Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 4/8

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa

सद्धर्मपुण्डरीकसूत्र

Thông tin
GRETIL — P.L. Vaidya, Darbhanga : The Mithila Institute, 1960 (Buddhist Sanskrit Texts, 6).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

एवं दिशि दक्षिणियां पि तत्र अथ पश्चिमा हेष्टिम उत्तरस्याम् / उपरिष्टिमायां विदिशासु चैव आगत्य ब्रह्माण सहस्रकोट्यः // saddhp_7.70 //

पुष्पेभि अभ्योकिरियाण नायकं पादौ च वन्दित्व विनायकस्य / निर्यातयित्वा च विमान सर्वानभिष्टवित्वा पुनरभ्ययाचि // saddhp_7.71 //

प्रवर्तया चक्रमनन्तचक्षुः सुदुर्लभस्त्वं बहुकल्पकोटिभिः / दर्शेहि मैत्रीबल पूर्वसेवितमपावृणोही अमृतस्य द्वारम् // saddhp_7.72 //

अध्येषणां ज्ञात्व अनन्तचक्षुः प्रकाशते धर्म बहुप्रकारम् / चत्वारि सत्यानि च विस्तरेण प्रतीत्य सर्वे इमि भाव उत्थिताः // saddhp_7.73 //

अविद्य आदीकरियाण चक्षुमान् प्रभाषते स मरणान्तदुःखम् / जातिप्रसूता इमि सर्वदोषा मृत्युं च मानुष्यमिमेव जानथ // saddhp_7.74 //

समनन्तरं भाषितु धर्म तेन बहुप्रकारा विविधा अनन्ताः / श्रुत्वानशीती नयुतान कोट्यः सत्त्वाः स्थिताः श्रावक भूतले लघुम् // saddhp_7.75 //

क्षणं द्वितीयं अपरं अभूषि जिनस्य तस्यो बहु धर्म भाषतः / विशुद्धसत्त्वा यथ गङ्गवालुकाः क्षणेन ते श्रावकभूत आसीत् // saddhp_7.76 //

ततोत्तरी अगणियु तस्य आसीत् संघस्तदा लोकविनायकस्य / कल्पान कोटीन्ययुता गणेन्त एकैक नो चान्तु लभेय तेषाम् // saddhp_7.77 //

ये चापि ते षोडश राजपुत्रा ये औरसा चैलकभूत सर्वे / ते श्रामणेरा अवचिंसु तं जिनं प्रकाशया नायक अग्रधर्मम् // saddhp_7.78 //

यथा वयं लोकविदू भवेम यथैव त्वं सर्वजिनानमुत्तम / इमे च सत्त्वा भवि सर्वि एव यथैव त्वं वीर विशुद्धचक्षुः // saddhp_7.79 //

सो चा जिनो आंशयु ज्ञात्व तेषां कुमारभूतान तथात्मजानाम् / प्रकाशयी उत्तममग्रबोधिं दृष्टान्तकोटीनयुतैरनेकैः // saddhp_7.80 //

हेतूसहस्रैरुपदर्शयन्तो अभिज्ञज्ञानं च प्रवर्तयन्तः / भूतां चरिं दर्शयि लोकनाथो यथा चरन्तो विदु बोधिसत्त्वाः // saddhp_7.81 //

इदमेव सद्धर्मपुण्डरीकं वैपुल्यसूत्रं भगवानुवाच / गाथासहस्रेहि अनल्पकेहि येषां प्रमाणं यथ गङ्गवालिकाः // saddhp_7.82 //

सो चा जिनो भाषिय सूत्रमेतद्विहारु प्रविशित्व विलक्षयीत / पूर्णानशीतिं चतुरश्च कल्पान् समाहितैकासनि लोकनाथः // saddhp_7.83 //

ते श्रामणेराश्च विदित्व नायकं विहारि आसन्नमनिष्क्रमन्तम् / संश्रावयिंसु बहुप्राणिकोटिनां बौद्ध इमं ज्ञानमनास्रवं शिवम् // saddhp_7.84 //

पृथक् पृथगासन प्रज्ञपित्वा अभाषि तेषामिदमेव सूत्रम् / सुगतस्य तस्य तद शासनस्मिन् अधिकार कुर्वन्ति ममेवरूपम् // saddhp_7.85 //

गङ्गा यथा वालुक अप्रमेया सहस्र षष्टिं तद श्रावयिंसु / एकैकु तस्य सुगतस्य पुत्रो विनेति सत्त्वानि अनल्पकानि // saddhp_7.86 //

तस्यो जिनस्य परिनिर्वृतस्य चरित्व ते पश्यिसु बुद्धकोट्यः / तेही तदा श्रावितकेहि सार्धं कुर्वन्ति पूजां द्विपदोत्तमानाम् // saddhp_7.87 //

चरित्व चर्यां विपुलां विशिष्टां बुद्धा च ते बोधि दशद्दिशासु / ते षोडशा तस्य जिनस्य पुत्रा दिशासु सर्वासु द्वयो द्वयो जिनाः // saddhp_7.88 //

ये चापि संश्रावितका तदासी ते श्रावका तेष जिनान सर्वे / इममेव बोधिं उपनामयन्ति क्रमक्रमेण विविधैरुपायैः // saddhp_7.89 //

अहं पि अभ्यन्तरि तेष आसीन्मयापि संश्रावित सर्वि यूयम् / तेनो मम श्रावक यूयमद्य बोधावुपायेनिह सर्वि नेमि // saddhp_7.90 //

अयं खु हेतुस्तद पूर्व आसीदयं प्रत्ययो येन हु धर्म भाषे / नयाम्यहं येन ममाग्रबोधिं मा भिक्षवो उत्रसथेह स्थाने // saddhp_7.91 //

यथाटवी उग्र भवेय दारुणा शून्या निरालम्ब निराश्रया च / बहुश्वापदा चैव अपानिया च बालान सा भीषणिका भवेत // saddhp_7.92 //

पुरूषाण चो तत्र सहस्र नेका ये प्रस्थितास्तामटवीं भवेयुः / अटवी च सा शून्य भवेत दीर्घा पूर्णानि पञ्चाशत योजनानि // saddhp_7.93 //

पुरुषश्च आढ्यः स्मृतिमन्तु व्यक्तो धीरो विनीतश्च विशारदश्च / यो देशिकस्तेष भवेत तत्र अटवीय दुर्गाय सुभैरवाय // saddhp_7.94 //

ते चापि खिन्ना बहुप्राणिकोट्य उवाच तं देशिक तस्मि काले / खिन्ना वयं आर्य न शक्नुयाम निवर्तनं अद्यिह रोचते नः // saddhp_7.95 //

कुशलश्च सो पि तद पण्डितश्च प्रणायकोपाय तदा विचिन्तयेत् / धिक्कष्ट रत्नैरिमि सर्वि बाला भ्रश्यन्ति आत्मान निवर्तयन्तः // saddhp_7.96 //

यन्नूनहं ऋद्धिबलेन वाद्य नगरं महन्तं अभिनिर्मिणेयम् / प्रतिमण्डितं वेश्मसहस्रकोटिभिर्विहारौद्यानुपशोभितं च // saddhp_7.97 //

वापी नदीयो अभिनिर्मिणेयम् आरामपुष्पैः प्रतिमण्डितं च / प्राकारद्वारैरुपशोभितं च नारीनरैश्चाप्रतिमैरुपेतम् // saddhp_7.98 //

निर्माणु कृत्व इति तान् वदेय मा भायथा हर्ष करोथ चैव / प्राप्ता भवन्तो नगरं वरिष्ठं प्रविश्य कार्याणि कुरुष्व क्षिप्रम् // saddhp_7.99 //

उदग्रचित्ता भणथेह निर्वृता निस्तीर्ण सर्वा अटवी अशेषतः / आश्वासनार्थाय वदेति वाचं कथं न प्रत्यागत सर्वि अस्या // saddhp_7.100 //

विश्रान्तरूपांश्च विदित्व सर्वान् समानयित्वा च पुनर्ब्रवीति / आगच्छथ मह्य शृणोथ भाषतो ऋद्धीमयं नगरमिदं विनिर्मितम् // saddhp_7.101 //

युष्माक खेदं च मया वित्दिवा निवर्तनं मा च भविष्यतीति / उपायकौशल्यमिदं ममेति जनेथ वीर्यं गमनाय द्वीपम् // saddhp_7.102 //

एमेव हं भिक्षव देशिको वा प्रणायकः प्राणिसहस्रकोटिनाम् / खिद्यन्त पश्यामि तथैव प्राणिनः क्लेशाण्डकोशं न प्रभोन्ति भेत्तुम् // saddhp_7.103 //

ततो मया चिन्तितु एष अर्थो विश्रामभूता इमि निर्वृतीकृताः / सर्वस्य दुःखस्य निरोध एष अर्हन्तभूमौ कृतकृत्य यूयम् // saddhp_7.104 //

समये यदा तु स्थित अत्र स्थाने पश्यामि यूयामर्हन्त तत्र सर्वान् / तदा च सर्वानिह संनिपात्य भूतार्थमाख्यामि यथैष धर्मः // saddhp_7.105 //

उपायकौशल्य विनायकानां यद् यान देशेन्ति त्रयो महर्षी / एकं हि यानं न द्वितीयमस्ति विश्रामणार्थं तु द्वियान देशिता // saddhp_7.106 //

ततो वदेमि अहमद्य भिक्षवो जनेथ वीर्यं परमं उदारम् / सर्वज्ञज्ञानेन कृतेन यूयं नैतावता निर्वृति काचि भोति // saddhp_7.107 //

सर्वज्ञज्ञानं तु यदा स्पृशिष्यथ दशो बला ये च जिनान धर्माः / द्वात्रिंशतीलक्षणरूपधारी बुद्धा भवित्वान भवेथ निर्वृताः // saddhp_7.108 //

एतादृशी देशन नायकानां विश्रामहेतोः प्रवदन्ति निर्वृतिम् / विश्रान्त ज्ञात्वान च निर्वृतीये सर्वज्ञज्ञाने उपनेन्ति सर्वान् // saddhp_7.109 //

इत्यार्यसद्धर्मपुण्डरीके धर्मपर्याये पूर्वयोगपरिवर्तो नाम सप्तमः ॥

saddhp_8: पञ्चभिक्षुशतव्याकरणपरिवर्तः ।

अथ खल्वायुष्मान् पूर्णो मैत्रायणीपुत्रो भगवतो ऽन्तिकादिदमेवंरूपमुपायकौशल्यज्ञानदर्शनं संधाभाषितनिर्देशं श्रुत्वा एषां च महाश्रावकाणां व्याकरणं श्रुत्वा इमां च पूर्वयोगप्रतिसंयुक्तां कथां श्रुत्वा इमां च भगवतो वृषभतां श्रुत्वा आश्चर्यप्राप्तो ऽभूदद्भुतप्राप्तो ऽभून्निरामिषेण च चित्तेन प्रीतिप्रामोद्येन स्फुटो ऽभूत् । महता च प्रीतिप्रामोद्येन महता च धर्मगौरवेण उत्थायासनाद् भगवतश्चरणयोः प्रणिपत्य एवं चित्तमुत्पादितवान् - आश्चर्यं भगवन्, आश्चर्यं सुगत । परमदुष्करं तथागता अर्हन्तः सम्यक्संबुद्धाः कुर्वन्ति, य इमं नानाधातुकं लोकमनुवर्तयन्ते, बहुभिश्चोपायकौशल्यज्ञाननिदर्शनैः सत्त्वानां धर्मं देशयन्ति, तस्मिंस्तस्मिंश्च सत्त्वान् विलग्नानुपायकौशल्येन प्रमोचयन्ति । किमत्र भगवन् अस्माभिः शक्यं कर्तुम्? तथागत एवास्माकं जानीते आशयं पूर्वयोगचर्यां च । स भगवतः पादौ शिरसाभिवन्द्य एकान्ते स्थितो ऽभूद् भगवन्तमेव नमस्कुर्वन् अनिमिषाभ्यां च नेत्राभ्यां संप्रेक्षमाणः ॥

अथ खलु भगवानायुष्मन्तः पूर्णस्य मैत्रायणीपुत्रस्य चित्ताशयमवलोक्य सर्वावन्तं भिक्षुसंघमामन्त्रयते स्म - पश्यथ भिक्षवो यूयमिमं श्रावकं पूर्णं मैत्रायणीपुत्रं यो मयास्य भिक्षुसंघस्य धर्मकथिकानामग्र्यो निर्दिष्टः, बहुभिश्च भूतैर्गुणैरभिष्टुतः, बहुभिश्च प्रकारैरस्मिन् मम शासने सद्धर्मपरिग्रहायाभियुक्तः । चतसृणां पर्षदां संहर्षकः समादापकः समुत्तेजकः संप्रहर्षको ऽक्लान्तो धर्मदेशनया, अलमस्य धर्मस्याख्याता, अलमनुग्रहीता सब्रह्मचारिणाम् । मुक्त्वा भिक्षवस्तथागतं नान्यः शक्तः पूर्णं मैत्रायणीपुत्रमर्थतो वा व्यञ्जनतो वा पर्यादातुम् । तत्किं मन्यध्वे भिक्षवो ममैवायं सद्धर्मपरिग्राहक इति? न खलु पुनर्भिक्षवो युष्माभिरेवं द्रष्टव्यम् । तत्कस्य हेतोः? अभिजानाम्यहं भिक्षवो ऽतीते ऽध्वनि नवनवतीनां बुद्धकोटीनाम्, यत्र अनेनैव तेषां बुद्धानां भगवतां शासने सद्धर्मः परिगृहीतः । तद्यथापि नाम मम एतर्हि सर्वत्र चाग्र्यो धर्मकथिकानामभूत्, सर्वत्र च शून्यतागतिं गतो ऽभूत् । सर्वत्र च प्रतिसंविदां लाभी अभूत्, सर्वत्र च बोधिसत्त्वाभिज्ञासु गतिं गतो ऽभूत् । सुविनिश्चितधर्मदेशको निर्विचिकित्सधर्मदेशकः परिशुद्धधर्मदेशकश्चाभूत् । तेषां च बुद्धानां भगवतां शासने यावदायुष्प्रमाणं ब्रह्मचर्यं चरितवान् । सर्वत्र च श्रावक इति संज्ञायते स्म । स खल्वनेनोपायेन अप्रमेयाणामसंख्येयानां सत्त्वकोटीनयुतशतसहस्राणामर्थमकार्षीत्, अप्रमेयानसंख्येयांश्च सत्त्वान् परिपाचितवाननुत्तरायां सम्यक्संबोधौ । सर्वत्र च बुद्धकृत्येन सत्त्वानां प्रत्युपस्थितो ऽभूत् । सर्वत्र चात्मनो बुद्धक्षेत्रं परिशोधयति स्म । सत्त्वानां च परिपाकायाभियुक्तो ऽभूत् । एषामपि भिक्षवो विपश्यिप्रमुखानां सप्तानां तथागतानां येषामहं सप्तमः, एष एवाग्र्यो धर्मकथिकानामभूत् ॥

