Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 3/14

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luật tạng

सङ्घभेदवस्तु

Thông tin
GRETIL — R. Gnoli with the assistance of T. Venkatacharya: The Gilgit Manuscript of the Saṅghabhedavastu, Being the 17th and Last Section of the Vinaya of the Mūlasarvāstivādin, Roma 1977-78 (Serie Orientale Roma, 49).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

ततः कन्थको ऽश्वराजो बोधिसत्वस्य पादौ जिह्वया निर्लीढे; बोधिसत्वेन चक्रस्वस्तिकनन्द्यावर्तेन पाणिना परामृश्याभिहितः: गच्छ कन्थक सो ऽहम् अभिसंबुद्धबोधिर् भवत्कृतज्ञो भवीष्यामि इति; छन्दको ऽप्य् उक्तः: न त्वया कन्थको ऽन्तःपुरं प्रवेशयितव्य इति; एवम् उक्तश् छन्दको बाष्पगद्गदकन्ठो ऽश्रुपर्याकुलेक्षणः कन्थकम् अश्वराजम् आदाय पुनर् बोधिसत्वम् ईक्षमाणः संप्रस्थितः; तौ यां भूमिं यामद्वयेन गतौ तां सप्तरात्रेण प्रतिनिवृत्तौ; छन्दकः संलक्षयति: युगपत् <यदि> प्रवेक्ष्यामो महता विप्रलापेन नात्मानं सन्धारयिष्यामि; तेनोद्याने स्थित्वा कन्थकः प्रेषितः; तेन हेषितम्; तच्छब्दप्रतिसंवेदी अन्तःपुरजनो ऽन्यश् च जनकायः ससंभ्रमो निर्गतो, न पश्यति बोधिसत्वम्; कन्थकं कण्ठे परिष्वज्य रोदितुम् आरब्धाः; धर्मता ह्य् एषा अन्ये प्राकृतास् तिर्यग्योनिगताः प्राणिनः संवृतिज्ञानलाभिनः; प्राग् एव कन्थको ऽश्वराजः; स महाजनकायविक्लवं श्रुत्वा अन्तर्गतेनैव बाष्पेणोपरुद्ध्यमानः कालगतः; तेन विश्रुते अन्यतमस्मिन् षट्कर्मनिरते ब्राह्मणकुले (sbv i 92) प्रतिसन्धिर् गृहीतः; यदा बोधिसत्वो ऽनुत्तरां संयक्संबोधिम् अभिसंभोत्स्यते तदा तं खटुंकाश्ववादेन अवबोध्य संसारकान्ताराद् उत्तार्यात्यन्तनिष्ठे योगक्षेमे निर्वाणे प्रतिस्थापयिष्यति

the taking of the yellow robes

बोधिसत्वस्य काषायैः प्रयोजनम् उत्पन्नम्; अनुपमे नगरे ऽन्यतमो गृहपतिर् आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी; तेन सदृशात् कुलात् कलत्रम् आनीतम्; स तया सार्धं क्रीडति रमते परिचारयति; तस्य क्रीडतो रममाणस्य परिचारयतः (अ 377अ) पुत्रो जातः; एवं यावद् दशपुत्रा जाताह्; सर्वैश् च प्रव्रज्य प्रत्येका बोधिः साक्षात्कृता; तेषां माता वृद्धा; सा तेभ्यः शाणकानि चीवराण्य् अनुप्रयच्छति; तैर् अभिहिता: अंब वयं परिनिर्वास्यामः; नास्माकम् एतैः प्रयोजनम्; किन् तु राज्ञः शुद्धोदनस्य शाक्यमुनिर् नाम पुत्रः कुमारो ऽनुत्तरां सम्यक्संबोधिम् अभिसंभोत्स्यते; तस्यैतानि दास्यसि; ततस् ते महती फलावाप्तिर् भविष्यति; इत्युक्त्वा ज्वलनतपनवर्षणविद्योतनप्रातिहार्याणि कृत्वा निरुपधिशेषे निर्वाणधातौ परिनिर्वृताः; तयापि वृद्धया तानि चीवराणि मरणकाले दुहितुर् दत्तानि; यथावृत्तं चारोचितम्; साप्य् अस्या दुहिता ग्लाना संवृत्ता; तयापि मरणावस्थां परिच्छिद्य वृक्षे स्थापितानि; या देवता तस्मिन् वृक्षे ऽध्युषिता सा आयाचिता त्वयैतानि राज्ञः शुद्धोदनपुत्रस्य दातव्यानीति; शक्रस्य देवेन्द्रस्याधस्ताज् ज्ञानदर्शनं प्रवर्तते; तेन तानि गृहीत्वा नीतानि; ततो जराजीर्णलुब्धवर्णम् आत्मानम् अभिनिर्माय तानि प्रावृत्य धनुर्बाणव्यग्रपाणिः बोधिसत्वस्य प्रतिमार्गे ऽवस्थितः; बोधिसत्वश् चानुपूर्वेण तं मार्गं प्रतिपन्नः पश्यति लुब्धं धनुर्बाणव्यग्रपाणिं काषायवस्त्रप्रावृतम्; दृष्ट्वा च पुनस् तं पुरुषम् आमन्त्रयते: भोः पुरुष एतानि साणकानि वस्त्राणि प्रव्रजितानुरूपाणि; इमानि काशिकसूक्ष्माणि गृहाण; ममैतण्य्

अनुप्रयच्छ इति; स कथयति: कुमार नाहम् एतान्य् अनुप्रयच्छामि; मा मे स्युर् अतोनिदानं परे वक्तारः, त्वया राजकुमारं जीविताद् व्यपरोप्य एतानि काशिकसूक्ष्माणि वस्त्राणि गृहीतानि <इति>; बोधिसत्वः कथयति: भोः पुरुष सर्वलोको (sbv i 93) मां जानीते याडृशो ऽहं शक्तिसंपन्नः; कः शक्नोति मां जीविताद् व्यपरोपयितुम्; को वा श्रद्धत्ते त्वयाहं जीविताद् व्यपरोपित इति; निर्विशङ्कः प्रयच्छ इति; ततः शक्रो देवेन्द्रो बोधिसत्वस्य पादयोर् निपत्य शाणकान्य् अनुप्रयच्छति; काशिकानि गृह्णाति; बोधिसत्वस्य तानि शाणकानि वस्त्राणि न कायप्रमाणिकाणि; तस्यैतद् अभवत्: अहो बत मे शाणकानि चीवराणि कायप्रमाणिकानि स्युर् इति; वाक्प्रव्याहारसमनन्तरम् एव बोधिसत्वस्य तानि शाणकानि चीवराणि कायप्रमाणिकानि संवृत्तानि; यथापितद् बोधिसत्वस्य बोधिसत्वानुभावेन देवतानां च देवतानुभावेन; बोधिसत्वः संलक्षयति: इदानीम् अहं प्रव्रजितः, करिष्यामि जगतो ऽनुग्रहम् इति; ततस् तानि बोधिसत्वकाशिकवस्त्राणि <प्रतिगृह्य> शक्रेण देवेषु त्रयस्त्रिंशेषु काशिकमहः प्रज्ञप्तः; श्राद्धैर् ब्राह्मणगृहपतिभिर् तस्मिन् प्रदेशे काषायप्रतिग्रहणं नाम चैत्यं प्रतिष्ठापितम् अद्यापि चैत्यवन्दका भिक्षवो वन्दन्ते; ततो बोधिसत्वो मुण्डः काषायवस्त्रप्रावृतः इतश् चामुतास् च पर्यटन् भार्गवस्य रिषेर् आश्रमपदम् अनुप्राप्तः

थे सगे भार्गव

तस्मिंश् च समये भार्गवरिषिः करे कपोलं दत्वा चिन्तापरो (अ 377ब्) व्यवस्थितः; स बोधिसत्वेन तथाविधो दृष्टः; उक्तश् च: महर्षे किम् अर्थं करे कपोलं दत्वा चिन्तापरस् तिष्ठसि इति; स कथयति: ममास्मिन्न् आश्रमपदे तालाः सौवर्णैः पुष्पफलैर् आसन्; ते यथा पौराणाः संवृत्ताः इति; बोधिसत्वः कथयति: महर्षे यस्यानुभावाद् एतस्मिन्न् आश्रमपदे तालाः सौवर्णैः पुष्पफलैर् आसन् स जीर्णातुरमृतसन्दर्शनाद् उद्विग्नो वनं संशृतः; यद्य् असौ जीर्णातुरमृतसन्दर्शनाद् उद्विग्नस् तपोवनं <न> संशृतो ऽभविष्यत् तस्यैतद् उद्यानम् अभविष्यत्; इत्य् एवम् उक्तो भार्गवरिषिर् बोधिसत्वं निरीक्षितुम् आरब्धह्; ततो रूपशोभां शान्तं च वेषं दृष्ट्वा, चिरं निरीक्ष्य कुतूहलजातः कथयति: भोः प्रव्रजित मा हैव त्वम् एव सः; बोधिसत्वः कथयति: महर्षे व्यक्तम् एतत्; ततो भार्गवेन विस्मयोत्फुल्लदृष्टिना बोधिसत्वस् तत्प्रथमत आसनेनोपनिमन्त्रितः पुष्पफलैश् च; एवं प्रतिसंमोदितो मुहूर्तम् आस्थाय कथयति: महर्षे कियद् दूरम् इतः कपिलवस्तु नगरम् (sbv i 94) इति; स कथयति: द्वादशयोजनानीति; बोधिसत्वः संलक्षयति आसन्नम् कपिलवस्तुनगरम्, नात्रावस्थानं श्रेयः; शाक्याः पौराः संक्षोभं करिष्यन्ति; यन्व् अहं गङ्गाम् उत्तरेयम् इति

अर्रिवल् अत् राजगृह अन्द् बिम्बिसारऽस् मेएतिन्ग्

स गङ्गाम् उत्तीर्यानुपूर्वेण चारिकां चरन् राजगृहम् अनुप्राप्तः: कुशलो भवन् बोधिसत्वस् तेषु तेषु शिल्पस्थनाकर्मस्थानेषु करवीरपत्रपुटकं कृत्वा शान्तेनेर्यापथेन राजगृहं पिण्डाय प्रविष्टः; तस्मिंश् च समये राजा बिंबिसार उपरिप्रासादतलगतः; तेनासौ दृष्टः प्रासादिकेन अभिक्रमप्रतिक्रमेण आलोकितव्यवलोकितेन संमिञ्जितप्रसारितेन सङ्घाटीचीवरपात्रधारणेन पिण्डपातम् अटन्; दृष्ट्वा च पुनर् अस्यैतद् अभवत्: यावन्तः प्रव्रजितसमापन्ना राजगृहे प्रतिवसन्ति, नास्ति कस्यचिद् एवंरूप ईर्यापथस् तद्यथास्य प्रव्रजितस्य; आथ चात्र प्रव्रज्यां कीर्तयिष्यामि चक्षुष्मान् प्राव्रजद् यथा / यथा मीमांसमानो ऽसौ प्रव्रज्यां समरोचयत् / संबाधो ऽयं गृहावास आवासो रजसाम् अयम् / प्रव्रज्याभ्यवकाशश् च ज्ञात्वायं प्राव्रजत् तथा //

प्रव्रजित्वा ऽथ कायेन कर्म पापं प्रवर्जयन् / हित्वा च पापिकां वाचम् आजीवं पर्यशोधयत् //

ततो राजगृहं गत्वा मगधानां पुरोत्तमः / पिण्डाय व्याहरन् नाथः संप्रजानन् प्रतिस्मृतः //

प्रासादस्थस् तम् अद्राक्षीच् छ्रेणिको मगधाधिपः / प्रसन्नचित्तो दृष्ट्वाथ अमात्यान् इदम् अब्रवीत् //

इमं भवन्त ईक्षध्वम् आकीर्णं वरलक्षणैः / आरोहेण च संपन्नं युगमात्रं च पश्यति //

नोक्षिप्तचक्षुर् मेधावि (अ 378अ) नायम् ऊनकुलोदितः / राजदूतानुसंयान्तु वासं क्वोपगमिष्यति //

ततः संचोदिता दूता अन्वबध्नंश् च पृष्ठतः / (sbv i 95) भिक्षुर् गमिष्यति क्वायं कुत्र वासम् उपैष्यति //

स पिण्डपातं चरति षड्भिर् द्वारैः सुसंवृतः / क्षिप्रं पात्रं पूरयति संप्रजानन् प्रतिस्मृतः //

पिण्डपातं चरित्वाथ निष्क्रम्य नगरान् मुनिः / पाण्डवम् अभिसारयत्य् अत्र वासो भविष्यति //

ज्ञात्वा च वासोपगतम् एको दूत उपाविशत् / अपरे क्षिप्रम् आगम्य राज्ञ आरोचयंस् ततः //

एष भिक्षुर् महाराज पाण्डवस्योपरि स्थितः / आसीनो व्याघ्रशाबो वा सिंहो वा गिरिगह्वरे //

दूतानां वचनं श्रुत्वा रथम् आरुह्य पार्थिवः / प्रायासीत् क्षिप्रम् एवासाव् अमात्यैः परिवारितः //

आयानभूमिं निर्याय स यानाद् अवतीर्य च / पद्भ्यां समुपसङ्क्रम्य तथाद्राक्षीत् तथागतम् //

राजा निषद्य संमोद्य कृत्वा संरञ्जनीं कथाम् / अनुद्धतं सो ऽपरुषम् इदम् अर्थम् अभाषत //

प्रथमोत्पतिते भिक्षो यौवने समुपस्थिते / एवंतेजोगुणोपेते भैक्षचर्या न शोभते //

निवेशनानि रम्याणि नारीश् च समलङ्कृताः / ददामि ते वरान् भोगान् जातिं पृष्टो वदात्मनः//

सन्ति राजन् जनपदाः पार्श्वे हिमवतो गिरेः / आकीर्णा धनधान्येन कौसला इति विश्रुताः //

इक्ष्वाकवः सूर्यगोत्राः शाक्यास् तत्र निवासिनः / क्षत्रिय्ष् मे कुलं राजन् न कामान् प्रार्थयाम्य् अहम् //

प्रशास्य हीमां पृथिवीं सशैलां ससागरां सर्वसमृद्धरत्नाम् / न याति तृप्तिं पुरुषः कदाचित् काष्टैर् निदाघे ज्वलनो यथैव //

वैरप्रसङ्गांस् तु वदन्ति कामान् दुरुत्तरासारनिभान् नरेन्द्र / दुःखस्य शोकस्य भयस्य चापि मूलं परं प्राकृतबुद्धिसेव्यान् //

निष्क्रान्तमात्रेण मया तु राजन् कृता न कामेष्व् अभिलाषबुद्धिः / वान्तान् कथं तान् पुनर् आददेयम् (sbv i 96) भयङ्करान् धर्मसपत्नभूतान् //

