Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luật tạng
सङ्घभेदवस्तु
- Thông tin
- GRETIL — R. Gnoli with the assistance of T. Venkatacharya: The Gilgit Manuscript of the Saṅghabhedavastu, Being the 17th and Last Section of the Vinaya of the Mūlasarvāstivādin, Roma 1977-78 (Serie Orientale Roma, 49).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
इति; स राजगृहम् अपि गृहीत्वा देवदत्तस्य सकाशं गतः कथयति: आर्य मया कोशम् एकं मुक्त्वा, सर्वभोगा लब्धाः इति; स कथयति पराक्रमफलम् एतत्; अपि तु कोशबलिनो हि राजानः; यस्य कोशः स राजा; कोशार्थं पराक्रमस्व इति; स राजगृहम् अपि नाशयितुम् आरब्धः; राजगृहनिवासी जनकायः अन्यश् च मगधनिवासी चम्पेयश् च सर्व एव सन्त्रस्ताः यथा अजातशत्रुर् न पश्यति तथा दूतसंप्रेषणेन राजानं विज्ञपयितुम् आरब्धाः: देवेन वयं पुत्रवत् परिपालिताः; कुमारेणात्यन्तं निःस्वीकृताः; प्रायो देवस्य जनपदा निष्पलायिताः; वयम् अपि निष्पलायामः इति; धर्मप्रधानः स राजा; करुणात्मकश् च; तेन समुत्पन्नमन्युना अजातशत्रुर् आहूय प्रियमधुरवचोनुकूलतया शिरस् परामृश्योक्तः: पुत्र मया तव सर्वजनपदा दत्ताः; किमर्थम् उद्वेजयसि? प्रतिपालय इति; स कथयति: देव कोशबलिनो राजानः; मम कोशबलं नास्ति; किं करोमि इति; अ कथयति: यद्य् एवम् अन्तःपुरम् एकं मुक्त्वा सर्वं तवैव भवतु इति; तथाप्य् असौ दुष्टप्रकृतिः पापसहायश् च नाशयत्य् एव, नावतिष्ठते; राज्ञा सोपालम्भम् उक्तः: सकोशकोष्ठागारजनपदास् तवैव दत्ताः; इदानीं किमर्थं नाशयसि इति
ajātaśatru casts his father in prison, there to die of hunger
स एवम् उक्ते रुषितः अमात्यानां कथयति: भवन्तो यो राजानं क्षत्रियं मूर्धाभिषिक्तं परिभाषते, तस्य को दण्डः इति; अमात्याः कथयन्ति: देव वधो दण्डः इति; स कथयति: पिता मम; कथम् एनं प्रघातयामि? गच्छत; चारकावबद्धम् एनं स्थापयत इति; स चारके प्रक्षिप्तः; अनुरक्तपौरजानपदः स राजा; तद्विषयनिवासी च जनकायः श्रुत्वा (sbv ii 156) दुर्मनाः संवृत्तः; अजातशत्रुश् चण्डो रभसः कर्कशः इति नास्य कश्चित् परिवादं मन्त्रयति; राजा (अ 481अ) बिम्बिसारश् चारके कर्मपरायणो ऽवतिष्ठते; तस्य च वैदेही स्थालीपाकं प्रवेशयति: अजातशत्रुश् चारकपुरुषान् पृच्छति: भवन्तः कथं वृद्धराजा यापयति? इति; ते कथयन्ति: देव जननी ते स्थालीपाकं प्रवेशयति इति; अजातशत्रुणा आज्ञा दत्ता: धारयत भक्तं पानं च यथा न भूयः प्रवेशयति इति; अन्तःपुरे चाज्ञा दत्ता न केनचिच् चारके भक्तं पानं प्रवेशयितव्यं; यः प्रवेशयति तस्य वधो दण्डः इति; तस्य रौद्रकर्मतां ज्ञात्वा न कश्चिद् भक्तं साधयति; कुत एव प्रवेशयिष्यति; ततो वैदेही भर्तृस्नेहोपरुद्ध्यमानहृदया सक्तुकल्केन गात्राणि म्रक्षयित्वा नूपुराणि च पानीयस्य पूरयित्वा प्रवेशयितुम् आरब्धा; तेनासौ यापयति; चारकपुरुषैः सो ऽप्य् उपायो विज्ञातः; किंतु अनुरागात् तस्य राज्ञः अजातशत्रोर् न निवेदयन्ति; भूयः अजातशत्रुश् चारकपुरुषान् पृच्छति: भवन्तो वृद्धराजा कथं यापयति? इति; तैर् इस्तरेण समाख्यातं; स कथयति: भवन्तो वैदेहीं धारयत, यथा न भूयः प्रविशति इति; ततो भगवान् तत्कुशलमूलावरोपणार्थं गृद्ध्रकूटपर्वते वातायनाभिमुखं चंक्रमितुम्
आरब्धः; राजा बिम्बिसारः वातायनेन भगवन्तम् अवलोक्य प्रामोद्यम् उत्पादयति येन प्राणैर् न वियुज्यते; आजातशत्रुः च भूयश् चारकपुरुषान् पृच्च्छति भवन्तः अन्नपानं विधारितं; इदानीं वृद्धराजः कथं यापयति इति; ते कथयन्ति: भगवांस् तस्यानुग्रहार्थं गृद्ध्रकूटे पर्वते चंक्रम्यते; तम् असौ स्थितः प्रतिदिनं परीक्षते इति; स कथयति वातायनानानि पिथयन्तु; तस्य च पादौ क्षुरेण निर्लिखत इति; तैर् वातायनानानि पिहितानि; तस्य च पादौ क्सुरेण निर्लिखितौ; स दुःखवेदनार्तो बाष्पोपरुद्ध्यमानगद्गदकण्ठः अश्रुपर्याकुलेक्षणश् चिन्तयति: न मां भगवान् कृच्छ्रसङ्कटसंबाधप्राप्तं समन्वाहरति इति
the buddha sends maudgalyāyana to visit and comfort the old king
अत्रान्तरे नास्ति किंचित् बुद्धानां भगवताम् अज्ञातम् अदृष्टम् अविदितम् अविज्ञातं; धर्मता खलु बुद्धानां भगवतां महाकारुणिकानां लोकानुग्रहप्रवृत्तानाम् एकारक्षाणां (sbv ii 157) शमथविपश्यनाविहारिणां त्रिदमथवस्तुकुशलानां चतुरोघोत्तीर्णानां चतुरृद्धिपादचरणतलसुप्रतिष्ठितमतीनां चतुर्षु संग्रहवस्तुषु दीर्घरात्रकृतपरिचयानां पञ्चाङ्गविप्रहीनानां पञ्चगतिसमतिक्रान्तानां षडङ्गसमन्वागतानां षट्पारमितापरिपूर्णानां सप्तबोध्यङ्गकुसुमाढ्यानाम् अष्टाङ्गमार्गदेशिकानां नवानुपूर्वविहारसमापत्तिकुशलानां दशबलिनां दशदिक्समापूर्णयशसां दशशतवशवर्तिप्रतिविशिष्टानां त्री रात्रेस् त्रिर् दिवसस्य बुद्धचक्षुषा लोकं व्यवलोक्य ज्ञानदर्शनं प्रवर्तते: को हीयते को वर्धते कः कृच्छ्रप्राप्तः कः संकतप्राप्तः कः संबाधप्राप्तः कः कृच्छ्रसंकटसंबाधप्राप्तः को ऽपायनिम्नः को ऽपायप्रवणः को ऽपायप्राग्भारः कम् अहम् अपायाद् उद्धृत्य स्वर्गे मोक्षे च प्रतिष्ठापयेयं; कस्य अनवरोपितानि कुशलमुलानि अवरोपयेयं? कस्यावरोपितानि परिपाचयेयं? कस्य पक्वानि विमोचयेयम् इति; तत्र भगवान् आयुष्मन्तं महामौद्गल्यायनम् आमन्त्रयते: गच्छ मौद्गल्यायन; राजानं बिम्बिसारं मद्वचनाद् आरोग्य; एवं स वद: भगवान् कथयति: यत् कल्याणमित्रेण करणीयं कृतं तत् ते मया; उद्धृतस् ते नरकतिर्यक्प्रेतेभ्यः पादः; प्रतिष्ठापितो देवमनुष्येषु; पर्यन्तीकृतः संसारः; उच्छोषिता रुधिराश्रुसमुद्राः; लङ्घिता अस्थिपर्वताः; पिहितान्य् अपायद्वाराणि; विवृतानि स्वर्गमोक्षद्वाराणि; अपि तु त्वयैवैतानि कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययान्य् ओघवत् प्रत्युपस्थितान्य् अवश्यभावीनि; त्वयैव कर्माणि कृतान्य् को ऽन्यः प्रत्यनुभविष्यति? न महाराज कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ; अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च; न प्रणश्यन्ति कर्माण्य् अपि कल्पशतैर् अपि / सामग्रीम् प्राप्य कालं च फलन्ति खलु देहिनाम् //
तस्मात् तर्हि ते महाराज कर्मपरायणेन भवितव्यम् इति; एवं भदन्तेत्य् आयुष्मान् महामौद्गल्यायनो भगवतः प्रतिश्रुत्य (अ 481ब्) तद्रूपं समाधिं समापन्नो यथा समाहिते चित्ते गृद्ध्रकूटे (sbv ii 158) अन्तर्हितश् चारके प्रत्यष्ठात्, राज्ञो बिम्बिसारस्य पुरस्तात्; एवं चाह: महाराज भगवांस् ते आरोगयति; वन्दे भदन्त महामौद्गल्यायन भगवन्तं च; भगवान् महाराज एवम् आह: यत् कल्याणमित्रेण करणीयं कृतं तत् ते मया; उद्धृतस् ते नरकतिर्यक्प्रेतेभ्यः; प्रतिष्ठापितो देवमनुष्येषु; पर्यन्तीकृतः संसारः; उच्छोषिता रुधिराश्रुसमुद्राः; लङ्घिता अस्थिपर्वताः; पिहितान्य् अपायद्वाराणि; विवृतानि स्वर्गमोक्षद्वाराणि; अपि तु त्वयैवैतानि कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययान्य् ओघवत् प्रत्युपस्थितान्य् अवश्यभावीनि; त्वया कर्माणि कृतान्य् उपचितानि को ऽन्यः प्रत्यनुभविष्यति? न महाराज कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ; अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च; न प्रणश्यन्ति कर्माण्य् अपि कल्पशतैर् अपि / सामग्रीम् प्राप्य कालं च फलन्ति खलु देहिनाम् //
तस्मात् तर्हि ते महाराज कर्मपरायणेन भवितव्यम् इति; सा चारकावरुद्धः क्षुरपादाभिलिखनान्नपानवियोगदुःखैर् अभ्याहतः कथयति: कुत्र भदन्त महामौद्गल्यायन प्रणीत आहारो भुज्यते इति; स कथयति: महाराज चातुर्महाराजकायिकेषु देवेषु इत्य् उक्त्वा अयुष्मान् महामौद्गल्यायनः तद्रूपं समाधिं समापन्नो यथा समाहिते चित्ते चारके अन्तर्हितो गृद्ध्रकूटपर्वते प्रत्यष्ठात्
the tardy repentance of ajātaśatru and the death of bimbisāra
अजातशत्रोः पुत्रस्य उदयभद्रस्य अङ्गुल्यां पिटको जातः, स रुदन्न् अजातशत्रोः सकाशम् उपसंक्रान्तः; स तम् अङ्के स्थापयित्वा आलिङ्गति चुम्बति परिष्वजति; तथाप्य् असौ रुदत्य् एव; नावतिष्ठते; अजातशत्रुणा तत्सन्तिका अङ्गुलिः मुखे प्रक्षिप्ता; स्फोटको मुखे स्फुटितः; अजातशत्रुणा पूयशोणितं पृथिव्यां छोरितम्; उदायिभद्रः कुमारः पूयशोणितं दृष्ट्वा भूयसा रोदितुम् आरब्धः इति; वैदेह्या विपुष्पितं दृष्ट्वा अजातशत्रुः कथयति: अम्ब किम् इदम् इति; सा कथयति: पुत्र युष्माकम् एष पितृपर्यागतव्याधिः तवाप्यासीत्; तव तु पित्रा अङ्गुल्यां मुखे प्रक्षिप्तावां स्फोटकः स्फुटितः; मा त्वं रोदिष्यसीति पूयशोणितम् अभ्यवहृतं; न पृथिव्यां छोरितं; स कथयति: अम्ब ईदृशो ऽहं पितुः प्रिय (sbv ii 159) आसं सा कथयति: ईदृशः; ततः अजातशत्रोः पितुर् अन्तिके द्वेषपर्यवस्थानं विगतम्; अनुनय उत्पन्नः; तेनामात्या उक्ताः: भवन्तो यो मम कथयति वृद्धराजो जीवतीति, तस्याहम् उपार्धराज्यं ददामि इति; अनुरक्तपौरजानपदः स राजा; महाजनकायश् चारकाभिमुखो धावितुम् आरब्धः; राजा शब्दं श्रुत्वा संलक्षयति: इदानीं काम् अपि प्रत्यवरां कारणां करिष्यति; इति सन्त्रस्तो दीर्घं निश्वस्य कालगतः; वैश्रवणस्य महाराजस्य पुत्रत्वम् अभ्युपगतः; अङ्के निषण्णो दिव्यां सुधां परिभुङ्क्ते; वैश्रवणः कथयति; कस् त्वम् इति; स कथयति: जिनर्षभो ऽस्मि महाराजेति; तस्य जिनर्षभो जिनर्षभ इति संज्ञा संवृत्ता भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: किं भदन्त राज्ञा बिम्बिसारेण कर्म कृतं यस्य कर्मणो विपाकेन आढ्ये महाधने