यदपि तद्भिक्षवो भविष्यत्यनागते ऽध्वनि अस्मिन् भद्रकल्पे चतुर्भिर्बुद्धैरूनं बुद्धसहस्रम्, तेषामपि शासने एष एव पूर्णो मैत्रायणीपुत्रो ऽग्र्यो धर्मकथिकानां भविष्यति, सद्धर्मपरिग्राहकश्च भविष्यति । एवमनागते ऽध्वनि अप्रमेयाणामसंख्येयानां बुद्धानां भगवतां सद्धर्ममाधारयिष्यति, अप्रमेयाणामसंख्येयानां सत्त्वानामर्थं करिष्यति, अप्रमेयानसंख्येयांश्च सत्त्वान् परिपाचयिष्यत्यनुत्तरायां सम्यक्संबोधौ । सततसमितं चाभियुक्तो भविष्यत्यात्मनो बुद्धक्षेत्रपरिशुद्धये सत्त्वपरिपाचनाय । स इमामेवंरूपां बोधिसत्त्वचर्यां परिपूर्य अप्रमेयैरसंख्येयैः कल्पैरनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यते । धर्मप्रभासो नाम तथागतो ऽर्हन् सम्यक्संबुद्धो लोके भविष्यति विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान् । अस्मिन्नेव बुद्धक्षेत्र उत्पत्स्यते ॥

तेन खलु पुनर्भिक्षवः समयेन गङ्गानदीवालुकोपमास्त्रिसाहस्रमहासाहस्रलोकधातव एकं बुद्धक्षेत्रं भविष्यति । समं पाणितलजातं सप्तरत्नमयमपगतपर्वतं सप्तरत्नमयैः कूटागारैः परिपूर्णं भविष्यति । देवविमानानि चाकाशस्थितानि भविष्यन्ति । देवा अपि मनुष्यान् द्रक्ष्यन्ति, मनुष्या अपि देवान् द्रक्ष्यन्ति । तेन खलु पुनर्भिक्षवः समयेन इदं बुद्धक्षेत्रमपगतपापं भविष्यति अपगतमातृग्रामं च । सर्वे च ते सत्त्वा औपपादुका भविष्यन्ति ब्रह्मचारिणो मनोमयैरात्मभावैः स्वयंप्रभा ऋद्धिमन्तो वैहायसंगमा वीर्यवन्तः स्मृतिमन्तः प्रज्ञावन्तः सुवर्णवर्णैः समुच्छ्रयैर्द्वात्रिंशद्भिर्महापुरुषलक्षणैः समलंकृतविग्रहाः । तेन खलु पुनर्भिक्षवः समयेन तस्मिन् बुद्धक्षेत्रे तेषां सत्त्वानां द्वावाहारौ भविष्यतः । कतमौ द्वौ? यदुत धर्मप्रीत्याहारो ध्यानप्रीत्याहारश्च । अप्रमेयाणि चासंख्येयानि बोधिसत्त्वकोटीनयुतशतसहस्राणि भविष्यन्ति सर्वेषां च महाभिज्ञाप्राप्तानां प्रतिसंविद्गतिंगतानां सत्त्वाववादकुशलानाम् । गणनासमतिक्रान्ताश्चास्य श्रावका भविष्यन्ति महर्द्धिका महानुभावा अष्टविमोक्षध्यायिनः । एवमपरिमितगुणसमन्वागतं तद् बुद्धक्षेत्रं भविष्यति । रत्नावभासश्च नाम स कल्पो भविष्यति । सुविशुद्धा च नाम सा लोकधातुर्भविष्यति । अप्रमेयानसंख्येयांश्चास्य कल्पानायुष्प्रमाणं भविष्यति । परिनिर्वृतस्य च तस्य भगवतो धर्मप्रभासस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य सद्धर्मश्चिरस्थायी भविष्यति । रत्नमयैश्च स्तूपैः सा लोकधातुः स्फुटा भविष्यति । एवमचिन्त्यगुणसमन्वागतं भिक्षवस्तस्य भगवतस्तद्बुद्धक्षेत्रं भविष्यति ॥

इदमवोचद्भगवान् । इदं वदित्वा सुगतो ह्यथापरमेतदुवाच शास्ता -

शृणोथ मे भिक्षव एतमर्थं यथा चरी मह्य सुतेन चीर्णा / उपायकौशल्यसुशिक्षितेन यथा च चीर्णा इय बोधिचर्या // saddhp_8.1 //

हीनाधिमुक्ता इम सत्त्व ज्ञात्वा उदारयाने च समुत्त्रसन्ति / ततु श्रावका भोन्तिमि बोधिसत्त्वाः प्रत्येकबोधिं च निदर्शयन्ति // saddhp_8.2 //

उपायकौशल्यशतैरनेकैः परिपाचयन्ति बहुबोधिसत्त्वान् / एवं च भाषन्ति वयं हि श्रावका दूरे वयं उत्तममग्रबोधिया // saddhp_8.3 //

एतां चरिं तेष्वनुशिक्षमाणाः परिपाकु गच्छन्ति हि सत्त्वकोट्यः / हीनाधिमुक्ताश्च कुसीदरूपा अनुपूर्व ते सर्वि भवन्ति बुद्धाः // saddhp_8.4 //

अज्ञानचर्यां च चरन्ति एते वयं खलु श्रावक अल्पकृत्याः / निर्विण्ण सर्वासु च्युतोपपत्तिषु स्वकं च क्षेत्रं परिशोधयन्ति // saddhp_8.5 //

सरागतामात्मनि दर्शयन्ति सदोषतां चापि समोहतां च / दृष्टीविलग्नांश्च विदित्व सत्त्वांस्तेषां पि दृष्टिं समुपाश्रयन्ति // saddhp_8.6 //

एवं चरन्तो बहु मह्य श्रावकाः सत्त्वानुपायेन विमोचयन्ति / उन्मादु गच्छेयु नरा अविद्वसू स चैव सर्वं चरितं प्रकाशयेत् // saddhp_8.7 //

पूर्णो अयं श्रावक मह्य भिक्षवश्चरितो पुरा बुद्धसहस्रकोटिषु / तेषां च सद्धर्म परिग्रहीषीद् बौद्धं इदं ज्ञान गवेषमाणः // saddhp_8.8 //

सर्वत्र चैषो अभु अग्रश्रावको बहुश्रुतश्चित्रकथी विशारदः / संहर्षकश्चा अकिलासि नित्यं सद बुद्धकृत्येन च प्रत्युपस्थितः // saddhp_8.9 //

महाअभिज्ञासु सदा गतिंगतः प्रतिसंविदानां च अभूषि लाभी / सत्त्वान चो इन्द्रियगोचरज्ञो धर्मं च देशेति सदा विशुद्धम् // saddhp_8.10 //

सद्धर्म श्रेष्ठं च प्रकाशयन्तः परिपाचयी सत्त्वसहस्रकोट्यः / अनुत्तरस्मिन्निह अग्रयाने क्षेत्रं स्वकं श्रेष्ठु विशोधयन्तः // saddhp_8.11 //

अनागते चापि तथैव अध्वे पूजेष्यती बुद्धसहस्रकोट्यः / सद्धर्म श्रेष्ठं च परिग्रहीष्यति स्वकं च क्षेत्रं परिशोधयिष्यति // saddhp_8.12 //

देशेष्यती धर्म सदा विशारदो उपायकौशल्यसहस्रकोटिभिः / बहूंश्च सत्त्वान् परिपाचयिष्यति सर्वज्ञज्ञानस्मि अनास्रवस्मिन् // saddhp_8.13 //

सो पूज कृत्वा नरनायकानां सद्धर्म श्रेष्ठं सद धारयित्वा / भविष्यती बुद्ध स्वयंभु लोके धर्मप्रभासो दिशतासु विश्रुतः // saddhp_8.14 //

क्षेत्रं च तस्य सुविशुद्ध भेष्यती रत्नान सप्तान सदा विशिष्टम् / रत्नवभासश्च स कल्पु भेष्यती सुविशुद्ध सो भेष्यति लोकधातुः // saddhp_8.15 //

बहुबोधिसत्त्वान सहस्रकोट्यो महाअभिज्ञासु सुकोविदानाम् / येहि स्फुटो भेष्यति लोकधातुः सुविशुद्ध शुद्धेहि महर्द्धिकेहि // saddhp_8.16 //

अथ श्रावकाणां पि सहस्रकोट्यः संघस्तदा भेष्यति नायकस्य / महर्द्धिकानष्टविमोक्षध्यायिनां प्रतिसंविदासू च गतिंगतानाम् // saddhp_8.17 //

सर्वे च सत्त्वास्तहि बुद्धक्षेत्रे शुद्धा भविष्यन्ति च ब्रह्मचारिणः / उपपादुकाः सर्वि सुवर्णवर्णा द्वात्रिंशतीलक्षणरूपधारिणः // saddhp_8.18 //

आहारसंज्ञा च न तत्र भेष्यति अन्यत्र धर्मे रति ध्यानप्रीतिः / न मातृग्रामो ऽपि च तत्र भेष्यति न चाप्यपायान च दुर्गतीभयम् // saddhp_8.19 //

एतादृशं क्षेत्रवरं भविष्यति पूर्णस्य संपूर्णगुणान्वितस्य / आकीर्ण सत्त्वेहि सुभद्रकेहि यत्किंचिमात्रं पि इदं प्रकाशितम् // saddhp_8.20 //

अथ खलु तेषां द्वादशानां वशीभूतशतानामेतदभवत् - आश्चर्यप्राप्त स्म, अद्भुतप्राप्ताः स्म । सचेदस्माकमपि भगवान् यथेमे ऽन्ये महाश्रावका व्याकृताः, एवमस्माकमपि तथागतः पृथक् पृथग् व्याकुर्यात् । अथ खलु भगवांस्तेषां महाश्रावकाणां चेतसैव चेतःपरिवितर्कमाज्ञाय आयुष्मन्तं महाकाश्यपमामन्त्रयते स्म - इमानि काश्यप द्वादश वशीभूतशतानि, येषामहमेतर्हि संमुखीभूतः । सर्वाण्येतान्यहं काश्यप द्वादश वशीभूतशतान्यनन्तरं व्याकरोमि । तत्र काश्यप कौण्डिन्यो भिक्षुर्महाश्रावको द्वाषष्टीनां बुद्धकोटीनयुतशतसहस्राणां परेण परतरं समन्तप्रभासो नाम तथागतो ऽर्हन् सम्यक्संबुद्धो लोके भविष्यति, विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान् । तत्र काश्यप अनेनैकेन नामधेयेन पञ्च तथागतशतानि भविष्यन्ति । अतः पञ्च महाश्रावकशतानि सर्वाण्यनन्तरमनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यन्ते । सर्वाण्येव समन्तप्रभासनामधेयानि भविष्यन्ति । तद्यथा गयाकाश्यपो नदीकाश्यपः उरुबिल्वकाश्यपः कालः कालोदायी अनिरुद्धो रेवतः कप्फिणो बक्कुलश्चुन्दः स्वागतः इत्येवंप्रमुखानि पञ्च वशीभूतशतानि ॥

अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत -

कौण्डिन्यगोत्रो मम श्रावको ऽयं तथागतो भेष्यति लोकनाथः / अनागते ऽध्वानि अनन्तकल्पे विनेष्यते प्राणिसहस्रकोट्यः // saddhp_8.21 //

समन्तप्रभो नाम जिनो भविष्यति क्षेत्रं च तस्य परिशुद्ध भेष्यति / अनन्तकल्पस्मि अनागते ऽध्वनि दृष्ट्वान बुद्धान् बहवो ह्यनन्तान् // saddhp_8.22 //

प्रभास्वरो बुद्धबलेनुपेतो विघुष्टशब्दो दशसु द्दिशासु / पुरस्कृतः प्राणिसहस्रकोटिभिर्देशेष्यती उत्तममग्रबोधिम् // saddhp_8.23 //

ततु बोधिसत्त्वा अभियुक्तरूपा विमानश्रेष्ठान्यभिरुह्य चापि / विहरन्त तत्र अनुचिन्तयन्ति विशुद्धशीला सद साधुवृत्तयः // saddhp_8.24 //

श्रुत्वान धर्मं द्विपदोत्तमस्य अन्यानि क्षेत्राण्यपि चो सदा ते / व्रजन्ति ते बुद्धसहस्रवन्दकाः पूजां च तेषां विपुलां करोन्ति // saddhp_8.25 //

क्षेणेन ते चापि तदास्य क्षेत्रं प्रत्यागमिष्यन्ति विनायकस्य / प्रभासनामस्य नरोत्तमस्य चर्याबलं तादृशकं भविष्यति // saddhp_8.26 //

षष्टिः सहस्रा परिपूर्णकल्पानायुष्प्रमाणं सुगतस्य तस्य / ततश्च भूयो द्विगुणेन तायिनः परिनिर्वृतस्येह स धर्म स्थास्यति // saddhp_8.27 //

प्रतिरूपकश्चास्य भविष्यते पुनस्त्रिगुणं ततो एत्तकमेव कालम् / सद्धर्मभ्रष्टे तद तस्य तायिनो दुखिता भविष्यन्ति नरा मरू च // saddhp_8.28 //

जिनान तेषां समनामकानां समन्तप्रभाणां पुरुषोत्तमानाम् / परिपूर्ण पञ्चाशत नायकानां एते भविष्यन्ति परंपराय // saddhp_8.29 //

सर्वेष एतादृशकाश्च व्यूहा ऋद्धिबलं च तथ बुद्धक्षेत्रम् / गणश्च सद्धर्म तथैव ईदृशः सद्धर्मस्थानं च समं भविष्यति // saddhp_8.30 //

सर्वेषमेतादृशकं भविष्यति नामं तदा लोकि सदेवकस्मिन् / यथा मया पूर्वि प्रकीर्तितासीत् समन्तप्रभासस्य नरोत्तमस्य // saddhp_8.31 //

परंपरा एव तथान्यमन्यं ते व्याकरिष्यन्ति हितानुकम्पी / अनन्तरायं मम अद्य भेष्यति यथैव शासाम्यहु सर्वलोकम् // saddhp_8.32 //

एवं खु एते त्वमिहाद्य काश्यप धारेहि पञ्चाशतनूनकानि / वशिभूत ये चापि ममान्यश्रावकाः कथयाहि चान्येष्वपि श्रावकेषु // saddhp_8.33 //