अप्येव नानाशिखरप्रवृद्धः कम्पेत मेरुर् हिमवांश् च वातैः / न त्व् एव बुद्धिं मम कामवेगा मोक्षाश्रितां कंपयितुं समर्थाः //

लोको ह्य् अयं कामनिमग्नवाहः संसारचक्रे परिबंभ्रमीति / त्राताहम् अस्मीति नरेन्द्र नान्यः तं मोक्षयिष्यामि महाभयेभ्यः //

कामेष्व् आदीनवं ज्ञात्वा दृष्ट्वा निर्वाणशान्तताम् / प्रहाणाय गमिष्यामि यत्र मे रंस्यते मनः //

राज्ञा बिंबिसारेणाभिहितम्: भोः प्रव्रजित अनेन व्रतेन किं प्रार्थयसे? कथयति: अनुत्तरां सम्यक्संबोधिम्; राजा कथयति: भोः प्रव्रजित यदा त्वम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्ध्येथास् तदास्मान् अपि समन्वाहरेथा इति; बोधिसत्वः कथयति: एवं भवतु समन्वाहरिष्यामि; इत्युक्त्वा राजगृहान् निष्क्रान्तः

hermitage of the sages

गृध्रकूटस्य नातिदूरे ऋषीणाम् आश्रमपदम्; तत्रोपसङ्क्रान्तः; तेषां चारविहारतया ध्यानपरो व्यवस्थितः; (अ 378ब्) यदा ते एकपादा दिवसस्य प्रहरम् अवतिष्ठन्ते, बोधिसत्वो द्वाव् अवतिष्ठते; यदि ते पञ्चतपःप्रयोगेण दिवसस्य प्रहरम् अवतिष्ठन्ते, बोधिसत्वस् तेनापि योगेन द्वाव् अवतिष्ठते; ततस् ते विस्मयम् आपन्नाः संजल्पं कर्तुम् आरब्धाः: महान् अयं श्रमण <इति> महाश्रमणो महाश्रमण इति संज्ञा संवृत्ता; बोधिसत्वेन ते पृष्टाः: भवन्तो यूयम् अनेन व्रतेन किं प्रार्थयथ? तत्रैके कथयन्ति: शक्रत्वम् इति; अपरे (sbv i 97) कथयन्ति वयं ब्रह्मत्वम् इति; अन्ये कथयन्ति मारत्वम् इति; बोधिसत्वः संलक्षयति: पुनरावर्तका ह्य् एते ऋषय उन्मार्गप्रतिपन्ना इति

आराड कालाम

स तं मार्गं नालम् इति कृत्वा येनाराडः कालामस् तेनोपसङ्क्रान्तः; उपसङ्क्रम्य आराडं कालामम् इदम् अवोचत्: सचेत् ते आराड अगुरु चरेयम् अहं भवतो ऽन्तिके ब्रह्मचर्यम् इति;स कथयति: न मे आयुष्मन् गौतमागुरु; विहर त्वं यथासुखम् इति; बोधिसत्वः कथयति: कियन्तो भवता आराडेन धर्मा अधिगताः? स कथयति: यावद् एवायुष्मन् गौतम आकिञ्चन्यायतनम्; अथ बोधिसत्वस्यैतद् अभवत्: आराडस्यापि कालामस्य श्रद्धा, ममापि श्रद्धा; आराडस्यापि कालामस्य वीर्यं स्मृतिः समाधिः प्रज्ञा, ममापि वीर्यं स्मृतिः समाधिः प्रज्ञा; आराडेन कालामेन इयन्तो धर्माः साक्षात्कृताः यावद् एव आकिञ्चन्यायतनम्; कस्माद् अहम् इमान् धर्मान् न साक्षात्करिष्यामि इति; अथ बोधिसत्वस् तेषाम् एव धर्माणाम् अप्राप्तानां प्राप्तये अनधिगतानं अधिगमाय असाक्षात्कृतानां साक्षात्क्रियायै एको व्यपकृष्टो ऽप्रमत्त आतापी प्रहितात्मा व्याहार्षीद्; एको व्यपकृष्टो ऽप्रमत्त आतापी प्रहितात्मा विहरन्न् अचिराद् एव तान् धर्मान् साक्षाद् अकार्षीत्; साक्षात्कृत्वा च पुनस् तान् धर्मान् येनाराडः कालामस् तेनोपसङ्क्रान्तः; उपसङ्क्रम्य आराडं कालामम् इदम् अवोचत्: ननु भवता आराडेन इमे धर्माः स्वयम् अभिज्ञया साक्षात्कृता यावद् एवाकिञ्चन्यायतनम्; स एवम् आह: तथ्यं मया गौतम इमे धर्माः साक्षात्कृता यावद् एवाकिञ्चन्यायतनम्; बोधिसत्वः कथयति: ममाप्य् आयुष्मन् आराड इमे धर्माः स्वयम् अभिज्ञया साक्षात्कृता यावद् एवाकिञ्चन्यायतनम् इति; तर्ह्य् आयुष्मन् गौतम यावत् तव तावन् मम; यावन् मम तावत् तव; एह्य् आवाम् उभाव् अपीमं गणं परिकर्षावः; अस्मींश् चार्थे आवां समसमौ सामान्यप्राप्तौ; अथाराडः कालामो बोधिसत्वस्य पूर्वाचार्य एव सन् बोधिसत्वं परमया माननया मानितवान्; परमया पूजनया पूजितवान्; परमेषु चास्य प्रत्ययेषु आत्तमनाश् चाभूद् अभिराद्धश् च; अथ बोधिसत्वस्यैतद् अभवत्: अयं मार्गो (sbv i 98) नालं ज्ञानाय, नालं दर्शनाय, नालम् अनुत्तरायै सम्यक्संबोधये

उद्रक रामपुत्र

अथ बोधिसत्वस् तं मार्गं नालम् इति विदित्वा येनोद्रको रामपुत्रस् तेनोपसङ्क्रान्तः; उपसङ्क्रम्योद्रकं रामपुत्रम् इदम् अवोचत्: सचेत् ते उद्रक अगुरु चरेयम् अहं तवान्तिके ब्रह्मचर्यम्; न मे आयुष्मन् गौतमागुरु; विहर त्वं यथासुखं; कियन्तो भवता उद्रकेण धर्माः साक्षात्कृताः? यावद् एवायुष्मन् गौतम नैवसंज्ञानासंज्ञायतनम्; बोधिसत्वस्यैतद् अभवत्: उद्रकस्य रामपुत्रस्य श्रद्धा; ममापि श्रद्धा; उद्रकस्य रामपुत्रस्य वीर्यं स्मृतिः समाधिः प्रज्ञा; ममापि वीर्यं स्मृतिः समाधिः प्रज्ञा; उद्रकेण रामपुत्रेण इयन्तो धर्माः साक्षात्कृता यावद् एव नैवसंज्ञानासंज्ञायतनम्; कस्माद् अहम् इमान् धर्मान् न साक्षात्करिष्यामि इति; अथ बोधिसत्वस् तेषाम् एव धर्माणाम् अप्राप्तानां प्राप्तये अनधिगतानाम् अधिगमाय असाक्षात्कृतानां साक्षात्क्रियायै एको व्यपकृष्टो ऽप्रमत्त आतापी प्रहितात्मा व्याहार्षीत्; एको व्यपकृष्टो ऽप्रमत्त आतापी प्रहितात्मा विहरन्न् अचिराद् एव तान् धर्मान् साक्षादकार्षीत्; साक्षात्कृत्वा च पुनस् तान् धर्मान् येनोद्रको रामपुत्रस् तेनोपसङ्क्रान्तः; उपसङ्क्रम्योद्रकं रामपुत्रम् इदम् अवोचत्: ननु भवता उद्रकेण इमे धर्माः स्वयम् अभिज्ञया साक्षात्कृता यावद् एव नैवसंज्ञानासंज्ञायतनम्? तथ्यम्; मया आयुष्मन् गौतम इमे धर्माः साक्षात्कृता यावद् एव नैवसंज्ञानासंज्ञायतनम्; बोधिसत्वः कथयति: मयाप्य् आयुष्मन्न् उद्रक इमे धर्माः स्वयम् अभिज्ञया साक्षात्कृता यावद् एव नैवसंज्ञानासंज्ञायतनम् इति; तर्ह्य् आयुष्मन् गौतम यावत् तव तावन् मम; यावन् मम तावत् तव; एह्य् आवाम् उभाव् अपीमं गणं परिकर्षावः; अस्मिंश् चार्थे आवां समसमौ सामान्यप्राप्तौ; अथोद्रको रामपुत्रो बोधिसत्वस्य पूर्वाचार्य एव सन् तं परमया माननया मानितवान्; परमया पूजनया पूजितवान्; परमेषु चास्य प्रत्ययेष्व् आत्तमनाश् चाभूद् अभिराद्धश् च; अथ बोधिसत्वस्य एतद् अभवत्: अयम् अपि मार्गो नालं ज्ञानाय, नालं दर्शनाय नालम् अनुत्तरायै सम्यक्संबोधये; अथ बोधिसत्वस् तम् अपि मार्गं नालम् इति कृत्वा प्रक्रान्तः (sbv i 99)

थे रिवेर् नैरञ्जना

राजा शुद्धोदनः पुत्रशोकाभिभूतो नित्यम् एव बोधिसत्वं समन्वेषणाय दूतान् प्रेषयति; तेन श्रुतं यथा सिद्धार्थं कुमार उद्रकेण रामपुत्रेण सार्धं विहृत्य राजगृहान् निष्क्रान्तो उपस्थायकविरहितः परिभ्रमतीति; श्रुत्वा त्रीण्य् उपस्थायकानां शतानि प्रेषितानि; देवदृशे नगरे सुप्रबुद्धेन शाक्येनैवम् एव श्रुतम्; तेनापि द्वे उपस्थायकशते <प्रेशिते> इति; तत्र बोधिसत्वः पञ्चभिर् उपस्थायकशतैः परिवृतस् तपोवने परिभ्रमति; स संलक्षयति: तपोवनाध्याचरणम् (अ 379ब्) आकीर्णविहारता च नालम् अमृताधिगमाय; यन्व् अहं पञ्चोपस्थायकान् गृहीत्वा परिशिष्टान् प्रेषयेयम् इति; तेन मातृपक्षाद् द्वौ गृहीतौ, पितृपक्षात् त्रयः; ते तस्योपस्थानं कुर्वन्ति; अथ बोधिसत्वः पञ्चभिर् उपस्थायकैः परिवृतो गयादक्षिणेन येनोरुबिल्वासेनायनीग्रामकस् तेन चारिकां प्रक्रान्तः; स इतश् चामुतश् च परिभ्रमन्न् अद्राक्षीद् रमणीयं पृथिवीप्रदेशम्, प्रासादिकं वनषण्डम्, नदीं च नैरञ्जनां शीतलस्यन्दनां ससिकतां सूपतीर्थां हरितशाद्वलविस्तीर्णकूलां नानावृक्षोपशोभितां रमणीयां; दृष्ट्वा च पुनर् अस्यैतद् अभवत्: रमणीयो बतायं पृथिवीप्रदेशः, प्रासादिकं च वनषण्डम्, नदी च नैरञ्जना शीतलस्यन्दना ससिकता सूपतीर्था हरितशाद्वलविस्तीर्णकूला नानावृक्षोपशोभिता रमणीया; अहो बत प्रहाणार्थिना कुलपुत्रेणेमं वनषण्डम् निश्रित्य प्रहाणं प्रणिधातुं <युक्तम्>; अहं च प्रहाणेनार्थी; यन्व् अहम् इमं वनषण्डं निश्रित्य प्रहाणं प्रणिदध्याम् इति (sbv i 100)

self-tortures and fastings

अथ बोधिसत्वस् तं वनषण्डम् अभ्यवगाह्यान्यतरद् वृक्षमूलं निश्रित्य दन्तेषु दन्तान् आधाय, जिह्वाग्रं तालुनि प्रतिष्ठाप्य, चेतसा चित्तम् अभिगृह्णात्य् अभिनिपीडयत्य् अभिसन्तापयति; तस्य चेतसा चित्तम् अभिगृह्णतो ऽभिनिपीडयतो ऽभिसन्तापयतः सर्वरोमकूपेभ्यः स्वेदो मुक्तः; तद्यथा बलवान् पुरुषो दुर्बलतरं पुरुषं उद्बाहुकं गृहीत्वा अभिनिगृह्णीयाद् अभिनिपीडयेद् अभिसन्तापयेत्, तस्य रोमकूपेभ्यः स्वेदो मुच्येत; एवम् एव बोधिसत्वस्य तस्मिन् समये दन्तेषु दन्तान् आधाय जिह्वाग्रं तालुनि प्रतिष्ठाप्य चेतसा चित्तम् अभिनिगृह्णतो ऽभिनिपीडयतो ऽभिसन्तापयतः सर्वरोमकूपेभ्यः स्वेदो मुक्तः; आरब्धं चास्य वीर्यं भवत्य् असंलीनं, प्रस्रब्धः कायो भवत्य् असंरब्धं, उपस्थिता स्मृतिर् भवत्य् असंमूढा, समाहितं चित्तं भवत्य् एकाग्रम्; एवंरूपां बोधिसत्वस्य दुःखां तीव्रां खरां कटुकाम् अमनापां वेदनां वेदयतश् चित्तं न पर्यादाय तिष्ठति; यथापितद् भावितत्वात् कायस्य; तस्यैतद् अभवत्: यन्व् अहं भूयस्या मात्रया व्याध्मातकानि <ध्यानानि> ध्यायेयम् इति; भूयस्या मात्रया व्याध्मातकानि ध्यानानि ध्यातुम् आरब्धः; स व्याध्मातकानि ध्यानानि ध्यायन्, मुखे नासिकायां चाश्वासप्रश्वासान् संनिरुणद्धि; तस्य मुखे नासिकायां चाश्वासप्रश्वासेषु संनिरुद्धेष्व् अत्यर्थं तस्मिन् समये शिरसि शिरोवेदना वर्तन्ते; तद्यथा बलवान् पुरुषो दुर्बलतरस्य पुरुषस्य दृढेन वारत्रकेण दाम्ना शिरस्य् आम्रेडकम् दद्यात्, तस्यात्यर्थं शिरसि शिरोवेदना वर्तेरन्; एवम् एव बोधिसत्वस्य व्याध्मातकानि ध्यानानि ध्यायतो ऽत्यर्थं शिरसि शिरोवेदना वर्तन्ते; आरब्धं चास्य वीर्यं भवत्य्

असंलीनम्; प्रस्रब्धं कायो भवत्य् असंरब्धः; उपस्थिता स्मृतिर् भवत्य् असंमूढा; समाहितं चित्तं भवत्य् एकाग्रम्; एवंरूपां बोधिसत्वस्य दुःखां तीव्रां खरां कटुकाम् अमनापां वेदनाम् वेदयतश् (अ 380अ) चित्तं न पर्यादाय तिष्ठति; यथापितद् भावितत्वात् कायस्य; तस्यैतद् अभवत्: यन्व् अहं भूयस्या मात्रया व्याध्मातकानि (sbv i 101) ध्यानानि ध्यायेयम् इति; तद् भूयस्या मात्रया व्याध्मातकानि ध्यानानि ध्यातुम् आरब्धः; स व्याध्मातकानि ध्यानानि ध्यायन् मुखे नासिकायां चाश्वासप्रश्वासान् संनिरुणद्धि; तस्य मुखे नासिकायां चाश्वासप्रश्वासेषु संनिरुद्धेषु अत्यर्थं तस्मिन् समये

[here there is a gap of about one leaf due to an error of the scribe. the tib. transl. that covers this gap has been reproduced below in facsimile, as the appendix.]