महाभोगे राजकुले जातः; भगवतो ऽन्तिके सत्यदर्शनं कृतं; क्षुरेण पादौ निर्लिखितौ; चारकावबद्धश् च क्षुत्पिपासाभिभूतः कालगतः इति; भगवान् आह: बिम्बिसारेणैव भिक्षवो राज्ञा कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययान्य् ओघवत् प्रत्युपस्थितान्य् अवश्यभावीनि; बिम्बिसारेण कर्माणि कृतान्य् उपचितानि को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ; अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च; न प्रणश्यन्ति कर्माण्य् अपि कल्पशतैर् अपि /
सामग्रीम् प्राप्य कालं च फलन्ति खलु देहिनाम् //
the story of a potter (concerning a previous birth of king bimbisāra)
भूतपूर्वं भिक्षवः बुद्धानाम् उत्पादे प्रत्येकबुद्धा लोक उत्पद्यन्ते हीनदीनानुकम्पकाः प्रान्तशयनासनभक्ताः एकदक्षिणीया लोकस्य; यावद् अन्यतमः प्रत्येकबुद्धो जनपदचारिकां चरन् (अ 482अ) वाराणसीम् अनुप्राप्तः; वाराणस्याम् अन्यतमस्य कुम्भकारस्य आवेशनशालायां रात्रिंवासम् उपगतः; सार्थश् च तस्याम् (sbv ii 160) एव शालायाम् उषितः; तत्रैकेन उच्चारः कृतः; सार्थःसरात्रम् एवोत्थाय प्रक्रान्तः; असमन्वाहृत्यार्हतां प्रत्येकबुद्धानाम् एव ज्ञानदर्शनं न प्रवर्तते; प्रत्येकबुद्धस् तत्रैवावस्थितः; इहैव पिण्डपातम् अटिष्यामि इति; यावत् कुम्भकारः प्रभातायां रजन्याम् आवेशनशालायां प्रविष्टः; पश्यति अशुचिना नाशिता; अपरीक्षका भवन्ति प्राकृतपुरुषाः; तेन प्रत्येकबुद्धस्यान्तिके चित्तं प्रदूषितं; स प्रदुष्टचित्तः कथयति: भोः प्रव्रजित किं तव पादौ क्षुरेण लिखितौ? येन त्वया आवेशनशालायाम् उच्चारः कृतः; न बहिर् निर्गतः इति; तेनासौ द्वारं बध्वा स्थापितः इहैव जिघत्सय कालं कुरुष्व इति; स महात्मा संलक्षयति: क्षतो ऽयं तपस्वी; यद्य् अहं द्वारम् अवमुच्य गमिष्यामि भूयस्या मात्रया क्षतो भविष्यति इति; स तूष्णीम् अवस्थितः; यावत् कुम्भकारस्य भोजनवेला आसन्ना; तस्य द्वेषपर्यवस्थानं विगतं; स कथयति भोः प्रव्रजित आगच्छ; भुञ्ज्महे; प्रत्येकबुद्धः कथयति: भद्रमुख कालभोजिनो वयम्; अतिक्रान्तः कालः इति; स कथयति: यद्य् एवम् इहैव श्वो भुक्त्वा गमिष्यसि इति; तेन तस्यानुकम्पार्थम् अधिवासितं; स तेनापरस्मिन् दिवसे प्रणीतेनान्नाहारेण सन्तर्पितः; कायिकी तेषां महात्मनां धर्मदेशना न वाचिकी; स उपरि विहायसम्
अभ्युद्गम्य ज्वलनतपनवर्षणविद्योतनप्राटिहार्याणि कर्तुम् आरब्धः; आशु पृथग्जनस्य ऋद्धिर् आवर्जनकरी; स मूलनिकृत्त इव द्रुमः पादयोर् निपत्य कथयति; अवतर महादक्षिणीय; मम कामपङ्कनिमग्नस्य हस्तोद्धारम् अनुप्रयच्छ इति; सो ऽवतीर्णः; तेन तस्य पादयोर् निपत्य प्रणिधानं कृतं; यन् मया एवंविधे सद्भूतदक्षिणीये अपकारः कृतः, मा अस्य कर्मणो भागी स्यां; यत् तु कारः अनेनाहं कुशलमूलेन आढ्ये महाधने महाभोगे कुले जायेय; एवंविधानां च धर्माणां लाभी स्यां; प्रतिविशिष्टतरं चातः शास्तारम् आरागयेयं मा विरागयेयम् इति किं मन्यध्वे भिक्षवः? यो ऽसौ कुम्भकारः एष एव स राजा बिम्बिसारः तेन कालेन तेन समयेन; यत् प्रत्येकबुद्धस्यान्तिके चित्तं प्रदूष्य खरं वाक्कर्म निश्चारितं तस्य कर्मणो विपाकेन पादौ निर्लिखितौ; चारकावबद्धश् च जिघत्सया कालगतः; यत् तु तेन प्रणिधानं कृतं, तस्य कर्मणो विपाकेन आढ्ये महाधने महाभोगे कुले जातः; ममान्तिके विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं (sbv ii 161) ज्ञानवज्रेण भित्वा स्रोतआपत्तिफलं साक्षात्कृतं; इति हि भिक्षवः एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः; एकान्तशुक्लानाम् एकान्तशुक्लः; व्यतिमिश्राणां व्यतिमिश्रः; तस्मात् तर्हि भिक्षवः एकान्तकृष्णानि कर्माण्य् अपास्य व्यतिमिश्राणि च एकान्तशुक्लेष्व् एव कर्मस्व् आभोगाः करणीयः इत्य् एवं वो भिक्षवः शिक्षितव्यम्*
the distress of ajātaśatru at the death of king bimbisāra, the arrival of a dancer from the south, and the extraordinary effects of buddha's smile
अमात्यैर् अजातशत्रोर् आरोचितं देव वृद्धराजः कालगतः इति; स श्रुत्वा मूर्च्छितः पृथिव्यां निपतितः; जलपरिषेकप्रत्यागतप्राणः शोकागारं प्रविश्यावस्थितः; तस्य न कश्चित् शक्नोति चित्तविनोदनं कर्तुं; अमात्यास् तस्य चित्तविनोदोपायं (अ 482ब्) समन्वेषितुम् आरब्धाः; यावद् दक्षिणापथात् नटः अभ्यागतः; सो ऽमात्यैस् तस्य पुरस्तान् नर्तितः; अजातशत्रुर् दुर्मना एवेति न केनचित् साधुर् इत्य् उक्तः; स नटित्वा निर्गच्छति; भगवांश् च तं प्रदेशम् अनुप्राप्तः; तेन भगवान् दृष्टः; स संलक्षयति: यदि तत्रैवंविधः साधुपुरुषः स्याद् अनेन मम साधुकारः दत्तः स्याद् इति; तेन भगवतो ऽन्तिके चित्तम् अभिप्रसाद्य मुरवः पराहतः; अथ भगवान् स्मितम् अकार्षीत् धर्मता खलु यस्मिन् समये बुद्धा भगवन्तः स्मितं प्राविष्कुर्वन्ति तस्मिन् समये नीलपीतलोहितावदाताः अर्चिषः मुखान् निश्चर्य काश्चिद् अधस्ताद् गच्छन्ति; काश्चिद् उपरिष्टाद् गच्छन्ति या अधस्ताद् गच्छन्ति ताः सञ्जीवं कालसूत्रं सङ्घातं रौरवं महारौरवं तापनं प्रतापनम् अवीचिम् अर्बुदं निरर्बुदम् अटटं हहव हुहुवम् उत्पलं पद्मं महापद्मं नरकं गत्वा ये उष्णनरकास् तेषु शीतीभूत्वा निपतन्ति; ये शीतनरकास् तेषु उष्णीभूत्वा निपतन्ति; तेन तेषां सत्वानां कारणाविशेषाः प्रतिप्रस्रभ्यन्ते; तेषाम् एवं भवति: किं नु वयं भवन्तः इतश् च्युताः आहोस्विद् अन्यत्रोपपन्नाः इति; तेषां प्रसादसंजननार्थं भगवान् निर्मितं विसर्जयति; तेषां निर्मितं दृष्ट्वा एवं भवति; न हैव वयं भवन्तः इतश् च्युताः; (sbv ii 162) नाप्य् अन्यत्रोपपन्नाः; अपि तु अयम् अपूर्वदर्शनः सत्वः; अस्य अनुभावेन अस्माकं
कारणाविशेषाः प्रतिप्रस्रब्धाः इति; ते निर्मिते चित्तम् अभिप्रसाद्य, तन् नरकवेदनीयं कर्म क्षपयित्वा देवमनुष्येषु प्रतिसन्धिं गृह्णन्ति यत्र सत्यानां भाजनभूता भवन्ति या उपरिष्टाद् गच्छन्ति ताश् चातुर्महाराजिकान् त्रयस्त्रिंशान् यामान् तुषितान् निर्माणरतीन् परनिर्मितवशवर्तिनः ब्रह्मकायिकान् ब्रह्मपुरोहितान् महाब्रह्मणः परीत्ताभान् अप्रमाणाभान् आभास्वरान् परीत्तशुभान् अप्रमाणशुभान् शुभकृत्स्नान् अनभ्रकान् पुण्यप्रसवान् बृहत्फलान् अबृहान् अतपान् सुदृशान् सुदर्शनान् अकनिष्ठान् देवान् गत्वा अनित्यं दुःखं शून्यम् अनात्मा इत्य् उद्घोषयन्ति; गाथाद्वयं च भाषन्ते आरभध्वं निष्क्रामत युज्यध्वं बुद्धशासने /
धुनीत मृत्युनः सैन्यं नडागारम् इव कुञ्जरः //
यो ह्य् अस्मिन् धर्मविनये अप्रमत्तश् चरिष्यति / प्रहाय जातिसंसारं दुःखस्यान्तं करिष्यति // इति
अथ ता अर्चिषस् त्रिसहस्रमहासहस्रं लोकधातुम् अन्वाहिण्ड्य भगवन्तम् एव पृष्ठतः पृष्ठतः समनुगच्छन्ति; तद् यदि भगवान् अतीतं कर्म व्याकर्तुकामो भवति, भगवतः पृष्ठतो ऽन्तर्धीयन्ते; अनागतं व्याकर्तुकामो भवति, पुरस्ताद् अन्तर्धीयन्ते; नरकोपपत्तिं व्याकर्तुकामो भवति पादतले अन्तर्धीयन्ते; तिर्यगुपपत्तिं व्याकर्तुकामो भवति पार्ष्ण्याम् अन्तर्धीयन्ते; प्रेतोपपत्तिं व्याकर्तुकामो भवति पादाङ्गुष्ठे अन्तर्धीयन्ते; मनुष्योपपत्तिं व्याकर्तुकामो भवति जानुनोर् अन्तर्धीयन्ते; बलचक्रवर्तिराज्यं व्याकर्तुकामो भवति वामे करतले अन्तर्धीयन्ते; चक्रवर्तिराज्यं व्याकर्तुकामो भवति दक्षिणे करतले अन्तर्धीयन्ते; देवोपपत्तिं व्याकर्तुकामो भवति नाभ्याम् अन्तर्धीयन्ते; श्रावकबोधिं व्याकर्तुकामो भवति आस्ये ऽन्तर्धीयन्ते; प्रत्येकबोधिं व्याकर्तुकामो भवति ऊर्णायाम् अन्तर्धीयन्ते; अनुत्तरां सम्यक्संबोधिं व्याकर्तुकामो भवति उष्णीषे अन्तर्धीयन्ते अथ ता अर्चिषो भगवन्तं (अ 483अ) त्रिः प्रदक्षिणीकृत्य भगवत ऊर्णायाम् अन्तर्हिताः; अथायुष्मान् आनन्दः कृतकरपुटो भगवन्तं पप्रच्छ नानाविधो रङ्गसहस्रचित्रो वक्त्रान्तरान् निष्कसितः कलापः / (sbv ii 163) अवभासिता येन दिशः समन्तात् दिवाकरेणोदयता यथैव //
गाथाश् च भाषते विगतोद्भवा दैन्यमदप्रहीणा बुद्धा जगत्य् उत्तमहेतुभूताः / नाकारणं शङ्खमृणालगौरम् स्मितम् उपदर्शयन्ति जिना जितारयः //
तत्कालं स्वयम् अधिगम्य धीर बुद्ध्या श्रोतृणां श्रमण जिनेन्द्र काङ्क्षितानाम् / धीराभिर् मुनिवृष वाग्भिर् उत्तमाभिर् उत्पन्नं व्यपनय संशयं शुभाभिः / नाकास्माल् लवणजलाद्रिराजधैर्याः संबुद्धाः स्मितम् उपदर्शयन्ति नाथाः / यस्यार्थे स्मितम् उपदर्शयन्ति धीराः तं श्रोतुं समभिलषन्ति ते जनौघाः // इति दृष्टस् त्वया आनन्द स नटो येन ममान्तिके चित्तं प्रसाद्य मुरवः पराहतः दृष्टो भदन्त; स एष आनन्द नटः अनेन कुशलमूलेन चित्तोत्पादेन च दुन्दुभीश्वरो नाम प्रत्येकबुद्धो भविष्यति; अयम् अस्य देयधर्मो यो ममान्तिके चित्तप्रसादः
devadatta has himself gilt by gold
देवदत्त अजातशत्रोः कथयति: मया त्वं राज्ये प्रतिष्ठापितः; माम् अपि त्वं बुद्धत्वे प्रतिष्ठापय इति; स कथयति: भगवतः सुवर्णवर्णः कायः; आदौ तावत् तव सुवर्णवर्णतैव नास्ति इति; स कथयति: अहं सुवर्णवर्णम् अभिनिर्वर्तयामि इति; तेन सुवर्णकार आहूयोक्तः: मम काये सुवर्णं चारय इति; स कथयति: आर्य यदि शक्नोषि वेदनां सोढुम् इति; स कथयति: चारय; शक्ष्यामि इति; तेन चुञ्चुतैलेन गात्रं म्रक्षयित्वा काये सुवर्णपत्रं चारितं; स दुःखां तीव्रं खरां कटुकाम् अमनापां वेदनां वेदयति; भिक्षुभिः कोकालिकः पृष्टः: कुत्र देवदत्त (sbv ii 164) स कथयति: अमुष्मिन् प्रदेशे सुवर्णवर्णताम् अभिनिर्वर्तयति इति; भिक्षवस् तं प्रदेशं गताः; तैर् असौ श्रुतो दुःखवेदनार्तो विक्रोशन्; ते भगवत्सकाशम् उपसंक्रान्तः भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: पश्य भदन्त देवदत्त सुवर्णवर्णताया अर्ते दुःखां तीव्रं खरां कटुकाम् अमनापां वेदनां वेदयते इति, भगवान् आह: न भिक्षव एतर्हि; यथा अतीते ऽप्य् अध्वन्य् एष सुवर्णखोलाया अर्थे अनयेन व्यसनम् आपन्नः; तच् छ्रूयतां
