Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 1/6

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa

सद्धर्मलङ्कावतारसूत्र

Thông tin
GRETIL — P.L. Vaidya, Darbhanga: The Mithila Institute, 1963, (Buddhist Sanskrit Texts, 3).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

सद्धर्मलङ्कावतारसूत्र

// सद्धर्मलङ्कावतारसूत्रम् //

ओम् नमो रत्नत्रयाय / ओम् नमः सर्वबुद्धबोधिसत्त्वेभ्यः //

स्तर्त् परिवर्त 1

रावणाध्येषणापरिवर्तः प्रथमः /

एवं मया श्रुतम् / एकस्मिन् समये भगवांल्लङ्कापुरे समुद्रमलयशिखरे विहरति स्म नानारत्नगोत्रपुष्पप्रतिमण्डिते महता भिक्षुसंघेन सार्धं महता च बोधिसत्त्वगणेन नानाबुद्धक्षेत्रसंनिपतितैर्बोधिसत्त्वैर्महासत्त्वैः अनेकसमाधिवशिताबलाभिज्ञाविक्रीडितैर्महामतिबोधिसत्त्वपूर्वंगमैः सर्वबुद्धपाण्यभिषेकाभिषिक्तैः स्वचित्तदृश्यगोचरपरिज्ञानार्थकुशलैर्नानासत्त्वचित्तचरित्ररूपनयविनयधारिभिः पञ्चधर्मस्वभावविज्ञाननैरात्म्याद्वयगतिंगतैः //

तेन खलु पुनः समयेन भगवान् सागरनागराजभवनात् सप्ताहेनोत्तीर्ण ऽभूत् / अनेकशक्रब्रह्मनागकन्याकोटिभिः प्रत्युद्गम्यमानो लङ्कामलयमवलोक्य स्मितमकरोत् - पूर्वकैरपि तथागतैरर्हद्भिः सम्यक्संबुद्धैरस्मिंल्लङ्कापुरीमलयशिखरे स्वप्रत्यात्मार्यज्ञानतर्कदृष्टितीर्थ्यश्रावकप्रत्येकबुद्धार्यविषये तद्भावितो धर्मो देशितः / यन्न्वहमपि अत्रैव रावणं यक्षाधिपतिमधिकृत्य एतदेवोद्भावयन् धर्मं देशयेयम् //

अश्रौषीद्रावणो राक्षसाधिपतिस्तथागताधिष्ठानात् - भगवान् किल सागरनागराजभवनादुत्तीर्य अनेकशक्रब्रह्मनागकन्याकोटिभिः परिवृतः पुरस्कृतः समुद्रतरंगानवलोक्य आलयविज्ञानोदधिप्रवृत्तिविज्ञानपवनविषये प्रेरितांस्तेभ्यः संनिपतितेभ्यश्चित्तान्यवलोक्य तस्मिन्नेव स्थितः उदानमुदानयति स्म - यन्न्वहं गत्वा भगवन्तमध्येष्य लङ्कां प्रवेशयेयम् / तन्मे स्याद्दीर्घरात्रमर्थाय हिताय सुखाय देवानां च मनुष्याणां च //

अथ रावणो राक्षसाधिपतिः सपरिवारः पौष्पकं विमानमधिरुह्य येन भगवांस्तेनोपजगाम / उपेत्य विमानादवतीर्य सपरिवारो भगवन्तं त्रिष्कृत्वः प्रदक्षिणीकृत्य तूर्यतालावचरैः प्रवाद्यद्भिरिन्द्रनीलमयेन दण्डेन वैडूर्यमुसार(गल्व)प्रत्युप्तां वीणां प्रियङ्गुपाण्डुना अनर्ध्येण वस्त्रेण पार्श्वावलम्बितां कृत्वा षड्जर्षभगान्धारधैवतनिषादमध्यमकैशिकगीतस्वरग्राममूर्छनादियुक्तेनानुसार्य सलीलं वीणामनुप्रविश्य गाथाभिगीतैरनुगायति स्म -

चित्तस्वभावनयधर्मविधिं नैरात्म्यं दृष्टिविगतं ह्यमलम् / प्रत्यात्मवेद्यगतिसूचनकं देशेहि नायक इह धर्मनयम् // lank_1.1 //

शुभधर्मसंचिततनुं सुगतं निर्माणनिर्मितप्रदर्शनकम् / प्रत्यात्मवेद्यगतिधर्मरतं लङ्कां हि गन्तु समयो ऽद्य मुने // lank_1.2 //

लङ्कामिमां पूर्वजिनाध्युषितां पुत्रैश्च तेषां बहुरूपधरैः / देशेहि नाथ इह धर्मवरं श्रोष्यन्ति यक्ष बहुरूपधराः // lank_1.3 //

अथ रावणो लङ्काधिपतिः तोटकवृत्तेनानुगाय्य पुनरपि गाथाभिगीतेनानुगायति स्म -

सप्तरात्रेण भगवान् सागरान्मकरालयात् / सागरेन्द्रस्य भवनात् समुत्तीर्य तटे स्थितः // lank_1.4 //

स्थितमात्रस्य बुद्धस्य रावणो ह्यप्सरैः सह / यक्षैश्च नानाविविधैः शुकसारणपण्डितैः // lank_1.5 //

ऋद्ध्या गत्वा तमध्वानं यत्र तिष्ठति नायकः / अवतीर्य पौष्पकाद्यानाद्वन्द्य पूज्य तथागतम् / नाम संश्रावयंस्तस्मै जिनेन्द्रेण अधिष्ठितः // lank_1.6 //

रावणो ऽहं दशग्रीवो राक्षसेन्द्र इहागतः / अनुगृह्णाहि मे लङ्कां ये चास्मिन् पुरवासिनः // lank_1.7 //

पूर्वैरपि हि संबुद्धैः प्रत्यात्मगतिगोचरम् / शिखरे रत्नखचिते पुरमध्ये प्रकाशितम् // lank_1.8 //

भगवानपि तत्रैव शिखरे रत्नमण्डिते / देशेतु धर्म विरजं जिनपुत्रैः परीवृतः / श्रोतुकामा वयं चाद्य ये च लङ्कानिवासिनः // lank_1.9 //

देशनानयनिर्मुक्तं प्रत्यात्मगतिगोचरम् / लङ्कावतारसूत्रं वै पूर्वबुद्धानुवर्णितम् // lank_1.10 //

स्मरामि पूर्वकैर्बुद्धैर्जिनपुत्रपुरस्कृतैः / सूत्रमेतन्निगद्यते भगवानपि भाषताम् // lank_1.11 //

भविष्यन्त्यनागते काले बुद्धा बुद्धसुताश्च ये / एतमेव नयं दिव्यं शिखरे रत्नभूषिते / देशयिष्यन्ति यक्षाणामनुकम्पाय नायकाः // lank_1.12 //

दिव्यलङ्कापुरीरम्यां नानारत्नैर्विभूषिताम् / प्राग्भारैः शीतलैः रम्यै रत्नजालवितानकैः // lank_1.13 //

रागदोषविनिर्मुक्ताः प्रत्यात्मगतिचिन्तकाः / सन्त्यत्र भगवन् यक्षाः पूर्वबुद्धैः कृतार्थिनः / महायाननये श्रद्धा निविष्टान्योन्ययोजकाः // lank_1.14 //

यक्षिण्यो यक्षपुत्राश्च महायानबुभुत्सवः / आयातु भगवान् शास्ता लङ्कामलयपर्वतम् // lank_1.15 //

कुम्भकर्णपुरोइगाश्च राक्षसाः पुरवासिनः / श्रोष्यन्ति प्रत्यात्मगतिं महायानपरायणाः // lank_1.16 //

कृताधिकारा बुद्धेषु करिष्यन्त्यधुना च वै / अनुकम्पार्थं मह्यं वै याहि लङ्कां सुतैः सह // lank_1.17 //

गृहमप्सरवर्गाश्च हाराणि विविधानि च / रम्यां चाशोकवनिकां प्रतिगृह्ण महामुने // lank_1.18 //

आज्ञाकरो ऽहं बुद्धानां ये च तेषां जिनात्मजाः / नास्ति तद्यन्न देयं मे अनुकम्प महामुने // lank_1.19 //

तस्य तद्वचनं श्रुत्वा उवाच त्रिभवेश्वरः / अतीतैरपि यक्षेन्द्र नायकै रत्नपर्वते // lank_1.20 //

प्रत्यात्मधर्मो निर्दिष्टः त्वं चैवाप्यनुकम्पितः / अनागताश्च वक्ष्यन्ति गिरौ रत्नविभूषिते // lank_1.21 //

योगिनां निलयो ह्येष दृष्टधर्मविहारिणाम् / अनुकम्प्यो ऽसि यक्षेन्द्र सुगतानां ममापि च // lank_1.22 //

अधिवास्य भगवांस्तूष्णीं शमबुद्ध्या व्यवस्थितः / आरूढः पुष्पके याने रावणेनोपनामिते // lank_1.23 //

तत्रैव रावणो ऽन्ये च जिनपुत्रा विशारदाः / अप्सरैर्हास्यलासाद्यैः पूज्यमानाः पुरीं गताः // lank_1.24 //

तत्र गत्वा पुरीं रम्यां पुनः पूजां प्रलब्धवान् / रावणाद्यैर्यक्षवर्गैर्यक्षिणीभिश्च पूजितः / यक्षपुत्रैर्यक्षकन्याभी रत्नजालैश्च पूजितः // lank_1.25 //

रावणेनापि बुद्धस्य हारा रत्नविभूषिताः / जिनस्य जिनपुत्राणामुत्तमाङ्गेषु स्थापिताः // lank_1.26 //

प्रगृह्य पूजां भगवान् जिनपुत्रैश्च पण्डितैः / धर्मं विभावयामास प्रत्यात्मगतिगोचरम् // lank_1.27 //

रावणो यक्षवर्गाश्च संपूज्य वदतां वरम् / महामतिं पूजयन्ति अध्येषन्ति पुनः पुनः / त्वं प्रष्टा सर्वबुद्धानां प्रत्यात्मगतिगोचरम् // lank_1.28 //

अहं हि श्रोता यक्षाश्च जिनपुत्राश्च सन्निह / अध्येषयामि त्वां यक्षा जिनपुत्राश्च पण्डिताः // lank_1.29 //