अथ खलु तानि पञ्चार्हच्छतानि भगवतः संमुखमात्मनो व्याकरणानि श्रुत्वा तुष्टा उदग्रा आत्तमनस प्रमुदिताः प्रीतिसौमनस्यजाता येन भगवांस्तेनोपसंक्रान्ताः । उपसंक्रम्य भगवतः पादयोः शिरोभिर्निपत्य एवमाहुः - अत्ययं वयं भगवन् देशयामो यैरस्माभिर्भगवन्नेवं सततसमितं चित्तं परिभावितम् - इदमस्माकं परिनिर्वाणम् । परिनिर्वृता वयमिति । यथापीदं भगवन् अव्यक्ता अकुशला अविधिज्ञाः । तत्कस्य हेतोः? यैर्नाम अस्माभिर्भगवंस्तथागतज्ञाने ऽभिसंबोद्धव्ये एवंरूपेण परीत्तेन ज्ञानेन परितोषं गताः स्म । तद्यथापि नाम भगवन् कस्यचिदेव पुरुषस्य कंचिदेव मित्रगृहं प्रविष्टस्य मत्तस्य वा सुप्तस्य वा स मित्रो ऽनर्घमणिरत्नं वस्त्रान्ते बध्नीयात् - अस्येदं मणिरत्नं भवत्विति । अथ खलु भगवन् स पुरुष उत्थायासनात् प्रकामेत् । सो ऽन्यं जनपदप्रदेशं प्रपद्येत । स तत्र कृच्छ्रप्राप्तो भवेत् । आहारचीवरपर्येष्टिहेतोः कृच्छ्रमापद्येत । महता च व्यायामेन कथंचित् कंचिदाहारं प्रतिलभेत । तेन च संतुष्टो भवेदात्तमनस्कः प्रमुदितः । अथ खलु भगवंस्तस्य पुरुषस्य स पुराणमित्रः पुरुषो येन तस्य तदनर्घेयं मणिरत्नं वस्त्रान्ते बद्धम्, स तं पुनरेव पश्येत् । तमेवं वदेत् - किं त्वं भोः पुरुष कृच्छ्रमापद्यसे आहारचीवरपर्येष्टिहेतोः, यदा यावद् भोः पुरुष मया तव सुखविहारार्थं सर्वकामनिवर्तकमनर्घेयं मणिरत्नं वस्त्रान्ते उपनिबद्धम् । निर्यातितं ते भोः पुरुष ममैतन्मणिरत्नम् । तदेवमुपनिबद्धमेव भोः पुरुष वस्त्रान्ते मणिरत्नम् । न च नाम त्वं भोः पुरुष प्रत्यवेक्षसे - किं मम बद्धं येन वा बद्धं को हेतुः किंनिदानं वा (वैद्य 135) बद्धमेतत्? बालजातीयस्त्वं भोः पुरुष यस्त्वं कृच्छ्रेण आहारचीवरं पर्येषमाणस्तुष्टिमापद्यसे । गच्छ त्वं भोः पुरुष एतन्मणिरत्नं ग्रहाय महानगरं गत्वा परिवर्तयस्त्व । तेन च धनेन सर्वाणि धनकरणीयानि कुरुष्वेति ॥

एवमेव भगवन् अस्माकमपि तथागतेन पूर्वमेव बोधिसत्त्वचर्यां चरता सर्वज्ञताचित्तान्युत्पादितान्यभूवन् । तानि च वयं भगवन् न जानीमो न बुध्यामहे । ते वयं भगवन् अर्हद्भूमौ निर्वृताः स्म इति संजानीमः । वयं कृच्छ्रं जीवामः, यद्वयं भगवन् एवं परीत्तेन ज्ञानेन परितोषमापद्यामः । सर्वज्ञज्ञानप्रणिधानेन सदा अविनष्टेन । ते वयं भगवंस्तथागतेन संबोध्यमानाः - मा यूयं भिक्षव एतन्निर्वाणं मन्यध्वम् । संविद्यन्ते भिक्षवो युष्माकं संताने कुशलमूलानि यानि मया पूर्वं परिपाचितानि । एतर्हि च ममैवेदमुपायकौशल्यं धर्मदेशनाभिलापेन यद् यूयमेतर्हि निर्वाणमिति मन्यध्वे । एवं च वयं भगवता संबोधयित्वा अद्यानुत्तरायां सम्यक्संबोधौ व्याकृताः ॥

अथ खलु तानि पञ्च वशीभूतशतान्याज्ञातकौण्डिन्यप्रमुखानि तस्यां वेलायमिमा गाथा अभाषन्त -

हृष्टा प्रहृष्टा स्म श्रुणित्व एतां आश्वासनामीदृशिकामनुत्तराम् / यं व्याकृताः स्म परमाग्रबोधये नमो ऽस्तु ते नायक नन्तचक्षुः // saddhp_8.34 //

देशेमहे अत्ययु तुभ्यमन्तिके यथैव बाला अविदू अजानकाः / यं वै वयं निर्वृतिमात्रकेण परितुष्ट आसीत् सुगतस्य शासने // saddhp_8.35 //

यथापि पुरुषो भवि कश्चिदेव प्रविष्ट स स्यादिह मित्रशालम् / मित्रं च तस्य धनवन्तमाढ्यं सो तस्य दद्याद् बहू खाद्यभोज्यम् // saddhp_8.36 //

संतर्पयित्वान च भोजनेन अनेकमूल्यं रतनं च दद्यात् / बद्ध्वान्तरीये वसनान्ति ग्रन्थिं दत्वा च तस्येह भवेत तुष्टः // saddhp_8.37 //

सो चापि प्रक्रान्तु भवेत बालो उत्थाय सो ऽन्यं नगरं व्रजेत / सो कृच्छ्रप्राप्तः कृपणो गवेषी आहार पर्येषति खिद्यमानः // saddhp_8.38 //

पर्येषितः भोजननिर्वृतः स्याद् भक्तं उदारं अविचिन्तयन्तः / तं चापि रत्नं हि भवेत विस्मृतं बद्ध्वान्तरीये स्मृतिरस्य नास्ति // saddhp_8.39 //

तमेव सो पश्यति पूर्वमित्रो येनास्य दत्तं रतनं गृहे स्वे / तमेव सुष्ठू परिभाषयित्वा दर्शेति रत्नं वसनान्तरस्मिन् // saddhp_8.40 //

दृष्ट्वा च सो परमसुखैः समर्पितो रत्नस्य तस्यो अनुभाव ईदृशः / महाधनी कोशबली च सो भवेत् समर्पितः कामगुणेहि पञ्चहि // saddhp_8.41 //

एमेव भगवन् वयमेवरूपम् अजानमाना प्रणिधानपूर्वकम् / तथागतेनैव इदं हि दत्तं भवेषु पूर्वेष्विह दीर्घरात्रम् // saddhp_8.42 //

वयं च भगवन्निह बालबुद्धयो अजानकाः स्मो सुगतस्य शासने / निर्वाणमात्रेण वयं हि तुष्टा न उत्तरी प्रार्थयि नापि चिन्तयी // saddhp_8.43 //

वयं च संबोधित लोकबन्धुना न एष एतादृश काचि निर्वृतिः / ज्ञानं प्रणीतं पुरुषोत्तमानां या निर्वृतीयं परमं च सौख्यम् // saddhp_8.44 //

इदं चुदारं विपुलं बहूविधं अनुत्तरं व्याकरणं च श्रुत्वा / प्रीता उदग्रा विपुला स्म जाताः परस्परं व्याकरणाय नाथ // saddhp_8.45 //

इत्यार्यसद्धर्मपुण्डरीके धर्मपर्याये पञ्चभिक्षुशतव्याकरणपरिवर्तो नामाष्टमः ॥

saddhp_9: आनन्दादिव्याकरणपरिवर्तः ।

अथ खल्वायुष्मानानन्दस्तस्यां वेलायामेवं चिन्तयामास - अप्येव नाम वयमेवंरूपं व्याकरणं प्रतिलभेमहि । एवं च चिन्तयित्वा अनुविचिन्त्य प्रार्थयित्वा उत्थायासनाद् भगवतः पादयोर्निपत्य, आयुष्मांश्च राहुलो ऽप्येवं चिन्तयित्वा अनुविचिन्त्य प्रार्थयित्वा भगवतः पादयोर्निपत्य एवं वाचमभाषत - अस्माकमपि तावद् भगवन् अवसरो भवतु । अस्माकमपि तावत् सुगत अवसरो भवतु । अस्माकं हि भगवान् पिता जनको लयनं त्राणं च । वयं हि भगवन् सदेवमानुषासुरे लोके ऽतीव चित्रीकृताः - भगवतश्चैते पुत्रः भगवतश्चोपस्थायकाः भगवतश्च धर्मकोशं धारयन्तीति । तन्नाम भगवन् क्षिप्रमेव प्रतिरूपं भवेद् यद् भगवानस्माकं व्याकुर्यादनुत्तरायां सम्यक्संबोधौ ॥

अन्ये च द्वे भिक्षुसहस्रे सातिरेके शैक्षाशैक्षाणां श्रावकाणामुत्थायासनेभ्य एकांसमुत्तरासङ्गं कृत्वा अञ्जलिं प्रगृह्य भगवतो ऽभिमुखं भगवन्तमुल्लोकयमाने तस्थतुः एतामेव चिन्तामनुविचिन्तयमाने यदुत इदमेव बुद्धज्ञानम् - अप्येव नाम वयमपि व्याकरणं प्रतिलभेमहि अनुत्तरायां सम्यक्संबोधाविति ॥

अथ खलु भगवानायुष्मन्तमानन्दमामन्त्रयते स्म - भविष्यसि त्वमानन्द अनागते ऽध्वनि सागरवरधरबुद्धिविक्रीडिताभिज्ञो नाम तथागतो ऽर्हन् सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान् । द्वाषष्टीनां बुद्धकोटीनां सत्कारं कृत्वा, गुरुकारं माननां पूजनां च कृत्वा, तेषां बुद्धानां भगवतां सद्धर्मं धारयित्वा, शासनपरिग्रहं च कृत्वा अनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यसि । स त्वमानन्द अनुत्तरां सम्यक्संबोधिं संबुद्धः समानो विंशतिगङ्गानदीवालुकासमानि बोधिसत्त्वकोटीनयुतशतसहस्राणि परिपाचयिष्यस्यनुत्तरायां सम्यक्संबोधौ । समृद्धं च ते बुद्धक्षेत्रं भविष्यति वैडूर्यमयं च । अनवनामितवैजयन्ती च नाम सा लोकधातुर्भविष्यति । मनोज्ञशब्दाभिगर्जितश्च नाम स कल्पो भविष्यति । अपरिमितांश्च कल्पांस्तस्य भगवतः सागरवरधरबुद्धिविक्रीडिताभिज्ञस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य आयुष्प्रमाणं भविष्यति, येषां कल्पानां न शक्यं गणनया पर्यन्तो ऽधिगन्तुम् । तावदसंख्येयानि तानि कल्पकोटीनयुतशतसहस्राणि तस्य भगवत आयुष्प्रमाणं भविष्यति । यावच्च आनन्द तस्य भगवतः सागरवरधरबुद्धिविक्रीडिताभिज्ञस्य तथागतस्यार्हतः सम्यक्संबुद्धस्यायुष्प्रमाणं भविष्यति, तद्द्विगुणं परिनिर्वृतस्य सद्धर्मः स्थास्यति । यावांस्तस्य भगवतः सद्धर्मः स्थास्यति, तद्द्विगुणः सद्धर्मप्रतिरूपकं स्थास्यति । तस्य खलु पुनरानन्द सागरवरधरबुद्धिविक्रीडिताभिज्ञस्य तथागतस्य दशसु दिक्षु बहूनि गङ्गानदीवालुकासमानि बुद्धकोटीनयुतशतसहस्राणि वर्णं भाषिष्यन्ति ॥

अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत -

आरोचयामि अहु भिक्षुसंघे आनन्दभद्रो मम धर्मधारकः / अनागते ऽध्वानि जिनो भविष्यति पूजित्व षष्टिं सुगतान कोट्यः // saddhp_9.1 //

नामेन सो सागरबुद्धिधारी अभिज्ञप्राप्तो इति तत्र विश्रुतः / परिशुद्धक्षेत्रस्मि सुदर्शनीये अनोनतायां ध्वजवैजयन्त्याम् // saddhp_9.2 //

तहि बोधिसत्त्वा यथा गङ्गवालिकास्ततश्च भूयो परिपाचयिष्यति / महर्द्धिकश्चो स जिनो भविष्यति दशद्दिशे लोकविघुष्टशब्दः // saddhp_9.3 //

अमितं च तस्यायु तदा भविष्यति यः स्थास्यते लोकहितानुकम्पकः / परिनिर्वृतस्यापि जिनस्य तायिनो द्विगुणं च सद्धर्मु स तस्य स्थास्यति // saddhp_9.4 //

प्रतिरूपकं तद्द्विगुणेन भूयः संस्थास्यते तस्य जिनस्य शासने / तदापि सत्त्वा यथा गङ्गवालिका हेतुं जनेष्यन्तिह बुद्धबोधौ // saddhp_9.5 //

अथ खलु तस्यां पर्षदि नवयानसंप्रस्थितानामष्टानां बोधिसत्त्वसहस्राणामेतदभवत् - न बोधिसत्त्वानामपि तावदस्माभिरेवमुदारं व्याकरणं श्रुतपूर्वम्, कः पुनर्वादः श्रावकाणाम्? कः खल्वत्र हेतुर्भविष्यति, कः प्रत्यय इति? अथ खलु भगवांस्तेषां बोधिसत्त्वानां चेतसैव चेतः परिवितर्कमाज्ञाय तान् बोधिसत्त्वानामन्त्रयामास - सममस्माभिः कुलपुत्रा एकक्षणे एकमुहूर्ते मया च आनन्देन च अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादितं धर्मगगनाभ्युद्गतराजस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य संमुखम् । तत्रैष कुलपुत्रा बाहुश्रुत्ये च सततसमितमभियुक्तो ऽभूत्, अहं च वीर्यारम्भे ऽभियुक्तः । तेन मया क्षिप्रतरमनुत्तरा सम्यक्संबोधिरभिसंबुद्धा । अयं पुनरानन्दभद्रो बुद्धानां भगवतां सद्धर्मकोशधर एव भवति स्म - यदुत बोधिसत्त्वानां परिनिष्पत्तिहेतोः प्रणिधानमेतत्कुलपुत्रा अस्य कुलपुत्रस्येति ॥

