Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luật tạng
सङ्घभेदवस्तु
- Thông tin
- GRETIL — R. Gnoli with the assistance of T. Venkatacharya: The Gilgit Manuscript of the Saṅghabhedavastu, Being the 17th and Last Section of the Vinaya of the Mūlasarvāstivādin, Roma 1977-78 (Serie Orientale Roma, 49).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
सन्ति भदन्त सत्वा लोके जाता, लोके वृद्धास् तीक्ष्णेन्द्रिया अपि, मध्येन्द्रिया अपि, मृद्विन्द्रिया अपि, स्वाकाराः, सुविनेया, अल्परजसो ऽल्परजस्कजातीया, ये ऽश्रवणात् सद्धर्मस्य परिहीयन्ते; तद्यथा भदन्त उत्पलानि वा, पद्मानि वा कुमुदानि वा, पुण्डरीकाणि वा उदके जातान्य्, उदके वृद्धान्य्, एकत्यानि उदकाद् अभ्युद्गतानि तिष्ठन्ति; एकत्यानि समोदकानि; एकत्यानि उदकनिमग्नकोशानि तिष्ठन्ति; एवम् एव सन्ति भदन्त सत्वा लोके जाता, लोके वृद्धास् तीक्ष्णेन्द्रिया अपि, मध्येन्द्रिया अपि, मृद्विन्द्रिया अपि, स्वाकाराः, सुविनेयाः, अल्परजसो ऽल्परजस्कजातीया ये ऽश्रवणात् सद्धर्मस्य परिहीयन्ते; देशयतु भगवान् धर्मम्; देशयतु सुगतो धर्मम्; भविष्यन्ति धर्मतत्नस्याज्ञातारः; अथ भगवत एतद् अभवत्: यच् चाहम् स्वयम् एव बुद्धचक्षुषा (sbv i 130) लोकं व्यवलोकयेयम् इति; अथ भगवान् स्वयम् एव बुद्धचक्षुषा लोकं व्यवलोकयति; अद्राक्षीद् भगवान् स्वयम् एव बुद्धचक्षुषा लोकं व्यवलोकयन् सन्ति सत्वा लोके जाता, लोके वृद्धास्, तीक्ष्णेन्द्रिया अपि, मध्येन्द्रिया अपि, मृद्विन्द्रिया अपि, स्वाकाराः, सुविनेयाः, अल्परजसो ऽल्परजस्कजातीया, ये (अ 390अ) ऽश्रवणात् सद्धर्मस्य परिहीयन्ते; दृष्ट्वा च पुनर् अस्य सत्वेषु महाकरुणा ऽवक्रान्ता; अथ भगवांस् तस्यां वेलायां गाथां भाषते अपावरिष्ये अमृतस्य द्वारं / ये श्रोतुदामाः प्रणुदन्तु काङ्क्षाः / विहेठप्रेक्षी प्रचुरं न भाषे धर्मं प्रणीतं मनुजेषु ब्रह्मन् //
अथ ब्रह्मणः सभापतेर् एतद् अभवत्: देशयिष्यति बत भगवान् धर्मं, देशयिष्यति बत सुगतो धर्मम्; इति विदित्वा हृष्टतुष्टप्रमुदित उदग्रप्रीतिसौमनस्यजातो भगवतः पादौ शिरसा वन्दित्वा भगवन्तं त्रिः प्रदक्षिणीकृत्य तत्रैवान्तर्हितः
death of ārāḍa kālāma
अथ भगवत एतद् अभवत्: कस्य न्व् अहं तत्प्रथमतो धर्मं देशयेयम् इति; अथ भगवत एतद् अभवत्; यन्व् अहम् आराडस्य कालामस्य तत्प्रथमतो धर्मं देशयेयं, यो मां पूर्वाचार्य एव सन् परमया माननया मानितवान्, परमया पूजनया पूजितवान्, परमेषु च प्रत्ययेष्व् आत्तमनाश् चाभूद् अभिराद्धश् च; देवता भगवत आरोचयन्ति: सप्ताहकालगतो भदन्ताराडः कालाम इति; भगवतो ऽपि समन्वाहृत्य ज्ञानदर्शनं प्रवर्तते; सप्ताहकालगत आरादः कालामः; अथ भगवत एतद् अभवत्; महती बतेयं ज्यानिर्, आराडस्य कालामस्य कालक्रियाया; सुमहती बतेयं ज्यानिर् आराडस्य कालामस्य कालक्रियाया, य इमं धर्मविनयं नाश्रौषीत्; सचेद् अश्रोष्यद् अज्ञास्यत् स इमं धर्मविनयम् इति; (sbv i 131) अथ भगवत एतद् अभवत्: कस्य न्व् छं तत्प्रथमतो धर्मं देशयेयम् इति
death of udraka rāmaputra
अथ भगवत एतद् अभवत्; यन्व् अहम् उद्रकस्य रामपुत्रस्य तत्प्रथमतो धर्मं देशयेयं, यो मां पूर्वाचार्य एव सन् परमया माननया मानितवान्, परमया पूजनया पूजितवान्, परमेषु च प्रत्ययेष्व् आत्तमनाश् चाभूद्, अभिराद्धश् च; देवता भगवत आरोचयन्ति; अभिदोषकालगतो भदन्त उद्रको रामपुत्रः; भगवतो ऽपि समन्वाहृत्य ज्ञानदर्शनं प्रवर्तते; अभिदोषकालगत उद्रको रामपुत्रः; अथ भगवत एतद् अभवत्: महती बतेयं ज्यानिर् उद्रकस्य रामपुत्रस्य कालक्रियाया; सुमहती बतेयं ज्यानिर् उद्रकस्य रामपुत्रस्य कालक्रियाया, यो मम इमं धर्मविनयं नाश्रौषीत्; सचेद् इमं धर्मविनयम् अश्रोष्यद् अज्ञास्यत् स इमं धर्मविनयम् इति
buddha starts of vārāṇasī
अथ भगवत एतद् अभवत्: कस्य न्व् अहं तत्प्रथमतो धर्मं देशयेयम् इति; तस्यैतद् अभवत्: यन्व् अहं पञ्चकानां भिक्षूणां तत्प्रथमतो धर्मं देशयेयम् इति; ये मां पूर्वं दुःखप्रहाणयोगम् अनुयुक्तं विहरन्तं सत्कृत्योपतस्तुः प्रेम्णा च गौरवेण च; अथ भगवत एतद् अभवत्: कुत्र त्व् एतर्हि पञ्चका भिक्षवो विहरन्ति इति; अद्राक्षीद् भगवान् दिव्येन चक्षुषा विशुद्धेन अतिक्रान्तमानुषेण पञ्चकान् भिक्षून्; वाराणस्यां विहरन्ति ऋषिवदने मृगदावे; दृष्ट्वा च पुनर् यथाभिरम्यं बोधिमूले विहृत्य येन वाराणसी काशीनां निगमस् तेन चारिकां प्रक्रान्तः
उपगु आजीविक
तेन खलु समयेन उपगुर् आजीविकस् तस्मिन्न् एव (अ 390ब्) मार्गे अध्वप्रतिपन्नो ऽभूत्; अद्राक्षीद् उपगुर् आजीवको भगवन्तं प्रतिपन्नं (sbv i 132) मार्गे; दृष्ट्वा च पुनर् एवम् आह: विप्रसन्नानि ते आयुष्मन् गौतम इन्द्रियाणि; परिशुद्धो मुखवर्णः पर्यवदातश् छविवर्णः; कस् ते आयुष्मन् गौतम शास्ता; तं वास्य् उद्दिश्य प्रव्रजितः; कस्य वा धर्मं रोचसीति; अथ भगवांस् तस्यां वेलायां गाथा भाषते न मे ऽस्ति कश्चिद् आचार्यः सदृशो मे न विद्यते / एको ऽस्मि लोके संबुद्धः प्राप्तः संबोधिम् उत्तमाम् //
सर्वाभिभूः सर्वविद् अस्मि लोके सर्वैश् च धर्मैर् इह नोपलिप्तः / सर्वञ्जहो वीततृष्णो विमुक्तः स्वयं ब्य् अभिज्ञाय कम् उद्दिशेयम् //
कम् उद्दिशेयम् असमो ह्य् अतुल्यः स्वयं प्रवक्ता अधिगम्य बोधिम् / तथागतो देवमनुष्यशास्ता सर्वैश् च सर्वज्ञबलैर् उपेतः //
सदेवकेषु लोकेषु अहं माराभिभूर् जिनः //
जिन इत्य् आयुष्मन् गौतम <कं> वदसि; जिना हि मादृशा ज्ञेया ये प्राप्ता आश्रवक्षयम् / -आस्रवक्षयम् जिता मे पापका धर्मास् तेनोपगु जिनो ह्य् अहम् //
कुत्र त्वम् आयुष्मन् गौतम गमिष्यसि? वाराणसीं गमिस्याम्य् आहन्तुं धर्मदुन्दुभिम् / धर्मचक्रं प्रवर्तयितुं यल् लोकेष्व् अप्रवर्तितम् //
न हि सन्तः प्रकाशन्ते विदित्वा लोकपर्यायम् / आज्ञानिर्वृतबुद्धास् ते तीर्णा लोकविषक्तिकाम् //
साध्व् आयुष्मन् गौतम जिनः; इत्युक्त्वा उपगुर् आजीवकः मार्गाद् अपक्रान्तः (sbv i 133)
the five bhikṣus
अथ भगवान् काशिषु जनपदेषु चारिकां चरन् वाराणसीम् अनुप्राप्तः; तेन खलु समयेन पञ्चका भिक्षवो वाराणस्यां विहरन्ति ऋषिवदने मृगदावे; अद्राक्षुः पञ्चका भिक्षवो भगवन्तं दूरत एव; दृष्ट्वा च पुनर् अन्योन्यं संप्रतस्थुः; क्रियाकारं चाकार्षुः; अयं स भवन्तः श्रमंओ गौतम आगच्छति शैथिलिको बाहुलिको बहुलाजीवः प्रहाणविभ्रान्तः; स एतर्ह्य् औदारिकम् आहारम् आहरति ओदनकुल्माषान्; सर्पिस्तैलाभ्यां गात्राणि म्रक्षयति; सुखोदकेन च कायं परिषिञ्चति; सो ऽस्माभिर् उपसङ्क्रान्तो नाभिवाद्यः, न वन्दितव्यो, न प्रत्युत्थातव्यो, नोत्थायासनेनोपनिमन्त्रयितव्यो नान्यत्र प्राग् एवासनानि प्रज्ञप्य; इदं स्याद् वचनीयः; संविद्यन्ते आयुष्मन् गौतम आसनानि; सचेद् आकाङ्क्षसि निषीद इति; यथा यथा भगवान् पञ्चकान् भिक्षून् दर्शनायोपसङ्क्रामति तथा तथा पञ्चका भिक्षवो भगवतस् तेजश् च श्रियं च गौरवं च असहमाना उत्थायासनाद् एके भगवतो ऽर्थे आसनं प्रज्ञपयन्ति; एके पादोदकं, पादाधिष्ठानं चैकान्ते उपनिक्षिपन्ति; एके प्रत्युद्गम्य चीवरकाणि प्रतिगृह्णन्ति; एवं चाहुः: एतु भवान् गौतम; स्वागतं भवते गौतमाय; निषीदतु भवान् गौतम प्रज्ञप्त एवासने; अथ भगवत एतद् अभवत्: च्युता बतेमे नोहपुरुषा स्वस्मात् क्रियाकाराद्; इति विदित्वा प्रज्ञप्त एव आसने निषण्णः; तत्रस्वित् पञ्चका भिक्षवो भगवन्तम् अत्यर्थं नामवादेन गोत्रवादेन आयुष्मद्वादेन समुदाचरन्ति; तत्र भगवान् पञ्चकान् भिक्षून् आमन्त्रयते स्म: मा यूयं भिक्षवस् तथागतम् (अ 391अ) अत्यर्थं नामवादेन गोत्रवादेन आयुष्मद्वादेन समुदाचरत; मा वो ऽभूद् दीर्घरात्रम्
अनर्थायाहिताय दुःखाय; तत् कस्य हेतोः? यः कश्चिद् भिक्षवः तथागतम् अत्यर्थं नामवादेन गोत्रवादेन आयुष्मद्वादेन समुदाचरति; तत् तस्य भवति मोहपुरुषस्य दीर्घरात्रम् अनर्थाय अहिताय दुःखाय; त एवम् (sbv i 134) आहुः: तया तावत् त्वम् आयुष्मन् गौतम पूर्विकया ईर्यया चर्यया दुष्करचर्यया किञ्चिद् अधिगतवान् उत्तरं मनुष्यधर्माद् अलं आर्यविशेषाधिगमं ज्ञानं वा, दर्शनं वा, स्पर्शविहारतां वा; कुतः पुनर् यस् त्वम् एतर्हि शैथिलिको बहुलाजीवः प्रहाणविभ्रान्तः स त्वम् एतर्ह्य् औदारिकं आहारम् आहरस्य् ओदनकुल्माषान्; सर्पिस्तैलाभ्यां गात्राणि म्रक्षयसि; सुखोदकेन च कायं परिषिञ्चसि; ननु यूयं भिक्षवः पश्यथ तथागतस्य पूर्वेणापरं मुखस्य वा विप्रसन्नत्वम्, इन्द्रियाणाण् <वा> नानाकरणम् ? त एवम् ऊहुः: एवम् एतद् आयुष्मन् गौतम
the middle course of conduct tatra bhagavān pañcakān bhikṣūn āmantrayate sma : dvāv imau bhikṣavo 'ntau pravrajitena na sevitavyau, na vaktavyau, na paryupāsitavyau; katamau dvau; yaś ca kāmeṣu kāmasukhālayānuyogo hīno grāmyaḥ prākṛtaḥ pārthagjanikaḥ; yaś cātmaklamathānuyogo duḥkho 'nāryo 'narthopasaṃhitaḥ; ity etāv ubhāv antāv anupagamya asti madhyamā pratipac cakṣuṣkaraṇī jñānakaraṇī upaśamasaṃvartanī abhijñāyaiva saṃbhodhaye nirvāṇāya saṃvartate; madhyamā pratipat katamā? āryāṣṭāṅgo mārgaḥ; tasya samyagdṛṣṭiḥ, samyaksaṅkalpaḥ, samyagvāk, samyakkarmāntaḥ, samyagājīvaḥ; samyagvyāyāmaḥ, samyaksmṛtiḥ, samyaksamādhiḥ; aśakad bhagavān pañcakān bhikṣūn anayā saṃjaptyā saṃjñapayitum; dvau ca bhagavān pañcakānāṃ bhikṣūṇāṃ pūrvabhakte avavadati; trayo grāmaṃ piṇḍāya praviśanti; yat trivargo 'bhinirharati tena ṣaḍvargo yāpayati; trīṃś ca bhagavān pañcakānāṃ bhikṣūṇāṃ paścādbhakte avavadati; dvau grāmaṃ piṇḍāya praviśataḥ; yad dvivargo 'bhinirharati tena pañcavargo yāpayati; tathāgataḥ pratiyaty eva kālabhojī (sbv i 135)