वादिनां त्वं महावादी योगिनां योगवाहकः / अध्येषयामि त्वां भक्त्या नयं पृच्छ विशारद // lank_1.30 //

तीर्थ्यदोषैर्विनिर्मुक्तं प्रत्येकजिनश्रावकैः / प्रत्यात्मधर्मताशुद्धं बुद्धभूमिप्रभावकम् // lank_1.31 //

निर्माय भगवांस्तत्र शिखरान् रत्नभूषितान् / अन्यानि चैव दिव्यानि रत्नकोटीरलंकृताः // lank_1.32 //

एकैकस्मिन् गिरिवरे आत्मभावं विदर्शयन् / तत्रैव रावणो यक्ष एकैकस्मिन् व्यवस्थितः // lank_1.33 //

अत्र ताः पर्षदः सर्वा एकैकस्मिन् हि दृश्यते / सर्वक्षेत्राणि तत्रैव ये च तेषु विनायकाः // lank_1.34 //

राक्षसेन्द्रश्च तत्रैव ये च लङ्कानिवासिनः / तत्प्रतिस्पर्धिनी लङ्का जिनेन अभिनिर्मिता / अन्याश्चाशोकवनिका वनशोभाश्च तत्र याः // lank_1.35 //

एकैकस्मिन् गिरौ नाथो महामतिप्रचोदितः / धर्मं दिदेश यक्षाय प्रत्यात्मगतिसूचकम् / दिदेश निखिलं सूत्रं शतसाहस्रिकं गिरौ // lank_1.36 //

शास्ता च जिनपुत्राश्च तत्रैवान्तर्हितास्ततः / अद्राक्षीद्रावणो यक्ष आत्मभावं गृहे स्थितम् // lank_1.37 //

चिन्तेति किमिदं को ऽयं देशितं केन वा श्रुतम् / किं दृष्टं केन वा दृष्टं नगरो वा क्व सौगतः // lank_1.38 //

तानि क्षेत्राणि ते बुद्धा रत्नशोभाः क्व सौगताः / स्वप्नो ऽयमथ वा माया नगरं गन्धर्वशब्दितम् // lank_1.39 //

तिमिरो मृगतृष्णा वा स्वप्नो वन्ध्याप्रसूयतम् / अलातचक्रधूमो वा यदहं दृष्टवानिह // lank_1.40 //

अथ वा धर्मता ह्येषा धर्माणां चित्तगोचरे / न च बालावबुध्यन्ते मोहिता विश्वकल्पनैः // lank_1.41 //

न द्रष्टा न च द्रष्टव्यं न वाच्यो नापि वाचकः / अन्यत्र हि विकल्पो ऽयं बुद्धधर्माकृतिस्थितिः / ये पश्यन्ति यथादृष्टं न ते पश्यन्ति नायकम् // lank_1.42 //

अप्रवृत्तिविकल्पश्च यदा बुद्धं न पश्यति / अप्रवृत्तिभवे बुद्धः संबुद्धो यदि पश्यति // lank_1.43 //

समनन्तरप्रतिविबुद्धे परावृत्ताश्रये स्वचित्तदृश्यमात्राधिगमे ऽविकल्पप्रचारस्थितस्य लङ्काधिपतेः पूर्वकुशलमूलसंचोदितस्य सर्वशास्त्रविदग्धबुद्धेर्यथातथ्यदर्शनस्य अपरप्रणेयस्य स्वबुद्धिविचालनकुशलस्य तर्कदृष्टिव्यपेतदर्शनस्य अपरप्रणेयस्य महायोगयोगिनो महाविश्वरूपधारिणः उपायकौशल्यगतिंगतस्य सर्वभूम्युत्तरोत्तरस्वलक्षणाधिगमनकुशलस्य चित्तमगोमनोविज्ञानस्वभावविवेकरतस्य त्रिसंततिव्यवच्छिन्नदर्शनस्य सर्वकारणतीर्थ्यव्यपेतबुद्धेः तथागतगर्भबुद्धभूम्यध्यात्मसमापन्नस्य स्थितबुद्धबुद्धेर्गगनादध्यात्मवेद्यशब्दमश्रौषीत् - साधु साधु लङ्काधिपते, साधु खलु पुनस्त्वं लङ्काधिपते / एवं शिक्षितव्यं योगिना यथा त्वं शिक्षसे / एवं च तथागता द्रष्टव्याः धर्माश्च, यथा त्वया दृष्टाः / अन्यथा दृश्यमाने उच्छेदमाश्रयः / चित्तमनोमनोविज्ञानविगतेन त्वया सर्वधर्मा विभावयितव्याः / अन्तश्चारिणा न बाह्यार्थदृष्ट्यभिनिविष्टेन / न च त्वया श्रावकप्रत्येकबुद्धतीर्थाधिगमपदार्थगोचरपतितदृष्टिसमाधिना भवितव्यम् / नाख्यायिकेतिहासरतेन भवितव्यम् / न स्वभावदृष्टिना, न राजाधिपत्यमदपतितेन, षड्ध्यानादिध्यायिना / एष लङ्काधिपते अभिसमयो महायोगिनां परप्रवादमथनानामकुशलदृष्टिदालनानामात्मदृष्टिव्यावर्तनकुशलानां सूक्ष्ममभिविज्ञानपरावृत्तिकुशलानां जिनपुत्राणां महायानचरितानाम् / तथागतस्वप्रत्यात्मभूमिप्रवेशाधिगमाय त्वया योगः करणीयः / एवं क्रियमाणे भूयो ऽप्युत्तरोत्तरविशोधको ऽयं लङ्काधिपते मार्गो यस्त्वया परिगृहीतः समाधिकौशलसमापत्त्या /

न च श्रावकप्रत्येकबुद्धतीर्थ्यानुप्रवेशसुखगोचरो यथा बालतीर्थयोगयोगिभिः कल्प्यते आत्मग्राहदृश्यलक्षणाभिनिविष्टैर्भूतगुणद्रव्यानुचारिभिरविद्याप्रत्ययदृष्ट्यभिनिवेशाभिनिविष्टैः शून्यतोत्पादविक्षिप्तैर्विकल्पाभिनिविष्टैर्लक्ष्यलक्षणपतिताशयैः / विश्वरूपगतिप्रापको ऽयं लङ्काधिपते स्वप्रत्यात्मगतिबोधको ऽयं महायानाधिगमः / विशेषभवोपपत्तिप्रतिलम्भाय च प्रवर्तते / पटलकोशविविधविज्ञानतरंगव्यावर्तको ऽयं लङ्काधिपते महायानयोगप्रवेशो न तीर्थ्ययोगाश्रयपतनम् / तीर्थ्ययोगो हि लङ्काधिपते तीर्थ्यानामात्माभिनिवेशात्प्रवर्तते / विज्ञानस्वभावद्वयार्थानामभिनिवेशदर्शनादसौम्ययोगस्तीर्थकराणाम् / तत्साधु लङ्काधिपते एतमेवार्थमनुविचिन्तयेः / यथा विचिन्तितवांस्तथागतदर्शनात् / एतदेव तथागतदर्शनम् //

अथ तस्मिन्नन्तरे रावणस्यैतदभवत् - यन्न्वहं पुनरपि भगवन्तं सर्वयोगवशवर्तिनं तीर्थ्ययोगव्यावर्तकं प्रत्यात्मगतिगोचरोद्भावकं नैर्मितनैर्माणिकव्यपेतमधिगमबुद्धिर्यद्योगिनां योगाभिसमयकाले समाधिमुखे समाप्तानामधिगमो भवति / तस्य च अधिगमाद्योगिनां योगशब्दो निपात्यते अधिगमनेनेति / तदहं कारुणिकं क्लेशेन्धनविकल्पक्षयकरं तं जिनपुत्रैः परिवृतं सर्वसत्त्वचित्ताशयानुप्रविष्टं सर्वगतं सर्वज्ञं क्रियालक्षणविनिवृत्तं तयैवमृद्ध्या (वैद्य 6) पश्येयम्, तद्दर्शनान्नाधिगतमधिगच्छेयम्, अधिगतं च मे निर्विकल्पाचारः सुखसमाधिसमापत्तिविहारस्तथागतगतिभूमिप्रापको विवृद्धिं यायात् //

अथ भगवांस्तस्यां वेलायां लङ्काधिपतेरनुत्पत्तिकधर्मक्षान्त्यधिगतं विदित्वा तयैव शोभया दशग्रीवस्यानुकम्पया पुनरप्यात्मानं शिखरे सुबहुरत्नखचिते रत्नजालवितते दर्शयति स्म / अद्राक्षीद्दशग्रीवो लङ्काधिपतिः पुनरपि दृष्टानुभूतां शोभां शिखरे तथागतमर्हन्तं सम्यक्संबुद्धं द्वात्रिंशद्वरलक्षणविभूषिततनुम् / स्वात्मभावं चैकेकस्मिन् गिरौ तथागतानां पुरतः सम्यक्संबुद्धानां महामतिना सार्धं तथागतप्रत्यात्मगतिगोचरकथां प्रकुर्वन्तं यक्षैः परिवृतं तां देशनापाठकथां कथयन्तम् / ते च क्षेत्राः सनायकाः //

अथ भगवान् पुनरपि तस्यां वेलायां पर्षदमवलोक्य बुद्ध्या न मांसचक्षुषा सिंहराजवद्विजृम्भ्य महाहासमहसत् / ऊर्णाकोशाच्च रश्मिं निश्चार्यमाणः पार्श्वोरुकटिकायाच्च श्रीवत्सात्सर्वरोमकूपेभ्यो युगान्ताग्निरिव दीप्यमानः तेजसेन्द्रधनुरुदयभास्करोपमेन प्रभामण्डलेन देदीप्यमानः शक्रब्रह्मलोकपालैर्गगनतले निरीक्ष्यमाणः सुमेरुशृङ्गप्रतिस्पर्धिनि शिखरे निषण्णो महाहासमहसत् / अथ तस्या बोधिसत्त्वपर्षदः तेषां च शक्रब्रह्मादीनामेतदभवत् - को नु खल्वत्र हेतुः, क ः प्रत्ययो यद्भगवान् सर्वधर्मवशवर्ती महाहासं स्मितपूर्वकं हसति? रश्मींश्च स्वविग्रहेभ्यो निश्चारयति? निश्चार्य तूष्णीमभवत् स्वप्रत्यात्मार्यज्ञानगोचरसमाधिमुखे पतिताशयो ऽविस्मितः सिंहावलोकनतया दिशो ऽवलोक्य रावणस्यैव योगगतिप्रचारमनुविचिन्तयमानः //