the story of a crow and a golden cap (suvarṇakholā) (concerning a previous birth of devadatta)
भूतपूर्वं भिक्षवो वाराणस्यां नगर्याम् अन्यतमा स्त्री प्रोषितभतृका; तस्याः पुरस्तात् काको मधुरमधुरं रौति; सा कथयति: उत्क्रामोत्क्राम वायस; यदि मे भर्ता स्वस्तिना क्षेमेण आगच्छति, तव सौवर्णां खोलां ददामि इति; यावद् असौ तस्या भर्ता स्वस्तिना आगतः; स काकस् तस्याः पुरस्तात् सुवर्णखोलानिमित्तं मधुरमधुरं विरौति; ततस् तया तस्य सौवर्णा खोला दत्ता; स तया पिनद्धया इतश् चामुतश् च परिभ्रमति; तस्य सुवर्णखोलानिमित्तम् अलिकेन पक्षिना शिरश् छिन्नं; देवता गाथां भाषते भवत्य् अर्थो ऽप्य् अनर्थाय यो ऽनर्थपदसंहितः / केलिकाकेन पर्येष्टो यस्य सौवर्णकं शिरः //
भगवान् आह: किं मन्यध्वे भिक्षवो यो ऽसौ भिक्षवः काकः एष एव देवदत्तः तेन (अ 483ब्) कालेन तेन समयेन; तदाप्य् एष सुवर्णखोलाहेतोर् अनयेन व्यसन्नम् आपन्नः; एतर्ह्य् अप्य् एष सुवर्णवर्णताया आर्थाय दुःखां तीव्रं खरां कटुकाम् अमनापां वेदनां वेदयते इति
devadatta has in his feet the sign of the wheel imprinted with red hot iron
पुनर् अपि देवदत्तः अजातशत्रोः कथयति: त्वं मया राज्ये प्रतिष्ठापितः; त्वम् अपि मां बुद्धत्वे प्रतिष्ठापय इति; स कथयति (sbv ii 165) भगवतः चक्राङ्कपादतलचिह्नता लक्षनम् अस्ति; तव तु चक्राङ्कपादतलचिह्नता नास्ति इति; अहं चक्राङ्कपादतलचिह्नम् अभिनिर्वर्तयामि इति; तेन अयस्कारा आहूय उक्ताः: शक्ष्यथ मम पादतले चक्राङ्कं कर्तुम् इति; ते कथयन्ति: आर्य यदि शक्नोषि वेदनां सोढुम् इति; स कथयति कुरुत शक्ष्यामि इति; ते संलक्षयन्ति: बलवान् एषः; यद्य् एवम् एवाङ्क्यामः, स्थानम् एतद् विद्यते यत् पार्ष्णिप्रहारेण अस्मान् जीविताद् व्यपरोपयिष्यति; इति तैः कन्थां छिद्रयित्वा उक्तः: आर्य अनेन कन्थाछिद्रेण पादौ प्रवेशय इति; तेन कन्थाछिद्रेण पादौ प्रवेशितौ; अयस्कारैर् अग्निवर्णं चक्रं कृत्वा पादाव् अङ्कितौ; स दुःखां तीव्रं खरां कटुकाम् अमनापां वेदनां वेदयते; भिक्षुभिः कोकालिकः पृष्टः: कुत्र देवदत्त स कथयति: अमुष्मिन् प्रदेशे चक्राङ्कपादचिह्नताम् अभिनिर्वर्तयति इति; भिक्षवस् तं प्रदेशं गताः; तैर् असौ श्रुतो दुःखवेदनार्तो विक्रोशन्; ते भगवत्सकाशम् उपसंक्रान्तः भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: पश्य भदन्त देवदत्त चक्राङ्कपादतलचिह्नताया अर्थे दुःखां तीव्रं खरां कटुकाम् अमनापां वेदनां वेदयते इति, भगवान् आह: न भिक्षव एतर्हि; यथा अतीते ऽप्य् अध्वन्य् एष पादनिमित्तम् अनयेन व्यसनम् आपन्नः; तच् छ्रूयतां
the jackal measuring the step of an elephant with its own (concerning a previous birth of devadatta)
भूतपूर्वं भिक्षवो हैमवतो हस्ती पानीयं पातुम् अवतीर्णः; तस्य पृष्ठतः सृगालो ऽवतीर्णः; स हस्तिपदं दृष्ट्वा आत्मीयेन पदेन मापयितुम् आरब्धः; स संलक्षयति: ममैतानि पदानि इति; स उत्प्लुत्योत्प्लुत्य पदानि स्थापयन् कलमच्छिन्नेन काष्ठेन शूलायां प्रोतः; देवता गाथां भाषते न पदं तव मुढ तुल्यकं गजपादपदेन सर्वथा / त्यज बुद्धिम् इमां निरर्थिकां परिखेदम् आप्स्यसे वृथा // इति (sbv ii 166) किं मन्यध्वे भिक्षवो यो ऽसौ सृगालः एष एव देवदत्तः तेन कालेन तेन समयेन; तदाप्य् एष पादनिमित्तम् अनयेन व्यसन्नम् आपन्नः; एतर्ह्य् अप्य् एष चक्राङ्कपादतलचिह्नताया अर्थे दुःखां तीव्रं खरां कटुकाम् अमनापां वेदनां वेदयते इति
devadatta calls a skilled master-mechanic and makes him construct a catapult in front of the buddha's residence
बुद्धो भगवान् राजगृहे विहरति गृध्रकूटे पर्वते कुम्भीरयक्षस्य भवने; भूयो देवदत्तः अजातशत्रोः कथयति: मया त्वं राज्ये प्रतिष्ठापितः; त्वयाहं न शक्तो बुद्धत्वे प्रतिष्ठापयितुम्? इदानीम् अहं श्रमणं गौतमं जीविताद् व्यपरोपयामि; न त्वया समन्वेष्टव्यं केन प्रघातितः कुत्र प्रघातितः इति; स कथयति: एवम् अस्तु इति; यावद् दक्षिणापथाद् यन्त्रकलाचार्यः अभ्यागतः; स देवदत्तेन (अ 484अ) आहूयोक्तः: भोः आचार्य शक्ष्यसि त्वम् ईदृशं यन्त्रं कर्तुं यः पंचभिः पुरुषशतैः आम्रेड्यते? इति; स कथयति: आर्य शक्ष्यामि इति; तेन तस्य शतसहस्रो मुक्ताहारो दत्तः; मनुष्यसहस्रं च दत्तम्; उक्तश् च; यत्र स्थाने भगवांस् तिष्ठति, तन्मुखं गृध्रकूटस्योपरि यन्त्रं सज्जीकुरु इति; तत्र पंच मनुष्यशतानि स्थापितानि, ये तद् यन्त्रम् आम्रेडयन्ति; अपरस्मिन् स्थाने अर्धतृतीयानि शतानि स्थापितानि, उक्तानि च; यदि श्रमणो गौतमो यन्त्रेण न प्रघात्यते, युष्माभिः प्रघातयितव्यः इति; अपरस्मिन्न् अपि स्थाने तदर्थेन अर्धतृतीयानि मनुष्यशतानि; सर्वे च समादिष्टाः: येषां युष्माकं श्रमणो गौतमो भागप्राप्तो भवति, तैः प्रघातयितव्यः इति; आत्मना चापरस्मिन् प्रदेशे स्थितः; एषां परिभ्रष्टो मया प्रघातयितव्यः इति; यावत् तानि पंच पुरुषशतानि यन्त्रम् आम्रेडयितुम् आरब्धानि; संजल्पं कुर्वन्ति: कस्यार्थे यन्त्रम् आम्रेड्यते इति
the workmen refuse to kill the buddha, go away, sit down at his feet, and are convertef by him
यावत् पश्यन्ति अधस्ताद् बुद्धं भगवन्तं; ते कथयन्ति: भवन्तो वरं (sbv ii 167) स्वजीवितपरित्यागः, न तु देवमनुष्यपूजितस्य बुद्धस्य भगवतः प्राणघातः; परित्यजत यन्त्रम् इति; ते यन्त्रं परित्यज्य गृध्रकूटे इतश् चामुतश् च परिभ्रमन्ति, कतरेण स्थानेन यन्त्रम् अवतारयामः, यत्र देवदत्तो न पश्येद् इति; तेषां चेतसा चित्तम् आज्ञाय भगवता सोपानं निर्मितं; तेषां सोपानं दृष्ट्वा एतद् अभवत्: भवन्तः कुतो ऽत्र सोपानः? भगवत एषो ऽनुभावः इति; भूयस्या मात्रया चित्तम् अभिप्रसाद्य सोपानेन अवतीर्य, येन भगवांस् तेनोपसंक्रान्ताः; भगवान् अपि तद्विनयनापेक्षयैव गृध्रकूटे पर्वते चङ्क्रम्यमाणो ऽवस्थितः; ततस् ते भगवतः पादौ शिरसा वन्दित्वा पुरस्तान् निषण्णा धर्मश्रवणाय: भगवता तेषाम् आशयानुशयं धातुं प्रकृतिं च ज्ञत्वा तादृशी चतुरार्यसत्यसंप्रतिवेधिकी धर्मदेशना कृता, यां श्रुत्वा तैर् विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतआपत्तिफलं साक्षात्कृतं; ते दृष्टसत्यास् त्रिर् उदानम् उदानयन्ति: इदम् अस्माकं भदन्त न मात्रा कृतं न पित्रा; न राज्ञा नेष्टेन स्वकनबन्धुवर्गेण न पूर्वप्रेतैर्, न श्रमणब्राह्मणैः, यत् भगवता अस्माकं कृतं; उद्धृतो नरकतिर्यक्प्रेतेभ्यः पादः; प्रतिष्ठापितो देवमनुष्येषु; पर्यन्तीकृतः संसारः; उच्छोषिता रुधिराश्रुसमुद्राः; लङ्घिता अस्थिपर्वताः; पिहितान्य् अपायद्वाराणि; विवृतानि स्वर्गद्वाराणि; अनादिकालोपचितं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतआपत्तिफलं साक्षात्कृतं; अभिक्रान्ता वयं भदन्त, अभिक्रान्ताः; एते वयं भगवन्तं श्रणं गच्छामः, धर्मं च भिक्षुसंघं च; उपासकां च अस्मान् भगवान् धारयतु अद्याग्रेण यावज्जीवं प्राणोपेतान्, शरणागतान्, अभिप्रसन्नान्; इत्य् उक्त्वा भगवतो ऽन्तिकात् पंच शिक्षापदानि ग्रहितुम् आरब्धाः
devadatta perceives that the workmen and the mechanic too ran away, and manages himself to hurl a stone from the catapult at the buddha
यन्त्रकलाचार्यो ऽपि (अ 484ब्) बुद्धं भगवन्तम् अयं प्रघातयतीति विदित्वा, तेषाम् अनुपदम् एव सोपानाद् अवतीर्य, शतसहस्रं मुक्ताहारं गृहीत्वा निष्पलायितः; देवदत्तो ऽपि शिलापतनतत्परो मुहुर्मुहुर् निरीक्षते; न पततीति कृत्वा स्वयम् एव तान्य् अन्यानि पंच मनुष्यशतान्य् आदाय गृध्रकूटं पर्वतम् (sbv ii 168) अभिरोढुम् आरब्धः; पश्यति तानि भगवतो ऽन्तिकाद् धर्मं शृण्वन्ति; दृष्ट्वा च भूयस्या मात्रया संजातामर्षो ऽन्यतोमुखो गृध्रकूटं पर्वतम् अभिरूढः; यावत् पश्यति यन्त्रकलाचार्यो ऽपि निष्पलायितः; स्वयम् एव पंचशतपरिवारो यन्त्रम् आम्रेडयितुम् आरब्धः; भगवान् संलक्षयति: मयैव एतानि कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययान्य् ओघवत् प्रत्युपस्थितान्य् अवश्यभावीनि; मयैव एतानि कर्माणि कृतान्य् उपचितानि को ऽन्यः प्रत्यनुभविष्यति? इति विदित्वा तानि पंच मनुष्यशतानि इदम् अवोचत्: भवन्तो देवदत्तस् तीव्रपर्यवस्थानावस्थितो गृध्रकूटं पर्वतम् अभिरूढाः; गच्छत; ममैतानि कर्माणि कृतानि इति; ततस् तानि पंच मनुष्यशतानि निष्पलायितानि; देवतानाम् अधस्ताज् ज्ञानदर्शनं प्रवर्तते
the yakṣa kumbhīra sacrifices his life in trying to arrest the stone, but a fragment strikes the buddha on the foot
अथ वज्रपाणेर् यक्षस्यैतद् अभवत्: देवदत्तो भगवतो वधाय पराक्रमति इति विदित्वा येन कुम्भीरयक्षस् तेनोपसंक्रान्तः; उपसंक्रम्य कुम्भीरं यक्षम् इदम् अवोचत्: देवदत्तो गृध्रकूटाद् यन्त्रेण भगवतः शिलां क्षेप्तुम् आरब्धः; तव च भवने भगवान् विहरति; तद् अहं यत्नम् आस्थाय अन्तरीक्षे एतां शिलां वज्रेण चूर्णयामि; त्वयापि साहाय्ये वर्तितव्यं; कदाचिच् चूर्णितायाः खण्डः भगवत उपरिष्टान् निपतेद् ति; स कथयति: एवं भवतु इति; भगवान् अभ्यवकाशे स्थित्वा पर्वतविवरे प्रविष्टः; देवदत्तेन पंचशतपरिवारेण यन्त्रम् आम्रेड्य भगवतः शिला क्षिप्ता; वज्रपाणिना यक्षेण चूर्णिता; अर्धं भगवतः स्थाने पतितुकामं कुम्भीरयक्षेण गृह्णता न सुगृहीतं कृतं; स तेन प्रघातितः; भगवता उत्प्लुत्य पाषाणशर्करया पादः क्षतः कृतः; भगवांस् तस्यां वेलायां गाथां भाषते नैवान्तरीक्षे न समुद्रमध्ये न पर्वतानां विवरं प्रविश्य / न विद्यते ऽसौ पृथिवीप्रदेशो यत्र स्थितौ न प्रसहेत कर्म //
