जी धर्मम् अवक्रान्तः / तस्य तत् प्रकरणं भिक्षवो भगवत आरोचयन्ति / भगवान् आह / ददत यूयं भिक्षवस् तस्य पुद्गलस्य तस्या आपत्तेर् यथाप्रतिच्छन्नायाः परिवासम् इति / यो वा पुनर् अन्यो ऽप्य् एवंजातीयः / यथा जानात्य् एवं स्मरति /
अथापरः पुद्गलः संघावशेषाम् आपत्तिम् आपन्नः / स त्व् अर्धमासं प्रातिमोक्षसूत्रोद्देश उद्दिश्यमाने एवम् आह इदानीम् अहम् आयुष्मन्तो जाने यथायं धर्मः सूत्रगतः सूत्रपर्यापन्न इति / तं चेद् भिक्षवो जानीरन् संनिषण्णः पूर्वो ऽयम् आयुष्मान् द्वे त्रीणि वा पोषधकर्माणि कः पुनर् वादो भूय इति / तस्यायुष्मतो नैवाज्ञानान् मुक्तिः / स यां चापत्तिम् आपन्नस् तां च यथाधर्मं कारयितव्यः / उत्तरे च संवेजयितव्यः / यथा जानात्य् एवं स्मरति /
अथापरः पुद्गलः संघावशेषाम् आपत्तिम् आपन्नः / स त्व् अर्धमासं प्रातिमोक्षसूत्रोद्देश उद्दिश्यमाने एवम् आह इदानीम् अहम् आयुष्मन्तो जाने यथायं धर्मः सूत्रगतः सूत्रपर्यापन्न इति / तं चेद् भिक्षवो न जानीरन् संनिषण्णः पूर्वो ऽयम् आयुष्मान् द्वे त्रीणि वा पोषधकर्माणि कः पुनर् वादो भूय इति / तस्यैवायुष्मतो नैवाज्ञानान् मुक्तिः / स यां चापत्तिम् (303व्1 = ग्ब्म् 6.919) आपन्नस् तां यथाधर्मं कारयितव्यः / यथा जानात्य् एवं स्मरति /
अथापरः पुद्गलः संघावशेषाम् आपत्तिम् आपन्नः / स तां मासं न जानाति / मासस्यात्ययाज् ज्ञात्वा मासं प्रतिच्छाद्य भिक्षूणाम् आरोचयति / तस्य संघेन द्वौ मासौ परिवासो दत्तः / स पारिवासिकः सन्न् आगतागतानां भिक्षूणाम् आरोचयति / अहम् अस्म्य् आयुष्मन्तः संघावशेषाम् आपत्तिम् आपन्नः / सो ऽहं ताम् आपत्तिम् आपन्नो जानामि मासस्यात्ययाज् ज्ञात्वा मासं प्रतिच्छाद्य भिक्षूणाम् आरोचयामि / तस्य मम संघेन द्वौ मासौ परिवासो दत्तः / (msv iii 64) मासम् आयुष्मन्तः सुदत्तो मासं दुर्दत्तः / तत् कस्य हेतोः / अधर्मत्वात् कोप्यत्वात् कर्मणः / यथा जानात्य् एवं स्मरति /
अथापरः पुद्गलः संघावशेषाम् आपत्तिम् आपन्नः / स ताम् आपत्तिं मासं न जानाति / मासस्यात्ययाज् ज्ञात्वा अप्रतिच्छाद्य भिक्षूणाम् आरोचयति / तस्य संघेन मासं परिवासो दत्तः / स आगतागतानां भिक्षूणाम् आरोचयति / अहम् अस्म्य् आयुष्मन्तः संघावशेषाम् आपत्तिम् आपन्नः / सो ऽहं ताम् आपत्तिम् मासं न जानामि / मासस्यात्ययाज् ज्ञात्वा अप्रतिच्छाद्य भिक्षूणाम् आरोचयामि / तस्य मम संघेन मासं परिवासो दत्तः / दुर्दत्तः आयुष्मन् न सुदत्तः / तत् कस्य हेतोः / मानाप्यार्ह आयुष्मन्* / यथा जानात्य् एवं स्मरति /
अथापरः पुद्गलः संघावशेषाम् आपत्तिम् आपन्नः प्रतिच्छन्नां देशयिष्यामीति न स्मरति / स ताम् आपत्तिं स्मृत्वाप्रतिच्छाद्य भिक्षूणाम् आरोचयति / भिक्षवो भगवतः / भगवान् आह / ददत यूयं भिक्षवस् तस्य पुद्गलस्य तस्या आपत्तेर् उभयसंततेः परिवासं पूर्विकायाः पश्चिमकाया इति / यो वा पुनर् अन्यो ऽप्य् एवंजातीयः /
msv iii 65) अथापरः पुद्गलः संघावशेषाम् आपत्तिम् आपन्नः प्रतिच्छन्नां देशयिष्यामीति न स्मरति / स ताम् स्मृत्वा अप्रतिच्छाद्य भिक्षूणाम् आरोचयति / भिक्षवो भगवत आरोचयति / भगवान् आह / ददत यूयं भिक्षवस् तस्य पुद्गलस्य तस्या आपत्तेः पूर्विकायाः संततेः परिवासम् इति / यो वा पुनर् अन्यो ऽप्य् एवंजातीयः /
अथापरः पुद्गलः संघावशेषाम् आपत्तिम् आपन्नस् ताम् अप्रतिच्छन्नां देशयिष्यामीति न स्मरति / स ताम् स्मृत्वा प्रतिच्छाद्य भिक्षूणाम् आरोचयति / भिक्षवो भगवतः / भगवान् आह / ददत यूयं भिक्षवस् तस्य पुद्गलस्य तस्या आपत्तेः पूर्विकायाः परिवासम् इति / यो वा पुनर् अन्यो ऽप्य् एवंजातीयः /
अथापरः पुद्गलः संघावशेषाम् आपत्तिम् आपन्नस् ताम् अप्रतिच्छन्नां देशयिष्यामीति न स्मरति / स ताम् स्मृत्वा अप्रतिच्छाद्यैव भिक्षूणाम् आरोचयति / भिक्षवो भगवतः / भगवान् आह / ददत यूयं भिक्षवस् तस्य पुद्गलस्य तस्या आपत्तेः षड् रात्रं मानाप्यम् इति / यो वा पुनर् अन्यो ऽप्य् एवंजातीयः /
उद्दानम्* /
समुच्छ्रयेण षोडश द्वे पञ्च अष्टविंशके / त्रिभिस् त्रिभिर् अष्टकाभिस् तिसृभिश् चतुश्चतुर अष्टकाः / उत्क्षिप्ता अष्टकास् तिस्रो मुखाः पञ्च समुद्दिताः //
अथापरः पुद्गलः संघावशेषाम् आपत्तिम् आपन्नः प्रतिच्छन्नां विभ्रान्तः / स आगत्य पुनर् उपसंपन्नः / स ताम् (304र्1 = ग्ब्म् 6.920) आपत्तिं प्रतिच्छाद्यैव भिक्षूणाम् आरोचयति / भिक्षवो भगवतः / भगवान् आह / ददत यूयं भिक्षवस् तस्य पुद्गलस्य तस्या आपत्तेः उभयसंततेः परिवासम् इति / यो वा पुनर् अन्यो ऽप्य् एवंजातीयः /