कुक्षौ कुक्षिवेदना वर्तन्ते; तद्यथा गोघातको वा गोघातकान्तेवासी वा तीक्ष्णया गोकर्तन्या गोकुक्षिं पाटयेत्, तस्यात्यर्थं कुक्षौ कुक्षिवेदना वर्तेरन्; एवम् एव बोधिसत्वस्य तस्मिन् समये व्याध्मातकानि ध्यानानि ध्यायतो ऽत्यर्थं तस्मिन् समये कुक्षौ कुक्षिवेदना वर्तन्ते; आरब्धं चास्य वीर्यं भवत्य् असंलीनम्, प्रस्रब्धः कायो भवत्य् असंरब्धः, उपस्थिता स्मृतिर् भवत्य् असंमूढा, समाहितं चित्तं भवत्य् एकाग्रम्; एवंरूपां बोधिसत्वस्य दुःखां तीव्रां खारं कटुकाम् अमनापां वेदनां वेदयतश् चित्तं न पर्यादाय तिष्ठति यथापितद् भावितत्वात् कायस्य; तस्यैतद् अभवत्: यन्व् अहं भूयस्या मात्रया व्याध्मातकानि ध्यानानि ध्यायेयम् इति; स भूयस्या मात्रया व्याध्मातकानि ध्यानानि ध्यातुम् आरब्धः; व्याध्मातकानि ध्यानानि ध्यायन् मुखे नासिकायां चाश्वाशप्रश्वासान् संनिरुणद्धि; तस्य मुखे नासिकायां चाश्वासप्रश्वासेषु संनिरुद्धेष्व् अत्यर्थं तस्मिन् समये काये कायपरिदाहा वर्तन्ते; तद्यथा द्वौ बलवत्तरौ पुरुषौ दुर्बलतरं पुरुषम् उद्बाहुकं गृहीत्वा अङ्गारकर्ष्याम् उपनामयेते, तस्यात्यर्थं काये कायपरिदाहा वर्तेरन्; एवम् एव बोधिसत्वस्य व्याध्मातकानि ध्यानानि ध्यायतो ऽत्यर्थं तस्मिन् समये काये कायपरिदाहा वर्तन्ते; आरब्धं चास्य वीर्यं भवत्य् असंलीनम्; प्रस्रब्धः कायो भवत्य् असंरब्धः; उपस्थिता च स्मृतिर् भवत्य् असंमूढा; समाहितं चित्तं भवत्य् एकाग्रम्; एवंरूपां बोधिसत्वस्य दुःखां तीव्रां खरां कटुकाम् अमनापां (sbv i 102) वेदनां वेदयतश् चित्तं न पर्यादाय तिष्ठति यथापितद् भावितत्वात् कायस्य; तस्यैतद् अभवत्: यन्व् अहं सर्वेण सर्वम् अनाहारतां प्रतिपद्येय इति

offer of the devatās

अथ संबहुला देवता बोधिसत्वस्य चेतसा चित्तम् आज्ञाय येन बोधिसत्वस् तेनोपसङ्क्रान्ताः; उपसङ्क्रम्य बोधिसत्वम् इदम् अवोचन्: सचेत् त्वं मार्ष मानुष्यकेणाहारेणार्त्तीयसे जेह्रीयसि वितरसि विजुगुप्ससे, वयं ते सर्वरोमकूपेषु दिव्यम् ओजः काये उपसंहरामः; तत् त्वम् आसादय इति; अथ बोधिसत्वस्यैतद् अभवत्: अहं चेन् मनुष्याणाम् अनाहारतां प्रतिजानीयाम्, देवताश् च मे सर्वरोमकूपेषु दिव्यम् (अ 380ब्) ओजः काये उपसंहरेयुः, तच् चाथं स्वीकुर्याम्, तन् मम स्यान् मृषा; यन् मम स्यान् मृषा तन् मम स्यान् मिथ्यादृष्टिः; मिथ्यादृष्टिप्रत्ययश् च पुनर् इहैके सत्वाः कायस्य भेदात् परं मरणाद् अपायदुर्गतिविनिपातं नरकेषूपपद्यन्ते; यन्व् अहं देवतानां वचनं सर्वेण सर्वं प्रत्याख्यायाल्पं स्तोकं कतिपयं परीत्तम् आहारम् आहरेयम्; यदि वा मुद्गयूषेण यदि वा कुलुत्थयूषेण यदि वा हरेणुकायूषेण इति

new strivings

अथ बोधिसत्वस्य तस्मिन् समये देवतानां वचनं सर्वेण सर्वं प्रत्याख्यायाल्पं स्तोकं कतिपयं परीत्तम् आहारम् आहरतः सर्वाण्य् अङ्गप्रत्यङ्गानि म्लानान्य् अभूवन्; संम्लानानि कृशानि अल्पमांसानि; तद्यथा असीतकपर्वाणि वा कालकापर्वाणि वा म्लानानि भवन्ति; संम्लानानि कृशान्य् अल्पमांसानि; एवम् एव तस्मिन् (sbv i 103) समये बोधिसत्वस्य अल्पं स्तोकं कतिपयं परीत्तम् आहारम् आहरतः शिरसि शिरस्त्वक् म्लानाभूत्; संम्लाना सङ्कुचिता संपर्पटकजाता; तद्यथा अलाबूर् वृन्ताच् छिन्ना म्लानावतिष्ठते; संम्लाना सङ्कुचिता संपर्पटकजाता; एवम् एव बोधिसत्वस्य तस्मिन् समये अल्पं स्तोकं कतिपयं परीत्तम् आहारम् आहरतः शिरसि शिरस्त्वक् म्लानाभूत्; संम्लाना सङ्कुचिता संपर्पटकजाता; आरब्धं चास्य वीर्यं भवत्य् असंलीनम्; प्रस्रब्धः कायो भवत्य् असंरब्धः; उपस्थिता स्मृतिर् भवत्य् असंमूढा; समाहितं चित्तं भवत्य् एकाग्रम्; एवंरूपां बोधिसत्वस्य तस्मिन् समये आत्मोपसङ्क्रमिकां दुःखां तीव्रां खरां कटुकाम् अमनापां वेदनां वेदयतश् चित्तं न पर्यादाय तिष्ठति; यथापितद् भावितत्वात् कायस्य; तस्याल्पं स्तोकं कतिपयं परीत्तम् आहारम् आहरतः अक्ष्णोर् अक्षितारके अपगते गंभीरे गंभीरानुगते दूरानुगते दूरानु प्रविष्टे; अपीदानीम् उद्धृते इव ख्यायेते; तद्यथा गंभीरोदके उदपाने उदकतारका अपगता भवन्ति; अत्यपगता गंभीरा गंभीरानुगता दूरानुप्रविष्टा अपीदानीम् आख्यायिकाभिः श्रूयन्ते; एवम् एव तस्मिन् समये बोधिसत्वस्याल्पं स्तोकं कतिपयं परीत्तम् आहारम् आहरत अक्ष्णोर् अक्षितारके अपगते अभूताम्; अत्यपगते गंभीरे गंभीरानुगते दूरानुप्रविष्टे; अपीदानीम् उद्धृते

इव ख्यायेते; आरब्धं चास्य वीर्यं भवत्य् असंलीनम्; प्रस्रब्धः कायो भवत्य् असंरब्धः; उपस्थिता स्मृतिर् भवत्य् असंमूढा; समाहितं चित्तं भवत्य् एकाग्रम्; एवंरूपां बोधिसत्वस्य तस्मिन् समये आत्मोपक्रमिकां दुःखां तीव्रां खरां कटुकाम् अमनापां वेदनां वेदयतश् चित्तं न पर्यादाय तिष्ठति, यथापितद् भावितत्वात् कायस्य; तस्मिन् समये अल्पं स्तोकं कतिपयं परीत्तम् आहारम् आहरतः पार्शुकान्तराण्य् (अ 381अ) उन्नतावनतान्य् अभूवन्; तद्यथा द्विवर्षत्रिवर्षप्रतिच्छन्नायास् तृणशालाया गोपानस्या उन्नतावनता भवन्ति; एवम् एव तस्मिन् समये बोधिसत्वस्य अल्पं स्तोकं कतिपयं परीत्तम् आहारम् आहरतः पार्शुकान्तराण्य् उन्नतावनतान्य् अभूवन्; आरब्धं चास्य वीर्यं (sbv i 104) भवत्य् असंलीनम्; प्रस्रब्धः कायो भवत्य् असंरब्धः; उपस्थिता स्मृतिर् भवत्य् असंमूढा; समाहितं चित्तं भवत्य् एकाग्रम्; एवंरूपां बोधिसत्वस्य तस्मिन् समये आत्मोपक्रमिकां दुःखां तीव्रां खरां कटुकाम् अमनापां वेदनां वेदयतश् चित्तं न पर्यादाय तिष्ठति; अथ बोधिसत्वस्य अल्पं स्तोकं कतिपयं परीत्तम् आहारम् आहरतः पृष्ठवंशो ऽभूत् तद्यथा वर्तनावेणी; आनिषादो ऽभूत् तद्यथा उष्ट्रपदम्; स एकदा उत्थास्यामीत्य् अवाङ्मुखः पतति; एकदा निषत्स्यामीत्य् उत्तानमुखः पतति; स पूर्वं कायं परिगृह्य पश्चिमकं कायं संस्थापयति; पश्चिमकं कायं संपरिगृह्य पूर्वकं कायं संस्थापयति; स उभाभ्यां पाणिभ्यां कायम् आमार्ष्टि; परामार्ष्टि; तस्योभाभ्यां पाणिभ्यां कायम् आमार्जतः परिमार्जतो ऽपीदानीं प्रतिमूलानि रोमाणि पृथिव्यां शीर्यन्ते; तस्यैतद् अभवत्: अयम् अपि मार्गो नालं ज्ञानाय,

नालं दर्शनाय, नालम् अनुत्तरायै सम्यक्संबोधय इति; अथ तिस्रो देवता येन बोधिसत्वस् तेनोपसङ्क्रान्ताः; तत्रैका एवम् आह: कृष्णः श्रमणो गौतम इति: द्वितीया एवम् आह: नैष कृष्णो ऽपि तु श्याम इति; तृतीया एवम् आह: नैष कृष्णो नापि श्यामो ऽपि तु मद्गुरच्छविर् इति; बोधिसत्वस्य या सा शुभा वर्णनिभा सा सर्वेण सर्वम् अन्तर्हिताभूत्

थे थ्रेए सिमिलेस्

अथ बोधिसत्वस्य तस्मिन् समये अश्रुतपूर्वास् तिस्र उपमाः प्रतिभाताः; 1) तद्यथा आर्द्रं काष्ठं सस्नेहं जल उपनिक्षिप्तं स्याद् आरात् स्थलात्; अथ पुरुष आगच्छेद् अग्न्यर्थी अग्निगवेषी; स तत्राधरारण्याम् उत्तरारणिं प्रतिष्ठाप्य अभिमथ्नन् न भव्यो ऽग्निं संजनयितुं, तेजः प्राविष्कर्तुम्; एवम् एव तद् भवति यथापितद् आर्द्रात् काष्ठात् सस्नेहात्; एवम् एव ये केचिच् छ्रमणा वा ब्राह्मणा वा कामेषु न कायेन चित्तेन वा व्यपकृष्टा विहरन्ति, तेषां यः कामेषु कामच्छन्दः कामस्नेहः कामप्रेमा कामालयः कामनियन्त्री कामाध्यवसानं <स> तेषां चित्तं पर्यादाय तिष्ठति; एवम् एव तद् भवति यथापितत् कायेन चित्तेन (sbv i 105) वाव्यपकृष्टानां विहरताम्; किं चापि ते इमाम् एवंरूपां आत्मोपक्रमिकां दुःखां तीव्रां खरां कटुकाम् अमनापां वेदनां वेदयन्ति; अथ च पुनस् ते नालं ज्ञानाय, नालं दर्शनाय, नालम् अनुत्तरायै सम्यक्संबोधये इति; इयं तत्र बोधिसत्वस्य तस्मिन् समये प्रथमा अश्रुतपूर्वा उपमा प्रतिभाता; 2) तद्यथा आर्द्रं काष्ठं सस्नेहं स्थल उपनिक्षिप्तं स्याद् आरात् जलात्; <अथ> पुरुष आगच्छेद् (अ 381ब्) अग्न्यर्थी अग्निगवेषी; स तत्राधरारण्याम् उत्तरारणिं प्रतिष्ठाप्याभिमथ्नन् न भव्यो ऽग्निं संजनयितुम्, तेजः प्राविष्कर्तुम्; एवम् एतद् भवति यथापितद् आर्द्रात् काष्ठात् सस्नेहात्; एवम् एव ये केसिच् छ्रमणा वा ब्राह्मणा वा कामेषु कायेन व्यपकृष्टा विहरन्ति, न तु चित्तेन तेषां तत्र यः कामेषु कामच्छन्दः कामप्रेमा कामालयः कामनियन्त्री, कामाध्यवसानं स तेषां चित्तं पर्यादाय तिष्ठति; किंचापि ते इमाम् एवंरूपाम् आत्मोपक्रमिकां दुःखां तीव्रां खरां कटुकाम्

