Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luật tạng
सङ्घभेदवस्तु
- Thông tin
- GRETIL — R. Gnoli with the assistance of T. Venkatacharya: The Gilgit Manuscript of the Saṅghabhedavastu, Being the 17th and Last Section of the Vinaya of the Mūlasarvāstivādin, Roma 1977-78 (Serie Orientale Roma, 49).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
यदा शाक्यमुनिर् बोधिसत्वो जातः तदा चतुर्णां राज्ञां पुत्रा जाताः, श्रावस्त्याम् अराडब्रह्मदत्तस्य पुत्रो जातः; अराडब्रह्मदत्तस्यैतद् अभवत्: मम पुत्रस्य जन्मनि प्रसन्नः प्रसन्न इव जनपदः ख्याति; तस्माद् भवत्व् अस्य प्रसेनजित् इति नाम, राजगृहे नगरे महापद्मस्य राज्ञः पुत्रो जातः; तस्यैतद् अभवत् मम पुत्रस्य जन्मनि आदित्यबिम्बेनेवोदयता लोको ऽवभासितः; बिम्बायाश् च पुत्रः; भवत्व् अस्य बिम्बिसार इति नाम; कौशांब्यां शतानीकस्य राज्ञः पुत्रो जातः; तस्यैतद् अभवत्: मम पुत्रस्य जन्मनि (अ 364अ) आदित्येनेवोदयता लोको ऽवभासितः; भवत्व् अस्योदयन इति नाम; उज्जयन्यां नगर्याम् अनन्तनेमिनो राज्ञः पुत्रो जातः; अनन्तनेमिनो राज्ञ एतद् अभवत् मम पुत्रस्य जन्मनि प्रद्योतेनेव लोको ऽवभासितः; भवत्व् अस्य प्रद्योत इति नाम; तच् च नैवम्; अपि सर्वं तद् बोधिसत्वानुभावात्.
असित, नालद अन्द् थे यक्ष शाक्यवर्धन
किष्किन्धे पर्वते असितो नाम रिषिः प्रतिवसति संवर्तनीयकुशलो विवर्तनीयकुशलश् च तस्य नालदो नाम भागिनेयः; स तस्य कालेन कालं संवर्तनीयविवर्तनीयं कथयति; स तस्य सकाशे प्रव्रजितः; बोधिसत्वस्य (sbv i 47) भगवतो जन्मनि सर्वलोक उदारेणावभासेन स्फुटो ऽभूत्; तेन खलु समयेन नालदो गुहां प्रविश्य ध्यायति; स तम् अवभासं दृष्ट्वा असितम् उवाच; उपाध्याय उपाध्याय उत्पद्यन्ते हि किं सर्वे युगपत् भास्करा इह / तथा हि सगुहा शैला दीप्ता इव गभस्तिभिः //
असितस् त्व् अब्रवीत् तीक्ष्णा भनोः शीता त्व् इयं प्रभा / तद् अस्मिन् प्रविशत्य् आभिर् नूनम् एषा मुनिप्रभा //
निष्क्रामति ध्रुवं कुक्षेः बोधिसत्वो महाद्युतिः / इयं निष्क्रामतस् तस्य माहासत्वस्य निर्मला / प्रभा काञ्चनसङ्काशा लोकेषु विसृता त्रिषु //
नालदः कथयति: उपाध्याय गच्छामो बोधिसत्वं पश्यामः; स कथयति: वत्स इदानीं बोधिसत्वो महेशाख्यमहेशाख्याभिर् देवताभिर् आकीर्णो विहरति; स्थानम् एतद् विद्यते यद् वयम् अवकाशं न लप्स्यामहे; यदा भगवान् कपिलवस्तु प्रवेशितो भवति, नाम चास्य व्यवस्थापितम्, तदा वयं दर्शनायोपसङ्क्रमिश्याम इति; यम् एव दिवसं बोधिसत्वो भगवान् जातः तम् एव दिवसं राज्ञः शुद्धोदनस्य छन्दकप्रमुखानि पञ्चोपस्थायकशतानि जातानि; च्छन्दिकाप्रमुखानि पञ्चोपस्थायिकशतानि <जातानि>; पञ्चहस्तिनीशतानि प्रसूतानि; पञ्चवडवाशतानि पञ्चभिर् निधिशतैर् मुखान्य् उपदर्शितानि; प्रातिसीमैश् च कोट्टराजभिः करप्रत्यया उपनिबद्धाः
names of the bodhisatva
अमात्यै राज्ञे शुद्धोदनाय यथावृत्तं समाख्यातम्; राजा संलक्षयति: मम पुत्रस्य जन्मनि सर्वार्थाः सर्वकर्मान्ताश् च परिपूर्णाः; भवतु कुमारस्य सर्वार्थसिद्ध इति नाम; तत्र बोधिसत्वस्येदं प्रथमं नामधेयं व्यवस्थापितं यदुत सर्वार्थसिद्ध (sbv i 48) इति; कपिलवस्तुनि नगरे शाक्यवर्धनो नाम यक्षो नैवासिकः; आचरितं शाक्यानां, यस्य कस्यचित् छाक्यस्य पुत्रो वा जाते दुहिता वा स शाक्यवर्धनस्य पादाभिवन्दको नीयते; राज्ञा पौरुषेयाणाम् आज्ञा दत्ता: गच्छत भवन्तः कुमारं शाक्यवर्धनस्य यक्षस्य पादयोर् निपत्य पातयत इति; एवं देव इत्य् अमात्या राज्ञाः शुद्धोदनस्य प्रतिश्रुत्य, बोधिसत्वं चतूरत्नमयां शिबिकाम् आरोप्य कपिलवस्तुनगरं प्रवेशयितुम् आरब्धाः; कापिलवास्तवाः शाक्याश् चण्डा रभसाः कर्कशाः साहसिकाश् च; ते बोधिसत्वस्य प्रविशतो मुनय इव स्थिताः; राजा शुद्धोदनः संलक्षयति: इमे कापिलवास्तवाः (अ 364ब्) शाक्याश् चण्डा रभसाः कर्कशाश् च कुमारास्य प्रविशतो मुनय इवावस्थिताः; भवतु कुमारस्य शाक्यमुनिर् इति नामेति; तत्र बोहिसत्वस्य द्वितीयं नाम व्यवस्थापितं यदुत शाक्यमुनिर् इति; बोधिसत्वः शायवर्धनस्य यक्षय भवनसस्मीपं नीतः; अद्राक्षीच् छाक्यवर्धनो यक्षो बोधिसत्वं भवनसमीपम् आगतं; दृष्ट्वा च पुनर् भवनान् निर्गम्य सर्वकायेन बोधिसत्वस्य पादयोर् निपतितः; जनकायेन राज्ञा शुद्धोदनाय निवेदितम्: देव शाक्यवर्धन एव यक्षो बोधिसत्वस्य पादयोर् निपतितः इति; श्रुत्वा च राजा कथयति: भवन्तो देवा अपि कुमारस्य पादयोर् निपतन्ति; देवानाम् अप्य् अयं देवः; तस्मात् भवतु कुमारस्य देवातिदेव इति
नाम इति; तत्र बोधिसत्वस्य तृतीयं नामधेयं व्यवस्थापितं यदुत देवातिदेव इति; सांप्रतजातो बोधिसत्वः मातापितृभ्यां धात्र्यै दत्तः: अयं ते धात्रि कुमारः कालेन कालम् उद्वर्तयितव्यः, कालेन कालं स्नपयितव्यः, कालेन कालं भोजयितव्यः, कालेन कालं सम्यक् सुखेन परिहर्तव्यः इति; तम् एनं धात्री आत्तमनात्तमना उभाभ्यां पाणिभ्यां प्रतिगृह्य, कालेन कालम् उद्वर्तयति, कालेन कालं स्नपयति, कालेन कालं भोजयति, कालेन कालम् सम्यक् सुखेन परिहरति; अपीदानीं ये गन्धाः सुमनोज्ञरूपाः तैर् विलिप्य, सर्वालङ्कारैर् अलङ्कृतं पितुः शुद्धोदनस्यानुप्रयच्छति; तम् एनं राजा शुद्धोदनो गृहीत्वा, अङ्के निषाद्य, पुनः पुनः प्रेक्षते हर्षजातः (sbv i 49)
predictions of the naimittikas
धर्मता खलु सांप्रतजातं बोधिसत्वं मातापितरौ ब्राह्मणानां, नैमित्तिकानाम्, विपञ्चनकानाम् चोपदर्शयतः: कच्चिद् भवन्तः समन्वागतः कुमारो द्वात्रिंशता महापुरुषलक्षणैः? यैः समन्वागतस्य महापुरुषस्य (अ 365अ?) द्वे गती भवतो, नान्या; सचेद् गृही अगारम् अध्यावसति, राजा भवति चक्रवर्ती, चातुरन्तां विजेता, धार्मिको, धर्मराजः सप्तरत्नसमन्वागतः; तस्येमान्य् एवंरूपाणि सप्त रत्नानि भवन्ति; तद्यथा (1) चक्ररत्नम्, (2) हस्तिरत्नम्, (3) अश्वरत्नम्, (4) मणिरत्नम्, (5) स्त्रीरत्नम्, (6) गृहपतिरत्नम्, (7) परिणायकरत्नम् एव सप्तमम्; पूर्णं चास्य भवति सहस्रं पुत्राणां शूराणां वीराणां वराङ्गरूपिणां परसैन्यप्रमर्दकानाम्; स इमाम् एव समुद्रपर्यन्तां महापृथिवीम् अखिलाम् अकण्टकाम् अनुत्पीडाम् अदण्डेनाशस्त्रेण धर्मेण समेनाभिनिर्जित्याध्यावत्स्यति; सचेत् केशश्मश्र्व् अवतार्य काषायाणि वस्त्राण्य् आच्छाद्य सम्यग् एव श्रद्धया अगाराद् अनगारिकां प्रव्रजति तथागतो भवत्य् अर्हन् संयक्संबुद्धो विघुष्टशब्दो लोक इति; तथ्यं देव समन्वागतः कुमारो द्वात्रिंशता महापुरुषलक्षणाइः; यैः समन्वागतस्य महापुरुषस्य द्वे गती भवतो नान्या; सचेत् गृही अगारम् अध्यावसति, राजा भवति चक्रवर्ति, चातुरन्तां विजेता, धार्मिको धर्मराजाः पूर्ववद् यावत् तथागतो भवत्य् अर्हन् सम्यकस्ंबुद्धो विघुष्टशब्दो लोके
lakṣaṇas of a mahāpuruṣa
कतमानि तानि भवन्तो द्वात्रिंशत् महापुरुषलक्षणानि? यैः समन्वागतस्य महापुरुषस्य द्वे गती भवतो नान्या; पूर्ववद् यावद् विघुष्टशब्दो लोके (sbv i 50) (1) सुप्रतिष्ठितपादो देव कुमारः; अपीदानीं सुप्रतिष्ठितत्वात् पादयोः समम् आक्रमते महीम्; इदं कुमारस्य महापुरुषस्य महापुरुषलक्षणम्; (2) अधस्ताच् चास्य पादतलयोः चक्रे जाते सहस्रारे, सनाभिके सनेमिके, सर्वाकारपरिपूर्णे; इदं देव कुमारस्य महापुरुषस्य महापुरुषलक्षणम्; (3) दीर्घाङ्गुलिर् देव कुमारः (4) आयतपाद्पार्ष्णिर् (5) मृदुतरुणपाणिपादः; मृदुकम् अस्य पाणिपादं तद्यथा तूलपिचुर् वा कर्पासपिचुर् वा; इदं देव कुमारस्य महापुरुषस्य महापुरुषलक्षणम्; (6) जालिनीपाणिपादो देव कुमारः; जालिन्य् अस्य हस्तयोश् च पादयोश् च, तद्यथा अभिजातस्य हंसराजस्य; इदं देव कुमारस्य महापुरुषस्य महापुरुषलक्षणम्; (7) उच्छाङ्खचारो देव कुमारः; (8) एणीजङ्घः; (9) अनवनतकायः अनवनमनेन कायेन उभौ जानुमण्डलाव् आमार्ष्टि परामार्ष्टि; इदं देव कुमारस्य महापुरुषस्य महापुरुषणम्; (10) कोशोगतवस्तिगुह्यो देव कुमारः; कोशोगतवस्तिगुह्यं तद्यथा अभिजातस्य हस्त्याजानेयस्य वा अश्वाजानेयस्य वा; इदें देव कुमारस्य महापुरुषस्य महापुरुषलक्षणम्; (11) न्यग्रोधपरिमण्डलो देव कुमारः; यावान् कायेन तावान् व्यामेन, यावान् व्यामेन तावान् कायेन; इदं देव कुमारस्य महापुरुषस्य महापुरुषलक्षणम्; (12) ऊर्ध्वाङ्गरोमो देव कुमारः; (13) एकैकरोमः; एकैकम् अस्य रोम काये जातं नीलम्, कुण्डलजातकां प्रदक्षिणावर्तम्; इदं देव कुमारस्य महापुरुषस्य महापुरुषलक्षणम्; (14) सुवर्णवर्णसङ्काशो देव
कुमारः; व्यामप्रभः काञ्चनसन्निभस् त्वक्; (15) सूक्ष्मच्छविः; अपीदानीं सूक्ष्मत्वाच् च्छवे रजोमलम् अस्य काये न सन्तिष्ठते; इदं देव कुमारस्य महापुरुषस्य महापुरुष्लक्षणम्; (16) सप्तोत्सदकायो देव कुमारः; सप्तोत्सदाः काये जाताः; द्वौ हस्तयोर् द्वौ पादयोर् द्वाउ अंसयोर् एकं ग्रीवायाम्; इदं देव कुमारस्य महापुरुषस्य महापुरुषलक्षणम्; (sbv i 51) (17) चितान्तरांसो देव कुमारः, (18) सिंहपूर्वार्धकृयो (19) बृहदृजुगात्राः, (20) सुसंवृतस्कन्धः, (21) चत्वारिंशद्दन्तः, (22) समदन्तः (23) अविरलदन्तः, (24) शुक्लदंष्ट्रः, (25) सिम्हहनू (26) रसरसाग्रप्राप्तः; इदं देव कुमारस्य महापुरुषस्य महापुरुषलक्षणम्; (27) प्रभूततनुजिह्वो देव कुमारः; अपीदानीं प्रधूतत्वात् तनुत्वाच् च जिह्वाया मुखाज् जिह्वां निर्णमय्य सर्वं मुखमण्डलं छादयति यावत् केशपर्यन्तम् उपादाय; इदं देव कुमारस्य महापुरुषस्य महापुरुषलक्षणम्; (28) ब्रह्मस्वरो देव कुमारः, कलविङ्कमनोज्ञभाणी दुन्दुभिस्वरनिर्घोषः; इदं देव कुमारस्य महापुरुषस्य महापुरुषलक्षणम्; (29) अभिनीलनेत्रो देव कुमारः, (30) गोपक्ष्मा; (31) उष्णीषशिराः; (32) ऊर्णा चास्य भ्रुवोर् माध्ये जाता श्वेता शङ्खनिभा प्रदक्षिणावर्ता; इदं देव कुमारस्य महापुरुषस्य महापुरुषलक्षणम्; इमानि तानि (अ 365ब्) देव कुमारस्य महापुरुषस्य महापुरुषलक्षणानि, यैः समन्वागतस्य द्वे गती भवतो नान्या; पूर्ववद् यावद् विघुष्टशब्दो लोके; यदि च कुमारो न प्रव्रजिष्यति राजा भविष्यति चक्रवर्ती
