Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa
सद्धर्मपुण्डरीकसूत्र
- Thông tin
- GRETIL — P.L. Vaidya, Darbhanga : The Mithila Institute, 1960 (Buddhist Sanskrit Texts, 6).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
न च शरीरं धातुभेदेन भेत्स्यते । एकघनं चास्य शरीरं भविष्यति सप्तरत्नस्तूपं प्रविष्टम् । स च स्तूपः षष्टियोजनशतान्युच्चैस्त्वेन भविष्यति, चत्वारिंशद्योजनान्यायामेन । सर्वे च तत्र देवमनुष्याः पूजां करिष्यन्ति पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिर्गाथाभिः । तेन चाभिष्टोष्यन्ति । ये च तं स्तूपं प्रदक्षिणं करिष्यन्ति प्रणामं वा, तेषां केचिदग्रफलमर्हत्त्वं साक्षात्करिष्यन्ति केचित् प्रत्येकबोधिमनुप्राप्स्यन्ते अचिन्त्याचाश्चाप्रमेया देवमनुष्या अनुत्तरायां सम्यक्संबोधौ चित्तान्युत्पाद्य अविनिवर्तनीया भविष्यन्ति ॥
अथ खलु भगवान् पुनरेव भिक्षुसंघमामन्त्रयते स्म - यः कश्चित् भिक्षवो ऽनागते ऽध्वनि कुलपुत्रो वा कुलदुहिता वा इमं सद्धर्मपुण्डरीकं सूत्रपरिवर्तं श्रोष्यति, श्रुत्वा च न काङ्क्षिष्यति न विचिकित्सिष्यति, विशुद्धचित्तश्चाधिमोक्ष्यते, तेन तिसृणां दुर्गतीनां द्वारं पिथितं भविष्यति ः नरकतिर्यग्योनियमलोकोपपत्तिषु न पतिष्यति । दशदिग्बुद्धक्षेत्रोपपन्नश्चेदमेव सूत्रं जन्मनि जन्मनि श्रोष्यति । देवमनुष्यलोकोपपन्नस्य चास्य विशिष्टस्थानप्राप्तिर्भविष्यति । यस्मिंश्च बुद्धक्षेत्र उपपत्स्यते, तस्मिन्नौपपादुके सप्तरत्नमये पद्मे उपपत्स्यते तथागतस्य संमुखम् ॥
अथ खलु तस्यां वेलायामधस्ताद्दिशः प्रभूतरत्नस्य तथागतस्य बुद्धक्षेत्रादागतः प्रज्ञाकूटो नाम बोधिसत्त्वः । स तं प्रभूतरत्नं तथागतमेतदवोचत् - गच्छामो भगवन् स्वकं बुद्धक्षेत्रम् । अथ खलु भगवान् शाक्यमुनिस्तथागतः प्रज्ञाकूटं बोधिसत्त्वमेतदवोचत् - मुहूर्तं तावत् कुलपुत्र आगमयस्व यावन्मदीयेन बोधिसत्त्वेन मञ्जुश्रिया कुमारभूतेन सार्धं कंचिदेव धर्मविनिश्चयं कृत्वा पश्चात् स्वकं बुद्धक्षेत्रं गमिष्यसि । अथ खलु तस्यां वेलायां मञ्जुश्रीः कुमारभूतः सहस्रपत्रे पद्मे शकटचक्रप्रमाणमात्रे निषण्णो ऽनेकबोधिसत्त्वपरिवृतः पुरस्कृतः समुद्रमध्यात् सागरनागराजभवनादभ्युद्गम्य उपरि वैहायसं खगपथेन गृध्रकूटे पर्वते भगवतो ऽन्तिकमुपसंक्रान्तः । अथ मञ्जुश्रीः कुमारभूतः पद्मादवतीर्य भगवतः शाक्यमुनेः प्रभूतरत्नस्य च तथागतस्य पादौ शिरसाभिवन्दित्वा येन प्रज्ञाकूटो बोधिसत्त्वस्तेनोपसंक्रान्तः । उपसंक्रम्य प्रज्ञाकूटेन बोधिसत्त्वेन सार्धं संमुखं संमोदनीं संरञ्जनीं विविधां कथामुपसंगृह्य एकान्ते न्यषीदत् । अथ खलु प्रज्ञाकूटो बोधिसत्त्वो मञ्जुश्रियं कुमारभूतमेतदवोचत् - समुद्रमध्यगतेन त्वया मञ्जुश्रीः कियान् सत्त्वधातुर्विनीतः? मञ्जुश्रीराह - अनेकान्यप्रमेयाण्यसंख्येयानि सत्त्वानि विनीतानि । तावदप्रमेयाण्यसंख्येयानि यावद्वाचा न शक्यं विज्ञापयितुं चित्तेन वा चिन्तयितुम् (वैद्य 160) । मुहूर्तं तावत् कुलपुत्र आगमयस्व यावत् पूर्वनिमित्तं द्रक्ष्यसि । समनन्तरभाषिता चेयं मञ्जुश्रिया कुमारभूतेन वाक्, तस्यां वेलायामनेकानि पद्मसहस्राणि
समुद्रमध्यादभ्युद्गतानि उपरि वैहायसम् । तेषु च पद्मेष्वनेकानि बोधिसत्त्वसहस्राणि संनिषण्णानि । अथ ते बोधिसत्त्वास्तेनैव खगपथेन येन गृध्रकूटः पर्वतस्तेनोपसंक्रान्ताः । उपसंक्रम्य ततश्चोपरि वैहायसं स्थिताः संदृश्यन्ते स्म । सर्वे च ते मञ्जुश्रिया कुमारभूतेन विनीता अनुत्तरायां सम्यक्संबोधौ । तत्र ये बोधिसत्त्वा महायानसंप्रस्थिताः पूर्वमभूवन्, ते महायानगुणान् षट् पारमिताः संवर्णयन्ति । ये श्रावकपूर्वा बोधिसत्त्वास्ते श्रावकयानमेव संवर्णयन्ति । सर्वे च ते सर्वधर्मान् शून्यानिति संजानन्ति स्म, महायानगूणांश्च । अथ खलु मञ्जुश्रीः कुमारभूतः प्रज्ञाकूटं बोधिसत्त्वमेतदवोचत् - सर्वो ऽयं कुलपुत्र मया समुद्रमध्यगतेन सत्त्वविनयः कृतः । स चायं संदृश्यते । अथ खलु प्रज्ञाकूटो बोधिसत्त्वो मञ्जुश्रियं कुमारभूतं गाथाभिगीतेन परिपृच्छति -
महाभद्र प्रज्ञया सूरनामन् असंख्येया ये विनीतास्त्वयाद्य / सत्त्वा अमी कस्य चायं प्रभावस्तद्बूहि पृष्टो नरदेव त्वमेतत् // saddhp_11.47 //
कं वा धर्मं देशितवानसि त्वं किं वा सूत्रं बोधिमार्गोपदेशम् / यच्छ्रुत्वामी बोधये जातचित्ताः सर्वज्ञत्वे निश्चितं लब्धगाधाः // saddhp_11.48 //
मञ्जुश्रीराह - समुद्रमध्ये सद्धर्मपुण्डरीकं सूत्रं भाषितवान्, न चान्यत् । प्रज्ञाकूट आह - इदं सूत्रं गम्भीरं सूक्ष्मं दुर्दृशम्, न चानेन सुत्रेण किंचिदन्यत् सूत्रं सममस्ति । अस्ति कश्चित् सत्त्वो य इदं सूत्ररत्नं सत्कुर्यादवबोद्धुमनुत्तरां सम्यक्संबोधिमभिसंबोद्धुम्? मञ्जुश्रीराह - अस्ति कुलपुत्र सागरस्य नागराज्ञो दुहिता अष्टवर्षा जात्या महाप्रज्ञा तीक्ष्णेन्द्रिया ज्ञानपूर्वंगमेन कायवाङ्मनस्कर्मणा समन्वागता सर्वतथागतभाषितव्यञ्जनार्थोद्ग्रहणे धारणीप्रतिलब्धा सर्वधर्मसत्त्वसमाधानसमाधिसहस्रैकक्षणप्रतिलाभिनी । बोधिचित्ताविनिवर्तिनी विस्तीर्णप्रणिधाना सर्वसत्त्वेष्वात्मप्रेमानुगता गुणोत्पादने च समर्था । न च तेभ्यः परिहीयते । स्मितमुखी परमया शुभवर्णपुष्कलतया समन्वागता मैत्रचित्ता करुणां च वाचं भाषते । सा सम्यक्संबोधिमभिसंबोद्धुं समर्थां । प्रज्ञाकूटो बोधिसत्त्व आह - दृष्टो मया भगवान् शाक्यमुनिस्तथागतो बोधाय घटमानो बोधिसत्त्वभूतो ऽनेकानि पुण्यानि कृतवान् । अनेकानि च कल्पसहस्राणि न कदाचिद् वीर्यं स्रंसितवान् । त्रिसाहस्रमहासाहस्रायां लोकधातौ नास्ति कश्चिदन्तशः सर्षपमात्रो ऽपि पृथिवीप्रदेशः यत्रानेन शरीरं न निक्षिप्तं सत्त्वहितहेतोः । पश्चाद् बोधिमभिसंबुद्ध । क एवं श्रद्दध्यात्, यदनया शक्यं मुहूर्तेन अनुत्तरां सम्यक्संबोधिमभिसंबोद्धुम्?(वैद्य 161)
अथ खलु तस्यां वेलायां सागरनागराजदुहिता अग्रतः स्थिता संदृश्यते स्म । सा भगवतः पादौ शिरसाभिवन्द्य एकान्ते ऽस्थात् । तस्यां वेलायामिमा गाथा अभाषत -
पुण्यं पुण्यं गभीरं च दिशः स्फुरति सर्वशः / सूक्ष्मं शरीरं द्वात्रिंशल्लक्षणैः समलंकृतम् // saddhp_11.49 //
अनुव्यजनयुक्तं च सर्वसत्त्वनमस्कृतम् / सर्वसत्त्वाभिगम्यं च अन्तरापणवद्यथा // saddhp_11.50 //
यथेच्छया मे संबोधिः साक्षी मे ऽत्र तथागतः / विस्तीर्णं देशयिष्यामि धर्मं दुःखप्रमोचनम् // saddhp_11.51 //
अथ खलु तस्यां वेलायामायुष्मान् शारिपुत्रस्तां सागरनागराजदुहितरमेतदवोचत् - केवलं कुलपुत्रि बोधाय चित्तमुत्पन्नम् । अविवर्त्याप्रमेयप्रज्ञा चासि । सम्यक्संबुद्धत्वं तु दुर्लभम् । अस्ति कुलपुत्रि स्त्री न च वीर्यं स्रंसयति, अनेकानि च कल्पशतान्यनेकानि च कल्पसहस्राणि पुण्यानि करोति, षट् पारमिताः परिपूरयति, न चाद्यापि बुद्धत्वं प्राप्नोति । किं कारणम्? पञ्च स्थानानि स्त्री अद्यापि न प्राप्नोति । कतमानि पञ्च? प्रथमं ब्रह्मस्थानं द्वितीयं शक्रस्थानं तृतीयं महाराजस्थानं चतुर्थं चक्रवर्तिस्थानं पञ्चममवैवर्तिकबोधिसत्त्वस्थानम् ॥
अथ खलु तस्यां वेलायां सागरनागराजदुहितुरेको मणिरस्ति, यः कृत्स्नां महासाहस्रां लोकधातुं मूल्यं क्षमते । स च मणिस्तया सागरनागराजदुहित्रा भगवते दत्तः । स भगवता च अनुकम्पामुपादाय प्रतिगृहीतः । अथ सागरनागराजदुहिता प्रज्ञाकूटं बोधिसत्त्वं स्थविरं च शारिपुत्रमेतदवोचत् - यो ऽयं मणिर्मया भगवतो दत्तः, स च भगवता शीर्घ्रं प्रतिगृहीतो वेति? स्थविर आह - त्वया च शीघ्रं दत्तो भगवता च शीघ्रं प्रतिगृहीतः । सागरनागराजदुहिता आह - यद्यहं भदन्त शारिपुत्र महर्द्धिकी स्याम्, शीघ्रतरं सम्यक्संबोधिमभिसंबुध्येयम् । न चास्य मणेः प्रतिग्राहकः स्यात् ॥
अथ तस्यां वेलायां सागरनागराजदुहिता सर्वलोकप्रत्यक्षं स्थविरस्य च शारिपुत्रस्य प्रत्यक्षं तत् स्त्रीन्द्रियमन्तर्हितं पुरुषेन्द्रियं च प्रादुर्भूतं बोधिसत्त्वभूतं चात्मानं संदर्शयति । तस्यां वेलायां दक्षिणां दिशं प्रक्रान्तः । अथ दक्षिणस्यां दिशि विमला नाम लोकधातुः । तत्र सप्तरत्नमये बोधिवृक्षमूले निषण्णमभिसंबुद्धमात्मानं संदर्शयति स्म, द्वात्रिंशल्लक्षणधरं सर्वानुव्यजनरूपं प्रभया च दशदिशं स्फुरित्वा धर्मदेशनां कुर्वाणम् । ये च सहायां लोकधातौ सत्त्वाः, ते सर्वे तं तथागतं पश्यन्ति स्म, सर्वैश्च देवनागयक्षगन्धर्वासुरगरुडकिन्नरमनुष्यामनुष्यैर्नमस्यमानं धर्मदेशनां च कुर्वन्तम् । ये च सत्त्वास्तस्य तथागतस्य धर्मदेशनां शृण्वन्ति, सर्वे ते ऽविनिवर्तनीया भवन्त्यनुत्तरायां सम्यक्संबोधौ । सा च विमला लोकधातुः, इयं च सहा लोकधातुः षड्विकारं प्राकम्पत् । भगवतश्च शाक्यमुनेः पर्षन्मण्डलानां त्रयाणां प्राणिसहस्राणामनुत्पत्तिकधर्मक्षान्तिप्रतिलाभो ऽभूत् । त्रयाणां च प्राणिशतसहस्राणामनुत्तरायां सम्यक्संबोधौ व्याकरणप्रतिलाभो ऽभूत् । अथ प्रज्ञाकूटो बोधिसत्त्वो महासत्त्वः स्थविरश्च शारिपुत्रस्तूष्णीमभूताम् ॥
इत्यार्यसद्धर्मपुण्डरीके धर्मपर्याये स्तूपसंदर्शनपरिवर्तो नामैकादशमः ॥
saddhp_12: उत्साहपरिवर्तः ।