अथापरः पुद्गलः संघावशेषाम् आपत्तिम् आपन्नः प्रतिच्छन्नां विभ्रान्तः / स आगत्य पुनर् उपसंपन्नः / स ताम् आपत्तिम् अप्रतिच्छाद्य भिक्षूणाम् आरोचयति / भिक्षवो भगवतः / भगवान् आह / ददत यूयं भिक्षवस् तस्य पुद्गलस्य तस्या आपत्तेः पूर्विकायाः संततेः परिवासम् इति / यो वा पुनर् अन्यो ऽप्य् एवंजातीयः / अथापरः पुद्गलः संघावशेषाम् आपत्तिम् आपन्नः अप्रतिच्छन्नां विभ्रान्तः / स आगत्य पुनर् उपसंपन्नः / स ताम् आपत्तिं प्रतिच्छाद्य भिक्षूणाम् आरोचयति / भिक्षवो भगवतः / भगवान् आह / ददत यूयं भिक्षवस् तस्य पुद्गलस्य तस्या आपत्तेः पश्चिमिकायाः संततेः परिवासम् इति / यो वा पुनर् अन्यो ऽप्य् एवंजातीयः / अथापरः पुद्गलः संघावशेषाम् आपत्तिम् आपन्नः अप्रतिच्छन्नां विभ्रान्तः / स आगत्य पुनर् उपसंपन्नः / स ताम् आपत्तिम् अप्रतिच्छाद्यैव भिक्षूणाम् आरोचयति / भिक्षवो भगवतः / भगवान् आह / ददत यूयं भिक्षवस् तस्य पुद्गलस्य तस्या आपत्तेः षड् रात्रं मानाप्यम् इति / यो वा पुनर् अन्यो ऽप्य् एवंजातीयः /
यथा शुद्धकेन चत्वारि एवं जानतश् चत्वारि / स्मरतश् चत्वारि / वैमतिकेन चत्वारि / अनेनाकारेण अपरापि चतुष्किका / किं तु पेयालविशेषः /
अथापरः पुद्गलः एवं पारिवासिक एव वक्तव्यः / यथा पारिवासिकः एवं पर्युषितपरिवासो मानाप्यचारिकश् चरितमानाप्यः शिक्षादत्तकश् चतुष्किकायां योजयितव्याः / यथा विभ्रान्तः एवं श्रमणोद्देशकत्वं प्रतिजानाति / उन्मत्तकत्वं विक्षिप्तचित्तकत्वं वेदनाभिन्नकत्वम् अदर्शनायोत्क्षेपकत्वम् अप्रतिकर्मायोत्क्षेपकत्वम् अप्रतिनिसृष्टे च पापके दृष्टिगते उत्क्षेपकत्वम् इति विस्तरेण योजयितव्यम्* /
अथापरः पुद्गलो द्वे संघावशेषे आपत्ती आपन्नः प्रतिच्छन्नां चाप्रतिच्छन्नां च विभ्रान्तः / स आगत्य पुनर् उपसंपन्नः / स यां प्रतिच्छाद्य विभ्रान्तस् तां प्रतिच्छाद्यैव भिक्षूणाम् आरोचयति / याम् अप्रतिच्छाद्य तां प्रतिच्छाद्य भिक्षूणाम् आरोचयति / भिक्षवो भगवतः / भगवान् आह / ददत यूयं भिक्षवस् तस्य पुद्गलस्योभयसंततेः परिवासम्* / एकस्याः पूर्विकाया द्वितीयस्याः पश्चिमिकाया इति / यो वा पुनर् अन्यो ऽप्य् एवंजातीयः /
अथापरः पुद्गलः संघावशेषे द्वे आपत्ती आपन्नः प्रतिच्छन्नां चाप्रतिच्छन्नां च विभ्रान्तः / स आगत्य पुनर् उपसंपन्नः / स यां प्रतिच्छाद्य विभ्रान्तस् ताम् अप्रतिच्छाद्यैव भिक्षूणाम् आरोचयति / याम् अप्रतिच्छाद्य ताम् अप्रतिच्छाद्यैव भिक्षूणाम् आरोचयति / भिक्षवो भगवतः / भगवान् आह / ददत यूयं भिक्षवस् तस्य पुद्गलस्यैकस्या आपत्तेः पूर्विकायाः संततेः परिवासम्* / एकस्याः पश्चिमिकायाः षड् रात्रं मानाप्यम् इति / यो वा पुनर् अन्यो ऽप्य् एवंजातीयः /
अथापरः पुद्गलः संघावशेषे द्वे आपत्ती आपन्नः प्रतिच्छन्नां चाप्रतिच्छन्नां च विभ्रान्तः / स आगत्य पुनर् उपसंपन्नः / स यां प्रतिच्छाद्य विभ्रान्तस् ताम् अप्रतिच्छाद्य भिक्षूणाम् आरोचयति / यां त्व् अप्रतिच्छाद्य तां प्रतिच्छाद्य भिक्षूणाम् आरोचयति / भिक्षवो भगवतः / भगवान् आह / ददत यूयं भिक्षवस् तस्य पुद्गलस्यैकस्या आपत्तेः पूर्विकायाः संततेः परिवासम्* / एकस्याः पश्चिमिकायाः परिवासम् इति / (304व्1 = ग्ब्म् 6.921) यो वा पुनर् अन्यो ऽप्य् एवंजातीयः /
अथापरः पुद्गलः संघावशेषे द्वे आपत्ती आपन्नः प्रतिच्छन्नां चाप्रतिच्छन्नां च विभ्रान्तः / स आगत्य पुनर् उपसंपन्नः / स यां प्रतिच्छाद्य विभ्रान्तस् ताम् अप्रतिच्छाद्य भिक्षूणाम् आरोचयति / यां त्व् अप्रतिच्छाद्य ताम् अप्रतिच्छाद्यैव भिक्षूणाम् आरोचयति / भिक्षवो भगवतः / भगवान् आह / ददत यूयं भिक्षवस् तस्य पुद्गलस्यैकस्या (msv iii 69) आपत्तेः पूर्विकायाः संततेः परिवासम्* / एकस्याः पश्चिमिकायाः षड् रात्रं मानाप्यम् इति / यो वा पुनर् अन्यो ऽप्य् एवंजातीयः /
अथापरः पुद्गलः एवं पारिवासिकः पर्युषितपरिवासो मानाप्यचारिकश् चरितमानाप्यः शिक्षादत्तकश् च वक्तव्यः / यथा विभ्रान्तः एवं श्रमणोद्देशकत्वं प्रतिजानाति / उन्मत्तकत्वं प्रतिजानाति / विक्षिप्तचित्तकत्वं वेदनाभिन्नकत्वम् अदर्शनायोत्क्षिप्तकत्वम् अप्रतिनिसृष्टे पापके दृष्टिगते उत्क्षिप्तकत्वम् इति विस्तरेण वाच्यम्* /
अथापरः पुद्गलः संघावशेषाम् आपत्तिम् आपन्नः / परिमाणवतीः प्रतिच्छन्नाः / स संघेनादर्शनायोत्क्षिप्तः / ओसारितः स ता आपत्तीः प्रतिच्छाद्य भिक्षूणाम् आरोचयति / भिक्षवो भगवतः / भगवान् आह / ददत यूयं भिक्षवस् तस्य पुद्गलस्य तासाम् आपत्तीनां परिमाणवत्य इति कृत्वा उभयसंततेः परिवासं पूर्विकायाः पश्चिमिकायाश् चेति / यो वा पुनर् अन्यो ऽप्य् एवंजातीयः /
अथापरः पुद्गलः संघावशेषाम् आपत्तिम् आपन्नः / परिमाणवतीः प्रतिच्छन्नाः / स संघेनादर्शनायोत्क्षिप्तः / ओसारितः स ता आपत्तीर् अप्रतिच्छाद्य भिक्षूणाम् आरोचयति / भिक्षवो भगवतः / भगवान् आह / ददत यूयं भिक्षवस् तस्य पुद्गलस्य तासाम् आपत्तीनां परिमाणवत्य इति कृत्वा पूर्विकायाः संततेः परिवासम् इति / यो वा पुनर् अन्यो ऽप्य् एवंजातीयः /