अथ खलु महामतिर्बोधिसत्त्वो महासत्त्वः पूर्वमेवाध्येषितो रावणस्यानुकम्पामुपादाय तस्या बोधिसत्त्वपर्षदश्चित्ताशयविचारमाज्ञाय अनागतां जनतां चावलोक्य देशनापाठाभिरतानां सत्त्वानां चित्तविभ्रमो भविष्यतीति यथारुतार्थाभिनिविष्टानां सर्वश्रावकप्रत्येकबुद्धतीर्थ्ययोगबलाभिनिविष्टानां तथागता अपि भगवन्तो विनिवृत्तविज्ञानविषया महाहासं हसन्ति / तेषां कौतूहलविनिवृत्त्यर्थं भगवन्तं परिपृच्छति स्म - कः खल्वत्र हेतुः, कः प्रत्ययः स्मितस्य प्रवृत्तये? भगवानाह - साधु साधु महामते, साधु खलु पुनस्त्वं महामते, लोकस्वभावमवलोक्य कुदृष्टिपतितानां च लोकानां त्रैकाल्यचित्तावबोधाय मां प्रष्टुमारब्धः / एवं पण्डितैः परिपृच्छनजातीयैर्भवितव्यं स्वपरोभयार्थम् / एष महामते रावणो लङ्काधिपतिः पूर्वकानपि तथागतानर्हतः सम्यक्संबुद्धान् प्रश्नद्वयं पृष्टवान् / मामप्येतर्हि प्रष्टुकामो यदनालीढं सर्वश्रावकप्रत्येकबुद्धतीर्थ्ययोगयोगिनां प्रश्नद्वयप्रभेदगतिलक्षणं विभावयितुम् / य एष प्रष्टुकामो दशग्रीवो ऽनागतानपि जिनान् प्रक्ष्यति //

जानन्नेव भगवांल्लङ्काधिउपतिमेतदवोचत् - पृच्छ त्वं लङ्काधिपते / कृतस्ते तथागतेनावकाशः / मा विलम्ब प्रचलितमौलिन् / यद्यदेवाकाङ्क्षसि, अहं ते तस्त तस्यैव प्रश्नस्यव्याकरणेन चित्तमाराधयिष्यामि / यथा त्वं परावृत्तविकल्पाश्रये भूमिविपक्षकौशलेन प्रविचयबुद्ध्या विचारयमाणः प्रत्यात्मनयलक्षणसमाधिसुखविहारं समाधिबुद्धैः परिगृहीतः (वैद्य 7) शमथसुखव्यवस्थितः श्रावकप्रत्येकबुद्धसमाधिपक्षानतिक्रम्य अचलासाधुमतीधर्ममेघाभूमिव्यवस्थितो धर्मनैरात्म्ययथातथाकुशलो महारत्नपद्मविमाने समाधिजिनाभिषेकतां प्रतिलप्स्यसे / तदनुरूपैः पद्मैः स्वकायविचित्राधिष्ठानाधिष्ठितैस्तैः पद्मैः स्वकायं निषण्णं द्रक्ष्यसि, अन्योन्यवक्रमुखनिरीक्षणं च करिष्यसि / एवमचिन्त्यो ऽसौ विषयः यदेकेनाभिनिर्हारकौशलेनाभिनिर्हृतश्चर्याभूमौ स्थितः / उपायकौशलपरिग्रहाभिनिर्हाराभिनिर्हृते तमचिन्त्यविषयमनुप्राप्स्यसि, बहुरूपविकारतां च तथागतभूमिम् / यददृष्टपूर्वं श्रावकप्रत्येकबुद्धतीर्थ्यब्रह्मेन्द्रोपेन्द्रादिभिस्तं प्राप्स्यसि //

अथ खलु लङ्काधिपतिर्भगवता कृतावकाश उत्थाय तस्माद्रश्मिविमलप्रभाद्रत्नपद्मसदृशाद्रत्नशिखरात् साप्सरोगणपरिवृतो विविधैरनेकविधैर्नानाप्रकारैः पुष्पमाल्यगन्धधूपविलेपनच्छत्रध्वजपताकाहारार्धहारकिरीटमुकुटैरन्यैश्च अदृष्टश्रुतपूर्वैराभरणविशेषैर्विशिष्टैस्तूर्यतालावचरैर्देवनागयक्षराक्षसगन्धर्वकिन्नरमहोरगमनुष्यातिक्रान्तैः सर्वकामधातुपर्यापन्नान् वाद्यभाण्डानभिनिर्माय ये चान्येषु बुद्धक्षेत्रेषु तूर्यविशेषा दृष्टाः, तानभिनिर्माय भगवन्तं बोधिसत्त्वांश्च रत्नजालेनावष्टभ्य नानावस्त्रोच्छ्रितपताकं कृत्वा सप्त तालान् गगने ऽभ्युद्गम्य महापूजामेघानभिप्रवृष्य तूर्यतालावचराणि निर्नाद्य तस्माद्गगनादवतीर्य सूर्यविद्युत्प्रभे द्वितीये महारत्नपद्मालंकृतौ रत्नशिखरे निषसाद / निषद्य उपचारात्स्मितपूर्वं भगवता कृतावकाशो भगवन्त प्रश्नद्वयं पृच्छति स्म - पृष्टा मया पूर्वकास्तथागता अर्हन्तः सम्यक्संबुद्धाः / तैश्चापि विसर्जितम् / भगवन्तमप्येतर्हि पृच्छामि / देशनापाठे चायं बुद्धैस्त्वया चावश्यमनुवर्णितं भविष्यति / निर्मितनिर्माणभाषितमिदं भगवन् धर्मद्वयम् / न मौनैस्तथागतैर्भाषितम् / मौना हि भगवंस्तथागताः समाधिसुखगोचरमेवोद्भावयन्ति / न च गोचरं विकल्पयन्ति / तं देशयन्ति / तत्साधु मे भगवान् स्वयमेव धर्मवशवर्ती धर्मद्वयं तथागतो ऽर्हन् सम्यक्संबुद्धो देशयतु / श्रोष्यन्तीमे जिनपुत्रा अहं च //

भगवानाह - ब्रूहि लङ्काधिपते धर्मद्वयम् / राक्षसेन्द्र आह - किरीटाङ्गदहारवज्रसूत्रावबद्धाभरणनुशोभाशोभित, धर्मा एव प्रहातव्याः प्रागेवाधर्माः / तत्कथं भगवन् धर्मद्वयं प्रहाणं भवति? के चाधर्मा धर्माः? कथं सति द्वित्वं प्रहाणधर्माणां विकल्पलक्षणपतितानां विकल्पस्वभावाभावानामभौतिकभौतिकानामालयविज्ञानापरिज्ञानादविशेषलक्षणानां केशोण्डुकस्वभावावस्थितानामशुद्धक्षयज्ञानविषयिणाम् / तत्कथं तेषां प्रहाणमेवंभाविनाम्?

भगवानाह - ननु लङ्काधिपते, दृष्टो घटादीनां भेदनात्मकानां विनाशधर्मिणां बालविकल्पगोचरैः प्रतिविभागः / एवमिहापि किं न गृह्यते? अस्ति धर्माधर्मयोः प्रतिविभागो बालप्रतिविकल्पमुपादाय, न त्वार्यज्ञानाधिगमं प्रति दर्शनेन / तिष्ठन्तु तावल्लङ्काधिपते घटादयो भावा विचित्रलक्षणपतिता बालानां न त्वार्याणाम् / एकस्वाभाविकानामेकज्वालोद्भवप्रज्वालितानां (वैद्य 8) गृहभवनोद्यानप्रासादप्रतिष्ठापितानां दृष्टः प्रतिविभागः इन्धनवशाद्दीर्घह्रस्वप्रभाल्पमहाविशेषाश्च / एवमिहापि किं न गृह्यते? अस्ति धर्माधर्मयोः प्रतिविभागः / न केवलमग्निज्वालाया एकसंतानपतिताया दृष्टो ऽर्चिषश्च प्रतिविभागः / एकबीजप्रसूतानां यत्संतानानामपि लङ्काधिपते नालाङ्कुरगण्डपर्वपत्रपलाशपुष्पफलशाखाविशेषाः / एवं सर्वधर्मप्ररोहधर्मिणां बाह्यानामाध्यात्मिकानामप्यविद्यानिर्यातानां स्कन्धधात्वायतनोपगानां सर्वधर्माणां त्रैधातुकोपपन्नानां दृष्टसुखसंस्थानामभिलाप्यगतिविशेषाः / विज्ञानानामेकलक्षणानां विषयाभिग्रहणप्रवृत्तानां दृष्टो हीनोत्कृष्टमध्यमविशेषो व्यवदानाव्यवदानतश्च कुशलाकुशलतश्च / न केवलमेषां लङ्काधिपते धर्माणां प्रतिविभागविशेषः, योगिनामपि योगमभ्यस्यतां योगमार्गे प्रत्यात्मगतिलक्षणविशेषो दृष्टः / किमङ्ग पुनर्धर्माधर्मयोः प्रतिविकल्पप्रवृत्तयोर्विशेषो न भवति? भवत्येव //

अस्ति लङ्काधिपते धर्माधर्मयोः प्रतिविभागो विकल्पलक्षणत्वात् / तत्र लङ्काधिपते धर्माः कतमे? यदुत एते तीर्थ्यश्रावकप्रत्येकबुद्धबालविकल्पकल्पिताः / कारणतो गुणद्रव्यपूर्वका धर्मा इत्युपदिश्यन्ते, ते प्रहातव्याः / न लक्षणतः प्रतिविकल्पयितव्याः / स्वचित्तदृश्यधर्मताभिनिवेशान्न सन्ति घटादयो धर्मा बालपरिकल्पिता अलब्धशरीराः / एवं विदर्शनया प्रतिविपश्यतः प्रहीणा भवन्ति //