अथ खलु भैषज्यराजो बोधिसत्त्वो महासत्त्वो महाप्रतिभानश्च बोधिसत्त्वो महासत्त्वो विंशतिबोधिसत्त्वशतसहस्रपरिवारो भगवतः संमुखमिमां वाचमभाषेताम् - अल्पोत्सुको भगवान् भवत्वस्मिन्नर्थे । वयमिमं भगवन् धर्मपर्यायं तथागतस्य परिनिर्वृतस्य सत्त्वानां देशयिष्यामः संप्रकाशयिष्यामः । किंचापि भगवन् शठकाः सत्त्वास्तस्मिन् काले भविष्यन्ति, परीत्तकुशलमूला अधिमानिका लाभसत्कारसंनिश्रिता अकुशलमूलप्रतिपन्ना दुर्दमा अधिमुक्तिविरहिता अनधिमुक्तिबहुलाः, अपि तु खलु पुनर्वयं भगवन् क्षान्तिबलमुपदर्शयित्वा तस्मिन् काले इदं सूत्रमुद्देक्ष्यामो धारयिष्यामो देशयिष्यामो लिखिष्यामः सत्करिष्यामो गुरुकरिष्यामो मानयिष्यामः पूजयिष्यामः । कायजीवितं च वयं भगवन् उत्सृज्य इदं सूत्रं प्रकाशयिष्यामः । अल्पोत्सुको भगवान् भवत्विति ॥
अथ खलु तस्यां पर्षदि शैक्षाशैक्षाणां भिक्षूणां पञ्चमात्राणि भिक्षुशतानि भगवन्त मेतदूचुः - वयमपि भगवन् उत्सहामहे इमं धर्मपर्यायं संप्रकाशयितुम्, अपि तु खलु पुनर्भगवन् अन्यासु लोकधातुष्विति । अथ खलु यावन्तस्ते भगवतः श्रावकाः शैक्षाशैक्षा भगवता व्याकृता अनुत्तरायां सम्यक्संबोधौ, अष्टौ भिक्षुसहस्राणि, सर्वाणि तानि येन भगवांस्तेनाञ्जलिं प्रणमय्य भगवन्तमेतदूचुः - अल्पोत्सुको भगवान् भवतु । वयमपीमं धर्मपर्यायं संप्रकाशयिष्यामस्तथागतस्य परिनिर्वृतस्य पश्चिमे काले पश्चिमे समये अपि त्वन्यासु लोकधातुषु । तत्कस्य हेतोः? अस्यां भगवन् सहायां लोकधातौ अधिमानिकाः सत्त्वा अल्पकुशलमूला नित्यं व्यापन्नचित्ताः शठा वङ्कजातीयाः ॥
अथ खलु महाप्रजापती गौतमी भगवतो मातृभगिनी षड्भिर्भिक्षुणीसहस्रैः सार्धं शैक्षाशैक्षाभिर्भिक्षुणीभिः उत्थायासनाद् येन भगवांस्तेनाञ्जलिं प्रणमय्य भगवन्तमुल्लोकयन्ती स्थिताभूत् । अथ खलु भगवांस्तस्यां वेलायां महाप्रजापतीं गौतमीमामन्त्रयामास - किं त्वं गौतमि दुर्मनस्विनी स्थिता तथागतं व्यवलोकयसि? नाहं परिकीर्तिता व्याकृता च अनुत्तरायां सम्यक्संबोधौ । अपि तु खलु पुनर्गौतमि सर्वपर्षद्वयाकरणेन व्याकृतासि । अपि तु खलु पुनस्त्वं गौतमि इत उपादाय अष्टात्रिंशतां बुद्धकोटीनियुतशतसहस्राणामन्तिके सत्कारं गुरुकारं माननां पूजनामर्चनामपचायनां कृत्वा बोधिसत्त्वा महासत्त्वो धर्मभाणको भविष्यसि । इमान्यपि षड् भिक्षुणीसहस्राणि शैक्षाशैक्षाणां भिक्षुणीनां त्वयैव सार्धं तेषां तथागतानामर्हतां सम्यक्संबुद्धानामन्तिके बोधिसत्त्वा धर्मभाणका भविष्यन्ति । ततः परेण परतरेण बोधिसत्त्वचर्यां परिपूर्य सर्वसत्त्वप्रियदर्शनो नाम तथागतो ऽर्हन् सम्यक्संबुद्धो लोके भविष्यसि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान् । स च गौतमि सर्वसत्त्वप्रियदर्शनस्तथागतो ऽर्हन् सम्यक्संबुद्धस्तानि षड् बोधिसत्त्वसहस्राणि परंपराव्याकरणेन व्याकरिष्यत्यनुत्तरायां सम्यक्संबोधौ ॥
अथ खलु राहुलमातुर्यशोधराया भिक्षुण्या एतदभवत् - न मे भगवता नामधेयं परिकीर्तितम् । अथ खलु भगवान् यशोधराया भिक्षुण्याश्चेतसैव चेतःपरिवितर्कमाज्ञाय यशोधरां भिक्षुणीमेतदवोचत् - आरोचयामि ते यशोधरे, प्रतिवेदयामि ते । त्वमपि दशानां बुद्धकोटीसहस्राणामन्तिके सत्कारं गुरुकारं माननां पूजनामर्चनामपचायनां कृत्वा बोधिसत्त्वो धर्मभाणको भविष्यसि । बोधिसत्त्वचर्यां च अनुपूर्वेण परिपूर्य रश्मिशतसहस्रपरिपूर्णध्वजो नाम तथागतो ऽर्हन् सम्यक्संबुद्धो लोके भविष्यसि विधाचरणसंपन्नः सुगतोलोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान् भद्रायां लोकधातौ । अपरिमितं च तस्य भगवतो रश्मिशतसहस्रपरिपूर्णध्वजस्य तथागतस्यार्हतः सम्यक्संबुद्धस्यायुष्प्रमाणं भविष्यति ॥
अथ खलु महाप्रजापती गौतमी भिक्षुणी षड्भिक्षुणीसहस्रपरिवारा यशोधरा च भिक्षुणी चतुर्भिक्षुणीसहस्रपरिवारा भगवतो ऽन्तिकात् स्वकं व्याकरणं श्रुत्वा अनुत्तरायां सम्यक्संबोधौ आश्चर्यप्राप्ता अद्भुतप्राप्ताश्च तस्यां वेलायामिमां गाथामभाषन्त -
भगवन् विनेतासि विनायको ऽसि शास्तासि लोकस्य सदेवकस्य / आश्वासदाता नरदेवपूजितो वयं पि संतोषित अद्य नाथ // saddhp_12.1 //
अथ खलु ता भिक्षुण्यः इमां गाथां भाषित्वा भगवन्तमेतदूचुः - वयमपि भगवन् समुत्सहामहे इमं धर्मपर्यायं संप्रकाशयितुं पश्चिमे काले पश्चिमे समये, अपि त्वन्यासु लोकधातुष्विति ॥
अथ खलु भगवान् येन तान्यशीतिबोधिसत्त्वकोटीनयुतशतसहस्राणि धारणीप्रतिलब्धानां बोधिसत्त्वानामवैवर्तिकधर्मचक्रप्रवर्तकानां तेनावलोकयामास । अथ खलु ते बोधिसत्त्वा महासत्त्वाः समनन्तरावलोकिता भगवता उत्थायासनेभ्यो येन भगवांस्तेनाञ्जलिं प्रणाम्यैवं चिन्तयामासुः - अस्माकं भगवान् अध्येषति अस्य धर्मपर्यायस्य संप्रकाशनतायै । ते खल्वेवमनुविचिन्त्य संप्रकम्पिताः परस्परमूचुः - कथं वयं कुलपुत्राः करिष्यामो यद् भगवानध्येषति अस्य धर्मपर्यायस्यानागते ऽध्वनि संप्रकाशनतायै? अथ खलु ते कुलपुत्रा भगवतो गौरवेण आत्मनश्च पुर्वचर्याप्रणिधानेन भगवतो ऽभिमुखं सिंहनादं नदन्ते स्म - वयं भगवन् अनागते ऽध्वनि इमं धर्मपर्यायं तथागते परिनिर्वृते दशसु दिक्षु गत्वा सर्वसत्त्वांल्लेखयिष्यामः पाठयिष्यामश्चिन्तापयिष्यामः प्रकाशयिष्यामो भगवत एवानुभावेन । भगवांश्च अस्माकमन्यलोकधातुस्थितो रक्षावरणगुप्तिं करिष्यति ॥
अथ खलु ते बोधिसत्त्वा महासत्त्वाः समसंगीत्या भगवन्तमाभिर्गाथाभिरध्यभाषन्त -(वैद्य 164)
अल्पोत्सुकस्त्वं भगवन् भवस्व वयं तदा ते परिनिर्वृतस्य / स्वं पश्चिमे कालि सुभैरवस्मिन् प्रकाशयिष्यामिद सूत्रमुत्तमम् // saddhp_12.2 //
आक्रोशांस्तर्जनांश्चैव दण्ड-उद्गूरणानि च / बालानां संसहिष्यामो ऽधिवासिष्याम नायक // saddhp_12.3 //
दुर्बुद्धिनश्च वङ्काश्च शठा बालाधिमानिनः / अप्राप्ते प्राप्तसंज्ञी च घोरे कालस्मि पश्चिमे // saddhp_12.4 //
अरण्यवृत्तकाश्चैव कन्थां प्रावरियाण च / संलेखवृत्तिचारि स्म एवं वक्ष्यन्ति दुर्मती // saddhp_12.5 //
रसेषु गृद्ध सक्ताश्च गृहीणां धर्म देशयी / सत्कृताश्च भविष्यन्ति षडभिज्ञा यथा तथा // saddhp_12.6 //
रौद्रचित्ताश्च दुष्टाश्च गृहवित्तविचिन्तकाः / अरण्यगुप्तिं प्रविशित्वा अस्माकं परिवादकाः // saddhp_12.7 //
अस्माकं चैव वक्ष्यन्ति लाभसत्कारनिश्रिताः / तीर्थिका बतिमे भिक्षू स्वानि काव्यानि देशयुः // saddhp_12.8 //
स्वयं सूत्राणि ग्रन्थित्वा लाभसत्कारहेतवः / पर्षाय मध्ये भाषन्ते अस्माकमनुकुट्टकाः // saddhp_12.9 //
राजेषु राजपुत्रेषु राजामात्येषु वा तथा / विप्राणां गृहपतीनां च अन्येषां चापि भिक्षुणाम् // saddhp_12.10 //
वक्ष्यन्त्यवर्णमस्माकं तीर्थ्यवादं च कारयी / सर्वं वयं क्षमिष्यामो गौरवेण महर्षिणाम् // saddhp_12.11 //
ये चास्मान् कुत्सयिष्यन्ति तस्मिन् कालस्मि दुर्मती / इमे बुद्धा भविष्यन्ति क्षमिष्यामथ सर्वशः // saddhp_12.12 //
कल्पसंक्षोभमीष्मस्मिन् दारुणस्मि महाभये / यक्षरूपा बहु भिक्षू अस्माकं परिभाषकाः // saddhp_12.13 //
गौरवेणेह लोकेन्द्रे उत्सहाम सुदुष्करम् / क्षान्तीय कक्ष्यां बन्धित्वा सूत्रमेतं प्रकाशये // saddhp_12.14 //
अनर्थिकाः स्म कायेन जीवितेन च नायक / अर्थिकाश्च स्म बोधीय तव निक्षेपधारकाः // saddhp_12.15 //
भगवानेव जानीते यादृशाः पापभिक्षवः / पश्चिमे कालि भेष्यन्ति संधाभाष्यमजानकाः // saddhp_12.16 //
भृकुटी सर्व सोढव्या अप्रज्ञप्तिः पुनः पुनः / निष्कासनं विहारेभ्यो बन्धकुट्टी बहूविधा // saddhp_12.17 //
आज्ञप्तिं लोकनाथस्य स्मरन्ता कालि पश्चिमे / भाषिष्याम इदं सूत्रं पर्षन्मध्ये विशारदाः // saddhp_12.18 //
नगरेष्वथ ग्रामेषु ये भेष्यन्ति इहार्थिकाः / गत्वा गत्वास्य दास्यामो निक्षेपं तव नायक // saddhp_12.19 //
प्रेषणं तव लोकेन्द्र करिष्यामो महामुने / अल्पोत्सुको भव त्वं हि शान्तिप्राप्तो सुनिर्वृतः // saddhp_12.20 //
सर्वे च लोकप्रद्योता आगता ये दिशो दश / सत्यां वाचं प्रभाषामो अधिमुक्तिं विजानसि // saddhp_12.21 //
इत्यार्यसद्धर्मपुण्डरीके धर्मपर्याये उत्साहपरिवर्तो नाम द्वादशमः ॥
saddhp_13: सुखविहारपरिवर्तः ।
अथ खलु मञ्जुश्रीः कुमारभूतो भगवन्तमेतदवोचत - दुष्करं भगवन् परमदुष्करमेभिर्बोधिसत्त्वैर्महासत्त्वैरुत्सोढं भगवतो गौरवेण । कथं भगवन् एभिर्बोधिसत्त्वैर्महासत्त्वैरयं धर्मपर्यायः पश्चिमे काले पश्चिमे समये संप्रकाशयितव्यः? एवमुक्ते भगवान् मञ्जुश्रियं कुमारभूतमेतदवोचत् - चतुर्षु मञ्जुश्रीर्धर्मेषु प्रतिष्ठितेन बोधिसत्त्वेन महासत्त्वेन अयं धर्मपर्यायः पश्चिमे काले पश्चिमे समये संप्रकाशयितव्यः । कतमेषु चतुर्षु? इह मञ्जुश्रीर्बोधिसत्त्वेन महासत्त्वेन आचारगोचरप्रतिष्ठितेन अयं धर्मपर्यायं पश्चिमे काले पश्चिमे समये संप्रकाशयितव्यः । कथं च मञ्जुश्रीर्बोधिसत्त्वो महासत्त्व आचारगोचरप्रतिष्ठितो भवति? यदा च मञ्जुश्रीर्बोधिसत्त्वो महासत्त्वः क्षान्तो भवति, दान्तो दान्तभूमिमनुप्राप्तो ऽनुत्रस्तासंत्रस्तमना अनभ्यसूयकः, यदा च मञ्जुश्रीर्बोधिसत्त्वो महासत्त्वो न कस्मिंश्चिद्धर्मे चरति, यथाभूतं च धर्माणां स्वलक्षणं व्यवलोकयति । या खल्वेषु धर्मेष्वविचारणा अविकल्पना, अयमुच्यते मञ्जुश्रीर्बोधिसत्त्वस्य महासत्त्वस्याचारः । कतमश्च मञ्जुश्रीर्बोधिसत्त्वस्य महासत्त्वस्य गोचरः? यदा च मञ्जुश्रीर्बोधिसत्त्वो महासत्त्वो न राजानं संसेवते, न राजपुत्रान् न राजमहामात्रान् न राजपुरुषान् संसेवते न भजते न पर्युपास्ते नोपसंक्रामति, नान्यतीर्थ्याश्चरकपरिव्राजकाजीवकनिर्ग्रन्थान् न काव्यशास्त्रप्रसृतान् सत्त्वान् संसेवते, न भजते न पर्युपास्ते, न च लोकायतमन्त्रधारकान् न लोकायतिकान् सेवते न भजते न पर्युपास्ते, न च तैः सार्धं संस्तवं करोति । न चाण्डलान् न मौष्टिकान् न