अथ खल्वायुष्मानानन्दो भगवतो ऽन्तिकादात्मनो व्याकरणं श्रुत्वा अनुत्तरायां सम्यक्संबोधौ, आत्मनश्च बुद्धक्षेत्रगुणव्यूहान् श्रुत्वा, पूर्वप्रणिधानचर्यां च श्रुत्वा, तुष्ट उदग्र आत्तमनस्कः प्रमुदितः प्रीतिसौमनस्यजातो ऽभूत् । तस्मिंश्च समये बहूनां बुद्धकोटीनयुतशतसहस्राणां सद्धर्ममनुस्मरति स्म, आत्मनश्च पुर्वप्रणिधानम् ॥

अथ खल्वायुष्मानानन्दस्तस्यां वेलायामिमा गाथा अभाषत -

आश्चर्यभूता जिन अप्रमेया ये स्मारयन्ति मम धर्मदेशनाम् / परिनिर्वृतानां हि जिनान तायिनां समनुस्मरामी यथ अद्य श्वो वा // saddhp_9.6 //

निष्काङ्क्षप्राप्तो ऽस्मि स्थितो ऽस्मि बोधये उपायकौशल्य ममेदमीद्दशम् / परिचारको ऽहं सुगतस्य भोमि सद्धर्म धारेमि च बोधिकारणात् // saddhp_9.7 //

अथ खलु भगवानायुष्मन्तं राहुलभद्रमामन्त्रयते स्म - भविष्यसि त्वं राहुलभद्र अनागते ऽध्वनि सप्तरत्नपद्मविक्रान्तगामी नाम तथागतो ऽर्हन् सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान् दशलोकधातुपरमाणुरजःसमांस्तथागतानर्हतः सम्यक्संबुद्धान् सत्कृत्य गुरुकृत्य मानयित्वा पूजयित्वा अर्चयित्वा । सदा तेषां बुद्धानां भगवतां ज्येष्ठपुत्रो भविष्यसि तद्यथापि नाम ममैतर्हि । तस्य खलु पुना राहुलभद्र भगवतः सप्तरत्नपद्मविक्रान्तगामिनस्तथागतस्यार्हतः सम्यक्संबुद्धस्य एवंरूपमेवायुष्प्रमाणं भविष्यति, एवं रूपैव सर्वाकारगुणसंपद् भविष्यति तद्यथापि नाम तस्य भगवतः सागरवरधरबुद्धिविक्रीडिताभिज्ञस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य सर्वाकारगुणोपेता बुद्धक्षेत्रगुणव्यूहा भविष्यन्ति । तस्यापि राहुल सागरवरधरबुद्धिविक्रीडिताभिज्ञस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य त्वमेव ज्येष्ठपुत्रो भविष्यसि । ततः पश्चात् परेणानुत्तरां सम्यक्संबोधिमभिसंभोत्स्यसीति ॥

अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत -

अयं ममा राहुल ज्येष्ठपुत्रो यो औरसो आसि कुमारभावे / बोधिं पि प्राप्तस्य ममैष पुत्रो धर्मस्य दायाद्यधरो महर्षिः // saddhp_9.8 //

अनागते ऽध्वे बहुबुद्धकोट्यो यान् द्रक्ष्यसे येष प्रमाणु नास्ति / सर्वेष तेषां हि जिनान पुत्रो भविष्यती बोधि गवेषमाणः // saddhp_9.9 //

अज्ञातचर्या इय राहुलस्य प्रणिधानमेतस्य अहं प्रजानमि / करोति संवर्णन लोकबन्धुषु अहं किला पुत्र तथागतस्य // saddhp_9.10 //

गुणान कोटीनयुताप्रमेयाः प्रमाणु येषां न कदाचिदस्ति / ये राहुलस्येह ममौरसत्य तथा हि एषो स्थितु बोधिकारणात् // saddhp_9.11 //

अद्राक्षीत्खलु पुनर्भगवांस्ते द्वे श्रावकसहस्रे शैक्षाशैक्षाणां श्रावकाणां भगवन्तमवलोकयमाने अभिमुखं प्रसन्नचित्ते मृदुचित्ते मार्दवचित्ते । अथ खलु भगवांस्तस्यां वेलायामायुष्मन्तमानन्दमामन्त्रयते स्म - पश्यसि त्वमानन्द एते द्वे श्रावकसहस्रे शैक्षाशैक्षाणां श्रावकाणाम्? आह - पश्यामि भगवन्, पश्यामि सुगत । भगवानाह - सर्व एवैते आनन्द द्वे भिक्षु सहस्रे समं बोधिसत्त्वचर्यां समुदानयिष्यन्ति, पञ्चाशल्लोकधातुपरमाणुरजःसमांश्च बुद्धान् भगवतः सत्कृत्य गुरुकृत्य मानयित्वा पूजयित्वा अर्चयित्वा अपचायित्वा सद्धर्म च धारयित्वा पश्चिमे समुच्छ्रये एकक्षणेनैकमुहूर्तेनैकलवेनैकसंनिपातेन दशसु दिक्ष्वन्योन्यासु लोकधातुषु स्वेषु स्वेषु बुद्धक्षेत्रेष्वनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यन्ते । रत्नकेतुराजा नाम तथागता अर्हन्तः सम्यक्संबुद्धा भविष्यन्ति । परिपूर्णं चैषां कल्पमायुष्प्रमाणं भविष्यति । समाश्चैषां बुद्धक्षेत्रगुणव्यूहा भविष्यन्ति । समः श्रावकगणो बोधिसत्त्वगणश्च भविष्यति । समं चैषां परिनिर्वाणं भविष्यति । समश्चैषां सद्धर्मः स्थास्यति ॥

अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत -

द्वे वै सहस्रे इमे श्रावकाणां आनन्द ये ते मम अग्रतः स्थिताः / तान् व्याकरोमी अहमद्य पण्डिताननागते ऽध्वानि तथागतत्वे // saddhp_9.12 //

अनन्त औपम्यनिदर्शनेहि बुद्धान अग्र्यां करियाण पूजाम् / आरागयिष्यन्ति ममाग्रबोधिं स्थिहित्व चरिमस्मि समुच्छ्रयस्मिन् // saddhp_9.13 //

एकेन नामेन दशद्दिशासु क्षणस्मि एकस्मि तथा मुहूर्ते / निषद्य च द्रुमप्रवराण मूले बुद्धा भविष्यन्ति स्पृशित्व ज्ञानम् // saddhp_9.14 //

एकं च तेषामिति नाम भेष्यति रत्नस्य केतूतिह लोकि विश्रुताः / समानि क्षेत्राणि वराणि तेषां समो गणः श्रावकबोधिसत्त्वाः // saddhp_9.15 //

ऋद्धिप्रभूता इह सर्वि लोके समन्ततस्ते दशसु द्दिशासु / धर्मं प्रकाशेत्व यदापि निर्वृताः सद्धर्मु तेषां सममेव स्थास्यति // saddhp_9.16 //

अथ खलु ते शैक्षाशैक्षाः श्रावका भगवतो ऽन्तिकात् संमुखं स्वानि स्वानि व्याकरणानि श्रुत्वा तुष्टा उदग्रा आत्तमनस्काः प्रमुदिताः प्रीतिसौमनस्यजाता भगवन्तं गाथाभ्यामध्यभाषन्त -

तृप्ताः स्म लोकप्रद्योत श्रुत्वा व्याकरणं इदम् / अमृतेन यथा सिक्ताः सुखिताः सम तथागत // saddhp_9.17 //

नास्माकं काङ्क्षा विमतिर्न भेष्याम नरोत्तमाः / अद्यास्माभिः सुखं प्राप्तं श्रुत्वा व्याकरणं इदम् // saddhp_9.18 //

इत्यार्यसद्धर्मपुण्डरीके धर्मपर्याये आनन्दराहुलाभ्यामन्याभ्यां च द्वाभ्यां भिक्षुसहस्राभ्यां व्याकरणपरिवर्तो नाम नवमः ॥

saddhp_10: धर्मभाणकपरिवर्तः ।

अथ खलु भगवन् भैषज्यराजं बोधिसत्त्वं महासत्त्वमारभ्य तान्यशीतिं बोधिसत्त्वसहस्राण्यामन्त्रयते स्म - पश्यसि त्वं भैषज्यराज अस्यां पर्षदि बहुदेवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगमनुष्यामनुष्यान् भिक्षुभिक्षुण्युपासकोपासिकाः श्रावकयानीयान् प्रत्येकबुद्धयानियान् बोधिसत्त्वयानीयांश्च, यैरयं धर्मपर्यायस्तथागतस्य संमुखं श्रुतः? आह - पश्यामि भगवन्, पश्यामि सुगत । भगवानाह - सर्वे स्वल्वेते भैषज्यराज बोधिसत्त्वा महासत्त्वाः, यैरस्यां पर्षदि अन्तशः एकापि गाथा श्रुता, एकपदमपि श्रुतम्, यैर्वा पुनरन्तश एकचित्तोत्पादेनाप्यनुमोदितमिदं सूत्रम् । सर्वा एता अहं भैषज्यराज चतस्रः पर्षदो व्याकरोम्यनुत्तरायां सम्यक्संबोधौ । ये ऽपि केचिद् भैषज्यराज तथागतस्य परिनिर्वृतस्य इमं धर्मपर्यायं श्रोष्यन्ति, अन्तश एकगाथामपि श्रुत्वा, अन्तश एकेनापि चित्तोत्पादेन अभ्यमुमोदयिष्यन्ति, तानप्यहं भैषज्यराज कुलपुत्रान् व कुलदुहितृर्वा व्याकरोम्यनुत्तरायां सम्यक्संबोधौ । परिपूर्णबुद्धकोटीनयुतशतसहस्रपर्युपासिताविनस्ते भैषज्यराज कुलपुत्रा वा कुलदुहितरो वा भैष्यन्ति । बुद्धकोटीनयुतशतसहस्रकृतप्रणिधानास्ते भैषज्यराजकुलपुत्रा वा कुलदुहितरो वा भविष्यन्ति । सत्त्वानामनुकम्पार्थमस्मिन् जम्बुद्वीपे मनुष्येषु प्रत्याजाता वेदितव्याः, य इतो धर्मपर्यायादन्तश एकगाथामपि धारयिष्यन्ति वाचयिष्यन्ति प्रकाशयिष्यन्ति संग्राहयिष्यन्ति लिखिष्यन्ति, लिखित्वा चानुस्मरिष्यन्ति, कालेन च कालं व्यवलोकयिष्यन्ति । तस्मिंश्च पुस्तके तथागतगौरवमुत्पादयिष्यन्ति, शास्तृगौरवेण सत्करिष्यन्ति गुरुकरिष्यन्ति मानयिष्यन्ति पूजयिष्यन्ति । तं च पुस्तकं पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकावाद्यादिभिर्नमस्काराञ्जलिकर्मभिश्च पूजयिष्यन्ति । ये केचिद् भैषज्यराज कुलपुत्रा वा कुलदुहितरो वा इतो धर्मपर्यायादन्तश एकगाथामपि धारयिष्यन्ति अनुमोदयिष्यन्ति वा, सर्वांस्तानहं भैषज्यराज व्याकरोम्यनुत्तरायां सम्यक्संबोधौ ॥

तत्र भैषज्यराज यः कश्चिदन्यतरः पुरुषो वा स्त्री वा एवं वदेत् - कीदृशाः खल्वपि ते सत्त्वा भविष्यन्त्यनागते ऽध्वनि तथागता अर्हन्तः सम्यक्संबुद्धा इति? तस्य भैषज्यराज पुरुषस्य वा स्त्रिया वा स कुलपुत्रो वा कुलदुहिता वा दर्शयितव्यः, य इतो धर्मपर्यायादन्तशश्चतुष्पादिकामपि गाथां धारयिता श्रावयिता वा देशयिता वा सगौरवो वेह धर्मपर्याये । अयं स कुलपुत्रो वा कुलदुहिता वा, यो ह्यनागते ऽध्वनि तथागतो ऽर्हन् सम्यक्संबुद्धो भविष्यति । एवं पश्य । तत्कस्य हेतोः? स हि भैषज्यराज कुलपुत्रो वा कुलदुहिता व तथागतो वेदितव्यः सदेवकेन लोकेन । तस्य च तथागतस्यैवं सत्कारः कर्तव्यः, यः खल्वस्माद्धर्मपर्यायादन्तश एकगाथामपि धारयेत्, कः पुनर्वादो य इमं धर्मपर्यायं सकलसमाप्त मुद्गृह्णीयाद् धारयेद्वा वाचयेद्वा पर्यवाप्नुयाद्वा प्रकाशयेद्वा लिखेद्वा लिखापयेद्वा, लिखित्वा चानुस्मरेत् । तत्र च पुस्तके सत्कारं कुर्यात् गुरुकारं कुर्यात् माननां पूजनामर्चनामपचायनां पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकावाद्याञ्जलिनमस्कारैः प्रणामैः । परिनिष्पन्नः (वैद्य 143) स भैषज्यराज कुलपुत्रो वा कुलदुहिता वा अनुत्तरायां सम्यक्संबोधौ वेदितव्यः । तथागतदर्शी च वेदितव्यः । लोकस्य हितानुकम्पकः प्रणिधानवशेनोपपन्नो ऽस्मिन् जम्बुद्वीपे मनुष्येषु अस्य धर्मपर्यायस्य संप्रकाशनतायैः । यः स्वयमुदारं धर्माभिसंस्कारमुदारां च बुद्धक्षेत्रोपपत्तिं स्थापयित्वा अस्य धर्मपर्यायस्य संप्रकाशनहेतोर्मयि परिनिर्वृते सत्त्वानां हितार्थमनुकम्पार्थं च इहोपपन्नो वेदितव्यः । तथागतदूतः स भैषज्यराज कुलपुत्रो वा कुलदुहिता वा वेदितव्यः । तथागतकृत्यकरस्तथागतसंप्रेषितः स भैषज्यराज कुलपुत्रो वा कुलदुहिता वा संज्ञातव्यः, य इमं धर्मपर्यायं तथागतस्य परिनिर्वृतस्य संप्रकाशयेत्, अन्तशो रहसि चौर्येणापि कस्यचिदेकसत्त्वस्यापि संप्रकाशयेदाचक्षीत वा ॥