तत्र अधर्माः कतमे? ये ऽलब्धात्मका लक्षणविकल्पाप्रचारा धर्मा अहेतुकाः तेषामप्रवृत्तिर्दृष्टा भूताभूततः / अथ धर्मस्य प्रहाणं भवति / पुनरप्यलब्धात्मका धर्माः कतमे? यदुत शशखरोष्ट्रवाजिविषाणवन्ध्यापुत्रप्रभृतयो धर्माः / अलब्धात्मकत्वान्न लक्षणतः कल्प्याः / ते ऽन्यत्र संव्यवहारार्था अभिधीयन्ते, नाभिनिवेशतो यथा घटादयः / यथा ते प्रहेया अग्रहणतो विज्ञानेन, तथा विकल्पभावा अपि प्रहेयाः / अतो धर्माधर्मयोः प्रहाणं भवति / यदुक्तवानसि लङ्काधिपते धर्माधर्माः कथं प्रहेया इति, तदेतदुक्तम् //

यदप्युक्तवानसि लङ्काधिपते - पूर्वका अपि तथागता अर्हन्तः सम्यक्संबुद्धा मया पृष्टाः, तैश्च विसर्जितं पूर्वम् / इति लङ्काधिपते विकल्पस्यैतदधिवचनम् / अतीतो ऽप्येवं विकल्प्यते अतीतः / एवमनागतो ऽधुनापि धर्मतया / निर्विकल्पास्तथागताः सर्वविकल्पप्रपञ्चातीताः / न यथा रूपस्वभावो विकल्प्यते / अन्यत्राज्ञानाधिगमतः सुखार्थं विभाव्यते / प्रज्ञया अनिमित्तचारिणः / अतो ज्ञानात्मकास्तथागता ज्ञानशरीराः / न कल्पन्ते न कल्प्यन्ते / केन न कल्पन्ते? मनसा आत्मतो जीवतः पुद्गलतः / कथं न विकल्पन्ते? मनोविज्ञानेन विषयार्थहेतुकेन यथा रूपलक्षणसंस्थानाकारतश्च / अतो विकल्पाविकल्पागतेन भवितव्यम् //

अपि च लङ्काधिपते भित्तिखचितविग्रहसमः सत्त्वप्रचारः / निश्चेष्टो लङ्काधिपते लोकसंनिवेशः कर्मक्रियारहितो ऽसत्त्वात्सर्वधर्माणाम् / न चात्र कश्चिच्छृणोति श्रूयते वा / निर्मितप्रतिमो हि लङ्काधिपते लोकसंनिवेशः / न च तीर्थ्यबालयोगिनो विभावयन्ति / य एवं पश्यति लङ्काधिपते, स सम्यक्पश्यति / अन्यथा पश्यन्तो विकल्पे चरन्तीति / स्वविकल्पा द्विधा गृह्णन्ति / तद्यथा दर्पणान्तर्गतं स्वबिम्बप्रतिबिम्बं जले वा स्वाङ्गच्छाया वा ज्योत्स्नादीपप्रदीपिते वा गृहे वा अङ्गच्छाया प्रतिश्रुत्कानि / अथ स्वविकल्पग्रहणं प्रतिगृह्य धर्माधर्मं प्रतिविकल्पयन्ति / न च धर्माधर्मयोः प्रहाणेन चरन्ति / विकल्पयन्ति पुष्णन्ति, न प्रशमं प्रतिलभन्ते / एकाग्रस्यैतदधिवचनम् - तथागतगर्भस्वप्रत्यात्मार्यज्ञानगोचरस्यैतत्प्रवेशो यत्समाधिः परमो जायत इति //

रावणाध्येषणापरिवर्तो नाम प्रथमः //

स्तर्त् परिवर्त 2

षट्त्रिंशत्साहस्रसर्वधर्मसमुच्चयो नाम द्वितीयः परिवर्तः /

अथ खलु महामतिर्बोधिसत्त्वो महासत्त्वो महामतिबोधिसत्त्वसहितः सर्वबुद्धक्षेत्रानुचारी बुद्धानुभावेन उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तं गाथाभिरभ्यष्टावीत् - उत्पादभङ्गरहितो लोकः खपुष्पसंनिभः / सदसन्नोपलब्धस्ते प्रज्ञया कृपया च ते // lank_2.1 // मायोपमाः सर्वधर्माः चित्तविज्ञानवर्जिताः / सदसन्नोपलब्धास्ते प्रज्ञया कृपया च ते // lank_2.2 //

शाश्वतोच्छेदवर्ज्यश्च लोकः स्वप्नोपमः सदा / सदसन्नोपलब्धस्ते प्रज्ञया कृपया च ते // lank_2.3 //

मायास्वप्नस्वभावस्य धर्मकायस्य कः स्तवः / भावानां निःस्वभावानां यो ऽनुत्पादः स संभवः // lank_2.4 //

इन्द्रियार्थविसंयुक्तमदृश्यं यस्य दर्शनम् / प्रशंसा यदि वा निन्दा तस्योच्येत कथं मुने // lank_2.5 //

धर्मपुद्गलनैरात्म्यं क्लेशज्ञेयं च ते सदा / विशुद्धमानिमित्तेन प्रज्ञया कृपया च ते // lank_2.6 //

न निर्वासि निर्वाणेन निर्वाणं त्वयि संस्थितम् / बुद्धबोद्धव्यरहितं सदसत्पक्षवर्जितम् // lank_2.7 //

ये पश्यन्ति मुनिं शान्तमेवमुत्पत्तिवर्जितम् / ते भोन्ति निरुपादाना इहामुत्र निरञ्जनाः // lank_2.8 //

अथ खलु महामतिर्बोधिसत्त्वो महासत्त्वो भगवन्तमाभिः सारूप्याभिर्गाथाभिरभिष्टुत्य स्वनामगोत्रं भगवते संश्रावयति स्म -

महामतिरहं भगवन् महायानगतिं गतः / अष्टोत्तरं प्रश्नशतं पृच्छामि वदतां वरम् // lank_2.9 //

तस्य तद्वचनं श्रुत्वा बुद्धो लोकविदां वरः / निरीक्ष्य परिषदं सर्वामलपी सुगतात्मजम् // lank_2.10 //

पृच्छन्तु मां जिनसुतास्त्वं च पृच्छ महामते / अहं ते देशयिष्यामि प्रत्यात्मगतिगोचरम् // lank_2.11 //

अथ खलु महामतिर्बोधिसत्त्वो महासत्त्वो भगवता कृतावकाशो भगवतश्चरणयोर्निपत्य भगवन्तं प्रश्नं परिपृच्छति स्म -

कथं हि शुध्यते तर्कः कस्मात्तर्कः प्रवर्तते / कथं हि दृश्यते भ्रान्तिः कस्माद्भ्रान्तिः प्रवर्तते // lank_2.12 //

कस्मात्क्षेत्राणि निर्माणा लक्षणं तीर्थिकाश्च ये / निराभासः क्रमः केन जिनपुत्राश्च ते कुतः // lank_2.13 //

मुक्तस्य गमनं कुत्र बद्धः कः केन मुच्यते / ध्यायिनां विषयः को ऽसौ कथं यानत्रयं भवेत् // lank_2.14 //

प्रत्यते जायते किं तत्कार्यं किं कारणं च किम् / उभयान्तकथा केन कथं वा संप्रवर्तते // lank_2.15 //

आरूप्या च समापत्तिर्निरोधश्च कथं भवेत् / संज्ञानिरोधश्च कथं कथं कस्माद्धि मुच्यते // lank_2.16 //

क्रिया प्रवर्तते केन गमनं देहधारिणाम् / कथं दृश्यं विभावो कथं कथं भूमिषु वर्तते // lank_2.17 //

निर्भिद्येन्त्रिभवं को ऽसौ किं स्थानं का तनुर्भवेत् / स्थितः प्रवर्तते कुत्र जिनपुत्रः कथं भवेत् // lank_2.18 //

अभिज्ञा लभते केन वशिताश्च समाधयः / समाध्यते कथं चित्तं ब्रूहि मे जिनपुंगव // lank_2.19 //

आलयं च कथं कस्मान्मनोविज्ञानमेव च / कथं प्रवर्तते दृश्यं कथं दृश्यान्निवर्तते // lank_2.20 //

गोत्रागोत्रं कथं केन चित्तमात्रं भवेत्कथम् / लक्षणस्य व्यवस्थानं नैरात्म्यं च कथं भवेत् // lank_2.21 //

कथं न विद्यते सत्त्वः संवृत्या देशना कथम् / कथं शाश्वतौच्छेददर्शनं न प्रवर्तते // lank_2.22 //

कथं हि तीर्थिकास्त्वं च लक्षणैर्न विरुध्यसे / नैयायिकाः कथं ब्रूहि भविष्यन्ति अनागते // lank_2.23 //

शून्यता च कथं केन क्षणभङ्गश्च ते कथम् / कथं प्रवर्तते गर्भः कथं लोको निरीहिकः // lank_2.24 //

मायास्वप्नोपमः केन कथं गन्धर्वसंनिभः / मरीचिदकचन्द्राभः केन लोको ब्रवीहि मे // lank_2.25 //

बोध्यङ्गानां कथं केन बोधिपक्षा भवेत्कुतः / मराश्च देशसंक्षोभो भवदृष्टिः कथं भवेत् // lank_2.26 //

अजातमनिरुद्धं च कथं खपुष्पसंनिभम् / कथं च बुध्यसे लोकं कथं ब्रूषे निरक्षरम् // lank_2.27 //

निर्विकल्पा भवेत्केन कथं च गगनोपमाः / तथता भवेत्कतिविधा चित्तं पारमिताः कति // lank_2.28 //

भूमिक्रमो भवेत्केन निराभासगतिश्च का / नैरात्म्यं च द्विधा केन कथं ज्ञेयं विशुध्यति // lank_2.29 //

ज्ञानं कतिविधं नाथ शीलं सत्त्वाकराणि च / केन प्रवर्तिता गोत्राः सुवर्णमणिमुक्तजाः // lank_2.30 //

अभिलापो जानिकः केन वैचित्रसत्त्वभावयोः / विद्यास्थानकलाश्चैव कथं केन प्रकाशितम् // lank_2.31 //

गाथा भवेत्कतिविधा गद्यं पद्यं भवेत्कथम् / कथं युक्तिः कतिविधा व्याख्यानं च कथंविधम् // lank_2.32 //

अन्नपानं च वैचित्र्यं मैथुनं जायते कथम् / राजा च चक्रवर्ती च मण्डली च कथं भवेत् // lank_2.33 //