the four noble truths
तत्र भगवान् पञ्चकान् भिक्षून् आमन्त्रयते स्म: 1) इदं दुःखम् आर्यसत्यम् इति भिक्षवः पूर्वम् अननुश्रुतेषु धर्मेषु योनिशो मनसि कुर्वतश् चक्षुर् उदपादि; ज्ञानं विद्या बुद्धिर् उदपादि; अयं दुःखसमुदयः, अयं दुःखनिरोधः; इयं दुःखनिरोधगामिनी प्रतिपत् आर्यसत्यम् इति भिक्षवः पूर्वम् अननुश्रुतेषु धर्मेषु योनिशो मनसि कुर्वतश् चक्षुर् उदपादि ज्ञानं विद्या बुद्धिर् उदपादि; तत् खलु दुःखम् आर्यसत्यम् अभिज्ञया परिज्ञेयं मयेति भिक्षवः पूर्वम् अननुश्रुतेषु धर्मेषु योनिशो मनसि कुर्वतश् चक्षुर् उदपादि, ज्ञानं विद्या बुद्धिर् उदपादि; तत् खलु दुःखसमुदयम् आर्यसत्यम् अभिज्ञया प्रहातव्यं मयेति भिक्षवः पूर्वम् (अ 391ब्) अननुश्रुतेषु धर्मेषु योनिशो मनसि कुर्वतश् चक्षुर् उदपादि, ज्ञानं विद्या बुद्धिर् उदपादि; तत् खलु दुःखनिरोधम् आर्यसत्यम् अभिज्ञया साक्षात्कर्तव्यं मयेति भिक्षवः पूर्वम् अननुश्रुतेषु धर्मेषु योनिशो मनसि कुर्वतश् चक्षुर् उदपादि, ज्ञानं विद्या बुद्धिर् उदपादि; तत् खलु दुःखनिरोधगामिनी प्रतिपद् आर्यसत्यम् अभिज्ञया भावयितव्यं मयेति भिक्षवः पूर्वम् अननुश्रुतेषु धर्मेषु योनिशो मनसि कुर्वतश् चक्षुर् उदपादि, ज्ञानं विद्या बुद्धिर् उदपादि तत् खलु दुःखम् आर्यसत्यम् अभिज्ञाया परिज्ञातं मयेति भिक्षवः पूर्वम् अननुश्रुतेषु धर्मेषु योनिशो मनसि कुर्वतश् चक्षुर् उदपादि, ज्ञानं विद्या बुद्धिर् उदपादि; तत् खलु दुःखसमुदयम् आर्यसत्यम् अभिज्ञया प्रहीणं मयेति भिक्षवः पूर्वम् अननुश्रुतेषु धर्मेषु योनिशो मनसि कुर्वतश् चक्षुर् उदपादि, ज्ञानं विद्या बुद्धिर् उदपादि; तत् खलु दुःखनिरोधम् आर्यसत्यम् अभिज्ञया साक्षात्कृतं
मयेति भिक्षवः पूर्वम् अननुश्रुतेषु योनिशो मनसि कुर्वतश् चक्षुर् उदपादि, ज्ञानं विद्या बुद्धिर् उदपादि; तत् खलु दुःखनिरोधगामिनी प्रतिपद् आर्यसत्यम् अभिज्ञया भावितं मयेति भिक्षवः पूर्वम् अननुश्रुतेषु धर्मेषु योनिशो मनसि कुर्वतश् चक्षुर् उदपादि, ज्ञानं विद्या बुद्धिर् उदपादि; यावच् च (sbv i 136) मम भिक्षव एषु चतुर्ष्व् आर्यसत्येष्व् एवं त्रिपरिवर्तं द्वादशाकारं न चक्षुर् उदपादि, न ज्ञानं <न> विद्या न बुद्धिर् उदपादि, न तावद् अहम् अस्माद् भिक्षवः सदेवकाल् लोकात्, समारकात्, सब्रह्मकात्, सश्रमणब्राह्मणिकायाः प्रजायाः सदेवमानुषाया मुक्तो निसृतो विसंयुक्तो विप्रमुक्तो विपर्यासापगतेन चेतसा बहुलं व्याहार्षम्; न तावद् अहं भिक्षवः अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धो ऽस्मीत्य् अध्यज्ञासिषम्; यतश् च मम भिक्षव एषु चतुर्ष्व् आर्यसत्येष्व् एवं त्रिपरिवर्तं द्वादशाकारं चक्षुर् उदपादि, ज्ञानं विद्या बुद्धिर् उदपादि, ततो ऽहम् अस्मात् सदेवकाल् लोकात् समारकात् सब्रह्मकात्, सश्रमणब्राह्मणिकायाः प्रजायाः सदेवमानुषाया मुक्तो निसृतो विसंयुक्तो विप्रमुक्तो विपर्यासापगतेन चेतसा बहुलं व्याहार्षम्; भिक्षवः अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धो ऽस्मीत्य् अध्यज्ञासिषं
the name of ājñātakauṇḍinya
अस्मिन् खलु धर्मपर्याये भाष्यमाणे आयुष्मत आज्ञाताकौण्डिन्यस्य विरजो विगतमलं धर्मेषु धर्मचक्षुर् उत्पन्नम्, अशीतेश् च देवतासहस्राणाम्; तत्र भगवान् आयुष्मन्तं कौण्डिन्यम् आमन्त्रयते स्म: आज्ञातस् ते कौण्डिन्य धर्मः? आज्ञातः भगवन्न् आज्ञातः; आज्ञातस् ते कौण्डिन्य धर्मः? आज्ञातः सुगत आज्ञात; <आज्ञातो> आयुष्मता कौण्डिन्येन धर्म इति तस्माद् आयुष्मतः कौण्डिन्यस्य आज्ञातकौण्डिन्य इत्य् अधिवचनम्; आज्ञात आयुष्मता कौण्डिन्येन धर्म इति
proclamation of dharmacakra
भौमा यक्षाः शब्दम् उदीरयन्ति, घोषम् अनुश्रावयन्ति: एतन् मार्षा भगवता वाराणस्याम् ऋषिवदने मृगदावे त्रिपरिवर्तं द्वादशाकारं धर्म्यं धर्मचक्रं प्रवर्तितम्, अप्रवर्त्यं श्रमणेन वा ब्राह्मणेन वा देवेन वा मारेण वा ब्रह्मणा वा केनचिद् वा (sbv i 137) लोके <सहधर्मतः> बहुजनहिताय बहुजनसुखाय लोकानुकम्पायै अर्थाय सुखाय देवमनुष्याणाम् इति दिव्याः काया अभिवर्धिष्यन्ते, आसूराः कायाः परिहास्यन्ते इति; भौमानां यक्षाणां शब्दं श्रुत्वा अन्तरिक्षावचरा यक्षास् <तम् अनुश्रावयन्ति> चातुर्महाराजकायिका देवाः त्रायस्त्रिंशा यामास् तुषिता निर्माणरतयः परनिर्मितवशवर्तिनो देवाः; तेन क्षणेन, तेण लवेन, तेन मुहूर्तेन, तेन क्षणलवमुहूर्तेन (अ 392अ) यावद् ब्रह्मलोकं शब्दो ऽगमत्; ब्रह्मकायिका देवाः शब्दम् उदीरयन्ति; घोषम् अनुश्रावयन्ति: एतन् मार्षा भगवता वाराणस्यं ऋषिवदने मृगदावे त्रिपरिवर्तं द्वादशाकारं धर्म्यं धर्मचक्रं प्रवर्तितम् अप्रवर्त्यं श्रमणेन ब्राह्मणेन वा देवेन वा मारेण वा ब्रह्मणा वा केनचिद् वा पुनर् लोके सहधर्मतः बहुजनहिताय बहुजनसुखाय लोकानुकम्पायै अर्थाय हिताय सुखाय देवमनुष्याणाम् इति दिव्याः काया अभिवर्धिष्यन्ते; आसुराः कायाः परिहास्यन्त इति; प्रवर्तितं भगवता वाराणस्याम् ऋषिवदने मृगदावे त्रिपरिवर्तं द्वादशाकारं धर्म्यं धर्मचक्रम् इति; तस्माद् अस्य धर्मपर्यायस्य धर्मचक्रप्रवर्तनम् इत्य् अधिवचनं
the budda explains the four noble truths
तत्र भगवान् द्विर् अपि पञ्चकान् भिक्षून् आमन्त्रयते स्म: चत्वारीमानि भिक्षव आर्यसत्यानि; कतमानि चत्वारि? दुःखम् आर्यसत्यं, दुःखसमुदयो दुःखनिरोधो दुःखनिरोधगामिनी प्रतिपद् आर्यसत्यम्; 1) दुःखम् आर्यसत्यं कतमत्? जातिर् दुःखं, जरा दुःखं, व्याधिर् दुःखं, मरणं दुःखम्, प्रियविप्रयोगो दुःखम्, अप्रियसंप्रयोगो दुःखम्, यद् अपीच्छन् पर्येषमाणो न लभते तद् अपि दुःखम्; सङ्क्षेपतः पञ्च इमे उपादानस्कन्धा दुःखम्; तस्य परिज्ञायै आर्याष्टङ्गो मार्गो भावयितव्यः; 2) दुःखसमुदयम् आर्यसत्यं कतमत्? तृष्णा पौनर्भविकी नन्दीरागसहगता तत्र तत्राभिनन्दिनी; तस्याः प्रहाणाय आर्याष्टाङ्गो मार्गो भावयितव्यः; 3) दुःखनिरोधम् आर्यासत्यं कतमत्? यद् अस्या एव तृष्णायाः पौनर्भविक्याः नन्दीरागसहगतायास् तत्र तत्राभिनन्दिन्या अशेषप्रहाणं प्रतिनिसर्गो वान्तीभावः क्षयो विरागो निरोधो (sbv i 138) व्युपशमः अस्तङ्गमः; तस्य साक्षात्क्रियायै आर्याष्टाङ्गो मार्गो भावयितव्यः; 4) दुःखनिरोधगामिनी प्रतिपद् आर्यसत्यं कतमत्? आर्याष्टाङ्गो मार्गः; तद्यथा, सम्यग्दृष्टिः, सम्यक्सङ्कल्पः; सम्यग्वाक्, सम्यक्कर्मान्तः; सम्यगाजीवः; सम्यग्व्यायामः; सम्यक्स्मृतिः; सम्यक्समाधिः; सो ऽपि भावयितव्यः अस्मिन् खलु धर्मपर्याये भाष्यमाणे आयुष्मत आज्ञातकौण्डिन्यस्यानुपादायाश्रवेभ्यश् चित्तं विमुक्तम्; अवशिष्टानां तु पञ्चकानां भिक्षूणां विरजो विगतमलं धर्मेषु धर्मचक्षुर् उत्पन्नम्; तेन खलु समयेन एको <लोके> अर्हन् भगवांश् च द्वितीयः; तत्र भगवान् अवशिष्टान् पञ्चकान् भिक्षून् आमन्त्रयते स्म: रूपं भिक्षवो नात्मा; रूपं चेद् भिक्षव आत्मा स्यान् न रूपम्
आबाधाय दुःखाय संवर्तेत; लभ्येत च रूपस्यैवं मे रूपं भवतु, एवं मा भूद् इति; यस्मात् तर्हि भिक्षवो रूपम् अनात्मा तस्माद् रूपम् आबाधाय दुःखाय संवर्तते; न च लभ्यते रूपस्यैवं मे भवतु, एवं मा भूद् इति; वेदना संज्ञा संस्कारा विज्ञनं भिक्षवो नात्मा; विज्ञानं चेत् भिक्षवः आत्मा स्यान् न विज्ञानम् आबाधाय <दुःखाय> संवर्तेत; लभ्येत च विज्ञानस्यैवं मे विज्ञानं भवतु, एवं मा भूद् इति; यस्मात् तर्हि भिक्षवः विज्ञानम् अनात्मा, तस्माद् विज्ञानम् आबाधाय (अ 392ब्) दुःखाय संवर्तते; न च लभ्यते विज्ञानस्यैवं मे विज्ञनं भवतु, एवं मा भूद् इति किं मन्यध्वे भिक्षवो, रूपं, नित्यं वा <अनित्यं वा>? अनित्यम् इदं भदन्त; यत् पुनर् अनित्यं दुःखं वा तन् न वा दुःखम्? दुःखम् इदं भदन्त; यत् पुनर् अनित्यं दुःखं विपरिणामधर्मि; अपि नु तच् छ्रुतवान् आर्यश्रावक आत्मत उपगच्छेद् एतन् मम, एसो ऽहम् अस्म्य्, एष मे आत्मेति? नो भदन्त; किं मन्यध्वे भिक्षवो वेदना संज्ञा संस्कारा विज्ञानं नित्यं वा अनित्यं वा? अनित्यम् इदं भदन्त; यत् पुनर् अनित्यं <दुःखं> वा तन्, न वा दुःखम्? दुःखम् इदं भदन्त; यत् पुनर् अनित्यं <दुःखम्> विपरिणामधर्मि; अपि नु तच् छ्रुतवान् आर्यश्रावक आत्मत उपगच्छेद् एतन् मम, एषो ऽहम् अस्म्य्, एष मे आत्मेति? नो भदन्त; (sbv i 139) तस्मात् तर्हि भिक्षवो यत् किञ्चिद् रूपम् अतीतानागतप्रत्युत्पन्नम् अध्यात्मं वा बाह्यं वा औदारिकं वा सूक्ष्मं वा हीनं वा प्रणीतं वा यद् वा दूरे यद् वा अन्तिके तत् सर्वं नैतन् मम, नैषो ऽहम् अस्मि, नैष मे आत्मेति; एवम् एतत् यथाभूतं सम्यक्प्रज्ञया द्रष्टव्यम्; <एवं या काचिद्