अमनापां वेदनां वेदयन्ति; अथ च पुनस् ते नालं ज्ञानाय; नालं दर्शनाय, नालम् अनुत्तरायै सम्यक्संबोधये इति; इयं तत्र बोधिसत्वस्य तस्मिन् समये द्वितीया अश्रुतपूर्वा उपमा प्रतिभाता; 3) तद्यथा शुष्कं काष्ठं कोटरं निःस्नेहं स्थल उपनिक्षिप्तं स्याद् आराज् जलात्; अथ पुरुष आगच्छेद् अग्न्यर्थी, अग्निगवेषी; स तत्राधरारण्याम् उत्तरारणिं प्रतिष्ठाप्याभिमथ्नन् भव्यो ऽग्निं सञ्जनयितुं तेजः प्राविष्कर्तुम्; एवम् एतद् भवति यथापितत् शुष्कात् काष्ठात् कोटरात्; एवम् एव ये केचिच् छ्रमणा वा ब्राह्मणा वा कायेन व्यपकृष्टा विहरन्ति चित्तेन च, तेषां यः कामेषु कामच्छन्दः कामस्नेहः कामप्रेमा कामालयः कामनियन्ति कामाध्यवसानं स तेषां चित्तां न पर्यादाय तिष्ठति; किंचापि ते न इमाम् एवंरूपाम् आत्मोपक्रमिकां दुःखां तीव्रां खरां अमनापां वेदनां वेदयन्ते; अथ च पुनस् ते अलं ज्ञानाय अलं दर्शनाय, अलम् अनुत्तरायै सम्यक्संबोधये इति; इयं तत्र बोधिसत्वस्य तस्मिन् समये तृतीया अश्रुतपूर्वा उपमा प्रतिभाता; यन्व् अहम् एकतिलफलम् आहारम् आहरेयम् इति; स एकं तिलफलम् आहारम् (sbv i 106) आहरति; न तावद् द्वितीयं यावद् अस्य तद् ओजः कायान् न विगतं भवति; तस्यैकं तिलम् आहारम् आहरतः सुतराम् अङ्गप्रत्यङ्गानि परिक्षीणानि, यथा एकं तिलम्, एकं तण्डुलम्, एकं कोलम्, एकं कुलत्थम्, एकं माषम्, एकं मुद्गं

reaction of śuddhodana and others

तां दुष्करचर्यावस्थां श्रुत्वा राजा शुद्धोदनः अर्धतृतीयानि वार्तावाहकशतानि प्रेषयति; सुप्रबुद्धो ऽपि राजा अर्धतृतीयानि; तयोः प्रतिदिवसं मुहुर् मुहुर् वार्तां कथयन्ति: बोधिसत्व ईदृशीं दुष्करचर्यां चरति; एकं तिलम् आहारम् आहरति; एकं तण्डुलम्, एकं कोलम्, एकं कुलत्थम्, एकं माषम्, एकं मुद्गम्; दर्भसंस्तरे च शय्यां कल्प्यति; इति श्रुत्वा राजा शुद्धोदनः पुत्रशोकाभिभूतो भूयस्या मात्रया बाष्पोपतप्यमानहृदयो ऽश्रुपर्याकुलेक्षणः सन्तप्यते; दर्भसंस्तरे च शय्यां कल्पयति; सार्धम् अन्तःपुरेण यशोधरा देवी भर्तुस् तदवस्थां प्रतिश्रुत्य भर्तृशोकाभिभूता बाष्पार्द्रवदना विनिर्मुक्तमाल्याभरणा विषण्णा (अ 382अ) दुष्करं चरति; एकं तिलम् आहारम् आहरति; एकं तण्डुलम्, एकं कोलम्, एकं कुलत्थम्, एकं मुद्गम्; तृणसंस्तरे च शय्यां कल्पयति; तस्याः स गर्भो लयं गतः; राज्ञा शुद्धोदनेन श्रुतम्; स संलक्षयति: यदि यशोधरा प्रतिदिवसं बोधिसत्वस्य वार्तां शृणोति स्थानम् एतद् विद्यते यद् भर्तृशोकाभ्याहता अनया दुष्करचर्यया गर्भं न धारयिष्यति; प्राणैर् वा वियोक्ष्यते; तद् उपायसंविधानं कर्त्वयं येन यशोधराया बोधिसत्ववार्तां न कश्चित् कथयति इति विदित्वा राज्ञा शुद्धोदनेन सर्वान्तःपुरजनः क्रियाकारं कारितो न केनचित् बोधिसत्ववार्ता यशोधराया अरोचयितव्या <इति>; वार्तासंचारकाश् च समनुशिष्टाः, मां मुक्त्वा न कस्यचिद् बोधिसत्ववार्ता निवेदयितव्येति; श्रुत्वापि स्वयं वार्तां यशोधरापेक्षया अन्तर्निगूढसन्तापो ऽन्यथान्तःपुरजनं विप्रलंभयति, यं श्रुत्वा यशोधरा देवी प्राणान् सन्धारयति (sbv i 107)

unpalatable food

अथ बोधिसत्वस्यैतद् अभवत्: अयम् अपि मार्गो नालं ज्ञानाय, नालं दर्शनाय, नालम् अनुत्तरायै सम्यक्संबोधये; यन्व् अहं परमविकृतम् आहारम् आहरेयम् इति; स परमविकृतभोजनम् आहारम् आहरति; तत्रेदं परमविकृतभोजनम्; ये ते वत्सका अचिरजातका मातुस् स्तन्येन यापयन्ति तेषाम् उच्चारप्रस्रावः; तावच् च न द्वितीयम् आहारम् आहरति, यावद् अस्य तद् ओजः कायान् न विगतं भवति; द्वितीये तु <विगते> द्वितीयम् आहारम् आहरति; महाश्मशानं च गत्वा मृतकडेबरं शिरस्य् उपनिधाय दक्षिणेन पार्श्वेन शय्यां कल्पयति पादे पादम् आधायालोकसंज्ञी स्मृतः संप्रजानन् उत्थानसंज्ञाम् एव मनसि कुर्वानः

village girls and boys

अपीदानीम् ग्रामकुमारका ग्रामकुमारिकाश् चागम्यास्योभयोः कर्णस्रोतसोस् तूलिका आसारयन्त्य् अपि प्रसारयन्त्य् अपि; उभयोः कर्णस्रोतसोर् एवं चाहुः, पांसुपिशाचकं बत पश्यामः, पांसुपिशाचकं बत पश्यामः इति; अपीदानीं पांसुम् अपि क्षिपन्ति, लोष्टम् अपि, शर्कराम् अपि; नाभिजानाति बोधिसत्वस् तेषां ग्रामकुमारकाणां ग्रामकुमारिकाणां वा अन्तिके प्रदुष्टं चित्तम् उत्पादयितुं, पापिकां वा वाचं निश्चारयितुम्; एवंरूपाणि बोधिसत्वस्य दुष्कराणि चरतः एतद् अभवत्: ये केचिद् दुःखप्रहाणयोगम् अनुयुक्ता विहरन्ति सर्वे ते एतावन् नात उत्तरेण; अतो भूयस् सो ऽपि मार्गो नालं ज्ञानाय, नालं दर्शनाय, नालम् अनुत्तरायै सम्यक्संबोधये इति; आरब्धं चास्य वीर्यं भवत्य् असंलीनम्; प्रस्रब्धः कायो भवत्य् असंरब्धः; उपस्थिता स्मृतिर् भवत्य् असंमूढा; समाहितं चित्तं भवत्य् एकाग्रम्; तस्यैतद् अभवत्: कतमो ऽसौ मार्गः अलं ज्ञानाय, अलं दर्शनाय, अलम् अनुत्तरायै सम्यक्संबोधये इति; तस्यैतद् अभवत्: अभिजानाम्य् अहं पितुः शुद्धोदनस्य निवेशने कर्मान्तान् अनुसङ्गम्य जम्बूच्छायायां निषद्य (अ 382अ) विविक्तं कामैर् विविक्तं पापकैर् अकुशलैर् धर्मैः सवितर्कं सविचारं विवेकजं प्रीतिसुखं (sbv i 108) प्रथमं ध्यानम् उपसंपद्य विहर्तुम्; स्यात् स मार्गः, स्यात् प्रतिपद् अलं ज्ञानाय, अलं दर्शनाय, अलम् अनुत्तरायै सम्यक्संबोध्ये; स तु मया न सुकरम् उत्पादयितुं यथापितत् कृशेन दुर्बलेनाप्लस्थामेन; यन्व् अहं यथासुखम् आश्वस्यां यथासुखं प्रश्वस्यां, यथासुखम् औदारम् आहारम् आहरेयम् ओदनकुल्माषान्; सर्पिस्तैलाभ्यां गात्राणि म्रक्षयेयम्; सुखोदकेन च कायं परिषिञ्चेयम् इति; स यथासुखम् आश्वसिति, यथासुखं प्रश्वसिति; औदारिकम् आहारम् आहरत्य् ओदनकुल्माषान्; सर्पिस्तैलाभ्यां गात्राणि म्रक्षयति; सुखोदकेन च कायं परिषिञ्चति

the five attendants desert

अथ तेषां पञ्चानाम् उपस्थायकानाम् एतद् अभवत्: अयं भवन्तः श्रमणो गौतमः शैथिलिकः संवृत्तो, बाहुलिको बहुलाजीवः, प्रहाणविभ्रान्तो य एष इदानीम् औदारिकम् आहारम् आहरत्य् ओदनकुल्माषान्; सर्पिस्तैलाभ्यां गात्राणि म्रक्षयति; सुखोदकेन कायं परिषिञ्चति; न शक्यम् अनेनाधुना किंचिद् अधिगन्तुम्; इति विदित्वा बोधिसत्वम् अपहाय प्रक्रान्ताः, अनुपूर्वेण वाराणसीं गत्वा ये लोके अर्हन्तस् तान् उद्दिश्य प्रव्रजिताः; ते पञ्च समग्राः सहिताः संमोदमाना अविवदमाना ऋषिवदने विहरन्ति मृगदावे इति पञ्चकाः पञ्चका इति संज्ञा संवृत्ता

नन्दा अन्द् नन्दबला

बोधिसत्वो ऽप्य् अनुपूर्वेण कायस्य स्थामं च बलं च विर्यं च संजनय्य अनुपूर्वेण सेनायनीग्रामं गतः; तत्र सेनो नाम ग्रामिकः; तस्य द्वे दुहितरौ नन्दा च नन्दबला च; ताभ्यां श्रुतम्: शाक्यानां कुमार उत्पन्नो ऽनुहिमवत्पार्श्वे नद्या भागीरथ्यास् तीरे कपिलस्य ऋषेर् आश्रमपदस्य नातिदूरे: स ब्राह्मणैर् नैमित्तिकैर् विपञ्चनकैर् व्याक्तृअः राजा भविष्यति चक्रवर्ती; स चाभिरूपो दर्शनीयः प्रासादिकः सर्वलक्षणसंपन्नः सर्वजनमनोहरः; या नारी द्वादशवर्षाणि इदम् एवंरूपं व्रतं समादाय वर्तते तस्या (sbv i 109) असौ भर्ता भवति इति; पुरुषाभिप्रायो मातृग्रामः; ताभ्यां द्वादशवार्षिकं व्रतं तप्तम्; तस्य समाप्तौ षोडशगुणितं मधुपायसं तपःपरिखिन्नाय ऋषये प्रतिपाद्यते आगन्तुकाय इति श्रुत्वा च पुनस् ताभ्यां गोसहस्रं दोहयित्वा तद् एव गोसहस्रं पायितम्; ततस् तद् एव गोसहस्रं दोहयित्वा पञ्चशतानि पायितानि; ततस् तानि पञ्चशतानि दोहयित्वा तान्य् एव <पञ्चशतानि> पायितानि; <ततः तानि> पञ्चशतानि दोहयित्वा अर्धतृतीयानि शतानि पायितानि; ततस् तान्य् अर्धतृतीयानि शतानि दोहयित्वा <तान्य् एवार्धतृतीयानि शतानि पायितनि; ततस् तान्य् अर्धतृतीयानि शातानि दोहयित्वा> पञ्चविंशत्युत्तरम् शतं पायितम्; ततस् तत् पञ्चविंषत्युत्तरं शतं दोहयित्वा <तद् एव पञ्चविंशत्युत्तरं शतं पायितम्; ततः तत् पञ्चविंशत्युत्तरं शतं दोहयित्वा> त्रिषष्टिः पायिता; ततस् तां त्रिषष्टिं दोहयित्वा सैव त्रिषष्टिः पायिता; ततस् तां त्रिषष्टिं दोहयित्वा द्वात्रिंशत् पायिता; ततस् ता द्वात्रिंशत् दोहयित्वा ता एव द्वात्रिंशत् पायिताः; ततस् ता द्वात्रिंशत् दोहयित्वा षोडश पायिताः;

ततस् ताः षोडश दोहयित्वा ता एव षोडश (अ 383अ) पायिताः; ततस् ताः षोदश दोहयित्वा अष्टौ पायिताः; ततस् ता अष्टौ दोहयित्वा ता एवाष्टौ पायिताः; ततस् ता अष्टौ दोहयित्वा स्फटिकमय्यां स्थाल्यां षोडशगुणितं मधुपायसं साधयितुम् आरब्धाः; शुद्धावासकायिका देवाः संलक्षयन्ति; बोधिसत्वः इदं पायसं भुक्त्वा अद्यैवानुत्तरं ज्ञानम् अधिगमिष्यति; ततस् तेजौपसंहारः कर्तव्य इति तैः सद्योबला ओषधयः प्रक्षिप्ताः; तत्र च क्षीरे संपरिवर्तमाने चक्रस्वस्तिकनन्द्यावर्तानि चिह्नानि दृश्यन्ते; तत्र च उपगो नामाजीवकः परिभ्रमंस् तं प्रदेषम् अनुप्राप्तः; तेन तत् पायसं दृष्टम्; स संलक्षयति: य एतत् पायसं भुङ्क्ते सो ऽनुत्तरं ज्ञानम् अधिगमिष्यति; यन्व् अहम् एतत् प्रार्थयेयम् इति; स मुहूर्तम् एकान्ते प्रक्रम्य स्थितो यावद् अवतारितम् इति; स उपसङ्क्रम्य कथयति: क्षुत्तर्षश्रमपीडितो ऽस्मि; ममैतत् प्रयच्छ इति; ते कथयतः: नानुप्रयच्छाम इति; स तूष्णीं प्रक्रान्तः; ततस् ताभ्यां स्फटिकमय्यां स्थाल्यां रत्नमय्यां पात्र्यां प्रक्षिप्तम्; शक्रस्य देवेन्द्रस्याधस्ताज् ज्ञानदर्शनं प्रवर्तते: तस्याम् अवस्थायां ब्राह्मणवेषम् अभिनिर्माय तयोः पुरतो ऽवस्थितः; ब्रह्माप्य् अवतीर्य तस्यादूरे अवस्थितः; ते शक्राय दातुम् आरब्धे; स कथयति: किं ममानुप्रयच्छथ आहोस्विद् यो ममान्तिकाद् विशिष्टतरः? यस् तवान्तिकाद् विशिष्टतरः तस्यानुप्रयच्छावः; अयं ब्रह्मा ममान्तिकात् प्रतिविशिष्टः; तद् अस्यानुप्रयच्छतम्; ते तस्मै दातुम् आरब्धे; (sbv i 110) स कथयति: किं ममानुप्रयच्छथ आहोस्विद् यो ममान्तिकात् प्रतिविशिष्टतमः; यस् तवान्तिकात् प्रतिविशिष्टतमः; अमी

