Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 12/14

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luật tạng

सङ्घभेदवस्तु

Thông tin
GRETIL — R. Gnoli with the assistance of T. Venkatacharya: The Gilgit Manuscript of the Saṅghabhedavastu, Being the 17th and Last Section of the Vinaya of the Mūlasarvāstivādin, Roma 1977-78 (Serie Orientale Roma, 49).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

मुच्यते; कथं मया बुद्धप्रमुखो भिक्षुसंघः भोजयितव्यः इति; पुनः संलक्षयति: साधयामि पाकं; तत्रैव नीत्वा भगवन्तं भोजयामि इति; स शुचि प्रणीतं खादनीयभोजनीयं साधयित्वा काल्यम् एवोत्थाय भगवतः सकाशं गतः: भगवन् राजगृहे घण्टावघोषणं श्वो धनपालको हस्तिनागो मुच्यते; युष्माभिः शक्तितः आत्मरक्षा कर्तव्या इति; तद् भगवता राजगृहं न प्रवेष्टव्यम्; अहम् इहैव अन्नपानम् आनयामि इति; भगवान् कथयति: अल्पोत्सुकस् त्वं गृहपते भव; अन्नपानं सज्जीकुरु; विगतं तथागतस्य नागभयं; प्रविशाम्य् अहं सश्रावकसंघः इति; ततो ऽसौ गृहपतिर् आत्तमनात्तमनाः स्वगृहं गतः; अन्नपानं (sbv ii 188) समन्वाहृत्य आसनादि प्रज्ञप्य भगवन्तम् उदीक्षमाणः अवस्थितः; अथ भगवान् पूर्वाह्णे निवास्य पात्रचीवरम् आदाय पंचभिर् भिक्षुशतैः सार्धं राजगृहं प्रविष्टः; धनपालको हस्तिनागः उत्सृष्टः; अद्राक्षीद् धनपालको हस्तिनागो भगवन्तं दूराद् एव; दृष्ट्वा च पुनर् भ्रूकुटिं कृत्वा नादं च मुक्त्वा येन भगवांस् तेन सबलम् आजवेन प्राधावत् अथ देवदत्तः अजातशत्रुसहीयः अपरिप्रासादम् अभिरुह्य अवस्थितः; पश्यामि श्रमणं गोतमं प्रघात्यमानम् इति; ततो देवदत्तः भगवन्तं दृष्ट्वा हृष्टतुष्टप्रमुदितः उच्चैर् गाथाम् उवाच द्विपंचबल पश्यामि त्वां नागबलमर्दितम् / सश्रावकश् शाक्यसुत त्वम् अद्य न भविष्यसि //

इति भगवान् आह: नीचो ऽसि देवदत्त; प्रवादं त्वं प्रवदसि दशबलबलिनं माम् अगणयित्वा; पश्येदानीं तु बलं दशबलबलिनः अद्भुतस्य इति; ततो भगवता दक्षिणे करतले पंच सिंहाः केसरिणः पट्टधारिणो निर्मिताः; स तेषां गन्धं घ्रात्वा मूत्रपुरिषम् उत्सृजन् निष्पलायितुम् आरब्धः; भगवता सर्वा दिशः आदीप्ताः प्रदीप्ताः संप्रज्वलिताः एकज्वालीभूता अधिमुक्ताः स्थापयित्वा (अ 493ब्) स्वकम् एव पादमूलं शान्तं शीतीभूतम् अधिष्ठितं; ततो धनपालको हस्तिनागः इतश् चामुतश् च प्रधावन् सर्वम् आदिप्तं पश्यति; नान्यत्र भगवतः पादमूलं शीतीभूत्ं; धनपालकप्रकोपं दृष्ट्वा सर्वे भिक्षवो निष्पलायिताः स्थापयित्वा आयुष्मन्तम् आनन्दं; ततो धनपालको विगतमदवेगो मन्दगतिप्रचारतया भगवत्सकाशम् उपसंक्रान्तः; स भगवता चक्रस्वस्तिकनन्द्यावर्तेन अनेकपुण्यशतनिर्जातेन भीतानाम् आश्वासनकरेण करेण शिरसि परामृष्टः; गाथा च भाषिता मा कुञ्जर विहेठय नागम् दुःखं कुञ्जर विहेठनम् अस्य / (sbv ii 189) नो नागहतस्य परस्मिन् भद्रा हि नाग गतिर् भवति // इति+

the elephant dhanapālaka follows submissively the buddha, dies of grief and is reborn in the heaven of the four great kings

त्वं तावद् भद्रमुख पूर्वकेण दुश्चरितेन प्रत्यवरायां तिर्यग्योनाव् उत्पन्नः; स त्वम् एतर्हि परप्राणहरः परप्राणोपरोधेन परितुष्यसि; इतश् च्युतस्य ते का गतिर् भविष्यसि? का उपपत्तिः को ऽभिसंपरायः इति हि भद्रमुख सर्वसंस्कारा अनित्याः; सर्वधर्माः अनात्मानः; शान्तं निर्वाणं; ममान्तिके चित्तम् अभिप्रसाद्य अद्यैव तिर्यग्योनिं विरागयिष्यसि; इत्य् उक्त्वा येन तस्य गृहपतेर् निवेशनं तेनोपसंक्रान्तः; उपसंक्रम्य प्रज्ञप्त एवासने निषण्णः; धनपालको ऽपि भगवन्तं पृष्ठतः पृष्ठतः समनुबद्धः; भगवान् प्रविष्टः; स द्वारमूले स्थितः; भगवन्तम् अपश्यन् गृहं भङ्क्तुम् आरब्धः; भगवता तद् गृहं स्फटिकमयं निर्मितं यत्रानावृतं बुद्धबिम्बं पश्यति; स भगव्नतं दृष्ट्वा न भङ्क्तुम् आरब्धः; भगवान् सश्रावकसंघः भुक्त्वा दक्षिणादेशनां कृत्वा प्रक्रान्तः; स भगवतः पृष्ठतो ऽनुबद्ध एव; एतत् प्रकरणम् अमात्यैः राज्ञो निवेदितम्:; अजातशत्रुणा देवदत्तो ऽभिहितः: त्वया मम अनर्थः कृतः; तं हस्तिनम् आगम्य सीमान्तरा राजानः मां नाभिद्रवन्ति; सो ऽपि त्वया विमदीकृतः इति; स तूष्णीम् अवस्थितः; राज्ञा अमात्यानाम् आज्ञा दत्ता; यदा भगवान् निर्गतो भवति तदा भवद्भिर् धनपालः हस्तिनागो द्वारं बध्वा स्थापयितव्यः यथा भगवतः पृष्ठतः न निर्गच्छति इति; अमात्यै अपि हस्तिदमकानाम् आज्ञा दत्ता धनपालकं हस्तिनागं द्वारं बध्वा स्थापयत यथा भगवतः पृष्ठतो न निर्गच्छति इति; स भगवन्तम् अपश्यन् पादेन शुण्डाम् अवष्टभ्य कालगतः; चातुर्महाराजिकेषु देवेषूपपन्नः; धर्मता खलु देवपुत्रस्य वा देवकन्याया वा

अचिरोपपन्नस्य त्रीणि चित्तान्य् उत्पद्यन्ते: कुतश् च्युतः कुत्रोपपन्नः केन कर्मणा इति; स पश्यति नागेभ्यश् (sbv ii 190) च्युतः; प्रणीतेषु चातुर्महाराजिकेषु देवेषूपपन्नः; भगवतो ऽन्तिके चित्तम् अभिप्रसाद्य इति अथ नागपूर्विणो देवपुत्रस्यैतद् बहवत्: न मम प्रतिरूपं स्याद् यद् अहं पर्युषितपरिवास एव भगवन्तं दर्शनाय उपसंक्रमेयं; यन्न्व् अहम् अपर्युषितपरिवास एव भगवन्तं दर्शनायोपसंक्रमेयम् इति; अथ (अ 494अ) नागपूर्वी देवपुत्रश् चलविमलकुण्डलधरो हारार्धहारविभूषितगात्रः ताम् एव रात्रिं दिव्यानाम् उत्पलपद्मकुमुदपुण्डरीकमान्दारकाणां पुष्पाणाम् उत्संगं पूरयित्वा सर्वं वेणुवनं कलन्दकनिवापम् उदारेणावभासेनावभास्य भगवतं पुष्पैर् अवकीर्य भगवतः पुरस्तान् निषण्णो धर्मश्रवणाय; ततः अस्य भगवता आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी धर्मदेशना कृता यां श्रुत्वा नागपूर्विणा देवपुत्रेण विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतआपत्तिफलं साक्षात्कृतं; स दृष्टसत्यस् त्रिर् उदानम् उदानयति: इदम् अस्माकं भदन्त न मात्रा कृतं न पित्रा कृतं; न देवताभिः; नेष्टेन स्वजनबन्धुवर्गेण; न पूर्वप्रेतैर् न श्रमणब्राह्मणैः यद् भगवता अस्माकं कृतम्; उच्छोषिता रुधिराश्रुसमुद्राः; लंघिता अस्थिपर्वताः पिहितान्य् अपायद्वाराणि विवृतानि स्वर्गमोक्षद्वाराणि; प्रतिष्ठापिताः स्मो देवमनुष्येषु आह च तवानुभावात् पिहितस् सुघोरो ह्य् अपायमार्गो बहुदोषयुक्तः /

अपावृता स्वर्गगतिः सुपुण्य निर्वाणमार्गश् च मयोपलब्धः //

त्वदाश्रयाच् चाप्तम् अपेतदोषं मयाद्य शुद्धं सुविशुद्धचक्षुः / प्राप्तं च शान्तं पदम् आर्यकान्तं तीर्णश् च दुःखार्णवपारम् अस्मि //

जगति दैत्यनरामरपूजितं विगतजन्मजरामरणामयं / भवसहस्रसुदुर्लभदर्शनं सफलम् अद्य मुने तव दर्शनम्* //

अवनम्य ततः प्रलम्बहारः चरणौ द्वाव् अभिवन्द्य जातहर्षः / (sbv ii 191) परिगम्य च दक्षिणं जितारिं सुरलोकाभिमुखो दिवं जगाम //

अथ नागपूर्वी देवपुत्रो वणिग् इव लब्धलाभः सस्यसंपन्न इव कार्षकः शूर इव जितसंग्रामः सर्वरोगपरिमुक्त इवातुरो यया विभूत्या भगवत्सकाशम् उपसंक्रान्तः तयैव विभूत्या स्वभवनं गतः भिक्षवः पूर्वरात्रापररात्रं जागरिकानुयोगम् अनुयुक्ता विहरन्ति; तैर् दृष्टो भगवतो ऽन्तिके उदारो ऽवभासः; यं दृष्ट्वा भगवन्तं पप्रच्छुः: किं भगवन् इमां रात्रिं भगवन्तं दर्शनाय ब्रह्मा सभांपतिः शक्रो देवेन्द्रः चत्वारो लोकपाला उपसंक्रान्ताः भगवान् आह: न भिक्षवो ब्रह्मा सभांपतिः न शक्रो देवानाम् इन्द्रः नापि चत्वारो लोकपालाः मां दर्शनायोपसंक्रान्ताः; अपि तु युष्माभिर् भिक्षवः स धनपालो हस्तिनागः, तावच् चण्डः तावद् रभसो यस् तथागतस्य वधाय पराक्रान्तः दृष्टो भदन्त: मया विनीतः स ममान्तिके चित्तम् अभिप्रसाद्य कालगतः चातुर्महाराजिजेषु देवेषूपपन्नः; स इमां रात्रिं मत्सकाशम् उपसंक्रान्तः; तस्य मया धर्मो देशितः; स दृष्टसत्यः स्वभवनं गतः इति भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: किं भदन्त धनपालकेन कर्म कृतं (अ 494ब्) यस्य कर्मणो विपाकेन तिर्यक्षूपपन्नः; किं कर्म कृतं येन चातुर्महाराजिकेषु देवेषूपपन्नः सत्यदर्शनं च कृतम् इति; भगवान् आह: धनपालकेनैव हि भिक्षवः कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययान्य् ओघवत् प्रत्युपस्थितान्य् अवश्यभावीनि; धनपालेन कर्माणि कृतान्य् उपचितानि को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्य् उपचितानि पूर्ववद् यावत् फलन्ति खलु देहिनाम्

धनपालक इन् अ प्रेविओउस् बिर्थ्

भूतपूर्वं भिक्षवः अस्मिन्न् एव भद्रके कल्पे विंशतिवर्षसहस्रायुषि प्रजायां काश्यपो नाम शास्ता लोक उदपादि, विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्; स वाराणसीं नगरीम् उपनिश्रित्य विहरति ऋषिवदने मृगदावे; तस्य च शासने प्रव्रजित आसीद् वैयापृत्यकरह्; तत्रानेन क्षुद्रानुक्षुद्रेषु शिक्षापदेषु अनादरः (sbv ii 192) कृतः; तस्य कर्मणो विपाकेन तिर्यक्षूपपन्नः; यत् तत्रानेन संघस्य उपस्थानं कृतं तस्य कर्मणो विपाकेन अन्नपानस्य लाभी संवृत्तः; यन् ममान्तिके चित्तम् अभिप्रसाद्य कालगतः तेन चातुर्महाराजिकेषु देवेषूपपन्नः; यत् काश्यपे सम्यक्संबुद्धे प्रव्रजितेन पठितं स्वाध्यायितं स्कन्धकौशलं धातुकौशलं आयतनकौशलं प्रतीत्यसमुत्पादकौशलं स्थानास्थानकौशलं च कृतं तेन देवभूतेन ममान्तिके सत्यदर्शनं कृतम्; इति हि भिक्षवः एकान्तकृष्णानां कर्मणां पूर्ववद् यावद् एकान्तशुक्लेष्व् एव कर्मस्व् आभोगः करणीयः इत्य् एवं वो भिक्षवः शिक्षितव्यम् उद्दानम् हंश अट्टो ऽथोत्सृष्टो मृगः पूतिश् च मर्कटो गजः बिदालो बलिवर्दः चन्द्रपाषाणः हस्ति सृगालो ब्राह्मणेन् च भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: पश्य भदन्त भगवान् पंचभिर् भिक्षुशतैः परित्यक्तः; आयुष्मता आनन्देन न परित्यक्तः; भगवान् आह: न भिक्षव एतर्हि; यथा अतीते ऽप्य् अध्वन्य् अभिः परित्यक्तः; आनन्देन न परित्यक्तः; तच् छ्रूयताम्