सौकरिकान् न कौक्कुटिकान् न मृगलुब्धकान् न मांसिकान् न नटनृत्तकान् न झल्लान् न मल्लान् । अन्यानि परेषां रतिक्रीडास्थानानि तानि नोपसंक्रामति । न च तैः सार्धं संस्तवं करोति । अन्यत्रोपसंक्रान्तानां कालेन कालं धर्मं भाषते, तं चानिश्रितो भाषते । श्रावकयानीयांश्च भिक्षुभिक्षुण्युपासकोपासिका न सेवते न भजते न पर्युपास्ते, न च तैः सार्धं संस्तवं करोति । न च तैः सह समवधानगोचरो भवति चंक्रमे वा विहारे वा । अन्यत्रोपसंक्रान्तानां चैषां कालेन कालं धर्मं भाषते, तं चानिश्रितो भाषते । अयं मञ्जुश्रीर्बोधिसत्त्वस्य महासत्त्वस्य गोचरः ॥
पुनरपरं मञ्जुश्रीर्बोधिसत्त्वो महासत्त्वो न मातृग्रामस्य अन्यतरान्यतरमनुनयनिमित्तमुद्गृह्य अभीक्ष्णं धर्मं देशयति, न च मातृग्रामस्य अभीक्ष्णं दर्शनकामो भवति । न च कुलान्युपसंक्रमति, न च दारिकां वा कन्यां वा वधुकां वा अभीक्ष्णमाभाषितव्यां मन्यते, न प्रतिसंमोदयति । न च पण्डकस्य धर्मं देशयति, न च तेन सार्धं संस्तवं करोति, न च प्रतिसंमोदयति । न चैकाकी भिक्षार्थमन्तर्गृहं प्रविशति अन्यत्र तथागतानुस्मृतिं भावयमानः । सचेत्पुनर्मातृग्रामस्य धर्मं देशयति, स नान्तशो धर्मसंरागेणापि धर्मं (वैद्य 167) देशयति, कः पुनर्वादः स्त्रीसंरागेण । नान्तशो दन्तावलीमप्युपदर्शयति, कः पुनर्वाद औदारिकमुखविकारम् । न च श्रामणेरं न च श्रामणेरीं न भिक्षुं न भिक्षुणीं न कुमारकं न कुमारिकां सातीयति, न च तैः सार्धं संस्तवं करोति, न च संलापं करोति । स च प्रतिसंलयनगुरुको भवति, अभीक्ष्णं च प्रतिसंलयनं सेवते । अयमुच्यते मञ्जुश्रीर्बोधिसत्त्वस्य महासत्त्वस्य प्रथमो गोचरः ॥
पुनरपरं मञ्जुश्रीर्बोधिसत्त्वो महासत्त्वः सर्वधर्मान् शून्यान् व्यवलोकयति, यथावत् प्रतिष्ठितान् धर्मान् अविपरीतस्थायिनो यथाभूतस्थितानचलानकम्प्यानविवर्त्यानपरिवर्तान् सदा यथाभूतस्थितानाकाशस्वभावान्निरुक्तिव्यवहारविवर्जितानजातानभुतान् अनसंभूतान् असंस्कृतान् असंतानान् असत्ताभिलापप्रव्याहृतानसङ्गस्थानस्थितान् संज्ञाविपर्यासप्रादुर्भूतान् । एवं हि मञ्जुश्रीर्बोधिसत्त्वो महासत्त्वो ऽभीक्ष्णं सर्वधर्मान् व्यवलोकयन् विहरति अनेन विहारेण विहरन् बोधिसत्त्वो महासत्त्वो गोचरे स्थितो भवति । अयं मञ्जुश्रीर्बोधिसत्त्वस्य द्वितीयो गोचरः ॥
अथ खलु भगवानेतमेवार्थं भूयस्या मात्रया संदर्शयमानस्तस्यां वेलायामिमा गाथा अभाषत -
यो बोधिसत्त्व इच्छेया पश्चात्काले सुदारुणे / इदं सूत्रं प्रकाशेतुं अनोलीनो विशारदः // saddhp_13.1 //
आचारगोचरं रक्षेदसंसृष्टः शुचिर्भवेत् / वर्जयेत्संस्तवं नित्यं राजपुत्रेहि राजभिः // saddhp_13.2 //
ये चापिं राजपुरुषाः कुर्यात्तेहि न संस्तवम् / चण्डालमुष्टिकैः शौण्डैस्तीर्थिकैश्चापि सर्वशः // saddhp_13.3 //
अधिमानीन्न सेवेत विनये चागमे स्थितान् / अर्हन्तसंमतान् भिक्षून् दुःशीलांश्चैव वर्जयेत् // saddhp_13.4 //
भिक्षुणीं वर्जयेन्नित्यं हास्यसंलापगोचराम् / उपासिकाश्च वर्जेत प्राकटा या अवस्थिताः // saddhp_13.5 //
या निर्वृतिं गवेषन्ति दृष्टे धर्मे उपासिकाः / वर्जयेत् संस्तवं ताभिः आचारो अयमुच्यते // saddhp_13.6 //
यश्चैनमुपसंक्रम्य धर्मं पृच्छे ऽग्रबोधये / तस्य भाषेत् सदा धीरो अनोलीनो अनिश्रितः // saddhp_13.7 //
स्त्रीपण्डकाश्च ये सत्त्वाः संस्तवं तैर्विवर्जयेत् / कुलेषु चापि वधुकां कुमार्यश्च विवर्जयेत् // saddhp_13.8 //
न ता संमोदयेज्जातु कौशल्यं हास पृच्छितुम् / संस्तवं तेहि वर्जेत सौकरौरभ्रिकैः सह // saddhp_13.9 //
ये चापि विविधान् प्राणीन् हिंसेयुर्भोगकारणात् / मांसं सूनाय विक्रेन्ति संस्तवं तैर्विवर्जयेत् // saddhp_13.10 //
स्त्रीपोषकाश्च ये सत्त्वा वर्जयेत्तेहि संस्तवम् / नटेभिर्झल्लमल्लेभिर्ये चान्ये तादृशा जनाः // saddhp_13.11 //
वारमुख्या न सेवेत ये चान्ये भोगवृत्तिनः / प्रतिसंमोदनं तेभिः सर्वशः परिवर्जयेत् // saddhp_13.12 //
यदा च धर्मं देशेया मातृग्रामस्य पण्डितः / न चैकः प्रविशेत्तत्र नापि हास्यस्थितो भवेत् // saddhp_13.13 //
यदापि प्रविशेद् ग्रामं भोजनार्थी पुनः पुनः / द्वितीयं भिक्षु मार्गेत बुद्धं वा समनुस्मरेत् // saddhp_13.14 //
आचारगोचरो ह्येष प्रथमो मे निदर्शितः / विहरन्ति येन सप्रज्ञा धारेन्ता सूत्रमीदृशम् // saddhp_13.15 //
यदा न चरते धर्मं हीनौत्कृष्टमध्यमे / संस्कृतासंस्कृते चापि भूताभूते च सर्वशः // saddhp_13.16 //
स्त्रीति नाचरते धीरो पुरुषेति न कल्पयेत् / सर्वधर्म अजातत्वाद् गवेषन्तो न पश्यति // saddhp_13.17 //
आचारो हि अयं उक्तो बोधिसत्त्वान सर्वशः / गोचरो यादृशस्तेषां तं शृणोथ प्रकाशतः // saddhp_13.18 //
असन्तका धर्म इमे प्रकाशिता अप्रादुभूताश्च अजात सर्वे / शून्या निरीहा स्थित नित्यकालं अयं गोचरो उच्यति पण्डितानाम् // saddhp_13.19 //
विपरीतसंज्ञीहि इमे विकल्पिता असन्तसन्ता हि अभूतभूततः / अनुत्थिताश्चापि अजातधर्मा जाताथ भूता विपरीतकल्पिताः // saddhp_13.20 //
एकाग्रचित्तो हि समाहितः सदा सुमेरुकूटो यथ सुस्थितश्च / एवं स्थितश्चापि हि तान् निरीक्षेदाकाशभूतानिम सर्वधर्मान् // saddhp_13.21 //
सदापि आकाशसमानसारकान् अनिञ्जितान् मन्यनवर्जितांश्च / स्थिता हि धर्मा इति नित्यकालं अयु गोचरो उच्यति पण्डितानाम् // saddhp_13.22 //
ईर्यापथं यो मम रक्षमाणो भवेत भिक्षू मम निर्वृतस्य / प्रकाशयेत् सूत्रमिदं हि लोके न चापि संलीयन तस्य काचित् // saddhp_13.23 //
कालेन वा चिन्तयमानु पण्डितः प्रविश्य लेनं तथ घट्टयित्वा / विपश्य धर्मं इमु सर्व योनिशो उत्थाय देशेत अलीनचित्तः // saddhp_13.24 //
राजान तस्येह करोन्ति रक्षां ये राजपुत्राश्च शृणोन्ति धर्मम् / अन्ये ऽपि चो गृहपति ब्राह्मणाश्च परिवार्य सर्वे ऽस्य स्थिता भवन्ति // saddhp_13.25 //
पुनरपरं मञ्जुश्रिर्बोधिसत्त्वो महासत्त्वस्तथागतस्य परिनिर्वृतस्य पश्चिमे काले पश्चिमे समये सद्धर्मविप्रलोपे वर्तमाने इमं धर्मपर्यायं संप्रकाशयितुकामः सुखस्थितो भवति । स सुखस्थितश्च धर्मं भाषते कायगतं वा पुस्तकगतं वा । परेषां च देशयमानो नाधिमात्रमुपालम्भजातीयो भवति, न चान्यान् धर्मभाणकान् भिक्षून् परिवदति, न चावर्णं भाषते, न चावर्णं निश्चारयति, न चान्येषां श्रावकयानीयानां भिक्षूणां नाम गृहीत्वा अवर्ण भाषते, न चावर्णं चारयति, न च तेषामन्तिके प्रत्यर्थिकसंज्ञी भवति । तत्कस्य हेतोः? यथापीदं सुखस्थानवस्थितत्वात् । स आगतागतानां धार्मश्रावणिकानामनुपरिग्राहिकया अनभ्यसूयया (वैद्य 170) धर्मं देशयति । अविवदमानो न च प्रश्नं पृष्टः श्रावकयानेन विसर्जयति । अपि तु खलु पुनस्तथा विसर्जयति, यथा बुद्धज्ञानमभिसंबुध्यते ॥
अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत -
सुखस्थितो भोति सदा विचक्षणः सुखं निषण्णस्तथ धर्मु भाषते / उदार प्रज्ञप्त करित्व आसनं चौक्षे मनोज्ञे पृथिवीप्रदेशे // saddhp_13.26 //
चौक्षं चासौ चीवर प्रावरित्वा सुरक्तरङ्गं सुप्रशस्तरङ्गैः / आसेवकां कृष्ण तथाददित्वा महाप्रमाणं च निवासयित्वा // saddhp_13.27 //
सपादपीठस्मि निषद्य आसने विचित्रदूष्येहि सुसंस्तृतस्मिन् / सुधौतपादश्च उपारुहित्वा स्निग्धेन शीर्षेण मुखेन चापि // saddhp_13.28 //
धर्मासने चात्र निषीदियान एकाग्रसत्त्वेषु समागतेषु / उपसंहरेच्चित्रकथा बहूश्च भिक्षूण चो भिक्षूणिकान चैव // saddhp_13.29 //
उपासकानां च उपासिकानां राज्ञां तथा राजसुतान चैव / विचित्रितार्थां मधुरां कथेया अनभ्यसूयन्तु सदा स पण्डितः // saddhp_13.30 //
पृष्टो ऽपि चासौ तद प्रश्न तेहि अनुलोममर्थं पुनर्निर्दिशेत / तथा च देशेय तमर्थजातं यथ श्रुत्व बोधीय भवेयु लाभिनः // saddhp_13.31 //
किलासितां चापि विवर्जयित्वा न चापि उत्पादयि खेदसंज्ञाम् / अरतिं च सर्वां विजहेत पण्डितो मैत्रीबलं चा परिषाय भावयेत् // saddhp_13.32 //
भाषेच्च रात्रिंदिवमग्रधर्मं दृष्टान्तकोटीनयुतैः स पण्डितः / संहर्षयेत्पर्ष तथैव तोषयेन्न चापि किंचित्ततु जातु प्रार्थयेत् // saddhp_13.33 //
खाद्यं च भोज्यं च तथान्नपानं वस्त्राणि शय्यासन चीवरं वा / गिलानभैषज्य न चिन्तयेत न विज्ञपेया परिषाय किंचित् // saddhp_13.34 //
अन्यत्र चिन्तेय सदा विचक्षणो भवेय बुद्धो ऽहमिमे च सत्त्वाः / एतन्ममो सर्वसुखोपधानं यं धर्म श्रावेमि हिताय लोके // saddhp_13.35 //
यश्चापि भिक्षू मम निर्वृतस्य अनीर्षुको एत प्रकाशयेया / न तस्य दुःखं न च अन्तरायो शोकोपयासा न भवेत्कदाचित् // saddhp_13.36 //
न तस्य संत्रासन कश्चि कुर्यान्न ताडनां नापि अवर्ण भाषेत् / न चापि निप्कासन जातु तस्य तथा हि सो क्षान्तिबले प्रतिष्ठितः // saddhp_13.37 //
सुखस्थितस्यो तद पण्डितस्य एवं स्थितस्यो यथ भाषितं मया / गुणान कोटीशत भोन्त्यनेके न शक्यते कल्पशते हि वक्तुम् // saddhp_13.38 //