अथापरः पुद्गलः संघावशेषाम् आपत्तिम् आपन्नः / परिमाणवतीर् अप्रतिच्छन्नाः / स संघेनादर्शनायोत्क्षिप्तः / ओसारितः स ता आपत्तीः (msv iii 70) प्रतिच्छाद्य भिक्षूणाम् आरोचयति / भिक्षवो भगवतः / भगवान् आह / ददत यूयं भिक्षवस् तस्य पुद्गलस्य तासाम् आपत्तीनां परिमाणवत्य इति कृत्वा पश्चिमिकायाः संततेः परिवासम् इति / यो वा पुनर् अन्यो ऽप्य् एवंजातीयः /
अथापरः पुद्गलः संघावशेषाम् आपत्तिम् आपन्नः / परिमाणवतीर् अप्रतिच्छन्नाः / स संघेनादर्शनायोत्क्षिप्तः / ओसारितः स ता आपत्तीर् अप्रतिच्छाद्य भिक्षूणाम् आरोचयति / भिक्षवो भगवतः / भगवान् आह / ददत यूयं भिक्षवस् तस्य पुद्गलस्य तासाम् आपत्तीनां परिमाणवत्य इति कृत्वा षड् रात्रं मानाप्यम् इति / यो वा पुनर् अन्यो ऽप्य् एवंजातीयः /
यथा परिमाणवतीर् एवम् अपरिमाणवतीः / यथा (305र्1 = ग्ब्म् 6.922) अदर्शनायोत्क्षिप्तकेनाष्टाव् एवम् अप्रतिकर्मायोत्क्षिप्तकेनाष्टाव् एवम् अप्रतिनिसृष्टे पापके दृष्टिगते उत्क्षिप्तकेनाष्टौ /
पारिवासिकः पुद्गलः संघावशेषाम् आपत्तिम् आपन्नो विभ्रान्तः / स आगत्य पुनर् उपसंपन्नः / एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति / भगवान् आह / अपर्युषितपरिवासं परिवसतु / पर्युषितपरिवासो भविष्यतीति /
यथा विभ्रान्त एवं श्रमणोद्देशकत्वं प्रतिजानाति / उन्मत्तकत्वं विक्षिप्तचित्तकत्वं वेदनाभिन्नकत्वम् अदर्शनायोत्क्षिप्तकत्वम् अप्रतिकर्मायोत्क्षिप्तकत्वम्* /
पर्युषितपरिवासः पुद्गलः संघावशेषाम् आपत्तिम् आपन्नो विभ्रान्तः / स आगत्य पुनर् उपसंपन्नः / एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति / (msv iii 71) भगवान् आह / पर्युषितपरिवास एवासौ भिक्षवः पुद्गलः / ददतास्य मानाप्यम् इति /
यथा विभ्रान्तः एवं श्रमणोद्देशकत्वं प्रतिजानाति / पूर्ववद् एव पेयालो यावद् अप्रतिनिसृष्टे पापके दृष्टिगते उत्क्षिप्तकत्वम्* /
मानाप्यचारिकः पुद्गलः संघावशेषाम् आपत्तिम् आपन्नो विभ्रान्तः / स आगत्य पुनर् उपसंपन्नः / एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति / भगवान् आह / अचरितं चरतु / चरितमानाप्यो भविष्यतीति / यथा विभ्रान्तः पूर्ववत्* / एष एव पेयालः /
चरितमानाप्यः पुद्गलः संघावशेषाम् आपत्तिम् आपन्नो विभ्रान्तः / स आगत्य पुनर् उपसंपन्नः / एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति / भगवान् आह / चरितमानाप्य एवासौ भिक्षवः / आवर्हतैनम् इति / यथा विभ्रान्तः पूर्ववत्* / एष एव पेयालः /
अदर्शनायोत्क्षिप्तकः पुद्गलः संघावशेषाम् आपत्तिम् आपन्नः अप्रतिच्छन्नाम्* / स संघेनादर्शनायोत्क्षिप्तः / ओसारितः स ताम् आपत्तिं प्रतिच्छाद्य भिक्षूणाम् आरोचयति / भिक्षवो भगवतः / भगवान् आह / ददत यूयं भिक्षवस् तस्य पुद्गलस्य तास्या आपत्तेः पश्चिमिकायाः संततेः परिवासम् इति / यो वा पुनर् अन्यो ऽप्य् एवंजातीयः /
अदर्शनायोत्क्षिप्तकः पुद्गलः संघावशेषाम् आपत्तिम् आपन्नः अप्रतिच्छन्नाम्* / स संघेनादर्शनायोत्क्षिप्तः / ओसारितः स ताम् आपत्तिम् अप्रतिच्छाद्य भिक्षूणाम् आरोचयति / भिक्षवो भगवतः / भगवान् आह / ददत यूयं भिक्षवस् तस्य पुद्गलस्य षड् रात्रं मानाप्यम् इति / यो वा पुनर् अन्यो ऽप्य् एवंजातीयः /
यथा शुद्धकेन द्वे एवं जानतो द्वे स्मरतो द्वे वैमतिकेन द्वे / यथादर्शनायोत्क्षिप्तकेनाष्टौ एवम् अप्रतिकर्मायोत्क्षिप्तकेनाष्टौ अप्रतिनिसृष्टे पापके दृष्टिगते उत्क्षिप्तकेनाष्टौ /
उद्दानम्* /
पर्यन्तेन द्वादशिका नविकाः सार्वकालिकाः / यामिकां नविकां कृत्वा पदानि दश पंच च //
अथापरः पुद्गलः संघावशेषाम् आपत्तिम् आपन्नः / अपरिमाणवतीः प्रतिच्छन्नाः / स तासाम् आपत्तीनाम् आपत्तिपर्यन्तं जानाति नो तु रात्रिपर्यन्तम्* / एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति / भगवान् आह / ददत यूयं भिक्षवस् तस्य पुद्गलस्य तासाम् आपत्तीनाम् अपरिमाणवत्य (305व्1 = ग्ब्म् 6.923) इति कृत्वा शुद्धान्तिकं परिवासम् इति / यो वा पुनर् अन्यो ऽप्य् एवंजातीयः /
अथापरः पुद्गलः संघावशेषाम् आपत्तिम् आपन्नः / अपरिमाणवतीः प्रतिच्छन्नाः / स तासाम् आपत्तीनाम् रात्रिपर्यन्तं जानाति नो त्व् आपत्तिपर्यन्तम्* / एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति / भगवान् आह / ददत यूयं भिक्षवस् तस्य पुद्गलस्य तासाम् आपत्तीनाम् अपरिमाणवत्य (msv iii 73) इति कृत्वा यथा प्रतिच्छन्नानां परिवासम् इति / यो वा पुनर् अन्यो ऽप्य् एवंजातीयः /