वेदना या काचित् संज्ञा ये केचित् संस्कारा यत् किंचिद् विज्ञानम् अतीतानागतप्रत्युत्पन्नम् आध्यात्मं वा बाह्यं वा औदारिकं वा सूक्ष्मं वा हीनं वा प्रणीतं वा यद् वा दूरे यद् वान्तिके तत् सर्वं नैतन् मम, नैसो ऽहम् अस्मि, नैष मे आत्मेति; एवम् एतत् यथाभूतं सम्यक्प्रज्ञया द्रष्टव्यम्;> यतश् च भिक्षवः श्रुतवान् आर्यश्रावक इमां पञ्च उपादानस्कन्धान् नैवात्मतो नात्मीयतः समनुपश्यति; स एवं समनुपश्यन् न किञ्चिल् लोक उपादत्ते; अनुपाददानो न परितस्यति अपरितस्य आत्मैव परिनिर्वाति; क्षीणा मे जातिः; उषितं ब्रह्मचर्यम्; कृतं करणीयम्; नापरम् अस्माद् भवं प्रजानामीति; अस्मिन् खलु धर्मपर्याये भाष्यंआणे अवशिष्टनां पञ्चकानां भिक्षूणाम् अनुपादायाश्रवेभ्यश् चित्तानि विमुक्तानि; तेन खलु समयेन पञ्च लोके ऽर्हन्तो, भगवांश् च षष्ठ इति
the conversin of yaśas, son of agrakulika
तत्र भगवान् वाराणस्यां विहरति नद्या वारकायष् तीरे; तेन खलु समयेन वाराणस्यां यशा अग्रकुलिकपुत्रः प्रतिवसति; दिवादिवसे स्त्रीमयेन तूर्येण क्रीडित्वा रमित्वा परिचार्य श्रान्तकायः क्लान्तकायः प्राभारकायः प्रतियत्य् एव मिद्धम् अवक्रान्तः; ता अपि स्त्रियः श्रान्तकायाः क्लान्तकायाः प्राग्भारकायाः प्रतियत्य् एव मिद्धम् अवक्रान्ताः; अद्राक्षीद् यशा अग्रकुलिकस्य पुत्रः सरात्रम् एव सुप्तप्रतिबुद्धः सर्वास् ता स्त्रियो विलालिका विनग्निका विकेशिका विक्षिप्तभुजाः कान्य् अपि कान्य् अपि विप्रलपन्त्यः; दृष्ट्वा च पुनर् अस्य स्वे ऽन्तःपुरे श्मशानसंज्ञा अवक्रान्ता; अथ यशा अग्रकुलिकपुत्रो महाशयनाद् अवतीर्य शतसहस्रं मणिपादुकायुगं प्रावृत्य (sbv i 140) येनान्तःपुरद्वारं तेनोपसङ्क्रान्तः; उपसङ्क्रम्य अपस्वरम् अकार्षीत्: उपद्रुतो ऽस्मि मार्षा उपसृष्टो ऽस्मि मार्षा इति; तस्यामनुष्या द्वारं विवृण्वन्ति; शब्दं चान्तर्धापयन्ति; अथ यशा अग्रकुलिकपुत्रो येन निवेशनद्वारं तेनोपसङ्क्रान्तः; उपसङ्क्रम्यापस्वरम् अकार्षीत्: उपद्रुतो ऽस्मि मार्षा उपसृष्टो ऽस्मि मार्षा इति: तस्यामनुष्या द्वारं विवृण्वन्ति; शब्दं चान्तर्धापयन्ति; अथ यशा अग्रकुलिकपुत्रो येन नगरद्वारं तेनोपसङ्क्रान्तः; (अ 393अ) उपसङ्क्रम्यापस्वरम् अकार्षीत्: उपद्रुतो ऽस्मि मार्षा उपसृष्टो ऽस्मि मार्षा <इति>; तस्यामनुष्या द्वारं विवृण्वन्ति; शब्दं चान्तर्धापयन्ति; अथ यशा अग्रकुलिकपुत्रो येन नदी वारका तेनोपसङ्क्रान्तः; तेन खलु समयेन भगवान् नद्या वारकायास् तीरे बहिर् विहारस्याभ्यवकाशे चङ्क्रमे चङ्क्रम्यते यद्भूयसा यशसम् एवाग्रकुलिकपुत्रम् आगमयमानः; अद्राक्षीत् यशा अग्रकुलिकपुत्रो भगवन्तं नद्या वारकायास्
तीरे चङ्क्रमे चङ्क्रम्यमाणम् दूरत एव; दृष्ट्वा च पुनर् अपस्वरम् अकार्षीत्: उपद्रुतो ऽस्मि श्रमण उपसृष्टो ऽस्मि श्रमण <इति>; अथ भगवान् यशसम् अग्रकुलिकपुत्रम् इदम् अवोचत्: एहि कुमार; इदं ते स्थानम् अनुपद्रुतम्; इदम् अनुपसृष्टम् इति; अथ यशा अग्रकुलिकपुत्रः शतसहस्रं मणिपादुकायुगं नद्या वारकायास् तीरे उज्झित्वा, नदीं वारकां प्रत्युत्तीर्य येन भगवांस् तेनोपसङ्क्रान्तः; उपसङ्क्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते अस्थात्; अथ भगवान् यशसम् अग्रकुलिकपुत्रम् आदाय येन स्वो विहारस् तेनोपसङ्क्रान्तः; उपसङ्क्रम्य प्रज्ञप्त एवासने न्यषीदत्; निषद्य भगवान् यशसम् अग्रकुलिकपुत्रं धर्मयया कथया सन्दर्शयति <समादापयति> समुत्तेजयति संप्रहर्षयति; यासौ बुद्धानां भगवतां पूर्वकालकरणीया धर्म्या कथा तद्यथा दानकथा, शीलकथा, स्वर्गकथा, कामानाम् आस्वादादीनवसंक्लेशव्यवदाननैष्क्रम्यप्रविवेक अनुशंसव्यवदानपक्ष्यान् धर्मान् विस्तरेण संप्रकाशयति; यदा चैनं भगवान् अद्राक्षीद् धृष्टचित्तं कल्यचित्तं मुदितचित्तं विनिवरणचित्तं भव्यं प्रतिबलं सामुत्कर्षिकीं धर्मदेशनाम् आज्ञातुं, तदा (sbv i 141) यासौ बुद्धानां भगवतां सामुत्कर्षिकी धर्मदेशना, तद्यथा दुःखं समुदयो निरोधो मार्गश् चत्वार्य् आर्यसत्यानि विस्तरेण संप्रकाशयति; तद्यथा शुद्धं वस्त्रम् अपगतकालकं रञ्जनोपगं रङ्गे प्रक्षिप्तं सम्यग् एव रङ्गं प्रतिगृह्णाति; एवम् एव यशा अग्रकुलिकपुत्रस् तस्मिन्न् एवासने निषण्णश् चत्वार्य् आर्यसत्यान्य् अभिसमेति; तद्यथा दुःखं समुदयं निरोधं मार्गं अथ यशा अग्रकुलिकपुत्रो दृष्टधर्मा प्राप्तधर्मा
विदितधर्मा पर्यवगाढधर्मा तीर्णकाङ्क्षस् तीर्णविचिकित्सो ऽपरप्रत्ययो ऽनन्यनेयः शास्तुश् शासने धर्मेषु वैशारद्यप्राप्तः उत्थायासनाद् एकांशम् उत्तरासङ्गं कृत्वा येन भगवांस् तेनाञ्जलिं प्रणमय्य भगवन्तम् इदम् अवोचत्: अभिक्रान्तो ऽहं भदन्त, अभिक्रान्तः; एषो ऽहं भगवन्तं शरणं गच्छामि धर्मं च भिक्षुसङ्घं च; उपासकं च मां धारय अद्याग्रेण यावज्जीवं प्राणोपेतं शरणागतम् अभिप्रसन्नं
yaśas's father becomes a lay-disciple and yaśas an arhat
अद्राक्षीद् अन्यतमावरुद्धिका सरात्रम् एव सुप्तप्रतिबुद्धा यशाः कुमारो महाशयने न दृश्यते इति; दृष्ट्वा च पुनर् येनाग्रकुलिको गृहपतिस् तेनोपसंक्रान्ता; उपसङ्क्रम्याग्रकुलिकं गृहपतिम् इदम् अवोचत्: यत् खल्व् आर्य जानीया यशाः कुमारः स्वे महाशयने न दृश्यते (अ 393ब्) इति; अथ अग्रकुलिकस्य गृहपतेर् एतद् अभवत्: माहैव कुमारश् चोरैर् वा धूर्तैर् वा स्वापतेयकारणात् बहिर् निष्कासितो भविष्यति; इति विदित्वा चतुर्दिशम् अश्वदूतान् प्रेषयति; स्वयम् एव प्रदीपिकाहस्तैः पुरुषैः सार्धं येन नदी वारका तेनोपसङ्क्रान्तः; अद्राक्षीद् अग्रकुलिको गृहपतिर् नद्या वारकायास् तीरे शतसहस्रं मणिपादुकायुगम् उज्झितम्; दृष्ट्वा च पुनर् अस्यैतद् अभवत्: माहैव (sbv i 142) कुमारश् चोरैर् वा धूर्तैर् वा निष्कासितः; तथा हि नद्या वारकायास् तीरे शतसहस्रं मणिपादुकायुगम् उज्झितम्; माहैव कुमारो ऽनेन तीर्थेन नदीं वारकाम् उत्तीर्णो भविष्यति; तथा <हि> शतसाहस्रं मणिपादुकायुगं नद्या वारकायास् तीरे उज्झितः; इति विदित्वा तेनैव तीर्थेन नदीं वारकाम् उत्तीर्य येन भगवांस् तेनोपसङ्क्रान्तः; अद्राक्षीद् भगवान् अग्रकुलिकं गृहपतिम् दूराद् एव; दृष्ट्वा च पुनर् अस्यैतद् अभवत्: यन्व् अहं तद्रूपान् ऋद्ध्यभिसंस्कारान् अभिसंस्कुर्यां यथाग्रकुलिको गृहपतिर् अस्मिन्न् एवासने निषण्णो यशसं कुमारं न पश्येद् इति; अथ भगवान् तद्रूपान् ऋद्ध्यभिसंस्कारान् अभिसंस्करोति यथाय्रकुलिको गृहपतिस् तस्मिन्न् एवासने निषण्णो यशसं कुमारं न पश्यति; अथाग्रकुलिको गृहपतिर् येन भगवांस् तेनोपसङ्क्रान्तः; उपसङ्क्रम्य भगवन्तम् इदम् अवोचत्: कच्चित् भगवान् यशसं कुमारम् <अद्राक्षीत्>? तेन हि
गृहपते निषीद स्थानम् एतद् विद्यते यद् अस्मिन्न् एवासने निषण्णो यशसं कुमारं द्रक्ष्यसीति; अथाग्रकुलिकस्य गृहपतेर् एतद् अभवत्: नूनं च भगवता यशाः कुमारो दृष्टो भविष्यति; तथाहि भगवान् एवम् आह, तेन हि गृहपते निषीद स्थानम् एतद् विद्यते यद् अस्मिन्न् एवासने निषण्णो यशसं कुमारं द्रक्ष्यसि; इति विदित्वा हृष्टतुष्टप्रमुदित उदग्रप्रीतिसौमनस्यजातो भगवतः पादौ शिरसा वन्दित्वा एकान्ते न्यषीदत्; एकान्ते निषण्णम् अग्रकुलिकं गृहपतिं भगवान् धर्मयया कथया सन्दर्शयति, समादापयति, समुत्तेजयति संप्रहर्षयति; यासौ बुद्धानां भगवतां पूर्वकालकरणीया धर्म्या कथा, तद्यथा दानकथा शीलकथा स्वर्गकथा कामानाम् आस्वादादीनवसंक्लेशव्यवदाननैष्क्रम्यप्रविवेक अनुसंसव्यवदानपक्ष्यान् धर्मान् विस्तरेण संप्रकाशयति; यदा चैनं भगवान् अद्राक्षीद् धृष्टचित्तं कल्यचित्तं मुदितचित्तं विनिवरणचित्तं भव्यं प्रतिबलं सामुत्कर्षिकीं धर्मदेशनाम् आज्ञातुं, तदा यासौ बुद्धानां भगवतां सामुत्कर्षिकी धर्मदेशना तद्यथा दुःखं समुदयं निरोधं मार्गं चत्वार्य् आर्यसत्यानि विस्तरेण संप्रकाशयति; तद्यथा शुद्धं वस्त्रम् अपगतकालकम् रञ्जनोपगं रङ्गे प्रक्षिप्तं सम्यग् एव रङ्गं (sbv i 143) प्रतिगृह्णाति, एवम् एवाग्रकुलिको गृहपतिस् तस्मिन्न् एवासने निषण्णश् चत्वार्य् आर्यसत्यान्य् (अ 394अ) अभिसमेति; दुःखं समुदयं निरोधं मार्गम्; तस्मिन् खलु धर्मपर्याये भाष्यमाणे अग्रकुलिकस्य गृहपतेर् विरजो विगतमलं धर्मेषु धर्मचक्षुर् उत्पन्नम्; आयुष्मतश् च यशसः सर्वालङ्कारविभूषितस्यानुपादायाश्रवेभ्याश् चित्तं विमुक्तम्; अथ भगवांष्
तान् ऋद्ध्यभिसंस्कारान् प्रतिप्रस्रभ्य तस्यां वेलायां गाथां भाषते: अलङ्कृतश् चापि चरेत धर्मं दान्तश् शान्तः संयतो ब्रह्मचारी /
सर्वेषु भूतेषु निधाय दण्डं स ब्राह्मणः स श्रमणः स भिक्षुः //
तेन खलु समयेन षट् लोके अर्हन्तः, भगवांश् च सप्तमः; अद्राक्षीद् अग्रकुलिको गृहपतिर् यशसं कुमारं तस्मिन्न् एवासने निषण्णम्; दृष्ट्वा च पुनर् यशसं कुमारम् इदम् अवोचत्: एहि कुमार निवेशनं गमिष्यावो माता ते श्रान्तकाया क्लान्तकाया परिदेवितवतीति; अथ भगवान् अग्रकुलिकं गृहपतिम् इदम् अवोचत्: किं मन्यसे गृहपते येनाशैक्षेण ज्ञानेन अशैक्षेण दर्शनेन चत्वार्य् आर्यसत्यान्य् अभिसमितानि, तद्यथा दुःखं, समुदयो, निरोधो, मार्गः, अपि नु स पुनर् अपि गृही अगारम् अध्यावसेत? सन्निधीकारपरिभोगेन वा कामान् परिभुञ्जीत इति? नो भदन्त: यथा खलु त्वया गृहपते शैक्षेण ज्ञानेन शैक्षेण दर्शनेन चत्वार्य् आर्यसत्यान्य् अभिसमितानि, दुःखं, समुदयो, निरोधो, मार्गः; एवम् एव कुमारेण अशैक्षेण ज्ञानेन अशैक्षेण दर्शनेन चत्वार्य् आर्यसत्यान्य् अभिसमितानि, तद्यथा दुःखं, समुदयो, निरोधो, मार्गः इति; लाभा भदन्त यशसा कुमारेण सुलब्धा येन अशैक्षेना ज्ञानेन अशैक्षेण दर्शनेन चत्वार्य् आर्यसत्यान्य् अभिसमितानि, तद्यथा दुःखं, समुदयो, निरोधो, मार्गः; साधु भगवान् यशसा कुमारेण पश्चाच्छ्रमणेन येनाग्रकुलिकस् तेनोपसङ्क्रामेद् अनुकम्पाम् उपादाय; अधिवासयति भगवान् अग्रकुलिकस्य गृहपतेस् तूष्णींभावेन; अथाग्रकुलिको गृहपतिर् भगवतस् तूष्णींभावेनाधिवासनां (sbv i 144) विदित्वा भगवतः पादौ शिरसा वन्दित्वा भगवतो ऽन्तिकात् प्रक्रान्तः