यः खलु पुनर्भैषज्यराज कश्चिदेव सत्त्वो दुष्टचित्तः पापचित्तो रौद्रचित्तस्तथागतस्य संमुखं कल्पमवर्णं भाषेत्, यश्च तेषां तथारूपाणां धर्मभाणकानामस्य सूत्रान्तस्य धारकाणां गृहस्थानां वा प्रव्रजितानां वा एकामपि वाचमप्रियां संश्रावयेद् भूतां वा अभूतां वा, इद मागाढतरं पापकं कर्मेति वदामि । तत्कस्य हेतोः? तथागतभारणप्रतिमण्डितः स भैषज्यराज कुलपुत्रो वा कुलदुहिता वा वेदितव्यः । तथागतं स भैषज्यराज अंसेन परिहरति, य इमं धर्मपर्यायं लिखित्वा पुस्तकगतं कृत्वा अंसेन परिहरति । स येन येनैव प्रक्रामेत्, तेन तेनैव सत्त्वैरञ्जलीकरणीयः सत्कर्तव्यो गुरुकर्तव्यो मानयितव्यः पूजयितव्यो ऽर्चयितव्यो ऽपचायितव्यो दिव्यमानुष्यकैः पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकावाद्यखाद्यभोज्यान्नपानयानैरग्रप्राप्तैश्च दिव्यै रत्नराशिभिः । स धर्मभाणकः सत्कर्तव्यो गुरुकर्तव्यो मानयितव्यः पूजयितव्यः, दिव्याश्च रत्नराशयस्तस्य धर्मभाणकस्योपनामयितव्याः । तत्कस्य हेतोः? अप्येव नाम एकवारमपि इमं धर्मपर्यायं संश्रावयेत्, यं श्रुत्वा अप्रमेया असंख्येयाः सत्त्वाः क्षिप्रमनुत्तरायां सम्यक्संबोधौ परिनिष्पद्येयुः ॥

अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत -

बुद्धत्वे स्थातुकामेन स्वयंभूज्ञानमिच्छता / सत्कर्तव्याश्च ते सत्त्वा ये धारेन्ति इमं नयम् // saddhp_10.1 //

सर्वज्ञत्वं च यो इच्छेत् कथं शीर्घं भवेदिति / स इमं धारयेत् सूत्रं सत्कुर्याद्वापि धारकम् // saddhp_10.2 //

प्रेषितो लोकनाथेन सत्त्ववैनेयकारणात् / सत्त्वानामनुकम्पार्थं सूत्रं यो वाचयेदिदम् // saddhp_10.3 //

उपपत्तिं शूभां त्यक्त्वा स धीर इह आगतः / सत्त्वानामनुकम्पार्थं सूत्रं यो धारयेदिदम् // saddhp_10.4 //

उपपत्ति वशा तस्य येन सो दृश्यते तहि / पश्चिमे कालि भाषन्तो इदं सूत्रं निरुत्तरम् // saddhp_10.5 //

दिव्येहि पुष्पेहि च सत्करेत मानुष्यकैश्चापि हि सर्वगन्धैः / दिव्येहि वस्त्रेहि च छादयेया रत्नेहि अभ्योकिरि धर्मभाणकम् // saddhp_10.6 //

कृताञ्जली तस्य भवेत नित्यं यथा जिनेन्द्रस्य स्वयंभुवस्तथा / यः पश्चिमे कालि सुभैरवे ऽस्मिन् परिनिर्वृतस्य इद सुत्र धारयेत् // saddhp_10.7 //

खाद्यं च भोज्यं च तथान्नपानं विहारशय्यासनवस्त्रकोट्यः / ददेय पूजार्थ जिनात्मजस्य अप्येकवारं पि वदेत सूत्रम् // saddhp_10.8 //

तथागतानां करणीय कुर्वते मया च सो प्रेषित मानुषं भवम् / यः सूत्रमेतच्चरिमस्मि काले लिखेय धारेय श्रुणेय वापि // saddhp_10.9 //

यश्चैव स्थित्वेह जिनस्य संमुखं श्रावेदवर्णं परिपूर्णकल्पम् / प्रदुष्टचित्तो भृकुटिं करित्वा बहुं नरो ऽसौ प्रसवेत पापम् // saddhp_10.10 //

यश्चापि सूत्रान्तधराण तेषां प्रकाशयन्तानिह सूत्रमेतत् / अवर्णमाक्रोश वदेय तेषां बहूतरं तस्य वदामि पापम् // saddhp_10.11 //

नरश्च यो संमुख संस्तवेया कृताञ्जली मां परिपूर्णकल्पम् / गाथान कोटीनयुतैरनेकैः पर्येषमाणो इममग्रबोधिम् // saddhp_10.12 //

बहुं खु सो तत्र लभेत पुण्यं मां संस्तवित्वान प्रहर्षजातः / अतश्च सो बहुतरकं लभेत यो वर्ण तेषां प्रवदेन्मनुष्यः // saddhp_10.13 //

अष्टादश कल्पसहस्रकोट्यो यस्तेषु पुस्तेषु करोति पूजाम् / शब्देहि रूपेहि रसेहि चापि दिव्यैश्च गन्धैश्च स्पर्शैश्च दिव्यैः // saddhp_10.14 //

करित्व पुस्तान तथैव पूजां अष्टादश कल्पसहस्रकोट्यः / यदि श्रुणो एकश एत सूत्रं आश्चर्यलाभो ऽस्य भवेन्महानिति // saddhp_10.15 //

आरोचयामि ते भैषज्यराज, प्रतिवेदयामि ते । बहवो हि मया भैषज्यराज धर्मपर्याया भाषिताः, भाषामि भाषिष्ये च । सर्वेषां च तेषां भैषज्यराज धर्मपर्यायाणामयमेव धर्मपर्यायः सर्वलोकविप्रत्यनीकः सर्वलोकाश्रद्दधनीयः । तथागतस्याप्येतद् भैषज्यराज आध्यात्मिकधर्मरहस्यं तथागतबलसंरक्षितमप्रतिभिन्नपूर्वमनाचक्षितपूर्वमनाख्यातमिदं स्थानम् । बहुजनप्रतिक्षिप्तो ऽयं भैषज्यराज धर्मपर्यायस्तिष्ठतो ऽपि तथागतस्य, कः पुनर्वादः परिनिर्वृतस्य ॥

अपि तु खलु पुनर्भैषज्यराज तथागतचीवरच्छन्नास्ते कुलपुत्रा वा कुलदुहितरो वा वेदितव्याः । अन्यलोकधातुस्थितैश्च तथागतैरवलोकिताश्च अधिष्ठिताश्च । प्रत्यात्मिकं च तेषां श्रद्धाबलं भविष्यति, कुशलमूलबलं च प्रणिधानबलं च । तथागतविहारैकस्थाननिवासिनश्च ते भैषज्यराज कुलपुत्रा वा कुलदुहितरो वा भविष्यन्ति, तथागतपाणिपरिमार्जितमूर्धानश्च ते भविष्यन्ति, य इमं धर्मपर्यायं तथागतस्य परिनिर्वृतस्य श्रद्दधिष्यन्ति वाचयिष्यन्ति लिखिष्यन्ति सत्करिष्यन्ति गुरुकरिष्यन्ति परेषां च संश्रावयिष्यन्ति ॥

यस्मिन् खलु पुनर्भैषज्यराज पृथिवीप्रदेशे ऽयं धर्मपर्यायो भाष्येत वा देश्येत वा लिख्येत वा स्वाध्यायेत वा संगायेत वा, तस्मिन् भैषज्यराज पृथिवीप्रदेशे तथागतचैत्यं कारयितव्यं महन्तं रत्नमयमुच्चं प्रगृहीतम् । न च तस्मिन्नवश्यं तथागतशरीराणि प्रतिष्ठापयितव्यानि । तत्कस्य हेतोः? एकघनमेव तस्मिंस्तथागतशरीरमुपनिक्षिप्तं भवति, यस्मिन् पृथिवीप्रदेशे ऽयं धर्मपर्यायो भाष्येत वा देश्येत वा पठ्येत वा संगायेत वा लिख्येत वा लिखितो वा पुस्तकगतस्तिष्ठेत् । तस्मिंश्च स्तूपे सत्कारो गुरुकारो मानना पूजना अर्चना करणीया सर्वपुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकावैजयन्तीभिः । सर्वगीतवाद्यनृत्यतूर्यतालावचरसंगीतिसंप्रवादितैः पूजा करणीया । ये च खलु पुनर्भैषज्यराज सत्त्वास्तं तथागतचैत्यं लभेरन् वन्दनाय पूजनाय दर्शनाय वा, सर्वे ते भैषज्यराज अभ्यासन्नीभूता वेदितव्या अनुत्तरायाः सम्यक्संबोधेः । तत्कस्य हेतोः? बहवो भैषज्यराज गृहस्थाः प्रव्रजिताश्च (वैद्य 146) बोधिसत्त्वचर्यां चरन्ति, न च पुनरिमं धर्मपर्यायं लभन्ते दर्शनाय वा श्रवणाय वा लिखनाय वा पूजनाय वा । न तावत्ते भैषज्यराज बोधिसत्त्वचर्यायां कुशला भवन्ति, यावन्नेमं धर्मपर्यायं शृण्वन्ति । ये त्विमं धर्मपर्यायं शृण्वन्ति, श्रुत्वा चाधिमुच्यन्ति अवतरन्ति विजानन्ति परिगृह्णन्ति, तस्मिन् समये ते आसन्नस्थायिनो भविष्यन्त्यनुत्तरायां सम्यक्संबोधौ, अभ्याशीभूताः ॥

तद्यथापि नाम भैषज्यराज कश्चिदेव पुरुषो भवेदुदकार्थी उदकगवेषी । स उदकार्थमुज्जङ्गले पृथिवीप्रदेशे उदपानं खानयेत् । स यावत् पश्येच्छुष्कं पाण्डरं पांसुं निर्वाह्यमानम्, तावज्जानीयात्, दूर इतस्तावदूदकमिति । अथ परेण समयेन स पुरुष आर्द्रपंसुमुदकसंनिश्रं कर्दमपङ्कभुतमुदकबिन्दुभिः स्रवद्भिर्निर्वाह्यमानं पश्येत्, तांश्च पुरुषानुदपानखानकान् कर्दमपङ्कदिग्धाङ्गान्, अथ खलु पुनर्भैषज्यराज स पुरुषस्तत्पूर्वनिमित्तं दृष्ट्वा निष्काङ्क्षो भवेन्निर्विचिकित्सः - आसन्नमिदं खलूदकमिति । एवमेव भैषज्यराज दूरे ते बोधिसत्त्वा महासत्त्वा भवन्त्यनुत्तरायां सम्यक्संबोधौ, यावन्नेमं धर्मपर्यायं शृण्वन्ति, नोद्गृह्णन्ति नावतरन्ति नावगाहन्ते न चिन्तयन्ति । यदा खलु पुनर्भैषज्यराज बोधिसत्त्वा महासत्त्वा इमं धर्मपर्यायं शृण्वन्ति उद्गृह्णन्ति धारयन्ति वाचयन्ति अवतरन्ति स्वाध्यायन्ति चिन्तयन्ति भवयन्ति, तदा ते ऽभ्याशीभूता भविष्यन्त्यनुत्तरायां सम्यक्संबोधौ । सत्त्वानामितो भैषज्यराज धर्मपर्यायादनुत्तरा सम्यक्संबोधिराजायते । तत्कस्य हेतोः? परमसंधाभाषितविवरणो ह्ययं धर्मपर्यायस्तथागतैरर्हद्भिः सम्यक्संबुद्धैः । धर्मनिगूढस्थानमाख्यातं बोधिसत्त्वानां महासत्त्वानां परिनिष्पत्तिहेतोः । यः कश्चिद् भैषज्यराज बोधिसत्त्वो ऽस्य धर्मपर्यायस्योत्रसेत् संत्रसेत् संत्रासमापद्येत्, नवयानसंप्रस्थितः स भैषज्यराज बोधिसत्त्वो महासत्त्वो वेदितव्यः । सचेत् पुनः श्रावकयानीयो ऽस्य धर्मपर्यायस्योत्रसेत् संत्रसेत् संत्रासमापद्येत, अधिमानिकः स भैषज्यराज श्रावकयानिकः पुद्गलो वेदितव्यः ॥

यः कश्चिद् भैषज्यराज बोधिसत्त्वो महासत्त्वस्तथागतस्य परिनिर्वृतस्य पश्चिमे काले पश्चिमे समये इमं धर्मपर्यायं चतसृणां पर्षदां संप्रकाशयेत्, तेन भैषज्यराज बोधिसत्त्वेन महासत्त्वेन तथागतलयनं प्रविश्य तथागतचीवरं प्रावृत्य तथागतस्यासने निषद्य अयं धर्मपर्यायश्चतसृणां पर्षदां संप्रकाशयितव्यः । कतमश्च भैषज्यराज तथागतलयनम्? सर्वसत्त्वमैत्रीविहारः स्वलु पुनर्भैषज्यराज तथागतलयनम् । तत्र तेन कुलपुत्रेण प्रवेष्टव्यम् । कतमच्च भैषज्यराज तथागतचीवरम्? महाक्षान्तिसौरत्यं खलु पुनर्भैषज्यराज तथागतचीवरम् । तत्तेन कुलपुत्रेण वा कुलदुहित्रा वा प्रावरितव्यम् । कतमच्च भैषज्यराज तथागतस्य धर्मासनम्? सर्वधर्मशून्यताप्रवेशः खलु पुनर्भैषज्यराज तथागतस्य धर्मासनम् । तत्र तेन कुलपुत्रेण निषत्तव्यम्, निषद्य चायं धर्मपर्यायश्चतसृणां पर्षदां संप्रकाशयितव्यः । अनवलीनचित्तेन बोधिसत्त्वेन पुरस्ताद्बोधिसत्त्वगणस्य बोधिसत्त्वयानसंप्रस्थितानां चतसृणां पर्षदां संप्रकाशयितव्यः । अन्यलोकधातुस्थितश्चाहं भैषज्यराज तस्य कुलपुत्रस्य निर्मितैः (वैद्य 147) पर्षदः समावर्तयिष्यामि । निर्मितांश्च भिक्षुभिक्षुण्युपासकोपासिकाः संप्रेषयिष्यामि धर्मश्रवणाय । ते तस्य धर्मभाणकस्य भाषितं न प्रतिबाधिष्यन्ति, न प्रतिक्षेप्स्यन्ति । सचेत्खलु पुनररण्यगतो भविष्यति, तत्राप्यहमस्य बहुदेवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगान् संप्रेषयिष्यामि धर्मश्रवणाय । अन्यलोकधातुस्थितश्चाहं भैषज्यराज तस्य कुलपुत्रस्य मुखमुपदर्शयिष्यामि । यानि च अस्य अस्माद्धर्मपर्यायात् पदव्यञ्जनानि परिभ्रष्टानि भविष्यन्ति, तानि तस्य स्वाध्यायतः प्रत्युच्चारयिष्यामि ॥

अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत -

लीयनां सर्व वर्जित्वा शृणुयात् सूत्रमीदृशम् / दुर्लभो वै श्रवो ह्यस्य अधिमुक्ती पि दुर्लभा // saddhp_10.16 //

उदकार्थी यथा कश्चित् खानयेत् कूप जङ्गले / शुष्कं च पांसु पश्येत खान्यमाने पुनः पुनः // saddhp_10.17 //