the story of the king dhṛtarāṣṭra, and his faithful captain pūrṇamukha, etc. (concerning a previous birth of ānanda, etc.) bhūtapūrvaṃ bhikṣavo 'navatapte mahāsarasi dhṛtarāṣṭro nāma haṃsādhipatir babhūva; tasya dvau putrau pūrṇaś ca pūrṇamukhaś ca; pūrṇo jyeṣṭhaḥ pūrṇamukhaḥ kaniyān; tato pūrṇaś caṇḍo (sbv ii 193) rabhasaḥ karkaśaḥ; nityam eva haṃsān bhartsayati; keṣāṃcit pakṣān utpāṭayati; keṣāṃcin nakharikābhiḥ kṣataṃ karoti; etāni cānyāni ca upadravaśatāni karoti; te haṃsāḥ pratidinam āgamya dhṛtarāṣṭrasya haṃsādhipater nivedayanti; sa saṃlakṣayati: pūrṇaś caṇḍo rabhasaḥ karkaśaḥ; yady aham enaṃ yauvarājye pratiṣṭhāpayāmi mamātyayād eṣa haṃsayūthaṃ nāśayiṣyati; tad upāyasaṃvidhānaṃ kartavyam iti; tena pūrṇaḥ pūrṇamukhaś ca ubhāv apy uktau; yaḥ utsān sarāṃsi taḍāgāni cāvalokya agrato matsakāsam āgacchati tam ahaṃ haṃsādhipatiṃ sthāpayāmi iti; tāv anyonyaṃ spardhayā paṃcaśataparivārau prankrāntau; tāv itaś cāmutaś ca utsān sarāṃsi taḍāgāni ca avalokayantāv (a 495a) anupūrveṇa vārāṇasīṃ nagarīm anuprāptau; tena khalu samayena vārāṇasyāṃ brahmadatto nāma rājā rājyaṃ kārayati ṛddhaṃ ca yāvad ākīrṇabahujanamanuṣyaṃ ca; tena vārāṇasyām udyānasya nātidūre brahmāvatī nāma puṣkariṇī saraḥprativiśiṣṭatarākhyā; tasyāṃ nānāvidhāni jalajāni puṣpāṇi ropitāni; tīre samantāc caturṣv api pārśveṣu anekāni puṣpaphalavṛkṣasahasrāṇi ropitāni; sā utpalakumudapuṇḍarīkasaṃchannā anekataruṣaṇḍamaṇḍitā bahuvividhavihaganikūjitā; tasyās tāṃ vibhūtiṃ dṛṣṭvā pūrṇo haṃsaḥ paṃcaśataparivāraḥ avatīrya

यथेष्टगतिप्रचारतया क्रीडितुम् आरब्धः; पूर्णमुखो ऽपि स्वयूथ्यैर् उच्यते: त्वम् अप्य् अवतीर्य क्रीड इति; स कथयति: राज्यं तावत् प्रतीच्छामि; ततः पश्चाद् आगम्य क्रीडिष्यामि इति; तेन लघु लघ्व् एव गत्वा राज्यं प्रतीष्टं: ततः पंचशतपरिवारः वाराणसीम् आगम्य ब्रह्मावतीं पुष्करिणीम् अवतीर्य क्रीडितुम् आरब्धः; तं तथा प्रमोदविहारिणं दृष्ट्वा जनकायः संशयम् आपन्नः: अहो परमदर्शनीयो हंसाधिपतिः कुतो ऽपीह संप्राप्तः; ब्रह्मावतीं पुष्करिणीम् अलंकृत्य सर्वजलचरान् पक्षिणो रूपशोभया अभिभूय लोकस्य स्पृहाम् उत्पादयति; यथेष्टं च विहरति इति; श्रुत्वा सर्व एव वाराणसीनिवासी जनकायः समन्ताद् ब्रह्मावतीं पुष्करिणीं परिवार्य, तस्य विस्रब्धविहारतां रूपशोभां च निरीक्षमाणः अवस्थितः; अमात्यै राज्ञो निवेदितं: देव कुतो ऽपि हंसाधिपतिर् आगतः; स ब्रह्मावतीं पुष्करिणीम् अवतीर्य अनेकहंसशतपरिवारः सर्वान् जलचरान् पक्षिणो रूपशोभया अभिभूय (sbv ii 194) लोकस्य स्पृहाम् उत्पादयन् विस्रब्धविहारतया तिष्ठति इति; राजा कथयति: भवन्तः यद्य् एवम् आहूयन्तां शाकुनिकाः इति; तैर् आहूताः; राजा कथयति: भवन्तः श्रूयते ब्रह्मावत्यां पुष्करिण्याम् अतिपरमदर्शनीयविग्रहो हंसाधिपतिः कुतो ऽप्य् आगतः; स युष्माभिर् एक अक्षतः पाशैर् बध्वा मत्सकाशम् आनेयः; इति; स तैः परमसुकुमारेण पाशेन बद्धः; स गाथां भाषते संस्यन्दितो ऽस्मि बद्धो मनुष्यवशम् आगतो ऽहम् / अचिकित्स्य आदाय हंसयूथं गच्छत शीघ्रं ह्य् अनवतप्तम् //

इति एकोनानि पंचशतानि निष्पलायितानि; एको न निष्पलायितः; तम् एव च बद्धं शोचमानो ऽवस्थितः; शाकुनिकास् ते दृष्ट्वा परं विस्मयम् आपन्नाः; राजभयान् न बध्नन्ति; नापि प्रघातयन्ति; ते तं हंसाधिपतिम् आदाय राज्ञः सकाशं गताः; स द्वितीयः अबद्धः; स्नेहपाशपाशितः स्वयम् एव गतः; स हंसाधिपती राज्ञ उपनीतः; राजा कथयति: भवन्तो ऽयं द्वितीयः किमर्थम् आनीतः? ते कथयन्ति: देव नास्माभिर् अयं बद्धः; अपि तु स्वयम् एवागतः इति; राजा परं विस्मयम् आपन्नः कथयति: नूनम् अस्येयं (अ 495ब्) भार्या; गच्छत; एतं हंसाधिपतिं सह भार्यया मुञ्चत; न च युष्माभिः केनचिद् अपि एतौ प्रघात्यौ इति; शाकुनिकाः कथयन्ति: देव अन्य प्रघातयिष्यन्ति; जनकायस्य निवेद्यताम् इति; राज्ञा अमात्यानाम् आज्ञा दत्ता: गच्छत भवन्तो वाराणस्यां नगर्यां घण्टावघोषणं कारयत देव एवं समाज्ञापयति, न केनचिद् मद्विषयनिवासिना जलचराः पक्षिणो घातयितव्याः इति; तैर् घण्टावघोषणं कारितं किं मन्यध्वे भिक्षवो यो ऽसौ पूर्णमुखो हंसाधिपतिर् अहम् एव सः तेन कालेन तेन समयेन; या सा तस्य पत्नी स एवासाव् आनन्दः तेन कालेन तेन समयेन; यानि तानि एकोनानि पंच हंसशतानि, एतान्य् एव तानि एकोनानि पंच भिक्षुशतानि; तदाप्य् अहम् एभिर् हंसभूतैः परित्यक्तः; आनन्देन हंसभूतेन न परित्यक्तः; एतर्ह्य् अप्य् अहम् एभिः परित्यक्तः; आनन्देन भिक्षुणा न परित्यक्तः; भूयो ऽपि भिक्षवः यथा अहम् एभिः परित्यक्तः, आनन्देन भिक्षुणा न परित्यक्त तच् छ्रूयताम् (sbv ii 195)

the story of karadaṇḍī, the sahasrayodha (concerning a previous birth of ānanda, etc.)

भूतपूर्वं भिक्षवो वाराणस्यां नगर्याम् अट्टो नाम राजा राज्यं कारयति ऋद्धं च स्फीतं च यावद् आकीर्णबहुजनमनुष्यं च; तस्य पंचामात्यशतानि येषाम् अनुभावात् प्रातिसीमैः कोट्टराजभिर् नाभिभूयते; यावद् दक्षिणापथात् करदण्डी नाम सहस्रयोधी अभ्यागतः; सो ऽन्यतमेनामात्येन राज्ञः सकाशम् उपनीतः; देव अयं करदण्डी नाम सहस्रयोधी; देवम् उद्दिश्य दक्षिणापथाद् आगतः; तद् अर्हति देवो ऽस्य परिग्रहं कर्तुम् इति; स राज्ञा परिगृहीतः; भोगैः संविभक्तः; यावद् अपरेण समयेन अट्टस्य राज्ञः भूम्यन्तरा राजानः उपचित्तबलसाधनाः संवृत्ताः; ते चतुरङ्गबलकायं सन्नाह्य हस्तिकायम् अश्वकायं रथकायं पत्तिकायम् अट्टं राजानम् अभिगताः युद्धाय; अट्टो ऽपि राजा चतुरङ्गबलकायं सन्नाह्य हस्तिकायम् अश्वकायं रथकायं पत्तिकायं भूम्यन्तरान् राज्ञः प्रत्यभिनिर्यातो युद्धाय; अट्टेन राज्ञा भूम्यन्तरा राजनः जीताः भीतः भग्नाः पराजिताः परापृष्ठीकृताः स्वक्स्वकान् विषयान् गताः; तैः पुनर् अपि सन्निपत्य अट्टस्य राज्ञः पंचामात्यशतानि उपस्कारेण भग्नानि: आगच्छत यूयं; युष्मान् प्रतिविशिष्टरैः भोगैः संविभजामः इति; ते संप्रतिपन्नाः; ततो भूम्यन्तरा राजनः पुनर् अपि चतुरङ्गबलकायं सन्नाह्य हस्तिकायम् अश्वकायं रथकायं पत्तिकायम् अट्टम् राजानम् अभिगता यौद्धाय; अट्टो ऽपि नाम चतुरङ्गबलकायं सन्नाह्य हस्तिकायम् अश्वकायं रथकायं पत्तिकायं भूम्यन्तरान् राज्ञः प्रत्यभिनिर्यातो युद्धाय; अट्टस्य राज्ञः पंच अमात्यशतानि युद्धे वर्तमाने प्रतिनिवर्त्य करण्ड्दिना सहस्रयोधेन सार्धं योद्धुम् आरब्धानि (अ 496अ) राजा दृष्ट्वा व्यथितः;

करदण्डी सहस्रयोधो गाथां भाषते त्यजन्ति सर्वमित्राणि चिरसंस्तुतिकानि ते / (sbv ii 196) मित्रं ते करदण्डी तु त्वाम् एको न प्रहास्यति //

इति तेन ते सर्वे प्रघातिताः किं मन्यध्वे भिक्षवो यो ऽसाव् अट्टो नाम राजा अहम् एव सः तेन कालेन तेन समयेन; या ऽसौ करदण्डी सहस्रयोधः आनन्दः सः तेन कालेन तेन समयेन; यानि तानि पंच अमात्यशतानि एतान्य् एव तानि पंच भिक्षुशतानि; तदाप्य् अहम् एभिः परित्यक्तः; आनन्देन न परित्यक्तः; एतर्ह्य् अप्य् अहम् एभिः परित्यक्तः; आनन्देन न परित्यक्तः; भूयो ऽपि यथा अहम् एभिः परित्यक्तः, आनन्देन न परित्यक्त तच् छ्रूयताम्

the story of a lion and his jackal-friend (concerning a previous birth of ānanda, etc.)

भूतपूर्वं भिक्षवः अनियतराश्यवस्थितो बोधिसत्वः अन्यतमस्मिन् पर्वतैकदेशे सिंहो मृगपतिर् बभूव; तस्य पंच सृगालशतानि विघसखादकानि नित्यानुबद्धानि पर्वतम् उपनिश्रित्य तिष्ठन्ति; सिंहः प्राणिनो घातयित्वा वरमांसानि वररुधिराणि च पीत्वा निरपेक्षः प्रक्रामति; तेषाम् एवं महान् कालो ऽतिक्रान्तः; यावद् अपरेण समयेन सिंहो मृगराजः रात्रौ प्राणिनः समन्वेषमानः कूपे पतितः; तेषां पंचानां सृगालशतानाम् एकोनानि प्रक्रान्तानि; एकः कूपतटे अवस्थितः; चिन्तयति च: को ऽसाव् उपायः स्याद् येनेमं समुद्धरेयम् इति; स इतश् चामुतश् च कूपसामन्तकेन पर्यटितुम् आरब्धः; यावत् पश्यति: कूपस्य नातिदूरे पल्वलं; तेन विचार्य एकदेशेन सुरङ्गो निखातः; ततस् तद् उदपानं पल्वलात् सलिलेन पूर्णं; सिंहः स्वयम् एवोत्थितः; देवता गाथां भाषते कर्तव्यानि च मित्राणि दुर्बलानि बलान्य् अपि / पश्य सिंहः सृगालेन जीर्णकूपात् समुद्धृतः // इति

किं मन्यध्वे भिक्षवो यो ऽसौ सीम्हः अहम् एव सः तेन कालेन तेन समयेन; सृगाल आनन्दो भिक्षुः तेन कालेन तेन समयेन; यानि तानि एकोनानि पंच सृगालशतानि एतान्य् एव पंच भिक्षुशतानि; तदाप्य् अहम् एभिः परित्यक्तः; आनन्देन न परित्यक्तः; एतर्ह्य् अप्य् (sbv ii 197) अहम् एभिः परित्यक्तः; भूयो ऽपि यथा अहम् एभिः परित्यक्तः तच् छ्रूयताम्

the story of a mṛgī and mṛgādhipati

भूतपूर्वं भिक्षवः अनियतराश्यवस्थितो बोधिसत्वः अन्यतमस्मिन् प्रदेशे पंचानां मृगशतानां मृगाधिपतिर् बभूव; यावद् अन्यतमेन लुब्धकेन मृगाणां वधाय प्रभूताः कूटपाशाः लेपाश् च व्यवस्थापिताः; स च मृगाधिपतिः विस्रब्धविहारतया पंचशतपरिवारो मृगदावे परिभ्रमति; स मृगयूथस्याग्रतो गच्छन् पाशेन बद्धः; तं बद्धं दृष्ट्वा सर्वे मृगा निष्पलायिताः; एका मृगी यूथपतेः पार्श्वे अवस्थिता; स मृगाधिपतिर् व्यायच्छति पाशं छेत्तुं; स शक्नोति; तं तथा चलन्तं दृष्ट्वा सा मृगी गाथां भाषते व्यायमस्व महाभाग व्यायमस्व मृगोत्तम / आगमिष्यति लुब्धो ऽसौ पाशो येनैष आहृतः // (अ 496ब्) सो ऽपि गाथां भाषते किं करोमि न शक्नोमि भिनद्म्य् आशु महीम् इमां / दृढानि चर्मपाशानि पादौ कर्षन्ति मे भृशम् // इति ततो ऽसौ लुब्धकः धनुर्बाणपाणिः काषायवस्त्रवसितः तं प्रदेशम् उपसंक्रामति; अद्राक्षीत् सा मृगी तं लुब्धकं वधायोद्यतं मृगाधिपतिम् उपसंक्रान्तं; दृष्ट्वा च पुनस् त्वरितत्वरिता गाथां भाषते व्यायमस्व महाभाग व्यायमस्व मृगोत्तम / आगतो ह्य् एष लुब्धो ऽसौ पाशो येनैष आहृतः //इति सो ऽपि गाथां भाषते किं करोमि न शक्नोमि भिनद्म्य् आशु महीम् इमां / दृढानि चर्मपाशानि पादौ कर्षन्ति मे भृशम् // इति (sbv ii 198) ततः सा मृगी शून्यहृदया तं मृगलुब्धकम् इमां गाथां तत्समीपे भाषते लुब्धावतारय धनुर् असिं गृह्णीष्व लुब्धक / पूर्वं घातय मां तावत् ततः पश्चान् मृगाधिपतम् //