शुद्धावासकायिका देवाः; एभ्यो ऽनुप्रयच्छतम्; ते तेभ्यो दातुम् आरब्धे; ते कथयन्ति: किं अस्माकम् अनुप्रयच्छथ आहोस्विद् यो ऽस्मद्विशिष्टतमः? यो युष्मद्विशिष्टतमः; ते कथयन्ति: अयं बोधिसत्वो भगवान् नैरञ्जनाम् अभ्यवगाह्य गात्राणि परिषिच्य अल्पस्थामवत्वान् न शक्नोति प्रत्युत्तर्तुम्; एषो ऽस्मद्विशिष्टतमः; अस्माय् अनुप्रयच्छतम्; ते तस्य सकाशम् संप्रस्थिते; तदा देवताभिर् अर्जुनशाखावनामिता याम् अवलंब्य बोधिसत्वो नदीं नैरञ्जनाम् उत्तीर्य चीवरकाणि प्रावृत्य नद्या नैरञ्जनायास् तीरे निषण्णः; ततस् ताभ्यां सत्कृत्य तीव्रेणाशयेन तन् मधुपायसं तस्मै प्रतिपादितम्; बोधिसत्वेनापि तयोर् अनुग्रहार्थं प्रतिसङ्गृहीतम्; प्रतिगृह्य कथयति: किम् एषापि पात्री परित्यक्ता? ते कथयतः: भगवन्न् एषापि परित्यक्ता; ततो बोस्हिसत्वेन मधुपायसं परिभुज्य सा पात्री प्रक्षाल्य नद्यां नैरञ्जनायां प्रक्षिप्ता; नागैः प्रतिगृहीता; देवानाम् अधस्ताज् ज्ञानदर्शनं प्रवर्तते; शक्रेण देवानाम् इन्द्रेण गरुडवेषम् अभिनिर्माय नदीं नैरञ्जनां क्षोभयित्वा, नागान् वित्रास्य, तां पात्रीम् अपहृत्य, देवेषु त्रयस्त्रिंशेषु पात्रीमहः प्रज्ञप्तः; ततो नन्दा नन्दबला बोधिसत्वेनोक्ते: अनेन दानेन किं प्रार्थयथ इति; ते कथयतः: भगवन् यो ऽसौ शाक्यानां कुमार उत्पन्नो ऽनुहिमवत्पार्श्वे (अ 383ब्) नद्या भागीरथ्यास् तीरे कपिलस्य ऋषेर् आश्रमपदस्य नातिदूरे स ब्राह्मणैर् नैमित्तिकैर् विपञ्चनकैर् व्याकृतः राजा भविष्यति चक्रवर्ती इति; सो ऽस्माकम् अनेन कुषलमूलेन चित्तोत्पादेनान्नपरित्यागेन भर्ता भवेद् इति; बोधिसत्वः कथयति: प्रव्रजितो ऽसाव् अनर्थिकः कामैर् इति; ते

कथयतः: भगवन् यद्य् अनर्थी कामैः प्रणीतदानात् तु यद् अस्ति पुण्यं संपद्यतां तस्य यशोन्वितस्य /

सर्वार्थसिद्धस्य नरोत्तमस्य सर्वार्थसिद्धिर् भृशम् अग्रबुद्धेः //

एवम् अस्त्व् इत्युक्त्वा बोधिसत्वः मधुपायसं परिभुज्य सन्तर्पितः षडिन्द्रियबलस्थामप्राप्तः, (sbv i 111) नद्या नैरञ्जनायास् तीरे इतश् चामुतश् च निषद्य भूमिं पर्येषते; यावत् पश्यति महाशैलं पर्वतं नानापुष्पफलोपेतम्; स तम् अभिरुह्य विविक्तावकाशे पृथिवीप्रदेशे पर्यङ्कम् आभुज्य निषण्णः; निषादकालसमनन्तरम् एवासौ पर्वतो विशीर्णः; बोधिसत्वः संलक्षयति: नूनं मयापक्षालानि कर्माणि कृतानि येनायं पर्वतो विशीर्णः; देवता बोधिसत्वस्य चेतसा चित्तम् आज्ञाय कथयन्ति: भगवन् न त्वया पापकानि कर्माणि कृतानि; अपि तु धर्मता ह्य् एषा, सर्वापि द्वौ पृथिवी न शक्नोति धारयितुं यश् चोच्छिन्नकुशलमूलो यश् चोत्तप्तकुशलमूलः; स त्वम् उत्तप्तकुशलमूलः; नैतद् भगवन् बोधिसत्वानां स्थानम्; अपि तु नदीं नैरञ्जनाम् उत्तीर्यामुष्मिन् प्रदेशे गच्छ वज्रासनम्; तत्र अतीतानागतप्रत्युत्पन्नास् सर्वे बोधिसत्वा निषद्यानुत्तरं ज्ञानम् अधिगतवन्तः; अधिगमिष्यन्ति च इति; ततो बोधिसत्वो देवतोपदिष्टेन मार्गेण संप्रस्थितः; तस्य चरणनिपाते पद्मं प्रादुर्भवति; चतुर्भ्यश् च महासमुद्रेभ्यस् सलिलम् आगच्छति; पद्मिनी प्रादुर्भवति; चरणनिपाते संपीदिता चेयं महापृथिवी कांसपात्रीव रटितुम् आरभ्दा; चाषा मृगाश् च बोधिसत्वस्य प्रदक्षिणीकुर्वन्ति; वातबलाहका अपि देवपुत्रा मन्दमन्दं प्रवातुम् आरब्धाः; वर्षबलाहका अपि देवपुत्रा ईषत् प्रवर्षितुम् आरब्धाः; बोधिसत्वः संलक्षयति: यादृशीनि मे निमित्तानि प्रादुर्भवन्ति अद्यैव मया अनुत्तरं ज्ञानम् अधिगतं भविष्यतीति

कालिक नागराज

नद्यां नैरञ्जनायां कालिकस्य नागराजस्य पूर्वकर्मविपाकजं भवनम् अभिनिर्वृत्तम्; स बुद्धोत्पादे बुद्धोत्पादे चक्षुषी प्रतिलभते; स रणन्त्याः पृथिव्याः शब्देन भवनाद् अभ्युद्गतः; पश्यति बोधिसत्वं दूराद् एव द्वात्रिंशता महापुरुषलक्षणैः समलङ्कृतम्, अशीत्या चानुव्यञ्जनैर् विराजितगात्रं, व्यामप्रभालङ्कृतं, सूर्यसहस्रातिरेकप्रभं, जङ्गमम् इव रत्नपर्वतं, (sbv i 112) समन्ततोभद्रकम्; सहदर्शनाच् च बोधिसत्वं गाथाभिर् गीतेन चाभिष्टोतुम् आरब्धः: रणन्तीं प्तृहिवीं श्रुत्वा नदीं घोषसमाकुलाम् / भवनाद् उद्गतो नागो दिशस् समवलोकयन् //

अद्राक्षीद् उरगश्रेष्ठो नागराजो महर्धिकः / नैरञ्जनायास् तीरेण आयान्तं (अ 384अ) लोकनायकम् //

बुद्धोत्पादप्रभावाच् च चक्षुर् आसाद्य पन्नगः / प्रहृष्टचित्तः सुमना इमां गिरम् उवाच ह //

पूर्वका हि मया दृष्टास् ते ऽपि बुद्धा महर्धिकाः / तेषां तव च पश्यामि न नानाकरणं मुने //

यथोक्षिपसि पूर्वं हि पादं दक्षिणकं मुने / दक्षिणीयस्य लोकस्य त्वं बुद्धो ऽद्य भविष्यसि //

यथा चीवरविक्षेपो यथा चैवावगाहसे / नैरञ्जनां शीतजलां त्वं बुद्धो ऽद्य भविष्यसि //

सुदृढविक्रम विक्रमसे यथा लडितगोवृषविक्रमविक्रम / स पुरुषर्षभ धर्मभृतां वर त्वम् इह बुद्धवरो ऽद्य भविष्यसि //

नभसि चाषशतैः क्रियते यथा परिपतद्भिर् इदं परिदक्षिणम् / तव शरीरम् उदारोदारकृतीत्य् अवरबुद्धवरो ऽद्य भविष्यसि //

सुरभयः परिवान्ति यथानिलास् त्रसति नापि गणो मृगपक्षिणाम् / न तरवः प्रचलन्त्य् अनिलेरिताः अवरबुद्धवरो ऽद्य भविष्यसि //

तव भदन्त यथा विमलप्रभा (sbv i 113) ज्वलितकाञ्चनदीप्तिसमप्रभा / मुखम् इदं च विराजति वर्णवत् अवरबुद्धवरो ऽद्य भविष्यसि //

अन्तरोद्दानम्: रणन्त्य्, अद्राक्षीत्, बुद्धश् च, पूर्व, चरण, चीवर, सुदृढ चाष, अनिलाश् चैव, तव, कृत्वाथ ते दश /

svastika and buddha's determination

ततो बोधिसत्वः कालिकनागराजेन संस्तूयमानो वज्रासनाभिमुखः संप्रस्थितः; स संलक्षयति: तृणसंस्तरे निषद्यां कल्पयामीति; तस्य तृणैः प्रयोजनम् इति शक्रो देवानाम् इन्द्रो बोधिसत्वस्य चेतसा चित्तम् आज्ञय गन्धमादनात् पर्वतात् तूलसंस्पर्शानां तृंआनां भारम् आदाय स्वस्तिकयावसिकवर्णम् आत्मानम् अभिनिर्माय बोधिसत्वस्य पुरस्ताद् अवस्थितः; बोधिसत्वः कथयति: भद्रमुख दीयन्तां ममैतानि तृणानीति; शक्रेण देवेन्द्रेण बोधिसत्वस्य पादयोर् निपत्य सगौरवेण दत्तानि; ततो बोधिसत्वः स्वस्तिकस्य यावसिकस्यान्तिकात् तृणान्य् आदाय देवतोपदिष्टेन मार्गेण येन बोधिमूलं तेनोपसङ्क्रान्तः; उपसङ्क्रम्य अनाकुलम् असङ्कुलं तृणसंस्तरकं प्रज्ञपयितुम् आरब्धः; ततस् तानि तृणानि प्रदक्षिणानि पतितुम् आरब्धानि; बोधिसत्वः संलक्षयति: यथैतानि तृणानि प्रदक्षिणं पतन्ति, नियतं मयाद्यानुत्तरं ज्ञानम् अधिगन्तव्यम्; इति विदित्वा वज्रासनम् अभिरुह्य सुप्तोरगराजभोगपरिपिण्डीकृतं पर्यङ्कं बद्ध्वा निषण्णः; ऋजुं कायं प्रणिधाय प्रतिमुखां स्मृतिम् उपस्थाप्य चित्तम् उत्पादयति; वाचं च भाषते: न तावद् भेत्स्यामि पर्यङ्कं यावद् अप्राप्त आस्रवक्षयः (अ 384ब्) स न तावत् भिन्दति पर्यङ्कं यावद् अप्राप्त आस्रवक्षयः

māra's mischief

मारस्य पापीयसो द्वौ ध्वजौ हर्षस्थानीयः शोकस्थानीयश् च; यावच् छोकस्थानीयो ध्वजः कम्पितुम् (sbv i 114) आरब्धः मारः पापीयान् संलक्षयति: यथैष कम्पते ध्वजः, नूनम् अनर्थेन भवितव्यम्; स समन्वाहर्तुं प्रवृत्तः यावत् पश्यति बोधिसत्वं वज्रासने निषण्णम्; तस्यैतद् अभवत्: अयं शुद्धोदनपुत्रो वज्रासने निषण्णो यावन् मद्विषयं नाक्रामति, तावद् अस्य विघ्नः कर्तव्यः; इति विदित्वा उद्धूतशिरस्कः शणशाटीनिवसितः, लेखवाहकवर्णम् आत्मानम् अभिनिर्माय, येन बोधिसत्वस् तेनोपसङ्क्रान्तः; उपसङ्क्रम्य ससंभ्रमः कथयति: किमर्थं भवान् निषण्णो ऽवतिष्ठते; कपिलवस्तु नगरं देवदत्तेनावष्टब्धम्; अन्तःपुरं विध्वंसितम्; शाक्याः प्रघातिता इति; तत्र बोधिसत्वस्य त्रयः पापका अकुशला वितर्काः समुत्पन्नाः; तद्यथा, कामवितर्को, व्यापादवितर्को, विहिंसावितर्कश् च; तत्र यशोधरामृगजागोपिकासु कामवितर्कः, देवदत्ते व्यापादवितर्कः, तदनुजीविषु शाक्येषु विहिंशावितर्कः; बोधिसत्वस्यैतद् अभवत्: किम् अर्थं मे त्रयः पापका अकुशला वितर्काः समुत्पन्नाः; यावत् पश्यति, मारः पापीयान् उपसङ्क्रान्तो यदुत व्याक्षेपकर्मणेति; ततो बोधिसत्वस्य त्रयः कुशलाः समुत्पन्नाः; तद्यथा नैष्क्रम्यवितर्कः, अव्यापादवितर्कः, अविहिंसावितर्कश् च भूयो मारः कथयति: किम् अर्थं त्वं बोधिमूले निषण्ण इति; बोधिसत्वः कथयति: अनुत्तरं ज्ञानम् अधिगमिष्यामीति; मारः कथयति: कुमार कुतस् तव अनुत्तरं ज्ञानम् इति; बोधिसत्वः कथयति: तव तावत् पापीयन् एकं यज्ञम् इष्ट्वा कामधात्वीश्वरत्वं संपन्नम्; प्राग् एव येन मया त्रिषु कल्पासङ्ख्येयेष्व् अनेकानि