सो दृष्ट्वा चिन्तयेत्तत्र दूरे वारि इतो भवेत् / इदं निमित्तं दूरे स्यात् शुष्कपांसुरितोत्सृतः // saddhp_10.18 //

यदा तु आर्द्रं पश्येत पांसुं स्निग्धं पुनः पुनः / निष्ठा तस्य भवेत्तत्र नास्ति दूरे जलं इह // saddhp_10.19 //

एवमेव तु ते दूरे बुद्धज्ञानस्य तादृशाः / अशृण्वन्त इदं सूत्रमभावित्वा पुनः पुनः // saddhp_10.20 //

यदा तु गम्भीरमिदं श्रावकाणां विनिश्चयम् / सूत्रराजं श्रुणिष्यन्ति चिन्तयिष्यन्ति वा सकृत् // saddhp_10.21 //

ते भोन्ति संनिकृष्टा वै बुद्धज्ञानस्य पण्डिताः / यथैव चार्द्रे पांसुस्मिन् आसन्नं जलमुच्यते // saddhp_10.22 //

जिनस्य लेनं प्रविशित्वा प्रावरित्वा मि चीवरम् / ममासने निषीदित्वा अभीतो भाषि पण्डितः // saddhp_10.23 //

मैत्रीबलं च लयनं क्षान्तिसौरत्य चीवरम् / शून्यता चासनं मह्यमत्र स्थित्वा हि देशयेत् // saddhp_10.24 //

लोष्टं दण्डं वाथ शक्ती आक्रोश तर्जनाथ वा / भाषन्तस्य भवेत्तत्र स्मरन्तो मम ता सहेत् // saddhp_10.25 //

क्षेत्रकोटीसहस्रेसु आत्मभावो दृढो मम / देशेमि धर्म सत्त्वानां कल्पकोटीरचिन्तियाः // saddhp_10.26 //

अहं पि तस्य वीरस्य यो मह्य परिनिर्वृते / इदं सूत्रं प्रकाशेया प्रेषेष्ये बहु निर्मितान् // saddhp_10.27 //

भिक्षवो भिक्षुणीया च उपासका उपासिकाः / तस्य पूजां करिष्यन्ति पर्षदश्च समा अपि // saddhp_10.28 //

लोष्टं दण्डांस्तथाक्रोशांस्तर्जनां परिभाषणाम् / ये चापि तस्य दास्यन्ति वारेष्यन्ति स्म निर्मिताः // saddhp_10.29 //

यदापि चैको विहरन् स्वाध्यायन्तो भविष्यति / नरैर्विरहिते देशे अटव्यां पर्वतेषु वा // saddhp_10.30 //

ततो ऽस्य अहं दर्शिष्ये आत्मभाव प्रभास्वरम् / स्खलितं चास्य स्वाध्यायमुच्चारिष्ये पुनः पुनः // saddhp_10.31 //

तहिं च स्य विहरतो एकस्य वनचारिणः / देवान् यक्षांश्च प्रेषिष्ये सहायांस्तस्य नैकशः // saddhp_10.32 //

एतादृशास्तस्य गुणा भवन्ति चतुर्ण पर्षाण प्रकाशकस्य / एको विहारे वनकन्दरेषु स्वाध्याय कुर्वन्तु ममाहि पश्येत् // saddhp_10.33 //

प्रतिभान तस्य भवती असङ्गं निरुक्ति धर्माण बहू प्रजानाति / तोषेति सो प्राणिसहस्रकोट्यः यथापि बुद्धेन अधिष्ठितत्वात् // saddhp_10.34 //

ये चापि तस्याश्रित भोन्ति सत्त्वास्ते बोधिसत्त्वा लघु भोन्ति सर्वे / तत्संगतिं चापि निषेवमाणाः पश्यन्ति बुद्धान यथ गङ्गवालिकाः // saddhp_10.35 //

इत्यार्यसद्धर्मपुण्डरीके धर्मपर्याये धर्मभाणकपरिवर्तो नाम दशमः ॥

saddhp_11: स्तूपसंदर्शनपरिवर्तः ।

अथ खलु भगवतः पुरस्तात्ततः पृथिवीप्रदेशात् पर्षन्मध्यात् सप्तरत्नमयः स्तूपो ऽभ्युद्गतः पञ्चयोजनशतान्युच्चैस्त्वेन तदनुरूपेण च परिणाहेन । अभ्युद्गम्य वैहायसमन्तरीक्षे समवातिष्ठच्चित्रो दर्शनीयः पञ्चभिः पुष्पग्रहणीयवेदिकासहस्रैः स्वभ्यलंकृतो बहुतोरणसहस्रैः प्रतिमण्डितः पताकावैजयन्तीसहस्राभिः प्रलम्बितो रत्नदामसहस्राभिः प्रलम्बितः पट्टघण्टासहस्रैः प्रलम्बितः तमालपत्रचन्दनगन्धं प्रमुञ्चमानः । तेन च गन्धेन सर्वावतीयं लोकधातुः संमूर्च्छिताभूत् । छत्रावली चास्य यावच्चातुर्महाराजकायिकदेवभवनानि समुच्छ्रिताभूत् सप्तरत्नमयी, तद्यथा - सुवर्णस्य रूप्यस्य वैडूर्यस्य मुसारगल्वस्याश्मगर्भस्य लोहितमुक्तेः कर्केतनस्य । तस्मिंश्च स्तूपे त्रायस्त्रिंशत्कायिका देवपुत्रा दिव्यैर्मान्दारवमहामान्दारवैः पुष्पैस्तं रत्नस्तूपमवकिरन्ति अध्यवकिरन्ति अभिप्रकिरन्ति । तस्माच्च रत्नस्तूपादेवंरूपः शब्दो निश्चरति स्म - साधु साधु भगवन् शाक्यमुने । सुभाषितस्ते ऽयं सद्धर्मपुण्डरीको धर्मपर्यायः । एवमेतत् भगवन्, एवमेतत् सुगत ॥

अथ खलु ताश्चतस्रः पर्षदस्तं महान्तं रत्नस्तूपं दृष्ट्वा वैहायसमन्तरीक्षे स्थितं संजातहर्षाः प्रीतिप्रामोद्यप्रसादप्राप्ताः तस्यां वेलायामुत्थाय आसनेभ्यो ऽञ्जलिं प्रगृह्यावस्थिताः ॥

अथ खलु तस्यां वेलायां महाप्रतिभानो नाम बोधिसत्त्वो महासत्त्वः सदेवमानुषासुरं लोकं कौतूहलप्राप्तं विदित्वा भगवन्तमेतदवोचत् - को भगवन् हेतुः, कः प्रत्ययः, अस्यैवंरूपस्य महारत्नस्तूपस्य लोके प्रादुर्भावाय? को वा भगवन् अस्मान्महारत्नस्तूपादेवंरूपं शब्दं निश्चारयति? एवमुक्ते भगवान् महाप्रतिभानं बोधिसत्त्वं महासत्त्वमेतदवोचत् - अस्मिन् महाप्रतिभान महारत्नस्तूपे तथागतस्यात्मभावस्तिष्ठति एकघनः । तस्यैष स्तूपः । स एष शब्दं निश्चारयति । अस्ति महाप्रतिभान अधस्तायां दिशि असंख्येयानि लोकधातुकोटीनयुतशतसहस्राण्यतिक्रम्य रत्नविशुद्धा नाम लोकधातुः । तस्यां प्रभूतरत्नो नाम तथागतो ऽर्हन् सम्यक्संबुद्धो ऽभूत् । तस्यैतद्भगवतः पुर्वप्रणिधानमभूत् - अहं खलु पूर्वं बोधिसत्त्वचर्यां चरमाणो न तावन्निर्यातो ऽनुत्तरायां सम्यक्संबोधौ, यावन्मयायं सद्धर्मपुण्डरीको धर्मपर्यायो बोधिसत्त्वाववादो न श्रुतो ऽभूत् । यदा तु मया अयं सद्धर्मपुण्डरीको धर्मपर्यायः श्रुतः, तदा पश्चादहं परिनिष्पन्नो ऽभूवमनुत्तरायां सम्यक्संबोधौ । तेन खलु पुनर्महाप्रतिभान भगवता प्रभूतरत्नेन तथागतेनार्हता सम्यक्संबुद्धेन परिनिर्वाणकालसमये सदेवकस्य लोकस्य समारकस्य सब्रह्मकस्य सश्रमणब्राह्मणिकायाः प्रजायाः पुरस्तादेवमारोचितम् - मम खलु भिक्षवः परिनिर्वृतस्य अस्य तथागतात्मभावविग्रहस्य एको महारत्नस्तूपः कर्तव्यः । शेषाः पुनः स्तूपा ममोद्दिश्य कर्तव्याः । तस्य खलु पुनर्महाप्रतिभान भगवतः प्रभूतरत्नस्य तथागतस्यार्हतः सम्यक्संबुद्धस्यैतदधिष्ठानमभूत् -

अयं मम स्तूपो दशसु दिक्षु सर्वलोकधातुषु येषु बुद्धक्षेत्रेष्वयं (वैद्य 150) सद्धर्मपुण्डरीको धर्मपर्यायः संप्रकाश्येत, तेषु तेष्वयं ममात्मभावविग्रहस्तूपः समभ्युद्गच्छेत् । तैस्तैर्बुद्धैर्भगवद्भिरस्मिन् सद्धर्मपुण्डरीके धर्मपर्याये भाष्यमाणे पर्षन्मण्डलस्योपरि वैहायसं तिष्ठेत् । तेषां च बुद्धानां भगवतामिमं सद्धर्मपुण्डरीकं धर्मपर्यायं भाषमाणानामयं ममात्मभावविग्रहस्तूपः साधुकारं दद्यात् । तदयं महाप्रतिभान तस्य भगवतः प्रभूतरत्नस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य शरीरस्तूपः । अस्यां सहायां लोकधातौ अस्मिन् सद्धर्मपुण्डरीके धर्मपर्याये मया भाष्यमाणे ऽस्मात् पर्षन्मण्डलमध्यादभ्युद्गम्य उपर्यन्तरीक्षे वैहायसं स्थित्वा साधुकारं ददाति स्म ॥

अथ खलु महाप्रतिभानो बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत् - पश्याम वयं भगवन् एतं तथागतविग्रहं भगवतो ऽनुभावेन । एवमुक्ते भगवान् महाप्रतिभानं बोधिसत्त्वं महासत्त्वमेतदवोचत् - तस्य खलु पुनर्महाप्रतिभान भगवतः प्रभूतरत्नस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य प्रणिधानं गुरुकमभूत् । एतदस्य प्रणिधानम् - यदा खल्वन्येषु बुद्धक्षेत्रेषु बुद्धा भगवन्त इमं सद्धर्मपुण्डरीकं धर्मपर्यायं भाषेयुः, तदायं ममात्मभावविग्रहस्तूपो ऽस्य सद्धर्मपुण्डरीकस्य धर्मपर्यायस्य श्रवणाय गच्छेत् तथागतानामन्तिकम् । यदा पुनस्ते बुद्धा भगवन्तो ममात्मभावविग्रहमुद्धाट्य दर्शयितुकामा भवेयुश्चतसृणां पर्षदाम्, अथ तैस्तथागतैर्दशसु दिक्ष्वन्योन्येषु बुद्धक्षेत्रेषु य आत्मभावनिर्मितास्तथागतविग्रहा अन्यान्यनामधेयाः, तेषु तेषु बुद्धक्षेत्रेषु सत्त्वानां धर्मं देशयन्ति, तान् सर्वान् संनिपात्य तैरात्मभावनिर्मितैस्तथागतविग्रहैः सार्धं पश्चादयं ममात्मभावविग्रहस्तूपः समुद्धाट्य उपदर्शयितव्यश्चतसृणां पर्षदाम् । तन्मयापि महाप्रतिभान बहवस्तथागतविग्रहा निर्मिताः, ये दशसु दिक्ष्वन्योन्येषु बुद्धक्षेत्रेषु लोकधातुसहस्रेषु सत्त्वानां धर्मं देशयन्ति । ते सर्वे खल्विहानयितव्या भविष्यन्ति ॥

अथ खलु महाप्रतिभानो बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत् - तानपि तावद् भगवंस्तथागतात्मभावांस्तथागतनिर्मितान् सर्वान् वन्दामहै ॥

अथ खलु भगवांस्तस्यां वेलायामूर्णाकोशाद्रश्मिं प्रामुञ्चत्, यया रश्म्या समनन्तरप्रमुक्तया पूर्वस्यां दिशि पञ्चाशत्सु गङ्गानदीवालुकासमेषु लोकधातुकोटीनयुतशतसहस्रेषु ये बुद्धा भगवन्तो विहरन्ति स्म, ते सर्वे संदृश्यन्ते स्म । तानि च बुद्धक्षेत्राणि स्फटिकमयानि संदृश्यन्ते स्म, रत्नवृक्षैश्च चित्राणि संदृश्यन्ते स्म, दूष्यपट्टदामसमलंकृतानि बहुबोधिसत्त्वशतसहस्रपरिपूर्णानि वितानविततानि सप्तरत्नहेमजालप्रतिच्छन्नानि । तेषु तेषु बुद्धा भगवन्तो मधुरेण वल्गुना स्वरेण सत्त्वानां धर्मं देशयमानाः संदृश्यन्ते स्म । बोधिसत्त्वशतसहस्रैश्च परिपूर्णानि तानि बुद्धक्षेत्राणि संदृश्यन्ते स्म । एवं पूर्वदक्षिणस्यां दिशि । एवं दक्षिणस्यां दिशि । एवं दक्षिणपश्चिमायां दिशि । एवं पश्चिमायां दिशि । एवं पश्चिमोत्तरायां दिशि । एवमुत्तरायां दिशि । एवमुत्तरपूर्वस्यां दिशि । एवमधस्तायां दिशि । एवमूर्ध्वायां दिशि । एवं समन्ताद्दशसु दिक्षु एकैकस्यां दिशि बहूनि गङ्गानदीवालुकोपमानि बुद्धक्षेत्रकोटीनयुतशतसहस्राणि बहुषु गङ्गानदीवालुकोपमेषु लोकधातुकोटीनयुतशतसहस्रेषु ये बुद्धा भगवन्तस्तिष्ठन्ति, ते सर्वे संदृश्यन्ते स्म ॥