पुनरपरं मञ्जुश्रीर्बोधिसत्त्वो महासत्त्वस्तथागतस्य परिनिर्वृतस्य सद्धर्मक्षयान्तकाले वर्तमाने इदं सूत्रं धारयमाणो बोधिसत्त्वो महासत्त्वो ऽनीर्षुको भवत्यशठो ऽमायावी, न चान्येषां बोधिसत्त्वयानीयानां पुद्गलानामवर्णं भाषते, नापवदति नावसादयति । न चान्येषां भिक्षुभिक्षुण्युपासकोपासिकानां श्रावकयानीयानां वा प्रत्येकबुद्धयानीयानां वा बोधिसत्त्वयानीयानां वा कौकृत्यमुपसंहरति - दूरे यूयं कुलपुत्रा अनुत्तरायाः सम्यक्संबोधेः, न तस्यां यूयं (वैद्य 172) सदृश्यध्वे । अत्यन्तप्रमादविहारिणो यूयम् । न यूयं प्रतिबलास्तं ज्ञानमभिसंबोद्धुम् । इत्येवं न कस्यचिद् बोधिसत्त्वयानीयस्य कौकृत्यमुपसंहरति । न च धर्मविवादाभिरतो भवति, न च धर्मविवादं करोति, सर्वसत्त्वानां चान्तिके मैत्रीबलं न विजहाति । सर्वतथागतानां चान्तिके पितृसंज्ञामुत्पादयति, सर्वबोधिसत्त्वानां चान्तिके शास्तृसंज्ञामुत्पादयति । ये च दशसु दिक्षु लोके बोधिसत्त्वा महासत्त्वाः, तानभीक्ष्णमध्याशयेन गौरवेण च नमस्कुरुते । धर्मं च देशयमानो ऽनूनमनधिकं धर्मं देशयति समेन धर्मप्रेम्णा, न च कस्यचिदन्तशो धर्मप्रेम्णाप्यधिकतरमनुग्रहं करोति इमं धर्मपर्यायं संप्रकाशयमानः ॥
अनेन मञ्जुश्रीस्तृतीयेन धर्मेण समन्वागतो बोधिसत्त्वो महासत्त्वस्तथागतस्य परिनिर्वृतस्य सद्धर्मपरिक्षयान्तकाले वर्तमाने इमं धर्मपर्यायं संप्रकाशयमानः सुखस्पर्शं विहरति, अविहेठितश्चेमं धर्मपर्यायं संप्रकाशयति । भवन्ति चास्य धर्मसंगीत्यां सहायकाः । उत्पत्स्यन्ते चास्य धार्मश्रावणिकाः, ये ऽस्येमं धर्मपर्यायं श्रोष्यन्ति श्रद्धास्यन्ति, पत्तीयिष्यन्ति धारयिष्यन्ति पर्यवाप्स्यन्ति लिखिष्यन्ति लिखापयिष्यन्ति, पुस्तकगतं च कृत्वा सत्करिष्यन्ति गुरुकरिष्यन्ति मानयिष्यन्ति पूजयिष्यन्ति ॥
इदमवोचद् भगवान् । इदं वदित्वा सुगतो ह्यथापरमेतदुवाच शास्ता -
शाठ्यं च मानं तथ कूटनां च अशेषतो उज्झिय धर्मभाणकः / ईर्ष्यां न कुर्यात्तथ जातु पण्डितो य इच्छते सूत्रमिदं प्रकाशितुम् // saddhp_13.39 //
अवर्ण जातू न वदेय कस्यचिद्दृष्टीविवादं च न जातु कुर्यात् / कौकृत्यस्थानं च न जातु कुर्यान्न लप्स्यसे ज्ञानमनुत्तर त्वम् // saddhp_13.40 //
सदा च सो आर्जवु मर्दावश्च क्षान्तश्च भोती सुगतस्य पुत्रः / धर्मं प्रकाशेतुः पुनः पुनश्चिमं न तस्य खेदो भवती कदाचित् // saddhp_13.41 //
ये बोधिसत्त्वा दशसू दिशासु सत्त्वानुकम्पाय चरन्ति लोके / ते सर्वि शास्तार भवन्ति मह्यं गुरुगौरवं तेषु जनेत पण्डितः // saddhp_13.42 //
स्मरित्व बुद्धान द्विपदानमुत्तमान् जिनेषु नित्यं पितृसंज्ञ कुर्यात् / अधिमानसंज्ञां च विहाय सर्वां न तस्य भोती तद अन्तरायः // saddhp_13.43 //
श्रुणित्व धर्मं इममेवरूपं स रक्षितव्यस्तद पण्डितेन / सुखं विहाराय समाहितश्च सुरक्षितो भोति च प्राणिकोटिभिः // saddhp_13.44 //
पुनरपरं मञ्जुश्रीर्बोधिसत्त्वो महासत्त्वस्तथागतस्य परिनिर्वृतस्य सद्धर्मप्रतिक्षयान्तकाले वर्तमाने इमं धर्मपर्यायं धारयितुकामस्तेन भिक्षुणा गृहस्थप्रव्रजितानामन्तिकाद् दूरेण दूरं विहर्तव्यम्, मैत्रीविहारेण च विहर्तव्यम् । ये च सत्त्वा बोधाय संप्रस्थिता भवन्ति, तेषां सर्वेषामन्तिके स्पृहोत्पादयितव्या । एवं चानेन चित्तमुत्पादयितव्यम् । महादुष्प्रज्ञजातीया बतेमे सत्त्वाः, ये तथागतस्योपायकौशल्यं संधाभाषितं न शृण्वन्ति न जानन्ति न बुध्यन्ते न पृच्छन्ति न श्रद्दधन्ति नाधिमुच्यन्ते । किंचाप्येते सत्त्वा इमं धर्मपर्यायं नावतरन्ति, न बुध्यन्ते, अपि तु खलु पुनरहमेतामनुत्तरां सम्यक्संबोधिमभिसंबुध्य यो यस्मिन् स्थितो भविष्यति, तं तस्मिन्नेव ऋद्धिबलेनावर्जयिष्यामि पत्तीयापयिष्यामि अवतारयिष्यामि परिपाचयिष्यामि ॥
अनेनापि मञ्जुश्रीश्चतुर्थेन धर्मेण समन्वागतो बोधिसत्त्वो महासत्त्वस्तथागतस्य परिनिर्वृतस्य इमं धर्मपर्यायं संप्रकाशयमानो ऽव्याबाधो भवति, सत्कृतो गुरुकृतो मानितः पूजितो भिक्षुभिक्षुण्युपासकोपासिकानां राज्ञा रजपुत्राणां राजामात्यानां राजमहामात्राणां नैगमजानपदानां ब्राह्मणगृहपतीनाम् । अन्तरीक्षावचराश्चास्य देवताः श्राद्धाः पृष्ठतो ऽनुबद्धा भविष्यन्ति धर्मश्रवणाय । देवपुत्राश्चास्य सदानुबद्धा भविष्यन्त्यारक्षायै ग्रामगतस्य वा विहारगतस्य वा । उपसंक्रमिष्यन्ति रात्रिंदिवं धर्मं परिपृच्छकाः । तस्य च व्याकरणेनं तुष्टा उदग्रा आत्तमनस्का भविष्यन्ति । तत्कस्य हेतोः? सर्वबुद्धाधिष्ठितो ऽयं मञ्जुश्रीर्धर्मपर्यायः । अतीतानागतप्रत्युत्पन्नैर्मञ्जुश्रीस्तथागतैरर्हद्भिः सम्यक्संबुद्धैरयं धर्मपर्यायो नित्याधिष्ठितः । दुर्लभो ऽस्य मञ्जुश्रीर्धर्मपर्यायस्य बहुषु लोकधातुषु शब्दो वा घोषो वा नामश्रवो वा ॥
तद्यथापि नाम मञ्जुश्री राजा भवति बलचक्रवर्ती, बलेन तं स्वकं राज्यं निर्जिनाति । ततो ऽस्य प्रत्यर्थिकाः प्रत्यमित्राः प्रतिराजानस्तेन सार्धं विग्रहमापन्ना भवन्ति । अथ तस्य राज्ञो बलचक्रवर्तिनो विविधा योधा भवन्ति । ते तैः शत्रुभिः सार्धं युध्यन्ते । अथ स राजा तान् योधान् युध्यमानान् दृष्ट्वा तेषां योधानां प्रीतो भवत्यात्तमनस्कः । स प्रीत आत्तमनाः समानस्तेषां योधानां विविधानि दानानि ददाति । तद्यथा ग्रामं वा ग्रामक्षेत्राणि (वैद्य 174) वा ददाति, नगरं नगरक्षेत्राणि वा ददाति, वस्त्राणि ददाति, वेष्टनानि हस्ताभरणानि पादाभरणानि कण्ठाभरणानि कर्णाभरणानि सौवर्णसूत्राणि हारार्धहाराणि हिरण्यसुवर्णमणिमुक्तावैडूर्यशङ्खशिलाप्रवालान्यपि ददाति, हस्त्यश्वरथपत्तिदासीदासानपि ददाति, यानानि शिबिकाश्च ददाति । न पुनः कस्यचिच्चूडामणिं ददाति । तत्कस्य हेतोः? एक एव हि स चूडामणी राज्ञो मूर्धस्थायी । यदा पुनर्मञ्जुश्री राजा तमपि चूडामणिं ददाति, तदा स सर्वो राज्ञश्चतुरङ्गबलकाय आश्चर्यप्राप्तो भवत्यद्भुतप्राप्तः । एवमेव मञ्जुश्रीस्तथागतो ऽप्यर्हन् सम्यक्संबुद्धो धर्मस्वामी धर्मराजा स्वेन बाहुबलनिर्जितेन पुण्यबलनिर्जितेन त्रैधातुके धर्मेण धर्मराज्यं कारयति । तस्य मारः पापीयांस्त्रैधातुकमाक्रामति । अथ खलु तथागतस्यापि आर्या योधा मारेण सार्धं युध्यन्ते । अथ खलु मञ्जुश्रीस्तथागतो ऽप्यर्हन् सम्यक्संबुद्धो धर्मस्वामी धर्मराजा तेषामार्याणां योधानां युध्यतां दृष्ट्वा विविधानि सूत्रशतसहस्राणि भाषते स्म चतसृणां पर्षदां संहर्षणार्थम् । निर्वाणनगरं चैषां महाधर्मनगरं ददाति
। निर्वृत्या चैनान् प्रलोभयति स्म । न पुनरिममेवंरूपं धर्मपर्यायं भाषते स्म । तत्र मञ्जुश्रीर्यथा स राजा बलचक्रवर्ती तेषां योधानां युध्यतां महता पुरुषकारेण विस्मापितः समानः पश्चात्तं सर्वस्वभूतं पश्चिमं चूडामणिं ददाति सर्वलोकाश्रद्धेयं विस्मयभूतम् । यथा मञ्जुश्रीस्तस्य राज्ञः स चूडामणिश्चिररक्षितो मूर्धस्थायी, एवमेव मञ्जुश्रीस्तथागतो ऽर्हन् सम्यक्संबुद्धस्त्रैधातुके धर्मराजो धर्मेण राज्यं कारयमाणो यस्मिन् समये पश्यति श्रावकांश्च बोधिसत्त्वांश्च स्कन्धमारेण वा क्लेशमारेण वा सार्धं युध्यमानान्, तैश्च सार्धं युध्यमानैर्यदा रागद्वेषमोहक्षयः सर्वत्रैधातुकान्निःसरणं सर्वमारनिर्घातनं महापुरुषकारः कृतो भवति, तदा तथागतो ऽर्हन् सम्यक्संबुद्धो ऽप्यारागितः समानस्तेषामार्य्ःण्ःं योध्ःन्ःमिममेवंरूपं सर्वलोकविप्रत्यनीकं सर्वलोक्ःश्रद्धेयमभ्ःषितपूर्वमनिर्दिष्टपूर्वं धर्मपर्य्ःयं भ्ःषते स्म । सर्वेष्ःं सर्वज्ञत्ःह्ःरकं मह्ःचूड्ःमणिप्रख्यं तथ्ःगतः श्र्ःवकेभ्यो ऽनुप्रयच्छति स्म । एष्ः हि मञ्जुश्रीस्तथ्ःगत्ःन्ःं परम्ः धर्मदेशन्ः, अयं पश्चिमस्तथ्ःगत्ःन्ःं धर्मपर्य्ःयः । सर्वेष्ःं धर्मपर्य्ःय्ःण्ःमयं धर्मपर्य्ःयः सर्वगम्भीरः सर्वलोकविप्रत्यनीकः, यो ऽयं मञ्जुश्रीस्तथ्ःगतेन अद्य तेनैव र्ःज्ञ्ः बलचक्रवर्तिन्ः चिरपरिरक्षितश्चूड्ःमणिरवमुच्य योधेभ्यो दत्तः । एवमेव मञ्जुश्रीस्तथ्ःगतो ऽपीमं धर्मगुह्यं चिर्ःनुरक्षितं सर्वधर्मपर्य्ःय्ःण्ःं मूर्धस्थ्ःयि तथ्ःगतविज्ञेयम् । तदिदं तथ्ःगतेन्ःद्य संप्रक्ःशितमिति ॥
अथ खलु भगवानेतमेवार्थं भूयस्या मात्रया संदर्शयमानस्तस्यां वेलायामिमा गाथा अभाषत -
मैत्रीबलं चो सद दर्शयन्तः कृपायमाणः सद सर्वसत्त्वान् / प्रकाशयेद्धर्ममिमेवरूपं सूत्रं विशिष्टं सुगतेहि वर्णितम् // saddhp_13.45 //
गृहस्थ ये प्रव्रजिताश्च ये स्युरथ बोधिसत्त्वास्तद कालि पश्चिमे / सर्वेषु मैत्रीबल सो हि दर्शयी मा हैव क्षेप्स्यन्ति श्रुणित्व धर्मम् // saddhp_13.46 //
अहं तु बोधिमनुप्रापुणित्वा यदा स्थितो भेष्यि तथागतत्वे / ततो उपानेष्यि उपायि स्थित्वा संश्रावयिष्ये इममग्रबोधिम् // saddhp_13.47 //
यथापि राजा बलचक्रवर्ती योधान दद्याद्विविधं हिरण्यम् / हस्तींश्च अश्वांश्च रथान् पदातीन् नगराणि ग्रामांश्च ददाति तुष्टः // saddhp_13.48 //
केषांचि हस्ताभरणानि प्रीतो ददाति रूप्यं च सुवर्णसूत्रम् / मुक्तामणिं शङ्खशिलाप्रवालं विविधांश्च दासान् स ददाति प्रीतः // saddhp_13.49 //
यदा तु सो उत्तमसांहसेन विस्मापितो केनचि तत्र भोति / विज्ञाय आश्चर्यमिदं कृतं ति मुकुटं स मुञ्चित्व मणिं ददाति // saddhp_13.50 //
तथैव बुद्धो अहु धर्मराजा क्षान्तीबलः प्रज्ञप्रभूतकोशः / धर्मेण शासामिमु सर्वलोकं हितानुकम्पी करूणायमानः // saddhp_13.51 //
सत्त्वांश्च दृष्ट्वाथ विहन्यमानान् भाषामि सूत्रान्तसहस्रकोट्यः / पराक्रमं जानिय तेष प्राणिनां ये शुद्धसत्त्वा इह क्लेशघातिनः // saddhp_13.52 //
अथ धर्मराजापि महाभिषट्कः पर्यायकोटीशत भाषमाणः / ज्ञात्वा च सत्त्वान् बलवन्तु ज्ञानी चूडामणिं वा इम सूत्र देशयी // saddhp_13.53 //
इमु पश्चिमु लोकि वदामि सूत्रं सूत्राण सर्वेष ममाग्रभूतम् / संरक्षितं मे न च जातु प्रोक्तं तं श्रावयाम्यद्य शृणोथ सर्वे // saddhp_13.54 //