इति कुम्भीरो ऽपि यक्षः कुशलचित्तः कालगतः; कालं कृत्वा प्रणीतेषु त्रयस्त्रिंशेषु देवेषु उपपन्नः; धर्मता खलु देवपुत्रस्य वा देवकन्याया वा अचिरोपपन्नस्य त्रीणि चित्तान्य् उत्पद्यन्ते: कुतश् च्युतः कुत्रोपपन्नः केन कर्मणा इति स पश्यति: यक्षेभ्यश् च्युतः, प्रणीतेषु त्रयस्त्रिंशेषु देवेषूपपन्नः भगवतो (sbv ii 169) ऽन्तिके चित्तम् अभिप्रसाद्य इति; अथ यक्षपूर्विणो देवपुत्रस्य एतद् अभवन् न मम प्रतिरूपं स्याद् यद् अहं पर्युषितपरिवासो भगवन्तं दर्शनायोपसंक्रमेयं (अ 485अ) यन् न्व् अहम् अपर्युषितपरिवास एव भगवन्तं दर्शनायोपसंक्रमेयम् इति अथ स यक्षपूर्वी देवपुत्रश् चलविमलकुण्डलधरो हारार्धहारविभूषितगात्रस् ताम् एव रात्रिं दिव्यानाम् उत्पलपद्मकुमुदपुण्डरीकमान्दारकाणां पुष्पाणाम् उत्संगं पूरयित्वा सर्वं गृध्रकूटं पर्वतम् उदारेणावभासेनावभास्य भगवतं पुष्पैर् अवकीर्य भगवतः पुरस्तान् निषण्णो धर्मश्रवणाय; ततो भगवता आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरार्यसत्यसंप्रतिवेधिकी धर्मदेशना कृता यां श्रुत्वा यक्षपूर्विणा देवपुत्रेण विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतआपत्तिफलं साक्षात्कृतं; स दृष्टसत्यस् त्रिर् उदानम् उदानयति: इदम् अस्माकं भदन्त न मात्रा कृतं न पित्रा कृतं; नेष्टेन स्वजनबन्धुवर्गेण; न राज्ञा न देवताभिर् न पूर्वप्रेतैर् न श्रमणब्राह्मणैः यद् भगवता अस्माकं कृतम्; उच्छोषिता रुधिराश्रुसमुद्राः; लंघिता अस्थिपर्वताः पिहितान्य् अपायद्वाराणि विवृतानि स्वर्गमोक्षद्वाराणि; प्रतिष्ठापिताः स्मो देवमनुष्येषु आह च तवानुभावात् पिहितस् सुघोरो ह्य्
अपायमार्गो बहुदोषयुक्तः / अपावृता स्वर्गगतिः सुपुण्या निर्वाणमार्गश् च मयोपलब्धः //
त्वदाश्रयाच् चाप्तम् अपेतदोषं मयाद्य शुद्धं सुविशुद्धचक्षुः / प्राप्तं च शान्तं पदम् आर्यकान्तं तीर्णश् च दुःखार्णवपारम् अस्मि //
जगति दैत्यनरामरपूजितं विगतजन्मजरामरणामयं / भवसहस्रसुदुर्लभदर्शनं सफलम् अद्य मुने तव दर्शनम्* //
अवलम्ब्य ततः प्रलम्बहारः चरणौ द्वाव् अभिवन्द्य जातहर्षः / परिगम्य च दक्षिणं जितारिं सुरलोकाभिमुखो दिवं जगाम // (sbv ii 170) अथ यक्षपूर्वी देवपुत्रो वणिग् इव लब्धलाभः संपन्नसस्य इव कार्षकः शूर इव विजितसंग्रामः सर्वरोगपरिमुक्त इवातुरो यया विभूत्या भगवत्सकाशम् उपसंक्रान्तः तयैव विभूत्या स्वभवनं गतः भिक्षवः पूर्वरात्रापररात्रं जागरिकायोगम् अनुयुक्ता विहरन्ति; तैर् दृष्टो भगवतो ऽन्तिके उदारो ऽवभासः; यं दृष्ट्वा सन्दिग्धाः भगवन्तं पप्रच्छुः: किं भगवन् इमां रात्रिं भगवन्तं दर्शनाय ब्रह्मा सभांपतिः शक्रो देवेन्द्रः चत्वारो लोकपाला उपसंक्रान्ताः भगवान् आह: न भिक्षवो ब्रह्मा सभांपतिः न शक्रो देवानाम् इन्द्रः नापि चत्वारो लोकपाला माम् दर्शनायोपसंक्रान्ताः; अपि तु देवदत्तेन मद्वधायोद्युक्तेन या गृद्ध्रकूटपर्वताद् यन्त्रेण शिला क्षिप्ता सा अन्तरीक्षे एव वज्रपाणिना वज्रेण चूर्णिता; तस्या अर्धं ममोपरि पतमानं कुम्भीरयक्षेण दुर्गृहीतं कृतं; स तेन प्रघातितो ममान्तिके चित्तम् अभिप्रसाद्य कालगतः; प्रणीतेषु देवेषु त्रयस्त्रिंशेषु (अ 485ब्) उपपन्नः; स इमां रात्रिं मत्सकाशम् उपसंक्रान्तः; तस्य मया धर्मो देशितः; स दृष्टिसत्यः स्वभवनं गतः; इति हि भिक्षवः एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः; एकान्तशुक्लानाम् एकान्तशुक्लः; व्यतिमिश्राणां व्यतिमिश्रः; तस्मात् तर्हि भिक्षवः एकान्तकृष्णानि कर्माण्य् अपास्य व्यतिमिश्राणि च एकान्तशुक्लेष्व् एव कर्मस्व् आभोगाः करणीयः इत्य् एवं वो भिक्षवः शिक्षितव्यम्* भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: पश्य भदन्त कुम्भीरेण यक्षेण भगवतः अर्थाय आत्मा परित्यक्तः इति; भगवान् आह: न भिक्षव एतर्हि यथा अतीते ऽप्य् अध्वनि अनेन ममार्थाय आत्मा परित्यक्तः; तच् छ्रूयतां
the story of a hunter (concerning a previous birth of yakṣa kumbhīra)
भूतपूर्वं भिक्षवो वाराणस्यां नगर्यां ब्रह्मदत्तो नाम राजा राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च; तेन खलु समयेन वाराणस्यां नगर्यां नातिदूरे अन्यतरस्मिन्न् आश्रमपदे मूलपुष्पफलसलिलसंपन्ने नानाविहगनिकूजिते ऋषिः प्रतिवसति; कष्टतपाः फलमूलाम्बुभक्षः अजिनवल्कलवासाः; तस्य चाश्रमपदस्य सामन्तकेन मृगलुब्धको मृगान् प्रघात्य प्रघात्य जीविकां कल्पयति; स तस्य ऋषेः कालेन कालम् उपसंक्रामति; तस्यासौ ऋषिः श्रान्तस्य मूलफलैर् उपसंहारं करोति; अप्य् एवायं लुब्धको मत्सरी (sbv ii 171) समीपनिवासिनो मृगान् न प्रघातयेद् इति; तयोः परस्परं पितृपुत्रेति संज्ञा समुत्पन्ना;लुब्धको ऋषिं पितृवादेन समुदाचरति; ऋषिर् अपि लुब्धकं पुत्रवादेन; यावद् अपरेण समयेन राजा ब्रह्मदत्तः काल्यम् एवोत्थाय मृगवधाय निर्गतः; तेन मृगः शरपरम्परया ताडितः उत्पतितः तय ऋषेर् आश्रमपदं प्रविष्टः; तत्रापि राज्ञा नाराचेन मर्मणि ताडितः कालगतः; स ऋषिः क्रोधपर्यवस्थितः कथयति: कलिराजस् त्वं दुराचारो येन मे शरणोपगतो मृगः प्रघातितः इति; एवम् उक्ते स राजा द्वेषपर्यवस्थाननिविष्टबुद्धिर् अमात्यानां कथयति: भवन्तो यो राजानं क्षत्रियं मूर्धाभिषिक्तं परिभाषते तस्य को दण्डः इति; अमात्याः कथयन्ति: वधो दण्डः इति; राजा कथयति: यद्य् एवं परित्यक्तो मे अयम् ऋषिः; अमात्याः ऋषिं प्रघातयितुम् आरब्धाः; दैवात् स लुब्धकस् तस्य ऋषेः सकाशम् आगतः; आगत एव स संलक्षयति; मम जीवतः कथम् ऋषिः प्रघात्यते इति; स योद्धुम् आरब्धः; ऋषिर् निष्पलायितः; स महता बलकायेन प्रघातितः भगवान् आह: किं मन्यध्वे भिक्षवो यो ऽसौ ऋषिर् अहम् एव सः तेन कालेन तेन समयेन; यो ऽसौ लुब्धकः एष एव स कुम्भीरयक्षः तेन कालेन तेन समयेन; तदाप्य् अनेन ममार्थाय आत्मा परित्यक्तः; एतर्ह्य् अप्य् अनेन ममार्थाय आत्मा परित्यक्तः इति
jīvaka prescribes a very rare substance called gośīrṣacandana in order to stop the hemorrhage at the foot of the buddha
भगवतः पाषाणशर्करया (अ 486अ) पादः क्षतः; रुधिरं प्रघरत्य् एव नावतिष्ठते; जीवको वैद्यराजो भगवतो रुजावलोककः त्रिकालम् उपसंक्रामति; राजगृहनिवासी श्राद्धो जनकायः नानादेशभ्यागताश् च सम्यग्दर्शनसंपन्नाः धनिनः श्रेष्ठिनः सार्थवाहाः; तत्र केचित् कथयति: जीवक इदम् अत्र भैषज्यं शोभनम् इति; अन्ये कथयन्ति: इदं शोभनम् इति; जीवको वैद्यराजः कथयति: अस्त्य् अत्र सद्यःप्रशमनं भैषज्यं; किं तु तद् दुर्लभं; आयुष्मान् आनन्द कथयति: जीवक किं तत्; स कथयति: गोशीर्षचन्दनं; तेन खलु समयेन गोषीर्षचन्दनस्य प्राप्तिर् एव समुच्छिन्ना; यावद् अन्यतमेन वणिजा गोशीर्षचन्दनम् आत्ययिकं स्थापितम्: अयं राजा अजातशत्रुश् चण्डो रभसः कर्कशः; यद्य् अस्य दैवाद् गोशीर्षचन्दनेन प्रयोजनं भवति (sbv ii 172) नियतम् अस्याभावत् शिरश्छेदम् अपि करोति; यस्माद् अहं कालानुकालं गोशीर्षचन्दनविक्रयं कृतवान् इति; तेन श्रुतं यथा जीवकेन वैद्यराजेन भगवतो रुजाप्रशमनं गोशीर्षचन्दनम् उपदिष्टम् इति; स संलक्षयति: अयम् अजातशत्रुर् देवदत्तविग्राहितो भगवत्य् अभिनिविष्टबुद्धिः; यद्य् अहं भगवतो गोशीर्षचन्दनं प्रदास्यामि स्थानम् एतद् विद्यते यद् अनर्थं करिष्यति इति; पुनः संलक्षयति: भगवान् देवमनुष्यपूजितः; यदि तस्यार्थाय् प्राणवियोगो भवति, भवत्य् एव; यन्न्व् अहं भगवतो गोशीर्षचन्दनं प्रयच्छेयम् इति; स गोशीर्षचन्दनम् आदाय भगवत्सकाशम् उपसंक्रान्तः पादयोर् निपत्य कथयति: भगवन्न् उपलब्धं मया भगवतो गोशीर्षचन्दनेन प्रयोजनम् इति; इदं तत् प्रतिगृह्णातु भगवान् अनुकम्पाम् उपादाय
इति; तत्र भगवान् आयुष्मन्तम् आनन्दम् आमन्त्रयते: प्रतिगृह्णीष्व आनन्द अस्य महात्मनः सकाशाद् गोशीर्षचन्दनम् इति; आयुष्मता आनन्देन प्रतिगृहीतं; ततो ऽसौ वणिक् प्रीतिप्रामोद्यजातः भगवतः पादौ शिरसा वन्दित्वा भगवतो ऽन्तिकात् प्रक्रान्तः अथ भगवान् विस्मितम् अकार्षीत्; धर्मता खलु यस्मिन् समये बुद्धा भगवन्तः स्मितं प्राविष्कुर्वन्ति तस्मिन् समये नीलपीतलोहितावदाताः अर्चिषः मुखान् निश्चर्य काश्चिद् अधस्ताद् गच्छन्ति; काश्चिद् उपरिष्टाद् गच्छन्ति या अधस्ताद् गच्छन्ति ताः सञ्जीवं कालसूत्रं सङ्घातं रौरवं महारौरवं तापनं प्रतापनम् अवीचिम् अर्बुदं निरर्बुदम् अटटं हहवं हुहुवम् उत्पलं पद्मं महापद्मं नरकं गत्वा ये उष्णनरकास् तेषु शीतीभूत्वा निपतन्ति; ये शीतनरकास् तेषु उष्णीभूत्वा निपतन्ति; तेन तेषां सत्वानां कारणाविशेषाः प्रतिप्रस्रभ्यन्ते; तेषाम् एवं भवति: किं नु वयं भवन्तः इतश् च्युताः आहोस्विद् अन्यत्रोपपन्नाः इति; तेषां प्रसादसंजननार्थं भगवान् निर्मितं विसर्जयति; तेषां निर्मितं दृष्ट्वा एवं भवति; न हैव वयं भवन्तः इतश् च्युताः; नाप्य् अन्यत्रोपपन्नाः; अपि तु अयम् अपूर्वदर्शनः सत्वः; अस्य अनुभावेन अस्माकं कारणाविशेषाः प्रतिप्रस्रब्धाः इति; ते निर्मिते चित्तम् अभिप्रसाद्य, तन् नरकवेदनीयं कर्म क्षपयित्वा देवमनुष्येषु प्रतिसन्धिं गृह्णन्ति यत्र सत्यानां भाजनभूता भवन्ति या उपरिष्टाद् गच्छन्ति ताश् चातुर्महाराजिकान् त्रयस्त्रिंशान् यामान् तुषितान् निर्माणरतीन् परनिर्मितवशवर्तिनः ब्रह्मकायिकान् ब्रह्मपुरोहितान् महाब्रह्मणः परीत्ताभान् अप्रमाणाभान् आभास्वरान् परीत्तशुभान् अप्रमाणशुभान् शुभकृत्स्नान्