yaśa's mother and wife become lay-disciples
अथ भगवांस् तस्या एव रात्रेर् अत्ययात् निवास्य पात्रचीवरम् आदाय आयुष्मता यशसा पश्चाच्छ्रमेणेन येनाग्रकुलिकस्य गृहपतेर् निवेशनं तेनोपसङ्क्रान्तः; तेन खलु समयेन आयुष्मतो यशसो महल्लिका पुराणद्वितीया च मध्यमायां द्वारशालायाम् आस्थातां यद्भूयसा भगवन्तम् आगमयमाने; अद्राष्टाम् आयुष्मतो यशसो महल्लिका पुराणद्वितीया च भगवन्तम् दूरत एव दृष्ट्वा च पुनर् भगवतो ऽर्थे आसनं प्रज्ञापयतः; एवं चाहतुः; एतु भगवान्; स्वागतं भगवते; निषीदतु भगवान् प्रज्ञप्त एव आसने; निषण्णो भगवान् प्रज्ञप्त एवासने; अथायुष्मतो यशसो महल्लिका पुराणद्वितीया च भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णे; एकान्ते निषण्णाम् आयुष्मतो यशसो महल्लिकां पुराणद्वितीयां च भगवान् धर्म्यया कथया सन्दर्शयति, (अ 394ब्) समादापयति, समुत्तेजयति, संप्रहर्षयति; यासौ बुद्धानां भगवतां पूर्वकालकरणीया धर्म्या कथा, तद्यथा दानकथा शीलकथा स्वर्गकथा कामानाम् आस्वादादीनवसङ्क्लेशव्यवदाननैष्क्रम्यप्रविवेक अनुशंसव्यवदानपक्ष्यान् धर्मान् विस्तरेण संप्रकाशयति; यदा चैते भगवान् अद्राक्षीद् धृष्टचित्ते कल्यचित्ते मुदितचित्ते विनिवरणचित्ते भव्ये प्रतिबले सामुत्कर्षिकीं धर्मदेशनाम् आज्ञातुम्, तदा यासौ बुद्धानां भगवतां सामुत्कर्षिकी धर्मदेशना, तद्यथा दुःखं समुदयो निरोधो मार्गश् चत्वार्य् आर्यसत्यानि, <विस्तरेण> संप्रकाशयति; तद्यथा शुद्धं वस्त्रम् अपगतकालकं रञ्जनोपगं रङ्गे प्रक्षिप्तं सम्यग् एव रङ्गं प्रतिगृह्णाति, एवम् एव आयुष्मतो यशसो महल्लिका पुराणद्वितीया च तस्मिन्न् एवासने निषण्णे चत्वार्य् आर्यस्त्यान्य्
अभिसमितवत्यौ; तद्यथा दुःखं समुदय निरोध मार्गः; अथ आयुष्मतो यशसो महल्लिका पुराणद्वितीया च दृष्टधर्मे प्राप्तधर्मे विदितधर्मे पर्यवगाढहर्मे (sbv i 145) तीर्णकाङ्क्षे तीर्णविचिकित्से अपरप्रत्यये अनयनेये शास्तुश् शासने धर्मेषु वैशारद्यप्राप्ते उत्थायासनाद् एकांशम् उत्तरासङ्गं कृत्वा येन भगवांस् तेनाञ्जलिं प्रणमय्य भगवन्तम् इदम् अवोचताम्: अभिक्रान्ते आवां, भदन्त, अभिक्रान्ते; एते आवां भगवन्तं शरणं गच्छावो, धर्मं च भिक्षुसङ्घं च; उपासिके च आवां धारयाद्याग्रेण यावज्जीवं प्राणोपेते शरणागते अभिप्रसन्ने; तेन हि भदन्त इहैव भक्तकृत्यं क्रियताम्; अधिवासयति भगवान् आयुष्मतो यशसो महल्लिकायाः पुराणद्वितीयायाश् च तूष्णींभावेन; अथ आयुष्मतो यशसो महल्लिका पुराणद्वितीया च भगवतस् तूष्णींभावेन अधिवासनां विदित्वा भगवन्तं सुखोपनिषण्णं शुचिप्रणीतेन खादनीयभोजनीयेन स्वहस्तं सन्तर्पयतः, संप्रवारयतः; अनेकपर्यायेण शुचिना प्रणीतेन खादनीयभोजनीयेन स्वहस्तं सन्तर्प्य संप्रवार्य भगवन्तं भुक्तवन्तं विदित्वा धौतहस्तम् अपनीतपात्रं नीचतरम् आसनं गृहीत्वा भगवतः पुरस्तान् निषण्णे धर्मश्रवणाय; अथ भगवान् आयुष्मतो यशसो महल्लिकां पुराणद्वितीयां च धर्म्यया कथया सन्दर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्य उत्थायासनात् प्रक्रान्तः; येन स्वो विहारस् तेनोपसङ्क्रान्तः; उपसङ्क्रम्य प्रज्ञप्त एवासने निषण्णः भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पृच्छन्ति: किं भदन्त आयुष्मता यशसा कर्म कृतं यस्य कर्मणो विपाकेन अन्तःपुरमध्यगतस्य स्वस्मिन्न्
अन्तःपुरे श्मशानसंज्ञा उत्पन्ना; सर्वालङ्कारविभूषितेन च भगवतो ऽन्तिके अर्हत्वं च साक्षात्कृतम्; यशसा एवं भिक्षवः कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययान्य् ओघवत् प्रत्युपस्थितान्य् अवश्यंभावीनि; (अ 395अ) यशसा कर्मान्य् उपचितानि को ऽन्यः प्रत्यनुभविष्यति; न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तु उपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते, शुभान्य् अशुभानि च न प्रनश्यन्ति कर्माण्य् अपि कल्पशतैर् अपि / सामग्रीं प्राप्य कालम् च फलन्ति खलु देहिनाम् //
(sbv i 146)
previous birth of yaśas
भूतपूर्वं भिक्षवः वाराणस्यां नगर्यां नातिदूरे रिषिः प्रतिवसति स्म मैत्र्यात्मकः कारुणिकः सर्वसत्वहितवत्सलः; तेन पिण्डपातं प्रविशता मृतकुणपं दृष्टम्; असत्प्रतिबद्धेनेव चित्तेन पिण्डपातं प्रविष्टः; पिण्दपातं चरित्वाभ्यागतः; यावत् पश्यति तं मृतकुणपं विलीनीभूतं व्याध्मातकं च; तस्यैवाग्रतः स्फुटितम्; तेन तत्रैव वैराग्यम् उत्पादितम्; तत इहान्तःपुरे प्रत्ययो दत्तः किं मन्यध्वे भिक्षवः? यो ऽसौ रिषिर् एष एवासौ यशाः कुमारः तेन कालेन तेन समयेन; यद् अनेन तत्र वैराग्यम् उत्पादितम् तेनैतर्हि अन्तःपुरमध्यगतस्य प्रत्ययो दत्तः; इति हि भिक्षवस्ः एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः; एकान्तशुक्लानाम् एकान्तशुक्लो व्यतिमिश्राणां व्यतिमिश्रः; तस्मात् तर्हि भिक्षवः एकान्तकृष्णानि कर्माणि अपास्य व्यतिमिश्राणि च एकान्तशुक्लेष्व् एव कर्मस्व् आभोगः करणीयः; इत्य् एवं वो भिक्षवः शिक्षितव्यम्
yaśas's four brothers are converted and become arhats
अश्रौषुर् वाराणस्यां द्वितीय अग्रकुलोकपुत्रस् तृतीयश् चतुर्थः पञ्चम अग्रकुलिकपुत्रः, पूर्णो, विमलो, गवांपतिः सुबाहुश् च: यशा अग्रकुलिकपुत्रः केशश्मश्र्व् अवतार्य काषायाणि वस्त्राण्य् आच्छाद्य सम्यग् एव श्रद्धया अगाराद् अनगारिकां प्रव्रजित इति; श्रुत्वा च पुनर् एषाम् एतद् अभवत्: न बतावरो बुद्धो भविष्यति, नावरं धर्माख्यानम्; यत्रेदानीं यशा अग्रकुलिकपुत्रस् तावत् तरुणः तावत् सुखैषी केशश्मश्र्व् अवतार्य काषायाणि वस्त्राण्य् आच्छाद्य सम्यग् एव श्रद्धया अगाराद् अनगारिकां प्रव्रजितः; यन्नु (sbv i 147) वयम् अपि केशश्मश्र्व् अवतार्य काषायाणि वस्त्राण्य् आच्छाद्य सम्यग् एव श्रद्धया अगाराद् अनगारिकां प्रव्रजेमेति; अथ द्वितीयो ऽग्रकुलिकपुत्रस् तृतीयश् चतुर्थः पञ्चमो ऽग्रकुलिकपुत्रः पूर्णो, विमलो, गवांपतिस्, सुबाहुर्, वाराणस्यां निष्क्रम्य येन भगवांस् तेनोपसङ्क्रान्ताः; उपसङ्क्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते तस्थुः; एकान्तस्थिता द्वितीयो ऽग्रकुलिकपुत्रस् तृतीयश् चतुर्थः पञ्चमः अग्रकुलिकपुत्रः पूर्णो, विमलो, गवांपतिस्, सुबाहुर्, भगवन्तम् इदम् अवोचन्: लभेमहि वयं भदन्त स्वाख्याते धर्मविनये प्रव्रज्याम् उपसंपदं भिक्षुभावम्; चरेम वयं भगवतो ऽन्तिके ब्रह्मचर्यम्; लब्धवन्तस् त आयुष्मन्तः स्वाख्याते धर्मविनये प्रव्रज्यां उपसंपदं भिक्षुभावम्; एवं प्रव्रजिता एकाकिनो व्यपकृष्टा अप्रमत्ता आतापिनः प्रहितात्मानो व्यहार्षुः; एकाकिनो व्यपकृष्टा अप्रमत्ता आतापिनः प्रहितात्मानो विहरन्तो यदर्थं कुलपुत्राः केशश्मश्र्व् अवतार्य काषायाणि वस्त्राण्य् आच्छाद्य सम्यग् एव (अ 395ब्) श्रद्धया अगाराद् अनगारिकां प्रव्रजन्ति तद् अनुत्तरं ब्रह्मचर्यपर्यवसानम् दृष्ट एव धर्मे स्वयम् अभिज्ञया साक्षात्कृत्वा उपसंपद्य प्रवेदयन्ते: क्षीना नो जातिर्, उषितं ब्रह्मचर्यं, कृतं करणीयं, नापरम् अस्माद् भवं प्रजानीम इति आज्ञातवन्त आयुष्मन्तो ऽर्हन्तो बभूवुः सुविमुक्तचित्ताः; तेन खलु समयेन दश लोके ऽर्हन्तो, भगवान् एकादशमः
the conversion of fifty young men
अश्रौषुर् वाराणस्यां पञ्चाशद् उत्सदोत्सदा ग्रामिकदारकाः, प्रथमो ऽग्रकुलिकपुत्रो, द्वितीयस्, तृतीयश् चतुर्थः, पञ्चमो ऽग्रकुलिकपुत्रो, यशाः, पूर्णो, विमलो, गवांपतिः, सुबाहुः केशश्मश्र्व् अवतार्य काषायाणि वस्त्राण्य् आच्छाद्य सम्यग् एव श्रद्धया अगाराद् अनगारिकां प्रव्रजिता इति; श्रुत्वा च पुनर् एषाम् एतद् अभवत्: न बतावरो बुद्धो भस्विष्यति; नावरं धर्माख्यानम्; यत्रेदानीं प्रथमो ऽग्रकुलिकपुत्रो, द्वितीयो यावत् पुर्णो विमलो गवांपतिः सुबाहुर् तावत् तरुणास् तावत् सुखैषिणः केशश्मश्र्व् अवतार्य काषायाणि वस्त्राण्य् आच्छाद्य सम्यग् एव श्रद्धया अगाराद् अनगारिकां (sbv i 148) प्रव्रजिताः; यन्नु वयम् अपि केशश्मश्र्व् अवतार्य काषयाणि वस्त्राण्य् आच्छाद्य सम्यग् एव श्रद्धया अगाराद् अनगारिकां प्रव्रजेमेति; अथ पञ्चाशद् उत्सदोत्सदा ग्रामिकदारका वाराणस्यां निष्क्रम्य येन भगवांस् तेनोपसङ्क्रान्ताः; उपसङ्क्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते तस्थुः; एकान्तस्थिताः पञ्चाशद् उत्सदोत्सदा ग्रामिकदारका भगवन्तम् इदम् अवोचन्: लभेमहि वयं स्वाख्याते धर्मविनये प्रव्रज्यां उपसंपदं भिक्षुभावम्; चरेम वयं भगवतो ऽन्तिके ब्रह्मचर्यम्; लब्धवन्तस् त आयुष्मन्तस् स्वाख्याते धर्मविनये प्रव्रज्यां उपसंपदं भिक्षुभावम्; एवंप्रव्रजितास् ते आयुष्मन्त एककिनो व्यपकृष्टाः अप्रमत्ता आतापिनः प्रहितात्मानो व्यहार्षुः; एकाकिनो व्यपकृष्टा अप्रमत्ता आतापिनः प्रहितात्मनो विहरन्तो यदर्थं कुलपुत्राः केशश्मश्र्व् अवतार्य काषयाणि वस्त्राण्य् आच्छाद्य सम्यग् एव श्रद्धया अगाराद् अनगारिकां प्रव्रजन्ति तद् अनुत्तरं ब्रह्मचर्यपर्यवसानं दृष्ट एव धर्मे स्वयम् अभिज्ञया साक्षात्कृत्वा उपसंपद्य प्रवेदयन्ते; क्षीणा नो जातिर्, उषितं ब्रह्मचर्यं, कृतं करणीयं, नापरम् अस्माद् भवं प्रजानीम इति आज्ञातवन्त आयुष्मन्तो ऽर्हन्तो बभूवुः सुविमुक्तचित्ताः; तेन खलु समयेन षष्टिर् लोके अर्हन्तो भगवान् एकषष्टितमः इति