यज्ञकोटीनियुतशतसहस्राणीष्टानि; सत्वानां चार्थाय शिरःकरचरणनयनमांसरुधिरसुतदारहिरण्यसुवर्णादि परित्यक्तम् अनुत्तरज्ञानाधिगमाय; सो ऽहम् अनुत्तरं ज्ञानं नाधिगमिष्यामीति कुत एतत्? एवम् उक्तो मारः कथयति: स तावत् भवान् एव साक्षी यथा मया एकेन यज्ञेन कामधात्वीश्वरत्वं प्राप्तम् इति; भवतः कः साक्षी; यथा त्वया त्रिषु कल्पासङ्ख्येयेष्व् अनेकानि यज्ञकोटीनियुतशतसहस्राणीष्टानि; सत्वानां चार्थाय शिरःकरचरणनयनमांसरुधिरसुतदारहिरण्यसुवर्णादि परित्यक्तम् अनुत्तरज्ञानाधिगमायेति? ततो भगवता चक्रस्वस्तिकनन्द्यावर्तेन जालावनद्धेन अनेकपुण्यशतनिर्जातेन भीतानाम् (sbv i 115) आश्वासनकरेण करेण पृथिवी परामृष्टा पृथिवी साक्षिणी यथा मया (अ 385अ) त्रिषु कल्पासङ्ख्येयेष्व् अनेकानि यज्ञकोटीनियुतशतसहस्राणिष्टानि; सत्वानां चार्थाय शिरःकरचरणनयनमांसरुधिरसुतदारहिरण्यसुवर्णादि परित्यक्तम् इति; ततः पृथिवीदेवता पृथिवीम् उद्भिद्य कृताञ्जलिपुटा शब्दम् उदीरयति: एवम् एतत् पापीयन् यथा भगवान् कथयतीति; एवम् उक्ते मारः पापीयांस् तूष्णींभूतो मद्गुभूतस् स्रस्तस्कन्धो ऽधोमुखो निष्प्रतिभः प्रध्यानपरमो व्यवस्थितः स दुःखी दुर्मनाः संलक्षयति: एवम् अप्य् अहं कुर्वन् न लभे शाक्यस्य शुद्धोदनपुत्रस्य अवतारं; यन्व् अहम् अस्य भूयस्यास् मात्रया विघ्नं कुर्याम् इत्युक्त्वा प्रक्रान्तः; ततस् तेन तिस्रो दुहितरः प्रेषिताः तृष्णा च रता च रतिश् च; ता रूपयौवनमदमत्ता दिव्यवस्त्रालङ्कारविभूषिता बोधिसत्वस्य पुरस्तात् स्त्रीसाध्यानि विदर्शयित्र्म् आरब्धाः; ततो बोधिसत्वेनोपायकौशलेन तथाधिष्ठिता यथा वृद्धाः

संवृत्ताः; येन मारस् तेनोपसङ्क्रान्ताः; मारस् तास् तथाविधा दृआट्वा विषण्णः करे कपोलं दत्वा चिन्तापरो व्यवस्थितः: को ऽसाव् उपायस् स्याद् येन शाक्यस्य शुद्धोदनपुत्रस्य तपोविघ्नं कुर्याम् इति; षट्त्रिंशद्भूतकोटिबलाग्रम् आदाय हस्त्यश्वोष्ट्रमृगमहिषवराहकुक्कुरोलूकनकुलशाखामृगाद्याकाराणाम् असितोमरभिण्डिपालचक्रकुन्तकधनुष्पाशपरशुभुसुण्ड्याद्यायुधानाम्, स्वयं चाकर्णाद् धनुः पूरयित्वा बोधिसत्वं परिवार्यावस्थितः; ततो बोधिसत्वस् तान् अनेकरूपान् बहुविविधप्रहरणसहितान् दृष्ट्वा संलक्षयति: यस् तावत् प्राकृतपुरुषेण सार्धं संरंभम् आरभते, स प्रतिपक्षं योजयति; प्राग् एवायं कामधात्वीश्वरो यन्व् अहं प्रतिपक्षं योजयेयम्; इति विदित्वा तदुपशमनोपायं चिन्तयितुम् आरब्धः; मारश् च षट्त्रिंशद्भूतकोटिसहितो बोधिसत्वस्योपरि कुन्तकचक्रतोमरभिण्डिपालशरादि निक्षेप्तुम् आरब्धः; ततो बोधिसत्वो मैत्रीं समापन्नः; तानि चास्य प्रहरणानि दिव्यान्य् उत्पलपद्मकुमुदपुण्डरीकाणि भूत्वा बोधिसत्वस्य समन्तात् पतितुम् आरब्धानि; ततो मार उपरि विहायसम् अभ्युद्गम्य पांसुवर्षं वर्षितुम् आरब्धः; तद् अपि (sbv i 116) दिव्यानि मान्दारकाणि पुष्पाणि भूत्वा बोधिसत्वस्योपरि निपतितुम् आरब्धानि; ततो मारेण विषवायुर् उत्सृष्टः उपलवर्षश् च; शुद्धावासकायिकाभिर् देवताभिस् ततो बोधिसत्वस्योपरि पर्णिकाकुटिर् अभिनिर्मिता; उपलवर्षेणापि विषवायुसमेतेन बोधिसत्वस्य न किञ्चित् कृतम् इति; मारः संलक्षयति: कियच् चिरं मया परिवार्य अवस्थातव्यम्; शब्दकण्तकानि ध्यानानि; बोधिवृक्षं स्फटिकमयम् अभिनिर्माय गच्छामि; तस्य पत्राणि नित्यं शब्दं करिष्यन्ति; तेनास्य

चित्तैकाग्रता न भविष्यति; इति विदित्वा बोधिवृक्षं स्फटिकमयम् अभिनिर्माय श्रोत्रावधानतत्परो ऽवस्थितः; बोधिपत्राणि (अ 385ब्) स्फटिकमयानि मुहुर् मुहुः स्वनितुम् आरब्धानि; बोधिसत्वश् शब्दकण्टकत्वाद् ध्यानानां चित्तैकाग्रतां नासादयति; शुद्धावासकायिका देवाः संलक्षयन्ति: बोधिसत्वः स्फटिकबोधिपत्रनिस्वनाच् चित्तैकाग्रतां नासादयति; उपायसंविधानं कर्तव्यम् इति; ततस् तैः पत्रं विधारितम्; तथापि मारबलं तिष्ठत्य् एव; शुद्धावासकायिका देवाः संलक्षयन्ति: अयं मारः पापीयांश् चिरं बोधिसत्वं विहेठयिष्यति; इति विदित्वा तन् मारबलं चक्रवाटस्योपरिष्टात् क्षिप्तम् इति

experiences of suernatural powers

तत्र बोधिसत्वो भगवान् उरुबिल्वायां विहरति; नद्या नैरञ्जनायास् तीरे बोधिमूले युक्तः सातत्ये नैपक्ये संबोधिपक्षेषु धर्मेषु भावनायोगम् अनुयुक्तो विहरति; स रात्र्या प्रथमे यामे रिद्धिविषयज्ञानसाक्षात्क्रियायाम् अभिज्ञायां चित्तम् अभिनिर्णमयति; सो ऽनेकविधम् ऋद्धिविषयं प्रत्यनुभवति; एको भूत्वा बहूधा भवति; बहुधा भूत्वा एको भवति; आविर्भावतिरोभावं ज्ञानदर्शनं प्रत्यनुभवति; तिरः कुड्यं तिरःशैलं तिरः प्राकारम् असज्जमानेन कायेन गच्छति, तद्यथा आकाशे; पृथिव्याम् उन्मज्जननिमज्जनं करोति तद्यथा उदके; उदके अभिन्नस्रोतो गच्छति; तद्यथा पृथिव्याम्, आकाशं पर्यंकेन क्रामति तद्यथा पक्षी शकुनिः; इमऊ वा पुनः सूर्याचन्द्रमसौ एवंमहर्धिकाव् एवंमहानुभावौ पाणिना आमार्ष्टि परिमार्ष्टि; यावत्, (sbv i 117) ब्रह्मलोकं कायेन वशे वर्तयति; भूयो मारः संलक्षयति: शब्दकण्टकानि ध्यानानि; यन्व् अहं दूरस्थ एव शब्दं कुर्याम् इति; तेन षट्त्रिंशद्भूतकोटिपरिवारेण महाभयभैरवशब्द उत्सृष्टः; बोधिसत्वेनापि तदावरनाय द्वादशयोजनानि कदलीवनं निर्मितं येनासौ शब्दः पराहतः श्रूयते; बोधिसत्वः संलक्षयति: यन्व् अहं दिव्यश्रोत्रज्ञानसाक्षात्क्रियायाम् अभिज्ञायं चित्तम् अभिनिर्णमयेयं, येन यान् शब्दान् आकाङ्क्षामि श्रोतुं तान् शृणोमि, दिव्यान् अपि मानुषान् अपि; इति विदित्वा दिव्यश्रोत्रज्ञानसाक्षात्क्रियायाम् अभिज्ञायां चित्तम् अभिनिर्णमयति; स दिव्येन श्रोत्रेण विशुद्धेनातिक्रान्तमानुषेण उभयान् शब्दान् शृणोति मानुषान् अप्य् अमानुषान् अपि, ये ऽपि दूरे, येऽप्य् अन्तिके

reasoning within, and enlightenment

ततो बोधिसत्वः संलक्षयति: षट्त्रिंशद्भूतकोटिपरिवारस्य <मारस्य> केन ममान्तिके चित्तं प्रदूषितं, केन नेति कथम् एतज् ज्ञायते इति; तस्यैतद् अभवत्: चेतःपर्यायज्ञानसाक्षात्क्रिययाभिज्ञया इति; स रात्र्या मध्यमे यामे चेतःपर्यायज्ञानसाक्षात्क्रियायाम् अभिज्ञायां चित्तम् अभिनिर्णमयति; परसत्वानां परपुद्गलानां वितर्कितं, विचारितं मनसा मानसं यथाभूतं प्रजानाति; सरागं चित्तं सरागं चित्तम् इति यथाभूतं प्रजानाति; विगतरागं चित्तं विगतरागं चित्तम् इति यथाभूतं प्रजानाति; सद्वेषं विगतद्वेषं, समोहं (अ 386अ) विगतमोहं, संक्षिप्तं विक्षिप्तं, लीनं प्रगृहीतम्, उद्धतम् अनुद्धतम्, अव्युपशान्तं व्युपशान्तम्, असमाहितं समाहितम्, अभावितं भावितम्, अविमुक्तं चित्तम्, अविमुक्तं चित्तम् इति यथाभूतं प्रजानाति; सविमुक्तं चित्तम् <सविमुक्तं चित्तम्> इति यथाभूतं प्रजानाति; तस्यैतद् अभवत्: एषां मारकिंकराणां को मे अन्यस्यां जातौ मातृसंबन्धं पितृसंबन्धः; को वा वधकः, प्रत्यर्थिकः, प्रत्यमित्र इति; कथम् एतज् ज्ञायत इति; तस्यैतद् अभवत्: पूर्वनिवासानुस्मृतिज्ञानसाक्षात्क्रियायाम् अभिज्ञयेति; स रात्र्या मध्यमे यामे पूर्वनिवासानुस्मृतिज्ञानसाक्षात्क्रियायाम् अभिज्ञायां चित्तम् अभिनिर्णमयति; सो ऽनेकविधं पूर्वनिवासं समनुस्मरति; तद्यथा एकाम् अपि जातिं, द्वे, तिस्रश्, चतस्रः, पञ्च, षट्, सप्त, अष्टौ, (sbv i 118) नव दश, विंशतिं, त्रिंशतं, चत्वारिंशतं, पञ्चाशतं, जातिसहस्रम् अपि, जातिशतान्य् अनेकान्य् अपि, जातिस्हस्राण्य् अनेकान्य् अपि, जातिशतसहस्राणि, संवर्तकल्पम् अपि, विवर्तकल्पम् अपि, संवर्तविवर्तकप्लम् अपि, अनेकान् अपि

संवर्तकल्पान्, अनेकान् अपि विवर्तकल्पान्, अनेकान् अपि संवर्तविवर्तकप्लान् समनुस्मरति; अमी नाम ते भवन्तः सत्वाः यत्राहम् आसम् एवंनामा, एवंजात्यः, एवंगोत्रः, एवमाहारः, एवं सुखदुःखं प्रतिसंवेदी, एवंदीर्घायुः, एवंचिरस्थितिकः, एवमायुःपर्यन्तः; सो ऽहं तस्मात् स्थानाच् च्युतः अमुत्रोपपन्नः तस्माद् अपि च्युतः अमुत्रोपपन्नः; तस्माद् अपि च्युत इहोपपन्न इति; साकारं सोद्देशम् अनेकविधं पूर्वनिवासं समनुस्मरति; तस्यैतद् अभवत्: एषां मारकिंकराणां के अपायगामिनः, के नेति; कथम् एतज् ज्ञायते? तस्यैतद् अभवत्: च्युत्युपपादज्ञानसाक्षात्क्रियायाम् अभिज्ञयेति; स रात्र्या मध्यमे यामे च्युत्युपपादज्ञानसाक्षात्क्रियायाम् अभिज्ञायां चित्तम् अभिनिर्णमयति; स दिव्येन चक्षुषा विशुद्धेनातिक्रान्तमानुष्यकेण सत्वान् पश्यति, च्यवमानान् अपि उपपद्यमानान् अपि, सुवर्णान् अपि, दुर्वर्णान् अपि, हीनान् अपि, प्रणीतान् अपि, सुगतिम् अपि गच्छतो, दुर्गतिम् अपि गच्छतो; यथाकर्मोपगान् सत्वान् यथाभूतान् प्रजानाति; अमी नाम ते भवन्तः सत्वाः कायदुश्चरितेन समन्वागता वाङ्मनोदुश्चरितेन समन्वागता आर्याणाम् अपवादका मिथ्यादृष्टयः; मिथ्यादृष्टिकर्मधर्मसमादानहेतोः तद्धेतुतत्प्रत्ययं कायस्य भेदात् परं मरणाद् अपायदुर्गतिविनिपातं नरकेषु प्रपद्यन्ते; अमी वा पुनर् भवन्तः सत्वाः कायसुचरितेन समन्वागता वाङ्मनस्सुचरितेन समन्वागतास् आर्याणाम् अनपवादकाः सम्यग्दृष्टयः; सम्यग्दृष्टिकर्मधर्मसमादानहेतोस् तद्धेतुतत्प्रत्ययं कायस्य भेदात् परं मरणात् सुगतौ स्वर्गलोके देवेषूपपद्यन्ते; तस्यैतद् अभवत्: अमी भवन्तः सत्वाः कामाश्रवेण भवाश्रवेणाविद्याश्रवेन (अ