अनभ्रकान् पुण्यप्रसवान् बृहत्फलान् अबृहान् अतपान् सुदृशान् सुदर्शनान् अकनिष्ठान् देवान् गत्वा अनित्यं दुःखं शून्यम् अनात्मा इत्य् उद्घोषयन्ति; गाथाद्वयं च भाषन्ते आरभध्वं निष्क्रामत युज्यध्वं बुद्धशासने /
धुनीत मृत्युनः सैन्यं नडागारम् इव कुञ्जरः //
यो ह्य् अस्मिन् धर्मविनये अप्रमत्तश् चरिष्यति / प्रहाय जातिसंसारं दुःखस्यान्तं करिष्यति // इति
अथ ता अर्चिषस् त्रिसहस्रमहासहस्रं लोकधातुम् अन्वाहिण्ड्य भगवन्तम् एव पृष्ठतः पृष्ठतः समनुगच्छन्ति; तद् यदि भगवान् अतीतं कर्म व्याकर्तुकामो भवति, भगवतः पृष्ठतो ऽन्तर्धीयन्ते; अनागतं व्याकर्तुकामो भवति, पुरस्ताद् अन्तर्धीयन्ते; नरकोपपत्तिं व्याकर्तुकामो भवति पादतले अन्तर्धीयन्ते; तिर्यगुपपत्तिं व्याकर्तुकामो भवति पार्ष्ण्याम् अन्तर्धीयन्ते; प्रेतोपपत्तिं व्याकर्तुकामो भवति पादाङ्गुष्ठे अन्तर्धीयन्ते; मनुष्योपपत्तिं व्याकर्तुकामो भवति जानुनोर् अन्तर्धीयन्ते; बलचक्रवर्तिराज्यं व्याकर्तुकामो भवति वामे करतले अन्तर्धीयन्ते; चक्रवर्तिराज्यं व्याकर्तुकामो भवति दक्षिणे करतले अन्तर्धीयन्ते; देवोपपत्तिं व्याकर्तुकामो भवति नाभ्याम् अन्तर्धीयन्ते; श्रावकबोधिं व्याकर्तुकामो भवति आस्ये ऽन्तर्धीयन्ते; प्रत्येकबोधिं व्याकर्तुकामो भवति ऊर्णायाम् अन्तर्धीयन्ते; अनुत्तरां सम्यक्संबोधिं व्याकर्तुकामो भवति उष्णीषे अन्तर्धीयन्ते अथ ता अर्चिषो भगवन्तं त्रिः प्रदक्षिणीकृत्य भगवत ऊर्णायाम् अन्तर्हिताः; अथायुष्मान् आनन्दः कृतकरपुटो भगवन्तं पप्रच्छ नानाविधो रङ्गसहस्रचित्रो वक्त्रान्तरान् निष्कसितः कलापः / अवभासिता येन दिशः समन्तात् दिवाकरेणोदयता यथैव //
गाथाश् च भाषते विगतोद्भवा दैन्यमदप्रहीणा बुद्धा जगत्य् उत्तमहेतुभूताः / नाकारणं शङ्खमृणालगौरम् स्मितम् उपदर्शयन्ति जिना जितारयः //
तत्कालं स्वयम् अधिगम्य धीर बुद्ध्या श्रोतृणां श्रमण जिनेन्द्र काङ्क्षितानाम् / धीराभिर् मुनिवृष वाग्भिर् उत्तमाभिर् उत्पन्नं व्यपनय संशयं शुभाभिः / नाकास्माल् लवणजलाद्रिराजधैर्याः संबुद्धाः स्मितम् उपदर्शयन्ति नाथाः / यस्यार्थे स्मितम् उपदर्शयन्ति धीराः तं श्रोतुं समभिलषन्ति ते जनौघाः // इति भगवान् आह: एवमेतद् आनन्द एवम् एतत्; नाहेतप्रत्ययम् आनन्द तथागता अर्हन्तः सम्यक्संबुद्धाः स्मितं प्राविष्कुर्वन्ति; दृष्टस् त्वया अनन्द स वणिक्, येन तथागतस्य चित्तम् अभिप्रसाद्य गोशीर्षचन्दनं (अ 487अ) दत्तं दृष्टो भदन्त; स एष आनन्द वणिक् तेन कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन च चन्दनो नाम प्रत्येकबुद्धो भविष्यति; अयम् अस्य देयधर्मो यो ममान्तिके चित्तप्रसादः
the hemorrhage does not stop, and jīvaka prescribes the milk of a young woman
तथापि तद् रुधिरं प्रघरत्य् एव; नावतिष्ठते; जीवकः कथयति: इदानीं कन्याक्षीरेण परिषेको दीयताम् इति; भिक्षवो न जानते कीदृशं कन्याक्षीरम् इति; आयुष्मान् आनन्दः कथयति: जीवक कीदृशं कन्याक्षीरम् इति; स कथयति: या तु प्रथमप्रसवा (sbv ii 173) नारी सात्र कन्या अभिप्रेता; तस्या यत् क्षीरं तत् कन्याक्षीरम् इत्य् उच्यते इति; आयुष्मता आनन्देन कन्याक्षीरनिमित्तं चतस्रो ऽपि पर्षदः प्रयुक्ताः; भिक्षवः कन्याक्षीरं पर्येषितुम् आरब्धाः; भिक्षुण्यः उपासका उपासिह्यश् च भूयसा सर्व एव राजगृहनिवासी जनकायः स्थापयित्वा देवदत्तं देवदत्तपक्ष्यांश् च; ते चतसृणां पर्षदां जनकायस्य च पर्येषमाणस्य यैस् तैर् उपायैः विघ्नं कुर्वन्ति; यावद् राजगृहे अन्यतमा प्रथमप्रसवा कन्या स्वल्पक्षीरा स्वकम् अपि पुरं क्षीरेण न सन्तर्पयति; कुतः पुनर् अन्यस्य दास्यति? तया श्रुतं यथा भगवतः कन्याक्षीरेण प्रयोजनम् इति; सा संलक्षयति: यदि दास्यामि दारको मे स्वल्पप्राणः क्षीरविरहात् प्राणैर् वियोक्ष्यते; न केवलम् अयं आदीनवः; अयम् अपरः, देवदत्तः भगवतो दीर्घरात्रं प्रत्यर्थिकः प्रत्यमित्रः; तद्विग्राहितश् च राजा अजातशत्रुः देवदत्तपक्ष्याश् च कोकालिकखण्डद्रव्यकटमोरकतिष्यसमुद्रदत्ताः; एते मां जीविताद् व्यपरोपयिष्यन्ति इति; पुनः संलक्षयति: कामं स्वप्राणवियोगः पुत्रवियोगश् च; न तु देवमनुष्यपूजितस्य बुद्धस्य भगवतः व्याधिदुःखवेदनानुभवनं येन सर्व एव राजगृहनिवासी जनकायः समाकुलः; यन्न्व् अहं क्षीरम् आदाय गच्छेयम् इति; सा भगवतो ऽन्तिके चित्तम् अभिप्रसाद्य नवे भाजने क्षीरं दुग्ध्वा येन भगवांश्
तेनोपसंक्रान्ता; उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा भगवन्तम् इदम् अवोचत्: उपलब्धं मया भदन्त जीवकेन भगवतः कन्याक्षीरम् उपदिष्टम् इति; तद् इदं कन्याक्षीरं प्रगृह्यतां ममानुग्रहाय इति; तत्र भगवान् आयुष्मन्तम् आनन्दम् आमन्त्रयते: भद्राशया इयम् आनन्द दारिका; अस्या सकाशाद् गृहाण क्षीरम् इति; तेन प्रतिगृहीतं क्षीरं; सा भगवतः पादौ शिरसा वन्दित्वा भगवतो ऽन्तिकात् प्रक्रान्ता अथ भगवान् विस्मितम् अकार्षीत्; धर्मता खलु यस्मिन् समये बुद्धा भगवन्तः स्मितं प्राविष्कुर्वन्ति तस्मिन् समये नीलपीतलोहितावदाताः अर्चिषः मुखान् निश्चर्य काश्चिद् अधस्ताद् गच्छन्ति; काश्चिद् उपरिष्टाद् गच्छन्ति या अधस्ताद् गच्छन्ति ताः सञ्जीवं कालसूत्रं सङ्घातं रौरवं महारौरवं तापनं प्रतापनम् अवीचिम् अर्बुदं निरर्बुदम् अटटं हहवं हुहुवम् उत्पलं पद्मं महापद्मं नरकं गत्वा ये उष्णनरकास् तेषु शीतीभूत्वा निपतन्ति; ये शीतनरकास् तेषु उष्णीभूत्वा निपतन्ति; तेन तेषां सत्वानां कारणाविशेषाः प्रतिप्रस्रभ्यन्ते; तेषाम् एवं भवति: किं नु वयं भवन्तः इतश् च्युताः आहोस्विद् अन्यत्रोपपन्नाः इति; तेषां प्रसादसंजननार्थं भगवान् निर्मितं विसर्जयति; तेषां निर्मितं दृष्ट्वा एवं भवति; न हैव वयं भवन्तः इतश् च्युताः; नाप्य् अन्यत्रोपपन्नाः; अपि तु अयम् अपूर्वदर्शनः सत्वः; अस्य अनुभावेन अस्माकं कारणाविशेषाः प्रतिप्रस्रब्धाः इति; ते निर्मिते चित्तम् अभिप्रसाद्य, तन् नरकवेदनीयं कर्म क्षपयित्वा देवमनुष्येषु प्रतिसन्धिं गृह्णन्ति यत्र सत्यानां भाजनभूता भवन्ति या उपरिष्टाद् गच्छन्ति ताश् चातुर्महाराजिकान् त्रयस्त्रिंशान् यामान् तुषितान्
निर्माणरतीन् परनिर्मितवशवर्तिनः ब्रह्मकायिकान् ब्रह्मपुरोहितान् महाब्रह्मणः परीत्ताभान् अप्रमाणाभान् आभास्वरान् परीत्तशुभान् अप्रमाणशुभान् शुभकृत्स्नान् अनभ्रकान् पुण्यप्रसवान् बृहत्फलान् अबृहान् अतपान् सुदृशान् सुदर्शनान् अकनिष्ठान् देवान् गत्वा अनित्यं दुःखं शून्यम् अनात्मा इत्य् उद्घोषयन्ति; गाथाद्वयं च भाषन्ते आरभध्वं निष्क्रामत युज्यध्वं बुद्धशासने /
धुनीत मृत्युनः सैन्यं नडागारम् इव कुञ्जरः //
यो ह्य् अस्मिन् धर्मविनये अप्रमत्तश् चरिष्यति / प्रहाय जातिसंसारं दुःखस्यान्तं करिष्यति // इति
अथ ता अर्चिषस् त्रिसहस्रमहासहस्रं लोकधातुम् अन्वाहिण्ड्य भगवन्तम् एव पृष्ठतः पृष्ठतः समनुगच्छन्ति; तद् यदि भगवान् अतीतं कर्म व्याकर्तुकामो भवति, भगवतः पृष्ठतो ऽन्तर्धीयन्ते; अनागतं व्याकर्तुकामो भवति, पुरस्ताद् अन्तर्धीयन्ते; नरकोपपत्तिं व्याकर्तुकामो भवति पादतले अन्तर्धीयन्ते; तिर्यगुपपत्तिं व्याकर्तुकामो भवति पार्ष्ण्याम् अन्तर्धीयन्ते; प्रेतोपपत्तिं व्याकर्तुकामो भवति पादाङ्गुष्ठे अन्तर्धीयन्ते; मनुष्योपपत्तिं व्याकर्तुकामो भवति जानुनोर् अन्तर्धीयन्ते; बलचक्रवर्तिराज्यं व्याकर्तुकामो भवति वामे करतले अन्तर्धीयन्ते; चक्रवर्तिराज्यं व्याकर्तुकामो भवति दक्षिणे करतले अन्तर्धीयन्ते; देवोपपत्तिं व्याकर्तुकामो भवति नाभ्याम् अन्तर्धीयन्ते; श्रावकबोधिं व्याकर्तुकामो भवति आस्ये ऽन्तर्धीयन्ते; प्रत्येकबोधिं व्याकर्तुकामो भवति ऊर्णायाम् अन्तर्धीयन्ते; अनुत्तरां सम्यक्संबोधिं व्याकर्तुकामो भवति उष्णीषे अन्तर्धीयन्ते अथ ता अर्चिषो भगवन्तं त्रिः प्रदक्षिणीकृत्य भगवत ऊर्णायाम् अन्तर्हिताः; अथायुष्मान् आनन्दः कृतकरपुटो भगवन्तं पप्रच्छ नानाविधो रङ्गसहस्रचित्तो वक्त्रान्तरान् निष्कसितः कलापः / अवभासिता येन दिशः समन्तात् दिवाकरेणोदयता यथैव //
गाथाश् च भाषते विगतोद्भवा दैन्यमदप्रहीणा बुद्धा जगत्य् उत्तमहेतुभूताः / नाकारणं शङ्खमृणालगौरम् स्मितम् उपदर्शयन्ति जिना जितारयः //
तत्कालं स्वयम् अधिगम्य धीर बुद्ध्या श्रोतृणां श्रमण जिनेन्द्र काङ्क्षितानाम् / धीराभिर् मुनिवृष वाग्भिर् उत्तमाभिर् उत्पन्नं व्यपनय संशयं शुभाभिः / नाकास्माल् लवणजलाद्रिराजधैर्याः संबुद्धाः स्मितम् उपदर्शयन्ति नाथाः / यस्यार्थे स्मितम् उपदर्शयन्ति धीराः तं श्रोतुं समभिलषन्ति ते जनौघाः // इति भगवान् आह: दृष्टस् त्वया अनन्द सा दारिका, यया ममान्तिके चित्तम् अभिप्रसाद्यक्षीरं दत्तं दृष्टा भदन्त; एषा सा आनन्द दारिका अनेन कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन च क्षीरप्रदो नाम प्रत्येकबुद्धो भविष्यति; अयम् अस्या देयधर्मो यो ममान्तिके चित्तप्रसादः इति
दशबलकाश्यप स्तोप्स् थे हेमोर्र्हगे