चत्वारि धर्मा इमि एवरूपाः मयि निर्वृते ये च निषेवितव्याः / ये चार्थिका उत्तममग्रबोधौ व्यापारणं ये च करोन्ति मह्यम् // saddhp_13.55 //
न तस्य शोको न पि चान्तरायो दौर्वर्णिकं नापि गिलानकत्वम् / न च च्छवी कृष्णिक तस्य भोति न चापि हीने नगरस्मि वासः // saddhp_13.56 //
प्रियदर्शनो ऽसौ सततं महर्षी तथागतो वा यथ पूज्य भोति / उपस्थायकास्तस्य भवन्ति नित्यं ये देवपुत्रा दहरा भवन्ति // saddhp_13.57 //
न तस्य शस्त्रं न विषं कदाचित् काये क्रमे नापि च दण्डलोष्टम् / संमीलितं तस्य मुखं भवेय यो तस्य आक्रोशमपी वदेया // saddhp_13.58 //
सो बन्धुभूतो भवतीह प्राणिनामालोकजातो विचरन्तु मेदिनीम् / तिमिरं हरन्तो बहुप्राणकोटिनां यो सूत्रधारे इमु निर्वृते मयि // saddhp_13.59 //
सुपिनस्मि सो पश्यति भद्ररूपं भिक्षूंश्च सो पश्यति भिक्षुणीश्च / सिहासनस्थं च तथात्मभावं धर्मं प्रकाशेन्तु बहुप्रकारम् // saddhp_13.60 //
देवांश्च यक्षान् यथ गङ्गावालिका असुरांश्च नागांश्च बहुप्रकारान् / तेषां च सो भाषति अग्रधर्मं सुपिनस्मि सर्वेष कृताञ्जलीनाम् // saddhp_13.61 //
तथागतं सो सुपिनस्मि पश्यति देशेन्त धर्मं बहुप्राणिकोटिनाम् / रश्मीसहस्राणि प्रमुञ्चमानं वल्गुस्वरं काञ्चनवर्णनाथम् // saddhp_13.62 //
सो चा तही भोति कृताञ्जलिस्थितो अभिष्टुवन्तो द्विपदुत्तमं मुनिम् / सो चा जिनो भाषति अग्रधर्मं चतुर्ण पर्षाण महाभिषटूकः // saddhp_13.63 //
सो च प्रहृष्टो भवती श्रुणित्वा प्रामोद्यजातश्च करोति पूजाम् / सुपिने च सो धारणि प्रापुणोति अविवर्तियं ज्ञान स्पृशित्व क्षिप्रम् // saddhp_13.64 //
ज्ञात्वा च सो आशयु लोकनाथस्तं व्याकरोती पुरुषर्षभत्वे / कुलपुत्र त्वं पीह अनुत्तरं शिवं स्पृशिष्यसि ज्ञानमनागते ऽध्वनि // saddhp_13.65 //
तवापि क्षेत्रं विपुलं भविष्यति पर्षाश्च चत्वारि यथैव मह्यम् / श्रोष्यन्ति धर्मं विपुलं अनास्रवं सगौरवा भूत्व कृताञ्जली च // saddhp_13.66 //
पुनश्च सो पश्यति आत्मभावं भावेन्त धर्मं गिरिकन्दरेषु / भावित्व धर्मं च स्पृशित्व धर्मतां समाधि सो लब्धु जिनं च पश्यति // saddhp_13.67 //
सुवर्णवर्णं शतपुण्यलक्षणं सुपिनस्मि दृष्ट्वा च शृणोति धर्मम् / श्रुत्वा च तं पर्षदि संप्रकाशयी सुपिनो खु तस्यो अयमेवरूपः // saddhp_13.68 //
स्वप्ने ऽपि सर्वं प्रजहित्व राज्यमन्तःपुरं ज्ञातिगणं तथैव / अभिनिष्क्रमी सर्व जहित्व कामानुपसंक्रमी येन च बोधिमण्डम् // saddhp_13.69 //
सिंहासने तत्र निषीदियानो द्रुमस्य मूले तहि बोधिअर्थिकः / दिवसान सप्तान तथात्ययेन अनुप्राप्स्यते ज्ञानु तथागतानाम् // saddhp_13.70 //
बोधिं च प्राप्तस्ततु व्युत्थहित्वा प्रवर्तयी चक्रमनास्रवं हि / चतुर्ण पर्षाण स धर्म देशयी अचिन्तिया कल्पसहस्रकोट्यः // saddhp_13.71 //
प्रकाशयित्वा तहि धर्म नास्रवं निर्वापयित्वा बहु प्राणिकोट्यः / निर्वायती हेतुक्षये व दीपः सुपिनो अयं सो भवतेवरूपः // saddhp_13.72 //
बहु आनुशंसाश्च अनन्तकाश्च ये मञ्जुघोषा सद तस्य भोन्ति / यो पश्चिमे कालि इअममग्रधर्मं सूत्रं प्रकाशेय मया सुदेशितम् // saddhp_13.73 //
इत्यार्यसद्धर्मपुण्डरीके धर्मपर्याये सुखविहारपरिवर्तो नाम त्रयोदशमः ॥
saddhp_14: बोधिसत्त्वपृथिवीविरसमुद्गमपरिवर्तः ।
अथ खलु अन्यलोकधात्वागतानां बोधिसत्त्वानां महासत्त्वानामष्टौ गङ्गानदीवालुकासमा बोधिसत्त्वा महासत्त्वास्तस्मिन् समये ततः पर्षन्मण्डलादभ्युत्थिता अभूवन् । ते ऽञ्जलिं प्रगृह्य भगवतो ऽभिमुखा भगवन्तं नमस्यमाना भगवन्तमेतदूचुः - सचेद् भगवानस्माकमनुजानीयात्, वयमपि भगवन् इमं धर्मपर्यायं तथागतस्य परिनिर्वृतस्य तस्यां सहायां लोकधातौ संप्रकाशेयम वाचयेम लेखयेम पूजयेम, अस्मिंश्च धर्मपर्याये योगमापद्येमहि । तत्साधु भगवानस्माकमपीमं धर्मपर्यायमनुजानातु । अथ खलु भगवांस्तान् बोधिसत्त्वानेतदवोचत् - अलं कुलपुत्राः । किं युष्माकमनेन कृत्येन? सन्ति कुलपुत्रा इह ममैवास्यां सहायां लोकधातौ षष्टिगङ्गानदीवालुकासमानि बोधिसत्त्वसहस्राणि एकस्य बोधिसत्त्वस्य परिवारः । एवंरूपाणां च बोधिसत्त्वानां षष्ट्येव गङ्गानदीवालुकासमानि बोधिसत्त्वसहस्राणि, येषामेकैकस्य बोधिसत्त्वस्य इयानेव परिवारः ये मम परिनिर्वृतस्य पश्चिमे काले पश्चिमे समये इमं धर्मपर्यायं धारयिष्यन्ति वाचयिष्यन्ति संप्रकाशयिष्यन्ति ॥
समनन्तरभाषिता चेयं भगवता वाक्, अथेयं सहा लोकधातुः समन्तात् स्फुटिता विस्फुटिता अभूत् । तेभ्यश्च स्फोटान्तरेभ्यो बहूनि बोधिसत्त्वकोटीनयुतशतसहस्राण्युत्तिष्ठन्ते स्म सुवर्णवर्णैः कायैर्द्वात्रिंशद्भिर्महापुरुषलक्षणैः समन्वागताः, ये ऽस्यां महापृथिव्यामध आकाशधातौ विहरन्ति स्म । इमामेव सहां लोकधातुं निश्रित्य ते खल्विममेवंरूपं भगवतः शब्दं श्रुत्वा पृथिव्या अधं समुत्थिताः, येषामेकैको बोधिसत्त्वः षष्टिगङ्गानदीवालुकोपमबोधिसत्त्वपरिवारो गणी महागणी गणाचर्यः । तादृशानां बोधिसत्त्वानां महासत्त्वानां गणीनां महागणीनां गणाचार्याणां षष्टिगङ्गानदीवालुकोपमानि बोधिसत्त्वकोटीनयुतशतसहस्राणि, ये इतः सहाया लोकधातोर्धरणीविवरेभ्यः समुन्मज्जन्ते स्म । कः पुनर्वादः पञ्चाशद्गङ्गानदीवालुकोपमबोधिसत्त्वपरिवाराणां बोधिसत्त्वानां महासत्त्वानाम्? कः पुनर्वादश्चत्वारिंशद्गङ्गानदीवालुकोपमबोधिसत्त्वपरिवाराणां बोधिसत्त्वानां महासत्त्वानाम्? कः पुनर्वादस्त्रिंशद्गङ्गानदीवालुकोपमबोधिसत्त्वपरिवाराणां बोधिसत्त्वानां महासत्त्वानाम्? कः पुनर्वादो विंशतिबोधिसत्त्वपरिवाराणां बोधिसत्त्वानां महासत्त्वानाम्? कः पुनर्वादो दशगङ्गानदीवालुकोपमबोधिसत्त्वपरिवाराणां बोधिसत्त्वानां महासत्त्वानाम्? कः पुनर्वादः पञ्चचतुस्त्रिद्विगङ्गानदीवालुकोपमबोधिसत्त्वपरिवाराणां बोधिसत्त्वानां महासत्त्वानाम्? कः पुनर्वाद एकगङ्गानदीवालुकोपमबोधिसत्त्वपरिवाराणां बोधिसत्त्वानां महासत्त्वानाम्? कः पुनर्वादो ऽर्धगङ्गानदीवालुकोपमबोधिसत्त्वपरिवाराणां बोधिसत्त्वानां महासत्त्वानाम्? कः
पुनर्वादश्चतुर्भाग-षड्भागाष्टभाग-दशभाग-विंशतिभाग-त्रिंशद्भाग-चत्वारिंशद्भाग-पञ्चाशद्भागशतभागसहस्रभागशतसहस्रभागकोटीभागकोटीशतभागकोटीसहस्रभागकोटीशतसहस्रभागकोटीनयुतशतसहस्रभागगङ्गानदीवालुकोपमबोधिसत्त्वपरिवाराणां बोधिसत्त्वानां महासत्त्वानाम्? (वैद्य 180) कः पुनर्वादो बहुबोधिसत्त्वकोटीनयुतशतसहस्रपरिवाराणां बोधिसत्त्वानां महासत्त्वानाम्? कः पुनर्वादः कोटीपरिवाराणां बोधिसत्त्वानां महासत्त्वानाम्? कः पुनर्वादः शतसहस्रपरिवाराणां बोधिसत्त्वानां महासत्त्वानाम्? कः पुनर्वादः सहस्रपरिवाराणां बोधिसत्त्वानां महासत्त्वानाम्? कः पुनर्वादः पञ्चशतपरिवाराणां बोधिसत्त्वानां महासत्त्वानाम्? कः पुनर्वादश्चतुःशतत्रिशतद्विशतपरिवाराणां बोधिसत्त्वानां महासत्त्वानाम्? कः पुनर्वादः एकशतपरिवाराणां बोधिसत्त्वानां महासत्त्वानाम्? कः पुनर्वादः पञ्चाशद्बोधिसत्त्वपरिवाराणां बोधिसत्त्वानां महासत्त्वानाम्? पेयालम् । कः पुनर्वादश्चत्वारिंशत्रिंशद्विंशतिदशपञ्चचतुस्त्रिद्विबोधिसत्त्वपरिवाराणां बोधिसत्त्वानां महासत्त्वानाम्? कः पुनर्वाद आत्मद्वितीयानां बोधिसत्त्वानां महासत्त्वानाम्? कः पुनर्वादो ऽपरिवाराणामेकविहारिणां बोधिसत्त्वानां महासत्त्वानाम्? न तेषां संख्या वा गणना वा उपमा वा उपनिषद्वा उपलभ्यते, य इह सहायां लोकधातौ धरणीविवरेभ्यो बोधिसत्त्वा महासत्त्वाः समुन्मज्जन्ते स्म । ते च उन्मज्ज्योन्मज्ज्य येन स महारत्नस्तूपो वैहायसमन्तरीक्षे स्थितः, यस्मिन् स भगवान् प्रभूतरत्नस्तथागतो ऽर्हन् सम्यक्संबुद्धः परिनिर्वृतः, भगवता शाक्यमुनिना तथागतेनार्हता सम्यक्संबुद्धेन सार्धं
सिंहासने निषण्णः, तेनोपसंक्रामन्ति स्म । उपसंक्रम्य च उभययोस्तथागतयोरर्हतोः सम्यक्संबुद्धयोः पादौ शिरोभिर्वन्दित्वा सर्वांश्च तान् भगवतः शाक्यमुनेस्तथागतस्यात्मीयान् निर्मितांस्तथागतविग्रहान् ये ते समन्ततो दशसु दिक्ष्वन्योन्यासु लोकधातुषु संनिपतिताः, नानारत्नवृक्षमूलेषु सिंहासनोपविष्टाः, तान् सर्वानभिवन्द्य नमस्कृत्य च अनेकशतसहस्रकृत्वस्तांस्तथागतानर्हतः सम्यक्संबुद्धान् प्रदक्षिणीकृत्य नानाप्रकारैर्बोधिसत्त्वस्तवैरभिष्टुत्य एकान्ते तस्थुः । अञ्जलिं प्रगृह्य भगवन्तं शाक्यमुनिं तथागतमर्हन्तं सम्यक्संबुद्धं भगवन्तं च प्रभूतरत्नं तथागतमर्हन्तं सम्यक्संबुद्धमभिसंमुखं नमस्कुर्वन्ति स्म ॥
तेन खलु पुनः समयेन तेषां बोधिसत्त्वानां महासत्त्वानां पृथिवीविवरेभ्य उन्मज्जतां तथागतांश्च वन्दमानानां नानाप्रकारैर्बोधिसत्त्वस्तवैरभिष्टुवतां परिपूर्णाः पञ्चाशदन्तरकल्पा गच्छन्ति स्म । तांश्च पञ्चाशदन्तरकल्पान् स भगवान् शाक्यमुनिस्तथागतो ऽर्हन् सम्यक्संबुद्धस्तूष्णीमभूत् । ताश्चतस्रः पर्षदस्तानेव पञ्चाशदन्तकल्पांस्तूष्णींभावेनावस्थिता अभूवन् । अथ खलु भगवांस्तथारूपमृद्ध्यभिसंस्कारमकरोत्, यथारूपेण ऋद्ध्यभिसंस्कारेणाभिसंस्कृतेन ताश्चतस्रः पर्षदस्तमेवैकं पश्चाद्भक्तं संजानन्ते स्म । इमां च सहां लोकधातुं शतसहस्राकाशपरिगृहीतां बोधिसत्त्वपरिपूर्णामद्राक्षुः । तस्य खलु पुनर्महतो बोधिसत्त्वगणस्य महतो बोधिसत्त्वराशेश्चत्वारो बोधिसत्त्वा महासत्त्वाः, ये प्रमुखा अभूवन्, तद्यथा विशिष्टचारित्रश्च नाम बोधिसत्त्वो महासत्त्वः, अनन्तचारित्रश्च नाम बोधिसत्त्वो महासत्त्वः, विशुद्धचारित्रश्च नाम बोधिसत्त्वो महासत्त्वः, सुप्रतिष्ठितचारित्रश्च नाम बोधिसत्त्वो महासत्त्वः । इमे चत्वारो बोधिसत्त्वा महासत्त्वास्तस्य महतो बोधिसत्त्वगणस्य महतो बोधिसत्त्वराशेः प्रमुखा अभूवन् । अथ खलु चत्वारो बोधिसत्त्वा महासत्त्वास्तस्य महतो (वैद्य 181) बोधिसत्त्वगणस्य महतो बोधिसत्त्वराशेरग्रतः स्थित्वा भगवतो ऽभिमुखमञ्जलिं प्रगृह्य भगवन्तमेतदूचुः - कच्चिद् भगवतो ऽल्पाबाधता मन्दग्लानता सुखसंस्पर्शविहारता च? कच्चिद् भगवन् सत्त्वाः स्वाकाराः सुविज्ञापकाः सुविनेयाः सुविशोधकाः? मा हैव भगवतः खेदमुत्पादयन्ति ॥