beauty and other qualities of the bodhisatva
धर्मता खलु सप्ताहजातस्य शाक्यमुनेर् बोधिसत्वस्य माता जनयित्री कालगता; समनन्तरकालगता प्रणीते त्रयस्त्रिंशद्देवनिकाये उपपन्ना; धर्मता खलु शाक्यमुनिर् बोधिसत्व अभिरूपो दर्शनीयः प्रासादिकः; अतिक्रान्तो मानुषवर्णम् असंप्राप्तश् च दिव्यं वर्णं; अपीदानीम् नराश् च नार्यश् च निरीक्षमाणास् तृप्तिं न गच्छन्ति; मुदं लभन्ते; तद्यथा जांबूनदमयी सुवर्णनिष्का कर्मारपरिमृष्टा अहते पाण्डुकम्बल उपनिक्षिप्ता अत्यर्थं भासते तपति विरोचते; एवम् एव शाक्यमुनिर् बोधिसत्व अभिरूपो दर्शनीयः प्रासादिकः अतिक्रान्तो मानुषं वर्णं असंप्राप्तश् च दिव्यं वर्णं; धर्मता खलु शाक्यमुनिर् बोधिसत्वो महाजनकायस्य प्रियश् चाभून् मनापश् च; अपीदानीं महाजनकायम् (sbv i 52) अंसेनांसं सम्परिवर्तयति, तद्यथा शारदकं पद्मं महाजनकायस्य प्रियं च मनापं च; अपीदानीं महाजनकायस् तत् पाणिना पाणिं संवारयति; एवं पूर्ववत्
अन्तरोद्दानम्: अनिमिषविपाकधर्मश् च वल्गुस्वरश् च पण्डित उद्यानम् //
धर्मता खलु सांप्रतजातो बोधिसत्व अनिमिषण्; रूपाणि पश्यन् नासौ निमिषति; तद्यथा देवास् त्रयस्त्रिंशाः; धर्मता खलु सांप्रतजातो बोधिसत्व पूर्वकर्मविपाकजेन दिव्येन चक्षुषा समन्वागतो येनासु पश्यति दिवा च रात्रौ च समन्तयोजनं; धर्मता खलु सांप्रतजातो बोधिसत्व वल्गुस्वरश् चाभून् मधुरस्वरश् च मनोज्ञस्वरश् च; तद्यथा हैमवतः शकुनको वल्गुस्वरश् च मधुरस्वरश् च मनोज्ञस्वरश् च; एवम् एव सांप्रतजातो बोधिसत्वो वल्गुस्वरश् चाभून् मधुरस्वरश् च मनोज्ञस्वरश् च; धर्मता खलु सांप्रततजातो बोधिसत्वः पण्डितो ऽभूद् व्यक्तो मेधावी तन्त्रोपमिकया मीमांसिक्या प्रज्ञया समन्वागतः; अपीदानीं राज्ञश् च शुद्धोदनस्यार्थाधिकरणेन निषद्य गंभीरम् अर्थपदव्यञ्जनं प्रज्ञया प्रतिविध्यति
the arrival of asita and nālada
ततो नालदः कथयति: उपाध्याय बोधिसत्वः कपिलवस्तुनि प्रवेशितः; नामत्रयं च व्यवस्थापितम्; इदानीं गच्छामो बोधिसत्वं दर्शनाय इति; स कथयति; एवं कुर्मः; तौ संप्रस्थितौ; बोध्हिसत्वानुभावाद् ऋद्धेः परिहीणौ; पद्भ्याम् एव कपिलवस्तुनगरं प्रविश्य राज्ञः शुद्धोदनस्य गृहद्वारं गतौ; तत असितरिषिर् दौवारिकं पुरुषं आमन्त्रयते: गच्छ भोः पुरुष रज्ञः शुद्धोदनस्य गत्वा कथय, असितरिषिर् द्वारि तिष्ठति, देवं द्रष्टुकाम इति; तेन प्रविश्य (sbv i 53) राज्ञे निवेदितम्; राजा कथयति, प्रविशतु को भवन्तम् असितं वारयति; स प्रविष्टः; राज्ञा शुद्धोदनेन सत्कारपुरस्सरम् अर्घपाद्येन पूजितः आसने दत्ते निषण्णः; राज्ञा शुद्धोदनेन कथालापेन प्रतिसंमोद्याभिहितो: महर्षे किम् आगमनप्रयोजितम् (अ 366अ); स कथयति: महाराज तव पुत्रदर्शनाय वयम् इहागताः, लोकज्येष्ठस्य विनायकस्य मुनेर् दर्शनाय; यद्य् एवं मुहूर्तं तावद् उदीक्षस्व, सुप्तः कुमारो यावत् प्रतिबुद्ध्यत इति; स कथयति सुप्तम् एव पश्यामि; एवं कुरु; स पश्यति; यावद् बोधिसत्व अनिमिषः; रूपाणि पश्यति न निमिसान्; स गाथां भाषते हयानाम् इव जात्यानाम् अर्धरात्रावशायिनाम् / नाहितकार्यानां निद्रा चिरं नेत्रेषु तिष्ठति // इति ततः सांप्रतजातो बोधिसत्वो धात्र्या अङ्के गृहीत्वा रिषेर् उपनामितः; असितेन रिषिणा उभाभ्यां पाणिभ्यां प्रतिगृहीतः; मुहूर्तं निरीक्ष्य कथयति: देव दर्शितः कुमारो ब्राह्मणानां नैमित्तिकानां विपञ्चनकानाम्? राजा कथयति दर्शितः; किम् तैर् व्याकृतम्? राजा भविष्यति चक्रवर्ती, पूर्ववद् यावद् विघुष्टशब्दो लोके; अथासितरिषिर् बोधिसत्वं दृष्ट्वा गाथां भाषते भ्रष्टा मतिः पार्थिव तार्किकाणां युगान्तकाले न हि चक्रवर्ती / अयं तु पुण्योत्तमधर्मकोशो बुद्धो भविष्यत्य् अभिजित्य दोषान् //
अव्यक्तैर् भवति हि लक्षणैर् नरेन्द्रो द्वीपानाम् अधिपतिर् ईश्वरश् चतुर्णाम् / सुव्यक्तैर् भवति हि लक्षणैर् मुनीन्द्रो संबुद्धो नरवर धर्मचक्रवर्ती // इति (sbv i 54) विदित्वा आत्मन आयुःप्रकर्षं व्यवलोकयितुम् आरब्धो बोधिसत्वस्य चाभिसंबोधिं यावत्; पश्यति बोधिसत्व एकान्नत्रिंशत्को वयसा गृहान् निर्गमिष्यति; षड्वर्षाणि दुष्करं चरिष्यति; ततो ऽमृतम् अधिगमिष्यति; आत्मनः पश्यत्य् अन्तरैव कालक्रियाम्; सो ऽस्रुपर्याकुलेक्षणो व्यवस्थितः; राजा शुद्धोदनो दृष्ट्वा सन्त्रस्तमतिर् गाथां भाषते नराश् च नार्यश् च हि यं समीक्ष्य तृप्तिं न गच्छन्ति मुदं लभन्ते / दृष्ट्वेह तं प्रीतिकरं शुभाङ्गम् कस्मात् सबाष्पं वदनं महर्षेः //
न मे कुमारस्य भयं कुतश्चिद् आयुःक्षयो वा समुपस्थितः स्यात् / तत् साधु मे क्षिप्रम् इदं वदस्व तवाश्रुपातेन विकंपितो ऽस्मि //
असितो ऽपि ऋषिर् गाथां भाषते अस्योपरिष्टाद् यदि वज्रवर्षं नभःप्रमुक्तं प्रपतेत् प्रचण्डम् / महामुनेर् नैकशरीरचाल्यम् अप्य् एककम् कंपयितुं समर्थम् //
महाग्नयो वायुबलप्रवेरितास् तीक्ष्णानि शत्राणि सुदारुणानि / विषं च घोरा उरगाश् च तीक्ष्णाः क्षणं नशेयुः पतिताः कुमारे //
भयार्दितानाम् अभयप्रदाता औदर्यभूमिः करुणाविहारी / (sbv i 55) कृत्स्नस्य लोकस्य भयं स हन्ति भयं भवेत् तस्य कुतो नरेन्द्र //
सब्रह्मकायस्य दिवौकसाद्याः कुर्वन्ति रक्षां सततं मदात्मनः / मगात्मनां श्रेष्ठतमस्य लोके भयं भवेत् तस्य कुतो नरेन्द्र //
संप्रेक्ष्य तु स्वां नृपते विपत्तिं रोदिम्य् अहं येन लभे न शान्तिं / अयं स सत्वोत्तमधर्मकोशो यो ऽहं मरिष्याम्य् अनवाप्तकार्यः //
ते धन्यपुण्याश् च गतज्वराश् च ये धर्मं अस्याप्रतिमानस्य / श्रोष्यन्ति धर्मं वदतां वरस्य श्रुत्वा च यास्यन्ति परां प्रशान्तिम् //
असितऽस् देपर्तुरे
असितर्षिः क्लिष्टसन्तानः संलक्षय्ति: अहं बोधिषत्वस्यानुभावाद् ऋद्धेः परिहीणः; सयदि पद्भ्यां गमिष्यामि (अ 366ब्) महाजनकायो मां प्रतर्कयिष्यति राजा च ; इति विदित्वा कथयति: देव तवायं दीर्घरात्रम् आशासकः, अहो बतासितर्षिः, पद्भ्याम् एव कपिलवस्तु प्रविशेद् इति; सो ऽहं पध्भ्याम् कपिलवस्तु प्रविष्टः; इदानीं पद्भ्याम् एव निष्क्रमिष्यामि; त्वं मार्गशोभां च कारयेति; राज्ञा शुद्धोदनेन अमात्यानाम् आज्ञा दत्ता: गच्छत भवन्तो नगरशोभां मार्गशोभां च कारयत रथ्यावीथीचत्वरशृङ्गाटकेषु घण्टावघोषणाम्; असितिरिषिः पद्भ्यां कपिलवस्तुनो नगरान् निष्क्रामति; यद् वः कृत्यं वा करणीयं वा तत् कुरुध्वम् इति; एवं देवेत्य् अमात्यैः राज्ञः प्रतिश्रुत्य कपिलवस्तुनगरम् अपगतशर्करकठल्लं (sbv i 56) व्यवस्थापितम्, चन्दनवारिपरिषिक्तम् सुरभिधूपघटिकोपनिबद्धम् आमुक्तपल्लवदामकलापम्, उच्छ्रितध्वजपताकं; रथ्यावीथीचत्वरशृङ्गाटकेसु घण्तावघोषणं कारितम्: शृण्वन्तु भवन्तः कपिलवास्तवाः शाक्याः असितर्षिः कपिलवस्तुनो नगरान् निष्क्रामति; यद् वः कृत्यं वा करणीयं वा तत् कुरुध्वम् इति; ततो ऽसौ क्लिष्टबुद्धिः कृतोपचारी राज्ञा शुद्धोदनेनामात्यगणपरिवृतेनानेकैश् च कापिलवास्तवैर् ब्राह्मणगृहपतिभिर् अनुगम्यमानो मध्यमध्येन नगरस्य परया विभूत्या कपिलवस्तुनो निष्क्रान्तः; राजानं निवर्त्य यथेष्टगतिप्रचारतया संप्रस्थितो ऽनुपूर्वेण किष्किन्धं पर्वतम् अनुप्राप्तः; स तम् अधिरुह्य इतश् चामुतश् च परिभ्रमन् यथाभिप्रेतस्थानसमन्वेषणया अन्यतमस्मिन् प्रदेशे निषण्णः; ततस् तेन मार्गश्रमं प्रतिविनोद्य ध्यानान्य् उत्पादितानि;
ऋद्धिश् चाभिनिर्हृता; यावद् अपरेण समयेन असितरिषिर् ग्लानः संवृत्तः; स उपस्थीयते मूलगन्धपत्रपुष्पफलभैषज्यैः; तथाप्य् असौ हीयत एव; ततो ऽस्य नालदः शरीरावस्थां परिच्छिद्य कथयति: उपाध्याय यत्किंचिद् वयं प्रव्रजितास् तत् सर्वम् अमृतार्थिनो मृतगवेषिणः; सचेद् उपाध्यायेनामृतम् अधिगतम् अस्माकम् अपु अमृतेन संविभागं करोत्व् इति; स कथयति: माणव अहम् अपि यत्किंचित् प्रव्रजितः सर्वं तद् अमृतार्थी अमृतगवेषि; न च मयामृतम् अधिगतम्; अपि तु य एष शाक्यानां कुमार उत्पन्न एषो ऽमृतम् अधिगमिष्यति; अमृतेन जगत् सन्तर्पयिष्यति; तस्यान्तिके प्रव्रज; प्रव्रज्य च तेन <न> जातिवादः कर्तव्यो न गोत्रवादो न माणवकवादः; केवलं तु प्रव्रज्य ब्रह्मचर्यं चरितव्यम्; अमृताधिगमे चोद्योगः करणीयः; ततस् ते अमृतं भविष्यति; इति विदित्वा गाथां भाषते प्राचीनान् एव सेव त्वम् अन्वेषाणस् तथागतम् /
दुर्लभं दर्शनं भवति संबुद्धानां यशस्विनाम् //
इत्य् उक्त्वा सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः / संयोगा विप्रयोगान्ता मरणान्तं हि जीवितम् // (sbv i 57) इत्य् उक्त्वा कालधर्मेण संयुक्तः; ततो नालदस् तस्य शरीरे शरीरपूजां कृत्वा (अ 367अ) वाराणसीं गत्वावस्थितः; स तत्र पञ्चमाणवकशतानि ब्राह्मणकान् मन्त्रान् वाचयति; नालदः कात्यायनो गोत्रेण; तस्य कात्यायनः कात्यायन इति संज्ञा संवृत्ता; सो ऽभिसम्बुद्धबोधेर् भगवतः सकाशम् उपसङ्क्रमिष्यति; तं भगवान् कात्यायनाववादेनावबोध्य संसारकान्ताराद् उत्तार्य अत्यन्तनिष्ठे योगक्षेमे निर्वाणे प्रतिष्ठापयिष्यति; तस्य महाकात्यायनो महाकात्यायन इति संज्ञा भविष्यति