तथापि तद् रुधिरं प्रघरत्य् एव; नावतिष्ठते; नानादेशनिवासिनो भिक्षवः अभ्यागताः भगवत एवंविधम् आबाधं (sbv ii 174) श्रुत्वा अन्ये च श्राद्धा ब्राह्मणगृहपतयः; तत्र केचिद् अगदान् व्याहरन्ति; केचिन् मन्त्रैश् चिकित्सां कुर्वन्ति; आयुष्मान् दशबलकाश्यपः सत्योपयाचनं कर्तुम् आरब्धः समं ते भगवंश् चित्तं पुत्रेष्व् अपि अरिष्व् अपि / अनेन सत्यवाक्येन तिष्ठ क्षतज मा स्रव // इति सत्योपयाचनसमन्तरम् एव तद् रुधिरं स्थितं; भिक्षवः प्रमुदितमनसः संवृत्ताः भिक्षुण्यः उपासकाः उपासिक्यः भूयसा सर्व एव राजगृहनिवासी जनकायः स्थापयित्वा देवदत्ताजातशत्रू कोकालिकखण्डद्रव्यकटमोरकतिष्यसमुद्रदत्तांश् च; भगवान् जानन्न् एव यो यथा चिकित्सां करोति, तस्य तथानुमोदते, तेषां कुशलमूलबीजावरोपणार्थं भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: पश्य भदन्त भगवता आयुष्मता दशबलकाश्यपेन सत्योपयाचनया स्रवद् रुधिरं विधारितम् इति; भगवान् आह: न भिक्षव एतर्हि यथा अतीते ऽप्य् अध्वनि अहम् अनेन विषकृतेन पर्याकुलीकृतो निर्विषीकृतः; तच् छ्रूयतां
the story of dharmakāma (concerning a previous birth of daśabalakāśyapa)
भूतपूर्वं भिक्षवः अन्यतमस्य कर्वटकस्य नातिदूरे उद्यानं मूलकन्दपुष्पफलसलिलसंपन्नं नानाविहगनिकूजितं; तत्र ऋषिः प्रतिवसति फलमूलाम्बुभक्षः अजिनवल्कलवासाः विद्यामन्त्रधारी च; तस्मिंश् च कर्वटके गृहपतिः प्रतिवसति; तेन सदृशात् कुलात् कलत्रम् आनीतं; स तया सार्धं क्रीडति रमते परिचारयति; तस्य क्रीडतो रममाणस्य परिचारयतः कालान्तरेण पत्नी आपन्नसत्वा संवृत्ता; सा अष्टानां वा नवानां वा मासानाम् अत्ययात् प्रसूता; दारको जातः; तस्य त्रीणि सप्तकान्य् एकविंशतिदिवसान् विस्तरेण जातस्य जातिमहं कृत्वा नामधेयं व्यवस्थापितं; स उन्नीतो वर्धितो महान् संवृत्तः; स चंक्रम्यमाणः (अ 488ब्) स्थितो शयितो वा कुशलं चित्तम् अतिकुशलं च कर्म करोति; तस्य जनकायेन धर्मकाम इति संज्ञा कृता; स किंकुशलगवेषितया कर्वटकान् निष्क्रम्य कालानुकालं तस्य ऋषेः सकाशम् उपसंक्रामति; उपस्थानं चास्य करोति; तपस्विन उपसंक्रामतीति तापसस् (sbv ii 175) तापस इति संवृत्ता; तस्यापरेण समयेन विषकृतम् उत्थितं; सो ऽनेकैर् अगदमन्त्रप्रयोगैश् चिकित्स्यते; न चासौ व्याधिर् उपशमं गच्छति; स मातापितृभ्यां तस्य ऋषेः सकाशम् उपनीतः; महर्षे उपस्थायकस् ते विषकृतेन प्राणैर् वियुज्यते; चिकित्सां कुरुष्व इति; स सत्योपयाचनं कर्तुम् आरब्धः समं ते दारक चित्तं मित्रेष्व् अपि रिपुष्व् अपि / अनेन सत्यवाक्येन निर्विषो भव दारक // इति स सत्योपयाचनकालसमनन्तरम् एव निर्विषीकृतः किं मन्यध्वे भिक्षवो यो ऽसौ दारकः अहम् एव सः तेन कालेन तेन समयेन; यो ऽसौ ऋषिः एष एव स दशबलकाश्यपः; तदाप्य् अहम् अनेन सत्योपयाचनेन स्वस्थीकृतः; एतर्ह्य् अप्य् अहम् अनेन सत्योपयाचनेन स्वस्थीकृतः
the disappointment of devadatta
देवदत्तो दुःखी दुर्मना विप्रतीसारी चिन्तयति: व्यर्थं मया श्रमणस्य गौतमस्य शिला क्षिप्ता; न च श्रमणो गौतमः प्रघातितः; महाजनप्रतिसंविदितो जातः इति; स वृक्षमूलं गत्वा चिन्तापरः कृतकेन पर्यङ्कं बध्वा अवस्थितः; भिक्षवः स्थानस्थानेष्व् अवध्यायन्ति क्षिपन्ति विवाचयन्ति: पश्व भदन्त ईदृशः क्रूराशयो देवदत्तः, येन भगवतः प्रव्रजितस्यापि पराक्रान्तम्; उपरिष्टात् शिला क्षिप्ता इति; कोकालिकखण्डद्रव्यकटमोरकतिष्यसमुद्रदत्ताः कथयन्ति: किं भवन्तो यद्वा तद्वा असमीक्ष्य कथयन्ति ननु पश्यत देवदत्तम् अस्मिन् वृक्षमूले; चतुर्थं ध्यानं समापन्नः महात्मासौ; कथम् एवं करिष्यति इति भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: पश्य भदन्त अमी कोकालिकखण्डद्रव्यकटमोरकतिष्यसमुद्रदत्ताः आत्मना अलज्जिनः अलज्जिनो देवदत्तस्य वर्णं भाषन्ते इति; भगवान् आह: न भिक्षव एतर्हि यथा अतीते ऽप्य् अध्वनि एते अलज्जिन अलज्जिनो वर्णम् अभाषन्त; तच् छ्रूयतां (sbv ii 176)
the story of a jackal and a crow (concerning a previous birth of devadatta, etc.)
भूतपूर्वं भिक्षवो राजगृहीयकैर् मनुष्यैः राज्ञा च केनचित् कारणेन क्रियाकारं कृत्वा द्वे श्मशाने व्यवस्थापिते, एकस्मिन् प्रदेशे पुरुषाश् छोरयितव्याः एकस्मिन् स्त्रियः इति; यावद् अपरेण समयेन पण्डकः कालगतः; स न एकस्मिन् श्मशाने अवकाशं लभते, न द्वितीये; राजगृहस्यान्यतमस्मिन् प्रदेशे उद्यानं मूलकन्दपुष्पफलसलिलसंपन्नं नानाविहगनिकूजितं; तस्मिंश् च खुस्तशिरा ऋषिः प्रतिवसति; फलमूलाम्बुभक्षः अजिनवल्कलवासाः; तस्मिंश् च प्रदेशे त्रिकण्टकेदारैरण्डवृक्षाश् च सन्ति; तत्र स पण्डको छोरितः; कुणपगन्धेन सृगाल आगतः; (अ 489अ) स तं पण्डकं भक्षयितुम् आरब्धः; काकश् च एरण्डवृक्षाग्रतस् तिष्ठति; तस्य बुद्धिर् उत्पन्ना: सृगालस्य वर्णं भाषे; कदाचिद् भक्षितशेषं दद्याद् इति; स तस्य गाथया वर्णं भाषितुम् आरब्धः: सिंहस्य ते यथा ग्रीवा ऋषभस्य यथा कटिः / मृगराज नमस् तुभ्यं भुक्तशेषं लभेमहि // इति सृगालो व्यवलोक्य प्रत्यभाषत को ऽयं द्रुमवराग्रे ऽस्मिन् द्विजानां प्रवरः खलु / अवभास्य दिशः सर्वाः भ्राजते रत्नपिण्डवत् // इति काकः कथयति अहम् अस्मि महाभाग दर्शनार्थं त्वागतः / मृहराज नम्स् तुभ्यं भुक्तशेषं लभेमहि // इति सृगालः कथयति मयूरकण्ठस् त्वम् असि वायस प्रियदर्शन / आक्रन्दचारिणां श्रेष्ठ एहि भुङ्क्ष्व यथासुखं // इति सो ऽवतीर्णः सृगालेन सह कुणपं भक्षयन् तेन ऋषिणा दृष्टः; स गाथां भाषते (sbv ii 177) चिरस्य बत पश्यामि समागमम् अलज्जिनोः / वृक्षाधमस्य च्छायायां भुञ्जते कुणपं सह //
इति काकेन श्रुतं; स सामर्षं गाथां भाषते यदि सिंहो म्यूरश् च भुञ्जते वरजाङ्गलम् / किम् अत्र खुस्तशिरसः परदत्तोपजीविनः // इति ऋषिर् अपि जातामर्षो गाथां भाषते पक्षिणाम् अधमः काकः जम्बुकश् च चतुष्पदाम् / एरण्डश् चापि वृक्षाणां मौष्यानां च पण्डकः / हीनास् त्रिकण्टकेदाराः पश्यालज्जिसमागमम् // इति ततः काको भूयस्या मात्रया संजातामर्षो ऋषेर् अग्निशरणं प्रविश्य व्यवलोकयितुम् आरब्धो न पश्यति किंचित्; कमण्डलुं भङ्क्त्वा निष्पलायितः; यावद् असौ ऋषिर् अग्निशरणं प्रविश्य पश्यति कमण्डलुं भग्नं; स संलक्षयति: तस्यैतद् दुष्काकस्य कर्म नान्यस्य; इति विदित्वा गाथां भाषते न रोच्यास् तादृशाः केचिद् अलजिनाः क्रूराशयाः / दूषितं चाग्निशरणं भग्नश् चापि कमण्डलुः //
अवर्णार्हो न वर्णार्हः न वाच्यं खलु सर्वथा / किंचिन् मतिमता नित्यं तूष्णींभावः सुखावहः // इति
किं मन्यध्वे भिक्षवो यो ऽसौ ऋषिर् अहम् एव सः तेन कालेन तेन समयेन; सृगालो देवदत्तः तेन कालेन तेन समयेन, काकः कोकालिकः तेन कालेन तेन समयेन; तदाप्य् एताव् अलज्जिनौ अलज्जिनोर् वर्णम् अभाषाताम्; एतर्ह्य् अप्य् एताव् अलज्जिनौ अलज्जिनोर् वर्णं भाषेते भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: कुत्र भदन्त भगवतो देवदत्तस्य च तत्प्रथमतो वैरूक्ष्यम् उत्पन्नम् इति; भगवान् आह
the story of the two birds dharma and adharma (concerning a previous birth of the buddha and of devadatta)
भूतपूर्वं भिक्षवो द्वौ जीवजीवकौ एकेन कायेन समुद्रतीरे प्रतिवसतः धर्मश् चाधर्मश् च; यावद् अधर्मो मिद्धम् (sbv ii 178) अवक्रान्तः; धर्मो जागर्ति; तेन अमृतफलम् उह्यमानं दृष्टं; तेन तद् गृहीतं; स संलक्षयति: किं तावद् एनम् उत्थापयिष्यामि? आहोस्विद् भक्षयामि? इति; भूयः संलक्षयति: भक्षयामि: एकस्मिन्न् एव शरीरे विपक्ष्यते इति; स तेन नोत्थापितः; स्वयम् एव (अ 489ब्) भक्षितः; स प्रतिबुद्धः; तस्मिन् प्रदेशे धर्मस्य अंर्तफलोद्गारः उत्थितः; अधर्मेण घ्रातः; स कथयति: कस्य एष उद्गारः इति; स कथयति: अमृतफलस्य; कुत्र लब्धं?; स कथयति: मया तव सुप्तस्य अमृतफलं लब्धं; तन् मया भक्षितं; त्वं नोत्थापितः: एकस्मिन्न् एव शरीरे विपक्ष्यते इति; स कथयति: न शोभनं कृतम्; अहम् अपि कालज्ञो भविष्यामि इति; यावद् अपरेण समयेन धर्मो मिद्धम् अवक्रान्तः; अधर्मो जागर्ति; तेन विषफलम् उह्यमानं दृष्टं; तेन तद् भक्षितं; ताव् उभाव् अपि मूर्च्छितौ; अधर्मो विषफलेन पर्याकुलीकृतः कथयति: तत्र तत्रोपपद्येय, यत्र यत्र जन्मनि तव वधकः स्यां प्रत्यर्थिकः प्रत्यमित्रः इति; धर्मः कथयति: अहम् अपि यत्र यत्रोपपद्येय, तत्र तत्र जन्मनि तव मैत्र्युपसंहारं कुर्याम् इति भगवान् आह: किं मन्यध्वे भिक्षवो यो ऽसौ धर्मः अहम् एव सः तेन कालेन तेन समयेन; यो ऽसाव् अधर्मः एष एव स देवदत्तः तेन कालेन तेन समयेन; तत्रायं मम तत्प्रथमतो विरूक्षितः; अहं चास्य मैत्रेण चित्तेनावस्थितः; भूयो ऽप्य् अयं यथा मम विरूक्षितः, अहं चास्य मैत्रचित्तः; तच् छ्रूयताम्
the story of sūryanemi the poet (concerning a previous birth of the buddha and of devadatta)