रक्ष्यं भवेत्कथं राज्यं देवकायाः कथंविधाः / भूनक्षत्रगणाः केन सोमभास्करयोः कथम् // lank_2.34 //

विद्यास्थानं भवेत्किं च मोक्षो योगी कतिविधः / शिष्यो भवेत्कतिविध आचार्यश्च भवेत्कथम् // lank_2.35 //

बुद्धो भवेत्कतिविधो जातकाश्च कथंविधाः / मारो भवेत्कतिविधः पाषण्डाश्च कतिविधाः // lank_2.36 //

स्वभावस्ते कतिविधश्चित्तं कतिविधं भवेत् / प्रज्ञप्तिमात्रं च कथं ब्रूहि मे वदतांवर // lank_2.37 //

घनाः खे पवनं केन स्मृतिर्मेघो कथं भवेत् / तरुवल्ल्यः कथं केन ब्रूहि मे त्रिभवेश्वर // lank_2.38 //

हया गजा मृगाः केन ग्रहणं यान्ति बालिशाः / उहोडिमा नराः केन ब्रूहि मे चित्तसारथे // lank_2.39 //

षडृतुग्रहणं केन कथमिच्छन्तिको भवेत् / स्त्रीपुंनपुंसकानां च कथं जन्म वदाहि मे // lank_2.40 //

कथं व्यावर्तते योगात्कथं योगः प्रवर्तते / कथं चैवंविधा योगे नराः स्थाप्या वदाहि मे // lank_2.41 //

गत्यागतानां सत्त्वानां किं लिङ्गं किं च लक्षणम् / धनेश्वरो कथं केन ब्रूहि मे गगनोपम // lank_2.42 //

शाक्यवंशः कथं केन कथमिक्ष्वाकुसंभवः / ऋषिर्दीर्घपताः केन कथं तेन प्रभावितम् // lank_2.43 //

त्वमेव कस्मात्सर्वत्र सर्वक्षेत्रेषु दृश्यसे / नामैश्चित्रैस्तथारूपैर्जिनपुत्रैः परीवृतः // lank_2.44 //

अभक्ष्यं हि कथं मांसं कथं मांसं निषिध्यते / क्रव्यादगोत्रसंभूता मासं भक्ष्यन्ति केन वै // lank_2.45 //

सोमभास्करसंस्थाना मेरुपद्मोपमाः कथम् / श्रीवत्ससिंहसंस्थानाः क्षेत्राः केन वदाहि मे // lank_2.46 //

व्यत्यस्ता अधमूर्धाश्च इन्द्रजालोपमाः कथम् / सर्वरत्नमया क्षेत्राः कथं केन वदाहि मे // lank_2.47 //

वीणापणवसंस्थाना नानापुष्पफलोपमाः / आदित्यचन्द्रविरजाः कथं केन वदाहि मे // lank_2.48 //

केन निर्माणिका बुद्धाः केन बुद्धा विपाकजाः / तथता ज्ञानबुद्धा वै कथं केन वदाहि मे // lank_2.49 //

कामधातौ कथं केन न विबुद्धो वदाहि मे / अकनिष्ठे किमर्थं तु वीतरागेषु बुध्यसे // lank_2.50 //

निर्वृते सुगते को ऽसौ शासनं धारयिष्यति / कियत्स्थायी भवेच्छास्ता कियन्तं स्थास्यते नयः // lank_2.51 //

सिद्धान्तस्ते कतिविधो दृष्टिश्चापि कथंविधा / विनयो भिक्षुभावश्च कथं केन वदाहि मे // lank_2.52 //

परावृत्तिगतं केन निराभासगतं कथम् / प्रत्येकजिनपुत्राणां श्रावकाणां वदाहि मे // lank_2.53 //

अभिज्ञा लौकिकाः केन भवेल्लोकोत्तरा कथम् / चित्तं हि भूमयः सप्त कथं केन वदाहि मे // lank_2.54 //

संघस्ते स्यात्कतिविधः संघभेदः कथं भवेत् / चिकित्साशास्त्रं सत्त्वानां कथं केन वदाहि मे // lank_2.55 //

काश्यपः क्रकुछन्दश्च कोनाकमुनिरप्यहम् / भाषसे जिनपुत्राणां वद कस्मान्महामुने // lank_2.56 //

असत्यात्मकथा केन नित्यनाशकथा कथम् / कस्मात्तत्त्वं न सर्वत्र चित्तमात्रं प्रभाषसे // lank_2.57 //

नरनारीवनं केन हरीतक्यामलीवनम् / कैलासश्चक्रवालश्च वज्रसंहनना कथम् // lank_2.58 //

अचलास्तदन्तरे वै के नानारत्नोपशोभिताः / ऋषिगन्धर्वसंकीर्णाः कथं केन वदाहि मे // lank_2.59 //

इदं श्रुत्वा महावीरो बुद्धो लोकविदां वरः / महायानमयं चित्तं बुद्धानां हृदयं बलम् // lank_2.60 //

साधु साधु महाप्रज्ञ महामते निबोधसे / भाषिष्याम्यनुपूर्वेण यत्त्वया परिपृच्छितम् // lank_2.61 //

उत्पादमथ नोत्पादं निर्वाणं शून्यलक्षणम् / संक्रान्तिमस्वभावत्वं बुद्धाः पारमितासुताः // lank_2.62 //

श्रावका जिनपुत्राश्च तीर्थ्या ह्यारूप्यचारिणः / मेरुसमुद्रा ह्यचला द्वीपा क्षेत्राणि मेदिनी // lank_2.63 //

नक्षत्रा भास्करः सोमस्तीर्थ्या देवासुरास्तथा / विमोक्षा वशिताभिज्ञा बला ध्याना समाधयः // lank_2.64 //

निरोधा ऋद्धिपादाश्च बोध्यङ्गा मार्ग एव च / ध्यानानि चाप्रमाणानि स्कन्धा गत्यागतानि च // lank_2.65 //

समापत्तिर्निरोधाश्च व्युत्थानं चित्तदेशना / चित्तं मनश्च विज्ञानं नैरात्म्यं धर्मपञ्चकम् // lank_2.66 //

स्वभावः कल्पना कल्प्यं दृश्यं दृष्टिद्वयं कथम् / यानाकराणि गोत्राणि सुवर्णमणिमुक्तिजाः // lank_2.67 //

इच्छन्तिका महाभूता भ्रमरा एकबुद्धता / ज्ञानं ज्ञेयो गमं प्राप्तिः सत्त्वानां च भवाभवम् // lank_2.68 //

हया गजा मृगाः केन ग्रहणं ब्रूहि मे कथम् / दृष्टान्तहेतुभिर्युक्तः सिद्धान्तो देशना कथम् // lank_2.69 //

कार्यं च कारणं केन नानाभ्रान्तिस्तथा नयम् / चित्तमात्रं न दृश्यो ऽस्ति भूमीनां नास्ति वै क्रमः // lank_2.70 //

निराभासपरावृत्तिशतं केन ब्रवीषि मे / चिकित्सशास्त्रं शिल्पाश्च कलाविद्यागमं तथा // lank_2.71 //

अचलानां तथा मेरोः प्रमाणं हि क्षितेः कथम् / उदधेश्चन्द्रसूर्याणां प्रमाणं ब्रूहि मे कथम् // lank_2.72 //

सत्त्वदेहे कति रजांसि हीनोत्कृष्टमध्यमाः / क्षेत्रे क्षेत्रे रजाः कृत्तो धन्वो धन्वे भवेत्कति // lank_2.73 //

हस्ते धनुःक्रमे क्रोशे योजने ह्यर्धयोजने / शशवातायनं लिक्षा एडकं हि यवाः कति // lank_2.74 //

प्रस्थे हि स्याद्यवाः क्यन्तः प्रस्थार्धे च यवाः कति / द्रोणे खार्यां तथा लक्षाः कोट्यो वै बिंबराः कति // lank_2.75 //

सर्षपे ह्यणवः क्यन्तो रक्षिका सर्षपाः कति / कतिरक्षिको भवेन्माषो धरणं माषकाः कति // lank_2.76 //

कर्षो हि धरणाः क्यन्तः पलं वै कति कार्षिका / एतेन पिण्डलक्षणं मेरुः कतिपलो भवेत् / एवं हि पृच्छ मां पुत्र अन्यथा किं नु पृच्छसि // lank_2.77 //

प्रत्येकश्रावकाणां हि बुद्धानां च जिनौरसाम् / कत्यणुको भवेत्कायः किं नु एवं न पृच्छसि // lank_2.78 //

वह्नेः शिखा कत्यणुका पवने ह्यणवः कति / इन्द्रिये इन्द्रिये क्यन्तो रोमकूपे भ्रुवोः कति // lank_2.79 //

धनेश्वरा नराः केन राजानश्चक्रवर्तिनः / राज्यं च तैः कथं रक्ष्यं मोक्षश्चैषां कथं भवेत् // lank_2.80 //

गद्यं पद्यं कथं ब्रूषे मैथुनं लोकविश्रुता / अन्नपानस्य वैचित्र्यं नरनारिवनाः कथम् // lank_2.81 //

वज्रसंहननाः केन ह्यचला ब्रूहि मे कथम् / मायास्वप्ननिभाः केन मृगतृष्णोपमाः कथम् // lank_2.82 //

घनानां संभवः कुत्र ऋतूनां च कुतो भवेत् / रसानां रसता कस्मात्कस्मात्स्त्रीपुंनपुंसकम् // lank_2.83 //

शोभाश्च जिनपुत्राश्च कुत्र मे पृच्छ मां सुत / कथं हि अचला दिव्या ऋषिगन्धर्वमण्डिताः // lank_2.84 //

मुक्तस्य गमनं कुत्र बद्धः कः केन मुच्यते / ध्यायिनां विषयः को ऽसौ निर्माणस्तीर्थकानि च // lank_2.85 //

असत्सदक्रिया केन कथं दृश्यं निवर्तते / कथं हि शुध्यते तर्कः केन तर्कः प्रवर्तते // lank_2.86 //

क्रिया प्रवर्तते केन गमनं ब्रूहि मे कथम् / संज्ञायाश्छेदनं केन समाधिः केन चोच्यते // lank_2.87 //

विदार्थ त्रिभवं को ऽसौ किं स्थानं का तनुर्भवेत् / असत्यात्मकथा केन संवृत्या देशना कथम् // lank_2.88 //