सिद्धार्थ, थे नागसहस्रबल
अथापरेण समयेन शाक्यमुनिर् बोधिसत्वो धात्र्यंसगतः सुवर्णपात्र्यां शालिमासौदनं भुङ्क्ते; स प्रभूतं भुङ्क्ते; नावतिष्ठत इति धात्री आच्छेत्तुम् आरब्धा; न शक्नोत्य् आच्छेत्तुम्; तया राज्ञे शुद्धोदनया आरोचितम्; राजा अन्तःपुरसहीय आच्छेत्तुम् आरब्धः; सो ऽपि न शक्नोति; ततो राज्ञा अमात्याः कपिलवास्तवाश् च जनकायाः प्रयुक्टाः; ते ऽपि न शक्नुवन्त्य् आच्छेत्तुम्; ततः पञ्चहस्तिशतानि योक्त्रितानि; बोधिसत्वः संलक्षयति: मा ममेति बलं पंसयिष्यन्ति; यन्व् अहम् कुटिलाङ्गुलिकया पात्रीं विधारयेयम् इति; तेन कुटिलाङ्गुलिकया सुवर्णपात्री आकृष्टा; तानि च पञ्चशतानि पृष्ठतोमुखानि आकृष्टानि, न तु तैः सुवर्णपात्री आकृष्टा; राजा शुद्धोदनः संलक्षयति: बोधिसत्वेन वामेन पाणिना पञ्चहस्तिशतान्य् आकृष्टानि; नियतम् उभाभ्यां पाणिभ्यां नागसहस्रम् आक्रक्ष्यति; तस्माद् भवतु कुमारस्य नागसहस्रबल इति नामेति
अन्तरोद्दानम् दारका क्रीडनका चैव विद्या प्रासाद एव च / हंसो युद्धं सारकल्यानी युद्धम् अन्तःपुरेण च // (sbv i 58)
siddhārtha's performances
धर्मता खलु शाक्यमुनिर् बोधिसत्वः पञ्चशतपरिवारः कृमिवर्मणो लिप्याचार्यस्य लिपिं शिक्षणायोपन्यस्तः; कृमिवर्मणा लिप्याचार्येण बोधिसत्वस्य लिपिर् लिखित्वा दत्ता; बोधिसत्वः कथयति जानाम्य् अहम् एनाम् इति; ततस् तेन द्वितिया तृतीया; एवं यावत् पञ्चलिपिशतानि लिखित्वा दत्तानि; बोधिसत्वः कथयति: एताम् अप्य् अहं जाने अन्यां कथयेति; कृमिवर्मा कथयति: एतावत्यो लोके लिपयः प्रचरन्ति, नाहम् अन्यां जाने इति; ततो बोधिसत्वेन स्वयम् एव लिपिर् लिखित्वा कृमिवर्मणो दत्ता; उक्तश् च कथय किंनामेयं लिपिर् इति; स कथयति न जानामीति; बोधिसत्वः कथयति: द्वयोर् लोके प्रदुर्भावाद् इयं लिपिः प्रज्ञायते, बोधिसत्वस्य चक्रवर्तिनो वा इति; गगनतलस्थेन ब्रह्मणाभिहितम्: एवम् एतत् कृमिवर्मन् यथा बोधिसत्वः कथयति; द्वयोर् एव लोके प्रादुर्भावाद् इयं लिपिः प्रज्ञायते, बोधिसत्वस्य चक्रवर्तिनो वा इति; बोधिसत्वेनेयं लिपिर् ब्रह्मस्वरेण वाचिता; ब्रह्मणा च गगनतलस्थेन साक्ष्यं दत्तम्; ब्राह्मी लिपिर् ब्राह्मी लिपिर् इति संज्ञा संवृत्ता; यदा बोधिसत्वो लिप्याः पारं गतः भाद्दालिनाम बोधिसत्वस्य मातुलस् तेन हस्तिग्रीवायं शिक्षायां शिक्षितः; सहदेवो नाम इष्वस्त्राचार्यः; तेन पञ्चशतपरिवारः च्छेद्यं शिक्षयितुम् आरब्धः; भाद्दालिना सहदेव उच्यते: बोधिसत्वः कारुणिकः (अ 367ब्) सर्वाश् शिक्षाश् शिक्षयितव्यः; एवम् अन्ये कुमाराह्; अयं देवदत्तः क्रूरकर्मा; अस्य मर्मवेधो न व्यपदेष्टव्यः मा सर्वलोकं व्यापादयिष्यतीति; यदा बोधिसत्वः सर्वशिक्षासु शिक्षितः, पञ्चसु स्थानेषु कृतावी संवृत्तः, दूरवेधे, शब्दवेधे, मर्मवेधे, अक्षूणवेधे, दृढप्रहारितायां
च, सामन्तकेन शब्दो विसृतः शाक्यानां कुमार उत्पन्नः पूर्ववद् यावद् विघुष्टशब्दो लोक इति; तेन खलु समयेन वैशालैर् लिच्छविभिर् लक्षणसंपन्नो हस्ती लब्धः; ते संलक्षयन्ति; राज्ञः शुद्धोदनस्य पुत्रो नैमित्तिकैर् व्याकृतः राजा भविष्यति चक्रवर्तीति; तस्यानुभावाद् इदं हस्तिरत्नम् (sbv i 59) उत्पन्नम्; गच्छामस् तस्यैव उपनामयाम इति; ते तं हस्त्यलङ्कारैर् अलङ्कृत्य महत्या विभूत्या संप्रस्थिता अनुपूर्वेण कपिलवस्त्व् अन्प्राप्ताः; राजकुलद्वारे हस्तिनं स्थापयित्वा स्थिताः; दैवात् क्रूरकर्मा देवदत्तो निर्गतः; तेनासौ हस्तिनागस् तथालङ्कारविभूषितो दृष्टः; यतो ऽस्य महती ईर्ष्या समुत्पन्ना; ईर्ष्यांअर्षजातः पृच्छति कस्यायं हस्तिनाग इति; तैः समाख्यातम्; शाक्यमुनिः कुमारो नैमित्तिकैश् चक्रवर्ती व्याकृतः; तस्येदं हस्तिरत्नं वैशालिकेन गणेन प्रेषितम् इति; देवदत्तः सुतरां सञ्जातामर्षः कथयति: यावद् असौ चक्रवर्ती न भवति तावद् युष्माभिर् अस्य हस्तिरत्नम् उपनीतम् इत्य् उक्त्वा तलप्रहारेणासौ हस्ती जीविताद् व्यपरोपितः; यावत् तेन प्रदेशेन नन्दो गच्छति; तेनासौ दृष्टः; स पृच्छति: भवन्तः शोभनो ऽयं हस्ती केन प्रघातितः; तैः समाख्यातं: देवदत्तेन; स संलक्षयति: नूनम् अत्र देवदत्तेन बलं जिज्ञासितम्, <यन्नु वयम् अप्य् अत्र बलं जिज्ञासयेमः> इति कृत्वा पुच्छे गृहीत्वा एकान्ते स्थापितो मा दौर्गन्ध्यं करिष्यतीति; यवत् शाक्यमुनिर् बोधिसत्वो निर्गतः; तेनासौ दृष्टः; स पृच्छति; कुतो ऽयं हस्ती? तैर् यथावृत्तं समाख्यातम्; केन प्रघातितः? देवदत्तेन; न शोभनम्; अतिथीनाम् अतिथिपूजा कर्तव्या; कस्म्मिन् प्रदेशे प्रघातितः?
एतस्मिन्; केनायम् अत्रानीतः? नन्देन; संलक्षयति: नूनम् अत्र ताभ्यां बलं जिज्ञासितम्; यन्व् अहम् अप्य् अत्र बलं जिज्ञास्येयम् इति विदित्वा पुच्छे गृहीत्वा उपरिष्टात् प्राकारस्य क्षिप्तः सप्त प्राकारान्, सप्त च परिखा लङ्घयित्वा पतितः; तेन पतता गर्ता कृता; हस्तिगर्ता हस्तिगर्ता इति (sbv i 60) संज्ञा संवृत्ता; तत्र श्राद्धैर् ब्राह्मणगृहपतिभिश् चैत्यं प्रतिष्ठापितम्; अद्यापि चैत्यवन्दका भिक्षवो वन्दन्ते; आह चात्र यो देवदत्तेन हतो गजेन्द्रो नन्देन नीतश् च पदानि सप्त / स बोधिसत्वेन करेण दूरं क्षिप्तो बहिर् लोष्ट इवान्तरिक्षे //
इति //
कुमाराः कथयन्ति: गच्छामः; च्छेद्यं कुर्मः इति ते निर्गताः; श्रुत्वा शाक्यमुनिर् बोधिसत्वः पञ्चाशतपरिवारः च्छेद्यं कर्तुं निर्गतः; कुमाराः कलमच्छेद्यं कुर्वन्ति; तैश् छिन्नाश् छिन्नाः पतन्ति; बोधिसत्वः आढकच्छेद्यं करोति; तेन छिन्ना न पतन्ति; तथैवावतिष्ठन्ते; कुमाराः कथयन्ति; भवन्तः शाक्यमुनिर् बोधिसत्वो बलवान् श्रूयते, पञ्चसु स्थानेषु कृतावीति; तद् अयं छेद्यम् अपि न जानाति कर्तुम्; न चायम् अस्मत्तो बलवान्; तथा ह्य् अस्माभिः पादपाश् छिन्नास् ते सर्वे निपतिताः; अनेन तु ये छिन्नास् ते तथैवावतिष्ठन्त इति; अथ या देवता शाक्यमुनौ बोधिसत्वे अभिप्रसन्ना तस्या एतद् अभवत्: इमे शाक्या बोधिसत्वबलम् अजानन्तः शिल्पे च कृतावितां बोधिसत्वस्यावज्ञां करिष्यन्ति; बलं च पंसयिष्यन्ति; तद् उपायसंविधानं कर्तव्यम् इति; तया तादृशं वातम् उत्सृष्टं, येन सर्वे ते वृक्षाः कर्करायमाणाः पतिताः; दृष्ट्वा शाक्याः परं विस्मयम् आपननाः; ते वेध्यं कर्तुम् आरब्धाः; तेषां तत्र लोहा लक्ष्याः; सप्त लोहमयास् ताला भेरी <सूरी> च <प्रतिष्ठापिताः>; देवदत्तेन पदबन्धं कृत्वा नाराचः क्षिप्तः; एकस् तालो भिन्नः; नन्देन द्वौ; बोधिसत्वेन नाराचः क्षिप्तः; सप्त ताला भेरी सूरी च भिन्नाः; स नाराचः पातालं प्रविष्टः; नागैर् उद्द्ःऋतः; पानीयं प्रादुर्भूतं स्वादु; तन् महाजनकायः पातुम् आरब्धः; श्राद्धैर् ब्राह्मणगृहपतिभिस् तत्र चैत्यं प्रतिष्ठापितम्; अद्यापि चैत्यवन्दका भिक्षवो वन्दन्ते (sbv i 61)
śuddhodana's efforts
for sbv i 61.18-63.3 cf. also gbm 10.3348-3349
कुमारा रथाभिरूढाः कपिलवस्तु प्रविशन्ति; नैमित्तिकाश् च नगरान् निष्क्रामन्ति; तैः शाक्यमुनिः कुमारो रथाभिरुढः प्रविशन् व्याकृतः; यद्य् अयं द्वादशभिर् वर्षैर् न प्रव्रजिष्यति, नियतं राजा भविष्यति चक्रवर्तीति; राज्ञा शुद्धोदनेन श्रुतं कुमारो नैमित्तिकैर् व्याकृत इति; श्रुत्वा पुनः प्रीतिप्रामोद्यजतः शाक्यान् सन्निपात्य कथयति: श्रुतं मे भवन्तः कुमारो नैमित्तिकैर् व्याकृतः यदि द्वादशभिर् वर्षैर् न प्रव्रजिष्यति, नियतं राजा भविष्यति चक्रवर्तीति; तद् यदि कुमारो द्वादशभिर् वर्षैर् न प्रव्रजति राजा भवति चक्रवर्ती; ते वयं गगनतलविचारिणश् चतुरो द्वीपान् अनुसंयास्यामः; निवेशो ऽस्य क्रियताम्; अमात्याः कथयन्ति: देव कुमारो ऽनर्थिकः कामैर् इति; राजा शुद्धोदनः कथयति: सर्वाः कन्याः कुम्मारस्योपदर्शयामः; यास्याभिप्रेता भविष्यति, ताम् अन्तःपुरं प्रवेशयिष्यामः; अपरे कथयन्ति: देव दानाभिरुचिः कुमारः; कन्यानाम् अलङ्कारो दाप्यताम्; यास्य परितोषं जनयिष्यति ताम् अन्तःपुरं प्रवेशयिष्याम इति; राजा शुद्धोदनः कथयत्य् एवं क्रियताम्; अमात्यैर् नानाप्रकाराणां रत्नविचित्राणाम् अलङ्काराणां राशिर् उपस्थापितः; ततो राज्ञा शुद्धोदनेन गृहशोभां नगरशोभां च कारयित्वा नक्षत्रतिथिमुहूर्तैर् मण्डपे सिंहासनं प्रज्ञप्य शाक्यमुनिकुमारो निषादितः; सिंहासनसमीपे च्द् नानाविचित्राणाम् अलङ्काराणां राशिर् व्यवस्थापितह्; अमात्या अन्यश् च कापिलवास्तवप्रधानसंमतो जनकायः प्रविष्टः; ततः सर्वकन्याः स्वकुलविभवानुरूपेण वेषालङ्कारपरिच्छदेन प्रवेशिताः; बोधिसत्वेन दानरुचितया तासाम् अलङ्कारं दत्तम् (sbv i 62)
यशोधरा
for sbv i 61.18-63.3 cf. also gbm 10.3348-3349
दण्डपाणेः शाक्यस्य दुहिता यशोधरा नाम रूपयौवनवयसानुगता; दण्डपाणिना शाक्येनोक्ता: पुत्रि बोधिसत्वो ऽलङ्कारं ददाति; सा कथयति: तात किम् अस्माकम् आलङ्कारिकं नास्ति? पुत्रि न नास्ति; किं तु या (अ 368ब्) बोधिसत्वस्य कन्याभिरुचिता ताम् असौ वरयति; तात वरयतु वा मा वा; अपि तु स एव मम भर्ता; पुत्रि यद्य् एवं सुतरां गन्तव्यम्; गच्छतः; यशोधराभिनववयाः; सुवेषा, महाजनमनोनयनान्य् आक्षिपन्ती सर्वास् ताः कन्याः देवकन्या इवावभासमाना प्रविश्य शान्तेनेर्यापथेन बोधिसत्वस्य पुरस्ताद् अवस्थिता; बोधिसत्वेन सर्वालङ्कारिकं दत्तम्; अङ्गुलीयकम् एव समवशिष्टम्; बोधिसत्वेन तस्यास् तद् उपदर्शितम्; ततस् तया अनादिकालप्रकर्षप्रणयनया सिंहासनसोपानकम् अभिरुह्य बोधिसत्वहस्तात् स्वयम् आकृष्टम्; अमात्याः कापिलवास्तवश् च प्रधानसंमतो जनकायः कथयन्ति: भवन्तः सर्वकन्यानाम् इयं विशिष्टा; शक्नोत्य् एषा कुमारस्य चित्तग्राहं कर्तुम्; एषा प्रवेश्यताम् इति; ततो राज्ञा शुद्धोदनेन यशोधरा विंशतिकन्यासहस्रपरिवारा शाक्यमुणेः कुमारस्यान्तःपुरं प्रवेशिता