अथ खलु ते दशसु दिक्षु तथागता अर्हन्तः सम्यक्संबुद्धाः स्वान् स्वान् बोधिसत्त्वगणानामन्त्रयन्ति स्म - गन्तव्यं खलु पुनः कुलपुत्रा भविष्यति अस्माभिः सहां लोकधातुम्, भगवतः शाक्यमुनेस्तथागतस्यार्हतः सम्यक्संबुद्धस्यान्तिकम्, प्रभूतरत्नस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य शरीरस्तूपवन्दनाय । अथ खलु ते बुद्धा भगवन्तः स्वैः स्वैरुपस्थायकैः सार्धमात्मद्वितीया आत्मतृतीया इमां सहां लोकधातुमागच्छन्ति स्म । इति हि तस्मिन् समये इयं सर्वावती लोकधातू रत्नवृक्षप्रतिमण्डिताभूद् वैडूर्यमयी सप्तरत्नहेमजालसंछन्ना महारत्नगन्धधूपनधूपिता मान्दारवमहामान्दारवपुष्पसंस्तीर्णा किङ्किणीजालालंकृता सुवर्णसूत्राष्टापदनिबद्धा अपगतग्रामनगरनिगमजनपदराष्ट्रराजधानी अपगतकालपर्वता अपगतमुचिलिन्दमहामुचिलिन्दपर्वता अपगतचक्रवालमहाचक्रवालपर्वता अपगतसुमेरुपर्वता अपगततदन्यमहापर्वता अपगतमहासमुद्रा अपगतनदीमहानदीपरिसंस्थिताभूत्, अपगतेदवमनुष्यासुरकाया अपगतनिरयतिर्यग्योनियमलोका । इति हि तस्मिन् समये ये ऽस्यां सहायां लोकधातौ षड्गत्युपपन्नाः सत्त्वाः, ते सर्वे ऽन्येषु लोकधातुषूपनिक्षिप्ता अभूवन्, स्थापयित्वा ये तस्यां पर्षदि संनिपतिता अभूवन् । अथ खलु ते बुद्धा भगवन्त उपस्थायकद्वितीया उपस्थायकतृतीया इमां सहां लोकधातुमागच्छन्ति स्म । आगतागताश्च ते तथागता रत्नवृक्षमूले सिंहासनमुपनिश्रित्य विहरन्ति स्म । एकैकश्च रत्नवृक्षः पञ्चयोजनशतान्युच्चैस्त्वेनाभूत् अनुपूर्वशाखापत्रपलाशपरिणाहः पुष्पफलप्रतिमण्डितः । एकैकस्मिंश्च रत्नवृक्षमूले सिंहासनं प्रज्ञप्तमभूत् पञ्चयोजनशतान्युच्चैस्त्वेन महारत्नप्रतिमण्डितम् । तस्मिन्नेकैकस्तथागतः पर्यङ्कं बद्ध्वा निषण्णो ऽभूत् । अनेन पर्यायेण सर्वस्यां त्रिसाहस्रमहासाहस्रायां लोकधातौ सर्वरत्नवृक्षमूलेषु तथागताः पर्यङ्कं बद्ध्वा निषण्णा अभूवन् ॥

तेन खलु पुनः समयेन इयं त्रिसाहस्रमहासाहस्री लोकधातुस्तथागतपरिपूर्णाभूत् । न तावद् भगवतः शाक्यमुनेस्तथागतस्यात्मभावनिर्मिता एकस्मादपि दिग्भागात् सर्व आगता अभूवन् । अथ खलु पुनर्भगवान् शाक्यमुनिस्तथागतो ऽर्हन् सम्यक्संबुद्धस्तेषां तथागतविग्रहाणामागतागतानामवकाशं निर्मिमीते स्म । समन्तादष्टभ्यो दिग्भ्यो विंशतिबुद्धक्षेत्रकोटीनयुतशतसहस्राणि सर्वाणि वैडूर्यमयानि सप्तरत्नहेमजालसंछन्नानि किङ्किणीजालालंकृतानि मान्दारवमहामान्दारवपुष्पसंस्तीर्णानि दिव्यवितानविततानि दिव्यपुष्पदामाभिप्रलम्बितानि दिव्यगन्धधूपनधूपितानि । सर्वाणि च तानि विंशतिबुद्धक्षेत्रकोटीनयुतशतसहस्राण्यपगतग्रामनगरनिगमजनपदराष्ट्रराजधानीनि अपगतकालपर्वतानि अपगतमुचिलिन्दमहामुचिलिन्दपर्वतानि अपगतचक्रवालमहाचक्रवालपर्वतानि अपगतसुमेरुपर्वतानि अपगततदन्यमहापर्वतानि अपगतमहासमुद्राणि अपगतनदीमहानदीनि परिसंस्थापयति अपगतदेवमनुष्यासुरकायानि अपगतनिरयतिर्यग्योनियमलोकानि । तानि च सर्वाणि बहुबुद्धक्षेत्राणि एकमेव बुद्धक्षेत्रमेकमेव पृथिवीप्रदेशं परिसंस्थापयामास समं रमणीयं सप्तरत्नमयैश्च (वैद्य 152) वृक्षैश्चित्रितम् । तेषां च रत्नवृक्षाणां पञ्चयोजनशतान्यारोहपरिणाहो ऽनुपूर्वशाखापत्रपुष्पफलोपेतः । सर्वस्मिंश्च रत्नवृक्षमूले पञ्चयोजनशतान्यारोहपरिणाहं दिव्यरत्नमयं विचित्रं दर्शनीयं सिंहासनं प्रज्ञप्तमभूत् । तेषु रत्नवृक्षमूलेष्वागतागतास्तथागताः सिंहासनेषु पर्यङ्कं बद्ध्वा निषीदन्ते स्म । अनेन पर्यायेण पुनरपराणि

विंशतिलोकधातुकोटीनयुतशतसहस्राण्येकैकस्यां दिशि शाक्यमुनिस्तथागतः परिशोधयति स्म तेषां तथागतानामागतानामवकाशार्थम् । तान्यपि विंशतिलोकधातुकोटीनयुतशतसहस्राण्यैकैकस्यां दिशि अपगतग्रामनगरनिगमजनपदराष्ट्रराजधानीनि अपगतकालपर्वतानि अपगतमुचिलिन्दमहामुचिलिन्दपर्वतानि अपगतचक्रवालमहाचक्रवालपर्वतानि अपगतसुमेरुपर्वतानि अपगततदन्यमहापर्वतानि अपगतमहासमुद्राणि अपगतनदीमहानदीनि परिसंस्थापयति अपगतदेवमनुष्यासुरकायानि अपगतनिरयतिर्यग्योनियमलोकानि । ते च सर्वसत्त्वा अन्येषु लोकधातुषूपनिक्षिप्ताः । तान्यपि बुद्धक्षेत्राणि वैडूर्यमयानि सप्तरत्नहेमजालप्रतिच्छन्नानि किङ्किणीजालालंकृतानि मान्दारवमहामान्दारवपुष्पसंस्तीर्णानि दिव्यवितानविततानि दिव्यपुष्पदामाभिप्रलम्बितानि दिव्यगन्धधूपनधूपितानि रत्नवृक्षोपशोभितानि । सर्वे च ते रत्नवृक्षाः पञ्चयोजनशतप्रमाणाः । पञ्चयोजनप्रमाणानि च सिंहासनान्यभिनिर्मितानि । ततस्ते तथागता निषीदन्ते स्म पृथक् पृथक् सिंहासनेषु रत्नवृक्षमूलेषु पर्यङ्कं बद्ध्वा ॥

तेन खलु पुनः समयेन भगवता शाक्यमुनिना ये निर्मितास्तथागताः पूर्वस्यां दिशि सत्त्वानां धर्मं देशयन्ति स्म गङ्गानदीवालुकोपमेषु बुद्धक्षेत्रकोटीनयुतशतसहस्रेषु, ते सर्वे समागता दशभ्यो दिग्भ्यः । ते चागता अष्टासु दिक्षु निषण्णा अभूवन् । तेन खलु पुनः समयेनैकैकस्यां दिशि त्रिंशल्लोकधातुकोटीशतसहस्राण्यष्टभ्यो दिग्भ्यः समन्तात्तैस्तथागतैराक्रान्ता अभूवन् । अथ खलु ते तथागताः स्वेषु स्वेषु सिंहासनेषूपविष्टाः स्वान् स्वानुपस्थायकान् संप्रेषयन्ति स्म भगवतः शाक्यमुनेरन्तिकम् । रत्नपुष्पपुटान् दत्वा एवं वदन्ति स्म - गच्छत यूयं गृध्रकूटं पर्वतम् । गत्वा च पुनस्तस्मिंस्तं भगवन्तं शाक्यमुनिं तथागतमर्हन्तं सम्यक्संबुद्धं वन्दित्वा अस्मद्वचनादल्पाबाधतां मन्दग्लानतां च बलं च स्पर्शविहारतां च परिपृच्छध्वं सार्धं बोधिसत्त्वगणेन श्रावकगणेन । अनेन च रत्नराशिना अभ्यवकिरध्वम्, एवं च वदध्वम् - ददाति खलु पुनर्भगवांस्तथागतश्छन्दमस्य महारत्नस्तूपस्य समुद्धाटने । एवं ते तथागताः सर्वे स्वान् स्वानुपस्थायकान् संप्रेषयामासुः ॥

अथ खलु भगवान् शाक्यमुनिस्तथागतस्तस्यां वेलायां स्वान्निर्मितानशेषतः समागतान् विदित्वा, पृथक्पृथक् सिंहासनेषु निषण्णांश्च विदित्वा, तांश्चोपस्थायकांस्तेषां तथागतानामर्हतां सम्यक्संबुद्धानामागतान् विदित्वा, छन्दं च तैस्तथागतैरर्हद्भिः सम्यक्संबुद्धैरारोचितं विदित्वा, तस्यां वेलायां स्वकाद्धर्मासनादुत्थाय वैहायसमन्तरीक्षे ऽतिष्ठत् । ताश्च सर्वाश्चतस्रः परिषदः उत्थायासनेभ्यो ऽञ्जलीः परिगृह्य भगवतो मुखमुल्लोकयन्त्यस्तस्थुः । अथ खलु भगवांस्तं (वैद्य 153) महान्तं रत्नस्तूपं वैहायसं स्थितं दक्षिणया हस्ताङ्गुल्या मध्ये समुद्धाटयति स्म । समुद्धाट्य च द्वे भित्ती प्रविसारयति स्म । तद्यथापि नाम महानगरद्वारेषु महाकपाटसंपुटावर्गलविमुक्तौ प्रविसार्येते, एवमेव भगवांस्तं महान्तं रत्नस्तूपं वैहायसं स्थितं दक्षिणया हस्ताङ्गुल्या मध्ये समुद्धाट्य अपावृणोति स्म । समनन्तरविवृतस्य खलु पुनस्तस्य महारत्नस्तूपस्य, अथ खलु भगवान् प्रभूतरत्नस्तथागतो ऽर्हन् सम्यक्संबुद्धः सिंहासनोपविष्टः पर्यङ्कं बद्द्वा परिशुष्कगात्रः संघटितकायो यथा समाधिसमापन्नस्तथा संदृश्यते स्म । एवं च वाचमभाषत - साधु साधु भगवन् शाक्यमुने । सुभाषितस्ते ऽयं सद्धर्मपुण्डरीको धर्मपर्यायः । साधु खलु पुनस्त्वं भगवन् शाक्यमुने यस्त्वमिमं सद्धर्मपुण्डरीकं धर्मपर्यायं पर्षन्मध्ये भाषसे । अस्यैवाहं भगवन् सद्धर्मपुण्डरीकस्य धर्मपर्यायस्य श्रवणायेहागतः ॥

अथ खलु ताश्चतस्रः पर्षदस्तं भगवन्तं प्रभूतरत्नं तथागतमर्हन्तं सम्यक्संबुद्धं बहुकल्पकोटीनयुतशतसहस्रपरिनिर्वृतं तथा भाषमाणं दृष्ट्वा आश्चर्यप्राप्ता अद्भुतप्राप्ता अभूवन् । तस्यां वेलायां तं भगवन्तं प्रभूतरत्नं तथागतमर्हन्तं सम्यक्संबुद्ध तं च भगवन्तं शाक्यमुनिं तथागतमर्हन्तं सम्यक्संबुद्धं दिव्यमानुष्यकै रत्नराशिभिरभ्यवकिरन्ति स्म । अथ खलु भगवान् प्रभूतरत्नस्तथागतो ऽर्हन् सम्यक्संबुद्धो भगवतः शाक्यमुनेस्तथागतस्यार्हतः सम्यक्संबुद्धस्य तस्मिन्नेव सिंहासने ऽर्धासनमदासीत्, तस्यैव महारत्नस्तूपाभ्यन्तरे, एवं च वदति - इहैव भगवान् शाक्यमुनिस्तथागतो निषीदतु । अथ खलु भगवान् शाक्यमुनिस्तथागतस्तस्मिन्नर्धासने निषसाद तेनैव तथागतेन सार्धम् । उभौ च तौ तथागतौ तस्य महारत्नस्तूपस्य मध्ये सिंहासनोपविष्टौ वैहायसमन्तरीक्षस्थौ संदृश्येते ॥

अथ खलु तासां चतसृणां पर्षदामेतदभवत् - दूरस्था वयमाभ्यां तथागताभ्याम् । यन्नूनं वयमपि तथागतानुभावेन वैहायसमभ्युद्गच्छेम इति । अथ खलु भगवान् शाक्यमुनिस्तथागतस्तासां चतसृणां पर्षदां चेतसैव चेतःपरिवितर्कमाज्ञाय तस्यां वेलायामृद्धिबलेन ताश्चतस्रः पर्षदो वैहायसमुपर्यन्तरीक्षे प्रतिष्ठापयति स्म । अथ खलु भगवान् शाक्यमुनिस्तथागतस्तस्यां वेलायां ताश्चतस्रः पर्षद आमन्त्रयते स्म - को भिक्षवो युष्माकमुत्सहते तस्यां सहायां लोकधातौ इमं सद्धर्मपुण्डरीकं धर्मपर्यायं संप्रकाशयितुम्? अयं स कालः, अयं स समयः । संमुखीभूतस्तथागतः । परिनिर्वायितुकाभो भिक्षवस्तथागत इमं सद्धर्मपुण्डरीकं धर्मपर्यायमुपनिक्षिप्य ॥

अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत -

अयमागतो निर्वृतको महर्षी रतनामयं स्तूप प्रविश्य नायकः / श्रवणार्थ धर्मस्य इमस्य भिक्षवः को धर्महेतोर्न जनेत वीर्यम् // saddhp_11.1 //

बहुकल्पकोटीपरिनिर्वृतो ऽपि सो नाम अद्यापि शृणोति धर्मम् / तहिं तहिं गच्छति धर्महेतोः सुदुर्लभो धर्म यमेवरूपः // saddhp_11.2 //

प्रणिधानमेतस्य विनायकस्य निषेवितं पूर्वभवे यदासीत् / परिनिर्वृतो ऽपी इमु सर्वलोकं पर्येषती सर्वदशद्दिशासु // saddhp_11.3 //