इति ततः स मृगलुब्धकः विस्मयावर्जितमतिः कथयति: कस् तवैष भवति? इति; सा कथयति: स्वामि इति; स तं गाथया प्रत्यभाषत नाहं त्वा घतायिष्यामि न हनिष्ये मृगाधिपम् / संगमं ते करिष्यामि प्रियेण पतिना सह // इति सापि गाथां भाषते यथाहं लुध मोदामि प्रियेण पतिना सह / एवं त्वं लुब्ध मोदस्व सह सर्वैः स्वबान्धवैः // इति ततस् तेन लुब्धेन भूयस्या मात्रया विस्मयजातेन मृगो मुक्तः किं मन्यध्वे भिक्षवो यो ऽसौ मृगाधिपतिर् अहम् एव सः तेन कालेन तेन समयेन; या सा मृगी आनन्दः सः तेन कालेन तेन समयेन; यानि तानि एकोनानि पंच मृगशतानि एतान्य् एव एकोनानि पंच भिक्षुशतानि; तदाप्य् अहम् एभिः परित्यक्तः; आनन्देन न परित्यक्तः; एतर्ह्य् अप्य् अहम् एभिः परित्यक्तः; आनन्देन न परित्यक्तः भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: पश्य भदन्त देवदत्तः पूतिः पूतिना लाभसत्कारेण हतः इति; भगवान् आह: न भिक्षव एतर्हि; यथा अतीते ऽप्य् अध्वन्य् एष पूतिना पूतिर् लाभसत्कारेण हतः; तच् छ्रूयताम्

the story of a jackal competing with an elephant (concerning a previous birth of devadatta)

भूतपूर्वं भिक्षवः अन्यतमस्मिन् परवतैकदेशे महत् पद्मसरः; तस्य समीपे हस्ती प्रतिवसति; अपरस्मिन्न् अपि प्रदेशे सृगालः प्रतिवसति; यावद् अपरेण समयेन हस्ती तस्मात् पद्मसरसः पानीयं पीत्वा उत्तिष्ठति; सृगालश् चावतरति; तेन हस्ती उक्तः; युद्धं वा अनुप्रयच्छ मार्गं वा इति; हस्ती संलक्षयति: (sbv ii 199) पूतिर् अयं तपस्वी ध्वाङ्क्षश् च; यद् एनं पादेन घातयिष्यामि, शुण्डया वा दन्तेन वा अशुचिना वा नाशयिष्यामि इति; पुनः संलक्षयति: सर्वथा पूतिर् अयं पूतिनैव हन्तव्यः; इति विदित्वा गथां भाषते न त्वा पद्भ्यां हनिष्यामि न दन्ताभ्यां न शुण्डया / पूतिना त्वां हनिष्यामि पूतिर् हन्येत पूतिना // इति हस्ती संलक्षयति: अपक्रम्यैकान्ते गच्छामि; नियतम् एष मां पृष्ठतो ऽनुगच्छति इति; स मार्गाद् अपक्रम्य त्वरितत्वरितं संप्रस्थितः; (अ 497अ) सृगालः संलक्षयति: वचनमात्रेणैव एष भग्नो मया येन त्वरितत्वरितं निष्पलायितः इति; स तस्य पृष्ठतः पृष्ठतो ऽनुबद्धः; हस्तिना समीपं गतं ज्ञात्वा तस्योपरि महता वेगेन पुरीषं मुक्तं; पतितः कालगतः किं मन्यध्वे भिक्षवो यो ऽसौ सृगालः एष एव स देवदत्तः तेन कालेन तेन समयेन तदाप्य् एष पूतिना पूतिर् हतः इति; एतर्ह्य् अप्य् एष पूतिना पूतिर् लाभसत्कारेण हतः

[here there is a leaf missing, seemingly because of an error of the scribe himself.]

पुनर् अपि भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: पश्य भदन्त देवदत्तः धर्ममुखिकया लोको व्यंसितः इति; भगवान् आह: न भिक्षव एतर्हि; यथा अतीते ऽप्य् अध्वन्य् अनेन धर्ममुखिकया लोको व्यंसितः; तच् छ्रूयताम्

the story of āgneya, the cat (concerning a previous birth of devadatta)

भूतपूर्वं भिक्षवः अन्यतमस्मिन् प्रदेशे मूषिकाणां यूथपतिः पंचशतपरिवारो ऽवतिष्ठते; आग्नेयो नाम बिडालः; तेन तरुणावस्थायां यस्मिन् प्रदेशे प्रतिवसति; तत्सामन्तकेन सर्वे मूषिकाः प्रघातिताः; सो ऽपरेण समयेन जीर्णः संवृत्तः; पराक्रमेण न शक्नोति मूषिकान् ग्रहीतुं; स संलक्षयति: पूर्वम् अहं तरुणावस्थायां शक्तः पराक्रमेण मूषिकान् ग्रहीतुम्; इदानीम् अशक्तः; किं तु उपायसंविधानेन भक्षयामि इति; स शनैर् (sbv ii 200) मन्दं मन्दं मूषिकान् पर्येषितुम् आरब्धः; तेन पर्येषमाणेन पंचशतिको मूषिकयूथः परिज्ञातः; स मुषिकविवरस्य नातिदूरे कृतकेन तपस् तप्यति; स मूषिकैर् भ्रमद्भिर् दृष्टः शान्तेनेर्यापथेन अवस्थितः; ते दूरतः स्थित्वा कथयन्ति: मातुल किं करोषि इति; स कथयति:मया तरुणावस्थायां प्रभूतम् अपुण्यं कृतं; तस्य क्षपणाय तपश् चरामि इति; तेषां तस्यान्तिके धर्मान्वयप्रसादः उपपन्नः; विरतो ऽयं तस्मात् पापकाद् असद्धर्माद् इति; ते तं प्रतिदिनं प्रदक्षिणीकृत्य विवरं प्रविशन्ति; स तेषां पश्चिमं गृहीत्वा भक्षयति; यावद् असौ यूथः परिहीयते; यूथपतिः संलक्षयति: मम मूषिकाः परिहीयन्ते; अयं च बिडालो बलवान् जातः; कारणेनात्र भवितव्यम् इति; स बिडालस्य विष्ठां निरीक्षितुम् आरब्धः; यावत् पश्यति सर्वलोमिकां विष्ठां; स संलक्षयति: नियतम् अनेन मूषिकाः प्रघात्यन्ते; यन्न्व् अहम् एनं गृह्णीयाम् इति; (अ 497ब्) स तस्यादर्शनपथे निरीक्षमाणः तत्परो व्यवस्थितः; यावत् तेनासौ दृष्टः पश्चिमं मूषिकं भक्षयन्; स तम् उपसंक्रम्य दूरेण गत्वा गाथया प्रत्यभाषत वर्धते मातुलस्याङ्गं गनश् च परिहीयते / न मूलफलभक्षस्य विष्ठा भवति रोमशा //

नायं शिखी धर्मशिखी अर्थहेतोर् अयं शिखी / स्वस्ति ते ऽग्नेय भवतु परिहीयन्ति मूषकाः // इति

किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन आग्नेयो बिडालः देवदत्तः सः; तदाप्य् अनेन धर्ममुखिकया मूषिका भक्षिताः; एतर्ह्य् अप्य् अनेन धर्ममुखिकया लोको व्यंसितः भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: पश्य भदन्त ये भगवतो दृष्ट्यनुमतम् आपन्नाः ते स्वस्तिक्षेमाभ्यां संसारकान्ताराद् उत्तीर्णाः; ये देवदत्तः दृष्ट्यनुमतम् आपन्नाः ते अनयेन व्यसनम् आपन्नाः इति; भगवान् आह: न भिक्षव एतर्हि; यथा अतीते ऽप्य् अध्वन्य् ये मम दृष्ट्यनुमतम् आपन्नाः ते स्वस्तिक्षेमाभ्यां संसारकान्ताराद् उत्तीर्णाः; ये दृष्ट्यनुमतम् आपन्नाः ते अनयेन व्यसनम् आपन्नाः; तच् छ्रूयताम् (sbv ii 201)

the story of a bull that got entangled other bulls into trouble by bad counsels (concerning a previous life of the buddha and devadatta)

भूतपूर्वं भिक्षवो द्वौ सार्थवाहौ पंचभिः शकटशतैः सार्धम् अनुव्यहरमाणौ कान्तारमार्गं प्रतिपन्नौ; तव्योः कान्तारमार्गप्रतिपन्नयोः कदाचिद् बलीवर्दानां परीत्तो यवसो भवति; पानीयंच कदाचित् परीत्तं भवति; कदाचिन् नास्त्य् एव; ततो ऽसौ सार्थः सह बलीवर्दैः अतीव परिश्रान्तः कृच्छ्रेण कान्तामार्गं प्रतिपन्नः पश्यति अन्यतरस्मिन् प्रदेशे हरितशाद्वलं सलिलसंपन्नं च स्नाताः; प्रभूतं च पानीयं पीतं; ततस् ते बलीवर्दाः परीत्तेन पान्येन यवसेन च परिखिन्नाः, पर्याप्तं यवसं पानीयं च पीत्वा विश्रान्ताः; तेषां यः प्रधानो बलीवर्दः स तान् प्रबोधयति: भवन्तो वयं परीत्तेन यवसेन परीत्तेन च पानीयेन परिखेदिताः; अयं प्रदेशो हरितशाद्वलः सलिलसंपन्नश् च; यदि भवताम् अभिप्रेतम् इहैव हठं कृत्वा तिष्ठामः इति; द्वितीयः प्रधानबलीवर्दश् च यूथ्यान् कथयति: भवन्तो बलवन्तो मनुष्याः दुर्दान्तदमकाः; यथैव वयं वहामस् तथैव वहत; मा अनर्थं प्रापयिष्यथ इति; एवम् उक्ते प्रधानबलीवर्दो रुषितः स्वयूथ्यान् कथयति: भवन्तः केन चन्द्रस्य पृष्ठं (अ 498अ) दृष्टम् एभिर् युष्माभिर् न वोढव्यम् इति; यावत् सार्थिका बलीवर्दान् योजयितुम् आरब्धाः; ते बलीवर्दैर् भ्रेषणरूपा अवस्थापिताः; सार्थिका प्रभूतान् प्रहारान् दत्वा प्रतोदयष्टिभिर् आताड्य आताड्य रुधिरेण प्रघरता शकटे योजिताः; अन्ये तूष्णीं वोढुम् आरब्धाः; तेषां न किंचित् कृतं; देवता गाथां भाषते मिथ्या हि चोदिताः पश्य बलीवर्देन गा इमाः / विकर्तिताभिरुधिराः क्षुत्पिपासप्रमर्दिताः //

सम्यक् च चोदिताः पश्य बलीवर्देन गा इमाः / ते वै निस्तीर्णकान्ताराः जलं शीतं पिबन्ति हि //

किं मन्यध्वे भिक्षवो यो ऽसौ प्रधानो बलीवर्दः येन ते सम्यग् एव चोदिताः अहं सः तेन कालेन तेन समयेन; येन तु (sbv ii 202) बलीवर्दा विप्रस्थापिताः सः तेन कालेन तेन समयेन; तदापि यैर् मम वचनं श्रुतं ते स्वस्तिक्षेमाभ्यां कान्तारमार्गं निस्तीर्णाः; यैर् देवदत्तस्य वचनं श्रुतं ते अनयेन व्यसनम् आपन्नाः; एतर्ह्य् अपि ये मम दृष्ट्यनुमतम् आपन्नाः ते स्वस्तिक्षेमाभ्यां संसारकान्तारमार्गाद् उत्तीर्णाः; ये देवदत्तस्य दृष्ट्यनुमतम् आपन्नाः ते अनयेन व्यसनम् आपन्नाः भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: पश्य भदन्त देवदत्तो मूर्खो मुर्खपरिवारः इति; भगवान् आह: न भिक्षव एतर्हि; यथा अतीते ऽप्य् अध्वनि देवदत्तो मूर्खो मूर्खपरिवारः; तच् छ्रूयताम्

the story of the leader of the monkeys (concerning a previous life of devadatta)

भूतपूर्वं भिक्षवः अन्यतमस्मिन् अरण्यायतने मर्कटयूथपतिः प्रतिवसति; तेन परिभ्रमता कूपे चन्द्रबिम्बकं दृष्टं; यूथपतिः कथयति: भवन्तः चन्द्रः कूपे पतितः; उद्धरामः; किम् अचन्द्रको लोको भविष्यति? इति; ते कथयन्ति: शोभनम्; उद्धरामः इति; ते संजल्पं कर्तुम् आरब्धाः: कथम् अत्र उद्धर्तव्यः? इति; अपरे कथयन्ति: किम् अत्र ज्ञायते? मर्कटरज्जुं कृत्वा समुद्धरामः इति; तैर् मर्कटरज्जुः कृता; एकः शाखायां लग्नः; तस्य पुच्छे अपरो लग्नः; तस्याप्य् अपरो लग्न इत्य् एवं सर्वे लग्नाः; शाखा अतिभारा जाता; ते पानीयं विक्षोभयितुम् आरब्धाः; चन्द्रप्रतिबिम्बकं नष्टं; शाखा भग्ना; सर्वे कूपे पतिताः; अनयेन व्यसनम् आपन्नाः; देवता गाथां भाषते येषाम् इह हि मूर्काणां मूर्खो भवति नायकः / सर्वे ते निधनं यान्ति चन्द्रोद्धारा इव वानराः // इति