the sārakalyāṇi-tree, the goose and devadatta's first quarrel
for sbv i 61.18-63.3 cf. also gbm 10.3348-3349
धर्मता खलु यदा बुद्धा भगवन्तो लोक उत्पद्यन्ते तदा सारकल्याणी नामा वृक्षो जायते; स दिवसेन हस्तशतं वर्धते; यावच् चादित्यो नोदयति तावन् नखेनापि छिद्यते; उदिते त्व् आदित्ये शस्त्रेणापि न छिद्यते; अग्निनापि न दह्यते; अन्तरा च कपिलवस्तु अन्तरा च देवदृषम्, (sbv i 63) अत्रान्तरा नदी रोहका नाम, तस्याः कूले जातः; कालेन कालम् उदकवृद्ध्या तस्य मूलं शोचितम्; वातवशात् पतितः सेतुवन् नदीं रुद्ध्वा स्थितः; ततः सुप्रबुद्धस्य राज्ञः अनुदकेन देशो नाश्यति; शुद्धोदनस्याप्य् उदकेन; सुप्रबुद्धेन राज्ञः शुद्धोदनस्य सन्दिष्टम्: सारकल्याणि वृक्षः पतितः; रोहकां नदीम् अवष्टभ्यावस्थितः; कुमारा बलवन्तः श्रूयन्ते; तद् एतान् प्रेषयितुम् अर्हसि इति; राजा शुद्धोदनः कथयति: नाहं कुमाराणाम् आज्ञां ददामीति; छन्दः कथयति: केवलं देवो ऽनुजानातु; अहं तथा करिष्यामि यथा न च कुमाराणाम् आज्ञा दीयते, अथ च पुनः स्वयम् एव गच्छन्तीति; राज्ञा शुद्धोदनेनाधिवासितं; छन्देन नद्या रोहकायास् तीरे प्रत्येकं कुमाराणाम् उद्यानानि मापितानि; उक्ताश् च कुमारा गच्छाम उद्यानं; ते कथयन्ति, गच्छामः; ते प्रत्येकं रथम् अभिरुह्य उद्यानं गताः; देवदत्तस्योद्यानोपरिष्टद् धंसो गच्छति; स देवदत्तेन शरेण विद्धः; बोधिसत्वस्योद्याने निपतितः; बोधिसत्वेन गृहीत्वा विशल्यीकृतः; उपहारश् च दत्तः; स्वस्थो जातः; देवदत्तेन बोधिसत्वस्य सन्दिष्टम्: मयायं पूर्वपरिगृहीतो हंसः, प्रेषयैनम् इति; बोधिसत्वेन सन्दिष्टम्: यदैव मया बोधाय चित्तम् उत्पादितं, तैदैव मया सर्वसत्वाः परिगृहीता इति; तत्र देवदत्तस्य बोधिसत्वेन सार्धं चरमे भवे
तत्प्रथमतो वैरूक्ष्यम् उत्पन्नम्; अन्यभवेषु तु बहुशः; सुप्रबुद्धेन (sbv i 64) कुमारा उद्यानभूमिं सारकल्याणीवृक्सस्यापनयनाय निर्गता इति श्रुत्वा महाजनकायः प्रेषितः; तत्रोच्चशब्दमहाशब्दो महाजनकायस्य च निर्घोषो जातः; बोधिसत्वः (अ 369अ) पृच्छति: भवन्तः किम् एष उच्चशब्दमहाशब्दो महाजनकायस्य च निर्घोष इति; छन्देन यथावृत्तं समाख्यातम्; बोधिसत्वः कथयति: यद्य् एवं गच्छामो ऽपनयामः; बोधिसत्वः संप्रस्थितः सार्धं कुमारैः; यावद् विवराद् आशीविषो बोधिसत्वस्याभिमुखो निर्गतः; उदायिना मा बोधिसत्वं दङ्क्ष्यतीति तीक्ष्णेन शस्त्रेण मध्ये छिन्नः; तेन उदायी श्वासेन दग्धः कृष्णीभूतः; तस्य कालोदायी कालोदयीति संज्ञा संवृत्ता; ततः कुमाराः सारकल्याणीवृक्षम् अपनेतुं प्रवृत्ताः; देवदत्तेन परिकरं बद्ध्वा ईषच्चालितः; नन्देनेषद् उत्क्षिप्तः; बोधिसत्वेन तु सर्वम् उपरि विहायसा क्षिप्तो द्विखण्डो जातः; नद्या रोहकाया एकस्मिंस् तीरे एकखण्डो निपरितः, द्वितीये द्वितीयः; बोधिसत्वः कथयति: भवन्तः अयं सारकल्याणीवृक्षः शीतविपाकः, पित्तघ्नः; गण्डगण्डं कृत्वा नयत; उत्पातगण्डपिटकानां प्रलेपं दास्यथ; कुमाराः स्वकस्वकान् रथान् अभिरुह्य उद्यानभूमेः कपिलवस्तु संप्रस्थिताः; पुरप्रवेशे रथाभिरूढो बोधिसत्वो नैमित्तिकैर् व्याकृतः; यद्य् एष सप्तदिवसे न प्रव्रजति, राजा भवति चक्रवर्तीति
meeting with gopikā
घाटागिरेः शाक्यस्य गोपिका दुहिता, उपरिप्रासादतलगता बोधिसत्वेन दृष्टा; सहदर्शनाच् च रथः पादाङ्गुष्ठेनावष्टब्धो निष्कम्पो जातः; बोधिसत्वो गोपिकां निरीक्षितुम् आरब्धः; गोपिकापि बोधिसत्वम्; बोधिसत्वस्य हस्ते नाराचः; स तेन गोपिकां पश्यता चूर्णीकृतः; गोपिकयापि बोधिसत्वं (sbv i 65) निरीक्षमाणया पादाङ्गुष्ठेन प्रासादतलं छिद्रितम्; महाजनकायेन बोधिसत्वो गोपिका च परस्परं निऋईक्षमाणौ भाविताध्याशयौ दृष्टौ; <दृष्ट्वा कथयन्ति>: यादृशी कन्या शक्ष्यत्य् एवैषा बोधिसत्वस्य चित्तग्राहं कर्तुम्; एष वृत्तान्तो राज्ञा शुद्धोदनेन श्रुतः; तेन <सा> बोधिसत्वस्यान्तःपुरं विंशतिकन्याशहस्रपरिवारा प्रवेशिता
sight of am old man
धर्मता खलु यदा बोधिसत्व उद्यानभूमिं निर्गन्तुकामो भवति तदा सारथिम् आमन्त्रयते: अङ्ग तावत् सारथे क्षिप्रं भद्रं यानं योजय यत्राहम् अभिरुह्योद्यानभूमिं निर्यास्यामि <इति; ततो बोधिसत्वः सारथिम् आमन्त्रयते: अङ्ग तावत् सारथे क्षिप्रं भद्रं यानं योजय यत्राभिरुह्योद्यानभूमिं गच्छामि;> एवं देवेति सारथिः शाक्यमुनेर् बोधिसत्वस्य प्रतिश्रुत्य भद्रं यानं योजयित्वा येन शाक्यमुनिर् बोधिसत्वस् तेनोपसङ्क्रान्तः; उपसङ्क्रम्य शाक्यमुनिं बोधिसत्वम् इदम् अवोचत्: युक्तं देवस्य भद्रं यानं, यस्येदानीं देवः कालं मन्यते; अथ शाक्यमुनिर् बोधिसत्वो भद्रं यानम् अभिरुह्य उद्यानभूमिं निर्गतः; अद्राक्षीच् छाक्यमुनिर् बोधिसत्वः पुरुषं जीर्णं वृद्धं महल्लकं <कुब्जं> गोपानसीवाङ्कं दण्डम् अवष्टभ्य पुरतः प्रवेपमानेन कायेन गच्छन्तं; केशाश् चास्य विवर्णा, न यथान्येषां पुरुषाणां; दृष्ट्वा च पुनः सारथिम् आमन्त्रयते: क एष सारथे पुरुषः? जीर्णो (अ 369ब्) वृद्धो महल्लकः कुब्जो गपानसीवङ्को दण्डम् अवष्टभ्य पुरतः प्रवेपमानेन कायेन गच्छति; केशाश् चास्य न यथान्येषां पुरुषाणाम्; एष, देव, पुरुषो जीर्णो नाम; क एष सारथे जीर्णो नाम?; अनेन, देव, पुरुषेण न चिराद् एव मर्तव्यं भविष्यति; स एष जीर्नो नाम; अहम् अपि सारथे जराधर्मा, जराधर्मतां चानतीतः? देवो ऽपि जराधर्मा जराधर्मतां चानतीतः; तेन हि सारथे प्रतिनिवर्तय (sbv i 66) रथम्; अन्तःपुरम् एव गच्छ; यद् अहम् अन्तःपुरमध्यगत एतम् अर्थं चिन्तयिष्यामीति; जरां किलाहम् अव्यतिवृत्त इति; प्रतिनिवर्तयति सारथी रथम्; अन्तःपुरम् एव याति; तत्र स्विच् छाक्यमुनिर् बोधिसत्वो ऽन्तःपुरमध्यगतः; अथाप्रतीतः करुणानि ध्यायति, जरां किलाहम् अव्यतिवृत्त इति; आह चात्र पुरुषं हि दृष्ट्वा समतीतयौवनं जीर्णं कुब्जं पलितं दण्डपाणिम् / अथाप्रतीतः करुणानि ध्यायति जरां किलास्म्य् अव्यतिवृत्त इत्यसौ // इति //
अथ राजा शुद्धोदनः सारथिम् आमन्त्रयते: कच्चित् सारथे कुमार आत्तमनात्तमना उद्यानभूमिं निर्गत अभिरतो वा उद्याने?; नो देव: तत् कस्य हेतोः? अद्राक्षीद् देव कुमार उद्यानभूमिं निर्गच्छन् पुरुषं जीर्णं वृद्धं महल्लकं कुब्जं गोपानसीवङ्कं दण्डम् अवष्टभ्य पुरतः प्रवेपमानेन कायेन गच्छन्तम्; केशाश् चास्य विवर्णा; न यथान्येषां पुरुषाणाम्; दृष्ट्वा च पुनर् माम् इदम् अवोचत्: क एष सारथे पुरुषो जीर्णो वृद्धो महल्लकः कुब्जो गोपानसीवङ्को दण्डम् अवष्टभ्य पुरतः प्रवेपमानेन कायेन गच्छति; केशाश् चास्य विवर्णा न यथान्येषां पुरुषाणाम् इति; तम् एनम् एवं वदामि; एष देव जीर्णो नामेति; स एवम् आह; क एष सारथे जीर्णो नामेति; तम् एनम् एवं वदामि: अनेन देव, पुरुषेण न चिरान् मर्तव्यं भविष्यति; स एष जीर्णो नामेति; स एवम् आह: अहम् अपि सारथे जराधर्मा, जराधर्मतां चानतीत इति; तम् एनम् एवं वदामि: देवो ऽपि जराधर्मा, जराधर्मतां चानतीत इति; स एवम् आह: तेन हि सारथे प्रतिनिवर्तय रथम्; अन्तःपुरम् एव गच्छ; यद् अहम् अन्तःपुरमध्यगत एतम् अर्थं चिन्तयामि, जरां किलाहम् (sbv i 67) अव्यतिवृत्त इति; स एष देव कुमारो ऽन्तःपुरमध्यगतः; अथाप्रतीतः करुणानि ध्यायति, जरां किलाहम् अव्यतिवृत्त इति
śuddhodanas' anxiety
अथ राज्ञः शुद्धोदनस्य एतद् अभवत्: मा हैव तेषां ब्राह्मणानां नैमित्तिकानां विपञ्चनकानां च वचनं भूतं सत्यं भविष्यति; मा हैव कुमारः केशश्मश्र्व् अवतार्य काषायाणि वस्त्राण्य् आच्छाद्य सम्यग् एव श्रद्धया अगाराद् अनगारिकां प्रव्रजिष्यति; यन्व् अहं कुमारस्य भूयस्या मत्रया पञ्च कामगुणान् अनुप्रदद्याम्, अप्य् एवाभिरतो न प्रव्रजेद् इति; अथ राजा शुद्धोदनः शाक्यमुनेर् बोधिसत्वस्य भूयस्या मात्रया पञ्चकामगुणान् (अ 370अ) अनुप्रयच्छत्य् अप्य् एवाभिरतो न प्रव्रजेद् इति; आह चात्र श्रुत्वा हि सङ्ग्राहकवाक्यम् एतच् छुद्धोदनः शाक्यमुनेः पितासौ / ददौ तदा कामगुणान् स पञ्च भूयो रतो ऽप्य् एव न मां त्यजेद् इति //
sight of a sick man
धर्मता खलु यदा बोधिसत्व उद्यानभूमिं निर्गन्तुकामो भवति तदा सारथिम् आमन्त्रयते: अङ्ग तावत् सारथे क्षिप्रं भद्रं यानं योजय, यत्राहम् अभिरुह्योद्यानभूमिं निर्यास्यामि इति; ततो बोधिसत्वः सारथिम् आमन्त्रयते: अङ्ग तावत् सारथे क्षिप्रं भद्रं यानं योजय, यत्राहम् अभिरुह्योद्यानभूमिं निर्यास्यामि (sbv i 68) इति; एवं देवेति सारथिः शाक्यमुनेर् बोधिसत्वस्य प्रतिश्रुत्य क्षिपं भद्रं यानं योजयित्वा येन शाक्यमुनिर् बोधिसत्वस् तेनोपसङ्क्रान्तः; उपसङ्क्रम्य शायमुनिं बोधिसत्वम् इदम् अवोचत्: युक्तं देवस्य भद्रं यानं, यस्येदानीं देवः कालं मन्यत इति; अथ शाक्यमुनिर् भद्रं यानम् अभिरुह्य उद्यानभूमिं निर्गतः; अद्राक्षीच् छाक्यमुनिर् बोधिसत्वः पुरुषम् उत्पाण्डूत्पाण्डुकं कृशालं दुर्बलकं व्यतिभिन्नेन्द्रियं नो तु निबन्धनीयं बहुजनस्य चक्षुषो दर्शनाय; दृष्ट्वा च पुनः सारथिम् आमन्त्रयते: क एष सारथे पुरुष उत्पाण्डूत्पाण्डुकः कृशालो दुर्बलको व्यतिभिन्नेन्द्रियो नो तु निबन्धनीयो बहुजनस्य चक्षुषो दर्शनाय? एष देव व्याधितो नाम; क एष सारथे व्याधितो नाम? अनेन देव पुरुषेण स्थानम् एतद् विद्यते यद् अनेनैवाबाधेन मर्तव्यं भविष्यति; स एष व्याधितो नाम; अहम् अपि सारथे व्याधिधर्मा व्याधिधर्मतां चानतितह्? देवो ऽपि व्याधिधर्मा व्याधिधर्मतां चानतीतः; तेन हि सारथे प्रतिनिवर्तय रथम्; अन्तःपुरम् एव गच्छ; यद् अहम् अन्तःपुरमध्यगत एतम् अर्थं चिन्तयिष्यामि, व्याधिं किलाहम् अव्यतिवृत्त इति; प्रतिनिवर्तयति सारथी रथम्; अन्तःपुरम् एव याति; तत्र स्विच् छाक्यमुनिर् बोधिसत्वो ऽन्तःपुरमध्यगतः; अथाप्रतीतः करुणानि