थे बुद्ध गोएस् तो थे विल्लगे उरुबिल्वा
तत्र भगवान् वाराणस्यां विहरति ऋषिवदने मृगदावे; तत्र भगवान् भिक्षून् आमन्त्रयते स्म: मुक्तो ऽहं, भिक्षवः, सर्वपाशेभ्यो ये दिव्या ये च मानुषाः; यूयम् अपि भिक्षवो मुक्ताः सर्वपाशेभ्यो ये दिव्या ये च मानुषाः; ततो भिक्षवश् चारिकां प्रक्रमिश्यामो बहुजनसुखाय लोकानुकम्पायै अर्थाय हिताय सुखाय देवमनुष्याणाम्; मा च वो द्वाव् एकेन गमिष्यथ; अहम् अपि येनोरुबिल्वासेनायनीग्रामकस् तेन चारिकां प्रक्रमिष्यामि; अथ मारस्य (अ 396अ) पापीयस एतद् अभवत्; अयं श्रमणो गौतमो वाराणस्यां विहरति ऋषिवदने मृगदावे; एवं श्रावकान् धर्मं देशयति: मुक्तो ऽहं भिक्षवः सर्वपाशेभ्यो ये च दिव्या ये च मानुषाः; यूयम् अपि भिक्षवो मुक्तास् सर्वपाशेभ्यो ये च दिव्या ये च मानुषाः; यावद् अहम् अपि येनोरुबिल्वासेनायनीग्रामकस् तेन चारिकां प्रक्रमिष्यामीति; यन्व् अहम् अस्योपसङ्क्रमेयं यदुत व्याक्षेपकर्मणि; अथ मारः (sbv i 149) पापीयान् माणवकवर्णम् आत्मानम् अभिनिर्माय येन भगवांस् तेनोपसङ्क्रान्तः; उपसङ्क्रम्य भगवतो ऽन्तिके तिष्ठन् गाथां भाषते: अमुक्तो मुक्तसंज्ञी सन् किं मुक्तो ऽस्मीति मन्यसे / महाबन्धनबद्धो ऽसि न मे श्रमण मोक्ष्यसे //
अथ भगवत एतद् अभवत्: मारो बतायं पापीयान् उपसङ्क्रान्तो यदुत व्याक्षेपकर्मणि; इति विदित्वा गाथां भाषते: मुक्तो ऽहम् सर्वपाशेभ्यो ये दिव्या ये च मानुषाः / एवं जानीहि पापीयन् निहतस् त्वम् इहान्तक //
अथ मारस्य पापीयस एतद् अभवत्: जानाति मे श्रमणो गौतमश् चेतसा चित्तम्; इति विदित्वा दुःखी दुर्मना विप्रतीसारी तत्रैव अन्तर्हितः; तत्र भगवान् भिक्षून् आमन्त्रयते स्म: मुक्तो ऽहं भिक्षवः सर्वपाशेभ्यो ये दिव्या ये च मानुषाः; यूयम् अपि भिक्षवो मुक्ताः सर्वपाशेभ्यो ये दिव्या ये च मानुषाः; चरत भिक्षवश् चारिकां बहुजनहिताय पूर्ववद् यावद् अहम् अपि येनोरुबिल्वासेनायनीग्रामकस् तेन चारिकां प्रक्रमिष्यामि; एवं भदन्त इति भिक्षवो भगवतः प्रतिश्रुत्य जनपदचारिकां प्रक्रान्ताः अथ भगवाव् यथाभिरम्यं विहृत्य येनोरुबिल्वासेनायनीग्रामकस् तेन चारिकां प्रक्रान्तो ऽनुपूर्वेण चारिकां चरन् सेनायनीग्रामकम् अनुप्राप्तः; अथ भगवान् येन कार्पासवनषण्डः तेनोपसङ्क्रान्तः; उपसङ्क्रम्य अन्यतरद् वृक्षमूलं निश्रित्य निषण्णो दिवाविहाराय
sixty gentlemen become lay-disciples
तेन खलु समयेन षष्टिर् भद्रवर्गीयाः पूगाः बहिः सेनायनीग्रामकस्य दिवादिवसे स्त्रीमयेन तूर्येण क्रीडन्ति रमन्ते परिचारयन्ति; तेषां क्रीडतां रममाणानां परिचारयताम् अन्यतरा स्त्री समयं विराग्य निष्पलायिता; अथ षष्टिर् भद्रवर्गीयाः पूगाः तां स्त्रियं समन्वेषमाणा येन कार्पासवनषण्डस् तेनोपसङ्क्रान्ताः; उपसङ्क्रम्य अद्राक्षुः षष्टिर् भद्रवर्गीयाः पूगा भगवन्तम् अन्यतरद् वृक्षमूलं निश्रित्या निषण्णं प्रासादिकं प्रसादनीयम् शान्तेन्द्रियं शान्तमानसं परमेण चित्तदमव्युपशमेन समन्वागतं (sbv i 150) सुवर्णयूपम् इव श्रिया ज्वलन्तम्; दृष्ट्वा च पुनर् येन भगवांस् तेनोपसङ्क्रान्ताः; उपसङ्क्रम्य भगवन्तम् इदम् अवोचन्: कच्चिद् भगवान् स्त्रियम् अद्राक्षीत्; <किं पुनर् वः कुमारकास् तया स्त्रिया?> इह वयं भदन्त षष्टिर् भद्रवर्गीयाः पूगाः बहिः सेनायनीग्रामस्य दिवादिवसे स्त्रीमयेन तूर्येण क्रीडामो रमामो परिचारयामः; तेषाम् अस्माकं क्रीडतां रममाणानां परिचारयताम् अन्यतमा <स्त्री समयं विराग्य निष्पलायिता; ते> वयम् तां स्त्रियं समन्वेषामहे; किं मन्यध्वे कुमारकाः? किं वरं यो वा स्त्रियं समन्वेषाते, यो वा आत्मानम्? किम् अस्माकं भदन्त स्त्री (अ 396ब्) करिष्यति; इदम् एवास्माकं वरं यद् वयम् आत्मानं समन्वेषेमहि; तेन हि कुमारका निषीदन्तु; धर्मं वो देशयिष्यामि; अथ षष्टिर् भद्रवर्गीयाः पूगाः भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णाः; एकान्तनिषण्णान् षष्टिं भद्रवर्गीयान् पूगान् भगवान् धर्म्यया कथया सन्दर्शयति समादापयति समुत्तेजयति संप्रहर्षयति; यासौ <बुद्धानां भगवतां धर्म्या कथा; तद्यथा> दानकथा शीलकथा
स्वर्गकथा कामानाम् आस्वादादीनवसङ्क्लेशव्यवदाननैष्क्रम्यप्रविवेक अनुशंसव्यवदानपक्ष्यान् धर्मान् विस्तरेण संप्रकाशयति; यदा चैतान् भगवान् अद्राक्षीद् धृष्टचित्तान् मुदितचित्तान् कल्यचित्तान् विनिवरणचित्तान् भव्यान् प्रतिबलान् सामुत्कर्षिकीं धर्मदेशनाम् आज्ञातुं, तदा यासौ बुद्धानां भगवतां सामुत्कर्षिकी धर्मदेशना तद्यथा दुःखः समुदयो निरोधो मार्गश् चत्वार्य् आर्यसत्यानि विस्तरेण संप्रकाशयति; तद्यथा शुद्धं वस्त्रम् अपगतकालकं रञ्जनोपगं रङ्गे प्रक्षिप्तं सम्यग् एव रङ्गं प्रतिगृह्णाति; एवम् एव षष्टिर् भद्रवर्गीयाः पुगाः एष्व् एवासनेषु निषण्णाश् चत्वार्य् आर्यसत्यान्य् अभिसमयन्ति; तद्यथा दुःखं समुदयं निरोधं मार्गम्; अथ षष्टिर् भद्रवर्गीगाः पूगाः दृष्टधर्माणः प्राप्तधर्माणो विदितधर्माणः पर्यवगाढधर्माणस् तीर्णकाङ्क्षा तीर्णविचिकित्सा अपरप्रत्यया (sbv i 151) अनन्यनेया शास्तुश् शासने धर्मेषु वैशारद्यप्राप्ता उत्थायासनेभ्य एकांसम् उत्तरासङ्गं कृत्वा येन भगवांस् तेन अञ्जलिं प्रणमय्य भगवन्तम् इदम् अवोचन्: अभिक्रान्ता वयं भदन्ताभिक्रान्ताः; एते वयं भगवन्तं शरणं गच्छामो धर्मं च भिक्षुसङ्घं च; उपासकांश् च अस्मान् धारयाद्याग्रेण यावज्जीवं प्राणोपेतान् शरणागतान् अभिप्रसन्नान्; अथ षष्टिर् भद्रवर्गीयाः पूगा भगवतो भाषितम् अभिनन्द्य अनुमोद्य भगवतः पादौ शिरसा वन्दित्वा भगवतो ऽन्तिकात् प्रक्रान्ताह्
conversion of the brahmin deva
तेन खलु समयेन कपिलवस्तुनि देवो नाम ब्राह्मणः प्रतिवसत्य् आढ्यो महाधनो महाभोगो भगवतः पुराणो गृहपतिस् सखा: असौ परेण समयेन ज्ञातिक्षयं <धनक्षयम् ऋद्धिक्षयं गतः; यदा भगवता> षट्त्रिंशद्भूतकोटिपरिवारं मारं विद्राव्य अनुत्तरं ज्ञानम् अधिगतं, तदा देवो ब्राह्मणः पत्न्या सार्धं सेनायनीग्रामकम् अनुप्राप्तः; देवेन ब्राह्मणेन श्रुतं भगवता अनुत्तरं ज्ञानम् अधिगतम्; श्रुत्वा च तस्यैतद् अभवत्: कथं पुनर् अहं भगवन्तं पिण्डकेन प्रतिपादयेयम् इति; स पत्नीम् आमन्त्रयते: भद्रे भगवता अनुत्तरम् ज्ञानम् अधिगतम्; स च भगवांश् चक्रवर्तिकुले जातः; स इदानीं सेनायनीग्रामकं पिण्डपातं <चरति> ............................................................ सा कथयति: (अ 397अ) आर्यपुत्र तथा भवतु; देवेन ब्राह्मणसकाशे पत्नीबन्धकं स्थापयित्वा पञ्चकार्षापण ..................................................... देवेन ब्राह्मणेन गृहपतिसकाशाद् अलङ्कारं याचित्वा पत्न्या अनुप्रदत्तः; अथ देवो ब्राह्मणः सपत्नीकः सुचिं प्रणीतं खादनीयभोजनीयं समुदानीय येन भगवांस् तेनोपसंक्रान्तः; उपसंक्रम्य भगवन्तम् इदम् अवोचत्; अधिवासयतु मे भगवान् श्वो ऽन्तर्गृहे भक्तेन; अधिवासयति भगवान् देवस्य ब्राह्मणस्य तूष्णींभावेन; अथ भगवान् येन देवस्य ब्राह्मणस्य निवेषनं (sbv i 152) तेनोपसंक्रान्तः; उपसंक्रम्य प्रज्ञप्त एवासने न्यषीदत्; अथ देवो ब्राह्मणः सुखोपनिषण्णं भगवन्तं विदित्वा सपत्नी कः शुचिना प्रणीतेन खादनीयभोजनीयेन स्वहस्तं तर्पयतः संप्रवारयतः; अनेकपर्यायेण शुचिना प्रणीतेन
खादनीयभोजनीयेन स्वहस्तं संतर्पयित्वा संप्रवारयित्वा भगवन्तं भुक्तवन्तं विदित्वा धौतहस्तं अपनीतपात्रं नीचतरम् आसनं गृहीत्वा भगवतः पुरस्तान् निषण्णौ धर्मश्रवणाय; अथ भगवान् देवस्य ब्राह्मनस्य दक्सिणादेशनां कृत्वा प्रक्रान्तः इति; देवो ब्राह्मणस् तच् छ्रुत्वा दुःखी दुर्मनाः संवृत्तः; अटवीं संप्रस्थितः कुतो ऽहम् अलङ्कारं दास्यामीति; नान्यत्रात्मानम् ..................................................... तदा पश्यति तम् अलङ्कारम्; स तं गृहीत्वा गृहम् आगतः; देव पश्यामीति <पत्नी> दुःखदौर्मनस्याहता गृहं विशोधयति सुवर्णकलशं दीप्तिमन्तं पश्यति यथापितद् बुद्धस्य बुद्धानुभावेन देवतानां च देवतानुभावेन; देवस् तां पृच्छति: भद्रे किम् एतद्? इति; सा कथयति: आर्यपुत्र मया सुवर्णकलशो दृष्टः; सो ऽपि कथयति: भद्रे, मयापि सो ऽलंकारो दृष्टः; ताव् अत्यर्थं भगवति प्रसादजातौ तथा चाभिप्रसन्नौ; ततो भगवता तादृशी चतुरायसत्यसंप्रतिवेधिकी धर्मेदेशना कृता; यथा देवेन ब्राह्मणेन सपत्नीकेन विंशतिशिखरसमुद्गतं दृष्टिशैलं ज्ञानवज्रेण भित्वा श्रोत्रआपत्तिफलं साक्षात्कृतम्
conversion of nandā and nandabalā
अथ भगवांस् तस्या एव रात्र्या अत्ययात् पूर्वाह्णे निवास्य पात्रचीवरम् आदाय सेनायनीग्रामकं पिण्डाय प्राविक्षत्; अथ भगवत एतद् अभवत्: कस्य न्व् अहं सेनायनीग्रामके तत्प्रथमतो धर्मं देशयेयम्; अथ भगवत एतद् अभवत्: यन्व् अहं नन्दायाश् च नन्दबलायाश् च (अ 397ब्) ग्रामिकदुहित्रोः तत्प्रथमतो धर्मं देशयेयं, ये मां दुःखप्रहाणयोगम् अनुयुक्तं विहरन्तं सत्कृत्योपस्थतुः प्रेम्ना च गौरवेण च; अथ भगवान् येन नन्दायाश् च नन्दबलायाश् च ग्रामिकदुहित्रोर् निवेशनं तेनोपसंक्रन्तः; अद्राष्टां च नन्दा च नन्दबला च ग्रामिकदुहितरौ (sbv i 153) भगवन्तं दूरत एव; दृष्ट्वा च पुनर् भगवतो ऽर्थायासनं प्रज्ञपयतः एवं चाहतुः: निषीदतु भगवान् प्रज्नाप्त एवासने; न्यषीदद् भगवान् प्रज्ञाप्त एवासने; अथ नन्दा च नन्दबला च ग्रामिकदुहितरौ भगवत्पादौ शिरसा वन्दित्वैकान्ते निषण्णे; एकान्तनिषण्णे नन्दां च नन्दबलां च ग्रामिकदुहितरौ भगवान् धर्म्यया कथया संदर्शयति समादापयति समुत्तेजयति संप्रहर्षयति यासौ बुद्धानां भगवतां पूर्वकालकरणीया धर्मी कथा तद्यथा दानकथा शीलकथा स्वर्गकथा कामानाम् आस्वादादीनवसंक्लेशव्यवदाननैष्क्रम्यप्रविवेके अनुशंसव्यवदानपक्ष्यान् धर्मान् विस्तरेण संप्रकाशयति; यदैते भगवान् अद्राक्षीद् धृष्टचित्ते कल्यचित्ते मुदितचित्ते विनिवरणचित्ते भव्ये प्रतिबले सामुत्कर्षिकीं धर्मदेशनाम् आज्ञातुं तदा यासौ बुद्धानां भगवतां सामुत्कर्षिकी धर्मदेशना तद्यथा दुःखं समुदयो निरोधो मार्गश् चत्वार्य् आर्यसत्यानि विस्तरेण संप्रकाशयति; तद्यथा शुद्धं वस्त्रम् अपगतकालकं