भूतपूर्वं भिक्षवो वाराणस्यां नगर्यां सर्जरसो नाम राजा राज्यं कारयति ऋद्धं च यावद् आकीर्णबहुजनमनुष्यं च; तेन भूम्यन्तरस्य राज्ञः सकाशाद् दारिका लब्धा; स तया सार्धं क्रीडति रमते परिचारयति; तस्य क्रीडतो रममाणस्य परिचारयतः सा दारिका कालान्तरेण आपन्नसत्वा संवृत्ता; सा अष्टानां वा नवानां वा मासानाम् अत्ययात् सूर्योदये प्रसूता; दारको (sbv ii 179) जातः अभिरूपो दर्शनीयः प्रासादिकः; तस्य जातौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्य्ते किं भवतु दारकस्य नाम इति; अमात्याः कथयन्ति: अयं दारकः सूर्योदये जातः; तस्माद् भवतु दारकस्य सूर्यनेमीति नाम; तस्य सूर्यनेमीति नामधेयं व्यवस्थापितं; सूर्यनेमी दारकः अष्टाभ्यो धात्रीभ्यो दत्तः; द्वाभ्याम् अंसधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां क्रीडनिकाभ्यां धात्रीभ्यां; सो ऽष्टाभिर् धात्रीभिर् उन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिर्मण्डेन अन्यैश् चोत्तप्तोत्तप्तैर् उपकरणविशेषैर् आशु वर्धते ह्रदस्थम् इव पङ्कजम्; स यदा महान् संवृत्तस् तदा लिप्याम् उपन्यस्तः सङ्ख्यायां गणनायां मुद्रायां; यानि राज्ञां क्षत्रियाणां मूर्धाभिषिक्तानां जनपदैश्वर्यस्थामवीर्यम् अनुप्राप्तानां महान्तं पृथिवीमण्डलम् अभिनिर्जित्य अध्यावसतां पृथग् भवन्ति शिल्पस्थानकर्मस्थानानि तद्यथा हस्तिग्रीवायाम् अश्वपृष्ठे रथे त्सरौ धनुषि अपयाने निर्याणे अंकुशग्रहे पाशग्रहे तोमरग्रहे छेद्ये भेद्ये वेध्ये मुष्टिबन्धे पादबन्धे शिखाबन्धे दूरवेधे शब्दवेधे मर्मवेधे अक्षूणवेधे दृढप्रहारितायां पञ्चसु स्थानेषु कृतावी संवृत्तः; स पित्रा यौवराज्ये
प्रतिष्ठापितः (अ 490अ) सर्जरसस्य राज्ञः अग्रमहिषी धर्मा नाम; अग्रामात्यश् च गोनिषादो नाम्ना; तस्मिंश् च राजा अत्यर्थं विश्वस्तः; यावद् अपरेण समयेन राजा सर्जरसः धर्मया सार्धं क्रीडति रमते परिचारयति; तस्य क्रीडतो रममाणस्य परिचारयतः धर्मा आपन्नसत्वा संवृत्ता; सा नैमित्तिकैर् व्याकृता: पुत्रं जनयिष्यति; स राजानं जीविताद् व्यपरोप्य स्वयम् एव पट्टे बध्वा राज्यैश्वर्याधिपत्यं कारयिष्यति इति; यावद् राजा सर्जरसः ग्लानः संवृत्तः; स उपस्थीयते मूलगण्डपत्रपुष्पफलभैषज्यैः; न चासौ व्याधिर् उपशमं गच्छति; शरीरावस्था परिच्छिन्ना; स संलक्षयति: ममात्ययात् सूर्यनेमी राजा भविष्यति; नियतम् असौ धर्मां घतयिष्यति; किम् अत्र प्राप्तकालं; इति भूयः स संलक्ष्यति: अयम् अमात्यो गोनिषादः मया प्रणीतैर् भोगैः संविभक्तः, प्रतिपालितश् च; अस्य धर्मां समर्पयामि इति; तेन गोनिषाद आहूयोक्तः:मम धर्मा अग्रमहिषी: त्वं चाग्रामात्यः; मम शरीरावस्था परिच्छिन्ना; नियतम् अहं प्राणाइर् वियोक्ष्ये; त्वया मत्प्रियतया तथा अनुष्ठेयं यथा धर्मा सूर्यनेमिना जीवितान् न व्यपरोप्यते (sbv ii 180) इति; स कथयति: देव तद् अपि न शक्यं ते कर्तुम्; अल्पोत्सुको भवतु देवः; तथा करिष्ये यथा न प्रघात्यते इति सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः /
संयोगा विप्रयोगान्ताः मरणान्तं च जीवितम् //
इति राजा सर्जरः कालगतः; स छत्रध्वजपताकादिशोभया महता सत्कारेण ध्यापितः; सूर्यनेमी महाराजः महाराजाभिषेकेण अभिषिक्तः; तेनामात्यानाम् आज्ञा दत्ता; धर्मां घातयत इति; गोनिषादः कथयति: देव किम् असमीक्ष्य प्रघात्यते? न ज्ञायते किं दारकं जनयिष्यति? उत दारिकाम् इति; तद् यदि दारकं जनयिष्यति स एव जीविताद् व्यपरोप्यते इति; सूर्यनेमी राजा कथयति: एवं भवतु; त्वयैव संरक्ष्या इति; तेन गृहे स्थापिता; सा अष्टानां वा नवानां वा मासानाम् अत्ययात् प्रसूता; दारको जातः; तस्मिन्न् एव दिवसे कैवर्ती प्रसूता; तस्या दारिका जाता; स जातमात्र एव कैवर्तीं धनेन प्रलोभ्य परिवर्तितः; गोनिषादेन राज्ञो निवेदितं: देव धर्मा प्रसूता; दारिका जाता इति; राजा कथयति: शोभनं; मुक्ताः स्मः इति; स दारकः कैवर्त्या आपायितः पोषितः संवर्धितः महान् संवृत्तः; लिप्यक्षराणि पाठितः; काव्यं कर्तुम् आरब्धः; तस्य कविः कैवर्तदारकः कविः कैवर्तदारकः इति संज्ञा संवृत्ता; गोनिषादेन धर्मायाः समाख्यातं: पुत्रस् ते काव्यकर्ता संवृत्तः इति; सा कथयति: पश्यामि तावत् कीदृशः इति; स कथयति: अलं; किं तेन दृष्टेन इति; सा कथयति: पुत्राभिलाषिणी आकांक्षत्य् एव दर्शनं नावतिष्ठते इति; तस्या गोनिषादेन अवश्यनिर्बन्धं ज्ञात्वा उपायसंविधानेन मत्स्यां कृत्वा प्रवेशितः; स प्रविशन्न् एव नैमित्तिकैर् व्याकृतः: (अ 490ब्) एष कविः कैवर्तदारको राजानं जीविताद् व्यपरोप्य, स्वयम् एव पट्टां बध्वा राज्यं कारयिष्यति इति; राज्ञा श्रुतं; तेनामात्यानाम् आज्ञा दत्ता: गृह्णीत यथा न परिभ्रश्यते इति; तेन कर्णपरम्परया श्रुतं; स इतश् चामुतश् च
निष्पलायमानो वृद्धयुवत्या गृहं प्रविष्टः; स तया गोपायितः; ततो हरिद्रतैलेन गात्राणि म्रक्षयित्वा मंचे आरोप्य मृत इति कृत्वा निष्कासितः; स च श्मशाने छोरितः; उत्थाय निष्पलायितः; तस्मिन् प्रदेशे अन्यतमः पुरुषः पुष्पफलानि पर्येषते; तेनासौ निष्पलायमानो दृष्टः; तस्य पृष्ठतश् चारकपुरुषाः प्रधाविताः; तैर् असौ पुरुषः पृष्टः: भो (sbv ii 181) पुरुष न त्वया ईदृशः प्रमाणेन वर्णेन च अनेन पथा गच्छन् कश्चिन् मनुष्यो दृष्टः? स कथयति: दृष्टः; अनेन पथा गच्छत इति; ते तस्य पृष्ठतो ऽनुबद्धाः; सो ऽन्यतमस्मिन् कर्वटके रजकस्य गृहं प्रविष्टः; तस्य च यथावृत्तम् आरोचितं; चारकपुरुषैः कर्वटको विचारयितुम् आरब्धः; रजकेन वस्त्रवरण्डेन वेष्टयित्वा गर्दभे आरोप्य कर्वटकान् निष्कासितः; स्नानशालायां नित्वा मुक्तः; उत्थाय चतुर्दिशं व्यवलोक्य निष्पलायितः; तत्राप्य् अन्यतरेण पुरुषेण दृष्टः; तेन चारकपुरुषाणां निवेदितं; भवन्तो यदर्थं यूयं कर्वटकं प्रत्यवेक्षथ, असौ पुरुषः अनेन पथा गतः; गच्छत शीघ्रम् इति; ते संप्रस्थिताः; सो ऽप्य् अपरस्मिन् ग्रामे चर्मकारगृहं प्रविष्टः; तस्य तेन यथावृत्तम् आरोचितं; स कथयति: पृष्ठतो मुखे उपानहौ कुरु इति; स कथयति: न मया कदाचिद् एवंरूपा उपानहा कृतपूर्वा; स गाथां भाषते नानामतयो ह्य् अनेकरूपास् तुलितास् ते तुलया हि नैकयापि / वनवं कुरु चर्मकार मे त्वं यत् पृष्ठं तद् इह ममाग्रतः कुरुष्व //
इति तेनासौ चर्मकारः शिक्षितः; चर्मकारेण तादृश्यौ उपानहौ कृते; कुड्यपरिक्षिप्तो ऽसौ कर्वटकः; स तेन उपानहौ प्रावृत्य उपच्छिद्रेण निष्पलायितः; चारकपुरुषाः उपानहा अनुसृत्य कर्वटकम् अन्वाहिण्डन्ते; सो ऽपि निष्पलायमानः उदकं प्रविष्टः, नागैर् नागभवनं प्रवेशितः; राज्ञा श्रवपरम्परया श्रुतं यथा असौ नागैर् नागभवनं प्रवेशितः इति; राज्ञा अमात्यानाम् आज्ञा दत्ता: भवन्तो ये मद्विषयनिवासिनः आहितुण्डिकाः, ते सर्वे मत्सकाशे आनेयाः इति; तैः सर्वे विषयनिवासिनः आहितुण्डिकाः राज्ञः उपनीताः; राज्ञा तेषाम् आज्ञा दत्ता: भवन्तो गच्छत; अमुष्मिन् नागभवने नागम् उद्धरत इति; एवं देवेति सर्वे आहितुण्डिकाः राज्ञः प्रतिश्रुत्य तन्नागभवनं गताः; अन्यतरस्यां चाटव्यां पिङ्गलो नाम यक्षो मांसरुधिरभक्षः; तस्य भयात् श्वापदा अपि तम् अटवीं परित्यजन्ति; किम् उत मनुष्याः सा पिङ्गलाटवीति प्रकाशा (sbv ii 182) संवृत्ता; आहितुण्डिकेन स नागस् तथा मन्त्रबलाधानाद् उपद्रुतो यथा (अ 491अ) सन्त्रस्तः पिङ्गलाटव्यां छोरितो न शक्तस् ताम् अतिक्रामयितुं; नागाः संजल्पं कुर्वन्ति: न शोभनम् अस्माभिः कृतं यद् असौ पिङ्गलाटवीं नातिक्रामितः; सो ऽपि पिङ्गलेन यक्षेण प्रघात्यते; वयं च तदर्थम् अभिद्रुताः; कथम् अत्र प्रतिपत्तव्यम् इति; स नागराजः कथयति: एतम् अर्थम् आहितुण्डिकानां निवेदयामः इति; तैर् आहितुण्डिकानां समाख्यातं: भवन्तो यदर्थं वयम् आकुलीक्रियामहे, सो ऽस्माभिर् अर्थतः प्रघातित एव, यत् पिङ्गलाटव्यां समुत्सृष्टः इति; आहितुण्डिकैः राज्ञ एतत् प्रकरणं समाख्यातं; राजा कथयति: यद्य् अप्य् एवं तथापि समन्वेष्यताम् इति; स
पिङ्गलाटव्याम् इतश् चामुतश् च परिभ्रमितुम् आरब्धः; पिङ्गलश् च यक्षः अन्यतमस्मिन् प्रदेशे कुक्कुरैः परिवृतस् तिष्ठति; तेनासौ कुक्कुरैश् च दूरत एव दृष्टः; स संलक्षयति: किं ममानेन मृतप्रवृत्तिः श्रुता? येनायम् अत्र प्रविष्ट इति; तेन तस्य कुक्कुरा उत्सृष्टाः; स निष्पलायमानो वृक्षम् अभिरूढः; कुक्कुराः पिङ्गलश् च वृक्षस्याधस्ताद् व्यवस्थिताः; पिङ्गलः कथयति: भोः पुरुष न त्वया श्रुतं पिङ्गलाटव्यां पिङ्गलो नाम अमनुष्यकः प्रतिवसति; यस् तत्र प्रविशति स तं प्रघातयति इति; प्राप्तस् ते कालः; अवतर इति; स कथयति: यावज् जीवामि तावत् तिष्ठामि इति; पिङ्गलयक्षः अवसक्तिकां बध्वा निर्बन्धेनावस्थितः; स प्रचालयितुम् आरब्धः; तेन तस्योपरि वस्त्रं क्षिप्तं; कुक्कुराः संलक्षयन्ति: स एवायं मनुष्यः पतितः इति; ते पिङ्गलं यक्षं भक्षयित्वा प्रक्रान्ताः; स वृक्षात् शनैर् अवतीर्य प्रक्रान्तः तेन तेनान्वाहिण्डन्; स संलक्षयति: मम मातुलः ऋषीणां मध्ये प्रव्रजितः; तस्य सकाशं गच्छामि इति; तस्य च ऋषेर् अन्यतमस्मिन् पर्वते उद्यानं मूलपुष्पफलसलिलसंपन्नं विविधतरुषण्डमण्डितं नानाविहगनिकूजितं; सो ऽनुपूर्वेण श्रवपरम्परया तस्य रिषेः सकाशम् उपसंक्रान्तः; ज्ञातिसम्बन्धम् आख्यायावस्थितः; तत्रापि चारकपुरुषैः समन्विष्टः; ते तं ग्रहीतुम् आरब्धाः; तेन पर्वतप्रपाताद् आत्मा मुक्तः; स पतन्न् अन्यतमेन पुरुषेण शिखायां गृहीताः; शिखा उत्पटिता; स पतितः; ते संलक्षयन्ति: मृतो ऽयं; गच्छामः इति ते शिखाम् आदाय राज्ञः सकाशं गताः कथयन्ति: (sbv ii 183) देव प्रघातितो ऽसौ कविः; इयम् अस्य शिखा इति; राजा परितुष्टः;
तेन ते भोगैः संविभक्ताः; अथ या देवता ऋषेर् उद्याननिवासिनी, तया तस्य रिषेः समाख्यातं: भागिनेयस् ते कृच्छ्रसङ्कटसंबाधप्राप्तः; न समन्वाहरस्? इति; स कथयति: यदि मया न समन्वाहृतो ऽभवियत् प्राणैर् वियुक्तः अभविष्यद् इति; स ऋषिर् विद्यामन्त्रधारी; ईदृशीं विद्यां जानीते यया पुरुषः स्त्री भवति स्त्री पुरुषो भवति; स तेन तां विद्यां ग्राहितः; उक्तश् च: गच्छेदानीम्; अकुतोभयो विहर इति; सो ऽन्यं प्रतिरूपं स्त्रीवेषं (अ 491ब्) विद्यया अभिनिर्माय वाराणसीं गत्वा राजकीये उद्याने स्थितः; उद्यानपालैर् दृष्टः; परं विस्मयम् उपगताः; तैर् लघु लघ्व् एव गत्वा सूर्यनेमिनो राज्ञः समाख्यातं: देव एवंरूपयौवनसंपन्ना स्त्री उद्याने तिष्ठति इति; तेनाज्ञा दत्ता आनीयताम् इति; सा महता श्रीसमुदायेन राजकुलं प्रवेशिता; राजा सूर्यनेमिस् तया सार्धम् अतीव संरक्तः; ततस् तया अवसरं ज्ञात्वा रहसि स्थितो जीविताद् व्यपरोपितः; पुनश् च विद्यां परिवर्त्य पुरुषः संवृत्तः; ततः स्वयम् एव पट्टं बध्वा गोनिषादस्यामात्यस्य निवेद्य राज्ये प्रतिष्ठितः; देवता गाथां भाषते नासौ हतो यय शिरो न छिन्नं भूयस् स उत्थाय करोति कर्म / स वै हतो शब्दहतेन तेन कविना यथा सर्जरस्य पुत्रः //