अथापरः पुद्गलः संघावशेषाम् आपत्तिम् आपन्नः / अपरिमाणवतीः प्रतिच्छन्नाः / स तासां नैवापत्तिपर्यन्तं जानाति नो रात्रिपर्यन्तम् इति / एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति / भगवान् आह / ददत यूयं भिक्षवस् तस्य पुद्गलस्य तासाम् आपत्तीनाम् अपरिमाणवत्य इति कृत्वा शुद्धान्तिकं परिवासम् इति / यो वा पुनर् अन्यो ऽप्य् एवंजातीयः /
अथापरः पुद्गलः संघावशेषाम् आपत्तिम् आपन्नः / अपरिमाणवतीः प्रतिच्छन्नाः / स तासाम् आपत्तिपर्यन्तं जानाति रात्रिपर्यन्तम् इति / एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति / भगवान् आह / ददत यूयं भिक्षवस् तस्य पुद्गलस्य तासाम् आपत्तीनाम् अपरिमाणवत्य इति कृत्वा यथा प्रतिच्छन्नानां परिवासम् इति / यो वा पुनर् अन्यो ऽप्य् एवंजातीयः / यथा जानतश् चत्वारि एवं स्मरतश् चत्वारि वैमतिकश् चत्वारि /
अथापरः पुद्गलः संघावशेषाम् आपत्तिम् आपन्नः प्रतिच्छन्नाम्* / तस्य संघेन परिवासो दत्तः अधर्मेण कर्मणा कोप्येन स्थापनार्हेण / स (msv iii 74) पारिवासिक एव सन् संघावशेषाम् आपत्तिम् आपन्नः अन्तरापत्तिं पूर्वापत्तिप्रतिरूपां प्रतिच्छन्नाम्* / तस्य संघेन मूलपरिवासो दत्तः अधर्मेण कर्मणा कोप्येन स्थापनार्हेण / स मूलपारिवासिक एव सन् संघावशेषाम् आपत्तिम् आपन्नः प्रत्यन्तरापत्तिम् अन्तरापत्तिप्रतिरूपां प्रतिच्छन्नाम्* / तस्य संघेन मूलापकर्षो दत्तः अधर्मेण कर्मणा कोप्येन स्थापनार्हेण / मानाप्यम् अप्य् अधर्मेण / आव्रीढो ऽप्य् अधर्मेण / अयम् उच्यते सार्वकालिकः पुद्गलः अशुद्धः अव्युत्थितस् तस्या आपत्तेर् न परिमुच्यते /
अथापरः पुद्गलः संघावशेषाम् आपत्तिम् आपन्नः प्रतिच्छन्नाम्* / तस्य संघेन परिवासो दत्तः धर्मेण कर्मणाकोप्येनास्थापनार्हेण / स पारिवासिक एव सन् संघावशेषाम् आपत्तिम् आपन्नः अन्तरापत्तिं पूर्वापत्तिप्रतिरूपां प्रतिच्छन्नाम्* / तस्य संघेन मूलपरिवासो दत्तः अधर्मेण कर्मणा कोप्येन स्थापनार्हेण / स मूलपारिवासिक एव सन् संघावशेषाम् आपत्तिम् आपन्नः प्रत्यन्तरापत्तिम् अन्तरापत्तिप्रतिरूपां प्रतिच्छन्नाम्* / तस्य संघेन मूलापकर्षो दत्तः अधर्मेण कर्मणा कोप्येन स्थापनार्हेण / मानाप्यम् अप्य् अधर्मेण / आव्रीढो ऽप्य् अधर्मेण / (msv iii 75) अयम् उच्यते यद्भूयस्कालकः पुद्गलः अशुद्धः अव्युत्थितस् तस्या आपत्तेर् न परिमुच्यते /
अथापरः पुद्गलः संघावशेषाम् आपत्तिम् आपन्नः प्रतिच्छन्नाम्* / तस्य संघेन परिवासो दत्तः धर्मेण कर्मणाकोप्येनास्थापनार्हेण (306र्1 = ग्ब्म् 6.924) / स पारिवासिक एव सन् संघावशेषाम् आपत्तिम् आपन्नः अन्तरापत्तिं पूर्वापत्तिप्रतिरूपां प्रतिच्छन्नाम्* / तस्य संघेन मूलपरिवासो दत्तः धर्मेण कर्मणाकोप्येनास्थापनार्हेण / स मूलपारिवासिक एव सन् संघावशेषाम् आपत्तिम् आपन्नः प्रत्यन्तरापत्तिम् अन्तरापत्तिप्रतिरूपां प्रतिच्छन्नाम्* / तस्य संघेन मूलापकर्षो दत्तः अधर्मेण कर्मणा कोप्येन स्थापनार्हेण / मानाप्यम् अप्य् अधर्मेण / आव्रीढो ऽप्य् अधर्मेण / अयम् उच्यते उपार्धकालकः पुद्गलः अशुद्धः अव्युत्थितस् तस्या आपत्तेर् न परिमुच्यते /
अथापरः पुद्गलः संघावशेषाम् आपत्तिम् आपन्नः प्रतिच्छन्नाम्* / तस्य संघेन परिवासो दत्तः धर्मेण कर्मणाकोप्येनास्थापनार्हेण / स पारिवासिक एव सन् संघावशेषाम् आपत्तिम् आपन्नः अन्तरापत्तिं पूर्वापत्तिप्रतिरूपां प्रतिच्छन्नाम्* / तस्य संघेन मूलपरिवासो दत्तः धर्मेण कर्मणाकोप्येनास्थापनार्हेण / स मूलपारिवासिक एव सन् संघावशेषाम् आपत्तिम् आपन्नः प्रत्यन्तरापत्तिम् अन्तरापत्तिप्रतिरूपां प्रतिच्छन्नाम्* / तस्य संघेन मूलापकर्षो दत्तः धर्मेण कर्मणाकोप्येनास्थापनार्हेण / मानाप्यम् अप्य् अधर्मेण / आव्रीढो ऽप्य् अधर्मेण / अयम् उच्यते एकदेशकालकः पुद्गलः अशुद्धो ऽव्युत्थितस् तस्या आपत्तेर् न परिमुच्यते /
अथापरः पुद्गलः संघावशेषाम् आपत्तिम् आपन्नः प्रतिच्छन्नाम्* / तस्य संघेन परिवासो दत्तः धर्मेण कर्मणाकोप्येनास्थापनार्हेण / स पारिवासिक एव सन् संघावशेषाम् आपत्तिम् आपन्नः अन्तरापत्तिं पूर्वापत्तिप्रतिरूपां प्रतिच्छन्नाम्* / तस्य संघेन मूलापकर्षो दत्तः धर्मेण कर्मणाकोप्येनास्थापनार्हेण / स मूलपारिवासिक एव सन् संघावशेषाम् आपत्तिम् आपन्नः प्रत्यन्तरापत्तिम् अन्तरापत्तिप्रतिरूपां प्रतिच्छन्नाम्* / तस्य संघेन मूलापकर्षो दत्तः धर्मेण कर्मणाकोप्येनास्थापनार्हेण / मानाप्यम् अपि धर्मेण / आव्रीढस् त्व् अधर्मेण / अयम् उच्यते प्रदेशकालकः पुद्गलः अशुद्धो ऽव्युत्थितस् तस्या आपत्तेर् न परिमुच्यते /