386ब्) च संसारे संसरन्ति; तत् कामाश्रवो भवाश्रवो ऽविद्याश्रवश् च; यथा प्रहीयन्ते तत् कथं ज्ञायत इति; तस्यैतद् अभवत्: आश्रवक्षयज्ञानसाक्षात्क्रियायाम् अभिज्ञयेति-आस्रवक्षयज्ञानसाक्षात्क्रियायाम्-; च युक्तः सातत्ये नैपक्ये संबोधिपक्षेषु धर्मेषु भावनायोगम् अनुयुक्तो विहरन्न् आस्रवक्षयज्ञानसाक्षात्क्रियायाम् अभिज्ञायां चित्तम् अभिनिर्णमयति; स इदं दुःखम् आर्यसत्यम् इति यथाभूतं प्रजानाति; अयं दुःखसमुदयः, अयं दुःखनिरोधः, अयं दुःखनिरोधगामिनी प्रतिपद् आर्यसत्यम् इति यथाभुतं प्रजानाति; तस्यैवं जानत एवं (sbv i 119) पश्यतः कामाश्रवाच् चित्तं विमुच्यते; भवाश्रवाद् चित्तं विमुच्यते; <अविद्याश्रवाच् चित्तं विमुच्यते>; विमुक्तस्य विमुक्तम् एव ज्ञानदर्शनं भवति, क्षीना मे जातिर्, उषितं ब्रह्मचर्यं, कृतं करणीयं, नापरम् अस्माद् भवं प्रजानामीति; इति तत्राभिसंबुद्धबोधिर् भगवान् कृतकृत्यः, कृतकरणीयः, तेजोधातुं समापन्नः

māra's defeat, and mischievous rumour

यदा बोधिसत्वेन षट्त्रिंशाद्भूतकोटिपरिवारं मारं मैत्रेणास्त्रेणाभिनिर्जित्य अनुत्तरं ज्ञानम् अधिगतं, तदा मारस्य पापीयसो हस्ताद् धनुः स्रस्तो, ध्वजः पतितः, भवनं च कम्पितम्; ततो मारः पापीयान् षट्त्रिंशद्भूतकोटिपरिवारो दुःखी, दुर्मना, विप्रतीसारी, तत्रैवान्तर्हितः; मारकायिकाभिर् देवताभिः कपिलवस्तुनगरे आरोचितम्: शाक्यमुनिर् बोधिसत्वो दुष्करचर्यां चरित्वा वज्रासनम् अभिरुह्य तृणसंस्तरे कालगतः इति; यत् श्रुत्वा राजा शुद्धोदनः अन्तःपुरकुमारामात्यगणसहीयो महता दुःखदौर्मनस्येन सन्तप्तः, कपिलवास्तवश् च जनकायः; गोपिका मृगजा यशोधरा च बोधिसत्वगुणानुस्मरणात् मूर्छिताः पृथिव्यां निपतिताः; जलावसेकप्रत्यागतप्राणास् ता अन्तःपुरजनेन सान्त्व्यमाना अश्रुपर्याकुलेक्षणा मुहुर् बाष्परोधगद्गदस्वरा विप्रलपन्त्यो ऽवस्थिताः; तां विप्रतिपत्तिं दृष्ट्वा बुद्धाभिप्रसन्नाभिर् देवताभिर् आरोचितम्: न शाक्यमुनिर् बोधिसत्वः कालगतः, अपि तु तेनानुत्तरं ज्ञानम् अधिगतम् इति

राहुल अन्द् आनन्द

यत् श्रुत्वा राजा शुद्धोदनः सपरिवारः कपिलवास्तवश् च जनकायः परं हर्षम् उपागताः; अनुत्तरज्ञानाधिगमे च भगवतः यशोधरायः पुत्रो जातः; अमृतोदनस्य च पुत्रो जातः; राहुणा चन्द्रो ग्रस्तः; अथ राजा शुद्धोदनः तां संपत्तिं दृष्ट्वा हृष्टतुष्टप्रमुदित उदग्रप्रीतिसौमनस्यजातः संवृत्तः; तेन कपिलवस्तुनगरम् अपगतपाषणशर्करकठल्लं व्यवस्थापितम्, चन्दनवारिपरिषिक्तं सुरभिधूपस्फटिकोपनिबद्धम् आमुक्तपट्टदामकलापम् उच्छृतध्वजपताकं नानापुष्पावकीर्णं रमणीयम्; (sbv i 119) चतुर्षु नगरद्वारेषु दानशाला मापिता मध्ये च शृण्गाटकस्य; ततः पूर्वनगरद्वारे श्रमणब्राह्मणचरकपरिव्राजकादीनवानाथकृपणवनीपकयाचनकेभ्यो दानानि दत्तानि; दक्षिणे पश्चिमे उत्तरे मध्ये शृङ्गाटकस्य (अ 387अ) दानानि दीयन्ते; पुण्याणि क्रियन्ते; यशोधरायाः पुत्रस्य नाम व्यवस्थाप्यते; अन्तःपुरजनः कथयति: अस्य जन्मनि राहुणा चन्द्रो ग्रस्तः; तस्माद् भवतु दारकस्य राहुल इति नामेति; अमृतोदनस्यापि तथैव दानानि दत्वा पुण्यानि कृत्वा पुत्रस्य नामधेयं व्यवस्थाप्यते; किं भवतु दारकस्य नामेति: ज्ञातय ऊचुः: यस्माद् अस्य जन्मनि सर्वं नगरम् आनन्दितं, तस्माद् भवतु दारकस्य आनन्द इति नामेति; राजा शुद्धोदनः कथयति: यो ऽयं यशोधरायाः पुत्रो जातः नैष शाक्यमुनेः पुत्रः; इति श्रुत्वा यशोधरा व्यथिता; ततस् तया बोधिसत्वस्य व्यायामशिलायाम् आरोप्य क्रीडापुष्करिण्यास् तीरे स्थितया सत्योपयाचनं कृतम्: यद्य् अयं बोधिसत्वेन जातस् तथास्यां पुष्करिण्यां सह शिलया प्लवेत; नो चेन् निमज्जेत; इत्युक्त्वा उदके प्रक्षिप्तः; स तूलपिचुवत् सह

शिलया प्लवितुम् आरब्धः; राजा शुद्धोदनस् तद् अत्यद्भुतं <श्रुत्वा> महाजनकायपरिवृतो बोधिसत्वस्य क्रिडापुष्करिणीगतो यावत् पश्यति राहुलभद्रं बोधिसत्वस्य शिलायां निषण्णं तूलपिचुवद् उदके प्लवमानम्; दृष्ट्वा च पुनः हृष्टतुष्टप्रमुदित उदग्रप्रीतिसौमनस्यजातः सहसा पुष्करिणीम् अवतीर्य राहुलब्रद्रं कुमारम् अंशेनादाय व्युत्थितः यदा भगवता षट्त्रिंशद्भूतकोटिपरिवारं मारं मैत्रेणास्त्रेणाभिनिर्जित्य अनुत्तरं ज्ञानम् अधिगतम्, अत्यर्थं तस्मिन् समये महापृथिवीचालो ऽभूत्; सर्वश् चायं लोक उदारेणावभासेन स्फुटो ऽभूत्; या अपि ता लोकस्य लोकान्तरिका अन्धास् तमसो ऽन्धकारतमिस्रा यत्रेमौ सूर्याचन्द्रमसाव् एवंमहर्धिकाव् एवंमहानुभावाव् आभया आभां न प्रत्यनुभवतः, ता अपि तस्मिन् समये उदारेणावभासेन स्फुटा अभूवन्; तत्र ये सत्वा उपपन्नास् <ते स्वकम् अपि बाहुं प्रगृहीतं न पश्यन्ति>; ते तया आभया (sbv i 121) अन्योन्यं सत्वान् दृष्ट्वा संजानते; अन्ये ऽपीह भवन्तः सत्वा उपपन्ना अन्ये ऽपीह भवन्तः सत्वा उपपन्ना इति; अन्तरोद्दानम्:

चातुष्पर्षिकं दहरः पितापुत्रसमागमः / शाक्यानां चैव प्रव्रज्या गङ्गापाल नमो ऽस्तु ते //

two devatas

अथ द्वयोर् ब्रह्मकायिकयोर् देवतयोर् <ब्रह्मलोके निवासिनोर्> एतद् अभवत्: अयं बुद्धो भगवान् उरुबिल्वायां विहरति; नद्या नैरञ्जनायास् तीरे बोधिमूले अचिराभिसंबुद्धबोधिस् तेजोधातुसमापन्नः सप्ताहम् एकपर्यङ्केन अतिनामयति; न चैनं कश्चित् पिण्डकेन प्रतिपादयति; यन् नु वयम् एनं गत्वा प्रत्येकप्रत्येकं गाथाभिर् अभिष्टुयाम इति; अथ द्वे ब्रह्मकायिके देवते तद्यथा बलवान् पुरुषः संमिञ्जितं वा बाहुं प्रसारयेत्, प्रसारितं वा संमिञ्जयेत्, एवम् एव द्वे ब्रह्मकायिके देवते ब्रह्मलोके अन्तर्हिते भगवतः पुरतः प्रत्यष्ठाताम्; एकान्तस्थिते द्वे ब्रह्मकायिके देवते; एका गाथां भाषते: उत्तिष्ठ विजितसंग्राम सार्थवाहानिघ विचर लोके / देशय सुगत वरधर्मं भविष्यन्ति (अ 387ब्) धर्मरत्नस्याज्ञातारः //

द्वितिया गाथं भाषते उत्तिष्ठ विजितसङ्ग्राम पर्णलोपानिघ विचर लोके / चित्तं हि ते सुविशुद्धं पञ्चदश्यां शशीव परिपूर्णः // (sbv i 122) इत्युक्त्वा तत्रैवान्तर्हिते; अथ भगवांस् तस्मात् समाधेर् व्युत्थाय तस्यां वेलायां गाथां भाषते: यच् च कामसुखं लोके यच् चापि दिविजं सुखम् / तृष्णाक्षयसुखस्यैतत् कलां नार्हति षोडशीम् //

निक्षिप्य हि गुरुं भारं नाददीत परं पुनः / भारस्य दुःखम् आदानं भारनिकिषेपणं सुखम् //

सर्वां तृष्णां विप्रहाय सर्वसंस्कारसंक्षयात् / सर्वभावपरिज्ञानान् न गच्छति पुनर् भवम् //

त्रपुष अन्द् भल्लिक

विमुक्तिप्रीतिसुखसंवेदी बुद्धो भगवान् सप्ताहम् एकपर्यङ्केन अतिनामयति; न चैनं कश्चित् पिण्डकेन प्रतिपादयति; तेन खलु समयेन त्रपुषभल्लिकौ वणिजौ पञ्चमात्रैः शकटशतैः सार्धम् अनुव्यवहरमाणौ, तस्मिन्न् एव मार्गे अध्वप्रतिपन्नाव् अभूताम्; अथ त्रपुषभल्लिकयोर् वणिजोर् अन्यतमायाः पुराणमित्रामात्यज्ञातिसालोहितायाः देवतायाः एतद् अभवत्: अयं बुद्धो भगवान् उरुबिल्वायां विहरति नद्या नैरञ्जनायास् तीरे बोधिमूले अचिराभिसंबुद्धो विमुक्तिप्रीतिसुखप्रतिसंवेदी सप्ताहम् एकपर्यङ्केनातिनामयति; न चैनं कशित् पिण्डकेन प्रतिपादयति; तं त्रपुषभल्लिकौ वणिजौ तत्प्रथमतः प्रतिपादयेताम्; तत् स्यात् त्रपुषभल्लिकयोर् वणिजोर् दीर्घरात्रम् अर्थाय हिताय सुखाय; यन्व् अहं स्वयम् एवौत्सुक्यम् आपदयेय यदुत भगवतः पिण्डपातप्रदानस्य हेतोर् इति; अथ सा देवता सर्वं कर्वटकम् उदारेणावभासेन स्फारित्वा त्रपुषभल्लिकौ वणिजाव् इदम् अवोचत्: वणिजौ वणिजौ अयं बुद्धो भगवान् उरिबिल्वायां विहरति नद्या नैरञ्जनायास् तीरे बोधिमूले अचिराभिसंबुद्धो विमुक्तिप्रीतिसुखप्रतिसंवेदी; सप्ताहम् एकपर्यङ्केनातिनामयति; नैनं कश्चित् पिण्डकेन प्रतिपादयति; तं युवां तत्प्रथमतः पिण्डकेन प्रतिपादयतम्; तद् युवयोर् भविष्यति दीर्घरात्रम् अर्थाय हिताय सुखाय; इत्युक्त्वा सा देवता तत्रैवान्तर्हिता; (sbv i 123) अथ त्रपुषभल्लिकयोर् वणिजोर् एतद् अभवत्: न बतावरो बुद्धो भविष्यति; नावरं धर्माख्यानम्; यत्रेदानीं देवता अपि तस्य भगवत औत्सुक्यम् आपद्यन्ते यदुत पिण्डपातप्रतिपादनहेतोः; इति विदित्वा प्रभूतं मधु च मन्थाश् च आदाय

येन भगवांस् तेनोपसङ्क्रान्तौ; उपसङ्क्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते ऽस्थाताम्; एकान्तस्थितौ त्रपुषभल्लिकौ वणिजाव् इदम् अवोचताम्: इहावाभ्यां भदन्त भगवन्तम् उद्दिश्य प्रभूतं मधु च मन्थाश् च आनीताः; तान् भगवान् प्रतिगृह्णात्व् अनुकम्पाम् उपादाय इति; अथ भगवत एतद् अभवत्: न मम प्रतिरूपं स्याद् यद् अहं पाणौ पिण्डपातं प्रतिगृह्णीयां, तद्यथा अन्यतीर्थिकः; यन्व् अहं समन्वाहरेयम् कुत्र पूर्वकैः सम्यक्संबुद्धैः पिण्डपातः प्रतिगृहीतो हिताय प्राणिनाम् इति; देवता भगवत आरोचयन्ति: पात्रे भदन्त पूर्वकैः सम्यक्संबुद्धैः पिण्डपातः प्रतिगृहीतो हिताय प्राणिनाम् इति; भगवतो ऽपि समन्वाहृत्य ज्ञानदर्शनं प्रवर्तते पात्रे पूर्वकैः सम्यक्संबुद्धैः पिण्डपातः प्रतिगृहीतो हिताय प्राणिनाम् इति; तत्र भगवतः पात्रेण पात्रकार्यम् उत्पन्नम्; अथ चत्वारो महाराजा भगवतः पात्रेण पात्रकार्यम् उत्पन्नम् इति विदित्वा अन्यतमस्मात् पाषाणपर्वताच् चत्वारि शैलमयानि पात्राण्य् अमनुष्यकृतान्य् अमनुष्यनिष्ठितान्य् अच्छानि शुचीनि निष्प्रतिगन्धान्य् आदाय, येन भगवांस् तेनोपसङ्क्रान्ताः; उपसङ्क्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते तस्थुः; एकान्तस्थिताश् चत्वारो महाराजा भगवन्तम् इदम् अवोचन्: इह अस्माभिर् भदन्त भगवतः पात्रेण पात्रकार्यम् उत्पन्नं विदित्वा अन्यतममात् पाषाणपर्वताच् चत्वारि शैलमयानि पात्राण्य् अमनुष्यकृतान्य् अमनुष्यनिष्ठितानि अच्छानि शुचीनि निष्प्रतिगन्धानि आनीतानि; तानि भगवान् प्रतिगृह्णात्व् अनुकम्पाम् उपादाय इति; अथ भगवत एतद् अभवत्: सचेद् अहम् एकस्य महाराजस्यान्तिकाद् एकं पात्रं प्रतिग्रहीष्यामि, त्रयाणां