किं मन्यध्वे भिक्षवो यो ऽसौ मर्कटयूथपतिः देवदत्तः सः तेन कालेन तेन समयेन; तदाप्य् एष मूर्खो मूर्खपरिवारः; एतर्ह्य् अप्य् एष मूर्खो मूर्खपरिवारः

the five causes of the division of the congregation

भगवान् श्रावस्त्यां विहरति जेतवने अनाथपिण्डदस्यारामे; अथ भगवत एतद् अभवत्: तथागतस्य संभृतसंभाराणि कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययान्य् ओघवत् प्रत्युपस्थितान्य् (अ 498ब्) अवश्यभावीनि; तथागतेनैव कर्माणि (sbv ii 203) कृतान्य् उपचितानि को ऽन्यः प्रत्यनुभविष्यति? न हि कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते पूर्ववद् यावत् फलन्ति खलु देहिनाम्; अवश्यं देवदत्तेन तथागतस्य संघो भेत्तव्यः पंचभिः कारणैः संघो भिद्यते: आदौ तावत् संघो न भिद्यते; यावत् बुद्धो लोके उत्पद्यते लोकस् तावत् तन्मुखो ऽवतिष्ठते बुद्धः किल मार्षा लोक उत्पन्न इति; परिनिर्वृते शास्तरि संघो भिद्यते; यः कश्चिद् एवं ब्रूयाद्: अहम् एव शास्ता इति तस्य वक्तव्यं: यदा भगवान् जीवति तिष्ठति ध्रियते यापयति तदा त्वं क्व आसीः? अर्बुदे अनुत्पन्ने संघो न भिद्यते दृष्ट्यर्बुदे वा शीलार्बुदे वा श्रावकयुगे अनिर्दिष्टे संघो न भिद्यते; तत् कस्य हेतोः संघो भिन्नः अवश्यं श्रावकयुगं प्रतिसन्धत्ते; सीमायाम् अबद्धायां संघो न भिद्यते; तत् कस्य हेतोः अन्तःसीम्नि संघो भिद्यते न बहिःसीम्नि

solicitudes of the buddha

अथ भगवत एतद् अभवत्: मम निरर्बुदे भिक्षुसंघे अर्बुदम् उत्पन्नं शीलार्बुदं दृष्ट्यर्बुदं च; शीलार्बुदम् उत्पादितं सुदत्तेन कलन्तकपुत्रेण; दृष्ट्यर्बुदम् अरिष्टेन भिक्षुणा; अवश्यं च देवदत्तेन संघो भेत्तव्यः; यन्न्व् अहं राजगृहे वर्षाम् उपगच्छेयम्; अथ भगवत एतद् अभवत्: यदि तावत् शैक्षाशैक्षैः पुद्गलैः सार्धं राजगृहं गमिष्यामि न शक्ष्यति देवदत्तः संघभेदं कर्तुं; यन्न्व् अहं पृथग्जनकल्याणकैः पुद्गलैः सार्धं गच्छेयम्; इति विदित्वा आयुष्मता राहुलेन उपस्थायकेन पंचभिर् भिक्षुशतैः सार्धं यथाभिरम्यं श्रावस्त्यां विहृत्य येन राजगृहं तेन चारिकां प्रक्रान्तः; अनुपूर्वेण चारिकां चरन् राजगृहम् अनुप्राप्तः इति (sbv ii 204)

famine in rājagṛha, division of the congregation and new rules imparted by devadatta

बुद्धो भगवान् राजगृहे वर्षा उपगतो वेणुवने कलन्दकनिवापे; तेन खलु समयेन दुर्भिक्षम् अभूत्; कृच्छ्रः कान्तारः दुर्लभः पिण्डको याचनकेन; तत्र भगवान् भिक्षून् आमन्त्रयते स्म: इच्छाम्य् अहं भिक्षवः इमां त्रैमासीं प्रतिसंलातुं; न मे केनचिद् भिक्षुणा उपसंक्रमितव्यं स्थापयित्वा पिण्डपातनिर्हारकं; तद् एव पोषधम् इति; भिक्षुसंघेन क्रियाकारः कृतः न केनचिद् अस्माकम् इमां त्रैमासीं भगवन्तं दर्शनायोपसंक्रमितव्यं स्थापयित्वा पिण्डपातनिर्हारकं; तद् एव पोषधम् इति तेन खलु समयेन आयुष्मन्तौ शारिपुत्रमौद्गल्यायनौ दक्षिणागिरिषु वर्षा उपगतौ; देवदत्तेन त्रैमासीं भिक्षुसंघः प्रवारितः चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः; स त्रयाणां व द्विकानां वा मासानाम् अत्ययाद् भिक्षून् आमन्त्रयते स्म: श्रमण आयुष्मन्तो गौतम एवं श्रावकाणां धर्मं देशयति; आरण्यकत्वेन भिक्षुः शुध्यति मुच्यति निर्याति सुखदुःखं व्यतिक्रामति सुखदुःखव्यतिक्रमं चानुप्राप्नोति; पिण्डपातिकत्वेन पांसुकूलिकत्वेन (अ 499अ) त्रैचीवरिकत्वेन आभ्यवकाशिकत्वेन शुध्यति मुच्यति निर्याति सुखदुःखं व्यतिक्रामति सुखदुःखव्यतिक्रमं चानुप्राप्नोति; यस्य चायुष्मन्तः इमानि पंच व्रतपदानि न रोचन्ते न क्षमन्ते न संप्रख्यान्ति स श्रमणस्य गौतमस्य आराद् भवतु दुराद् भवतु; शलाकं गृह्णातु इति; पंचभिर् भिक्षुशतैः शलाका गृहीताः; देवदत्त उत्थायासनात् प्रक्रान्तः; पंच भिक्षुशतानि पृष्ठतः पृष्ठतः समनुबद्धानि; आयुष्मान् राहुलो द्वारे तिष्ठति; तेन तानि देवदत्तस्य पृष्ठतः पृष्ठतः समनुबद्धानि दृष्टानि; स कथयति:

आयुष्मन्तः किमर्थं तथागतम् अर्हन्तं सम्यक्संबुद्धम् अपहाय अस्य पापेच्छस्य पृष्ठतः पृष्ठतः समनुगच्छत? इति; ते कथयन्ति: आयुष्मन् राहुल एवंविधे दुर्भिक्षे कृच्छ्रे कान्तारे भगवान् अदर्शनो व्यवस्थितः; वयं (sbv ii 205) देवदत्तानुभावात् प्राणैर् न वियुक्ताः; यदि देवदत्तेन त्रैमासीं भिक्षुसंघो न प्रतिपादितो ऽभविष्यत्, एकः भिक्षुर् न जीवितो ऽभविष्यद् इति यदा देवदत्तेन तथागतेन श्रावकसंघो भिन्नः, तदा महान् पृथिवीचलो जातः; उल्कापाता दिशोदाहाः; देवदुन्दुभयः अभिनदन्ति; नियमानवक्रान्ता नियमं नावक्रामन्ति; फलं न प्राप्नुवन्ति; वैराग्यं न गच्छति; आस्रवान् न क्षपयन्ति; नोद्दिशन्ति; न पठन्ति; न स्वाध्यायन्ति; सूत्रविनयधराभिधार्मिकारण्यकाः सूत्रविनयाभिधर्मारण्यकचिन्तायां न प्रयुज्यन्ते; न श्रावकबोधौ बीजम् आरोपयन्ति; न प्रत्येकायां बोधौ; नानुत्तरायां सम्यक्संबोधौ; सदेवमानुषं जगद् व्याकुलं वर्तते; त्रिसहस्रमहासहस्रे लोकधातौ धर्मचक्रं विष्ठितं न सत्वसन्ताने वर्तते

शारिपुत्र अन्द् मौद्गल्यायन विसित् थे बुद्ध अन्द् प्रोमिसे तो हिम् तो रेस्तोरे थे चोन्ग्रेगतिओन्

आयुष्मन्तौ शारिपुत्रमौद्गल्यायनौ संलक्षयन्ति: किमर्थम् अयं महापृथिवीचालः? इति; समन्वाहृत्यार्हतां ज्ञानदर्शनं न प्रवर्तते; तौ समन्वाहर्तुं प्रवृत्तौ; पश्यतः: देवदत्तेन भगवतः श्रावकसंघं भिन्नं; तयोर् एतद् अभवत्: गच्चावः भगवतः श्रावकसंघं प्रतिसन्धातुम् इति; अथायुष्मन्तौ शारिपुत्रमौद्गल्यायनौ त्रयाणां वार्षिकाणां मासानाम् अत्ययात् कृतचीवरौ निष्ठितचीवरौ समादाय पात्रचीवरं येन राजगृहं तेन चारिकां प्रक्रान्तौ; अनुपूर्वेण चारिकां चरन्तौ राजगृहम् अनुप्राप्तौ; अथायुष्मन्तौ शारिपुत्रमौद्गल्यायनौ पात्रचीवरं प्रतिशमय्य पादौ प्रक्षाल्य येन भगवांस् तेनोपसंक्रान्तौ; तेन खलु समयेन आयुष्मान् राहुलो द्वरे तिष्ठते; अथायुष्मान् राहुलः आयुष्मन्तं शारिपुत्रम् इदम् अवोचद् उपाद्याय देवदत्तेन भगवतः श्रावकसंघो भिन्नः इति; (sbv ii 206) स कथयति: आयुष्मन् एतदर्थम् एव वयम् आगताः; अल्पोत्सुकस् त्वं भव; प्रतिसन्धानं करिष्यामः; इत्य् उक्त्वा भगवत्सकाशं प्रविष्टौ; प्रविश्य बहगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णौ; एकान्तनिषण्णाव् आयुष्मतौ (अ 499ब्) शारिपुत्रमौद्गल्यायनौ भगवन्तम् इदम् अवोचतां: गछामो वयं भदन्त तथागतस्य भिन्नं श्रावकसंघं सन्धातुम् इति

the sermon on the four merituous men

भगवान् आह: साधु साधु शारिपुत्रमौद्गल्यायनौ; बहु स पुण्यं प्रसूयते अप्रमाणम् असंख्येयं यस् तथागतस्य भिन्नं श्रावकसंघं प्रतिसन्धत्ते, तद्यथा शतछिन्नं वालं यः कोट्या कोटिं प्रतिसन्दध्यात्; एवम् एव स बहु पुण्यं प्रसूयते अप्रमेयम् असंख्येयं यस् तथागतस्य भिन्नं श्रावकसंघं प्रतिसन्धत्ते चत्वार इमे शारिपुत्रमौद्गल्यायनौ ब्राह्मं पुण्यं प्रसवन्ति; कतमे चत्वारः? 1) यः पुद्गलः अप्रतिष्ठितपूर्वे पृथिवीप्रदेशे तथागतस्य शारीरं स्तूपं प्रतिष्ठापयति; अयं प्रथमः पुद्गलः ब्राह्मं पुण्यं प्रसवति; कल्पं स्वर्गेषु मोदते; 2) पुनर् अपरं यः पुद्गलः अप्रतिष्ठितपूर्वे पृथिवीप्रदेशे चतुर्दिशस्य भिक्षुसंघस्य विहारं प्रतिष्ठापयति; अयं द्वितीयः पुद्गलः ब्राह्मं पुण्यं प्रसवति; कल्पं स्वर्गेषु मोदते; 3) पुनर् अपरं यः पुद्गलः तथागतश्रावकसंघं भिन्नं सन्धत्ते; अयं त्रितीयः पुद्गलः ब्राह्मं पुण्यं प्रसवति; कल्पं स्वर्गेषु मोदते; 4) पुनर् अपरं यः पुद्गलः मैत्रीसहगतेन चित्तेन अवैरेण असपत्नेन अव्याबाधेन विपुलेन महद्गतेन अप्रमाणेन सुभावितेन एकां दिशम् अधिमुच्य स्फरित्वा उपसंपद्य विहरति; तथा द्वितीयां तथा तृतीयां तथा चतुर्थीम्; इत्य् ऊर्ध्वम् अधः तिर्यक् सर्वशः सर्वम् इमं लोकं मैत्रीसहगतेन चित्तेन अवैरेण असपत्नेन अव्याबाधेन विपुलेन (sbv ii 207) महद्गतेन अप्रमाणेन सुभावितेन अधिमुच्य स्फरित्वा उपसंपद्य विहरति; एवं करुणामुदितौपेक्षासहगतेन चित्तेन अवैरेण असपत्नेन अव्याबाधेन विपुलेन महद्गतेन अप्रमाणेन सुभावितेन अधिमुच्य स्फरित्वा उपसंपद्य विहरति; तथा द्वितीयां तथा तृतीयां तथा चतुर्थीम्; इत्य् ऊर्ध्वम् अधः तिर्यक् सर्वशः सर्वम् इमं लोकं उपेक्षासहगतेन चित्तेन अवैरेण असपत्नेन अव्याबाधेन विपुलेन महद्गतेन अप्रमाणेन सुभावितेन एकां दिशम् अधिमुच्य स्फरित्वा उपसंपद्य विहरति; अयं चतुर्थः पुद्गलः ब्राह्मं पुण्यं प्रसवति; कल्पं स्वर्गेषु मोदते

śāriputra and mahāmaudgalyāyana visit devadatta and exhort the misguided monks to return to the true doctrine

आथायुष्मन्तौ शारिपुत्रमौद्गल्यायनौ भगवतो भाषितम् अभिनन्द्यानुमोद्य भगवतः पादौ शिरसा वन्दित्वा भगवतो ऽन्तिकात् प्रक्रान्तौ; तेन खलु समयेन देवदत्तो दक्षिणागिरिषु बुद्धलीलया अनुधर्मं देशयति; कोकालिको ऽस्य दक्षिणे पार्श्वे निषण्णः; खण्डद्रव्यः वामे; अद्राक्षीद् देवदत्तः शारिपुत्रमौद्गल्यायनौ दूराद् एव; दृष्ट्वा च पुनः संलक्षयति: महाश्रावका अपि मया अन्वावर्तिताः; इदानीम् अहं सर्वज्ञः; कोकालिकं खण्डद्रव्यं च बाहुभ्यां (अ 500अ) घट्टयति उत्तिष्ठोत्तिष्ठेति; तौ संलक्षयतः एष एवास्माकं दोषो यद् अस्माभिर् अस्य संघभेदे साहाय्यं कल्पितम्; उत्तिष्ठामः; यदि प्रहारं ददाति, बलवान् एष नियतम् अस्मान् हन्ति इति; ताव् उत्थितौ; आयुष्मान् शारिपुत्रो दक्षिणे पार्श्वे निषण्णः; आयुष्मान् मौद्गल्यायनः उत्तरे इति; तत्र देवदत्तः आयुष्मन्तम् शारिपुत्रम् आमन्त्रयते प्रतिभातु ते शारिपुत्र भिक्षूणां धर्म्यां कथां कथयितुं; पृष्ठी मे आविलायति; तत् तावद् आयामयिष्ये इति; अधिवासयत्य् आयुष्मान् शारिपुत्रः देवदत्तस्य तूष्णींभावेन; अथ देवदत्तश् चतुर्गुणम् उत्तरासङ्गं प्रज्ञप्य दक्षिणेन पार्श्वेन शय्यां कल्पयित्वा मिद्धम् अवक्रान्तः; आयुष्मता शारिपुत्रेण (sbv ii 208) तथाधिष्ठितो यथोत्तानकः कायेन क्रथमनेन अवस्थितः; तत्र आयुष्मान् शारिपुत्रो भिक्षून् आमन्त्रयते स्म: पश्यत आयुष्मन्तः शास्तुर् अवस्थाम्: उत्तानकः कायेन क्रथमानेन मिद्धम् अवक्रान्तः इति; अथायुष्मान् शारिपुत्रः आयुष्मन्तं महामौद्गल्यायनम् इदम् अवोचत्: संवेजय आयुष्मन् महामौद्गल्यायन पर्षदम् इति; अथायुष्मान् महामौद्गल्यायनस् तद्रूपं समाधिं समापन्नः यथा समाहिते चित्ते