अथापरः पुद्गलः संघावशेषाम् आपत्तिम् आपन्नः प्रतिच्छन्नाम्* / तस्य संघेन परिवासो दत्तः धर्मेण कर्मणाकोप्येनास्थापनार्हेण / स पारिवासिक एव सन् संघावशेषाम् आपत्तिम् आपन्नः अन्तरापत्तिं पूर्वापत्तिप्रतिरूपां प्रतिच्छन्नाम्* / तस्य संघेन मूलपरिवासो दत्तः धर्मेण कर्मणाकोप्येनास्थापनार्हेण / स मूलपारिवासिक एव सन् संघावशेषाम् आपत्तिम् आपन्नः प्रत्यन्तरापत्तिम् अन्तरापत्तिप्रतिरूपां प्रतिच्छन्नाम्* / तस्य संघेन मूलापकर्षो दत्तः धर्मेण कर्मणाकोप्येनास्थापनार्हेण / मानाप्यम् अपि धर्मेण / आव्रीढो ऽपि धर्मेण / अयम् उच्यते अपगतकालकः पुद्गलः शुद्धो व्युत्थितस् तस्या आपत्तेः परिमुच्यते /
अथापरः पुद्गलः संघावशेषाम् आपत्तिम् आपन्नः अप्रतिच्छन्नाम्* / तस्य संघेन मानाप्यं दत्तम् अधर्मेण कर्मणा कोप्येन (306व्1 = ग्ब्म् 6.925) स्थापनार्हेण / (msv iii 77) स मानाप्यचारिक एव सन् संघावशेषाम् आपत्तिम् आपन्नः अन्तरापत्तिं पूर्वापत्तिप्रतिरूपां प्रतिच्छन्नाम्* / तस्य संघेन मूलमानाप्यं दत्तम् अधर्मेण कर्मणा कोप्येन स्थापनार्हेण / स मूलमानाप्यचारिक एव सन् संघावशेषाम् आपत्तिम् आपन्नः प्रत्यन्तरापत्तिम् अन्तरापत्तिप्रतिरूपां प्रतिच्छन्नाम्* / तस्य संघेन मूलापकर्षमानाप्यं दत्तम् अधर्मेण कर्मणा कोप्येन स्थापनार्हेण / आव्रीढो ऽप्य् अधर्मेण / अयम् उच्यते सार्वकालिकः पुद्गलः अशुद्धः अव्युत्थितस् तस्या आपत्तेर् न परिमुच्यते /
अथापरः पुद्गलः संघावशेषाम् आपत्तिम् आपन्नः अप्रतिच्छन्नाम्* / तस्य संघेन मानाप्यं दत्तं धर्मेण कर्मणाकोप्येनास्थापनार्हेण / स मानाप्यचारिक एव सन् संघावशेषाम् आपत्तिम् आपन्नः अन्तरापत्तिं पूर्वापत्तिप्रतिरूपां प्रतिच्छन्नाम्* / तस्य संघेन मूलमानाप्यं दत्तम् अधर्मेण कर्मणा कोप्येन स्थापनार्हेण / स मूलमानाप्यचारिक एव सन् संघावशेषाम् आपत्तिम् आपन्नः प्रत्यन्तरापत्तिम् अन्तरापत्तिप्रतिरूपां प्रतिच्छन्नाम्* / तस्य संघेन मूलापकर्षमानाप्यं दत्तम् अधर्मेण कर्मणा कोप्येन स्थापनार्हेण / आव्रीढो ऽप्य् अधर्मेण / अयम् उच्यते यद्भूयस्कालकः पुद्गलः अशुद्धः अव्युत्थितस् तस्या आपत्तेर् न परिमुच्यते /
अथापरः पुद्गलः संघावशेषाम् आपत्तिम् आपन्नः अप्रतिच्छन्नाम्* / तस्य संघेन मानाप्यं दत्तं धर्मेण कर्मणाकोप्येनास्थापनार्हेण / स मानाप्यचारिक एव सन् संघावशेषाम् आपत्तिम् आपन्नः अन्तरापत्तिं पूर्वापत्तिप्रतिरूपां प्रतिच्छन्नाम्* / तस्य संघेन मूलमानाप्यं (msv iii 78) दत्तं धर्मेण कर्मणाकोप्येनास्थापनार्हेण / स मूलमानाप्यचारिक एव सन् संघावशेषाम् आपत्तिम् आपन्नः प्रत्यन्तरापत्तिम् अन्तरापत्तिप्रतिरूपां प्रतिच्छन्नाम्* / तस्य संघेन मूलापकर्षमानाप्यं दत्तम् अधर्मेण कर्मणा कोप्येन स्थापनार्हेण / आव्रीढो ऽप्य् अधर्मेण / अयम् उच्यते उपार्धकालकः पुद्गलः अशुद्धः अव्युत्थितस् तस्या आपत्तेर् न परिमुच्यते /
अथापरः पुद्गलः संघावशेषाम् आपत्तिम् आपन्नः अप्रतिच्छन्नाम्* / तस्य संघेन मानाप्यं दत्तं धर्मेण कर्मणाकोप्येनास्थापनार्हेण / स मानाप्यचारिक एव सन् संघावशेषाम् आपत्तिम् आपन्नः अन्तरापत्तिं पूर्वापत्तिप्रतिरूपां प्रतिच्छन्नाम्* / तस्य संघेन मूलमानाप्यं दत्तं धर्मेण कर्मणाकोप्येनास्थापनार्हेण / स मूलमानाप्यचारिक एव सन् संघावशेषाम् आपत्तिम् आपन्नः प्रत्यन्तरापत्तिम् अन्तरापत्तिप्रतिरूपां प्रतिच्छन्नाम्* / तस्य संघेन मूलापकर्षमानाप्यं दत्तं धर्मेण कर्मणाकोप्येनास्थापनार्हेण / आव्रीढस् त्व् अधर्मेण / अयम् उच्यते एकदेशकालकः पुद्गलः अशुद्धः अव्युत्थितस् तस्या आपत्तेर् न परिमुच्यते /
अथापरः पुद्गलः संघावशेषाम् आपत्तिम् आपन्नः अप्रतिच्छन्नाम्* / तस्य संघेन मानाप्यं दत्तं धर्मेण कर्मणाकोप्येनास्थापनार्हेण / स मानाप्यचारिक एव सन् संघावशेषाम् आपत्तिम् आपन्नः अन्तरापत्तिं पूर्वापत्तिप्रतिरूपां प्रतिच्छन्नाम्* / तस्य संघेन मूलमानाप्यं दत्तं धर्मेण कर्मणाकोप्येनास्थापनार्हेण / स (307र्1 = ग्ब्म् 6.926) मूलमानाप्यचारिक एव सन् संघावशेषाम् आपत्तिम् आपन्नः प्रत्यन्तरापत्तिम् अन्तरापत्तिप्रतिरूपां प्रतिच्छन्नाम्* / तस्य संघेन मूलापकर्षमानाप्यं दत्तं धर्मेण कर्मणाकोप्येनास्थापनार्हेण / (msv iii 79) आव्रीढो ऽपि धर्मेण / अयम् उच्यते अपगतकालकः पुद्गलः शुद्धो व्युत्थितस् तस्या आपत्तेः परिमुच्यते /
द्वौ पुद्गलौ संघावशेषाम् आपत्तिम् आपन्नौ देशयिष्यावो देशयिष्याव इति / तत्रैको देशयति द्वितीयो न देशयति / तत्र यो ऽसौ न देशयति तं संबहुला विनयातिसारिणीर् दुष्ठुला आपत्तिर् देशयित्वा पश्चात् परिवासो देयः मूलपरिवासो मानाप्यम्* / आवर्हितव्यश् च /
द्वौ पुद्गलौ संघावशेषाम् आपत्तिम् आपन्नौ / ताव् अस्मिन्न् एवावासे पुद्गलस्यान्तिके देशयिष्यावो देशयिष्याव इति / तत्रैको देशयति द्वितीयो न देशयति / तत्र यो ऽसौ न देशयति तं संबहुला विनयातिसारिणीर् दुष्ठुला आपत्तिर् देशयित्वा पश्चात् परिवासो देयः मूलपरिवासो मानाप्यम्* / आवर्हितव्यश् च / यथा पुद्गलस्यान्तिके एवं द्वाभ्यां संबहुलानां संघस्य / यथास्मिन्न् आवासे एवम् अन्यस्मिन्न् आवासे /