भविष्यति चेतसो ऽन्यथात्वम्; सचेद् द्वयोर्, द्वयोर् भविष्यति चेतसो ऽन्यथात्वम्; सचेत् त्रयाणाम् एकस्य भविष्यति चेतसो (sbv i 124) ऽन्यथात्वम्; यन्व् अहं चतुर्णां महाराजानाम् अन्तिकाच् चत्वारि पात्राणि प्रतिगृह्य एकं पात्रम् अधिमुच्येयम् इति; अथ भगवांश् चतुर्णां महाराजानाम् अन्तिकाच् चत्वारि पत्राणि प्रतिगृह्य एकं पात्रम् अधिमुक्तवान् इति; तत्र भगवता त्रपुषभल्लिकयोर् वणिजोर् अन्तिकात् पिण्डपातः प्रतिगृहीतो हिताय प्राणिनाम् इति; तत्र भगवान् त्रपुषभल्लिकौ वणिजाव् इदम् अवोचत्: एतौ युवां वणिजौ बुद्धं शरणं गच्छताम्; धर्मं शरणं गच्छताम्; यो ऽप्य् असौ भविष्यत्य् अनागते ऽध्वनि सङ्घो नाम तम् अपि शरणं गच्छताम्; एताव् आवां भदन्त बुद्धं शरणं गच्छावह्, धर्मं शरणं गच्छावः, यो ऽप्य् असौ भविष्यत्य् अनागते ऽध्वनि सङ्घो नाम तम् अपि शरणं गच्छावः; अथ भगवांस् त्रपुष्भल्लिकयोर् वणिजोस् तद् दानम् अनया अभ्यनुमोदनया अभ्यनुमोदते यदर्थं दीयते दानं तदर्थाय भविष्यति /

सुखार्थं दीयते दानं तत् सुखाय भविष्यति //

सुखो विपाकः पुण्यानाम् अभिप्रायः च सिद्ध्यति / क्षिप्रं च परमां शान्तिं निर्वृतिं चाधिगच्छति //

परतो ये उपसर्गा देवता मारकायिकाः / न शक्नुवन्त्य् अन्तरायं कृतपुण्यस्य कर्तु वै //

सचेद् हि स व्यायमते आर्यप्रज्ञया त्यागवान् / दुःखस्यान्तक्रियायै स्पर्शो (अ 388ब्) भवति विपश्यतः //

अथ त्रपुषभल्लिकौ वणिजौ भगवतो भाषितम् अभिनन्द्य अनुमोद्य भगवतः पादौ शिरसा वन्दित्वा भगवतो ऽन्तिकात् प्रक्रान्तौ (sbv i 125)

the buddha's ailment, and māra's mischief again

अथ भगवान् त्रपुषभल्लिकयोर् वणिजोर् अन्तिकात् पिण्डपातम् आदाय येन नदी नैरञ्जना तेनोपसङ्क्रान्तः; उपसङ्क्रम्य नद्या नैरञ्जनायास् तिरे निषद्य भक्तकृत्यम् अकार्षीत्; तत्र मध्व् अपि वातिकं, मन्था अपि वातिकाः, तेन भगवतो वाताबाधिकं ग्लान्यम् उत्पन्नम्; अथ मारः पापीयान् भगवतो वाताबाधिकं ग्लान्यम् उत्पन्नं विदित्वा, येन भगवांस् तेनोपसङ्क्रान्तः; उपसङ्क्रम्य भगवन्तम् इदम् अवोचत्: परिनिर्वातु भगवान्, परिनिर्वाणकालसमय इति; अथ भगवत एतद् अभवत्: मारो बतायं पापीयान् उपसङ्क्रान्तो यदुत व्याक्षेपकर्मणि; इति विदित्वा मारं पापीयांसम् इदम् अवोचत्: न तावत् पापीयन् परिनिर्वास्यामि, यावन् न मे श्रावकाः पण्डिता भविष्यन्ति व्यक्ता मेधाविनः, अलम् उत्पन्नोत्पन्नानां परप्रवादकानां सह धर्मेण निग्रहीतारः अलं स्वस्य वादस्य पर्यवदापयितारः भिक्षवो भिक्षुण्यः उपासका उपासिकाः, वैस्तारिकं च मे ब्रह्मचर्यं भविष्यति बाहुजन्यं पृथुभूतं यावद् देवमनुष्येभः सम्यक्सुप्रकाशितम् इति; अथ मारस्य पापीयस एतद् अभवत्: न परिनिर्वास्यति बत श्रमणो गौतमः; इति विदित्वा दुःखी दुर्मना विप्रतीसारी तत्रैवान्तर्हितः

हरीतकी ब्रोउघ्त् ब्य् शक्र

अथ शक्रो देवेन्द्रो भगवतो वाताबाधिकं ग्लान्यम् उत्पन्नं विदित्वा, यस्या जम्ब्वा नाम्ना जम्बूद्वीपः प्रज्ञायते तस्य नातिदूरे महद् धरीतकीवनम्, ततो वर्णगन्धरसोपेता हरीतकीर् आदाय येन भगवांस् तेनोपसङ्क्रान्तः; उपसङ्क्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते अस्थात्: एकान्तस्थितः शक्रो देवेन्द्रो भगवन्तम् इदम् अवोचत्: इह मया भदन्त भगवतो वाताबाधिकं ग्लान्यम् उत्पन्नं विदित्वा यस्या जम्ब्वा नाम्ना जम्बूद्वीपः प्रज्ञायते तस्य नातिदूरे महद् धरीतकीवनं ततो मया वर्णगन्धरसोपेता (sbv i 126) हरीतक्य आनीताः; ता भगवान् परिभुङ्क्ताम्; भगवता परिभुक्ता वातं चानुलोमयिष्यन्ति; वाताबाधिकं ग्लान्यं व्युपशमयिष्यन्तीति; ता भगवान् परिभुक्तवान्; भगवता परिभुक्ता वातं चानुलोमितम्; वाताबाधिकं ग्लान्यं व्युपशान्तम्; तेन भगवतः क्षेमणीयतरं चाभूद् यापनीयतरं च

मुचिलिन्द नागराज

अथ भगवान् यथासुखं रम्यं बोधिमूले विहृत्य, येन मुचिलिन्दस्य नागराजस्य भवनं तेनोपसङ्क्रान्तः; उपसङ्क्रम्य अन्यतरद् वृक्षमूलं निश्रित्य निषण्णः पर्यङ्कम् आभुज्य ऋजुं कायं प्रणिधाय प्रतिमुखं स्मृतिम् उपस्थाप्य; तेन खलु समयेन मुचिलिन्दस्य नागराजस्य भवने साप्ताहिक अकालमेघः समुपागतः; अथ मुचिलिन्दो नागराजः साप्ताहिकम् अकालमेघं समुपागतं विदित्वा भवनाद् अभ्युद्गम्य सप्तकृत्वः काये कायं वेष्टयित्वा, उपरि महान्तं फणं कृत्वा अस्थात्; मा (अ 389अ) भगवत इमं सप्ताहं शीतं भविष्यति; मा उष्णं मा दंशमशकवातातपसरीसृपसंस्पर्शाः कायं परितापयिष्यन्ति; मुचिलिन्दो नागराजो तं विगतं साप्ताहिकं विदित्वा भगवतः कायेन कायम् उद्वेष्ट्य अङ्गदकुण्डलविचित्रमाल्याभरणानुलेपनो भूत्वा येन भगवांस् तेनाञ्जलिं प्रणमय्य भगवन्तम् इदम् अवोचत्: मा भगवत इमं सप्ताहं शीतम् अभूत्, मा उष्णं, मा दंशमशकवातातपसरीसृपसंस्पर्शाः कायं परितापितवन्तः; अथ भगवांस् तस्यां वेलायां गाथां भाषते सुखो विवेकस् तुष्टस्य श्रुतधर्मस्य पश्यतः / अव्याबाधसुखं लोके प्राणिभूतेषु संयमः / सुखं विरागता लोके कामानां समतिक्रमः / अस्मिमानस्य यो विनय एतद् वै परमं सुखम् // (sbv i 127)

cognizance of pratītyasamutpāda

अथ भगवान् यथाभिरम्यं मुचिलिन्दस्य नागराजस्य भवने विहृत्य, येन बोधिमूलं तेनोपसङ्क्रान्तः; उपसङ्क्रम्य प्रज्ञप्त एव तृणसंस्तरके निषण्णः, पर्यङ्कम् आभुज्य ऋजुं कायं प्रणिधाय प्रतिमुखं स्मृतिम् उपस्थाप्य सप्ताहम् एकपर्यङ्केनातिनामयति, इदम् एवं द्वादशाङ्गं प्रतीत्यसमुत्पादम् अनुलोमप्रतिलोमं व्यवलोकयन्, यदुत अस्मिन् सति इदं भवति; अस्योत्पादाद् इदम् उत्पद्यते; यदुताविद्याप्रत्ययाः संस्काराः; संस्कारप्रत्ययं विज्ञानम्; विज्ञानप्रत्ययं नामरूपम्; नामरूपप्रत्ययं षडायतनम्; षडायतनप्रत्ययः स्पर्शः; स्पर्शप्रत्यया वेदना; वेदनाप्रत्यया तृष्णा; तृष्णाप्रत्ययम् उपादानम्; उपादानप्रत्ययो भवः; भवप्रत्यया जातिः; जातिप्रत्यया जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासा अमी भवन्ति; एवम् अस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो भवति; यदुत अस्मिन्न् असति इदं न भवति; अस्य निरोधाद् इदं निरुद्ध्यते; यदुत अविद्यानिरोधात् संस्कारनिरोधः; संस्कारनिरोधाद् विज्ञाननिरोधः; विज्ञाननिरोधान् नामरूपनिरोधः; नामरूपनिरोधात् षडायतननिरोधः; षडायतननिरोधात् स्पर्शनिरोधः; स्पर्शनिरोधाद् वेदनानिरोधः; वेदनानिरोधात् तृष्णानिरोधः; तृष्णानिरोधाद् उपादाननिरोधः; उपादाननिरोधात् भवनिरोधः; भवनिरोधाज् जातिनिरोधः; जातिनिरोधाज् जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासा निरुद्ध्यन्ते; एवम् अस्य केवलस्य महतः दुःखस्कन्धस्य निरोधो भवति अथ भगवांस् तस्यैव सप्ताहस्यात्ययात् तस्मात् समाधेर् व्युत्थाय तस्यां वेलायां गाथा भाषते यदा इमे प्रादुर्भवन्ति धर्मा आतापिनो ध्यायतो ब्राह्मणस्य / अथास्य काङ्क्षा व्यपयान्ति सर्वा यदा प्रजानाति सहेतुधर्मम् //

यदा इमे प्रादुर्भवन्ति धर्मा आतापिनो ध्यायतो ब्राह्मणस्य / (sbv i 128) अथास्य काङ्क्षा व्यपयान्ति सर्वा यदा प्रजानाति सहेतुदुःकम् //

यदा इमे प्रादुर्भवन्ति धर्मा आतापिनो ध्यायतो ब्राह्मणस्य / अथास्य काङ्क्षा व्यपयान्ति सर्वा यदा क्षयं वेदनानाम् उपैति //

<यदा इमे प्रादुर्भवन्ति धर्मा / आतापिनो ध्यायतो ब्राह्मणस्य / अथास्य काङ्क्षा व्यपयान्ति सर्वा यदा क्षयं प्रत्ययानाम् उपैति //

यदा इमे प्रादुर्भवन्ति धर्मा आतापिनो ध्यायतो ब्राह्मणस्य / अथास्य काङ्क्षा व्यपयान्ति सर्वा> यदा क्षयम् आस्रवाणाम् उपैति //

यदा इमे (अ 389ब्) प्रादुर्भवन्ति धर्मा आतापिनो ध्यायतो ब्राह्मणस्य / अवभासयंस् तिष्ठति सर्वलोकं सूर्यो यथैवाभ्युदितो ऽन्तरिक्षे //

यदा इमे प्रादुर्भवन्ति धर्मा आतापिनो ध्यायतो ब्राह्मणस्य / विधूपयंस् तिष्ठति मारसैन्यं बुद्धो हि संयोजनविप्रमुक्तः //

अथ भगवत एतद् अभवत्: अधिगतो मे धर्मो गम्भीरो गम्भीरावभासो दुर्दृशो दुरवबोधः; अतर्क्यो ऽतर्क्यावचरः सूक्ष्मो निपुणपण्डितविज्ञवेदनीयः; तं चेद् अहं परेषाम् आरोचयेयम्; तं च परे न विजानीयुः; स मम स्याद् विघातः; स्याद् भ्रमः; चेतसो ऽनुदय एव; यन्व् अहम् एकाकी अरण्ये प्रवणे दृष्टधर्मसुखविहारयोगम् अनुयुक्तो विहरेयम् इति; तत्र भगवत अल्पोत्सुकविहारतायां चित्तं क्रामति, न धर्मदेशनायाम्; अथ ब्रह्मणः सभापतेर् एतद् अभवत्; विनश्यति बतायं लोकः; प्रणश्यति बतायं लोकः, यत्रेदानीं कदाचित् कर्हिचित् तथागता अर्हन्तः सम्यक्संबुद्धा (sbv i 129) लोके उत्पद्यन्ते, तद्यथा उदुम्बरपुष्पम्; तस्य चाद्य भगवत अल्पोत्सुकविहारतायां चित्तं क्रामति, न धर्मदेशनायाम्; यन्व् अहम् एनं गत्वा अध्येशयेयम्; अथ ब्रह्मा सभापतिस्, तद्यथा बलवान् पुरुषः संमिञ्जितं वा बाहुं प्रसारयेत्, प्रसारितं वा संमिञ्जयेत्, एवम् एव ब्रह्मा सभापतिर् ब्रह्मलोके अन्तर्हितः; स भगवतः पुरस्तात् प्रत्यस्थात्; अथ ब्रह्मा सभापतिस् तस्यां वेलायां गाथां भाषते प्रादुर्बभूव मगधेषु पूर्वं धर्मो ह्य् अशुद्धः समलानुबद्धः / अपावृणीष्व अमृतस्य द्वारं वदस्व धर्मं विरजोनुबद्धम् //

भगवान् अह; कृच्छ्रेण मे अधिगतो ऽखिलो ब्रह्मन् प्रदाल्य वै / भवरागपरीत्तैर् हि नायं धर्मः सुसंबुद्धः //

प्रतिस्रोतोनुगामिनं मार्गं गम्भीरं अतिदुर्दृशं / न द्रक्ष्यन्ति रागारक्तास् तमस्कन्धेन नीवृताः //

brahma's request for dharmadeśanā

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.