पूर्वस्यां दिश्य् उपरि विहायसम् अभ्युद्गम्य चतुर्विधम् ईर्यापथं कल्पयति चंक्रम्यते तिष्ठति निषीदति शय्यां कल्पयति; तेजोधातुम् अपि समापद्यते; तेजोधातुसमापन्नस्य आयुष्मतो महामौद्गल्यायनस्य विविधान्य् अर्चिंषि कायान् निश्चरन्ति नीलानि पीतानि लोहितान्य् अवदातानि माञ्जिष्ठानि स्फटिकवर्णानि; यमकान्य् अपि प्रातिहार्याणि विदर्शयति; अधः कायः प्रज्वलति उपरिमात् कायात् शीतला वारिधारा स्यन्दते; उपरिमः कायः प्रज्वलति अद्धःकायात् शीतला वारिधारा स्यन्दते; यथा पूर्वस्यां दिशि एवं दक्षिणस्यां पश्चिमायाम् उत्तरस्यां दिशि; इति चतुर्दिशं चतुर्विधं ऋद्धिप्रातिहार्यं विदर्श्य तान् ऋद्ध्यभिसंस्कारान् प्रतिप्रस्रभ्य प्रज्ञप्त एवासने निषण्णः; आयुष्मन्ता च महामौद्गल्यायनेन ते भिक्षवः संवेजिताः; तत आयुष्मता शारिपुत्रेण तेषां भिक्षूणां तथाविधो धर्मो देशितः; यं श्रुत्वा देवदत्ते निरपेक्षाः संवृत्ताः; उक्ताश् च: येषां वः आयुष्मन्तः शास्ता प्रियः ते उत्तिष्ठन्तु; गच्छामः इति

many misled monks are led back to the buddha and readmitted into the order without a word of reproach

आयुष्मन्तौ शारिपुत्रमहामौद्गल्यायनौ संप्रस्थितौ; भिक्षवः पृष्ठतः पृष्ठतः समनुबद्धाः; कोकालिकेन देवदत्तः उत्थाप्यते: उत्थिष्ठोत्तिष्ठ; महाश्रावकैस् ते पर्षद् अपह्रियते इति; अथायुष्मतः शारिपुत्रस्य एतद् अभवद्: यदि देवदत्तस अपश्यतः पर्षदं नेष्यामि स्थानम् एतद् विद्यते यद् उष्णं रुधिरं छर्दयित्वा कालं करिष्यति; पश्यत एव नेतव्या इति; तौ मन्दगतिप्रचारतया संघसमेतौ गच्छतः; देवदत्तो ऽपि तीव्रेण पर्यवस्थानेन अक्षिणी संपरिमार्जन् प्रधावितः; आयुष्मता शारिपुत्रेण अतिपरमभीषणपातालप्रख्या (अ 500ब्) गर्ता निर्मिता; देवदत्तः कोकालिकखण्डद्रव्यकटमोरकतिष्यसमुद्रदत्तैः सार्धं समन्ततस् तां गर्तां परिभ्रमितुम् आरब्धः; न शक्नोत्य् उत्तर्तुं; स संलक्षयति: (sbv ii 209) न च पर्षदम् आरागयिष्यामि; अथ च पुनर् अनयेन व्यसनम् आपत्स्यामि; इति विदित्वा प्रतिनिवृत्तः; आयुष्मन्ताव् अपि शारिपुत्रमौद्गल्यायनौ भिक्षुसंघम् आदाय येन भगवांस् तेनोपसंक्रान्तौ; अथ ते भिक्षवः आलेखजाताः मद्गुभूताः स्रस्तस्कन्धा अधोमुखा भगवत्सकाशम् उपसंक्रामन्ति: कथं वा वयं भगवन्तम् अप्रमेयगुणसमन्वागतम् अपहाय पापेच्छं देवदत्तं संसृताः इति; अथ भगवान् तेषां भिक्षूणां चेतसा चित्तम् आज्ञाय भिक्षून् आमन्त्रयते स्म: स्वागतं वो भिक्षवः सुप्रव्रजितं; सुलब्धो वो मनुष्यप्रतिलम्भः; कदाचित् कर्हिचिद् आर्यायतने प्रत्याजातिः इन्द्रियैर् अविकलता अजडता अनेडमूकता अहस्तसंवाचिकता प्रतिबलता सुभाषितदुर्भाषितानां धर्माणाम् अर्थम् आज्ञातुं; कदाचित् कर्हिचित् तथागता अर्हन्तः सम्यक्संबुद्धा लोक उत्पद्यन्ते; कदाचित्

कर्हिचित् तथागतप्रवेदितस्य धर्मविनयस्य लोके धर्मदेशना प्रज्ञायते; तद् इदं भिक्षवः सुदुर्लभं सुदुर्लभं यदुत आर्यायतने प्रत्याजातिः, इन्द्रियैर् अविकलता अजडता अनेडमूकता अहस्तसंवाचिकता प्रतिबलता सुभाषितदुर्भाषितानां धर्माणाम् अर्थम् आज्ञातुं; अहं चैतर्हि शास्ता लोक उत्पन्नः तथागतो ऽर्हन् सम्यक्संबुद्धः विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्; धर्मश् च देश्यते औपशमिकः पारिनिर्वाणिकः संबोधिगामी सौगतप्रतिसंवेदितः यदुत अस्मिन् सति इदं भवति; अस्योत्पादाद् इदम् उत्पद्यते; यदुत अविद्याप्रत्यायाः संस्काराः; संस्कारप्रत्ययं विज्ञानं विज्ञानप्रत्ययं नामरूपं नामरूपप्रत्ययं षडायतनं षडायतनप्रत्ययः स्पर्शः स्पर्शप्रत्यया वेदना वेदनाप्रत्यया तृष्णा तृष्णाप्रत्यय्म् उपादानं उपादानप्रत्ययो भवः भवप्रत्यया जातिः जातिप्रत्ययाः जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासाः संभवन्ति; एवम् अस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो भवति; यदुत अस्मिन्न् असति न भवति; अस्य निरोधाद् इदं निरुध्यते; यदुत अविद्यानिरोधात् संस्कारनिरोधः संस्कारनिरोधाद् विज्ञाननिरोधो विज्ञाननिरोधान् नामरूपनिरोधो नामरूपनिरोधात् षडायतननिरोधः षडायतननिरोधात् स्पर्शनिरोधः स्पर्शनिरोधाद् वेदनानिरोधः वेदनानिरोधात् (sbv ii 210) तृष्णानिरोधः तृष्णानिरोधाद् उपादाननिरोधः उपादाननिरोधाद् भवनिरोधो भवनिरोधाज् जातिनिरोधः जातिनिरोधाज् जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासा निरुध्यन्ते एवम् अस्य केवलस्य महतो दुःखस्कन्धस्य निरोधो भवति;

तस्मात् तर्हि (अ 501अ) भिक्षवः आत्मार्थं समनुपश्यद्भिः परार्थं चोभयार्थं च इदं प्रतिसंशिक्षितव्यं: कच्चिन् नः प्रव्रज्य अमोघा भविष्यन्ति क्रियाः सफलाः सुखोदयाः सुखविपाकाः; येषां च परिभोक्ष्यामहे चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारान् तेषां ते काराः कृताः अत्यर्थं महाफला भविष्यन्ति महानुशंसाः महाद्युतयः महाविस्ताराः इत्य् एवं वो भिक्षवः शिक्षितव्यम् यदा ते भिक्षवो भगवता स्वागतवादेन सुप्रव्रजितवादेन समुदाचरिताः तदा तेषां यत् तद् अभून् मद्गुत्वं कौकृत्यम् आलेखः विलेखः विप्रतिसारः तत् सर्वेण सर्वं प्रतिविगतं; ततो ऽन्ये भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: किं भदन्त भगवता कर्म कृतं यस्य कर्मणो विपाकेन भगवतः श्रावकसंघो भिन्नः इति; भगवान् आह: तथागतेनैव भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि पूर्ववद् यावत् फलन्ति खलु देहिनाम्

the story of a ṛṣi living in the country (concerning a previous birth of the buddha and devadatta)

भूतपूर्वं भिक्षवः अन्यतमस्मिन्न् आश्रमपदे मूलपुष्पफलसलिलसंपन्ने नानावृक्षोपशोभिते अनेकपक्षिगणनिषेविते ऋषिः प्रतिवसति पंचानाम् ऋषिशतानां प्रमुखः; यावद् अन्यः ऋषिः जनपदचारिकां चरन् तदाश्रमपदम् अनुप्राप्तः; स तेन ऋषिणा न सम्यक् प्रतिमानितः; तेन संजातामर्षेण तस्य पर्षद् भिद्यते: अयं पापेच्छः ऋषिर् न किंचिद् अपि जानीते; किमर्थम् अस्य सकाशे तिष्ठथ? आगच्छत; मया सार्धं गच्छत; अहं युष्मान् पंचस्व् अभिज्ञासु प्रतिष्ठापयामि इति; तेन भिद्यमानास् ते तस्य ऋषेर् अववादेन अवतिष्ठन्ते; तेन ऋषिणा संलक्षितम्: अनेन पापकारिणा ममैते ऋषयो भिन्नाः इति; स तम् उपसान्त्वयितुम् आरब्धः: मा आयुष्मन् पर्षद्भेदं कुरु; नैष ऋषिधर्मः इति; तथाप्य् असौ भिनत्त्य् एव, नावतिष्ठते इति स ऋषिर् दुर्मनाः उपायसंविधानेन अवस्थितः; असति बुद्धानाम् उत्पादे प्रत्येकबुद्धा लोक (sbv ii 211) उत्पद्यन्ते हीनदीनानुकम्पकाः प्रान्तशयनासनभक्ताः एकदक्षिणीया लोकस्य; अथ अन्यतमः प्रत्येकबुद्धो जनपदचारिकां चरन् तस्य ऋषेर् आश्रमपदम् अनुप्राप्तः; तेनासौ दृष्टः कायप्रासादिकः शान्तेर्यापथश् च; स तं दृष्ट्वा अभिप्रसन्नः; तेन तस्मै कारान् कृत्वा मिथ्याप्रणिधानं कृतं: यन् ममानेन पापर्षिणा पर्षद्भेदः कृतः अहम् अस्य सर्वज्ञेयवशिप्राप्तस्यापि पर्षद्भेदं कुर्याम् इति किं मन्यध्वे भिक्षवो यो ऽसौ जानपदः ऋषिः येन तस्य ऋषेः पर्षद् भिन्ना अहम् एव सः तेन कालेन तेन समयेन; यो ऽसौ नैवासिकः ऋषिः देवदत्तः सः तेन कालेन तेन समयेन; यन् मया अस्य पर्षद् भिन्ना तस्य कर्मणो विपाकेन अनेन मिथ्याप्रणिधानं कृत्वा संघो मम भिन्नः; इति हि भिक्षवः एकान्तकृष्णानां पूर्ववद् इत्य् एवं वो भिक्षवः शिक्षितव्यम् भिक्षवः संशयजाताः (अ 501ब्) सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: पश्य भदन्त देवदत्तेन सबाह्यान् अभ्यन्तरीकृत्य अभ्यन्तरांश् च बाह्यीकृत्य पर्षद् हारिता इति; भगवान् आह: न भिक्षव एतर्हि, यथा अतीते ऽप्य् अध्वन्य् अनेन सबाह्यान् अभ्यन्तरीकृत्य अभ्यन्तरांश् च बाह्यीकृत्य पर्षद् हारिता; तच् छ्रूयताम्

the story of a jackal, śatadru by name (concerning a previous life of devadatta)

भूतपूर्वं भिक्षवः अन्यतमस्मिन् प्रदेशे सृगालः प्राणी प्रतिवसति; स अतिलोलुपः अरण्ये पर्यटति ग्रामे ऽपि; सो ऽनुपूर्वेण पर्यटन् नीलरजकगृहं प्रविष्टः; नीलकुण्डे पतितः; तेन घृणा गृहीता; तस्य नातिदूरे ऊषस्य पुञ्जस् तिष्ठति; स तस्मिन् पतितः पार्श्वेन पार्श्वं लुठितः; स भूयस्या मात्रया शरीरं जुगुप्समानः पानीये पतितः; उत्थाय संप्रस्थितः आदित्यरश्मिस्पृष्टः मेचकवर्णो जातः; यावत् सृगालैर् दृष्टः; ते समन्ताद् विद्रुताः; दूरे स्थित्वा कथयन्ति: कस् त्वं? कुतो वा अभ्यागतः? इति; स कथयति: (sbv ii 212) अहं शतद्रुनामा शक्रेण देवेन्द्रेण चतुष्पदानां राज्ये अभिषिक्तः इति; सृगालाः संलक्षयन्ति: अपूर्वरूपो ऽयं; नूनम् एवं भविष्यति इति; सृगालैः सर्वचतुष्पदानां निवेदितं; सिंहाः संलक्षयन्ति: को ऽसाव् अस्मत् प्रतिविशिष्टो यश् चतुष्पदानां राजा भविष्यति? गच्छामस् तावत्; स्वस्य यूथपतेर् निवेदयामः इति; तेषां यूथपतिर् अन्यतमस्मिन् पर्वतैकदेशे निवसति; स केसरी पट्टधारी; तैस् तस्य निवेदितं; तेनान्यचतुष्पदस्य आज्ञा दत्ता: गच्छ चतुष्पदाधिपतिं निरीक्षस्व किम् असौ केनचिच् चतुष्पदेन दृष्टो न वा इति; स तेन गत्वा प्रत्यवेक्षितः अपूर्वदर्शनः; सर्वैश् चतुष्पदैः परिवृतः स्थापयित्वा सिंहान्; तेन तस्य यथादृष्टं गत्वा निवेदितं; स श्रुत्वा सिंहयूथपरिवृतः तस्य सकाशम् अभिगतः; सो ऽनेकचतुष्पदपरिवृतः हस्तिस्कन्धाभिरूढः अन्वाहिण्डते; तं परिवार्य सिंहा गच्छन्ति; ततो व्याघ्राः; ततो ऽन्ये चतुष्पदाः; तेषां बहिर् दूरेण सृगालाः; तस्य माता अन्यस्मिन् पर्वतकुञ्जे प्रतिवसति; तस्यास् तेन सृगालः प्रेषितः: आगच्छ