ध्यायति, व्याधिं किलाहम् अव्यतिवृत्त इति; आह चात्र दृष्ट्वेह रोगेण विषक्तरूपं पाण्डुं मनुष्यं कृशम् अस्वतन्त्रम् / अथाप्रतीतः करुणानि ध्यायति व्याधिं किलास्म्य् अव्यतिवृत्त इत्यसौ //
इति / अथ राजा शुद्धोदनः सारथिम् आमन्त्रयते: कच्चित् सारथे कुमार आत्तमनात्तमना उद्यानभूमिं निर्गत अभिरतो वा उद्याने? नो देव; तत् कस्य हेतोः? अद्राक्षीद् देव कुमारः उद्यानभूमिं निर्गच्छन् पुरुषम् (sbv i 69) उत्पाण्डूत्पाण्डुकं कृशालकं दुर्बलकं म्लानं व्यतिभिन्नेन्द्रियं, नो तु निबन्धनीयं बहुजनस्य चक्षुषा दर्शनाय; दृष्ट्वा च पुनर् माम् आमन्त्रयते; क एष सारथे पुरुष उत्पण्डूत्पाण्डुकः कृशालको दुर्बलकः म्लानो व्यतिभिन्नेन्द्रियो नो तु निबन्धनीयो बहुजनस्य चक्षुषा दर्शनाय; तम् एनम् एवं वदामि: एष देव व्याधितो नमेति; स एवम् आह: क एष सारथे व्याधितो नाम? तम् एनम् एवं वदामि: अनेन देव पुरुषेण स्थानम् एतद् विद्यते यद् अनेनैवाबाधेन मर्तव्यं भविष्यति; स एष देव व्याधितो नामेति; स एवम् आह: अहम् अपि सारथे व्याधिधर्मा व्याधिधर्मतां चानतीत? इति; तम् एनम् एवं वदामि: देवो ऽपि व्याधिधर्मा व्याधिधर्मतां चानतीत इति; स एवम् आह: तेन हि सारथे प्रतिनिवर्तय रथम्; अन्तःपुरम् एव गच्छ; यद् अहम् अन्तःपुरमध्यगत एतम् अर्थं चिन्तयिष्यामि, व्याधिं किलाहम् अव्यतिवृत्त इति; स एष देव कुमारो ऽन्तःपुरमध्यगत अप्रतीतः करुणानि ध्यायति, व्याधिं किलाहम् अव्यतिवृत्त इति; अथ राज्ञः शुद्धोदनस्यैतद् अभवत्: मा हैव तेषां ब्राह्मणानां नैमित्तिकानां विपञ्चनकानां वचनं भूतं सत्यं भविष्यति; मा हैव कुमारः केशश्मश्र्व् अवतार्य काषायाणि वस्त्राण्य् आच्छाद्य सम्यग् एव श्रद्धया अगाराद् अनगारिकां प्रव्रजिष्यतीति; यन्व् अहं कुमारस्य भूयस्या मात्रया पञ्चकामगुणान् अनुप्रदास्यामि; अप्य् एवाभिरतो न प्रव्रजेद् इति; अथ राजा
शुद्धोदनः शाक्यमुनेर् बोधिसत्वस्य भूयस्या मात्रया पञ्चकामगुणान् अनुप्रयच्छत्य् अप्य् एवाभिरतो न प्रव्रजेद् इति; आह चात्र रूपाणि शब्दांश् च तथैव गन्धान् स्प्रष्टव्यान् वै प्रेमणीयान् प्रधानान् / (sbv i 70) ददौ तदा कामगुणांस् तु पञ्च भूयो रतो ऽप्य् एव न मां त्यजेद् इति //
sight of a deceased-man
धर्मता खलु यदा बोधिसत्व उद्यानभूमिं निर्गन्तुकामो भवति तदा सारथिम् आमन्त्रयते: अङ्ग तावत् सारथे क्षिप्रं भद्रं यानं योजय; यत्राहम् अभिरुह्योद्यानभूमिं निर्यास्यामि इति; ततो बोधिसत्वः सारथिम् आमन्त्रयते: अङ्ग तावत् सारथे क्षिप्रं भद्रं यानं योजय, यत्राभिरुह्योद्यानभूमिं गच्छामि; एवं देवेति सारथिः शाक्यमुनेर् बोधिसत्वस्य प्रतिश्रुत्य क्षिप्रं भद्रं यानं योजयित्वा येन शाक्यमुनिर् बोधिसत्वस् तेनोपसङ्क्रान्तः: उपसङ्क्रम्य शाक्यमुनिं बोधिसत्वम् इदम् अवोचत्: युक्तं देवस्य भद्रं यानं यस्येदानीं देवः कालं मन्यत इति; अथ शाक्यमुनिर् बोधिसत्वो भद्रं यानम् अभिरुह्य उद्यानभूमिं निर्गतः; अद्राक्षीच् छाक्यमुनिर् बोधिसत्व उद्यानभूमिं निर्गच्छन् नानारङ्गैर् वस्त्रैश् चैलवितानं विततं, शिबिकां च प्रगृहीताम्, उल्कां च पुरस्तान् नीयमानां, महाजनकायं च पुरस्ताद् गच्छन्तं, नारीभिः प्रकीर्णकेशाभिः रुदन्तीभिः पृष्ठतः समनुबद्धम्; दृष्ट्वा च पुनः सारथिम् आमन्त्रयते: किम् एतत् सारथे नानारङ्गैर् वस्त्रैश् चैलवितानं विततम्? शिबिका च प्रगृहीता? उल्का च पुरस्तान् नीयते? महाजनकायश् च पुरस्ताद् गच्छति? नार्यश् च प्रकीर्णकेश्यो रुदन्त्यः पृष्ठतः समनुबद्धा? इति; देव एष मृतो नाम; क एष सारथे मृतो नाम? एष देव पुरुषो न भूयः प्रियं मातापितरं द्रक्ष्यति; न पुत्रदारं; दासीदासकर्मकरपौरुषेयं; ते ऽप्य् एनं न भूयो द्रक्ष्यन्ति; स एष देव मृतो नाम; अहम् अपि सारथे मरणधर्मा मरणधर्मतां चानतीतः? (अ 371अ) देवो ऽपि मरणधर्मा मरणधर्मतां चानतीतः; स एवम् आह: तेन हि सारथे प्रतिनिवर्तय रथम्; अन्तःपुरम् एव गच्छ; यद् अहं (sbv i 71) अन्तःपुरमध्यगत एतम् अर्थं चिन्तयिष्यामि, मरणं किलाहम् अव्यतिवृत्त इति; प्रतिनिवर्तयति सारथी रथम्; अन्तःपुरम् एव याति; तत्र स्विच् छाक्यमुनिर् बोधिसत्वो ऽन्तःपुरमध्यगतः अप्रतीतः करुणानि ध्यायति, मरणं किलाहम् अव्यतिवृत्त इति; आह चात्र पुरुषं दृष्ट्वा व्यपयातचेतसं मृतं विसंज्ञं गतम् आयुषः क्षयात् / अथाप्रतीतः करुणानि ध्यायति मृत्युं किलास्म्य् अव्यतिवृत्त इत्य् असौ //
अथ राजा शुद्धोदनः सारथिम् आमन्त्रयते: कच्चित् सारथे कुमार आत्तमनात्तमना उद्यानभूमिं निर्गत अभिरतो वा उद्याने? नो देव; तत् कस्य हेतोः? अद्राक्षीद् देव कुमार उद्यानभूमिं निर्गच्छन् नानारङ्गैर् वस्त्रैश् चैलवितानं विततम्; शिबिकां च गृहीताम्; उल्कां च पुरस्तान् नीयमानाम्; महाजनकायं च पुरस्ताद् गच्छन्तं; नारीश् च प्रकीर्णकेशा रुदतीः पृष्ठतः समनुबद्धाः; दृष्ट्वा च पुनर् माम् आमन्त्रयते: किम् एतत् सारथे नानारङ्गैर् वस्त्रैश् चैलवितानं विततम्? शिबिका च प्रगृहीता? उल्का च पुरस्तान् नीयते? महाजनकायश् च पुरस्ताद् गच्छति? नार्यश् च प्रकीर्णकेश्यो रुदन्त्यः पृष्ठतः समनुबद्धा? इति; तम् एनम् एवं वदामि: एष देव मृतो नामेति; स एवम् आह; क एष सारथे मृतो नामेति; तम् एनम् एवं वदामि: (sbv i 72) एष देव पुरुषो न भूयः प्रियं मातापितरं द्रक्ष्यति; न पुत्रदारं; न दासीदासकर्मकरपौरुषेयम्; ते ऽप्य् एनं न भूयो द्रक्ष्यन्ति; स एष देव मृतो नामेति; स एवम् आह: अहम् अपि सारथे मरणधर्मा? मरणधर्मतां चानतीतः? इति; तम् एनम् एवं वदामि; देवो ऽपि मरणधर्मा मरणधर्मतां चानतीत इति; स एवम् आह; तेन हि सारथे प्रतिनिवर्तय रथम्; अन्तःपुरम् एव गच्छ; यद् अहम् अन्तःपुरमध्यगत एतम् अर्थं चिन्तयिष्यामि, मरणं किलाहम् अव्यतिवृत्त इति; स एष देव कुमारो ऽन्तःपुरमध्यगतः; अथाप्रतीतः करुणानि ध्यायति, मरणं किलाहम् अव्यतिवृत्त इति अथ राज्ञः शुद्धोदनस्यैतद् अभवत्: मा हैव तेषां ब्राह्मणानां नैमित्तिकानां विपञ्चनकानां वचनं भूतं सत्यं भविष्यति; मा हैव कुमारः केशश्मश्र्व् अवतार्य काषायाणि वस्त्राण्य् आच्छाद्य सम्यग् एव श्रद्धया अगाराद् अनगारिकां प्रव्रजिष्यति; यन्व् अहं कुमारस्य भूयस्या मात्रया पञ्चकामगुणान् अनुप्रदद्याम्; अप्य् एवाभिरतो न प्रव्रजेद् इति; अथ राजा शुद्धोदनः शाक्यमुनेर् बोधिसत्वस्य पञ्चकामगुणान् अनुप्रयच्छति; अप्य् एवाभिरतो न प्रव्रजेद् इति; आह चात्र पुरोत्तमे श्रीमति तत्र रम्ये देवातिदेवो दहरः समानः / संमोदते कामगुणैर् हि पञ्चभिः सहस्रनेत्र इव नन्दने वने //
sight of a mendicant
अथ शुद्धावासकायिकानां देवानाम् एतद् अभवत्: (अ 37ल्ब्) यद्य् अपि बोधिसत्वा हेतुबलिनस् तथापि प्रत्ययोपसंहारः (sbv i 73) कर्तव्यः यस्माद् धेतुबलं प्रत्ययबलम् अपेक्षत इति; तैः पुरुषो निर्मितो मुण्डः काषायवस्त्रप्रावृतः, पात्रपाणिर् अनुवेश्मानुवेश्म कुलान्य् उपसङ्क्रामन्; धर्मता खलु यदा बोधिसत्व उद्यानभूमिं निर्गन्तुकामो भवति तदा सारथिम् आमन्त्रयते: अङ्ग तावत् सारथे क्षिप्रं भद्रं यानं योजय, यत्राहम् अभिरुह्योद्यानभूमिम् <निर्यास्यामि इति; ततो बोधिसत्वः सारथिम् आमन्त्रयते: अङ्ग तावत् सारथे क्षिप्रं भद्रं यानं योजय यत्राहम् अभिरुह्योद्यानभूमिं> निर्गच्छामि; एवं देवेति सारथिः साक्यमुनिर् बोधिसत्वस्य प्रतिश्रुत्य क्षिप्रं भद्रं यानं योजयित्वा येन साक्यमुनिर् बोधिसत्वस् तेनोपसङ्क्रान्तः; उपसङ्क्रम्य शाक्यमुमिं बोधिसत्वम् इदम् अवोचत्: युक्तं देवस्य भद्रं यानं यस्येदानीं देवः कालं मन्यत इति; अथ शाक्यमुनिर् बोधिसत्वो भद्रं यानम् अभिरुह्य उद्यानभूमिं निर्गतः; अद्राक्षीच् छाक्यमुनिर् बोधिसत्वः पुरुषं मुण्डम् काषायवस्त्रप्रावृतं पात्रपाणिम् अनुवेश्मानुवेश्म कुलान्य् उपसङ्क्रामन्तम्; दृष्ट्वा च पुनः सारथिम् आमन्त्रयते: क एष सारथे पुरुषो मुण्डः पात्रपाणिर् अनुवेश्मानुवेश्म कुलान्य् उपसङ्क्रामति? वस्त्राणि चास्य विवर्णानि; म यथान्येषाम्? एष देव प्रव्रजितो नाम; क एष सारथे प्रव्रजितो नाम; एष देव प्रव्रजितः साधुदमः साधुसंयमः साध्वर्थचर्यः साधुकुशलचर्यः साधुकल्याणचर्य इति विदित्वा केशश्मश्र्व् अवतार्य काषायाणि वस्त्राण्य् आच्छाद्य सम्यग् एव श्रद्धया अगाराद् अनगारिकां प्रव्रजितः; स एष देव प्रव्रजितो नाम;