लक्षणं पृच्छसे केन नैरात्म्यं पृच्छसे कथम् / गर्भा नैयायिकाः केन पृच्छसे मां जिनौरसाः // lank_2.89 //

शाश्वतोच्छेददृष्टिश्च केन चित्तं सभाध्यते / अभिलापस्तथा ज्ञानं शीलं गोत्रं जिनौरसाः // lank_2.90 //

युक्तव्याख्या गुरुशिष्यः सत्त्वानां चित्रता कथम् / अन्नपानं नभो मेघा माराः प्रज्ञप्तिमात्रकम् // lank_2.91 //

तरुवल्ल्यः कथं केन पृच्छसे मां जिनौरस / क्षेत्राणि चित्रता केन ऋषिर्दीर्घतपास्तथा // lank_2.92 //

वंशः कस्ते गुरुः केन पृच्छसे मां जिनौरस / उहोडिमा नरा योगे कामधातौ न बुध्यसे // lank_2.93 //

सिद्धान्तो ह्यकनिष्ठेषु युक्तिं पृच्छसि मे कथम् / अभिज्ञां लौकिकां केन कथं भिक्षुत्वमेव च // lank_2.94 //

नैर्माणिकान् विपाकस्थान् बुद्धान् पृच्छसि मे कथम् / तथताज्ञानबुद्धा वै संघाश्चैव कथं भवेत् // lank_2.95 //

वीणापणवपुष्पाभाः क्षेत्रा लोकविवर्जिताः / चित्तं हि भूमयः सप्त पृच्छसे मां जिनौरस / एतांश्चान्यांश्च सुबहून् प्रश्नान् पृच्छसि मां सुत // lank_2.96 //

एकैकं लक्षणैर्युक्तं दृष्टिदोषविवर्जितम् / सिद्धान्तं देशनां वक्ष्ये सहसा त्वं शृणोहि मे // lank_2.97 //

उपन्यासं करिष्यामि पदानां शृणु मे सुत / अष्टोत्तरं पदशतं यथा बुद्धानुवर्णितम् // lank_2.98 //

अथ खलु महामतिर्बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत् - कतमद्भगवन् अष्टोत्तरपदशतम्? भगवानाह - उत्पादपदम् अनुत्पादपदम्, नित्यपदम् अनित्यपदम्, लक्षणपदम् अलक्षणपदम्, स्थित्यन्यथात्वपदम् अस्थित्यन्यथात्वपदम्, क्षणिकपदम् अक्षणिकपदम्, स्वभावपदम् अस्वभावपदम्, शून्यतापदम् अशून्यतापदम्, उच्छेदपदम् अनुच्छेदपदम्, चित्तपदम् अचित्तपदम्, मध्यमपदम् अमध्यमपदम्, शाश्वतपदम् अशाश्वतपदम्, (वैद्य 17) प्रत्ययपदम् अप्रत्ययपदम्, हेतुपदम् अहेतुपदम्, क्लेशपदम् अक्लेशपदम्, तृष्णापदम् अतृष्णापदम्, उपायपदम् अनुपायपदम्, कौशल्यपदम् अकौशल्यपदम्, शुद्धिपदम् अशुद्धिपदम्, युक्तिपदम् अयुक्तिपदम्, दृष्टान्तपदम् अदृष्टान्तपदम्, शिष्यपदम् अशिष्यपदम्, गुरुपदम् अगुरुपदम्, गोत्रपदम् अगोत्रपदम्, यानत्रयपदम् अयानत्रयपदम्, निराभासपदम् अनिराभासपदम्, प्रणिधानपदम् अप्रणिधानपदम्, त्रिमण्डलपदम्, अत्रिमण्डलपदम्, निमित्तपदम् अनिमित्तपदम्, सदसत्पक्षपदम् असदसत्पक्षपदम्, उभयपदम् अनुभयपदम्, स्वप्रत्यात्मार्यज्ञानपदम् अस्वप्रत्यात्मार्यज्ञानपदम्, दृष्टधर्मसुखपदम् अदृष्टधर्मसुखपदम्, क्षेत्रपदम् अक्षेत्रपदम्, अणुपदम् अनणुपदम्, जलपदम् अजलपदम्, धन्वपदम् अधन्वपदम्, भूतपदम् अभूतपदम्, संख्यागणितपदम् असंख्यागणितपदम्, अभिज्ञापदम् अनभिज्ञापदम्, खेदपदम् अखेदपदम्, घनपदम् अघनपदम्, शिल्पकलाविद्यापदम् अशिल्पकलाविद्यापदम्, वायुपदम् अवायुपदम्, भूमिपदम् अभूमिपदम्, चिन्त्यपदम् अचिन्त्यपदम्, प्रज्ञप्तिपदम् अप्रज्ञप्तिपदम्, स्वभावपदम् अस्वभावपदम्,

स्कन्धपदम् अस्कन्धपदम्, सत्त्वपदम् असत्त्वपदम्, बुद्धिपदम् अबुद्धिपदम्, निर्वाणपदम् अनिर्वाणपदम्, ज्ञेयपदम् अज्ञेयपदम्, तीर्थ्यपदम् अतीर्थ्यपदम्, डमरपदम् अडमरपदम्, मायापदम् अमायापदम्, स्वप्नपदम् अस्वप्नपदम्, मरीचिपदम् अमरीचिपदम्, बिम्बपदम् अबिम्बपदम्, चक्रपदम् अचक्रपदम्, गन्धर्वपदम् अगन्धर्वपदम्, देवपदम् अदेवपदम्, अन्नपानपदम् अनन्नपानपदम्, मैथुनपदम् अमैथुनपदम्, दृष्टपदम् अदृष्टपदम्, पारमितापदम् अपारमितापदम्, शीलपदम् अशीलपदम्, सोभभास्करनक्षत्रपदम् असोमभास्करनक्षत्रपदम्, सत्यपदम् असत्यपदम्, फलपदम् अफलपदम्, निरोधपदम् अनिरोधपदम्, निरोधव्युत्थानपदम् अनिरोधव्युत्थानपदम्, चिकित्सापदम् अचिकित्सापदम्, लक्षणपदम् अलक्षणपदम्, अङ्गपदम् अनङ्गपदम्, कलाविद्यापदम् अकलाविद्यापदम्, ध्यानपदम् अध्यानपदम्, भ्रान्तिपदम् अभ्रान्तिपदम्, दृश्यपदम् अदृश्यपदम्, रक्ष्यपदम् अरक्ष्यपदम्, वंशपदम् अवंशपदम्, ऋषिपदम् अनर्षिपदम्, राज्यपदम् अराज्यपदम्, ग्रहणपदम् अग्रहणपदम्, रत्नपदम् अरत्नपदम्, व्याकरणपदम् अव्याकरणपदम्, इच्छन्तिकपदम् अनिच्छन्तिकपदम्, स्त्रीपुंनपुंसकपदम् अस्त्रीपुंनपुंसकपदम्, रसपदम् अरसपदम्, क्रियापदम् अक्रियापदम्, देहपदम् अदेहपदम्, तर्कपदम् अतर्कपदम्, चलपदम् अचलपदम्, इन्द्रियपदम् अनिन्द्रियपदम्, संस्कृतपदम् असंस्कृतपदम्, हेतुफलपदम् अहेतुफलपदम्, कनिष्ठपदम् अकनिष्ठपदम्, ऋतुपदम् अनृतुपदम्, द्रुमगुल्मलतावितानपदम् अद्रुमगुल्मलतावितानपदम्, वैचित्र्यपदम् अवैचित्र्यपदम्, देशनावतारपदम्

अदेशनावतारपदम्, विनयपदम् अविनयपदम्, भिक्षुपदम् अभिक्षुपदम्, अधिष्ठानपदम् अनधिष्ठानपदम्, अक्षरपदम् अनक्षरपदम् /

इदं तन्महामते अष्टोत्तरं पदशतं पूर्वबुद्धानुवर्णितम् //

अथ खलु महामतिर्बोधिसत्त्वो महासत्त्वः पुनरपि भगवन्तमेतदवोचत् - कतिविधो भगवन् विज्ञानानामुत्पादस्थितिनिरोधो भवति? भगवानाह - द्विविधो महामते विज्ञानानामुत्पत्तिस्थितिनिरोधो भवति, न च तार्किका अवबुध्यन्ते यदुत प्रबन्धनिरोधो लक्षणनिरोधश्च / द्विविध उत्पादो विज्ञानानाम्, प्रबन्धोत्पदो लक्षणोत्पादश्च / द्विविधा स्थितिः प्रबन्धस्थितिर्लक्षणस्थितिश्च / त्रिविधं विज्ञानं प्रवृत्तिलक्षणं कर्मलक्षणं जातिलक्षणं च / द्विविधं महामते विज्ञानं संक्षेपेण अष्टलक्षणोक्तं ख्यातिविज्ञानं वस्तुप्रतिविकल्पविज्ञानं च / यथा महामते दर्पणस्य रूपग्रहणम्, एवं ख्यातिविज्ञानस्याख्यास्यति / ख्यातिविज्ञानं च महामते वस्तुप्रतिविकल्पविज्ञानं च / द्वे ऽप्येते ऽभिन्नलक्षणे ऽन्योन्यहेतुके / तत्र ख्यातिविज्ञानं महामते अचिन्त्यवासनापरिणामहेतुकम् / वस्तुप्रतिविकल्पविज्ञानं च महामते विषयविकल्पहेतुकमनादिकालप्रपञ्चवासनाहेतुकं च //