इति किं मन्यध्वे भिक्षवो यो ऽसौ सूर्यनेमी राजा सर्जरस्य राज्ञः पुत्रः एष एव स देवदत्तः तेन कालेन तेन समयेन; यो ऽसौ कविः कैवर्तदारकः अहम् एव सः तेन कालेन तेन समयेन; तदाप्य् एष मम वैरप्रसक्तः; एतर्ह्य् अप्य् एष मम वैरप्रसक्तः; भूयो ऽपि यथैष मम वैरानुबद्धस् तच् छ्रूयताम्
the story of the two jewellers (concerning a previous birth of the buddha and of devadatta)
भूतपूर्वं भिक्षवः अन्यतमस्मिन् कर्वटके द्वौ मणिकारौ प्रतिवसतः; तयोः रथ्या विभक्ता गृहं च; तेन खलु समयेन अन्यतमः परिक्षीणविभवो वणिक्; स मणिभाजनम् आदाय तं कर्वटकम् अनुप्राप्तः; ततो मार्गश्रमं प्रतिविनोद्य एकस्य मणिकारस्य सकाशम् उपसंक्रान्तः कथयति: इदं मणिभाज्नम् अर्घं कुरुष्व इति; तेन स्वल्पं मूल्यं कृतं; स कथयति: किम् एवं कथयसि? यद्य् अपि अहं भोगेभ्यः परिभ्रष्टः न तु प्रज्ञया; जानाम्य् अहम् एवास्य मूल्यम् इति; स तस्य सकाशम् (sbv ii 184) उपसंक्रम्य द्वितीयस्य सकाशम् उपसंक्रान्तः कथयति: इदम् मणिभाजनं; मूल्यम् अस्य कुरुष्व इति; तेन तस्य पुष्कलं मूल्यं कृतं; स परितुष्टः कथयति: गृहाणा, देहि मूल्यम् इति; स कथयति: नास्ति मे एतावन् मूल्यम् इति; स कथयति: यद् अस्ति तद् अनुप्रयच्छ इति; तेन गृहीतं; तेनान्येन मणिकारेण श्रुतं; स संजातामर्षस् तस्य सकाशम् उपसंक्रान्तः; मयैतत् पूर्वं गृहं नीतं; मया चास्य मूल्यं कृतं; त्वं कस्माद् गृह्णीषे? इति; तयोः परस्परं वैरूक्ष्यम् उत्पन्नम् किं मन्यध्वे भिक्षवो यो ऽसौ मणिकारः येन मणिभाजनस्य स्वल्पं मूल्यं कृतम् एष एव स देवदत्तः तेन कालेन तेन समयेन; यो ऽसौ द्वितीयो मणिकारः येन पुष्कलं मूल्यं कृतम् अहम् एव सः तेन कालेन तेन समयेन; तदाप्य् आवयोः परस्परं वैरूक्ष्यम् उत्पन्नं; पुनर् अपि यथा वयोः वैरूक्ष्यम् उत्पन्नं; तच् छ्रूयताम्
the story of the elder son of a gṛhapati (concerning a previous birth of the buddha and devadatta)
भूतपूर्वं भिक्षवः अन्यतमस्मिन् कर्वटके गृहपतिः प्रतिवसति; तेन सदृशात् कुलात् कलत्रम् आनीतं; स तया सार्धं क्रीडति रमते परिचारयति; तस्य क्रीडतो रममाणस्य परिचारयतः (अ 492अ) कालान्तरेण पत्नी आपन्नसत्वा संवृत्ता; सा अष्टानां वा नवानां वा मासानाम् अत्ययात् प्रसूता; दारको जातः; सा अस्य पत्नी कालगता; स संलक्षयति: दारकं कः सम्वर्धयिष्यति? अन्याम् आनयामि इति; तेनान्या आनीता; स तया सार्धं क्रीडति रमते परिचारयति; तस्या अपि पुत्रो जातः; सापि कालगता; स गृहपतिः संलक्षयति: यद्य् अन्याम् आनयामि, सापि कालं करिष्यति; ज्येष्ठस्य पुत्रस्य निवेशनं करोमि इति; तेन ज्येष्ठस्य पुत्रस्य निवेशः कृतः; तस्य बहवः पुत्रा दुहितरश् च जाताः; सा तस्य भार्या कथयति: आर्यपुत्र एष दारकस् तव को भवति? इति: स कथयति: कनीयान् भ्राता; सा कथयति: आर्य तव बहवः पुत्राः; अयम् एकः; एषां चास्य च तुल्यो गृहभोगो देयः; स कथयति: भद्रे एष लोकधर्मः इति; सा कथयति: यद्य् एवं प्रघातय एनम् इति; कामान् खलु प्रतिसेवमानस्य नास्ति किंचित् पापकं कर्म अकरणीयम् इति स पुष्पफलव्याजेन अटवीं नीत्वा प्रघातितः; (sbv ii 185) किं मन्यध्वे भिक्षवो यो ऽसौ ज्येष्ठो गृहपतिपुत्रः एष एव स देवदत्तः तेन कालेन तेन समयेन; यो ऽसौ कनीयान् अहम् एव सः तेन कालेन तेन समयेन; तदाप्य् अनेन ममान्तिके वैरूक्ष्यम् उत्पादितः; एतर्ह्य् अप्य् अनेन वैरूक्ष्यम् उत्पादितः; यथा पुनर् अप्य् आवयोर् वैरूक्ष्यम् उत्पन्नं; तच् छ्रूयताम्
the story of a girl and an astrologer (concerning a previous birth of the buddha and devadatta)
भूतपूर्वं भिक्षवः अन्यतमस्मिन् कर्वटके ब्राह्मणः प्रतिवसति; तेन सदृशात् कुलात् कलत्रम् आनीतं; स तया सार्धं क्रीडति रमते परिचारयति; तस्य क्रीडतो रममाणस्य परिचारयतः पत्नी आपन्नसत्वा संवृत्ता; सा अष्टानां वा नवानां वा मासानाम् अत्ययात् प्रसूता; दारिका जाता अभिरूपा दर्शनीया प्रासादिका; स ब्राह्मणः संलक्षयति: यो ममाद्य गृहं ब्राह्मणो भिक्षार्थी प्रविशति, तस्यैनां कन्याभिक्षां प्रयच्छामि इति; यावद् अन्यतमो माणवः भिक्षार्थी तस्य गृहं प्रविष्टः: स्वस्ति भिक्षां प्रयच्छ इति; तेन ब्राह्मणेनाहूयोक्तः: माणव इयं मम दुहिता; मया कन्याभिक्षा तुभ्यं दत्ता इति; स कथयति: नाद्य प्रतिगृह्णामि; दिवसमुहूर्तेन प्रतिग्रहिष्यामि इति; स प्रक्रान्तः; यावद् अन्यतमो माणवो भिक्षार्थी तस्य गृहं प्रविष्टः: स्वस्ति भिक्षां प्रयच्छ इति; स तेन ब्राह्मणेनाहूयोक्तः: माणव इयं मम दुहिता; मया कन्याभिक्षा तुभ्यं दत्ता इति; स कथयति: अपरो ऽत्र माणवः भिक्षार्थी प्रविष्टः; तस्मै किमर्थं न दत्ता इति; स कथयति: यद् ब्रूते नक्षत्रम् अशोभनम् इति; स कथयति: यद्य् एवं प्रतीष्टा भवतु इति; ब्राह्मणः कथयति: त्वं पुनः किमर्थं नक्षत्रं न पश्यति? इति; स गाथां भाषते नक्षत्रं भद्रकं सर्वं सर्वे कल्याणका दिनाः / समुत्पन्नेषु कार्येषु सर्वम् एतत् प्रदक्षिणम् //
हापयन्ति नरा ह्य् अर्थं नक्षत्रगणनापराः / अर्थो ह्य् अर्थस्य नक्षत्रं किं कार्यं ज्योतिभिः पुनः //
स प्रतिगृहीत्वा प्रक्रान्तः (अ 492ब्) तेनान्येन माणवेन श्रुतं सा ब्राःमणकन्या अनेन माणवेन प्रतीष्टा इति; स तस्य सकाशं गतः (sbv ii 186) कथयति: माणवकः सा कन्या किमर्थं त्वया प्रतीष्टा? मया पूर्वलब्धा इति; स कथयति: त्वं नक्षत्रगणनापरः; नक्षत्रं तावत् परीक्ष; मम तु शोभनं नक्षत्रम् इति; स रुषितः किं मन्यध्वे भिक्षवो यो ऽसौ पूर्वमाणवः एष एव स देवदत्तः तेन कालेन तेन समयेन; यो ऽसौ पश्चिमको माणवः अहम् एव स तेन कालेन तेन समयेन; तदाप्य् अस्य ममान्तिके वैरूक्ष्यम् उत्पन्नं; एत्र्ह्य् अप्य् अस्य ममान्तिके वैरूक्ष्यम् उत्पन्नं
the very ferocious elephant of ājātaśatru, dhanapālaka by name
बुद्धो भगवान् राजगृहे विहरति वेणुवने कलन्दकनिवापे; तेन खलु समयेन यो ऽसौ राज्ञः अजातशत्रोः धनपालको नाम दुष्टनागः प्रतिदिनम् आवासान् निष्क्राम्यमाणो महाजनविप्रघातं करोति; राजगृहनिवासिना जनकायेन राजा अजातशत्रुर् विज्ञप्तः: देव धनपालको दुष्टनागः प्रतिदिनम् आवासान् निष्क्राम्यमाणो रथ्यावीथीचत्वरशृङ्गाटकेषु महाजनविप्रघातं करोति; तद् अर्हति देवः हस्तिदमकानाम् आज्ञां दातुं यथा न प्रतिदिनं निष्कासयन्ति; श्वो निष्क्राम्यते इति च घण्टावघोषणं कारयितुम् इति; राजा कथयति एवं भवतु; गच्छत इति; राज्ञा अमात्यानाम् आज्ञा दत्ता: आहूयन्तां भवन्तो हस्तिदमकाः इति; तैर् हस्तिदमका आहूताः; राजा कथयति: भवन्तो राजगृहनिवासिना जनकायेन अभिहितो ऽस्मि धनपालको दुष्टनागः प्रतिदिनम् आवासान् निष्क्राम्यमाणो रथ्यावीथीचत्वरशृङ्गाटकेषु महाजनविप्रघातं करोति; तद् अर्हति देवः हस्तिदमकानाम् आज्ञां दातुं यथा न प्रतिदिनं निष्कासयन्ति; श्वो निष्क्राम्यते इति च घण्टावघोषणं कारयितुम् इति; तद् युष्माभिर् न प्रतिदिनं निष्क्रामयितव्यः; श्वो निष्क्राम्यते इति च घण्टावघोषणं कारयितव्यम् इति; हस्तिदमकाः राज्ञः अजातशत्रोः प्रतिश्रुत्य पादयोर् निपत्य प्रक्रान्ताः (sbv ii 187)
devadatta's attempt to kill the buddha by means of the elephant dhanapālaka
राजगृहे चान्यतरो गृहपतिः आढ्यो महाधनो महाभोगः; तेन बुद्धप्रमुखो भिक्षुसंघः श्वो ऽन्तर्गृहे भक्तेन उपनिमन्त्रितः; देवदत्तेन श्रुतं यथा अमुकेन गृहपतिना बुद्धप्रमुको भिक्षुसंघः श्वो ऽन्तर्गृहे भक्तेनोपनिमन्त्रितः इति; तेन हस्तिदमकस्य शतसहस्रो मुक्ताहारो दत्तः; उक्तश् च: अमुकेन गृहपतिना श्रमणो गौतमः सश्रावकसंघः श्वो ऽन्तर्गृहे भक्तेन उपनिमन्त्रितः; तत् त्वया धनपालको हस्तिनागः उत्स्रष्टव्यः इति; स कथयति: आर्य एवं भवतु; किंतु यथा वा तथा वा देवम् अवलोकय इति; ततो देवदत्तो येन राजा अजातशत्रुस् तेनोपसंक्रान्तः; उपसंक्रम्य राजानम् अजातशत्रुम् इदम् अवोचत्: शक्तस् त्वं मां बुद्धत्वे न प्रतिष्ठापयितुम्; (अ 493अ) अपि तु त्वं पितरं जीविताद् व्यपरोप्य राज्ये प्रतिष्ठपितः; अहम् अपि श्रमणं गौतमं प्रघात्य सर्वज्ञत्वं करोमि; धनपालं हस्तिनागम् उत्सृज इति; अजातशत्रुः कथयति: न त्वया श्रुतम्? अदान्तदमका बुद्धा भगवन्तः इति; स कथयति: यद्य् अदान्तदमकाः स्युः अहम् एव तावद् अनेन दान्तः स्याम् इति; स तं यथा वा तथा वा अवलोक्य हस्तिदमकानां सकाशम् उपसंक्रम्य कथयति: निवेदितं मया देवस्य; तद् युष्माभिः श्वो धनपालको हस्तिनागः उत्स्रष्टव्यः इति; ततो हस्तिदमकैः राजगृहे घण्टावघोषणं कारितं: शृण्वन्तु भवन्तो राजगृहनिवासिनः पौराः, श्वो हस्तिनागो मुच्यते; तद् युष्माभिः श्वः सर्वप्रयत्नेन आत्मरक्षा कर्तव्या इति; गृहपतिः श्रुत्वा चिन्तापरो व्यवस्थितः: ईदृशो ऽहं मन्दभाग्यः; मया बुद्धप्रमुखो भिक्षुसंघः श्वो ऽन्तर्गृहे भक्तेनोपनिमन्त्रितः; धनपालकश् च दुष्टनागः श्वो
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