तेन हि सारथे येनैष प्रव्रजितस् तेन रथं प्रेरय; एवम् देवेति सारथिः शाक्यमुनेर् बोधिसत्वस्य प्रतिश्रुत्य येन स प्रव्रजितस् तेन रथं प्रेरयति; अथ शाक्यमुनिर् बोधिसत्वस् तं प्रव्रजितम् इदम् अवोचत्: कस्मात् त्वं भोः पुरुष मुण्डः पात्रपाणिर् अनुवेश्मानुवेश्म कुलान्य् उपसङ्क्रामसि? वस्त्राणि च ते विवर्णानि न यथान्येषाम्? स एवम् आह: अहम् अस्मि कुमार प्रव्रजितो नाम; यथा कथं त्वं भोः पुरुष प्रव्रजितो नाम? अहम् अस्मि कुमार साधुदमः साधुसंयमः साध्वर्थचर्यः साधुधर्मचर्यः (sbv i 74) साधुकुशलचर्यः साधुकल्याणचर्य इति केशश्मश्र्व् अवतार्य काषायाणि वस्त्राण्य् आच्छाद्य संयग् एव श्रद्धया अगाराद् अनगारिकां प्रव्रजितः; एवम् अहं प्रव्रजितो नाम; साधु त्वं भोः पुरुष साधुदमः साधुसंयमः साध्वर्थचर्यः साधुधर्मचर्यः साधुकुशलचर्यः साधुकल्याणचर्य इति केशश्मश्र्व् अवतार्य काषायाणि वस्त्राण्य् आच्छाद्य सम्यग् एव श्रद्धया अगाराद् अनगारिकां प्रव्रजितः अथ शाक्यमुनिर् बोधिसत्वः सारथिम् आमन्त्रयते: तेन हि सारथे प्रतिनिवर्तय रथम्; अन्तःपुरम् एव गच्छ; यद् अहम् अन्तःपुरमध्यगत एतम् अर्थं चिन्तयिष्यामि; प्रतिनिवर्तयति (अ 372अ) सारथी रथम्; अन्तःपुरम् एव याति; तत्र स्विच् छाक्यमुनिर् बोधिसत्वो ऽन्तःपुरमध्यगत एतम् अर्थं चिन्तयत्य् अहो बताहं केशश्मश्र्व् अवतार्य काषायाणि वस्त्राण्य् आच्छाद्य सम्यग् एव श्रद्धया अगाराद् अनगारिकां प्रव्रजेयम् इति; अथ राजा शुद्धोदनः सारथिम् आमन्त्रयते: कच्चित् सारथे कुमार आत्तमनात्तमना उद्यानभूमिं निर्गतो ऽभिरतो वा उद्याने? नो देव; तत् कस्य हेतोह्? अद्राक्षीद् देव कुमारः
उद्यानभूमिं निर्गच्छन् पुरुषं मुण्डं काषायवस्त्रप्रावृतं पात्रपाणिम् अनुवेश्मानुवेश्म कुलान्य् उपसङ्क्रामन्तं; दृष्ट्वा च पुनर् माम् आमन्त्रयते: एष सारथे मुण्डः पात्रपाणीर् अनुवेश्मानुवेश्म कुलान्य् उपसङ्क्रामति; वस्त्राणि चास्य विवर्णानि न यथान्येषाम् इति; तम् एनम् एवं वदामि एष देव प्रव्रजितो नामेति; स एवम् आह: क एष सारथे प्रव्रजितो नामेति; तम् एनम् एवं वदामि एष देव प्रव्रजितः साधुदमः साधुसंयमः साध्वर्थचर्यः साधुधर्मचर्यः साधुकुशलचर्यः साधुकल्याणचर्य इति केशश्मश्र्व् अवतार्य काषायाणि वस्त्राण्य् आच्छाद्य सम्यग् एव श्रद्धया अगाराद् अनगारिकां प्रव्रजितः; स एष देव प्रव्रजितो नामेति; स एवम् आह: तेन हि सारथे येनैष प्रव्रजितस् तेन रथं प्रेरय; एवं देवेति शाक्यमुनेर् बोधिसत्वस्य पुअतिश्रुत्य येन स प्रव्रजितस् तेन रथं प्रेरयामि; अथ शाक्यमुनिर् बोधिसत्वस् तं प्रव्रजितम् इदम् अवोचत्: कस्मात् त्वं भोः पुरुष मुण्डः पात्रपाणिर् अनुवेश्मानुवेश्म कुलान्य् उपसङ्क्रामसि? वस्त्राणि (sbv i 75) च ते विवर्णानि; न यथान्येषां पुरुषाणाम्? स एवम् आह: अहम् अस्मि <कुमार> प्रव्रजितो नामेति; बोधिसत्वः प्राह: यथाकथं त्वं भोः पुरुष प्रव्रजितो नामेति; स एवम् आह: अहम् अस्मि कुमार साधुदमः साधुसंयमः साध्वर्थचर्यः <साधुधर्मचर्यः> साधुकुशलचर्यः साधुकल्याणचर्य इति केशश्मश्र्व् अवतार्य काषायाणि वस्त्राण्य् आच्छाद्य सम्यग् एव श्रद्धया अगाराद् अनगारिकां प्रव्रजितः; एवम् अहं प्रव्रजितो नामेति; बोधिसत्वः प्राह: साधु त्वं भोः पुरुष साधुदमः साधुसंयमः साध्वर्थचर्यः <साधुधर्मचर्यः> साधुकुशलचर्यः
साधुकल्याणचर्य इति केशश्मश्र्व् अवतार्य काषायाणि वस्त्राण्य् आच्छाद्य सम्यग् एव श्रद्धया अगाराद् अनगारिकां प्रव्रजित इति; ततो देव कुमारो माम् आमन्त्रयते: तेन हि सारथे प्रतिनिवर्तय रथम्; अन्तःपुरम् एव गच्छ; यद् अन्तःपुरमध्यगत एतम् अर्थं चिन्तयिष्यामि; तन् मया निवर्तितः <रथः>; कुमारो ऽन्तःपुरं प्रविष्टः
visit to a farming village
राजा संलक्षयति: मा हैव तेषां ब्राह्मणानां नैमित्तिकानां विपञ्चनकानां वचनं सत्यं भूतं भविष्यति; मा हैव कुमारः केशश्मश्र्व् अवतार्य काषायाणि वस्त्राण्य् आच्छाद्य सम्यग् एव श्रद्धया अगाराद् अनगारिकां प्रव्रजिष्यति; यन्व् अहं कुमारं कार्षग्रामकं प्रेषयेयम्; अप्य् एव तत्र चित्तं विनोदयेद् इति विदित्वा शाक्यमुनिं कुमारम् इदम् अवोचत्: एहि त्वं कुमार कार्षकग्रामकं गच्छ; (अ 372ब्) कर्मान्तान्य् अवलोकय इति; ततो बोधिसत्वो जीर्णातुरमृतसन्दर्शनाद् उद्विग्नः प्रव्रज्यायाम् अभिनिविष्टबुद्धिः पितुः शाक्यस्य शुद्धोदनस्य वचनानुकारितया रथम् अभिरुह्य कार्षग्रामकं संप्रस्थितः कायेन नो तु चित्तेन; तस्यान्तर्मार्गे पञ्चभिर् निधिशतैर् मुखान्य् उपदर्शितानि; शब्दश् च निश्चारितः: कुमार वयं तव ज्ञातिसन्तका निधयो गृहाणास्मान् इति; बोधिसत्वः कथयति: तैस् तावन् मोहपरिग्रहं कृत्वा किं कृतम्; गच्छत मम न युष्माभिः प्रयोजनम् इति; गाथां च भाषते (sbv i 76) यैर् अपि कृता ऽमृतकथा ते ऽप्य् अस्माकं मृताः कथीभूताः / वयम् अपि मृताः परेषां नचिरेण कथीभविष्यामः //
तैः पुनर् अपि शब्दो निश्चारितः: यद्य् अस्माकं कुमारो न गृह्णाति वयं म्हासमुद्रं विशाम इति; बोधिसत्वः कथयति: प्रविशत यथासुखम् इति; ते महासमुद्रं प्रविष्टाः; बोधिसत्वः संप्रस्थितो यावत् पश्यति कार्षकान् उद्धूतशिरस्कान् स्फुटितपाणिपादान् रजसावचूर्णितगात्रान्; बलीवर्दांश् च प्रतोदविक्षतशरीरान् रुधिरावसिक्तपृष्ठकटिप्रदेशान् क्षुत्पिपासाश्रमोपरुध्यमानप्राणान्, प्रततनिश्वासोपरुध्यमानहृदयान्, युतगोत्पीडनप्रगडितव्रणपूयशोणितान्, मक्षिकाकृमिसङ्घातभक्ष्यमाणस्कन्धप्राणान्, हलयुगविलिखितचरणान्, लालाशिङ्घाणकप्रस्रुतमुखनासान्, दंशमशकचर्मप्राणकाकीर्णान्; दृष्ट्वा च पुनर् अनादिकालपुण्योपचयसंभृतया करुणया पर्याकुलीकृतमनाः कार्षकान् इदम् अवोचत्: भवन्तः कस्य यूयं? ते कथयन्ति: देवस्य; स कथयति: गच्छत, भवन्तो, यूयम् अद्याग्रेणादासा अप्रेष्याभुजिष्या येनकामगमा सुखस्पर्शं विहरत; बलीवर्दाश् च उक्ताः: गच्छत यूयम् अप्य् अद्याग्रेण अच्छिन्नाग्राणि तृणानि भक्षयत; अनवमर्दितानि स्वच्छानि च पानीयानि पिबत अनाविलानि; चतुर्दिशं च शीतला वायवो वान्त्व् इति /
the shadow of the rose-apple tree
ततो बोधिसत्वस् तेनैव संवेगेन पितुः शाक्यस्य शुद्धोदनस्य कर्मान्तान् अवलोक्य येन जम्बूछाया तेनोपसङ्क्रान्तः; उपसङ्क्रम्य जम्बूछायायां निषद्य विविक्तं <कामैर् विविक्तं> पापकैर् अकुशलधर्मैः सवितर्कं सविचारं विवेकजं प्रीतिसुखं अनाश्रवसदृशं प्रथमं ध्यानं समापन्नः; जनकायो ऽपि परिशिष्टवृक्षमूलेष्व् अवस्थितो बोखिसत्वं न (sbv i 77) परित्यज्य गच्छति; राजा शुद्धोदनः संलक्षयति: बोधिसत्वश् चिरयति; तथा हि भक्तकाइअसमयो ऽतिक्रान्तः, गच्छामि, पश्यामि इति; स रथम् अभिरुह्य कार्षकग्रामकं गतः; इतश् चामुतश् च बोधिसत्वं समन्वेषमाणो जम्बूसमीपम् अनुप्राप्तः; तेन खलु समयेन परिणते मध्याह्ने अन्येषां वृक्षाणां छाया प्राचीननिम्ना, प्राचीनप्रवणा, प्राचीनप्राग्भारा; बोधिसत्वानुभावात् तु जम्बूछाया बोधिसत्वस्य कायं न विजहाति; अद्राक्षीद् राजा शुद्धोदनः परिणते मध्याह्ने अन्येषां वृक्षाणां छाया प्राचीननिम्ना, प्राचीनप्रवणा, प्राचीनप्राग्भारा; बोधिसत्वस्य <अनुभावात्> तु जम्बूछाया बोधिसत्वस्य कयं न विजहाति; दृष्ट्वा च पुनर् अस्यैतद् अभवत्: महर्धिकः कुमारो महानुभावो यत्रेदानीं परिणते मध्याह्ने अन्येषां वृक्षाणां छाया प्राचीननिम्ना प्राचीनप्रवणा प्राचीनप्राग्भारा, (अ 373अ) जम्बूछाया तु बोधिसत्वस्य कायं न विजहाति; ततः प्रसन्नाधिकारं कृत्वा बोधिसत्वस्य पादयोर् निपत्य, गाथां भाषते इदं द्वितीयं तव भूरिवृद्धे पादौ नमस्यामि समन्तचक्षो / यथा च जाते पृथिवी प्रकंपिता छाया च जम्बोर् न जहाति कायम् //
ततः प्रसन्नाधिकारं कृत्वा बोधिसत्वं पर्यङ्काद् उत्थाप्य रथम् अभिरोप्य श्मशानमध्येन कपिलवस्तु संप्रस्थितः; बोधिसत्वेन श्मशानमध्येन गच्छता विनीलकानि, विपटुमकानि, व्याध्मातकानि शरीराणि दृष्टानि; तत्र सुतरां संविग्नो रथाभिरूढ एव पर्यङ्कं बद्ध्वावस्थितः; ततो ऽपि राज्ञा पर्यङ्काद् उत्थापितः; स संप्रस्थितः; कपिलवस्तुनगरप्रवेशे नैमित्तिकैर् व्याकृतः यदि कुमारः सप्तमे दिवसे न प्रव्रजति राजा भवति चक्रवर्ती इति; विदित्वा राजानं इदम् अवोचन् (sbv i 78) प्रादुर्भविष्यन्ति दिवाकरोदये रत्नानि सप्त नृपते न संशयह्/ तस्माद् धि रक्षां कुरु सप्तरात्रिं सुतस्य शोभां यदि द्रष्टुम् इच्छसि //
सप्तरत्नेश्वरो राजा भविष्यति सुतस् तव / प्रशासिष्यत्य् अदण्डेन सागरान्तां वसुन्धराम् //
अथवा त्यज्य वसुधां वनं यास्यति निर्भयः / सर्वज्ञताम् अनुप्राप्य जगद् उत्तारयिष्यति //
meeting with mṛgajā
कालक्षेमस्य शाक्यस्य मृगजा नाम दुहिता; तया वातायनस्थया बोधिसत्वं दृष्ट्वा गाथा भाषिता सुखिता बत सा माता सुखी चास्य पिता ह्य् असौ / निर्वृता बत सा नारी यस्या भर्ता भविष्यति //
निर्वाणशब्दं श्रुत्वा तु ध्यायी स पुरुषोत्तमः / निर्वाणे शान्ततां ज्ञात्वा तस्मिंश् चित्तम् अरोचयत् //
ततो बोधिसत्वेन सौभाषिणिको मुक्ताहारः क्षिप्तः; बोधिसत्वस्यानुभावेन वातायनेनानुप्रविश्य तस्या ग्रीवायां लग्नः; प्रविशन्न् असौ महाजनकायेन दृष्टः; तै राज्ञे शुद्धोदनाय विस्तरेण समाख्यातम्; राज्ञा शुद्धोदनेन मृगजा विंशतिस्त्रीसहस्रपरिवारा बोधिसत्वस्यान्तःपुरं प्रवेशिता; इति तत्र बोधिसत्वस्य गोपिकामृगजायशोधराप्रमुखानि षष्टिस्त्रीसहस्राण्य् अन्तःपुरम् अभूत्
precautions of śuddhodana