पुत्रराज्यं प्रत्यनुभव इति; सा कथयति: कीदृशः तस्य परिवारः? इति; स कथयति: सिंहव्याघ्रा हस्तिनश् च अभ्यन्तरपरिवारः; वयं तु बाह्याः इति; सा कथयति: गच्छ; विनष्टः स इति; सा गाथां भाषते सुखं वसाम्य् अस्य गिरेर् निकुञ्जे स्वस्था जलं शीतम् अहं पिबन्ति / तावत् सुखं गच्छति हस्तिनासौ शृणोति यावन् न सृगालशब्दम् //

इति स गतः; तेन तेषां सृगालानां निवेदितं: सृगाल एवायं चतुष्पदानां राजा; दृष्टास्य मया माता, या अमुष्मिन् पर्वतनिकुञे प्रतिवसति इति; ते कथयन्ति: यद्य् एवं वयम् एनं ज्ञास्यामः सृगालो वा न वा इति; धर्मता ह्य् एषा सृगालानां यः सृगालशब्दं श्रुत्वा न वाशते, तस्य रोमाणि पतिष्यन्ति; सृगाला वाशितुम् आरब्धाः; स संलक्षयति: यद्य् अहं न रौमि, नियतं मम रोमाणि पतिष्यन्ति; यदि (अ 502अ) हस्तिस्कन्धाद् अवतीर्य रविष्यामि, माम् एते प्रघातयिष्यन्ति; अत्रैव विरौमि इति; स हस्तिस्कन्ध एव वाशितुम् आरब्धः; हस्तिना ज्ञातं सृगालो मां वहतीति; तेनासौ पातयित्वा पद्भ्यां मर्दितः; देवता गाथां भाषते (sbv ii 213) यस्य वाभ्यन्तरा बाह्या बाह्या वाभ्यन्तरीकृताः / स एवं निधनं याति हस्तिना क्रोष्टुको यथा // इति किं मन्यध्वे भिक्षवो यो ऽसौ सृगालः एष एव स देवदत्तः तेन कालेन तेन समयेन; तदाप्य् एष अभ्यन्तरान् बाह्यीकृत्य बाह्यांश् च अभ्यन्तरीकृत्य अनयेन व्यसनम् आपन्नः; एतर्ह्य् अप्य् अनेन अभ्यन्तरान् बाह्यीकृत्य बाह्यांश् च अभ्यन्तरीकृत्य परिषद् हारिता

devadatta gets angry with kokālika and khaṇḍadravya

यदा आयुष्मद्भ्यां शारिपुत्रमौद्गल्यायनाभ्यां देवत्तस्य पर्षद् अपहृता तदा देवदत्तः कोकालिकं खण्डद्रव्यं च ताडयितुम् आरब्धः: युवाभ्यां मम पर्षद् हारिता इति; भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: पश्य भदन्त अन्यैर् देवदत्तस्य पर्षद् अपहृता; अन्येषाम् अनेन दुःखम् उत्पादितम् इति; भगवान् आह: न भिक्षव एतर्हि; यथा अतीते ऽप्य् अध्वन्य् अन्येनैवास्य भार्या अपहृता; अन्येषाम् अनेन दुःखम् उत्पादितं; तच् छ्रूयताम्

the story of the elephant (concerning a previous life of devadatta)

भूतपूर्वं भिक्षवः अन्यतमस्मिन् प्रदेशे हस्तियूथपतिः प्रतिवसति; तत्राप्य् अन्यतमस्य हस्तिनो ऽन्यतरा हस्तिनी बहुमता; सान्यतमस्मिन् कलभके ऽत्यर्थं सक्ता; तयासौ कलभ उच्यते; निष्पलायामहे इति; स कथयति: को ऽसाव् उपायो येन निष्पलाय्यामहे इति; सा कथयति: अहम् उपायं जाने; तयोर् गजो ऽभिहितः; स्नायामो ह्रदम् अवतरामः इति; सो ऽवतीर्णः; सा कथयति: पश्यामः कः आवयोश् चिरतरं निमग्नस् तिष्ठति इति; स मोहपुञ्जस् तया सार्धम् उदके निमग्नः; सा उत्थाय कलभहस्तिना निष्पलायिता; स हस्ती चिरं स्थित्वा उत्थितो न पश्यति; स संलक्षयति: भूयो निमज्जामि मा मे स्यात् पराजयः इति; भूयो निमग्नः दन्तौ निखात्यावस्थितः सुचिराद् गतप्रत्युद्गतप्राणः; व्युत्थितो न पश्यति तां हस्तिनीं; स तं ह्रदम् इतश् चामुतश् च क्षोभयितुम् आरब्धः; तेन तत्र बहवो मत्स्यकच्छपमण्डूकादयः प्राणिनो ऽनयेन व्यसनम् आपदिताः; देवता गाथां भाषते (sbv ii 214) वृन्दी बतायं सुमहान् प्रज्ञाप्य् अस्य न विद्यते / अन्येनास्य हृता भार्या अन्ये दुःखस्य भागिनः // इति किं मन्यध्वे भिक्षवो यो ऽसौ हस्तिनागः देवदत्तः सः तेन कालेन तेन समयेन; तदाप्य् अस्य अन्येन भार्या अपहृता; अन्येषाम् अनेन दुःखम् उत्पादितं

उद्दानम् वीचिः सान्दृष्टिकं चैव वध उत्पलवर्णया / कुण्डी त्रयं तथा क्षीरं गोपिका च क्षमापणा / अस्थीनि चेतिकश् चैव पक्षिणा चरमं पदं //

भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: पश्य भदन्त आयुष्मद्भ्यां (अ 502ब्) शारिपुत्रमौद्गल्यायनाभ्यां देवदत्तस्य वीचिम् आगमयमानाभ्यां वीचिर् लब्धः इति; भगवान् आह: न भिक्षव एतर्हि; यथा अतीते ऽप्य् अध्वनि शारिपुत्रमौद्गल्यायनाभ्यां देवदत्तस्य वीचिम् आगमयमानाभ्यां वीचिर् लब्धः; तच् छ्रूयताम्

the story of a leader of the thieves (concerning a previous life of devadatta, etc)

भूतपूर्वं भिक्षवः अन्यतमस्मिन् कर्वटके इष्वस्त्राचार्यः प्रतिवसति; तेन सदृशात् कुलात् कलत्रम् आनीतं; स तया सार्धं क्रीडति रमते परिचारयति; तस्य क्रीडतो रममाणस्य परिचारयतः कालान्तरेण पत्नी आपन्नसत्वा संवृत्ता; सा अष्टानां वा नवानां वा मासानाम् अत्ययात् प्रसूता; दारिका जाता; तस्यास् त्रीणि सप्तकान्य् एकविंशतिदिवसान् विस्तरेण जाताया जातिमहं कृत्वा कुलसदृशं (sbv ii 215) नामधेयं व्यवस्थापितं; सा उन्नीता वर्धिता महती संवृत्ता; इष्वस्त्राचार्यः संलक्षयति: इयं दारिका न मया कस्यचिद् रूपेण दातव्या न शीलेन नापि धनेन; अपि तु यो मत्सकाशात् पंचसु स्थानेषु कृतावी भवति, तस्यैषा मया देया इति; तस्य च सकाशाद् द्वौ माणवौ इष्वस्त्रं शिक्षितौ; तत्रैकः पंचसु स्थानेषु कृतावी; द्वितीयस् तु छेद्ये कृतावी संवृत्तः; तस्मै तेन सा दारिका दत्ता; सो ऽन्यः संजातामर्षः चोराणां मध्यं प्रविष्टः, पंचानां चोरशतानां सेनापतिर् जातः; स एकस्मिन् प्रदेशे मार्गं बध्वा अवस्थितः; प्रथमस् तां पत्नीं परिणीय रथ आरोप्य स्वगृहं संप्रस्थितः; यावच् चोरभयात् सार्थः अग्रतो गच्छन् स्थितः; स कथयति: भवन्तो गच्छत; किं तिष्ठथ? इति; ते कथयन्ति: चोरैर् मार्गो बद्धः इति; स कथयति: आर्या गच्छत; किं करिष्यन्ति इति; स संप्रस्थितः; सार्थिकाः कथयन्ति: भवन्तो गच्छत्व् एषः; तिष्ठामस् तावत्; स्थानम् एतद् विद्यते यद् अयम् आत्मानं दारयिष्यति; पत्नीं च हारयिष्यति इति; चोरा वृक्षम् अधिरुह्य दिगवलोकनं कुर्वन्तो ऽवस्थिताः; तैर् असौ रथाभिरूढो दृष्टः; कथयन्ति: भवन्तः पुरुषो रथाभिरूढः आगच्छति इति; चोरसेनापतिना

दूतो ऽनुप्रेषितः: निवर्तय रथम् इति; स कथयति: भवन्तः शूरस्य शूरपरिहारं प्रयच्छत इति; ते कथयन्ति: वयम् अपि शूराः इति; सेनापतिना पंच चोराः प्रेषिताः; तेन ते प्रघातिताः; एवं विंशतिर् आगताः, ते ऽपि प्रघातिताः; यावत् सर्वे प्रघातिताः; सेनापतिर् एको ऽवशिष्टः; स खड्गम् आदाय अग्रतः स्थितः; स शरान् क्षेप्तुम् आरब्धः; स खद्गेन छिनत्ति; यावत् तेन पंचशतिकस् तूणीरः क्षिप्तः; तेन सर्वे खड्गेन छिन्नाः; एकः शरो ऽवस्थितः; स तं न मुञ्चति; सा दारिका कथयति: मुञ्च शरं; किमर्थं तिष्ठति? इति; स कथयति: एष एव एको ऽवशिष्टः, एष चेन् मुक्तः, अहं प्रघातितः; त्वं चापहृता इति; ततः सा दारिका विजृम्भमाणा वेणिं बन्धुम् आरब्धा; चोरसेनापतिस् तस्याम् अवेक्षमाणायाम् निरीक्षितुम् आरब्धः; स तेन शरेण मर्मणि ताडितः; स म्रियमाणो गाथां भाषते (sbv ii 216) (अ 503अ) नाहं रथिकेन हतो हतो ऽस्मि लोलेन पापचित्तेन / यो ऽहं रणमध्यगतः प्रमदावदनं निरीक्षामि //

इति किं मन्यध्वे भिक्षवो यो ऽसौ रथिकः शारिपुत्रः सः तेन कालेन तेन समयेन; यासौ दारिका मौद्गल्यायनः सः तेन कालेन तेन समयेन; यो ऽसौ चोरसेनापतिर् देवदत्तः सः तेन कालेन तेन समयेन; तदा आभ्याम् अस्य वीचिं पर्येषमाणाभ्यां वीचिर् लब्धा; एतर्ह्य् अपि आभ्याम् अस्य वीचिं पर्येषमाणाभ्यां वीचिर् लब्धा

the fruit of monachal life in the visible world ajātaśatru visits the buddha

1. बुद्धो भगवान् राजगृहे वर्षा उपगतो जीवकस्य कुमारभृतस्य आम्रवणे; अथ राजा मागधः अजातशत्रुर् वैदेहीपुत्रः तदैव ज्योत्स्नायां रात्र्याम् आषाढ्यां वर्षोपनायिकायाम् अभिज्ञातायाम् अभिलक्षितायां पूर्णायां पौर्णमास्याम् उपरिप्रासादतलगतः अमात्यान् आमन्त्रयते: हम्भो ग्रामण्यः एवंरूपायां ज्योत्स्नायां रात्र्याम् आषाढ्यां वर्षोपनायिकायाम् अभिज्ञातायाम् अभिलक्षितायां पूर्णायां पौर्णमास्यां किम् अस्माभिः करणीयं स्यात्? 2. अथान्यतमा अवरुद्धिका स्त्री राजानम् अजातशत्रुं वैदेहीपुत्रम् इदम् अवोचत्: एवंरूपायां देव ज्योत्स्नायां रात्र्याम् आषाढ्यां वर्षोपनायिकायाम् अभिज्ञातायाम् अभिलक्षितायां पूर्णायां पौर्णमास्यां यद् देवः पंचभिः कामगुणैः समर्पितः समन्वङ्गीभूतः क्रीडेद् रमेत परिचारयेद् इदम् अहं देवस्य करणीयं मन्ये 3. अथान्यतमा अवरुद्धिका एवम् आह: एवंरूपायां देव ज्योत्स्नायां रात्र्याम् आषाढ्यां वर्षोपनायिकायाम् अभिज्ञातायाम् अभिलक्षितायां पूर्णायां पौर्णमास्यां यद् देवः राजगृहस्य नगरस्य अनुपर्यायपथकान् अन्वाहिण्डन् पंचभिः कामगुणैः समर्पितः समन्वङ्गीभूतः क्रीडेद् रमेत परिचारयेद् इदम् अहं देवस्य करणीयं मन्ये 4. उदायिभद्र कुमारः एवम् आह: एवंरूपायां देव ज्योत्स्नायां रात्र्याम् आषाढ्यां वर्षोपनायिकायाम् अभिज्ञातायाम् (sbv ii 217) अभिलक्षितायां पूर्णायां पौर्णमास्यां यद् देवश् चतुरङ्गबलकायं सन्नाह्य हस्तिकायं रथकायम् अश्वकायं पत्तिकायं परराष्ट्रं परविषयं गत्वा महान्तं सङ्ग्रामं सङ्ग्राम्य विजितसंग्रामः तदैव संग्रामशिरसि निर्जितो ऽध्यावसेद्; इदम् अहं देवस्य करणीयं मन्ये 5. अथान्यतरो वृद्धामात्यः एवम् आह: एवंरूपायां देव