तत्र सर्वेन्द्रियविज्ञाननिरोधो महामते यदुत आलयविज्ञानस्य अभूतपरिकल्पवासनावैचित्र्यनिरोधः / एष हि महामते लक्षणनिरोधः / प्रबन्धनिरोधः पुनर्महामते यस्माच्च प्रवर्तते / यस्मादिति महामते यदाश्रयेण यदालम्बनेन च / तत्र यदाश्रयमनादिकालप्रपञ्चदौष्ठुल्यवासना यदालम्बनं स्वचित्तदृश्यविज्ञानविषये विकल्पाः / तद्यथा महामते मृत्परमाणुभ्यो मृत्पिण्डः, न चान्यो नानन्यः, तथा सुवर्णं भूषणात् / यदि च महामते मृत्पिण्डो मृत्परमाणुभ्यो ऽन्यः स्यात्, तैर्नारब्धः स्यात् / स चारब्धस्तैर्मृत्परमाणुभिः, तस्मान्नान्यः / अथानन्यः स्यात्, मृत्पिण्डपरमाण्वोः प्रतिभागो न स्यात् / एवमेव महामते प्रवृत्तिविज्ञानान्यालयविज्ञानजातिलक्षणादन्यानि स्युः, अनालयविज्ञानहेतुकानि स्युः / अथानन्यानि प्रवृत्तिविज्ञाननिरोधे आलयविज्ञानविरोधः स्यात्, स च न भवति स्वजातिलक्षणनिरोधः / तस्मान्महामते न स्वजातिलक्षणनिरोधो विज्ञानानां किं तु कर्मलक्षणनिरोधः / स्वजातिलक्षणे पुनर्निरुध्यमाने आलयविज्ञाननिरोधः स्यात् / आलयविज्ञाने पुनर्निरुध्यमाने निर्विशिष्टस्तीर्थकरोच्छेदवादेनायं वादः स्यात् / तीर्थकराणां महामते अयं वादो यदुत विषयग्रहणोपरमाद्विज्ञानप्रबन्धोपरमो भवति / विज्ञानप्रबन्धोपरमादनादिकालप्रबन्धव्युच्छित्तिः स्यात् / कारणतश्च महामते तीर्थकराः प्रबन्धप्रवृत्तिं वर्णयन्ति / न चक्षुर्विज्ञानस्य रूपालोकसमुदयत उत्पत्तिं वर्णयन्ति अन्यत्र कारणतः / कारणं पुनर्महामते प्रधानपुरुषेश्वरकालाणुप्रवादाः //

पुनरपरं महामते सप्तविधो भावस्वभावो भवति यदुत समुदयस्वभावो भावस्वभावो लक्षणस्वभावो महाभूतस्वभावो हेतुस्वभावः प्रत्ययस्वभावो निष्पत्तिस्वभावश्च सप्तमः //

पुनरपरं महामते सप्तविधः परमार्थो यदुत चित्तगोचरो ज्ञानगोचरः प्रज्ञागोचरो दृष्टिद्वयगोचरो दृष्टिद्वयातिक्रान्तगोचरः सुतभूम्यनुक्रमणगोचरस्तथागतस्य प्रत्यात्मगतिगोचरः //

एतन्महामते अतीतानागतप्रत्युत्पन्नानां तथागतानामर्हतां सम्यक्संबुद्धानां भावस्वभावपरमार्थहृदयं येन समन्वागतास्तथागता लौकिकलोकोत्तरतमान् धर्मानार्येण प्रज्ञाचक्षुषा स्वसामान्यलक्षणपतितान् व्यवस्थापयन्ति / तथा च व्यवस्थापयन्ति यथा तीर्थकरवादकुदृष्टिसाधारणा न भवन्ति / कथं च महामते तीर्थकरवादकुदृष्टिसाधारणा भवन्ति? यदुत स्वचित्तविषयविकल्पदृष्ट्यनवबोधनाद्विज्ञानानाम् / स्वचित्तदृश्यमात्रानवतारेण महामते बालपृथग्जना भावाभावस्वभावपरमार्थदृष्टिद्वयवादिनो भवन्ति //

पुनरपरं महामते विकल्पभवत्रयदुःखविनिवर्तनमज्ञानतृष्णाकर्मप्रत्ययविनिवृत्तिं स्वचित्तदृश्यमायाविषयानुदर्शनं भाषिष्ये / ये केचिन्महामते श्रमणा वा ब्राह्मणा वा अभूत्वा श्रद्धाहेतुफलाभिव्यक्तिद्रव्यं च कालावस्थितं प्रत्ययेषु च स्कन्धधात्वायतनानामुत्पादस्थितिं चेच्छन्ति, भूत्वा च व्ययम्, ते महामते संततिक्रियोत्पादभङ्गभवनिर्वाणमार्गकर्मफलसत्यविनाशोच्छेदवादिनो भवन्ति / तत्कस्य हेतोः? यदिदं प्रत्यक्षानुपलब्धेराद्यदर्शनाभावात् / तद्यथा महामते घटकपालाभावो घटकृत्यं न करोति, नापि दग्धबीजमङ्कुरकृत्यं करोति, एवमेव महामते ये स्कन्धधात्वायतनभावा निरुद्धा निरुध्यन्ते निरोत्स्यन्ते, स्वचित्तदृश्यविकल्पदर्शनाहेतुत्वान्नास्ति नैरन्तर्यप्रवृत्तिः //

यदि पुनर्महामते अभूत्वा श्रद्धाविज्ञानानां त्रिसंगतिप्रत्ययक्रियायोगेनोत्पत्तिरभविष्यत्, असतामपि महामते कूर्मरोम्नामुत्पत्तिरभविष्यत्, सिकताभ्यो वा तैलस्य / प्रतिज्ञाहानिर्नियमनिरोधश्च महामते प्रसज्यते, क्रियाकर्मकरणवैयर्थ्यं च सदसतो ब्रुवतः / तेषामपि महामते त्रिसंगतिप्रत्ययक्रियायोगेनोपदेशो विद्यते हेतुफलस्वलक्षणतया अतीतानागतप्रत्युत्पन्नासत्सल्लक्षणास्तितां युक्त्यागमैस्तर्कभूमौ वर्तमानाः स्वदृष्टिदोषवासनतया निर्देक्ष्यन्ति / एवमेव महामते बालपृथग्जनाः कुदृष्टिदष्टा विषममतयो ऽज्ञैः प्रणीतं सर्वप्रणीतमिति वक्ष्यन्ति //

ये पुनरन्ये महामते श्रमणा वा ब्राह्मणा वा निःस्वभावघनालातचक्रगन्धर्वनगरानुत्पादमायामरीच्युदकचन्द्रस्वप्नस्वभावबाह्यचित्तदृश्यविकल्पानादिकालप्रपञ्चदर्शनेन स्वचित्तविकल्पप्रत्ययविनिवृत्तिरहिताः परिकल्पिताभिधानलक्ष्यलक्षणाभिधेयरहिता देहभोगप्रतिष्ठासमालयविज्ञानविषयग्राह्यग्राहकविसंयुक्तं निराभासगोचरमुत्पादस्थितिभङ्गवर्ज्यं स्वचित्तोत्पादानुगतं विभावयिष्यन्ति, नचिरात्ते महामते बोधिसत्त्वा महासत्त्वाः संसारनिर्वाणसमताप्राप्ता भविष्यन्ति / महाकरुणोपायकौशल्यानाभोगगतेन महामते प्रयोगेन सर्वसत्त्वमायाप्रतिबिम्बसमतया अनारब्धप्रत्ययतया अध्यात्मबाह्यविषयविमुक्ततया चित्तबाह्यादर्शनतया अनिमित्ताधिष्ठानानुगता अनुपूर्वेण भूमिक्रमसमाधिविषयानुगमनतया त्रैधातुकस्वचित्ततया अधिमुक्तितः प्रतिविभावयमाना मायोपमसमाधिं प्रतिलभन्ते / स्वचित्तनिराभासमात्रावतारेण प्रज्ञापारमिताविहारानुप्राप्ता उत्पादक्रियायोगविरहिताः समाधिवज्रबिम्बोपमं तथागतकायानुगतं तथतानिर्माणानुगतं बलाभिज्ञावशिताकृपाकरुणोपायमण्डितं सर्वबुद्धक्षेत्रतीर्थ्यायतनोपगतं चित्तमनोमनोविज्ञानरहितं परावृत्त्यानुश्रयानुपूर्वकं तथागतकायं महामते ते बोधिसत्त्वाः (वैद्य 20) प्रतिलप्स्यन्ते / तस्मात्तर्हि महामते बोधिसत्त्वैर्महासत्त्वैस्तथागतकायानुगमेन प्रतिलाभिना स्कन्धधात्वायतनचित्तहेतुप्रत्ययक्रियायोगोत्पादस्थितिभङ्गविकल्पप्रपञ्चरहितैर्भवितव्यं चित्तमात्रानुसारिभिः //

अनादिकालाप्रपञ्चदौष्ठुल्यविकल्पवासनहेतुकं त्रिभवं पश्यतो निराभासबुद्धभूम्यनुत्पादस्मरणतया प्रत्यात्मार्यधर्मगतिंगतः स्वचित्तवशवर्ती अनाभोगचर्यागतिंगतो विश्वरूपमणिसदृशः सूक्ष्मैः सत्त्वचित्तानुप्रवेशकैर्निर्माणविग्रहैश्चित्तमात्रावधारणतया भूमिक्रमानुसंघौ प्रतिष्ठापयति / तस्मात्तर्हि महामते बोधिसत्त्वेन महासत्त्वेन स्वसिद्धान्तकुशलेन भवितव्यम् //

पुनरपि महामतिराह - देशयतु मे भगवान् चित्तमनोमनोविज्ञानपञ्चधर्मस्वभावलक्षणकुसुमधर्मपर्यायं बुद्धबोधिसत्त्वानुयातं स्वचित्तदृश्यगोचरविसंयोजनं सर्वभाष्ययुक्तितत्त्वलक्षणविदारणं सर्वबुद्धप्रवचनहृदयं लङ्कापुरिगिरिमलये निवासिनो बोधिसत्त्वानारभ्योदधितरंगालयविज्ञानगोचरं धर्मकायं तथागतानुगीतं प्रभाषस्व //