ततो राजा शुद्धोदनः भ्रातृभिः, द्रोणोदनेन, शुक्लोदनेन, अमृतोदनेन च, सार्धम् एकध्ये सन्निपत्य संजल्पं कर्तुम् आरब्धः: ब्राह्मणैर् नैमित्तिकैर् विपञ्चनकैश् च (sbv i 79) व्याकृतः शाक्यमुनिर् बोधिसत्वो यदि सप्तमे दिवसे न प्रव्रजति, राजा भवति चक्रवर्तीति; तद् अस्माभिर् बोधिसत्वः सप्त रात्रिन्दिवसान् यत्नतो रक्षणीयः; नगरं सुगुप्तं कारयामः; ततस् तैः कपिलवस्तुनगरं सप्तभिः प्राकारैः परिक्षिप्तं सप्तभिः परिखाभिश् च; आयसाश् च कवाटाः पुरद्वारे दत्ताः; घण्टाश् च सुस्वनाः कवाटेषु निबद्धाः; यासाम् उद्घाट्यमानेषु द्वारेषु समन्ताद् योजनम् शब्दः स्फुरति; बोधिसत्वश् च हर्म्यतले नृत्तगीतवादित्रै स्त्रीभिश् चाभिरूपमनोहराभिर् उपचर्यमाणो ऽवस्थापितः; अमात्याश् च तुरङ्गबलकायसमेता बहिः प्राकारस्य समन्ताद् गुल्मकेषु स्थापिताः; सञ्चारिसंशोधनं कारितम्; यत् पञ्चभिः पुरुषशतैः स्थाप्यते अन्तःपुरद्वारं तादृशं कारितम्; यस्योद्घाट्यमानस्य राज्ञः शुद्धोदनस्य गृहं शब्देन स्फुरति; तच्छ्रवणाद् अन्तःपुरजनो नगरद्वारनियुक्तश् च अप्रमत्तो ऽवतिष्ठते बहिर्नगरनियुक्ता अमात्याः पौराजनपदाश् च; तन् महत्या विभूत्या बोधिसत्व उपरिप्रासादतलगतो निष्पुरुषेण तूर्येण वीणावेणुपणवसुघोषकादिना उपगीयमनस् तिष्ठति; रात्रौ बहिः शुद्धोदनश् चतुरङ्गेन बलकायेन पूर्वद्वारे ऽवहितो ऽवतिष्ठते; दक्षिणे द्रोणोदनः पश्चिमे शुक्लोदनः, उत्तरे अमृतोदनः; मध्ये नगरस्य महानामा शाक्यः प्राहारिकः; स पूर्वद्वारं गत्वा कथयति, को जागर्ति, को जागर्तीति; राजा कथयति: अहं जागर्मि; जागृहि देव, जाग्रतस् ते श्रेयान् इति; विदिवा
गाथां भाषते सुप्तो मृतसमो लोकः सुप्तो मारवशं गतः / जाग्रतीह सदा सन्तस् तस्माज् जागृत जागृत //
इति; दक्षिणद्वारं गत्वा कथयति: को जागर्ति, को जागर्तीति; द्रोणोदनः कथयति: अहं जागर्मि; जागृहि देवः जाग्रतस् ते श्रेयान् इति; विदित्वा गाथां भाषते (sbv i 79) सुप्तो मृतसमो लोकः सुप्तो मारवशं गतः / सुप्तो मृत्युवशं प्राप्तस् तस्माज् जागृत जागृत // इति; पश्चिमद्वारं गत्वा कथयति: को जागर्ति को जागर्तीति; शुक्लोदनः कथयति: अहं जागर्मि; जागृहि देव, जाग्रतस् ते श्रेयान् इति; विदित्वा गाथां भाषते सुप्तः खलु सदा मत्तः सुप्तो मद्याढकं पीत्वा / अटवीषु वनेषु सुप्तस् तस्माज् जागृत जागृत // इति उत्तरं द्वारं गत्वा कथयति: को जागर्ति को जागर्तीति; अमृतोदनः कथयति: अहं जागर्मि; जागृहि देव; जाग्रतस् ते श्रेयान् इति; विदित्वा गाथां भाषते शयितं गिरिषु शयितं दरीषु शयितं च सागरजलेष्व् अपि / वृक्षाग्रेष्व् अपि शयितं तस्माज् जागृत जागृत // इति; मध्ये चत्वरशृङ्गाटकस्य गत्वा कथयति: को जागर्ति को जागर्तीति; नियुक्ताः कथयन्ति: वयं जागृमः; जागृत जाग्रतां वः श्रेयान् इति; विदित्वा गाथां भाषते धर्मं चरत मा ऽधर्मं सत्यं वदत मानृतम् / महत् तमो प्रवेष्टव्यं तस्माज् जागृत जागृत //
इति; ततः प्रभातायां रजन्यां महानामा शाक्यो राज्ञे शुद्धोदनाय आरोचयति: देव प्रभाता रजनी; निर्गतं सप्तानां रात्रिंदिवसानाम् एकं रात्रिंदिवसम्; षड् रात्रिंदिवसान्य् अवशिष्टानि इति; राजा शुद्धोदनः कथयति: शोभनम्; षण्णां रात्रिंदिवसानाम् अत्ययात् कुमारश् चक्रवर्ती भविष्यति; वयं गगनतलविचारिणश् चतुरो द्वीपान् अनुसंयास्यामः; इत्य् एवं यावद् एकं रात्रिंदिवसम् अवशिष्टं; शक्रस्य देवानाम् इन्द्रस्याधस्ताज् ज्ञानदर्शनं प्रवर्तते; स गाघां भाषते; (sbv i 81) असौ मुनिश् शाक्यनरेन्द्रगर्भः प्रपूर्णषड्पारमितो महात्मा / प्रयातुकामो वनम् आर्यकान्तं तपोवनं प्रीतिकरं मुनीनाम् // इति /
disgusting sight in harem
ततो बोधिसत्वस्यान्तःपुरसमेतस्य निष्पुरुषेण तूर्येण (अ 374अ) क्रीडतो रममाणस्य परिचारयत एतद् अभवत्: भविष्यन्ति मे अतोनिदानं परे वक्तारः शाक्यमुनिः कुमारो ऽपुमान्, येन यशोधरागोपिकामृगजाप्रभृतीनि षष्टिस्त्रीसहस्राण्य् अपास्य प्रव्रजित इति; यन्व् अहं यशोधरया सार्धं परिचारयेयम् इति; तेन यशोधरया सार्धं परिचारितम्; यशोधरा आपन्नसत्वा संवृत्ता; तस्या एतद् अभवत्: प्रभातायां रजन्यां बोधिसत्वस्यारोचयिष्यामि इति; अथ बोधिसत्वस् तस्यां वेलायां प्रतीत्यसमुत्पादयोगाद् गाथां भाषते नारीसहागारशय्या अपश्चिमा ममाद्येयम् / नाहं पुनर् अपि वत्स्ये अगारे सह युवत्या // इति: अथ ताः स्त्रियो नृत्तगीतवादित्रपरिश्रान्ता लालाप्रस्रुतवदना प्रकीर्णकेश्यो विक्षिप्तभुजवाससः कान्य् अपि कान्य् अप्य् अश्लीकानि प्रलपन्त्यो मिद्धम् अवक्रान्ताः; अद्राक्षीद् बोधिसत्वस् ता स्त्रियः प्रस्रुतवदनाः प्रकीर्णकेश्यः विक्षिप्तभुजवाससः कान्य् अपि कान्य् अप्य् अश्लीकानि प्रलपन्त्यः मिद्धम् अवक्रान्ताः; दृष्ट्वा च पुनर् अस्यान्तःपुरे श्मशानसंज्ञा समुत्पन्ना; स गाथां भाषते वाताहतं कमलषण्डम् इवापविद्धं (sbv i 82) विक्षिप्तबाहुचरणं धरणीतले ऽस्मिन् / केशाकुलं विवृतगुह्यकटिप्रदेशं दृष्ट्वापि शाक्यतनयोद्विजितो ऽस्मि भावात् //
एतान् श्मशानसदृशान् विकृतस्वभावान् पश्यामि चारुरहितान् युवतीजनौघान् / किं भो विचेतनमतिस्मृतिसंप्रयुक्तो यद् बालसत्वचरितो विषये रमेद् यः //
धिक् कामपङ्कशरशक्तिविषाग्नितुल्यान् स्वप्नोपमान् लवणपानविषोपमांश् च / एष त्यजामि भुजगेन्द्रनिभान् दुरन्तान् कामान् अनर्थकलिकिल्बिषहेतुभूतान् //इति /
dreams of mahāprajāpati, yaśodharā and siddhārtha
अत्रान्तरे महाप्रजापतिश् चतुरः स्वप्नान् पश्यति: राहुणा चन्द्रमसं ग्रस्तम्; पूर्वस्यां दिश्य् आदित्यम् उदितं, तत्रैवास्तंगतम्; महाजनकायम् आत्मानं प्रणामं कुर्वन्तम्; हसन्तं चात्मानम्; यशोधरा अष्टौ स्वप्नान् अद्राक्षीत्; आत्मीयं मातृकावंशं भग्नम्; श्रीपर्यङ्कं भग्नम्; वलयबाहू भग्ने; दन्तमाले विशीर्णे; केशवेणीं स्रस्ताम्; श्रियं गृहान् निर्गताम्; चन्द्रमसं राहुणा ग्रस्तम्: पूर्वस्यां दिश्य् आदित्यम् उदितं तत्रैवास्तंगतम्; बोधिसत्वो ऽपि पञ्च स्वप्नान् अद्राक्षीत्: महापृथिवीम् आत्मनो महाशयनम्; सुमेरुं पर्वतराजं विश्वोपधानम्; वामं बाहुं पूर्वमहासमुद्रे ऽन्तर्गतम्; दक्षिनं बाहुं पश्चिममहासमुद्रे ऽन्तर्गतम्; उभौ चरणौ दक्षिणमहासमुद्रे ऽन्तर्गतौ; स्थितिकां तृणजातं नाभेर् अभ्युद्गम्य यावन्नभ आसाद्य व्यवस्थिताम्; सर्वश्वेतांश् छकुनकान् कृष्णशिरसः पादयोर् निपत्य यावज्जानुमण्डलम् उत्थितान्; नानावर्णांश् छकुनकान् चतुर्दिशाम् (sbv i 83) आगम्य पुरस्ताद् एकवर्णान् स्थितान्; अमेध्यपर्वतस्योपरि आत्मानं चङ्क्रमणं <कुर्वन्तम्>; दृष्ट्वा च पुनः प्रीतमनाः संलक्षयति: यादृशा मया स्वप्ना दृष्टाः, न चिराद् एवानुत्तरं ज्ञानम् अधिगमिष्यामि इति; ततो यशोधरया बोधिसत्वस्य स्वप्ना निवेदिताः: देव अद्य मया अष्टौ स्वप्ना दृष्टाः; (अ 374ब्) मातृकावंशो भग्नः; <श्रिपर्यङ्को भग्नः>; वलयबाहू भग्ने; दन्तमाले विशीर्णे; वेणी स्रस्ता; श्री गृहान् निर्गता; चन्द्रो राहुणा ग्रस्तः; पूर्वस्यां दिश्य् आदित्य उदितस् तत्रैव अस्तंगतः इति; बोधिसत्वो यशोधरां प्रतिविनोदयन् स्वप्नान् आविष्करोति: यत् कथयसि मातृकावंशो मे भग्न इति; नन्व् अयं तिष्ठति; यत् कथयसि
श्रीपर्यङ्को भग्न इति; सो ऽपि न भग्नः; एष तिष्ठति; यत् कथयसि वलयबाहू भग्ने इति; स्वयम् एव प्रत्यवेक्षस्व किं भग्ने न वेति; यत् कथयसि दन्तमाले विशीर्णे इति, एतत् ते प्रत्यात्मवेद्यम्; प्रत्यवेक्षस्व किं विशीर्णे न वेति; यत् कथयसि वेणी स्रस्तेति; एतत् ते प्रत्यात्मवेद्यम्; प्रत्यवेक्षस्व किं स्रस्ता न वेति; यत् कथयसि श्रीर् मे गृहान् निर्गतेति; स्त्रियो भर्ता श्रीः, तद् अहं तिष्ठाम्य् एव; यत् कथयसि राहुणा चन्द्रो ग्रस्त इति; नन्व् एष चन्द्रमाः साक्षात् तिष्ठति; यत् कथयसि पूर्वस्यां दिश्य् आदित्य उदितस् तत्रैवास्तंगत इति; तद् अयम् अर्धरात्रो वर्तते; न तावद् उदेति; कुतो ऽस्तंगमिष्यति; एवं संज्ञप्ता यशोधरा तूष्णीम् अवस्थिता; बोधिसत्वः संलक्षयति: यादृशानि यशोधरया स्वप्नानि दृष्टानि नियतं मयाद्यैव गन्तव्यम्; तद् अस्या लेशांशदेशेन कथयाम्> इति; तेन तस्य लेशांशदेशेन कथितम्; यशोधरा कथयति: देव यत्र त्वं गमिष्यसि तत्र मां नेष्यसि इति; बोधिसत्वो निर्वाणं सन्धाय कथयत्य् एवं भवतु; यत्र यत्र गमिष्यामि तत्र तत्र त्वां नेष्यामि इति (sbv i 84)
सिद्धार्थऽस् रेनुन्चिअतिओन्
अथ शक्रब्रह्मादयो देवा बोधिसत्वस्य चेतसा चित्तम् आज्ञाय येन बोधिसत्वस् तेनोपसङ्क्रान्ताः; उद्दामकिशोरकसन्निभकं वनवानरगोचरचित्तसमम् / यदि चित्तं निवर्तसि कामगुणात् ततो द्रक्ष्यसि ज्योतिर् अनिन्द्यपदम् //
उत्तिष्ठोत्तिष्ठ सुमते त्यक्त्वा निष्क्रम मेदिनीम् / सर्वज्ञताम् अनुप्राप्य जगद् उत्तारयिष्यसि //
बोधिसत्वेनाभिहितम्: ननु पश्यसि कौशिक मृगपतिर् इव वागुरावृतो ऽहं धनुरसिखड्गधरैर् नरैः समर्थैः / हयगजरथसङ्कुलैर् बलौघैः कपिलपुरं परिवारितं समन्तात् //
शुद्धोदनप्रमुख एष हि शाक्यसङ्घो हस्त्यश्वयानम् अभिरुह्य सुवर्मिताङ्गः / प्रासादतोरणविमानतलान्तरस्थो नानाविधैः प्रहरणैर् अमनापहस्तैः //
अन्तःपुरगृहद्वारम् <बहिः द्वारं> तथैव च / बद्धं च यन्त्रितं चैव समन्ताद् रक्षितं तथा //
आडिंबशङ्खपटहस्वरभेरिनादैः प्रासादतोरणविमानतलान्तरस्थैः / हस्त्यश्वयोधकलिलः सतताप्रमत्तो मायं व्रजेद् इति हि रक्षति मां जनौघः //
शक्रः कथयति पूर्वप्रतिज्ञां समनुस्मरस्व दीपङ्करव्याकरणं च सौम्य / दुःखार्दितं लोकम् इमं च भूयस् (sbv i 85) त्यक्त्वा गृहान् निष्क्रमणं कुरुष्व //
वयं तथा करिष्यामः सब्रह्माद्या दिवौकसः / यद् भवान् विघ्ननिर्मुक्तो वनम् (अ 375ब्) अद्यैव वास्यति // इति; बोधिसत्वः शोभनम् इत्युक्त्वा प्रीतमनाः संवृत्तः; ततः शक्रेण देवेन्द्रेण स्वापनं कृत्वा पाञ्चिकस्य महायक्षसेनापतेर् आज्ञा दत्ता; मार्ष सोपानम् उपानय; बोधिसत्वो हर्म्यतलाद् अवतरतीति; तेन सोपानम् उपनीतम्; बोधिसत्वो ऽवतीर्णः; ततः शक्रेण सह कृतसङ्केतो येन छन्दक उपस्थायकस् तेनोपसङ्क्रान्तो यावत् पश्यति छन्दकं गाढमिद्धावष्टब्धम्; बोधिसत्वेन यत्नम् आस्थाय प्रबोधितो गाथाभिर् गीतेन चोक्तः: उत्तिष्ठ हे छन्द ममानयस्व तूर्णं गृहात् कन्थकम् अश्वरत्नम् / यास्याम्य् अहं पूर्वजिनोपभुक्तं तपोवनं तुष्टिकरं मुनीनाम् //