रञ्जनोपगं रङ्गे प्रक्षिप्तं सम्यग् एव रङ्गं प्रतिगृह्णाति, एवम् एव नन्दा च नन्दबला च तस्मिन्न् एवासने निषण्णे चत्वर्य् आर्यसत्यानि अभिसमयतस् तद्यथा दुःखं समुदयं निरोधं मार्गम्; अथ नन्दा च नन्दबला च ग्रामिकदुहितरौ दृष्टधर्मे प्राप्तधर्मे पर्यवगाधधर्मे तीर्णकांक्षे तीर्णविचिकित्से ऽपरप्रत्यये ऽनन्यनेये शास्तुः शासने धर्मेषु वैशारद्यप्राप्ते; उत्थायासनाद् एकांशम् उत्तरासङ्गं कृत्वा येन भगवांस् तेनाञ्जलिं प्रणम्य भगवन्तम् इदम् अवोचताम्: अभिक्रान्ते आवां भदन्ताभिक्रान्ते; एते आवां भगवन्तं शरणं गच्छावो धर्मं च भिक्षुसङ्घं च; उपासिके चावां धारयाद्याग्रेण यावज्जीवं प्राणोपेते शरणगते ऽभिप्रसन्ने; अथ नन्दा च नन्दबला च ग्रामिकदुहितरौ भगवन्तम् इदम् अवोचताम्; तेन हि भदन्त इहैव भक्तकृत्यं क्रियताम्; अधिवासयति भगवान् नन्दायाश् च नन्दबलायाश् च ग्रामिकदुहित्रोः तूष्नींभावेन; अथ नन्दा च नन्दबला च ग्रामिकदुहितरौ भगवतस् तूष्णीम्भावेनाधिवासनां विदित्वा सुखोपनिषण्णं भगवन्तं विदित्वा शुचिना प्रणीतेन खादनीयभोजनीयेन स्वहस्तं संतर्पयतः संप्रवारयतः; शुचिना प्रणीतेन खादनीयभोजनीयेन स्वहस्तं संतर्पयित्वा संप्रवारयित्वा भगवन्तं भुक्तवन्तं विदित्वा धौतहस्तं अपनीतपात्रं नीचतरकम् आसनं गृहीत्वा भगवतः पूरतो निषण्णे धर्मश्रवणाय (sbv i 154)
[the ff. of the manuscript between 398 and 405 are missing. some fragments in sanskrit concerning this portion of the saṅghabhedavastu have been edited and restored with the aid of the tibetan translation by prof. ernst waldschmidt, catuṣpariṣatsūtra, ed. cit, vol. lll, vorgang 23, 18-27 c 3 (pp. 235-337)]. the portion restored by prof. ernst waldschmidt has been reproduced below as the appendix ll]
बिंबिसारऽस् विसित् तो थे बुद्ध
<ता देवता पुनर् अवोचन्: महाराज न ते पापं कर्म कृतम्; अपि तु> (अ 406अ) यैः सार्धं त्वया सामवायिकानि कर्माणि कृतानि तेषां ये केचित् सन्निपतिताः केचिद् अद्यत्वेपि जनपदैर् अमुष्मिन् कर्मान्तान् कारयन्तस् तिष्ठन्तो तान् शब्दयेति; राज्ञा तद्देशनिवासिनो जनकायास् सर्वे आहूताः; ततो राजा बिंबिसारो द्वादशभी रथसहस्रैर् अष्टादशभिश् च पेटकाश्वसहस्रैर् अनेकैश् च मागधकैर् ब्राह्मणगृहपतिशतसहस्रैः सार्धं राजगृहान् निर्याति भगवतो ऽन्तिकं भगवन्तं दर्शनायोपसङ्क्रमितुं पर्युपासनायै; तस्य यावती यानस्य भूमिस् तावद् यानेन गत्वा यानाद् अवतीर्य पद्भ्याम् एवारामं प्राविक्षत्; यद् अन्तरा राजा मागधः श्रेण्यो बिम्बिसारो भगवन्तम् अद्राक्षीत् तदन्तरात् पञ्चककुदान्य् अपनीय उष्णीषं, छत्रं, खड्गं, मणिबालव्यजनं चित्रे चोपानहौ येन भगवांस् तेनोपसङ्क्रान्तः; उपसङ्क्रम्य एकांसम् उत्तरासङ्गं कृत्वा येन भगवांस् तेन अञ्जलिं प्रणमय्य त्रिर् आत्मनो नामधेयम् अनुश्रावयति: राजाहम् अस्मि भदन्त मागधः श्रेण्यो बिम्बिसारः; राजाहम् अस्मि भदन्त मागधः श्रेण्यो बिम्बिसारः; एवम् एतन् महाराज, एवम् एतत्; राजा त्वं महाराज मागधः श्रेण्यो बिम्बिसारः; राजा त्वं महाराज मागधः श्रेण्यो बिम्बिसारः; निषीद त्वं महाराज यथास्वके आसने; अथ राजा मागधः श्रेण्यो बिम्बिसारो भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णः; एके मागधका ब्राह्मणगृहपतयो भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णाः; एके भगवता सार्धं संमुखं संमोदनीं संरञ्जनीं विविधां कथां (sbv i 155) व्यतिसार्य एकान्ते निषण्णाः; एके येन भगवांस् तेनाञ्जलिं प्रणमय्य एकान्ते निषण्णाः; एके भगवन्तं दूराद् एव दृष्ट्वा तुष्णीम् एकान्ते निषण्णाः
urubilvākāśyapa and the buddha confront
तेन खलु समयेन आयुष्मान् उरुबिल्वाकाश्यपस् तस्याम् एव पर्षदि सन्निषण्णः सन्निपतितः; अथ मागधकानां ब्राह्मणगृहपतीनाम् एतद् अभवत्: किं नु महाश्रमण उरुबिल्वाकाश्यपस्य जटिलस्यान्तिके ब्रह्मचर्यं चरत्य् आहोस्विद् उरुबिल्वाकाश्यप एव जटिलो महाश्रमणस्यान्तिके ब्रह्मचर्यं चरति? अथ भगवान् मागधकानां ब्राह्मणगृहपतीनां चेतसा चित्तम् आज्ञाय आयुष्मन्तम् उरुबिल्वाकाश्यपं गाथाभिर् गीतेन प्रश्नं पृच्छति स्म: दृष्ट्वेह किं त्वम् उरुबिल्ववासिन् अग्नीन् अहासीर् व्रतम् एव चार्षम् / आचक्ष्व मे काश्यप एतम् अर्थं कथं प्रहीणं हि तवाग्निहोत्रम् //
अन्नानि पानानि तथा रसांश् च कामान् स्त्रियश् चैव वचन्ति हैके / तावन् मलान् उपधौ संप्रपश्यन् तस्मान् न इष्टे न हुते रतो ऽहम् //
न ते ऽत्र कामेषु मनो रतं चेद् अन्नेषु पानेषु तथा रसेषु / कथं नु ते देवमनुष्यलोके रतं मनः काश्यप ब्रूहि पृष्टः //
दृष्ट्वा पदं निरुपधि शान्तम् अग्र्यं आकिञ्चन्यं सर्वभावेष्व् असक्तम् / अनन्यथीभावम् अनन्यनेयं तस्मान् न इष्टे न हुते रतो ऽहम् //
यज्ञैर् व्रतैर् अग्निभिश् चापि मोक्षः इत्य् अप्य् अभून् मे मनसो वितर्कः / अन्धो ऽस्मि जातिमरणानुसारी (sbv i 156) अनीक्ष्मानो ऽच्युतम् उत्तमं पदम् //(अ 406ब्) पश्यामीदानीं तद् असंस्कृतं पदं सुदेशितं नागवरेण तायिना / महाजनार्थाय मुनिर् विनायकस् त्वम् उद्गतो गौतम सत्यविक्रमः //
भगवान् आह स्वागतं ते व्यवसितं नैतद् दुश्चिन्तितं त्वया / प्रविभक्तेषु धर्मेषु यच् छ्रेष्ठं तद् उपागम //
संवेजय काश्यप पर्षदम् इति /
the twin miracle of urubilvākāśyapa
अथ आयुष्मान् उरुबिल्वाकाश्यपो भगवता कृतावकाशस् तक्रूपं समाधिं समापन्नो, यथा <स्वस्मिन्न् आसने ऽन्तर्हितः> समाहिते चित्ते पूर्वस्यां दिशि समभ्युद्गम्य चतुर्विधम् ईर्यापथं कल्पयति; तद्यथा, चङ्क्राम्यते, निषीदति, तिष्ठति शय्यां कल्पयति; तेजोधातुम् अपि समापद्यते; तेजोधातुसमापन्नस्य आयुष्मत उरुबिल्वाकाश्यपस्य विविधान्य् अर्चींषि कायान् निश्चरन्ति; तद्यथा नीलानि, पीतानि, लोहितान्य्, अवदातानि, माञ्जिष्ठानि, स्फटिकवर्णानि; यमकान्य् अपि प्रातिहार्याणि विदर्शयति; अधःकायः प्रज्वलति; उपरिमात् कायाच् छीतला वारिधारा स्यन्दते; उपरिमः कायः प्रज्वलति; अधःकायाच् छीतला वारिधारा स्यन्दते; यथा पूर्वस्यां दिश्य् एवं दक्षिणस्यां, पश्चिमायाम्, उत्तरस्यां दिशि; इति चतुर्दिशं चतुर्विधम् ऋद्धिप्रातिहार्यं विदर्श्य तान् ऋद्ध्यभिसंस्कारान् प्रतिप्रस्रभ्य येन भगवांस् तेन अञ्जलिं प्रणमय्य भगवन्तम् इदम् अवोचत्; शास्ता मे भगवान् श्रावको ऽहं भगवतः; शस्ता मे भगवान् श्रावको ऽहं भगवतः; एवम् एतत् काश्यप, <एवम् एतत् काश्यप>, श्रावकस् त्वं मम शास्ता ते ऽहं काश्यप; श्रावकस् त्वं मम; निषीद त्वं (sbv i 157) काश्यप यथास्वके आसने; अथायुष्मान् उरुबिल्वाकाश्यपो भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णः; अथ मागधकानां ब्राह्मणगृहपतीनाम् एतद् अभवत्: न हैव महाश्रमण उरुबिल्वाकाश्यपस्य जटिलस्यान्तिके ब्रह्मचर्यं चरति; अपि तु उरुबिल्वाकाश्यप एव जटिलो महाश्रमणस्यान्तिके ब्रह्मचर्यं चरतीति
the sermon of the buddha on the production and passing away by dependence
तत्र भगवान् राजानं मागधं श्रेण्यं बिम्बिसारम् आमन्त्रयते: रूपं महाराज उत्पद्यते ऽपि; व्ययते ऽपि; तस्योत्पादो ऽपि वेदितव्यः, व्ययो ऽपि; वेदना संज्ञा संस्कारा विज्ञानं महाराज उत्पद्यते ऽपि; व्ययते ऽपि; तस्योत्पादो ऽपि वेदित्व्यः, व्ययो ऽपि; रूपस्य महाराज कुलपुत्र उत्पादव्ययधर्मतां विदित्वा तद् रूपं परिजानाति; वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्य महाराज कुलपुत्र उत्पादव्ययधर्मतां विदित्वा तद् विज्ञानं परिजानाति; रूपं महाराज (अ 407अ) कुलपुत्र परिजानन् नोपैति, नोपादत्ते, नाधितिष्ठति, नाभिनिविशति आत्मा मे इति; वेदनां संज्ञां संस्कारान् विज्ञानं महाराज कुलपुत्र परिजानन् नोपैति, नोपादत्ते, नाधितिष्ठति, नाभिनिविशति आत्मा मे इति; रूपं महाराज कुलपुत्र अनुपायन्तम् अनुपाददानम् अनधितिष्ठन्तम् अनभिनिविशन्तम् अनात्मममायमानम् अप्रमेयम् असङ्ख्येयं निर्वृतम् इति वदामि; वेदना संज्ञा संस्कारान् विज्ञानं महाराज कुलपुत्र अनुपायन्तम् अनुपाददानम् अनधितिष्ठन्तम् अनभिनिविशमानम् अनात्मममायमानम् अप्रमेयम् असङ्ख्येयं निर्वृतम् इति वदामि; अथ मागधकानां ब्राह्मणगृहपतीनाम् एतद् अभवत्: सति खलु रूपम् अनात्मा, वेदना संज्ञा संस्कारा विज्ञानम् अनात्मा; अथ को न्व् असौ भविष्यत्य् आत्मा वा सत्वो जीवो वा जन्तुर् वा पोषो वा पुद्गलो वा मनुजो वा मानवो वा कर्ता वा कारको वा जनको वा संजनको वा उत्थापको वा समुत्थापको (sbv i 158) वा वदको वा वेदको वा <प्रतिसंवेदको वा>, यो न जन्तुर् नाभून्, न भविष्यति; नाप्य् एतर्हि विद्यते; यस् तत्र कृताकृतानां कल्याणपापकानां कर्मणां विपाकं प्रतिसंवेदयते; य इमांश् च स्कन्धान् निक्षिपत्य् अन्यांश् च स्कन्धान् प्रतिसंदधाति