ज्योत्स्नायां रात्र्याम् आषाढ्यां वर्षोपनायिकायाम् अभिज्ञातायाम् अभिलक्षितायां पूर्णायां पौर्णमास्याम् अयं देवः पूरणः काश्यपः संघी च गणी च गणाचार्यश् च साधुरूपसंमतो बहुजनस्य महता च जनकायेन संपुरस्कृतः पंचमात्राणाम् आजीविकशतानां प्रमुखः; सो ऽस्मिन् राजगृहे वर्षा उपगतः; तं देवः पर्युपासीत; इदम् अहं देवस्य करणीयं मन्ये 6. अथान्यतरो वृद्धामात्यः एवम् आह: एवंरूपायां देव ज्योत्स्नायां रात्र्याम् (अ 503ब्) आषाढ्यां वर्षोपनायिकायाम् अभिज्ञातायाम् अभिलक्षितायां पूर्णायां पौर्णमास्याम् अयं देवः मस्करी गोशालीपुत्रः सञ्जयी वैरट्टीपुत्रः अजितः केशकम्बलः ककुदः कात्यायनः तथा च निर्ग्रन्थो ज्ञातिपुत्रः संघी च गणी च गणाचार्यश् च साधुरूपसंमतो बहुजनस्य महता च गणेन संपुरस्कृतः अमुष्मिन्न् एव राजगृहे वर्षा उपगतः; तं देवः पर्युपासीत; इदम् अहं देवस्य करणीयं मन्ये 7. तेन खलु समयेन जीवकः कुमारभृतः तस्याम् एव पर्षदि सन्निषण्णो ऽभूत् सन्निपतितः; अथ राजा मागधः अजातशत्रुर् वैदेहीपुत्रः जीवकं कुमारभृतम् आमन्त्रयते: अहो जीवक किम् असि तुष्णीं? किं न लपसि? स कथयति: एवंरूपायां देव ज्योत्स्नायां रात्र्याम् आषाढ्यां वर्षोपनायिकायाम् अभिज्ञातायाम् अभिलक्षितायां पूर्णायां पौर्णमास्याम् अयं देवः भगवान् संघी च गणी च गणाचार्यश् च साधुरूपसंमतो बहुजनस्य महता गणेन च संपुरस्कृतः अस्मिन्न् एव राजगृहे वर्षा उपगतः अस्माकम् एव आम्रवणे; तं देवः पर्युपासीत; इदम् अहं देवस्य करणीयं मन्ये 8. तेन खलु समयेन राज्ञो मागधस्य अजातशत्रोर् वैदेहीपुत्रस्य (sbv ii 218) भगवन्निम्मं चित्तं

भगवत्प्रवणं भगवत्प्राग्भारं; अथ राजा मागधः अजातशत्रुर् वैदेहीपुत्रः जीवकं कुमारभृतम् इदम् अवोचत्: गछ जीवक हस्तिनागं सन्नाहय यत्राहम् अभिरूढः अद्यैव भगवन्तं दर्शनाय उपसंक्रमिष्यामि; एवं देवेति जीविकः कुमारभृतो राज्ञो मागधस्य अजातशत्रोर् वैदेहीपुत्रस्य प्रतिश्रुत्य महान्तं हस्तिनागं सन्नाह्य पंचमात्राणि हस्तिनीशतानि पंचमात्राणि अवरुद्धिकाशतानि प्रदीपिकाहस्तानि प्रत्येकप्रत्येकं हस्तिनीष्व् आरोप्य येन राजा मागधः अजातशत्रुस् तेनोपसंक्रान्तः; उपसंक्रम्य राजानं मागधम् अजातशत्रुं वैदेहीपुत्रम् इदम् अवोचत्: सन्नद्धो देवस्य महान् हस्तिनागः; यस्येदानीं देवः कालं मन्यते इति; अथ राजा मागधः अजातशत्रुर् वैदेहीपुत्रः महान्तं हस्तिनागम् अभिरुह्य पंचमात्रैर् अवरुद्धिकाशतैः प्रत्येकप्रत्येकं हस्तिनीष्व् अभिरूढैः प्रदीपिकाहस्तैः संपुरस्कृतो राजगृहान् निर्याति भगवतो ऽन्तिकं भगवन्तं दर्शनाय उपसंक्रमितुं प्रत्युपासनाय 9. तेन खलु समयेन राजा मागधः अजातशत्रुर् वैदेहीपुत्रः वृजिभिः सार्धं विरुद्धः; अथो राज्ञो मागधस्य अजातशत्रोर् वैदेहीपुत्रस्य समनन्तरनिष्क्रान्तस्य राजगृहाद् अभूद् भयम् अभूत् छम्भितत्वम् अभूद् रोमहरः: मा मे जीवकः कुमारभृतः घातयितुकामो भवति? वञ्चयितुकामो वा? वधकेभ्यः प्रत्यमित्रेभ्यो वा अनुप्रदापयितुकामः? इति विदित्वा जीविकं कुमारभृतम् इदम् अवोचत्: मासि मां जीविक घातयितुकामो वा लापयितुकामो वा वञ्चयितुकामो वा (अ 504अ) वधकेभ्यो वा प्रत्यर्थिकेभ्यः प्रत्यमित्रेभ्यो वा अनुप्रदापयितुकामः? स एवम् आह: नाहं देव त्वां घातयितुकामः न

लापयितुकामः न वञ्चयितुकामः नापि वधकेभ्यः प्रत्यर्थिकेभ्यः प्रत्यमित्रेभ्यो वा अनुप्रदापयितुकामः इति 10. अथ राजा मागधः अजातशत्रुर् वैदेहीपुत्रः जीविकं कुमारभृतम् इदम् अवोचत्: कियत्परिवारः स भगवान् सातिरेकान्य् अस्य अर्धत्रयोदशभिक्षुशतानि; अहो जीवक कथं त्वं मां न घातयितुकामो वा न लापयितुकामो वा नापि वधकेभ्यो वा प्रत्यर्थिकेभ्यः प्रत्यमित्रेभ्यो वा अनुप्रदापयितुकामः? यत्रेदानीम् इयत्परिवारस्य नैवोत्कासनशब्दः श्रूयते? अल्पशब्दकामो देव स भगवान् अल्पशब्दनिरतः अल्पशब्दसंतुष्टः (sbv ii 219) अल्पशब्दतायाश् च स वर्णवादी; तस्य पर्षद् अल्पशब्दैव; तेन हि देव त्वरितत्वरितं महान्तं हस्तिनागं प्रेरय; तथा ह्य् आलोक्यते मण्डलवाटे तैलप्रद्योतनाभा; अथ राजा मागधः अजातशत्रुर् वैदेहीपुत्रः त्वरितत्वरितं महान्तं हस्तिनागं प्रेरयति; तस्य यावती यानस्य भूमिस् तावद् यानेन गत्वा तस्माद् अवतीर्य पद्भ्याम् एवारामं प्राविक्षत् 11. तेन खलु समयेन भगवान् मध्ये भिक्षुसंघस्य निषण्णः ह्रद इवाच्छो विप्रसन्नः अनाविलः; अथ राजा मागधः अजातशत्रुर् वैदेहीपुत्रः मण्डलवाटम् अनुसंयाय जीवकं कुमारभृतम् आमन्त्रयते: कुत्र जीवक स भगवान् एष देव भगवान् मध्ये भिक्षुसंघस्य निषण्णः ह्रद इवाच्छो विप्रसन्नो ऽनाविलः; अथ राजा मागधः अजातशत्रुर् वैदेहीपुत्रः येन भगवांस् तेनोपसंक्रान्तः; उपसंक्रम्य एकांसम् उत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस् तेनाञ्जलिं प्रणमय्य भगवनत्म् इदम् अवोचत्: यद्रूपेण भदन्त भगवान् चित्तदमव्युपशमेन समन्वागतो

भिक्षुसंघश् च तद्रूपेण चित्तदमव्युपशमेन समन्वागतो उदायिभद्रः कुमारः भवतु इति; साधु साधु महाराज प्रवक्ष्यामि, महाराज स्वकं प्रेम; निषीद त्वं महाराज यथास्वके आसने

ajātaśatru asks the buddha if it is possible to show any visible benefit to be derived from asceticism

12. अथ राजा मागधः अजातशत्रुर् वैदेहीपुत्रः भगवतः पादौ शिरसा वन्दित्वा एकान्ते न्यषीदद्; एकान्तनिषण्णो राजा मागधः अजातशत्रुर् वैदेहीपुत्रः भगवन्तम् इदम् अवोचत्: पृच्छेम वयं भदन्त भगवन्तं कंचिद् एव प्रदेशं सचेद् अवकाशं कुर्यात् प्रश्नस्य व्याकरणाय; पृच्छ महाराज यद् एवाकाङ्क्षसे 13. इमे भदन्त पृथक्शिल्पस्थानकर्मस्थानिकाः; तद्यथा (sbv ii 220) मालाकाराः नडकाराः नैषद्यिकाः यावसिकाः सूताः हस्त्यारोहाः अश्वारोहाः रथिकाः त्सरुकाः धनुर्ग्रहाः सेवाः चेटाः पिण्डभुजः उग्राः शूराः प्रस्कन्दिनः महानग्नाः राजपुत्राः आराधकाः कल्पकाः स्नपकाः; ते स्वकस्वकैः शिल्पस्थानकर्मस्थानैः कृत्यानि कुर्वन्ति, दानानि ददति, पुण्यानि कुर्वन्ति, भृत्यान् (अ 504ब्) बिभ्रति; पंचभिश् च कामगुणैः समर्पिताः समन्वङ्गीभूताः क्रीडन्ति रमन्ते परिचारयन्ति; लभ्यम् एवंरूपाणां सान्दृष्टिकं श्रामण्यफलं प्रज्ञप्तुम्? अभिजानासि त्वं महाराज इतः पूर्वम् अन्यान् अपि श्रमणब्राह्मणान् एवंरूपं प्रश्नं प्रष्टु? अभिजानामि भदन्त

ajātaśatru narrates how he propounded this same question to pūraṇa kāśyapa, etc., and any of them expounded him his own theory

14. एको ऽयं भदन्त समयः, अहं येन पूरणः काश्यपः तेनोपसंक्रान्तः; उपसंक्रम्य पूरणं काश्यपम् एवं वदामि: इमे भदन्त कास्यप पृथग्लोकेशिल्पस्थानकर्मस्थानिकाः; तद्यथा मालाकाराः नडकाराः नैषद्यिकाः यावसिकाः सूताः हस्त्यारोहाः अश्वारोहाः रथिकाः त्सरुकाः धनुर्ग्रहाः सेवाः चेटाः पिण्डभुजः उग्राः शूराः प्रस्कन्दिनः महानग्नाः राजपुत्राः आराधकाः कल्पकाः स्नपकाः; ते स्वकस्वकैः शिल्पस्थानकर्मस्थानैः कृत्यानि कुर्वन्ति, दानानि ददति, पुण्यानि कुर्वन्ति, भृत्यान् बिभ्रति; पंचभिश् च कामगुणैः समर्पिताः समन्वङ्गीभूताः क्रीडन्ति रमन्ते परिचारयन्ति; लभ्यम् एवंरूपाणां सान्दृष्टिकं श्रामण्यफलं प्रज्ञप्तुम् 15. स एवम् आह: अहम् अस्मि महाराज एवंदृष्टिर् एवंवादी; नास्ति दत्तं नास्ति इष्टं नास्ति हुतं नास्ति सुचरितं नास्ति सुचरितदुश्चरितानां कर्मणां फलविपाकः नास्त्य् अयं लोकः नास्ति परलोकः नास्ति माता नास्ति पिता नास्ति सत्व उपपादुकः न सन्ति (sbv ii 221) लोके ऽर्हन्तः सम्यग्गताः सम्यक्प्रतिपन्नाः ये इमं च लोकं परं च लोकं दृष्ट एव धर्मे स्वयम् अभिज्ञया साक्षात्कृत्वा उपसंपद्य प्रवेदयन्ते: क्षीणा मे जातिः उषितं ब्रह्मचर्यं कृतं करणीयं नापरम् अस्माद् भवं प्रजानीमः इति; इहैव जीवो जीवति स प्रेत्योच्छिद्यते विनश्यति न भवति परं मरणाद् चातुर्महाभौतिकः पुरुषस्य समुच्छ्रयः; यस्मिन् समये कालं करोति तस्य पृथिव्यां पृथिवीकायः उपैति; अप्सु अप्कायः; तेजसि तेजःकायः; वायौ वायुकायः; आकाशे इन्द्रियाण्य् अनुपरिवर्तन्ते; आसन्दीपञ्चमाः पुरुषाः पुरुषम् आदाय श्मशानम् अनुव्रजन्त्य् आदहनात् परं न प्रज्ञायते; भस्मीभवन्ति

आहुतयः; कपोतवर्णान्य् अस्थीन्य् अवतिष्ठन्ति इति; दृप्तोपज्ञातं दानं; पण्डितोपज्ञातः परिग्रहः; तत्र ये अस्तिवादिनः सर्वे ते रिक्तं तुच्छं मृषा प्रलपन्ति इति बालश् च पण्डितश् च उभाव् अपि एतौ प्रेत्य उच्छिद्येते विनश्यतः न भवतः परं मरणात् 16. तद्यथा भदन्त आम्राणि पृष्टः लकुचानि व्याकुर्यात्, लकुचानि वा पृष्टः आम्राणि व्याकुर्याद् एव पूरणः काश्यपः मया सान्दृष्टिकं श्रामण्यफलं पृष्टः नास्तिताम् एव व्याकार्षीत्; तस्य मम भदन्त एतद् अभवत्; न मम प्रतिरूपं स्याद् यन् मादृशो विज्ञपुरुषः साधुरूपसंमतं विषयनिवासिनं श्रमणं वा ब्राह्मणं वा संमुखम् अवसादयेद् इति; सो ऽहं भदन्त पूरणस्य काश्यपस्य भाषितं नाभिनन्दामि न प्रतिक्रोशामि; (अ 505अ) अनभिनन्द्य अप्रतिक्रोश्य उत्थायासनात् प्रक्रान्तः