इमे च सर्वे मम आत्मभावाः सहस्रकोट्यो यथ गङ्गवालिकाः / ते धर्मकृत्यस्य कृतेन आगताः परिनिर्वृतं च इमु द्रष्टु नाथम् // saddhp_11.4 //

छोरित्व क्षेत्राणि स्वकस्वकानि तथ श्रावकान्तर मरुतश्च सर्वान् / सद्धर्मसंरक्षणहेतु सर्वे कथं चिरं तिष्ठिय धर्मनेत्री // saddhp_11.5 //

एतेषु बुद्धान निषीदनार्थं बहुलोकधातून सहस्रकोट्यः / संक्रामिता मे तथ सर्वसत्त्वा ऋद्धीबलेन परिशोधिताश्च // saddhp_11.6 //

एतादृशी उत्सुकता इयं मे कथं प्रकाशेदिय धर्मनेत्री / इमे च बुद्धा स्थित अप्रमेया द्रुमाण मूले यथ पद्मराशिः // saddhp_11.7 //

द्रुममूलकोटीय अनल्पकायो सिंहासनस्थेहि विनायकेहि / शोभन्ति तिष्ठन्ति च नित्यकालं हुताशनेनेव यथान्धकारम् // saddhp_11.8 //

गन्धो मनोज्ञो दशसू दिशासु प्रवायते लोकविनायकानाम् / येना इमे मूर्च्छित सर्वसत्त्वा वाते प्रवाते इह नित्यकालम् // saddhp_11.9 //

मयि निर्वृते यो एतं धर्मपर्यायु धारयेत् / क्षिप्रं व्याहरतां वाचं लोकनाथान संमुखम् // saddhp_11.10 //

परिनिर्वृतो हि संबुद्धः प्रभूतरतनो मुनिः / सिंहनादं श्रुणे तस्य व्यवसायं करोति यः // saddhp_11.11 //

अहं द्वितीयो बहवो इमे च ये कोटियो आगत नायकानाम् / व्यवसाय श्रोष्यामि जिनस्य पुत्रात् यो उत्सहेद्धर्ममिमं प्रकाशितुम् // saddhp_11.12 //

अहं च तेन भवि पूजितः सदा प्रभूतरत्नश्च जिनः स्वयंभूः / यो गच्छते दिशविदिशासु नित्यं श्रवणाय धर्मं इममेवरूपम् // saddhp_11.13 //

इमे च ये आगत लोकनाथा विचित्रिता यैरिय शोभिता भूः / तेषां पि पूजा विपुल अनल्पका कृता भवेत्सूत्रप्रकाशनेन // saddhp_11.14 //

अहं च दृष्टो इह आसनस्मिन् भगवांश्च यो ऽयं स्थितु स्तूपमध्ये / इमे च अन्ये बहुलोकनाथा ये आगताः क्षेत्रशतैरनेकैः // saddhp_11.15 //

चिन्तेथ कुलपुत्राहो सर्वसत्वानुकम्पया / सुदुष्करमिदं स्थानमुत्सहन्ति विनायकाः // saddhp_11.16 //

बहुसूत्रसहस्राणि यथा गङ्गाय वालिकाः / तानि कश्चित्प्रकाशेत न तद्भवति दुष्करम् // saddhp_11.17 //

सुमेरुं यश्च हस्तेन अध्यालम्बित्व मुष्टिना / क्षिपेत क्षेत्रकोटीयो न तद्भवति दुष्करम् // saddhp_11.18 //

यश्च इमां त्रिसाहस्रीं पादाङ्गुष्ठेन कम्पयेत् / क्षिपेत क्षेत्रकोटीयो न तद्भवति दुष्करम् // saddhp_11.19 //

भवाग्रे यश्च तिष्ठित्वा धर्मं भाषेन्नरो इह / अन्यसूत्रसहस्राणि न तद्भवति दुष्करम् // saddhp_11.20 //

निर्वृतस्मिंस्तु लोकेन्द्रे पश्चात्काले सुदारुणे / य इदं धारयेत् सूत्रं भाषेद्वा तत्सुदुष्करम् // saddhp_11.21 //

आकाशधातुं यः सर्वामेकमुष्टिं तु निक्षिपेत् / प्रक्षिपित्वा च गच्छेत न तद्भवति दुष्करम् // saddhp_11.22 //

यस्तु ईदृशकं सूत्रं निर्वृतस्मिंस्तदा मयि / पश्चात्काले लिखेच्चापि इदं भवति दुष्करम् // saddhp_11.23 //

पृथिवीधातुं च यः सर्वं नखाग्रे संप्रवेशयेत् / प्रक्षिपित्वा च गच्छेत ब्रह्मलोकं पि आरुहेत् // saddhp_11.24 //

न दुष्करं हि सो कुर्यान्न च वीर्यस्य तत्तकम् / तं दुष्करं करित्वान सर्वलोकस्यिहाग्रतः // saddhp_11.25 //

अतो ऽपि दुष्करतरं निर्वृतस्य तदा मम / पश्चात्काले इदं सूत्रं वदेया यो मुहूर्तकम् // saddhp_11.26 //

न दुष्करमिदं लोके कल्पदाहस्मि यो नरः / मध्ये गच्छेददह्यन्तस्तृणभारं वहेत च // saddhp_11.27 //

अतो ऽपि दुष्करतरं निर्वृतस्य तदा मम / धारयित्वा इदं सूत्रमेकसत्त्वं पि श्रावयेत् // saddhp_11.28 //

धर्मस्कन्धसहस्राणि चतुरशीति धारयेत् / सोपदेशान् यथाप्रोक्तान् देशयेत् प्राणिकोटिनाम् // saddhp_11.29 //

न ह्येतं दुष्करं भोति तस्मिन् कालस्मि भिक्षुणाम् / विनयेच्छ्रावकान् मह्यं पञ्चाभिज्ञासु स्थापयेत् // saddhp_11.30 //

तस्येदं दुष्करतरं इदं सूत्रं च धारयेत् / श्रद्दधेदधिमुच्येद्वा भाषेद्वापि पुनः पुनः // saddhp_11.31 //

कोटीसहस्रान् बहवः अर्हत्त्वे यो ऽपि स्थापयेत् / षडभिज्ञान् महाभागान् यथा गङ्गाय वालिकाः // saddhp_11.32 //

अतो बहुतरं कर्म करोति स नरोत्तमः / निर्वृतस्य हि यो मह्यं सूत्रं धारयते वरम् // saddhp_11.33 //

लोकधातुसहस्रेषु बहु मे धर्म भाषिताः / अद्यापि चाहं भाषामि बुद्धज्ञानस्य कारणात् // saddhp_11.34 //

इदं तु सर्वसूत्रेषु सूत्रमग्रं प्रवुच्यते / धारेति यो इदं सूत्रं स धारे जिनविग्रहम् // saddhp_11.35 //

भाषध्वं कुलपुत्राहो संमुखं वस्तथागतः / य उत्सहति वः कश्चित् पश्चात्कालस्मि धारणम् // saddhp_11.36 //

महत्प्रियं कृतं भोति लोकनाथान सर्वशः / दुराधारमिदं सुत्रं धारयेद्यो मुहूर्तकम् // saddhp_11.37 //

संवर्णितश्च सो भोति लोकनाथेहि सर्वदा / शूरः शौटीर्यवांश्चापि क्षिप्राभिज्ञश्च बोधये // saddhp_11.38 //

धुरावाहश्च सो भोति लोकनाथान औरसः / दान्तभूमिमनुप्राप्तः सूत्रं धारेति यो इदम् // saddhp_11.39 //

चक्षुभूतश्च सो भोति लोके सामरमानुषे / इदं सुत्रं प्रकाशित्वा निर्वृते नरनायके // saddhp_11.40 //

वन्दनीयश्च सो भोति सर्वसत्त्वान पण्डितः / पश्चिमे कालि यो भाषेत् सूत्रमेकं मुहूर्तकम् // saddhp_11.41 //

अथ खलु भगवान् कृत्स्नं बोधिसत्त्वगणं ससुरासुरं च लोकमामन्त्रय एतदवोचत् - भूतपूर्वं भिक्षवो ऽतीते ऽध्वनि अहमप्रमेयासंख्येयान् कल्पान् सद्धर्मपुण्डरीकं सूत्रं पर्येषितवानखिन्नो ऽविश्रान्तः । पूर्वं च अहमनेकान् कल्पाननेकानि कल्पशतसहस्राणि राजाभूवमनुत्तरायां सम्यक्संबोधौ कृतप्रणिधानः । न च मे चित्तव्यावृत्तिरभूत् । षण्णां च पारमितानां परिपूर्या उद्युक्तो ऽभूवमप्रमेयदानप्रदः सुवर्णमणिमुक्तावैदूर्यशङ्खशिलाप्रवालजातरूपरजताश्मगर्भम् उसारगल्वलोहितमुक्ताग्रामनगरनिगमजनपदराष्ट्रराजधानीभार्यापुत्रदुहितृदासीदासकर्मकरपौरुषेयहस्त्यश्वरथं यावदात्मशरीरपरित्यागी करचरणशिरोत्तमाङ्गप्रत्यङ्गजीवितदाता । न च मे कदाचिदाग्रहचित्तमुत्पन्नम् । तेन च समयेन अयं लोको दीर्घायुरभत् । अनेकवर्षशतसहस्रजीवितेन च अहं कालेन धर्मार्थं राज्यं कारितवान्, न विषयार्थम् । सो ऽहं ज्येष्ठं कुमारं राज्ये ऽभिषिच्य चतुर्दिशं ज्येष्ठधर्मगवेषणाय उद्युक्तो ऽभूवम् । एवं घण्टया घोषापयितवान् - यो मे ज्येष्ठं धर्ममनुप्रदास्यति, अर्थं चाख्यास्यति, तस्याहं दासो भूयासम् । तेन च कालेन ऋषिरभूत् । स मामेतदवोचत् - अस्ति महाराज सद्धर्मपुण्डरीकं नाम सुत्रं ज्येष्ठधर्मनिर्देशकम् । तद्यदि दास्यमभ्युपगच्छसि, ततस्ते ऽहं तं धर्मं श्रावयिष्यामि । सो ऽहं श्रुत्वा तस्यर्षेर्वचनं हृष्टस्तुष्ट उदग्र आत्तमनाः प्रीतिसौमनस्यजातो येन स ऋषिस्तेनोपेयिवान् । उपेत्यावोचत् - यत्ते दासेन कर्म करणीयं तत्करोमि । सो ऽहं तस्यर्षेर्दासभावमभ्युपेत्य तृणकाष्ठपानीयकन्दमूलफलादीनि प्रेष्यकर्माणि कृतवान्, यावद् द्वाराध्यक्षो ऽप्यहमासम् । दिवसं चैवंविधं कर्म कृत्वा रात्रौ शयानस्य मञ्चके पादान् धारयामि । न च मे कायक्लमो न चेतसि क्लमो ऽभूत् । एवं च मे कुर्वतः परिपूर्णं वर्षासहस्रं गतम् ॥

अथ खलु भगवांस्तस्यां वेलायामेतमेवार्थं परिद्योतयन्निमा गाथा अभाषत -

कल्पानतीतान् समनुस्मरामि यदाहमासं धार्मिको धर्मराजा / राज्यं चमे धर्महेतोः कृतं तन्न च कामहेतोर्ज्येष्ठधर्महेतोः // saddhp_11.42 //

चतुर्दिशं मे कृत घोषणो ऽयं धर्मं वदेद्यस्तस्य दास्यं व्रजेयम् / आसीदृषिस्तेन कालेन धीमान् सूत्रस्य सद्धर्मनाम्नः प्रवक्ताः // saddhp_11.43 //

स मामवोचद्यदि ते धर्मकाङ्क्षा उपेहि दास्यं धर्ममतः प्रवक्ष्ये / तुष्टश्चाहं वचनं तं निशाम्य कर्माकरोद्दासयोग्यं तदा यम् // saddhp_11.44 //

न कायचित्तक्लमथो स्पृशेन्मां सद्धर्महेतोर्दासमागतस्य / प्रणिधिस्तदा मे भवि सत्त्वहेतोर्नात्मानमुद्दिश्य न कामहेतोः // saddhp_11.45 //

स राज आसीत्तदा अब्धवीर्यो अनन्यकर्माणि दशद्दिशासु / परिपूर्ण कल्पान सहस्रखिन्नो यावत्सूत्रं लब्धवान् धर्मनामम् // saddhp_11.46 //

तत्किं मन्यध्वे भिक्षवः अन्यः स तेन कालेन तेन समयेन राजाभूत्? न खलु पुनरेवं द्रष्टव्यम् । तत्कस्य हेतोः? अहं स तेन कालेन तेन समयेन राजाभूवम् । स्यात्खलु पुनर्भिक्षवो ऽन्यः स तेन कालेन तेन समयेनर्षिरभूत्? न खलु पुनरेवं द्रष्टव्यम् । अयमेव स तेन कालेन तेन समयेन देवदत्तो भिक्षुरृषिरभुत् । देवदत्तो हि भिक्षवो मम कल्याणमित्रम् । देवदत्तमेव चागम्य मया षटू पारमिताः परिपूरिताः, महामैत्री महाकरुणा महामुदिता महोपेक्षा । द्वात्रिंशन्महापुरुषलक्षणानि अशीत्यनुव्यञ्जनानि सुवर्णवर्णच्छविता दश बलानि चत्वारि वैशारद्यानि चत्वारि संग्रहवस्तूनि अष्टादशावेणिकबुद्धधर्मा महर्द्धिबलता दशदिक्सत्त्वनिस्तारणता, सर्वमेतद्देवदत्तमागस्य । आरोचयामि वो भिक्षवः, प्रतिवेदयामि - एष देवदत्तो भिक्षुरनागते ऽध्वनि अप्रमेयैः कल्पैरसंख्येयैर्देवराजो नाम तथागतो ऽर्हन् सम्यक्संबुद्धो (वैद्य 159) भविष्यति विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च भगवान् देवसोपानायां लोकधातौ । देवराजस्य खलु पुनर्भिक्षवस्तथागतस्य विंशत्यन्तरकल्पानायुष्प्रमाणं भविष्यति । विस्तरेण च धर्मं देशयिष्यति । गङ्गानदीवालुकासमाश्च सत्त्वाः सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्करिष्यन्ति । अनेके च सत्त्वाः प्रत्येकबोधौ चित्तमुत्पादयिष्यन्ति । गङ्गानदीवालुकासमाश्च सत्त्वा अनुत्तरायां सम्यक्संबोधौ चित्तमुत्पादयिष्यन्ति, अवैवर्तिकक्षान्तिप्रतिलब्धाश्च भविष्यन्ति । देवराजस्य खलु पुनर्भिक्षवस्तथागतस्य परिनिर्वृतस्य विंशत्यन्तरकल्पान् सद्धर्मः स्थास्यति ।

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.