the sermon of the buddha on the unreality of the self
अथ भगवान् मागधकानां ब्राह्मणगृहपतीनां चेतसा चित्तम् आज्ञाय भिक्षून् आमन्त्रयते स्म; आत्मा आत्मेति भिक्षवो बालो ऽश्रुतवान् पृथग्जनः प्रज्ञप्तिम् अनुपतितो न चात्रास्त्य् आत्मा नात्मीयं वा; दुःखम् इदं भिक्षवः उत्पद्यमानम् उत्पद्यते; दुःखम् इदम् निरुद्ध्यमानं निरुद्ध्यते; संस्कारा उत्पद्यमाना उत्पद्यन्ते; निरुद्ध्यमाना निरुद्ध्यन्ते; तान् हेतूंस् तान् प्रत्ययान् प्रतीत्य सत्वानां संस्कारसन्ततिः प्रवर्तते; संस्कारसन्ततिप्रतिसन्धिं खलु भिक्षवस् तथागतो विदित्वा सत्वानां च्युत्युपपादं प्रज्ञापयति; पश्याम्य् अहं भिक्षवो दिव्येन चक्षुषा विशुद्धेनातिक्रान्तमानुषेण सत्वान्; पश्यामि च्यवमानान् अप्य् उपपद्यमानान् अपि सुवर्णान् अपि, दुर्वर्णान् अपि, हीनान् अपि, प्रणीतान् अपि, सुगतिम् अपि गच्छतो, दुर्गतिम् अपि गच्छतः; यथाकर्मोपगान् सत्वान् यथाभूतान् प्रजानामि; अमी भवन्तः सत्वाः कायदुश्चरितेन समन्वागता वाङ्मनोदुश्चरितेन समन्वागता आर्याणाम् अपवादकाः, मिथ्यादृष्टयः मिथ्यादृष्टिकर्मधर्मसमादानहेतोस् तद्धेतुतत्प्रत्ययं कायस्य भेदात् परं मरणाद् अपायदुर्गतिविनिपातं नरकेषूपपद्यन्ते; अमी वा पुनर् भवन्तः सत्वाः कायसुचरितेन (अ 407ब्) समन्वागता वाङ्मनस्सुचरितेन समन्वागता आर्याणाम् अनपवादकाः सम्यग्दृष्टयः सम्यग्दृष्टिकर्मधर्मसमादानहेतोस् तद्धेतुतत्प्रत्ययं कायस्य भेदात् सुगतौ स्वर्गलोके देवेषूपपद्यन्ते; एवं चाहं भिक्षवो जानाम्य् एवं पश्यामि; न चाहम् एवं वदाम्य् अयं मे आत्मा वा सत्वो वा जीवो वा जन्तुर् वा पोषो वा पुद्गलो वा मनुजो वा मानवो वा कर्ता वा कारको वा जनको वा संजनको वा उत्थापको वा समुत्थापको वा वदको वा वेदको वा
प्रतिसंवेदको वा, यो न जन्तुर् नाभून् न भविष्यति, नाप्य् एतर्हि विद्यते; यस् तत्र कृताकृतानां कल्याणापापकानां कर्मणां विपाकं प्रतिसंवेदयते; इमांश् च स्कन्धान् निक्षिपत्य् अन्यांश् च स्कन्धान् प्रतिसन्दधाति, नान्यत्र धर्मसङ्केतात्; तत्रायं धर्मसङ्केतो यदुतास्मिन् सतीदं भवति; (sbv i 159) अस्योत्पादाद् इदम् उत्पद्यते; यदुताविद्याप्रत्ययाः संस्काराः; संस्कारप्रत्ययं विज्ञानम्; विज्ञानप्रत्ययं नामरूपम्; नामरूपप्रत्ययं षडायतनम्; षडायतनप्रत्ययः स्पर्शः; स्पर्शप्रत्यया वेदना; वेदनाप्रत्यया तृष्णा; तृष्णाप्रत्ययम् उपादानम्; उपादानप्रत्ययो भवः; भवप्रत्यया जातिः; जातिप्रत्यया जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासाः संभवन्ति; एवम् अस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो भवति; यदुतास्मिन् सतीदं भवति; अस्य निरोधाद् इदं निरुद्ध्यते; यदुताविद्यानिरोधात् संस्कारनिरोधः; संस्कारनिरोधाद् विज्ञाननिरोधः; विज्ञाननिरोधान् नामरूपनिरोधः; नामरूपनिरोधात् षडायतननिरोधः; षडायतननिरोधात् स्पर्शनिरोधः; स्पर्शनिरोधाद् वेदनानिरोधः; वेदनारिरोधात् तृष्णानिरोधः; तृष्णानिरोधाद् उपादाननिरोधः; उपादाननिरोधाद् भवनिरोधः; भवनिरोधाज् जातिनिरोधः; जातिनिरोधाज् जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासा निरुद्ध्यन्ते; एवम् अस्य केवलस्य महतो दुःखस्कन्धस्य निरोधो भवति; इति हि भिक्षवो दुःखाः संस्काराः; शान्तं निर्वाणाम्; हेतुसमुदयाद् दुःखसमुदयः; हेतुनिरोधाद् दुःखनिरोधः; छिन्नं वर्त्म न प्रवर्तते; अप्रतिसन्धि निरुद्ध्यते; एष एवान्तो दुःखस्य; तत्र भिक्षवः कः परिनिर्वृतो नान्यत्र दुःखं, तन्
निरुद्धं; तद् व्युपशान्तं, (अ 408अ) तच् छीतीभूतम्; शान्तम् इदं भिक्षवः पदं यदुत सर्वोपधिप्रतिनिःसर्गः, तृष्णाक्षयो विरागो निरोधो निर्वाणम्
the conversion of bimbisāra
तत्र भगवान् द्विर् अपि राजानं मागधं श्रेण्यं बिम्बिसारम् आमन्त्रयते: किं मयसे महाराज रूपं नित्यं वा अनित्यं वा? अनित्यम् इदं भदन्त; यत् पुनर् अनित्यं दुःखं वा तन् न वा दुःखम्? दुःखम् इदं भदन्त; यत् पुनर् अनित्यं दुःखं विपरिणामधर्मि; अपि नु तच् छ्रुतवान् आर्यश्रावक आत्मत उपगच्छेद् एतन् मम, एषो ऽहम् अस्मि, एष मे आत्मेति? नो भदन्त; किं महाराज वेदना संज्ञा संस्कारा विज्ञानं नित्यं वा अनित्यं वा? अनित्यम् इदं भदन्त; यत् पुनर् अनित्यं दुःखं वा तन् न वा दुःखम्; दुःखम् इदं भदन्त; यत् पुनर् अनित्यं दुःखं विपरिणामधर्मि; अपि नु तच्छ्रुतवान् आर्यश्रावक आत्मत उपगच्छेद् एतन् (sbv i 160) मम, एषो ऽहम् अस्मि, एष मे आत्मेति? नो भदन्त; तस्मात् तर्हि ते महाराज यत् किंचिद् रूपम् अतीतानागतप्रत्युत्पन्नम् आध्यात्मिकं वा बाह्यं वा ओदारिकं वा सूक्ष्मं वा हीनं वा प्रणीतं वा, यद् वा दूरे, यद् वा अन्तिके, तत् सर्वं नैतन् मम नैषो ऽहम् अस्मि, नैष मे आत्मेत्य् एवम् एतद् यथाभूतं सम्यक्प्रज्ञया द्रष्टव्यम्; तस्मात् तर्हि महाराज या काचिद् वेदना संज्ञा संस्कारा यत् किंचिद् विज्ञानम् अतीतानागतप्रत्युत्पन्नम् आध्यात्मिकं वा, बाह्यं वा, ओदारिकं वा, सूक्ष्मं वा, हीनं वा, प्रणीतं वा, यद् वा दूरे, यद् वा अन्तिके, तत् सर्वं नैतन् मम, नैषो ऽहम् अस्मि, नैष मे आत्मेत्य् एवम् एतद् यथाभूतं सम्यक्प्रज्ञया द्रष्टव्यम्; एवंदर्शी महाराज श्रुतवान् आर्यश्रावकः रूपाद् अपि निर्विद्यते; वेदनायाः संज्ञाया संस्कारेभ्यो विज्ञानाद् अपि निर्विद्यते; निर्विण्णो विरज्यते; विरक्तो विमुच्यते; विमुक्तस्य विमुक्तम् एव ज्ञानदर्शनं भवति; क्षीणा मे जातिर्, उषितं
ब्रह्मचर्यम्; कृतं करणीयं, नापरम् अस्माद् भवं प्रजानामीति अस्मिन् खलु धर्मपर्याये भाष्यमाणे राज्ञो मागधस्य श्रेण्यस्य बिम्बिसारस्य विरजो विगतमलं धर्मेषु धर्मचक्षुर् उत्पन्नम्; अशितेश् च देवतासहस्राणाम्, अनेकेषां च ब्राह्मणगृहपतिशतसहस्राणाम्; अथ राजा मागधः श्रेण्यो बिम्बिसारो दृष्टधर्मा प्राप्तधर्मा विदितधर्मा पर्यवगाढधर्मा तीर्णकाङ्क्षस् तीर्णविचिकित्सो ऽपरप्रत्ययो ऽनन्यनेयः शास्तुश् शासने धर्मेषु वैशारद्यप्राप्त उत्थायासनाद् एकांसम् उत्तरासङ्गं कृत्वा येन भगवांस् तेनाञ्जलिं प्रणमय्य भगवन्तम् इदम् अवोचत्: अभिक्रान्तो ऽहं भदन्ताभिक्रान्तः; एषो ऽहं भगवन्तं शरणं गच्छामि, धर्मं च, भिक्षुसङ्घं च; उपासकं च मां धारयाद्याग्रेण यावज्जीवं प्राणोपेतं शरणागतम्, अभिप्रसन्नम्; आगच्छतु भगवान् राजगृहम्; अहं (अ 408ब्) भगवन्तम् उपस्थास्यमि यावज्जीवं चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः सार्धं भिक्षुसङ्घेनेति; अधिवासयति भगवान् राज्ञो मागधस्य श्रेण्यस्य बिम्बिसारस्य तूष्णींभावेन; अथ राजा मागधः श्रेण्यो बिम्बिसारो भगवतस् तूष्णींभावेन अधिवासनां विदित्वा, भगवतः पादौ शिरसा वन्दित्वा, भगवतो ऽन्तिकात् प्रक्रान्तः भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: किं भदन्त राज्ञा मागधेन श्रेण्येन बिम्बिसारेण सपरिवारेण कर्म कृतं, यस्य कर्मणो विपाकेन भगवतो ऽन्तिके सत्यदर्शनं कृतम् इति; भगवान् आह: बिम्बिसारेणैव (sbv i 161) भिक्षवो राज्ञा सपरिवारेण कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययान्य् ओघवत्
प्रत्युपस्थितान्य् अवश्यंभावीनि; राज्ञा बिम्बिसारेण सपरिवारेण कर्माणि कृतान्य् उपचितानि को ऽन्यः प्रत्यनुभविष्यति; न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च न प्रणश्यन्ति कर्माण्य् अपि कल्पशतैर् अपि /
सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम् //
the story of the king kṛki
भूतपूर्वं भिक्षव अतीते ऽध्वनि अरनाभी नाम शास्ता लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदमयसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्; स सकलं बुद्धकार्यं कृत्वा निरुपधिशेषे निर्वाणधातौ परिनिर्वृतः; तस्य महाजनकायेन शरीरे शरीरपूजां कृत्वा विविक्तावकाशे पृथिवीप्रदेशे महान् स्तूपः प्रतिष्ठापितः; तेन खलु समयेन कृकिर् नाम राजा चक्रवर्ती अष्टादशभिर् भटबलाग्रकोटिभिर् उपरि विहायसा अनुसंयान् तस्य स्तूपस्य समीपम् अनुप्राप्तः; बुद्धाभिप्रसन्नाभिर् देवताभिस् तस्य चक्ररत्नं विधारितम्; कृकी राजा संलक्षयति: यथैतच् चक्ररत्नम् अवस्थितं, माहैव मे पुण्यपरिक्षयः स्याद् इति; तस्य देवताभिर् आरोचितम्: महाराज न ते पुण्यपरिक्षयः; किन्त्व् अरनाभेः सम्यक्संबुद्धस्य एतस्मिन् प्रदेशे स्तूपम्; तेनेदं चक्ररत्नम् अवस्थितम्; न तस्योपरिष्टाद् गच्छतीति; ततः कृकी राजा अष्टादशभिर् भटबलाग्रकोटिभिः सहावतीर्णो यावत् पश्यति स्तूपम् असंमृष्टम्; तेन सपरिवारेण संमृज्य गन्धैर् माल्यैर् धूपैश् चूर्णैर् वाद्यैः पूजां कृत्वा पादयोर् निपत्य सपरिवारेण प्रणिधानं कृतम्: यन् मया एवंविधे सद्भूतदक्षिनीये काराः कृताः, अनेनाहं कुशलमूलेन एवंविधानाम् गुणानां लाभी स्याम्; एवंविधम् एव शास्तारम् आरागयेयम्, मा विरागयेयम् इति; किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन, तेन (अ 409अ) समयेन कृकिर् नाम राजाभूच् चक्रवर्ती सपरिवार एष एवासौ राजा बिम्बिसारः तेन कालेन तेन समयेन; यद् अनेन अरनाभेस् सम्यक्संबुद्धस्य (sbv i 162) स्तूपे सपरिवारेण पूजा कृता, तस्य कर्मणो विपाकेन अनेकानि