अथापरः पुद्गलः संघावशेषाम् आपत्तिम् आपन्नः प्रतिच्छन्नाम्* / तस्य संघेन परिवासो दत्तः अधर्मेण कर्मणा कोप्येन स्थापनार्हेण / स पारिवासिक एव सन्न् अन्यापत्तिं जानाति यानेन संघमध्ये नारोचिता / स ताम् आपत्तिं जानाति / ताम् अप्य् आपत्तिं जानाति यानेन संघमध्ये नारोचिता / स भिक्षूणाम् आरोचयति / अहम् अस्म्य् आयुष्मन्तः संघावशेषाम् आपत्तिम् आपन्नः प्रतिच्छन्नाम्* / तस्य मम संघेन परिवासो दत्तः अधर्मेण कर्मणा कोप्येन स्थापनार्हेण / सो ऽहं पारिवासिक एव सन्न् अन्यापत्तिं (msv iii 80) जानामि या मे संघमध्ये नारोचिता / सो ऽहं ताम् आपत्तिं न जानामि यस्या मम संघेन परिवासो दत्तः अधर्मेण कर्मणा कोप्येन स्थापनार्हेण / साधु मे आयुष्मन्तस् तस्याः पूर्विकाया आपत्तेर् अपि परिवासं ददतु धर्मेण कर्मणाकोप्येनास्थापनार्हेण / अस्याश् च पश्चिमिकायाः / तस्यास् ते भिक्षवः पूर्विकाया आपत्तेः परिवासं ददति धर्मेण कर्मणाकोप्येनास्थापनार्हेण / तस्यास् तु पश्चिमिकायाः परिवासं ददति अधर्मेण कर्मणा कोप्येन स्थापनार्हेण / स पारिवासिक एव सन् संघावशेषाम् आपत्तिम् आपन्नः अन्तरापत्तिं पूर्वापत्तिप्रतिरूपां प्रतिच्छन्नाम्* / स ताम् अन्तरापत्तिं जानाति / ताम् अप्य् आपत्तिं जानाति यस्या अस्य संघेन परिवासो दत्तः अधर्मेण कर्मणा कोप्येन स्थापनार्हेण / स भिक्षूणाम् आरोचयति / अहम् अस्म्य् आयुष्मन्तः संघावशेषाम् आपत्तिम् आपन्नः प्रतिच्छन्नाम्* / तस्य मम संघेन परिवासो दत्तः अधर्मेण कर्मणा कोप्येन स्थापनार्हेण / सो ऽहं पारिवासिक एव सन् संघावशेषाम् आपत्तिम् आपन्नः अन्तरापत्तिं पूर्वापत्तिप्रतिरूपां प्रतिच्छन्नाम्* /
सो ऽहं ताम् अन्तरापत्तिं जानामि यस्या मम संघेन परिवासो दत्तः अधर्मेण कर्मणा कोप्येन स्थापनार्हेण / साधु मे आयुष्मन्तस् तस्याः पूर्विकाया आपत्तेर् मूलपरिवासं ददतु धर्मेण (307व्1 = ग्ब्म् 6.927) कर्मणाकोप्येनास्थापनार्हेण / तस्याश् चान्तरापत्तेर् मूलपरिवासम् इति / तस्यास् ते भिक्षवः पूर्विकाया आपत्तेः परिवासं ददति धर्मेण कर्मणाकोप्येनास्थापनार्हेण / तस्यास् त्व् अन्तरापत्तेर् मूलपरिवासम् अधर्मेण कर्मणा कोप्येन स्थापनार्हेण / स मूलपारिवासिक एव सन् संघावशेषाम् आपत्तिम् (msv iii 81) आपन्नः प्रत्यन्तरापत्तिम् अन्तरापत्तिप्रतिरूपां प्रतिच्छन्नाम्* / स तां प्रत्यन्तरापत्तिं जानाति / ताम् अप्य् आपत्तिं जानाति यस्या अस्य संघेन मूलपरिवासो दत्तः अधर्मेण कर्मणा कोप्येन स्थापनार्हेण / स भिक्षूणाम् आरोचयति / अहम् अस्म्य् आयुष्मन्तः संघावशेषाम् आपत्तिम् आपन्नः अन्तरापत्तिं पूर्वापत्तिरूपां प्रतिच्छन्नाम्* / तस्य मम संघेन मूलपरिवासो दत्तः धर्मेण कर्मणाकोप्येनास्थापनार्हेण / सो ऽहं मूलपारिवासिक एव सन् संघावशेषाम् आपत्तिम् आपन्नः प्रत्यन्तरापत्तिम् अन्तरापत्तिप्रतिरूपां प्रतिच्छन्नाम्* / सो ऽहं तां प्रत्यन्तरापत्तिं जानामि / ताम् अप्य् अन्तरापत्तिं जानामि यस्या मम संघेन मूलपरिवासो दत्तः अधर्मेण कर्मणा कोप्येन स्थापनार्हेण / साधु मे आयुष्मन्तस् तस्या अन्तरापत्तेर् मूलपरिवासं ददतु धर्मेण कर्मणाकोप्येनास्थापनार्हेण / अस्याश् च प्रत्यन्तरापत्तेर् मूलापकर्षम् इति / तस्यास् ते भिक्षवः पूर्विकाया आपत्तेर् मूलपरिवासं ददति / तस्यास् तु प्रत्यन्तरापत्तेर् मूलापकर्षं धर्मेण कर्मणाकोप्येनास्थापनार्हेण /
अथापरः पुद्गलः संघावशेषाम् आपत्तिम् आपन्नः अप्रतिच्छन्नाम्* / तस्य संघेन मानाप्यं दत्तम् अधर्मेण कर्मणा कोप्येन स्थापनार्हेण / स मानाप्यचारिक एव सन् संघावशेषाम् आपत्तिम् आपन्नः अन्तरापत्तिं पूर्वापत्तिप्रतिरूपाम् अप्रतिच्छन्नाम्* / स ताम् अन्तरापत्तिं जानाति यस्या अस्य संघेन मानाप्यं दत्तम् अधर्मेण कर्मणा (msv iii 82) कोप्येन स्थापनार्हेण / स भिक्षूणाम् आरोचयति / अहम् अस्म्य् आयुष्मन्तः संघावशेषाम् आपत्तिम् आपन्नः अप्रतिच्छन्नाम्* / तस्य मम संघेन मानाप्यं दत्तम् अधर्मेण कर्मणा कोप्येन स्थापनार्हेण / सो ऽहं मानाप्यचारिक एव सन् संघावशेषाम् आपत्तिम् आपन्नः अन्तरापत्तिम् पूर्वापत्तिप्रतिरूपाम् अप्रतिच्छन्नाम्* / सो ऽहं ताम् अन्तरापत्तिं जानामि यस्या मम संघेन मानाप्यं दत्तम् अधर्मेण कर्मणा कोप्येन स्थापनार्हेण / साधु मे आयुष्मन्तस् तस्याः पूर्विकाया आपत्तेर् मानाप्यं ददतु धर्मेण कर्मणाकोप्येनास्थापनार्हेण / अस्याश् चान्तरापत्तेर् मूलमानाप्यम् इति / तस्यास् ते भिक्षवः पूर्विकाया आपत्तेर् मानाप्यं ददति धर्मेण कर्मणाकोप्येनास्थापनार्हेण / अस्यास् त्व् अन्तरापत्तेर् मूलमानाप्यम् अधर्मेण कर्मणा कोप्येन स्थापनार्हेण / स मूलमानाप्यचारिक एव सन् संघावशेषाम् आपत्तिम् आपन्नः प्रत्यन्तरापत्तिम् अन्तरापत्तिप्रतिरूपाम् अप्रतिच्छन्नाम्* / स ताम् प्रत्यन्तरापत्तिं जानाति / ताम् अप्य् अन्तरापत्तिं जानाति यस्या अस्य संघेन मूलमानाप्यं दत्तम् अधर्मेण कर्मणा कोप्येन स्थापनार्हेण / स भिक्षूणाम् आरोचयति / अहम् अस्म्य् आयुष्मन्तः संघावशेषाम् आपत्तिम् आपन्नः अन्तरापत्तिं पूर्वापत्तिप्रतिरूपाम् अप्रतिच्छन्नाम्* /