छन्दकः सुप्तप्रतिबुद्धलोचनः कथयति: देव नोद्यानकालः समुपस्थितस् ते वैरं न ते केनचिद् अस्ति सौम्य / न चापि शत्रुस् तव कश्चिद् अस्ति किम् अर्धरात्रे हि तवाश्वकार्यम् //
बोधिसत्वः कथयति न कदाचित् त्वया छन्द मम वाक्यं विलोपितम् / मा मेऽद्य चरमे काले वाक्यम् एतद् विलोपय // इति;
छन्दः कथयति: कुमार रात्रिर् इयं भयभैरवा; नाहम् अश्वम् आनयामि इति; बोधिसत्वः संलक्षयति: उत्तराद् उत्तरे नियतं जनप्रबोधो भवति; गच्छामि स्वयम् एव; कन्थकम् अश्वराजं सज्जीकरोमि इति; ततः स्वयम् एव पुरद्वारम् उद्घाट्य कन्थकम् अश्वराजं ग्रहीतुम् आरब्धः; स क्रोधाग्निसंप्रदीप्त इव क्षिपति पादं, वक्रयति मुखं, स्थानात् स्थानं चालयति; नावतिष्ठते; ततो बोधिसत्वेन चक्रस्वस्तिकनन्द्यावर्तेनानेकपुण्यशतनिर्जातेन भूतानाम् आश्वासनकरेण करेण शिरसि परामृष्ट उक्तश् च: (sbv i 86) अपश्चिमं कन्थक भारम् उद्वहा विलंबितं प्रापय मां तपोवनम् / अवाप्य बोधिं न चिरेण तर्पये कृत्स्नं जगद् ध्यानविमोक्षवृष्टिभिः //
इति; धर्मता खलु तिर्यञ्चो ऽप्य् उपसान्त्व्यमाना विकृतिं न विकृतिं न भजन्ते; कन्थको ऽश्वराजो निर्विकारो ऽवस्थितः; ततो बोधिसत्वः संजातसौमनस्यं कन्थकम् अश्वराजं सज्जम् अवस्थितं <दृष्ट्वोत्थितः>; शक्रब्रह्मादिभिर् देवैश् चत्वारो देवपुत्रा बोधिसत्वं निष्कासनाय समनुशिष्य स्थापिताः, कूलः, उपकूलः, पर्णः शबरश् च; ते बोधिसत्वेनाभिहिताः: भवन्तः को मां नेष्यति? कथयन्ति: वयं नेष्यामः; किं युष्माकं बलम्? एकः कथयति: कुमार यावती पृथिव्या मृत्तिका ताम् अहं स्कन्धेनादाय गच्छामीति; द्वितीयः कथयति: यावच् चतुर्षु महासमुद्रेषु सरित्तडागोदपानेषु च सलिलं तत् सर्वम् अहं स्कन्धेनादाय गच्छामि इति; तृतीयः कथयति: यावन्तः पृथिव्यां पर्वतास् तान् अहं स्कन्धेनादाय गच्छामि इति; चतुर्थः कथयति: यावत् पृथिव्यां तृणकाष्ठपर्णशादं तत् सर्वम् अहं स्कन्धेनादाय गच्छामि इति; ततो बोधिसत्वेन पृथिव्यां पादो न्यस्तः; ते कम्पयितुम् अपि न शक्नुवन्ति; विस्मयजाताः कथयन्ति: कुमार नास्माभिर् विज्ञातम् ईदृशं बलं (अ 375ब्) बोधिसत्वानाम् इति; यदि विज्ञातं स्यान् न वयम् अवस्थिता स्याम इति; तं कथालापम् श्रुत्वा पूर्वबुद्धश् छन्दको बोधिसत्वसमीपम् उपसङ्क्रान्तः; ततो बोधिसत्वः कन्थकम् अश्वराजम् अधिरूढः; छन्दके ऽश्वपृष्ठे लग्ने कन्थको ऽश्वराज उपरि विहायसम् अभ्युद्गतः: यथापि तत् बोधिसत्वस्य बोधिसत्वानुभावेन देवतानां च देवतानुभावेन; अन्तःपुरनिवासिन्यो देवता बोधिसत्वविजोगाद् रोदितुम् आरब्धाः; तासां रुदन्तीनाम् अश्रुबिन्दवः काये पृथिव्यां च निपतितुम् आरब्धाः; छन्दकः कथयति: कुमार उदकबिन्दवो निपतन्ति;
किं देवो वर्षति इति; बोधिसत्वः कथयति: न देवो वर्षति; किन् त्व् अन्तःपुरनिवासिन्यो देवता मद्वियोगाद् रोदितुम् आरब्धाः; तासां (sbv i 87) रुदन्तीनाम् अश्रुबिन्दवः काये निपतन्तीति; ततश् छन्दको ऽश्रुपर्याकुलेक्षणो दीर्घम् उष्णं च निश्वस्य तूष्णीम् अवस्थितः; बोधिसत्वो दक्षिणेन सर्वकायेन नागावलोकितेन व्यवलोकयति; चिन्तयति च: इयं च मे पश्चिमा रात्रिर् <यदा> मातृग्रामेण सार्धं सहागारशय्या इति; भूयस् स लक्षयति: सचेद् अहं पूर्वं द्वारम् अपहायान्येन द्वारेण निर्गमिष्यामि, राज्ञो भविष्यत्य् अन्यथात्वम् चरमे काले नाहं कुमारेण व्यवलोकित <इति>; यावत् पश्यति राजानं शुद्धोदनम् गाढमिद्धावष्टब्धम्; स तं प्रदक्षिणीकृत्य कथयति: तात नागौरवात्, न शुश्रूषाभावाद् गच्छामि; नान्यत्र जरामरणाभिमर्दितं लोकं जरामरणदुःखभयात् परिमोचयेयम् इति; यावन् महानामा शाक्यो जागरकजनं प्रत्यवेक्षमाणस् तं प्रदेशम् आगतः; पश्यति बोधिसत्वं गमनाभिमुखम्; ततो बाष्पगद्गदकन्ठो ऽश्रुपर्याकुलेक्षणः कथयति: किम् इदं प्रारब्धम्? महानामन् गम्यते; कुमार न युक्तम् एतत्; महानामन् येन मया त्रिभिः कल्पासङ्ख्येयैर् अनेकैश् च दुष्करशतसहस्रैः सत्वानाम् अर्थाय बोधिः समुपार्जितः; मया किं शक्यं गृहे वस्तुम्; एष निश्चयः; गतो ऽस्मि तपोवनम् इति; ततो महानामा शाक्यो निष्करुणवचनसमुदाचारपराहतो विक्रोष्टुम् आरब्धः; हा कष्टं शाक्यानाम् अद्य सर्वेषां राज्ञः शुद्धोदनस्य च / आशा भविष्यत्य् अफला चिन्तिता या पुनः पुनः //
अद्य शुद्धोदनो राजा पुत्रशोकसमर्पितः / ऊर्ध्वबाहू रवं घोरं करिष्यति सुदुःखितः //
गोपिकामृगजायशोधरा स्फीतम् अन्तःपुरं तथा / सिद्धार्थस्य विगोयेन भविष्यन्ति सुदुःखिताः // (sbv i 88) इति विदित्वा ससंभ्रमो यशोधराम् उत्थापयन् कथयति: एष गच्छति सिद्धार्थस् तं वारय पतिं प्रियम् / आरोदिष्यसि दुःखार्ता पतिशोकसमर्पिता //
भर्ता प्रयाति तव दुर्लभदर्शनीयं पश्याद्य पश्चिमन् इदं पतिदर्शनं ते / कष्टं न कश्चिद् अपि मे वचनं ददात्य् आर्तो विरौमि निशि नात्र ममापराधः // इति;
तस्यैवं विप्रलपतो ऽप्य् अन्तःपुरे न कश्चित् प्रतिबुद्ध्यत इति .................................... अरण्यं वा निराक्रन्दं तथा देवैर् अधिष्ठितम् / इति; ततो महानामा दुःखदौर्मनस्यपरीतः संत्वरमाणो राज्ञः (अ 376अ) शुद्धोदनस्य समीपं गत्वा राजानं शुद्धोदनं प्रबोधयन् कथयति एष गच्छति सिद्धार्थस् तं बलाद् विनिवारय / मा रोदिष्यसि दुःखार्तः पुत्रशोकसमर्पितः // इति; दैवात् सो ऽपि न प्रतिबुद्ध्यते; ततः शक्रब्रह्मादयो देवा अनेकदेवताशतसहस्रपरिवृता येन बोधिसत्वस् तेनोपसङ्क्रान्ताः; उपसङ्क्रम्य बोधिसत्वं परिवार्य संप्रस्थिताः; दक्षिणेन पार्श्वेन रूपावचरा देवा शान्तेर्यापथवर्तिनः, वामे कामावचरा उच्छ्रितध्वजपताकैर् दिव्यैर् वाद्यविशेषैर्; अग्रतः शक्रब्रह्मादयः स्वेन स्वेनाचारविहारेण गगनतलस्थाने चानेकानि देवताशतसहस्राणि बोधिसत्वस्योपरिष्टाद् दिव्यान्य् उत्पलानि, पद्मानि, कुमुदानि, पुण्डरीकानि क्षिपन्ति; अगरुचूर्णानि, (sbv i 89) तगरुचूर्णानि, तमालपत्रचूर्णानि, दिव्यानि मान्दारकाणि पुष्पाणि क्षिपन्ति; दिव्यानि च विविधानि वादित्राणि प्रवादयन्ति; चैलविक्षेपांश् चाकार्षुः; आह चात्र प्रस्फोटनादतुमुलं हि दिवौकसः खं कुर्वन्ति हृष्टमनसो भ्रमयन्ति वस्त्रम् / स्तुन्वन्ति केचिद् अपरे ऽपि च बोधिसत्वम् आकाशम् अङ्गुलिशतैश् च समाक्षिपन्ति //
द्वाराणि केचित् प्रविघाटयन्ति मन्दारपुष्पाण्य् अपरे क्षिपन्ति / अश्वस्य केचिच् चरणौ गृहीत्वा निरीक्षमाणाः सुगतं व्रजन्ति //
वामेन गच्छन्तम् अनुव्रजन्ति केचित् पुनर् दक्षिणतो व्रजन्ति / मार्गं स्वयं दर्शयते कुबेरः शक्रस् तथा ब्रह्मसहीय एव //
पुरस्कृतो देवगणैर् महात्मा नक्षत्रसङ्घैर् इव पूर्णचन्द्रः / प्रयाति हृष्टो वनम् आर्यकान्तं तपोवनं प्रीतिकरं मुनीनाम् //
ततो बोधिसत्वः कपिलवस्तुनो नगरात् प्रतिनिष्क्रान्तः; शक्रब्रह्मादयो देवाः प्रीतमनसः प्रोत्साहयन्ति: मार्ष यस् ते ऽभूद् दीर्घरात्रम् आशासकः कदास्विद् अहं विघ्ननिर्मुक्तस् तपोवनं गच्छेयम् इति स ते ऽद्य परिपूर्णः; यदा त्वम् अनुत्तरां सम्यकसंबोधिम् अभिसंबुद्ध्येथास् तदास्मान् अपि समन्वाहरेथा इति; तथास्त्व् इति प्रतिज्ञाय बोधिसत्वो दक्षिणेन सर्वकायेन नागावलोकनेन व्यवलोक्य कथयति: अनवाप्य परं मार्गं सर्वबुद्धनिषेवितम् / न पुनः संप्रवेक्ष्यामि पुरं कपिलवस्त्व् अहम् // इति
अथ बोधिसत्वो यामद्वयेन द्वादशयोजनानि समतिक्रम्याश्वाद् अवतीर्याभरणान्य् अवमुच्य छन्दकम् आमन्त्रयते निवर्तय छन्दकाश्वम् आदायाभरणानि च / (sbv i 90) आह चात्र इमं हयं ह्य् आभरणानि चैव ज्ञातिभ्यो मे सारथे त्वं प्रयच्छ / अहं हि कामान् विपुलान् प्रहाय इहैव दीक्षाम् उपयामि सांप्रतम् //
अथ छन्दकः साश्रुदुर्दिनवदनो बोधिसत्वम् उवाच सिंहव्याघ्रसमाकीर्णे वने गोकण्टकाचिते / एकाकी बन्धुरहितः कथम् आर्य करिष्यसि // इति;
बोधिसत्वः कथयति एको ह्य् अयं जायते जायमानस् तथा म्रियते म्रियमाणो ऽयम् एकः / एको दुःखान्य् अनुभवतीह जन्तुर् न विद्यते संसरतः सखा यः //
छन्दकः कथयति अदृष्टदुःखः सुकुमारपादो हस्त्यश्वयानोचितो (अ 376ब्) हा कुमार / दर्भोपलाकीर्णतलां खरां महीम् कथं समाक्रम्य वने भ्रमिष्यसि //
बोधिसत्वः कथयति न सौकुमार्यं न सुखोचितत्वं न नाथवत्तां न कुलीनभावम् / न शौर्यवीर्यं न जनप्रियत्वम् अवेक्षते मृत्युभयं कदाचित् //
आगमिष्यति कृत्वा वा जरामृत्युभयम् किल / अकृतार्थो निरारंभो निधनं यास्यतीति वा //
छन्दकः कथयति: देव वृद्धो राजा पुत्रशोकेन कालं करिष्यतीति; तथा (sbv i 91) बोधिसत्वो बोधिसंभारसंभृतत्वात् छन्दकवचनं चित्तेन न करोति; ततो बोधिसत्वेन नीलोत्पलसदृशं निष्कोशम् असिं कृत्वा चूडाम् अपनीय उपरि उपरि विहायसि क्षिप्ता; शक्रेण देवेन्द्रेण गृहीत्वा महता सत्कारेण देवांस् त्रयस्त्रिंशान् नीत्वा चूडामहः प्रज्ञप्तः; श्राद्धैर् अपि ब्राह्मणगृहपतिभिस् तस्मिन् प्रदेशे केशग्रहणं नाम चैत्यं प्रतिष्ठापितम् अद्यापि चैत्यवन्दका भिक्षवो वन्दन्ते; बोधिसत्वः कथयति: किं मन्यसे छन्दक? यस्येदृशो व्यवसायो न स पुनर् अपि गृही अगारम् अध्यावसेत? नो देव; छन्दकः संलक्षयति: क्षत्रियाभिमानी कुमारो, न शक्यम् अनेन प्रतिनिवर्तितुम् इति /
return of kanthaka and chandaka
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