कल्पकोटीनियुतशतसहस्राणि दिव्यमानुषं च प्रतिविशिष्टं सुखम् अनुभूतम्; यत् प्रणिधानं कृतम् एवंविधानां गुणानां लाभी स्याम् इति; तेन ममान्तिके सपरिवारेण सत्यदर्शनं कृतम्; यत् प्रणिधानं कृतम् एवंविधम् एव शास्तारम् आरागयेयम्, मा विरागयेयम् इति; अहम् अस्मि भिक्षवो अरनाभिना सम्यक्संबुद्धेन समसमं समजवः, समबलः, समधुरः, समसामान्यप्राप्तः, शास्ता आरागितो न विरागितः; इति हि भिक्षव एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः, एकान्तशुक्लानाम् एकान्तशुक्लो, व्यतिमिश्राणां च व्यतिमिश्रः; तस्मात् तर्हि भिक्षव एकान्तकृष्णानि कर्माण्य् अपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्व् एव कर्मस्व् आभोगः करणीयः; इत्य् एवं वो भिक्षवः शिक्षितव्यं भिक्षवः संशयजाताः सर्वसंशायच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: किं भदन्त आयुष्मता उरुबिल्वाकाश्यपेन कर्म कृतं, येन पञ्चभिः प्रातिहार्यशतैर् विनीतः; नदीगयाकाश्यपौ तु अल्पकृच्छ्रेण विनीताव् इति; भगवान् आह: एभिर् एव भिक्षवः कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि पूर्ववद् यावत् फलन्ति खलु देहिनां
the story of the three sons of a gṛhapati
भूतपूर्वं भिक्षवः अस्मिन्न् एव भद्रके कल्पे विंशतिवर्षसहस्रायुषि प्रयाजां काश्यपो नाम शास्ता लोक उदपादि तथागतो ऽर्हन् सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्; स वाराणसीनगरीम् उपनिश्रित्य विहरति ऋषिवदने मृगदावे; स सकलं बुद्धकार्यं कृत्वा इन्धनक्षयाद् इवाग्निर् निरुपधिशेषे निर्वाणधातौ परिनिर्वृतः; तस्य कृकिना राज्ञा सर्वगन्धकाष्ठैश् चितां चित्वा शरीरं ध्यापितम्; सा चिता क्षीरेण निर्वापिता; तान्य् अस्थीनि चतूरत्नमये कुम्भे प्रक्षिप्य विविक्तावकाशे पृथिवीप्रदेशे शारीरः स्तूपः प्रतिष्ठापितः, योजनम् उच्छ्रायेण अर्धयोजनं विस्तारेण; तेन खलु समयेन वाराणस्याम् अन्यतमो गृहपतिर् आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी; तेन सदृशात् कुलात् कलत्रम् आनीतम्; स (sbv i 163) तया सार्धाम् क्रीडति रमते परिचारयति; तस्य क्रीडतो रममाणस्य परिचारयतः क्रमशः त्रयः पुत्रा जाताः; यावद् असौ गृहपतिर् ग्लान्यं पतितः; स उपस्थीयते मूलगन्धपत्रपुष्पफलभैषज्यैः; न चासौ व्याधिर् उपशमं गच्छति; स कालधर्मणा संयुक्तः; ततस् तैः पुत्रैर् नीलपीतलोहितावदातैर् वस्त्रैः (अ 409ब्) शिबिकाम् अलङ्कृत्य श्मशानं नीत्वा ध्यापितः; शोकविनोदनं कृत्वा पितुश् च पितृकार्याणि द्रव्यविभागसञ्जल्पं कर्तुम् आरब्धाः; ज्येष्ठो भ्राता कथयति: द्रव्यं विभजाम इति; तौ कनीयांसौ भ्रातरौ नेच्छतः; स निर्बन्धं कर्तुम् आरब्धः; तौ कथयतः: यद्य् एवं पारलौकिकं पथ्यदनं गृह्णीमः; पश्चाद् विभागं
करिष्याम इति; स कथयति: किं कुर्मः? तौ कथयतः: काश्यपस्य सम्यक्संबुद्धस्य पूजाम् इति; स दुःश्रद्दधानः; तेन कृच्छ्रेण प्रतिज्ञातम्; ततस् ते काश्यपस्य सम्यक्संबुद्धय्स पूजां कृत्वा प्रणिधानं कर्तुम् आरब्धाः; द्वाभ्याम् एवं प्रणिधानं कृतम्: अनेन कुशलमूलेन यो ऽसौ भगवता काश्यपेन सम्यक्संबुद्धेन उत्तरो नाम माणवो व्याकृतः भविष्यसि त्वं माणव वर्षशतायुषि प्रजायां शाक्यमुनिर् नाम तथागतो ऽर्हन् सम्यक्संबुद्ध इति, तस्यावां शासने प्रव्रजेव विशेसं चाधिगच्छाव इति; तयोः प्रणिधानं श्रुत्वा स ज्येष्ठो भ्राता पादयोर् निपत्य प्रणिधानं कर्तुम् आरब्धः; अहं खतुंको दुःश्रद्दधानश् च; अनेन कुश्लमूलेन ममाप्य् असौ शाक्यमुनिः पञ्चभिः प्रातिहार्यशतैः विनीयात्, प्रव्राजयेत्; प्ररजितश् च विशेषम् अधिगच्छेयम् इति; किं मन्यध्वे भिक्षवः यो ऽसौ ज्येष्ठो भ्राता खटुंकः दुःश्रद्दधानः एष एवासौ उरुबिल्वाकाश्यपः; यौ तौ कनीयांसौ भ्रातरौ एताव् एतौ नदीगयाकाश्यपौ; तत्प्रणिधानवशाद् उरुबिल्वाकाश्यपः पञ्चभिः प्रातिहार्यशतैर् विनीतः नदीगयाकाश्यपौ तु अल्पकृच्छ्रेण विनीतौ
the story of kalandakanivāpa
यदा राजा बिम्बिसारः कुमारो भवति, तदा राजगृहे ऽन्यतमो गृहपतिः; तस्यारामः पुष्पफलसलिलसंपन्नः; स तत्रात्यर्थम् (sbv i 164) अध्यवसितः; यावद् बिम्बिसारेण बहिर्निर्गतेन तद् उद्यानं दृष्टम्; सो ऽत्यर्थम् अध्यवसितः कथयति: गृहपते प्रयच्छ ममैतद् उद्यानम् इति; स नानुप्रयच्छति; पुनर् अप्य् उपप्रदानेनाभिहितः; स कथयति: कुमार, कामम् अहं देशपरित्यागं कुर्यां, न चोद्यानं दद्याम् इति; बिम्बिसारः कुमारः कथयति: गृहपते स्मर्तव्यं ते वाक्यम्; यदा अहं राजा भविष्यामि, तदा स्वयम् एव ग्रहीष्यामीति; स कथयति: यदा त्वं राजा भविष्यसि, तदा अहं राजगृहात् प्रक्रमिष्यामीति; बिम्बिसारः कुमारो हुम् इति कृत्वा प्रक्रान्तः; यावद् अपरेण समयेन महापद्मो राजा कालगतः; बिम्बिसारः कुमारो राज्ये प्रतिष्ठापितः तेन तद् उद्यानं हठात् गृहीतम्; स गृहपतिर् हृद्रोगं पतितः, तस्मिन्न् उद्याने अत्यर्थम् अध्यवसितः, कालगतः; स तत्रैव आशीविष उत्पन्नः; स राज्ञो ऽभीक्ष्णं रन्ध्रान्वेषणतत्परो ऽवतिष्ठते; यावद् राजा बिम्बिसारः संप्राप्ते वसन्तकालसमये पुष्पितेषु पादपेष्व् अन्तःपुरसहीयस् तद् उद्यानं निर्गतः; स तत्र निष्पुरुषेण अन्तःपुरजनेन सार्धं रतिक्रीडां प्रत्यनुभूय मिद्धम् अवक्रान्तः; पुष्पफललोलुपो मातृग्रामः समन्तात् पर्यटितुम् आरब्धः; एका स्त्री खड्गं राज्ञ आरक्षिका स्थापिता ..................................................... (अ 410अ) राज्ञः पुण्यानुभावात् कलन्दका नाम पक्षिणः; तैस् तम् आशीविषं परिवार्य कलकलाशब्दः कृतः; यं श्रुत्वा असिधारिण्या स्त्रिया खद्गेन जीविताद् व्यपरोपितः; सन्त्रस्तया च महान् शब्दः कृतः; ततो
राजा सन्त्रस्तो विबुद्धः कथयति, किम् एतद् इति; तया स्त्रियाभिहितम्: देव एष आशीविषः देवं दष्टुम् अबिसंप्रस्थितः कलन्दकैः पक्षिभिः कोलाहलशब्दः कृतः मया जीविताद् व्यपरोपित इति; राज्ञस् ताम् अवस्थां प्रतिश्रुत्य कुमारभटबलाग्रः राजगृहनिवासी जनकायः सन्निपतितः; अन्तर् बहिस् तद् उद्यानं महता कोलहलशब्देन क्षोभितुम् आरब्धम्; प्रजावत्सलो (sbv i 165) राजा; भूयसा अन्तःपुरजनकायो ऽश्रुपर्याकुलेक्षणो व्यवस्थितः; ततो राजा कथयति: भवन्तो यो राजानं क्षत्रियं मूर्धाभिषिक्तं जीवितेनाच्छादयति, कस् तस्य वर इति; जनकायः कथयति: उपार्धं राज्यस्येति; राजा कथयति: भवन्तः कलन्दकैः पक्षिभिर् मम जीवितं दत्तम्; तद् एभ्यो दत्तम् उपार्धं राज्यस्य इति; अमात्याः कथयन्ति: देव पक्षिण एते तिर्यग्योनिगताः; किम् एषाम् उपार्धराज्येन; यस्मिन्न् एते वेणुवने प्रतिवसन्ति तत्रैषां निवापः प्रज्ञप्यताम् इति; राजा कथयति: एवं क्रियताम् इति; तद् उद्यानं वेणुवनपरिवेष्टितम्; अमात्यैस् तेषां वेणुवनसामन्तके निवापः प्रज्ञप्तः; तस्य वेणुवनं कलन्दकनिवाप इति संज्ञा संवृत्ता; राज्ञो बिम्बिसारस्य मातुल आजीविकानां मध्ये प्रव्रजितः; तेन तद् उद्यानं तस्मै निवासाय दत्तं
बिम्बिसार प्रेसेन्त्स् वेणुवन तो थे बुद्ध
यावद् भगवान् मगधेषु जनपदेषु चारिकां चरन् राजगृहम् अनुप्राप्तो ऽन्यतमस्मिन् वृक्षमूले ऽवस्थितः; अश्रौशीद् राजा मागधः श्रेण्यो बिम्बिसारः, भगवान् मागधेसु जनपदेषु चारिकां चरन् राजगृहम् अनुप्राप्तो ऽन्यतमस्मिन् वृक्षमूले ऽवतिष्ठतीति; श्रुत्वा च पुनर् महत्या राजऋद्ध्या, महता राजानुभावेन, राजगृहान् निष्क्रम्य येन भगवांस् तेनोपसङ्क्रान्तः; उपसङ्क्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णः; एकान्तनिषण्णं राजानं मागधं श्रेण्यं बिम्बिसारं भगवान् रम्यया कथया सन्दर्शयति, समादापयति, समुत्तेजयति, संप्रहर्षयति; अनेकपर्यायेण धर्म्यया कथया सन्दर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्य तूष्णीम्; अथ राजा मागधः श्रेण्यो बिम्बिसार <उत्थायासनाद् एकांशम् उत्तरासन्गं कृत्वा येन भगवांस् तेनाञ्जलिं प्रणमय्य भगवन्तम् इदम् अवोचत्: अधिवासयतु मे भगवांश् श्वो ऽन्तर्गृहे भक्तेन सार्धं भिक्षुसङ्घेन: अधिवासयति भगवान् राज्ञो मागधस्य श्रेण्यस्य बिम्बिसारस्य तूष्णिम्भावेन;> अथ राजा मागधः श्रेण्यो बिम्बिसारो भगवतस् तूष्णींभावेनाधिवासनां विदित्वा, भगवतः पादौ शिरसा वन्दित्वा उत्थायासनात् प्रक्रान्तः; राजा मागधः श्रेण्यो बिम्बिसारस् ताम् एव रात्रिं शुचि प्रणीतं खादनीयभोजनीयं समुदानीय कल्यम् एवोत्थायासनानि प्रज्ञप्य उदकमणीन् प्रतिष्ठाप्य भगवतो दूतेन कालम् आरोचयति: समयो (sbv i 166) भदन्त; सज्जं भक्तम् यस्येदानीं कालं मन्यते इति; अथ (अ 410ब्) भगवान् पूर्वाह्णे निवास्य, पात्रचीवरम् आदाय भिक्षुगणपरिवृतो भिक्षुसङ्घपुरस्कृतो येन राज्ञो मागधस्य श्रेण्यस्य बिम्बिसारस्य निवासस्
तेनोपसङ्क्रान्तः; उपसंक्रम्य पुरस्ताद् भिक्षुसङ्घस्य प्रज्ञप्त एवासने निषण्णः; अथ राजा मागधः श्रेण्यो बिम्बिसारः सुखोपनिषण्णं बुद्धप्रमुखं भिक्षुसङ्घं विदित्वा शुचिना प्रणीतेन खादनीयभोजनीयेन स्वहस्तं सन्तर्पयति, संप्रवारयति; अनेकपर्यायेण शुचिना प्रणीतेन खादनीयभोजनीयेन स्वहस्तं सन्तर्प्य संप्रवार्य, भगवन्तं भुक्तवन्तं विदित्वा धौतहस्तम् अपनीतपात्रं सौवर्णं भृङ्गारं गृहीत्वा तद् उद्यानं भगवते निर्यातयति: इदं भदन्त वेणुवनं, कलन्दकनिवापम्; अत्र भगवान् विहरतु यथासुखम् इति; तथा स्थविरैर् अपि सूत्रान्तेषूपनिबद्धं, भगवान् राजगृहे विहरति वेणुवने कलन्दकनिवाप इति
अनाथपिण्डद मेएत्स् थे बुद्ध
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