तस्य मम संघेन मूलमानाप्यं (308र्1 = ग्ब्म् 6.928) दत्तम् अधर्मेण कर्मणा कोप्येन स्थापनार्हेण / सो ऽहं मूलमानाप्यचारिक एव सन् संघावशेषाम् आपत्तिम् आपन्नः प्रत्यन्तरापत्तिम् अन्तरापत्तिप्रतिरूपाम् अप्रतिच्छन्नाम्* / सो ऽहं तां प्रत्यन्तरापत्तिं जानामि / ताम् अप्य् अन्तरापत्तिं जानामि यस्या मम संघेन मूलमानाप्यं दत्तम् अधर्मेण कर्मणा कोप्येन स्थापनार्हेण / साधु साधु मे (msv iii 83) आयुष्मन्तस् तस्याः पूर्विकाया अन्तरापत्तेर् मूलमानाप्यं ददतु धर्मेण कर्मणाकोप्येनास्थापनार्हेण / अस्याश् च प्रत्यन्तरापत्तेर् मूलापकर्षमानाप्यम् इति / तस्यास् ते भिक्षवः पूर्विकाया अन्तरापत्तेर् मूलमानाप्यं ददति धर्मेण कर्मणाकोप्येनास्थापनार्हेण / अस्याश् च प्रत्यन्तरापत्तेर् मूलापकर्षमानाप्यम्* / यथा जानता पञ्च एवं स्मरता पञ्च वैमतिकेन पञ्च /
उद्दानम्* /
यथापरेण द्वादशिका वस्तु शोधयित्वा च षट्किकाः / महाभूमिं शोधयित्वा पुद्गलवस्तु समुद्दितम्* //
अथापरः पुद्गलः संघावशेषाम् आपत्तिम् आपन्नः प्रतिच्छन्नाम्* / तस्य संघेन परिवासो दत्तम् अधर्मेण कर्मणा कोप्येन स्थापनार्हेण / स पारिवासिक एव सन् संघावशेषाम् आपत्तिम् आपन्नः अन्तरापत्तिं पूर्वापत्तिप्रतिरूपां प्रतिच्छन्नाम्* / स ताम् अन्तरापत्तिं जानाति / ताम् अप्य् आपत्तिं जानाति यस्या अस्य संघेन परिवासो दत्तः अधर्मेण कर्मणा कोप्येन स्थापनार्हेण / स भिक्षूणाम् आरोचयति / अहम् अस्म्य् आयुष्मन्तः संघावशेषाम् आपत्तिम् आपन्नः प्रतिच्छन्नाम्* / तस्य मम संघेन परिवासो दत्तः अधर्मेण कर्मणा कोप्येन स्थापनार्हेण / सो ऽहं पारिवासिक एव सन् संघावशेषाम् आपत्तिम् आपन्नः अन्तरापत्तिं पूर्वापत्तिप्रतिरूपां प्रतिच्छन्नाम्* / सो ऽहं ताम् अन्तरापत्तिं जानामि / ताम् अप्य् आपत्तिं जानामि यस्या मम संघेन परिवासो दत्तः अधर्मेण कर्मणा कोप्येन स्थापनार्हेण / साधु मे आयुष्मन्तस् तस्याः पूर्विकाया आपत्तेः परिवासं ददतु धर्मेण कर्मणाकोप्येनास्थापनार्हेण / (msv iii 84) तस्याश् चान्तरापत्तेर् मूलपरिवासम् इति / तस्यास् ते भिक्षवस् तस्याः पूर्विकाया आपत्तेः परिवासं ददति धर्मेण कर्मणाकोप्येनास्थापनार्हेण / अस्यास् त्व् अन्तरापत्तेर् मूलपरिवासम् अधर्मेण कर्मणा कोप्येन स्थापनार्हेण / स मूलपारिवासिक एव सन् संघावशेषाम् आपत्तिम् आपन्नः प्रत्यन्तरापत्तिम् अन्तरापत्तिप्रतिरूपां प्रतिच्छन्नाम्* / स तां प्रत्यन्तरापत्तिं जानाति / ताम् अप्य् अन्तरापत्तिं जानाति यस्या अस्य संघेन मूलपरिवासो दत्तः अधर्मेण कर्मणा कोप्येन स्थापनार्हेण / स भिक्षूणाम् आरोचयति / अहम् अस्म्य् आयुष्मन्तः संघावशेषाम् आपत्तिम् आपन्नः अन्तरापत्तिं पूर्वापत्तिरूपां प्रतिच्छन्नाम्* /
तस्य मम संघेन मूलपरिवासो दत्तः अधर्मेण कर्मणा कोप्येन स्थापनार्हेण / सो ऽहं मूलपारिवासिक एव सन् संघावशेषाम् आपत्तिम् आपन्नः प्रत्यन्तरापत्तिम् पूर्वापत्तिप्रतिरूपां प्रतिच्छन्नाम्* / सो ऽहं तां प्रत्यन्तरापत्तिं जानामि / ताम् अप्य् अन्तरापत्तिं जानामि (308व्1 = ग्ब्म् 6.929) यस्या मम संघेन मूलपरिवासो दत्तः अधर्मेण कर्मणा कोप्येन स्थापनार्हेण / साधु मे आयुष्मन्तस् तस्याः पूर्विकाया अन्तरापत्तेर् मूलपरिवासं ददतु धर्मेण कर्मणाकोप्येनास्थापनार्हेण / अस्याश् च प्रत्यन्तरापत्तेर् मूलापकर्षम् इति / तस्यास् ते भिक्षवः पूर्विकाया अन्तरापत्तेर् मूलपरिवासं ददति धर्मेण कर्मणाकोप्येनास्थापनार्हेण / तस्यास् तु प्रत्यन्तरापत्तेर् मूलापकर्षं धर्मेण कर्मणाकोप्येनास्थापनार्हेण /
अथापरः पुद्गलः संघावशेषाम् आपत्तिम् आपन्नः अप्रतिच्छन्नाम्* / तस्य संघेन मानाप्यं दत्तम् अधर्मेण कर्मणा कोप्येन स्थापनार्हेण / स मानाप्यचारिक एव सन् संघावशेषाम् आपत्तिम् (msv iii 85) आपन्नः अन्तरापत्तिं पूर्वापत्तिप्रतिरूपाम् अप्रतिच्छन्नाम्* / स ताम् अन्तरापत्तिं जानाति / ताम् अप्य् आपत्तिं जानाति यस्या अस्य संघेन मानाप्यं दत्तम् अधर्मेण कर्मणा कोप्येन स्थापनार्हेण / स भिक्षूणाम् आरोचयति / अहम् अस्म्य् आयुष्मन्तः संघावशेषाम् आपत्तिम् आपन्नः अप्रतिच्छन्नाम्* / तस्य मम संघेन षड् रात्रं मानाप्यं दत्तम् अधर्मेण कर्मणा कोप्येन स्थापनार्हेण / सो ऽहं मानाप्यचारिक एव सन् संघावशेषाम् आपत्तिम् आपन्नः