मस्करी गोशालिपुत्रऽ थेओर्य्

17. सो ऽहं येन मस्करी गोशालिपुत्रः तेनोपसंक्रान्तः; उपसंक्रम्य मस्करिणं गोशालिपुत्रम् एवं वदामि: इमे भदन्त मस्करिन् पृथग्लोकेशिल्पस्थानकर्मस्थानिकाः; तद्यथा मालाकाराः नडकाराः नैषद्यिकाः यावसिकाः सूताः हस्त्यारोहाः अश्वारोहाः रथिकाः त्सरुकाः धनुर्ग्रहाः सेवाः चेटाः पिण्डभुजः उग्राः शूराः प्रस्कन्दिनः महानग्नाः राजपुत्राः आराधकाः कल्पकाः स्नपकाः; ते स्वकस्वकैः शिल्पस्थानकर्मस्थानैः कृत्यानि कुर्वन्ति, दानानि ददति, पुण्यानि कुर्वन्ति, भृत्यान् बिभ्रति; पंचभिश् च कामगुणैः समर्पिताः समन्वङ्गीभूताः क्रीडन्ति रमन्ते परिचारयन्ति; लभ्यम् एवंरूपाणां सान्दृष्टिकं श्रामण्यफलं प्रज्ञप्तुम् 18. स एवम् आह: अहम् अस्मि महाराज एवंदृष्टिर् एवंवादी; नास्ति हेतुः नास्ति प्रत्ययः; सत्वा संक्लिष्यन्ते? अहेत्वप्रत्ययं सत्वाः संक्लिष्यन्ते; नास्ति हेतुः नास्ति प्रत्ययः सत्वाः विशुध्यन्ते (sbv ii 222) अहेत्वप्रत्ययं सत्वा विशुध्यन्ते; नास्ति हेतुर् नास्ति प्रत्ययः; सत्वानाम् अज्ञानादर्शने भवतः अहेत्वप्रत्ययं सत्वानाम् अज्ञानादर्शने भवतः; नास्ति हेतुर् नास्ति प्रत्ययः; सत्वानां ज्ञानादर्शने भवतः? अहेत्वप्रत्ययं सत्वानां ज्ञानादर्शने भवतः; नास्ति बलं नास्ति वीर्यं नास्ति बलवीर्यं नास्ति पुरुषकारः नास्ति पराक्रमाः नास्ति पुरुषकारपराक्रमः; नास्त्य् आत्मकारः न परकारः अनात्मकारपरकाराः सर्वे भूताः अस्थामा अबला अवशा अवीर्या अपराक्रमाः नियतसंगतिभावपरिणताः सुखदुःखं प्रतिसंवेदयन्ते यदुत षट्स्व् अभिजातिषु 19. तद्यथा पुरुषः आम्राणि पृष्टः लकुचानि व्याकुर्यात्, लकुचानि वा पृष्टः आम्राणि व्याकुर्याद् एवम् एव मस्करी गोशालिपुत्रः मया सान्दृष्टिकं श्रामण्यफलं पृष्टः अहेतुताम् एव व्याकार्षीत्; तस्य मम एतद् अभवत्; कथम् इदानीं मादृशो विज्ञपुरुषः साधुरूपसंमतं विषयनिवासिनं श्रमणं वा ब्राह्मणं वा संमुखम् अवसादयेद् इति; सो ऽहं मस्करिणो गोशालिपुत्रस्य भाषितं नाभिनन्दामि न प्रतिक्रोशामि; अनभिनन्द्य अप्रतिक्रोश्य उत्थाय आसनात् प्रक्रान्तः

सञ्जयी वैरट्टीपुत्रऽस् थेओर्य्

20. सो ऽहं येन सञ्जयी वैरट्टीपुत्रस् तेनोपसंक्रान्तः; उपसंक्रम्य सञ्जयिनं वैरट्टीपुत्रम् इदम् अवोचम्: इमे भदन्त सञ्जयिन् पृथग्लोकेशिल्पस्थानकर्मस्थानिकाः; तद्यथा मालाकाराः नडकाराः नैषद्यिकाः यावसिकाः सूताः हस्त्यारोहाः अश्वारोहाः रथिकाः त्सरुकाः धनुर्ग्रहाः सेवाः चेटाः पिण्डभुजः उग्राः शूराः प्रस्कन्दिनः महानग्नाः राजपुत्राः आराधकाः कल्पकाः स्नपकाः; ते स्वकस्वकैः शिल्पस्थानकर्मस्थानैः कृत्यानि कुर्वन्ति, दानानि ददति, पुण्यानि कुर्वन्ति, भृत्यान् बिभ्रति; पंचभिश् च कामगुणैः समर्पिताः समन्वङ्गीभूताः क्रीडन्ति रमन्ते परिचारयन्ति; लभ्यम् एवंरूपाणां सान्दृष्टिकं श्रामण्यफलं प्रज्ञप्तुम् 21. स एवम् आह: अहम् अस्मि महाराज एवंदृष्टिर् एवंवादी; कुर्वतः कारयतः छिन्दतः छेदयतः पचतः पाचयतः हिंसतो घातयतः प्राणिनो हिंसतः अदत्तम् आददतः कामेषु मिथ्या चरतः संप्रजानं (अ 505ब्) मृषावादं भाषमाणस्य मद्यपानं (sbv ii 223) पिबतः सन्धिं छिन्दतो ग्रन्थिं मुञ्चतः निर्लोपं हरतः परिपन्थं तिष्ठतः; ग्रामघातं कुर्वतः, नगरघातं जनपदघातं क्षुरपर्यन्तीकृतेन वा चक्रेण ये ऽस्यां महापृथिव्यां प्राणिनस् तान् सर्वान् संछिन्दतः संभिन्दतः संकुट्टयतः संप्रदालयतः तान् सर्वान् संछिन्द्य संभिन्द्य संकुट्ट्य संप्रदाल्य एकमांसखलं कुर्वतः मांसपिण्डं मांसपुञ्जं मांसराशिम्; इदं प्रतिसंशिक्षतो नास्त्य् अतोनिदानं पापं नास्त्य् अतोनिदानं पापस्यागमः दक्षिणेन नदीं गङ्गां छिन्दन् भिन्दन् वागच्छेद् उत्तरेण वा नद्या गंगाया ददद् व्यजमानाः आगच्छेन् नास्त्य् अतोनिदानं पुण्यपापं; नास्त्य् अतोनिदानं

पुण्यपापस्यागमः; यदुत दानेन दमेन संयमेन अर्थचर्यया समानार्थतया इति कुर्वता न क्रियत एव पुण्यम् इति 22. तद्यथा भदन्त पुरुषः आम्राणि पृष्टः लकुचानि व्याकुर्यात्, लकुचानि वा पृष्टः आम्राणि व्याकुर्याद् एवम् एव सः; मया सञ्जयी वैरट्टीपुत्रः सान्दृष्टिकं श्रामण्यफलं प्रश्नं पृष्टः अक्रियाम् एव व्याकार्षीत्; तस्य मम एतद् अभवत्; कथम् इदानीं मादृशो विज्ञपुरुषः साधुरूपसंमतं विषयनिवासिनं श्रमणं वा ब्राह्मणं वा संमुखम् अवसादयेद् इति; सो ऽहं सञ्जयिनो वैरट्टीपुत्रस्य भाषितं नाभिनन्दामि न प्रतिक्रोशामि; अनभिनन्द्य अप्रतिक्रोश्य उत्थायासनात् प्रक्रान्तः

अजित केशकम्बलऽस् थेओर्य्

23. सो ऽहं येन अजितः केशकम्बलस् तेनोपसंक्रान्तः; उपसंक्रम्य अजितं केशकम्बलम् इदम् अवोचम्: इमे भदन्त अजित पृथग्लोकेशिल्पस्थानकर्मस्थानिकाः; तद्यथा मालाकाराः नडकाराः नैषद्यिकाः यावसिकाः सूताः हस्त्यारोहाः अश्वारोहाः रथिकाः त्सरुकाः धनुर्ग्रहाः सेवाः चेटाः पिण्डभुजः उग्राः शूराः प्रस्कन्दिनः महानग्नाः राजपुत्राः आराधकाः कल्पकाः स्नपकाः; ते स्वकस्वकैः शिल्पस्थानकर्मस्थानैः कृत्यानि कुर्वन्ति, दानानि ददति, पुण्यानि कुर्वन्ति, भृत्यान् बिभ्रति; पंचभिश् च कामगुणैः समर्पिताः समन्वङ्गीभूताः क्रीडन्ति रमन्ते परिचारयन्ति; लभ्यम् एवंरूपाणां सान्दृष्टिकं श्रामण्यफलं प्रज्ञप्तुम् (sbv ii 224) 24. एवम् उक्तः अजितः केशकम्बलः माम् इदम् अवोचत्: अहम् अस्मि महाराज एवंदृष्टिर् एवंवादी; सप्त इमे कायाः अकृताः अकृतकृताः अनिर्मिताः अनिर्माणकृताः अवध्याः कूटस्थाः इषीकावद् अवस्थितः; कतमे सप्त तद्यथा पृथिवीकायः अप्कायः तेजःकायः वायुकायः सुखं दुःखं जीवजीवम् एव सप्तमम् इतीमे सप्त कायाः अकृताः अकृतकृताः अनिर्मिताः अनिर्माणकृताः अवध्याः कूटस्थाः इषीकावद् अवस्थितः; ते नेञ्जन्ति; न परिणमन्ति; नान्योन्यं व्याबाधन्ते पुण्याय वा पापाय वा; पुण्यपापाय वा; सुखाय वा दुःखाय वा; सुखदुःखाय वा; यो ऽप्य् असौ पुरुषः पुरुषस्य शिरश् छिनत्ति सो ऽपि न किंचिल् लोके व्याबाधते त्रसं वा स्थावरं वा सप्तानां कायानां विवरम् अन्तरेण शस्त्रं व्यतिवर्तते; न चात्र जीवो वध्यते; तत्र नास्ति कश्चिद् हन्ता वा घातयिता वा (अ 506अ) छेत्ता वा छेदयिता वा; स्मर्ता वा स्मारयिता वा; चोत्ता वा चोदयिता वा; विज्ञप्ता वा विज्ञापयिता वा; चतुर्दशेमानि

योनिप्रमुखसहस्राणि षष्टिसहस्राणि महाप्रतिपदः षट् शतानि पञ्च च कर्माणि त्रीणि च कर्माणि द्वे च कर्मणी कर्म च अर्धकर्म च द्वाषष्टिः कर्माणि द्वाषष्टिः अन्तरप्रतिपदः सप्त संज्ञाः विंशत्यधिकं नरकशतं त्रिंशदधिकम् इन्द्रियशतं षट्त्रिंशद् रजोधातवः एकान्नपञ्चाशन् नागकुलसहस्राणि एकान्नपञ्चाशत् सुपर्णिकुलसहस्राण्य् एकान्नपञ्चाशद् आजीवकुलसहस्राण्य् एकान्नपञ्चाशद् अचेलकुलसहस्राण्य् एकान्नपञ्चाशन् निग्रन्थकुलसहस्राण्य् सप्त संज्ञिकल्पाः सप्त (sbv ii 225) असंज्ञिकल्पाः सप्त सुराः सप्त पैशाचाः सप्त आदित्याः सप्त मानुषाः सप्त सरांसि सप्त सरश्शतानि सप्त अपायाः सप्त अपायशतानि सप्त स्वप्नाः सप्त स्वप्नशतानि सप्त प्रबुद्धाः सप्त प्रबुद्धशतानिसप्त प्रपाताः सप्त प्रपातशतानि षड् अभिजातयो दश अभिवृद्धयः अष्टौ महापुरुषभूमयः इति; इमानि चतुरशीतिर् महाकल्पसहस्राणि यानि बालश् च पण्डितश् च संधाव्य संसृत्य दुःखस्यान्तं कुरुतः; तद्यथा लघुसूत्रगुडकम् उपरि विहायसा क्षिप्तं यावत् पृथिवीम् उद्वेष्ट्यमानं परैत्य् एवम् एवैतानि चतुरशीतिर् महाकल्पसहस्राणि यानि बालश् च पण्डितश् च संधाव्य संसृत्य दुःखस्यान्तं कुरुतः; तत्र नास्ति कश्चित् श्रमणो वा ब्राह्मणो वा य एवं वदेत्: अहम् अनेन शीलेन वा व्रतेन वा तपसा वा ब्रह्मचर्यवासेन वा अपरिपक्वं वा कर्म परिपाचयिष्यामि परिपक्वं वा कर्म स्पृष्ट्वा वान्तीकरिष्यामि; ध्रुवम् इदं सुखदुःखम्; उत्कर्षापकर्षौ न प्रज्ञायेते; एवं वा नो वा तुलितः संसारः इति 25. तद्यथा भदन्त पुरुषः आम्राणि पृष्टः लकुचानि व्याकुर्यात्, लकुचानि वा पृष्टः आम्राणि व्याकुर्याद् एवम् एव

अजितः केशकम्बलः सान्दृष्टिकं श्रामण्यफलं पृष्टः संसारशुद्धताम् एव व्याकार्षीत्; तस्य मम एतद् अभवत्; कथम् इदानीं मादृशो विज्ञपुरुषः साधुरूपसंमतं विषयनिवासिनं श्रमणं वा ब्राह्मणं वा संमुखम् अवसादयेद् इति; सो ऽहम् अजितस्य केशकम्बलस्य भाषितं नाभिनन्दामि न प्रतिक्रोशामि; अनभिनन्द्य अप्रतिक्रोश्य उत्थायासनात् प्रक्रान्तः

निर्ग्रन्थ ज्ञातिपुत्रऽस् थेओर्य्

26. सो ऽहं येन निर्ग्रन्थो ज्ञातिपुत्रः तेनोपसंक्रान्तः; उपसंक्रम्य निर्ग्रन्थं ज्ञातिपुत्रम् इदम् अवोचम्: इमे भदन्त (sbv ii 226) ज्ञातिपुत्र पृथग्लोकेशिल्पस्थानकर्मस्थानिकाः; तद्यथा मालाकाराः नडकाराः नैषद्यिकाः यावसिकाः सूताः हस्त्यारोहाः अश्वारोहाः रथिकाः त्सरुकाः धनुर्ग्रहाः सेवाः चेटाः पिण्डभुजः उग्राः शूराः प्रस्कन्दिनः महानग्नाः राजपुत्राः आराधकाः कल्पकाः स्नपकाः; ते स्वकस्वकैः शिल्पस्थानकर्मस्थानैः कृत्यानि कुर्वन्ति, दानानि ददति, पुण्यानि कुर्वन्ति, भृत्यान् बिभ्रति; पंचभिश् च कामगुणैः समर्पिताः समन्वङ्गीभूताः क्रीडन्ति रमन्ते परिचारयन्ति; लभ्यम् एवंरूपाणां सान्दृष्टिकं श्रामण्यफलं प्रज्ञप्तुम् 27. (अ 506ब्) स एवम् आह: अहम् अस्मि महाराज एवंदृष्टिर् एवंवादी; यत् किंचिद् अयं पुरुषपुद्गलः प्रतिवेदयते सर्वं तत् पूर्वहैतुकम् इति पुराणानां कर्मणां तपसा वान्तीभावः; नवानां कर्मणाम् अकरणसतुसमुद्घातः; एवम् आय्त्याम् अनवस्रवः; अनवस्रवात् कर्मक्षयः; कर्मक्षयाद् दुह्खक्षयः; दुःखक्षयाद् दुःखस्यान्तक्रिया भवति इति 28. तद्यथा भदन्त पुरुषः आम्राणि पृष्टो लकुचानि व्याकुर्यात्, लकुचानि वा पृष्टः आम्राणि व्याकुर्याद् एवम् एव मया भदन्त निर्ग्रन्थो ज्ञातिपुत्रः सान्दृष्टिकं श्रामण्यफलं पृष्टः पूर्वकृतहेतुताम् एव व्याकार्षीत्; तस्य मम भदन्त एतद् अभवत्; न मम प्रतिरूपं स्याद् यद् अहं साधुरूपसंमतं विषयनिवासिनं श्रमणं वा ब्राह्मणं वा संमुखम् अवसादयेयम् इति; सो ऽहं निर्ग्रन्थस्य ज्ञातिपुत्रस्य भाषितं नाभिनन्दामि न प्रतिक्रोशामि; अनभिनन्द्य अप्रतिक्रोश्य उत्थायासनात् प्रक्रान्तः

ककुद कात्यायनऽस् थेओर्य्

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.