अथ खलु ते चत्वारो बोधिसत्त्वा महासत्त्वा भगवन्तामाभ्यां गाथाभ्यामध्यभाषन्त -
कच्चित् सुखं विहरसि लोकनाथ प्रभंकर / आबाधविप्रमुक्तो ऽसि स्पर्शः काये तवानघ // saddhp_14.1 //
स्वाकाराश्चैव ते सत्त्वाः सुविनेयाः सुशोधकाः / मा हैव खेदं जनयन्ति लोकनाथस्य भाषतः // saddhp_14.2 //
अथ खलु भगवांस्तस्य महतो बोधिसत्त्वगणस्य महतो बोधिसत्त्वराशेः प्रमुखांश्चतुरो बोधिसत्त्वान् महासत्त्वानेतदवोचत् - एवमेतत् कुलपुत्राः, एवमेतत् । सुखसंस्पर्शविहारो ऽस्मि अल्पाबाधो मन्दग्लानः । स्वाकाराश्च ममैव ते सत्त्वाः सुविज्ञापकाः सुविनेयाः सुविशोधकाः । न च मे खेदं जनयन्ति विशोध्यमानाः । तत्कस्य हेतोः? ममैव ह्येते कुलपुत्राः सत्त्वाः पौर्वकेषु सम्यक्संबुद्धेषु कृतपरिकर्माणः । दर्शनादेव हि कुलपुत्राः श्रवणाच्च ममाधिमुच्यन्ते, बुद्धज्ञानमवतरन्ति अवगाहन्ते । यत्र ये ऽपि श्रावकभूमौ वा प्रतेकबुद्धभूमौ वा कृतपरिचर्या अभुवन्, ते ऽपि मयैव एतर्हि बुद्धधर्मज्ञानमवतारिताः संश्राविताश्च परमार्थम् ॥
अथ खलु ते बोधिसत्त्वा महासत्त्वास्तस्यां वेलायामिमे गाथे अभाषन्त -
साधु साधु महावीर अनुमोदामहे वयम् / स्वाकारा येन ते सत्त्वाः सुविनेयाः सुशोधकाः // saddhp_14.3 //
ये चेदं ज्ञान गम्भीरं शृण्वन्ति तव नायक / श्रुत्वा च अधिमुच्यन्ते उत्तरन्ति च नायक // saddhp_14.4 //
एवमुक्ते भगवांस्तस्य महतो बोधिसत्त्वगणस्य महतो बोधिसत्त्वराशेः प्रमुखेभ्यश्चतुर्भ्यो बोधिसत्त्वेभ्यो महासत्त्वेभ्यः साधुकारमदात् - साधु साधु कुलपुत्राः, ये यूयं तथागतमभिनन्दथ इति ॥
तेन खलु पुनः समयेन मैत्रेयस्य बोधिसत्त्वस्य महासत्त्वस्य अन्येषां चाष्टानां गङ्गानदीवालुकोपमानां बोधिसत्त्वकोटीनयुतशतसहस्राणामेतदभवत् - अदृष्टपूर्वो ऽयमस्माभिर्महाबोधिसत्त्वगणो महाबोधिसत्त्वराशिः । अश्रुतपूर्वश्च यो ऽयं पृथिवीविवरेभ्यः समुन्मज्य भगवतः पुरतः स्थित्वा भगवन्तं सत्कुर्वन्ति गुरुकुर्वन्ति मानयन्ति पूजयन्ति भगवन्तं च प्रतिसंमोदन्ते । कुतः खल्विमे बोधिसत्त्वा महासत्त्वा आगता इति?(वैद्य 182)
अथ खलु मैत्रेयो बोधिसत्त्वो महासत्त्व आत्मना विचिकित्सां कथंकथां विदित्वा तेषां गङ्गानदीवालुकोपमानां बोधिसत्त्वकोटीनयुतशतसहस्राणां चेतसैव चेतः परिवितर्कमाज्ञाय तस्यां वेलायामञ्जलिं प्रगृह्य भगवन्तं गाथाभिगीतेनैतमेवार्थं परिपृच्छन्ति स्म -
बहुसहस्रा नयुताः कोटीयो च अनन्तकाः / अपूर्वा बोधिसत्त्वानामख्याहि द्विपदोत्तम // saddhp_14.5 //
कुतो इमे कथं वापि आगच्छन्ति महर्द्धिकाः / महात्मभावा रूपेण कुत एतेष आगमः // saddhp_14.6 //
धृतिमन्ताश्चिमे सर्वे स्मृतिमन्तो महर्षयः / प्रियदर्शनाश्च रूपेण कुत एतेष आगमः // saddhp_14.7 //
एकैकस्य च लोकेन्द्र बोधिसत्त्वस्य विज्ञिनः / अप्रमेयः परिवारो यथा गङ्गाय वालिकाः // saddhp_14.8 //
गङ्गावालिकसमा षष्टि परिपूर्णा यशस्विनः / परिवारो बोधिसत्त्वस्य सर्वे बोधाय प्रस्थिताः // saddhp_14.9 //
एवंरूपाण वीराणां पर्षवन्तान तायिनाम् / षष्टिरेव प्रमाणेन गङ्गावालिकया इमे // saddhp_14.10 //
अतो बहुतराश्चान्ये परिवारैरनन्तकैः / पञ्चाशतीय गङ्गाय चत्वारिंशच्च त्रिंशति // saddhp_14.11 //
समो विंशति गङ्गाया परिवारः समन्ततः / अतो बहुतराश्चान्ये येषां दश च पञ्च च // saddhp_14.12 //
एकैकस्य परीवारो बुद्धपुत्रस्य तायिनः / कुतो ऽयमीदृशी पर्षदागताद्य विनायक // saddhp_14.13 //
चत्वारि त्रीणि द्वे चापि गङ्गावालिकया समाः / एकैकस्य परीवारा ये ऽनुशिक्षा सहायकाः // saddhp_14.14 //
अतो बहुतराश्चान्ये गणना येष्वनन्तिका / कल्पकोटीसहस्रेषु उपमेतुं न शक्नुयात् // saddhp_14.15 //
अर्धगङ्गा त्रिभागश्च दशविंशतिभागिकः / परिवारो ऽथ वीराणां बोधिसत्त्वान तायिनाम् // saddhp_14.16 //
अतो बहुतराश्चान्ये प्रमाणैषां न विद्यते / एकैकं गणयन्तेन कल्पकोटीशतैरपि // saddhp_14.17 //
अतो बहुतराश्चान्ये परिवारैरनन्तकैः / कोटी कोटी च कोटी च अर्धकोटी तथैव च // saddhp_14.18 //
गणनाव्यतिवृत्ताश्च अन्ये भूयो महर्षिणाम् / बोधिसत्त्वा महाप्रज्ञाः स्थिताः सर्वे सगौरवाः // saddhp_14.19 //
परिवारसहस्रं च शतपञ्चाशदेव च / गणना नास्ति एतेषां कल्पकोटीशतैरपि // saddhp_14.20 //
विंशतिद्दश पञ्चाथ चत्वारि त्रीणि द्वे तथा / परिवारो ऽथ वीराणां गणनैषां न विद्यते // saddhp_14.21 //
चरन्त्येकात्मका ये च शान्तिं विन्दन्ति चैककाः / गणना तेष नैवास्ति ये इहाद्य समागताः // saddhp_14.22 //
गङ्गावालिकासमान् कल्पान् गणयेत यदी नरः / शलाकां गृह्य हस्तेन पर्यन्तं नैव सो लभेत् // saddhp_14.23 //
महात्मनां च सर्वेषां वीर्यन्तान तायिनाम् / बोधिसत्त्वान वीराणां कुत एतेष संभवः // saddhp_14.24 //
केनैषां देशितो धर्मः केन बोधीय स्थापिताः / रोचन्ति शासनं कस्य कस्य शासनधारकाः // saddhp_14.25 //
भित्त्वा हि पृथिवीं सर्वां समन्तेन चतुर्दिशम् / उन्मज्जन्ति महाप्रज्ञा ऋद्धिमन्ता विचक्षणाः // saddhp_14.26 //
जर्जरा लोकधात्वेयं समन्तेन कृता मुने / उन्मज्जमानैरेतैर्हि बोधिसत्त्वैर्विशारदैः // saddhp_14.27 //
न ह्येते जातु अस्माभिर्दृष्टपूर्वाः कदाचन / आख्याहि नो तस्य नाम लोकधातोर्विनायक // saddhp_14.28 //
दशादिशा हि अस्माभिरञ्चितायो पुनः पुनः / न च दृष्टा इमे ऽस्माभिर्बोधिसत्त्वाः कदाचन // saddhp_14.29 //
दृष्टो न जातुरस्माभिरेको ऽपि तनयस्तव / इमे ऽद्य सहसा दृष्टा आख्याहि चरितं मुने // saddhp_14.30 //
बोधिसत्त्वसहस्राणि शतानि नयुतानि च / सर्वे कौतूहलप्राप्ताः पश्यन्ति द्विपदोत्तमम् // saddhp_14.31 //
व्याकुरुष्व महावीर अप्रमेय निरोपधे / कुत एन्ति इमे शूरा बोधिसत्त्वा विशारदः // saddhp_14.32 //
तेन खलु पुनः समयेन ये ते तथागता अर्हन्तः सम्यक्संबुद्धा अन्येभ्यो लोकधातुकोटीनयुतशतसहस्रेभ्यो ऽभ्यागता भगवतः शाक्यमुनेस्तथागतस्य निर्मिताः, ये ऽन्येषु लोकधातुषु सत्त्वानां धर्मं देशयन्ति स्म, ये भगवतः शाक्यमुनेस्तथागतस्यार्हतः सम्यक्संबुद्धस्य समन्तादष्टभ्यो दिग्भ्यो रत्नवृक्षमूलेषु महारत्नसिंहासनेषूपविष्टाः पर्यङ्कबद्धाः, तेषां तथागतानामर्हतां सम्यक्संबुद्धानां ये स्वकस्वका उपस्थायकाः, ते ऽपि तं महान्तं बोधिसत्त्वगणं बोधिसत्त्वराशिं दृष्ट्वा समन्तात् पृथिवीविवरेभ्य उन्मज्जन्तमाकाशधातुप्रतिष्ठितम्, ते ऽप्याश्चर्यप्राप्तास्तान् स्वान् स्वांस्तथागतानेतदूचुः - कुतो भगवन् इयन्तो बोधिसत्त्वा महासत्त्वा आगच्छन्त्यप्रमेया असंख्येयाः? एवमुक्तास्ते तथागता अर्हन्तः सम्यक्संबुद्धास्तान् स्वान् स्वानुपस्थायकानेतदूचुः - आगमयध्वं यूयं कुलपुत्रा मुहूर्तम् । एष मैत्रेयो नाम बोधिसत्त्वो महासत्त्वो भगवतः शाक्यमुनेरनन्तरं व्याकृतो ऽनुत्तरायां सम्यक्संबोधौ, स एतं भगवन्तं शाक्यमुनिं तथागतमर्हन्तं सम्यक्संबुद्धमेतमर्थं परिपृच्छति । एष च भगवान् शाक्यमुनिस्तथागतो ऽर्हन् सम्यक्संबुद्धो व्याकरिष्यति । ततो यूयं श्रोष्यथेति ॥
अथ खलु भगवान् मैत्रेयं बोधिसत्त्वं महासत्त्वमामन्त्रयते स्म - साधु साधु अजित । उदारमेतदजित स्थानं यत्त्वं मां परिपृच्छसि । अथ खलु भगवान् सर्वावन्तं बोधिसत्त्वगणमामन्त्रयते स्म - तेन हि कुलपुत्राः सर्व एव प्रयता भवध्वम् । सुसंनद्धा दृढस्थामाश्च भवध्वम्, सर्वश्चायं बोधिसत्त्वगणः । तथागतज्ञानदर्शनं कुलपुत्रास्तथागतो ऽर्हन् सम्यक्संबुद्धः सांप्रतं संप्रकाशयति, तथागतवृषभितं तथागतकर्म तथागतविक्रीडितं तथागतविजृम्भितं तथागतपराक्रममिति ॥
अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत -
प्रयता भवध्वं कुलपुत्र सर्व इमां प्रमुञ्चामि गिरामनन्यथाम् / मा खू विषादं कुरुथेह पण्डिता अचिन्तियं ज्ञानु तथागतानाम् // saddhp_14.33 //
धृतिमन्त भूत्वा स्मृतिमन्त सर्वे समाहिताः सर्विः स्थिता भवध्वम् / अपूर्वधर्मो श्रुणितव्यु अद्य आश्चर्यभूतो हि तथागतानाम् // saddhp_14.34 //
विचिकित्स मा जातु कुरुध्व सर्वे अहं हि युष्मान् परिसंस्थपेमि / अनन्यथावादिरहं विनायको ज्ञानं च मे यस्य न काचि संख्या // saddhp_14.35 //
गम्भीर धर्माः सुगतेन बुद्धा अतर्किया येष प्रेमाणु नास्ति / तानद्य हं धर्म प्रकाशयिष्ये शृणोथ मे यादृशका यथा च ते // saddhp_14.36 //
अथ खलु भगवानिमा गाथा भाषित्वा तस्यां वेलायां मैत्रयं बोधिसत्त्वं महासत्त्वमामन्त्रयते स्म - आरोचयामि ते अजित, प्रतिवेदयामि । य इमे अजित बोधिसत्त्वा अप्रमेया असंख्येया अचिन्त्या अतुल्या अगणनीयाः, ये युष्माभिरदृष्टपूर्वाः, य एतर्हि पृथिवीविरेभ्यो निष्क्रान्ताः, मयैते अजित सर्वे बोधिसत्त्वा महासत्त्वा अस्यां सहायां लोकधातावनुत्तरां सम्यक्संबोधिमभिसंबुध्य समादापिताः समुत्तेजिताः संप्रहर्षिताः, अनुत्तरायां सम्यक्संबोधौ परिणामिताः । मया चैते कुलपुत्रा अस्मिन् बोधिसत्त्वधर्मे परिपाचिताः प्रतिष्ठापिता निवेशिताः परिसंस्थापिता अवतारिताः परिबोधिताः परिशोधिताः । एते च अजित बोधिसत्त्वा महासत्त्वा अस्यां सहायां लोकधातौ अधस्तादाकाशधातुपरिग्रहे प्रतिवसन्ति । स्वाध्यायोद्देशचिन्तायोनिशोमनसिकारप्रवृत्ता एते कुलपुत्रा असंगणिकारामा असंसर्गाभिरता अनिक्षिप्तधुरा आरब्धवीर्याः । एते अजित कुलपुत्रा विवेकारामा विवेकाभिरताः । नैते कुलपुत्रा देवमनुष्यानुपनिश्राय विहरन्ति असंसर्गचर्याभिरताः । एते कुलपुत्रा धर्मारामाभिरता बुद्धज्ञाने ऽभियुक्ताः ॥
अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत -
ये बोधिसत्त्वा इमे अप्रमेया अचिन्तिया येष प्रमाणु नास्ति / ऋद्धीय प्रज्ञाय श्रुतेनुपेता बहुकल्पकोटीचरिताश्च ज्ञाने // saddhp_14.37 //
परिपाचिताः सर्वि मयैति बोधये ममैव क्षेत्रस्मि वसन्ति चैते / परिपाचिताः सर्वि मयैव एते ममैव पुत्राश्चिमि बोधिसत्त्वाः // saddhp_14.38 //
सर्वे ति आरण्यधुताभियुक्ताः संसर्गभूमिं सद वर्जयन्ति / असङ्गचारी च ममैति पुत्रा ममोत्तमां चर्यनुशिक्षमाणाः // saddhp_14.39 //
वसन्ति आकाशपरिग्रहे ऽस्मिन् क्षेत्रस्य हेष्ठा परिचारि वीराः / समुदानयन्ता इममग्रबोधिं उद्युक्त रात्रिंदिवमप्रमत्ताः // saddhp_14.40 //
आरब्धवीर्याः स्मृतिमन्त सर्वे प्रज्ञाबलस्मिन् स्थित अप्रमेये / विशारदा धर्मु कथेन्ति चैते प्रभास्वरा पुत्र ममैति सर्वे // saddhp_14.41 //
मया च प्राप्य इममग्रबोधिं नगरे गयायां द्रुममूलि तत्र / अनुत्तरं वर्तिय धर्मचक्रं परिपाचिताः सर्वि इहाग्रबोधौ // saddhp_14.42 //
अनास्रवा भूत इयं मि वाचा श्रुणित्व सर्वे मम श्रद्दधध्वम् / एवं चिरं प्राप्त मयाग्रबोधि परिपाचिताश्चैति मयैव सर्वे // saddhp_14.43 //
अथ खलु मैत्रेयो बोधिसत्त्वो महासत्त्वस्तानि च संबहुलानि बोधिसत्त्वकोटीनयुतशतसहस्राण्याश्चर्यप्राप्तान्यभूवन्, अद्भुतप्राप्तानि विस्मयप्राप्तानि - कथं नाम भगवता अनेन क्षणविहारेण अल्पेन कालान्तरेण अमी एतावन्तो बोधिसत्त्वा महासत्त्वा असंख्येयाः समादापिताः, परिपाचिताश्च अनुत्तरायां सम्यक्संबोधौ । अथ खलु मैत्रेयो बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत् - कथमिदानीं भगवंस्तथागतेन कुमारभूतेन कपिलवस्तुनः शाक्यनगरान्निष्कस्य गयानगरान्नातिदूरे बोधिमण्डवराग्रगतेन अनुत्तरा सम्यक्संबोधिरभिसंबुद्धा? तस्याद्य भगवन् कालस्य सातिरिंकाणि चत्वारिंशद्वर्षाणि । तत्कथं भगवंस्तथागतेन इयता कालान्तरेणेदमपरिमितं तथागतकृत्यं कृतम्, तथागतेन तथागतवृषभिता तथागतपराक्रमः कृतः, यो ऽयं बोधिसत्त्वगणो बोधिसत्त्वराशिरियता भगवन् कालान्तरेण अनुत्तरायां सम्यक्संबोधौ समादापितः परिपाचितश्च? अस्य भगवन् बोधिसत्त्वगणस्य बोधिसत्त्वराशेर्गण्यमानस्य कल्पकोटीनयुतशतसहस्रैरप्यन्तो नोपलभ्यते । एवमप्रमेया भगवन् इमे बोधिसत्त्वा महासत्त्वाः, एवमसंख्येयाश्चिरचरितब्रह्मचर्या बहुबुद्धशतसहस्रावरोपितकुशलमूला बहुकल्पशतसहस्रपरिनिष्पन्नाः ॥
तद्यथापि नाम भगवन् कश्चिदेव पुरुषो नवो दहरः शिशुः कृष्णकेशः प्रथमेन वयसा समन्वागतः पञ्चविंशतिवर्षो जात्या भवेत् । स वर्षशतिकान् पुत्रानादर्शयेत्, एवं च वदेत् - एते कुलपुत्रा मम पुत्रा इति । ते च वर्षशतिकाः पुरुषा एवं च वदेयुः - एषो ऽस्माकं पिता जनक इति । तस्य च पुरुषस्य भगवंस्तद्वचनमश्रद्धेयं भवेल्लोकस्य दुःश्रद्धेयम् । एवमेव भगवानचिराभिसंबुद्धो ऽनुत्तरां सम्यक्संबोधिम्, इमे च बोधिसत्त्वा महासत्त्वा बह्वप्रमेया बहुकल्पकोटीनयुतशतसहस्रचीर्णचरितब्रह्मचर्याः, दीर्घरात्रं हि कृतनिश्चयाः, बुद्धज्ञाने समाधिमुखशतसहस्रसमापद्यनव्युत्थानकुशलाः महाभिज्ञापरिकर्मनिर्याताः महाभिज्ञाकृतपरिकर्माणः (वैद्य 187) पण्डिता बुद्धभूमौ, संगीतकुशलास्तथागतधर्माणाम्, आश्चर्याद्भुता लोकस्य महावीर्यबलस्थामप्राप्ताः । तांश्च भगवानेवं वदति - मयैते आदित एव समादापिताः समुत्तेजिताः परिपाचिताः, परिणामिताश्च अस्यां बोधिसत्त्वभूमाविति । अनुत्तरां सम्यक्संबोधिमभिसंबुद्धेन मयैष सर्ववीर्यपराक्रमः कृत इति । किंचापि वयं भगवंस्तथागतस्य वचनं श्रद्धयागमिष्यामः - अनन्यथावादी तथागत इति । तथागत एवैतमर्थं जानीयात् । नवयानसंप्रस्थिताः खलु पुनर्भगवन् बोधिसत्त्वा महासत्त्वा विचिकित्सामापद्यन्ते । अत्र स्थाने परिनिर्वृते तथागते इमं धर्मपर्यायं श्रुत्वा न पत्तीयिष्यन्ति न श्रद्धास्यन्ति नाधिमोक्ष्यन्ति । ततस्ते भगवन् धर्मव्यसनसंवर्तनीयेन कर्माभिसंस्कारेण समन्वागता भविष्यन्ति । तत्साधु भगवन् एतमेवार्थ देशय, यद्वयं निःसंशया अस्मिन् धर्मे भवेम, अनागते ऽध्वनि बोधिसत्त्वयानीयाः कुलपुत्रा वा कुलदुहितरो वा श्रुत्वा न विचिकित्सामापद्येरन्निति ॥
अथ खलु मैत्रेयो बोधिसत्त्वो महासत्त्वस्तस्यां वेलायां भगवन्तमाभिर्गाथाभिरध्यभाषत -
यदासि जातो कपिलाह्वयस्मिन् शाक्याधिवासे अभिनिष्क्रमित्वा / प्राप्तो ऽसि बोधिं नगरे गयाह्वये कालो ऽयमल्पो ऽत्र तु लोकनाथ // saddhp_14.44 //
इमे च ते आर्य विशारदा बहू ये कल्पकोटीचरिता महागणी / ऋद्धीबले च स्थित अप्रकम्पिताः सुशिक्षिताः प्रज्ञबले गतिंगताः // saddhp_14.45 //
अनूपलिप्ताः पदुमं व वारिणा भित्त्वा महीं ये इह अद्य आगताः / कृताञ्जली सर्वि स्थिताः सगौरवाः स्मृतिमन्त लोकाधिपतिस्य पुत्राः // saddhp_14.46 //
कथं इमं अद्भुतमीदृशं ते तं श्रद्दधिष्यन्तिमि बोधिसत्त्वाः / विचिकित्सनिर्घातनहेतु भाष तं त्वं चैव देशेहि यथैव अर्थः // saddhp_14.47 //
यथा हि पुरुषो इह कश्चिदेव दहरो भवेया शिशु कृष्णकेशः / जात्या च सो विंशतिरुत्तरे वा दर्शेति पुत्रान् शतवर्षजातान् // saddhp_14.48 //
वलीहि पलितेहि च ते उपेता एषो च नो देहकरो ति ब्रूयुः / दुःश्रद्दधं तद्भवि लोकनाथ दहरस्य पुत्रा इमि एवरूपाः // saddhp_14.49 //
एमेव भगवांश्च नवो वयस्थः इमे च विज्ञा बहुबोधिसत्त्वाः / स्मृतिमन्त प्रज्ञाय विशारदाश्च सुशिक्षिताः कल्पसहस्रकोटिषु // saddhp_14.50 //
धृतिमन्त प्रज्ञाय विचक्षणाश्च प्रासादिका दर्शनियाश्च सर्वे / विशारदा धर्मविनिश्चयेषु परिसंस्तुता लोकविनायकेहि // saddhp_14.51 //
असङ्गचारी पवनेव सन्ति आकाशधातौ सततं अनिश्रिताः / जानेन्ति वीर्यं सुगतस्य पुत्राः पर्येषमाणा इम बुद्धभूमिम् // saddhp_14.52 //
कथं नु श्रद्धेयमिदं भवेया परिनिर्वृते लोकविनायकस्मिन् / विचिकित्स अस्माक न काचिदस्ति शृणोमथा संमुख लोकनाथा // saddhp_14.53 //
विचिकित्स कृत्वान इमस्मि स्थाने गच्छेयु मा दुर्गति बोधिसत्त्वाः / त्वं व्याकुरुष्वा भगवन् यथावत् कथ बोधिसत्त्वाः परिपाचिता इमे // saddhp_14.54 //
इत्यार्यसद्धर्मपुण्डरीके धर्मपर्याये बोधिसत्त्वपृथिवीविवरसमुद्गमपरिवर्तो नाम चतुर्दशमः ॥
saddhp_15: तथागतायुष्प्रमाणपरिवर्तः ।
अथ खलु भगवान् सर्वावन्तं बोधिसत्त्वगणमामन्त्रयते स्म - अवकल्पयध्वं मे कुलपुत्राः, अभिश्रद्दधध्वं तथागतस्य भूतां वाचं व्याहरतः । द्वितीयकमपि भगवांस्तान् बोधिसत्त्वानामन्त्रयते स्म - अवकल्पयध्वं मे कुलपुत्राः, अभिश्रद्दधध्वं तथागतस्य भुतां वाचं व्याहरतः । तृतीयकमपि भगवांस्तन् बोधिसत्त्वानामन्त्रयते स्म - अवकल्पयध्वं मे कुलपुत्राः, अभिश्रद्दधध्वं तथागतस्य भूतां वाचं व्याहरतः । अथ खलु स सर्वावान् बोधिसत्त्वगणो मैत्रेयं बोधिसत्त्वं महासत्त्वमग्रतः स्थापयित्वा अञ्जलिं प्रगृह्य भगवन्तमेतदवोचत् - भाषतु भगवानेतमेवार्थम्, भाषतु सुगतः । वयं तथागतस्य भाषितमभिश्रद्धास्यामः । द्वितीयकमपि स सर्वावान् बोधिसत्त्वगणो भगवन्तमेतदवोचत् - भाषतु भगवानेतमेवार्थम्, भाषतु सुगतः । वयं तथागतस्य भाषितमभिश्रद्धास्यामः । तृतीयकमपि स सर्वांवान् बोधिसत्त्वगणो भगवन्तमेतदवोचत् - भाषतु भगवानेतमेवार्थम्, भाषतु सुगतः । वयं तथागतस्य भाषितमभिश्रद्धास्याम इति ॥
अथ खलु भगवांस्तेषां बोधिसत्त्वानां यावत्तृतीयकमप्यध्येषणां विदित्वा तान् बोधिसत्त्वानामन्त्रयते स्म - तेन हि कुलपुत्राः शृणुध्वमिदमेवंरूपं ममाधिष्ठानबलाधानम्, यदयं कुलपुत्राः सदेवमानुषासुरो लोक एवं संजानीते - सांप्रतं भगवता शाक्यमुनिना तथागतेन शाक्यकुलादभिनिष्क्रम्य गयाह्वये महानगरे बोधिमण्डवराग्रगतेन अनुत्तरा सम्यक्संबोधिरभिसंबुद्धेति । नैवं द्रष्टव्यम् । अपि तु खलु पुनः कुलपुत्राः बहूनि मम कल्पकोटीनयुतशतसहस्राण्यनुत्तरां सम्यक्संबोधिमभिसंबुद्धस्य । तद्यथापि नाम कुलपुत्राः पञ्चाशत्सु लोकधातुकोटीनयुतशतसहस्रेषु ये पृथिवीधातुपरमाणवः, अथ खलु कश्चिदेव पुरुष उत्पद्यते । स एकं परमाणुरजं गृहीत्वा पूर्वस्यां दिशि पञ्चाशल्लोकधात्वसंख्येयशतसहस्राण्यतिक्रम्य तदेकं परमाणुरजः समुपनिक्षिपेत् । अनेन पर्यायेण कल्पकोटीनयुतशतसहस्राणि स पुरुषः सर्वांस्तांल्लोकधातून व्यपगतपृथिवीधातून् कुर्यात्, सर्वाणि च तानि पृथिवीधातुपरमाणुरजांसि अनेन पर्यायेण अनेन च लक्षनिक्षेपेण पूर्वस्यां दिश्युपनिक्षिपेत् । तत्किं मन्यध्वे कुलपुत्राः शक्यं ते लोकधातवः केनचिच्चिन्तयितुं वा गणयितुं वा तुलयितुं वा उपलक्षयितुं वा? एवमुक्ते मैत्रेयो बोधिसत्त्वो महासत्त्वः स च सर्वावान् बोधिसत्त्वगणो बोधिसत्त्वराशिर्भगवन्तमेतदवोचत् - असंख्येयास्ते भगवंल्लोकधातवः, अगणनीयाश्चित्तभूमिसमतिक्रान्ताः । सर्वश्रावकप्रत्येकबुद्धैरपि भगवन् आर्येण ज्ञानेन न शक्यं चिन्तयितुं वा गणयितुं वा तुलयितुं वा उपलक्षयितुं वा । अस्माकमपि तावद् भगवन् अवैवर्त्यभूमिस्थितानां बोधिसत्त्वानां महासत्त्वानामस्मिन् स्थाने चित्तगोचरो न प्रवर्तते । तावदप्रमेया भगवंस्ते लोकधातवो भवेयुरिति ॥