अन्तरापत्तिम् पूर्वापत्तिप्रतिरूपाम् अप्रतिच्छन्नाम्* / सो ऽहं ताम् अन्तरापत्तिं जानामि / ताम् अप्य् आपत्तिं जानामि यस्या मम संघेन मानाप्यं दत्तम् अधर्मेण कर्मणा कोप्येन स्थापनार्हेण / साधु मे आयुष्मन्तस् तस्याः पूर्विकाया आपत्तेर् मानाप्यं ददतु धर्मेण कर्मणाकोप्येनास्थापनार्हेण / अस्याश् चान्तरापत्तेर् मूलमानाप्यम् इति / तस्यास् ते भिक्षवः पूर्विकाया आपत्तेर् मानाप्यं ददति धर्मेण कर्मणाकोप्येनास्थापनार्हेण / अस्यास् त्व् अन्तरापत्तेर् मूलमानाप्यम् अधर्मेण कर्मणा कोप्येन स्थापनार्हेण / स मूलमानाप्यचारिक एव सन् संघावशेषाम् आपत्तिम् आपन्नः प्रत्यन्तरापत्तिम् अन्तरापत्तिप्रतिरूपाम् अप्रतिच्छन्नाम्* / स ताम् प्रत्यन्तरापत्तिं जानाति / ताम् अप्य् अन्तरापत्तिं जानाति यस्या अस्य संघेन मूलमानाप्यं दत्तम् अधर्मेण कर्मणा कोप्येन स्थापनार्हेण / स भिक्षूणाम् आरोचयति /
अहम् अस्म्य् आयुष्मन्तः संघावशेषाम् आपत्तिम् आपन्नः अन्तरापत्तिं पूर्वापत्तिप्रतिरूपाम् अप्रतिच्छन्नाम्* / तस्य मम संघेन मूलमानाप्यं दत्तम् अधर्मेण कर्मणा कोप्येन स्थापनार्हेण / सो ऽहं मूलमानाप्यचारिक एव सन् संघावशेषाम् आपत्तिम् (msv iii 86) आपन्नः प्रत्यन्तरापत्तिम् अन्तरापत्तिप्रतिरूपाम् अप्रतिच्छन्नाम्* / सो ऽहं तां प्रत्यन्तरापत्तिं जानामि / ताम् अप्य् अन्तरापत्तिं जानामि यस्या मम संघेन मूलमानाप्यं दत्तम् अधर्मेण कर्मणा कोप्येन स्थापनार्हेण / साधु मे आयुष्मन्तस् तस्याः पूर्विकाया अन्तरापत्तेर् मूलमानाप्यं ददतु धर्मेण कर्मणाकोप्येनास्थापनार्हेण / अस्याश् च प्रत्यन्तरापत्तेर् मूलापकर्षमानाप्यम् इति / तस्यास् ते भिक्षवः पूर्विकाया अन्तरापत्तेर् मूलमानाप्यं ददति धर्मेण कर्मणाकोप्येनास्थापनार्हेण / अस्यास् (309र्1 = ग्ब्म् 6.930) तु प्रत्यन्तरापत्तेर् मूलापकर्षमानाप्यम् इति / यथा जानता चत्वारि एवं स्मरता चत्वारि वैमतिकेन चत्वारि /
पारिवासिकः पुद्गलः संघावशेषाम् आपत्तिम् आपन्नः / एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति / भगवान् आह / वस्तु शोधयित्वा विनयातिसारिणीं च दुष्ठुलाम् आपत्तिं देशयित्वा पारिवासिक एव सन्* /
उपार्धपारिवासिकः पुद्गलः संघावशेषाम् आपत्तिम् आपन्नः / एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति / भगवान् आह / वस्तु शोधयित्वा विनयातिसारिणीं च दुष्ठुलाम् आपत्तिं देशयित्वा उपार्धपारिवासिक एव सन्* /
यद्भूयःपारिवासिक एव पुद्गलः संघावशेषाम् आपत्तिम् आपन्नः / एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति / भगवान् आह / वस्तु (msv iii 87) शोधयित्वा विनयातिसारिणीं च दुष्ठुलाम् आपत्तिं देशयित्वा यद्भूयःपारिवासिक एव सन्* /
मानाप्यचारिकः पुद्गलः संघावशेषाम् आपत्तिम् आपन्नः / एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति / भगवान् आह / वस्तु शोधयित्वा विनयातिसारिणीं च दुष्ठुलाम् आपत्तिं देशयित्वा मानाप्यचारिक एव सन्* /
उपार्धमानाप्यचारिकः पुद्गलः संघावशेषाम् आपत्तिम् आपन्नः / एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति / भगवान् आह / वस्तु शोधयित्वा विनयातिसारिणीं च दुष्ठुलाम् आपत्तिं देशयित्वा उपार्धमानाप्यचारिक एव सन्* /
यद्भूयोमानाप्यचारिकः पुद्गलः संघावशेषाम् आपत्तिम् आपन्नः / एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति / भगवान् आह / वस्तु शोधयित्वा विनयातिसारिणीं च दुष्ठुलाम् आपत्तिं देशयित्वा यद्भूयोमानाप्यचारिक एव सन्* /
अथापरः पुद्गलः संघावशेषाम् आपत्तिम् आपन्नः संचिन्त्यशुक्रविसृष्टिसमुत्थिताम् एकरात्रिप्रतिच्छन्नाम्* / उद्ग्रहसमुत्थितां द्विरात्रिप्रतिच्छन्नाम्* / मैथुनसंलापसमुत्थितां त्रिरात्रिप्रतिच्छन्नाम्* / परिचर्यासमुत्थितां चतूरात्रिप्रतिच्छन्नाम्* / सांचरित्रसमुत्थितां पंचरात्रिप्रतिच्छन्नाम्* / कुटिकासमुत्थितां षड्रात्रिप्रतिच्छन्नाम्* / (msv iii 88) महल्लकसमुत्थितां सप्तरात्रिप्रतिच्छन्नाम्* / अमूलकसमुत्थिताम् अष्टरात्रिप्रतिच्छन्नाम्* / लेशिसमुत्थितां नवरात्रिप्रतिच्छन्नाम्* / संघभेदसमुत्थितां दशरात्रिप्रतिच्छन्नाम्* / तस्यानुवर्तितसमुत्थिताम् एकादशरात्रिप्रतिच्छन्नाम्* / कुलदूषिकसमुत्थितां द्वादशरात्रिप्रतिच्छन्नाम्* / दौर्वचस्यसमुत्थितां त्रयोदशरात्रिप्रतिच्छन्नाम्* / एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति / भगवान् आह / या आसाम् आपत्तीनां खरता च गुरुतरा च तीव्रेण चातिनिवेशेन कृता तस्या वशेन परिवासो दातव्यो मूलपरिवासो मूलापकर्षो मानाप्यं चावर्हितव्यश् चेति /
पुद्गलवस्तु समाप्तम्* //
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