एवमुक्ते भगवांस्तान् बोधिसत्त्वान् महासत्त्वानेतदवोचत् - आरोचयामि वः कुलपुत्राः, प्रतिवेदयामि वः । यावन्तः कुलपुत्रास्ते लोकधातवो येषु तेन पुरुषेण तानि परमाणुरजांस्युपनिक्षिप्तानि, येषु च नोपनिक्षिप्तानि, सर्वेषु तेषु कुलपुत्र लोकधातुकोटीनयुतशतसहस्रेषु न तावन्ति परमाणुरजांसि संविद्यन्ते, यावन्ति मम कल्पकोटीनयुतशतसहस्राण्यनुत्तरां सम्यक्संबोधिमभिसंबुद्धस्य । यतःप्रभृत्यहं कुलपुत्रा अस्यां सहायां लोकधातौ सत्त्वानां धर्मं देशयामि, अन्येषु च लोकधातुकोटीनयुतशतसहस्रेषु, ये च मया कुलपुत्रा अत्रान्तरा तथागता अर्हन्तः सम्यक्संबुद्धाः परिकीर्तिता दीपंकरतथागतप्रभृतयः, तेषां च तथागतानामर्हतां सम्यक्संबुद्धानां परिनिर्वाणानि, मयैव तानि कुलपुत्रा उपायकौशल्यधर्मदेशनाभिनिर्हारनिर्मितानि । अपि तु खलु पुनः कुलपुत्राः, तथागत आगतागतानां सत्त्वानामिन्द्रियवीर्यवैमात्रतां व्यवलोक्य तस्मिंस्तस्मिन्नात्मनो नाम व्याहरति । तस्मिंस्तस्मिंश्चात्मनः परिनिर्वाणं व्याहरति, तथा तथा च सत्त्वान् परितोषयति नानाविधैर्धर्मपर्यायैः । तत्र कुलपुत्रास्तथागतो नानाधिमुक्तानां सत्त्वानामल्पकुशलमूलानां बहूपक्लेशानामेवं वदति - दहरो ऽहमस्मि भिक्षवो जात्याभिनिष्क्रान्तः । अचिराभिसंबुद्धो ऽस्मि भिक्षवो ऽनुत्तरां सम्यक्संबोधिम् । यत्खलु पुनः कुलपुत्राः, तथागत एवं चिराभिसंबुद्ध एवं व्याहरति - अचिराभिसंबुद्धो ऽहमस्मीति, नान्यत्र सत्त्वानां परिपाचनार्थम् । अवतारणार्थमेते धर्मपर्याया भाषिताः । सर्वे च ते कुलपुत्रा धर्मपर्यायास्तथागतेन सत्त्वानां विनयार्थाय भाषिताः । यां च
कुलपुत्रास्तथागतः सत्त्वानां विनयार्थवाचं भाषते आत्मोपदर्शनेन वा परोपदर्शनेन वा, आत्मारम्बणेन वा परारम्बनेन वा यत्किंचित्तथागतो व्याहरति, सर्वे ते धर्मपर्यायाः सत्यास्तथागतेन भाषिताः । नास्त्यत्र तथागतस्य मृषावादः । तत्कस्य हेतोः? दृष्टं हि तथागतेन त्रैधातुकं यथाभूतम् । न जायते न म्रियते न च्यवते नोपपद्यते न संसरति न परिनिर्वाति, न भूतं नाभूतं न सन्तं नासन्तं न तथा नान्यथा न वितथा नावितथा । न तथा त्रैधातुकं तथागतेन दृष्टं यथा बालपृथग्जनाः पश्यन्ति । प्रत्यक्षधर्मा तथागतः खल्वस्मिन् स्थाने ऽसंप्रमोषधर्मा । तत्र तथागतो यां कांचिद्वाचं व्याहरति, सर्वं तत्सत्यं न मृषा नान्यथा । अपि तु खलु पुनः सत्त्वानां नानाचरितानां नानाभिप्रायाणां संज्ञाविकल्पचरितानां कुशलमूलसंजननार्थं विविधान् धर्मपर्यायान् विविधैरारम्बणैर्व्याहरति । यद्धि कुलपुत्रास्तथागतेन कर्तव्यं तत्तथागतः करोति । तावच्चिराभिसंबुद्धो ऽपरिमितायुष्प्रमाणस्तथागतः सदा स्थितः । अपरिनिर्वृतस्तथागतः परिनिर्वाणमादर्शयति वैनेयवशेन । न च तावन्मे कुलपुत्रा अद्यापि पौर्विकी बोधिसत्त्वचर्यां परिनिष्पादिता । आयुष्प्रमाणमप्यपरिपूर्णम् । अपि तु खलु पुनः कुलपुत्रा अद्यापि तद्द्विगुणेन मे कल्पकोटीनयुतशतसहस्राणि भविष्यन्ति आयुष्प्रमाणस्यापरिपूर्णत्वात् । इदानीं (वैद्य 191) खलु पुनरहं कुलपुत्रा अपरिनिर्वायमाण एव परिनिर्वाणमारोचयामि । तत्कस्य हेतोः? सत्त्वानहं कुलपुत्रा अनेन पर्यायेण परिपाचयामि - मा हैव मे ऽतिचिरं तिष्ठतो ऽभीक्ष्णदर्शनेन अकृतकुशलमूलाः सत्त्वाः
पुण्यविरहिता दरिद्रभूताः कामलोलुपा अन्धा दृष्टिजालसंछन्नाः तिष्ठति तथागत इति विदित्वा किलीकृतसंज्ञा भवेयुः, न च तथागते दुर्लभसंज्ञामुत्पादयेयुः - आसन्ना वयं तथागतस्येति । वीर्यं नारभेयुस्त्रैधातुकान्निःसरणार्थम्, न च तथागते दुर्लभसंज्ञामुत्पादयेयुः । ततः कुलपुत्राः तथागतः उपायकौशल्येन तेषां सत्त्वानां दुर्लभप्रादुर्भावो भिक्षवस्तथागत इति वाचं व्याहरति स्म । तत्कस्य हेतोः? तथा हि तेषां सत्त्वानां बहुभिः कल्पकोटीनयुतशतसहस्रैरपि तथागतदर्शनं भवति वा न वा । ततः खल्वहं कुलपुत्रास्तदारम्बणं कृत्वैवं वदामि - दुर्लभप्रादुर्भावा हि भिक्षवस्तथागता इति । ते भूयस्या मात्रया दुर्लभप्रादुर्भावांस्तथागतान् विदित्वा आश्चर्यसंज्ञामुत्पादयिष्यन्ति, शोकसंज्ञामुत्पादयिष्यन्ति । अपश्यन्तश्च तथागतानर्हतः सम्यक्संबुद्धान् तृषिता भविष्यन्ति तथागतदर्शनाय । तेषां तानि तथागतारम्बणमनस्कारकुशलमूलानि दीर्घरात्रमर्थाय हिताय सुखाय च भविष्यन्ति । एतमर्थं विदित्वा तथागतो ऽपरिनिर्वायन्नेव परिनिर्वाणमारोचयति सत्त्वानां वैनेयवशमुपादाय । तथागतस्यैष कुलपुत्रा धर्मपर्यायो यदेवं व्याहरति । नास्त्यत्र तथागतस्य मृषावादः ॥
तद्यथापि नाम कुलपुत्राः कश्चिदेव वैद्यपुरुषो भवेत् पण्डितो व्यक्तो मेधावी सुकुशलः सर्वव्याधिप्रशमनाय । तस्य च पुरुषस्य बहवः पुत्रा भवेयुर्दश वा विंशतिर्वा त्रिंशद्वा चत्वारिंशद्वा पञ्चाशद्वा शतं वा । स च वैद्यः प्रवासगतो भवेत्, ते चास्य सर्वे पुत्रा गरपीडा वा विषपीडा वा भवेयुः । तेन गरेण वा विषेण वा दुःखाभिर्वेदनाभिरभितूर्णा भवेयुः । ते तेन गरेण वा विषेण वा दह्यमानाः पृथिव्यां प्रपतेयुः । अथ स तेषां वैद्यः पिता प्रवासादागच्छेत् । ते चास्य पुत्रास्तेन गरेण वा विषेण वा दुःखाभिर्वेदनाभिरार्ताः । केचिद्विपरीतसंज्ञिनो भवेयुः, केचिदविपरीतसंज्ञिनो भवेयुः । सर्वे च ते तेनैव दुःखेनार्तास्तं पितरं दृष्ट्वाभिनन्देयुः, एवं चैनं वदेयुः - दिष्ट्यासि तात क्षेमस्वस्तिभ्यामागतः । तदस्माकमस्मादात्मोपरोधाद् गराद्वा विषाद्वा परिमोचयस्व । ददस्व नस्तात जीवितमिति । अथ खलु स वैद्यस्तान् पुत्रान् दुःखार्तान् दृष्ट्वा वेदनाभिभूतान् दह्यतः पृथिव्यां परिवेष्टमानान्, ततो महाभैषज्यं समुदानयित्वा वर्णसंपन्नं गन्धसंपन्नं रससंपन्नं च, शिलायां पिष्ट्वा तेषां पुत्राणां पानाय दद्यात्, एवं चैनान् वदेत् - पिबथ पुत्रा इदं महाभैषज्यं वर्णसंपन्नं गन्धसंपन्नं रससंपन्नम् । इदं यूयं पुत्रा महाभैषज्यं पीत्वा क्षिप्रमेवास्माद् गराद्वा विषाद्वा परिमोक्ष्यध्वे, स्वस्था भविष्यथ अरोगाश्च । तत्र ये तस्य वैद्यस्य पुत्रा अविपरीतसंज्ञिनः ते भैषज्यस्य वर्णं च दृष्ट्वा गन्धं चाघ्राय रसं चास्वाद्य क्षिप्रमेवाभ्यवहरेयुः । ते चाभ्यवहरन्तस्तस्मादाबाधात् सर्वेण सर्वं विमुक्ता भवेयुः । ये पुनस्तस्य
पुत्रा विपरीतसंज्ञिनः ते तं पितरमभिनन्देयुः, एनं चैवं वदेयुः - दिष्टयासि तात क्षेमस्वस्तिभ्यामागतो यस्त्वमस्माकं चिकित्सक इति । (वैद्य 192) ते चैवं वाचं भाषेरन्, तच्च भैषज्यमुपनामितं न पिबेयुः । तत्कस्य हेतोः? तथा हि तेषां तया विपरीतसंज्ञ्या तद् भैषज्यमुपनामितं वर्णेनापि न रोचते, गन्धेनापि रसेनापि न रोचते । अथ खलु स वैद्यपुरुष एवं चिन्तयेत् - इमे मम पुत्रा अनेन गरेण वा विषेण वा विपरीतसंज्ञिनः । ते खल्विदं महाभैषज्यं न पिबन्ति, मां चाभिनन्दन्ति । यन्नवहमिमान् पुत्रानुपायकौशल्येन इदं भैषज्यं पाययेयमिति । अथ खलु स वैद्यस्तान् पुत्रानुपायकौशल्येन तद्भैषज्यं पाययितुकाम एवं वदेत् - जीर्णो ऽहमस्मि कुलपुत्राः, वृद्धो महल्लकः । कालक्रिया च मे प्रत्युपस्थिता । मा च यूयं पुत्राः शोचिष्ठ, मा च क्लममापध्वम् । इदं वो मया महाभैषज्यमुपनीतम् । सचेदाकाङ्क्षध्वे, तदेव भैषज्यं पिबध्वम् । स एवं तान् पुत्रानुपायकौशल्येन अनुशिष्य अन्यतरं जनपदप्रदेशं प्रक्रान्तः । तत्र गत्वा कालगतमात्मानं येषां ग्लानानां पुत्राणामारोचयेत्, ते तस्मिन् समये ऽतीव शोचयेयुः, अतीव परिदेवेयुः - यो ह्यस्माकं पिता नाथो जनको ऽनुकम्पकः सो ऽपि नामैकः कालगतः, ते ऽद्य वयमनाथाः संवृत्ताः । ते खल्वनाथभूतमात्मानं समनुपश्यन्तो ऽशरणमात्मानं समनुपश्यन्तो ऽभीक्ष्णं शोकार्ता भवेयुः । तेषां च तयाभीक्ष्णं शोकार्ततया सा विपरीतसंज्ञा अविपरीतसंज्ञा भवेत् । यच्च तद् भैषज्यं वर्णगन्धरसोपेतं तद्वर्णगन्धरसोपेतमेव संजानीयुः । ततस्तस्मिन् समये तद्भैषज्यमभ्यवहरेयुः
। ते चाभ्यवहरन्तस्तस्मादाबाधात् परिमुक्ता भवेयुः । अथ खलु स वैद्यस्तान् पुत्रानाबाधविमुक्तान् विदित्वा पुनरेवात्मानमुपदर्शयेत् । तत्किं मन्यध्वे कुलपुत्रा मा हैव तस्य वैद्यस्य तदुपायकौशल्यं कुर्वतः कश्चिन्मृषावादेन संचोदयेत्? आहुः - नो हीदं भगवन्, नो हीदं सुगत । आह - एवमेव कुलपुत्राः अहमप्यप्रमेयासंख्येयकल्पकोटीनयुतशतसहस्राभिसंबुद्ध इमामनुत्तरां सम्यक्संबोधिम् । अपि तु खलु पुनः कुलपुत्राः अहमन्तरान्तरमेवंरूपाण्युपायकौशल्यानि सत्त्वानामुपदर्शयामि विनयार्थम् । न च मे कश्चिदत्र स्थाने मृषावादो भवति ॥
अथ खलु भगवानिमामेव अर्थगतिं भूयस्या मात्रया संदर्शयमानस्तस्यां वेलायामिमां गाथा अभाषत -
अचिन्तिया कल्पसहस्रकोट्यो यासां प्रमाणं न कदाचि विद्यते / प्राप्ता मया एष तदाग्रबोधिर्धर्मं च देशेम्यहु नित्यकालम् // saddhp_15.1 //
समादपेमी बहुबोधिसत्त्वान् बौद्धस्मि ज्ञानस्मि स्थपेमि चैव / सत्त्वान कोटीनयुताननेकान् परिपाचयामी बहुकल्पकोट्यः // saddhp_15.2 //
निर्वाणभूमिं चुपदर्शयामि विनयार्थ सत्त्वान वदाम्युपायम् / न चापि निर्वाम्यहु तस्मि काले इहैव चो धर्मु प्रकाशयामि // saddhp_15.3 //
तत्रापि चात्मानमधिष्ठहामि सर्वांश्च सत्त्वान तथैव चाहम् / विपरीतबुद्धी च नरा विमूढाः तत्रैव तिष्ठन्तु न पश्यिषू माम् // saddhp_15.4 //
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