अथ खलु भगवान् पुनरेव महामतिं बोधिसत्त्वं महासत्त्वमेतदवोचत् - चतुर्भिर्महामते कारणैश्चक्षुर्विज्ञानं प्रवर्तते / कतमैश्चतुर्भिः? यदुत स्वचित्तदृश्यग्रहणानवबोधतो ऽनादिकालप्रपञ्चदौष्ठुल्यरूपवासनाभिनिवेशतो विज्ञानप्रकृतिस्वभावतो विचित्ररूपलक्षणकौतूहलतः / एभिर्महामते चतुर्भिः कारणैरोघान्तरजलस्थानीयादालयविज्ञानात्प्रवृत्तिविज्ञानतरंगौत्पद्यते / यथा महामते चक्षुर्विज्ञाने, एवं सर्वन्द्रियपरमाणुरोमकूपेषु युगपत्प्रवृत्तिक्रमविषयादर्शबिम्बदर्शनवत् उदधेः पवनाहता इव महामते विषयपवनचित्तोदधितरंगा अव्युच्छिन्नहेतुक्रियालक्षणा अन्योन्यविनिर्मुक्ताः कर्मजातिलक्षणसुविनिबद्धरूपस्वभावानवधारिणो महामते पञ्च विज्ञानकायाः प्रवर्तन्ते / सह तैरेव महामते पञ्चभिर्विज्ञानकायैर्हेतुविषयपरिच्छेदलक्षणावधारकं नाम मनोविज्ञानं तद्धेतुजशरीरं प्रवर्तते / न च तेषां तस्य चैवं भवति - वयमत्रान्योन्यहेतुकाः स्वचित्तदृश्यविकल्पाभिनिवेशप्रवृत्ता इति //

अथ च अन्योन्याभिन्नलक्षणसहिताः प्रवर्तन्ते विज्ञप्तिविषयपरिच्छेदे / तथा च प्रवर्तमानाः प्रवर्तन्ते यथा समापन्नस्यापि योगिनः सूक्ष्मगतिवासनाप्रवृत्ता न प्रज्ञायन्ते / योगिनां चैवं भवति - निरोध्य विज्ञानानि समापत्स्यामहे इति / ते चानिरुद्धैरेव विज्ञानैः समापद्यन्ते वासनाबीजानिरोधादनिरुद्धाः, विषयप्रवृत्तग्रहणवैकल्यान्निरुद्धाः / एवं सूक्ष्मो महामते आलयविज्ञानगतिप्रचारो यत्तथागतं स्थापयित्वा भूमिप्रतिष्ठितांश्च बोधिसत्त्वान्, न सुकरमन्यैः श्रावकप्रत्येकबुद्धतीर्थ्ययोगयोगिभिरधिगन्तुं समाधिप्रज्ञाबलाधानतो ऽपि वा परिच्छेत्तुम् / अन्यत्र भूमिलक्षणप्रज्ञाज्ञानकौशलपदप्रभेदविनिश्चयजिनानन्तकुशलमूलोपचयस्वचित्तदृश्यविकल्पप्रपञ्चविरहितैर्वनगहनगुहालयान्तर्गतैर्महामते हीनोत्कृष्टमध्यमयोगयोगिभिर्न शक्यं स्वचित्तविकल्पदृश्यधाराद्रष्ट्रनन्तक्षेत्रजिनाभिषेकवशिताबलाभिज्ञासमाधयः (वैद्य 21) प्राप्तुम् / कल्याणमित्रजिनपुरस्कृतैर्महामते शक्यं चित्तमनोविज्ञानं स्वचित्तदृश्यस्वभावगोचरविकल्पसंसारभवोदधिं कर्मतृष्णाज्ञानहेतुकं तर्तुम् / अत एतस्मात्कारणान्महामते योगिना कल्याणमित्रजिनयोगे योगः प्रारब्धव्यः //

अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत -

तरंगा ह्युदधेर्यद्वत्पवनप्रत्ययेरिताः / नृत्यमानाः प्रवर्तन्ते व्युच्छेदश्च न विद्यते // lank_2.99 //

आलयौघस्तथा नित्यं विषयपवनेरितः / चित्रैस्तरंगविज्ञानैर्नृत्यमानः प्रवर्तते // lank_2.100 //

नीले रक्ते ऽथ लवणे शङ्खे क्षीरे च शार्करे / कषायैः फलपुष्पाद्यैः किरणा यथ भास्करे // lank_2.101 //

न चान्येन च नानन्येन तरंगा ह्युदधेर्मताः / विज्ञानानि तथा सप्त चित्तेन सह संयुताः // lank_2.102 //

उदधेः परिणामो ऽसौ तरंगाणां विचित्रता / आलयं हि तथा चित्रं विज्ञानाख्यं प्रवर्तते // lank_2.103 //

चित्तं मनश्च विज्ञानं लक्षणार्थं प्रकल्प्यते / अभिन्नलक्षणा ह्यष्टौ न लक्ष्या न च लक्षणम् // lank_2.104 //

उदधेश्च तरंगाणां यथा नास्ति विशेषणम् / विज्ञानानां तथा चित्तैः परिणामो न लभ्यते // lank_2.105 //

चित्तेन चीयते कर्म मनसा च विचीयते / विज्ञानेन विजानाति दृश्यं कल्पेति पञ्चभिः // lank_2.106 //

नीलरक्तप्रकारं हि विज्ञानं ख्यायते नृणाम् / तरंगचित्तसाधर्म्यं वद कस्मान्महामते // lank_2.107 //

नीलरक्तप्रकारं हि तरंगेषु न विद्यते / वृत्तिश्च वर्ण्यते चित्तं लक्षणार्थं हि बालिशान् // lank_2.108 //

न तस्य विद्यते वृत्तिः स्वचित्तं ग्राह्यवर्जितम् / ग्राह्ये सति हि वै ग्राहस्तरंगैः सह साध्यते // lank_2.109 //

देहभोगप्रतिष्ठानं विज्ञानं ख्यायते नृणाम् / तेनास्य दृश्यते वृत्तिस्तरंगैः सह सादृशा // lank_2.110 //

उदधिस्तरंगभावेन नृत्यमानो विभाव्यते / आलयस्य तथा वृत्तिः कस्माद्बुद्ध्या न गम्यते // lank_2.111 //

बालानां बुद्धिवैकल्यादालयं ह्युदधिर्यथा / तरंगवृत्तिसाधर्म्यं दृष्टान्तेनोपनीयते // lank_2.112 //

उदेति भास्करो यद्वत्समहीनोत्तमे जिने / तथा त्वं लोकप्रद्योत तत्त्वं देशेसि बालिशान् // lank_2.113 //

कृत्वा धर्मेष्ववस्थानं कस्मात्तत्त्वं न भाषसे / भाषसे यदि वा तत्त्वं चित्ते तत्त्वं न विद्यते // lank_2.114 //

उदधेर्यथा तरंगा हि दर्पणे सुपिने यथा / दृश्यन्ति युगपत्काले तथा चित्तं स्वगोचरे // lank_2.115 //

वैकल्याद्विषयाणां हि क्रमवृत्त्या प्रवर्तते / विज्ञानेन विजानाति मनसा मन्यते पुनः // lank_2.116 //

पञ्चानां ख्यायते दृश्यं क्रमो नास्ति समाहिते / चित्राचार्यो यथा कश्चिच्चित्रान्तेवासिको ऽपि वा / चित्रार्थे नामयेद्रङ्गान् देशयामि तथा ह्यहम् // lank_2.117 //

रङ्गे न विद्यते चित्रं न भूमौ न च भाजने / सत्त्वानां कर्षणार्थाय रङ्गैश्चित्रं विकल्प्यते / देशना व्यभिचारं च तत्त्वं ह्यक्षरवर्जितम् // lank_2.118 //

कृत्वा धर्मेष्ववस्थानं तत्त्वं देशेमि योगिनाम् / तत्त्वं प्रत्यात्मगतिकं कल्प्यकल्पेन वर्जितम् / देशेमि जिनपुत्राणां नेयं बालान देशना // lank_2.119 //

विचित्रा हि यथा माया दृश्यते न च विद्यते / देशनापि तथा चित्रा देश्यते ऽव्यभिचारिणी / देशना हि यदन्यस्य तदन्यस्याप्यदेशना // lank_2.120 //

आतुरे आतुरे यद्वद्भिषद्रग्व्यं प्रयच्छति / बुद्धा हि तद्वत्सत्त्वानां चित्तमात्रं वदन्ति वै // lank_2.121 //

तार्किकाणामविषयं श्रावकाणां न चैव हि / यं देशयन्ति वै नाथाः प्रत्यात्मगतिगोचरम् // lank_2.122 //

पुनरपरं महामते बोधिसत्त्वेन स्वचित्तदृश्यग्राह्यग्राहकविकल्पगोचरं परिज्ञातुकामेन संगणिकाअसंसर्गमिद्धनिवरणविगतेन भवितव्यम् / प्रथममध्यमपश्चाद्रात्रजागरिकायोगनुयुक्तेन भवितव्यम् / कुतीर्थ्यशास्त्राख्यायिकाश्रावकप्रत्येकबुद्धयानलक्षणविरहितेन च भवितव्यम् / स्वचित्तदृश्यविकल्पलक्षणगतिंगतेन च भवितव्यं बोधिसत्त्वेन महासत्त्वेन //

पुनरपरं महामते बोधिसत्त्वेन महासत्त्वेन चित्तविज्ञानप्रज्ञालक्षणव्यवस्थायां स्थित्वा उपरिष्टादार्यज्ञानलक्षणत्रययोगः करणीयः / तत्रोपरिष्टादार्यज्ञानलक्षणत्रयं महामते कतमत्? यदुत निराभासलक्षणं सर्वबुद्धस्वप्रणिधानाधिष्ठानलक्षणं प्रत्यात्मार्यज्ञानगतिलक्षणं (वैद्य 23) च / यान्यधिगम्य योगी खञ्जगर्दभ इव चित्तप्रज्ञाज्ञानलक्षणं हित्वा जिनसुताष्टमीं प्राप्य भूमिं तदुत्तरे लक्षणत्रये योगमापद्यते //

तत्र निराभासलक्षणं पुनर्महामते सर्वश्रावकप्रत्येकबुद्धतीर्थलक्षणपरिचयात्प्रवर्तते / अधिष्ठानलक्षणं पुनर्महामते पूर्वबुद्धस्वप्रणिधानाधिष्ठानतः प्रवर्तते / प्रत्यात्मार्यज्ञानगतिलक्षणं पुनर्महामते सर्वधर्मलक्षणानभिनिवेशतो मायोपमसमाधिकायप्रतिलम्भाद्बुद्धभूमिगतिगमनप्रचारात् प्रवर्तते / एतन्महामते आर्याणां लक्षणत्रयं येनार्येण लक्षत्रयेण समन्वागता आर्याः स्वप्रत्यात्मार्यज्ञानगतिगोचरमधिगच्छन्ति / तस्मात्तर्हि महामते आर्यज्ञानलक्षणत्रययोगः करणीयः //

अथ खलु महामतिर्बोधिसत्त्वो महासत्त्वः पुनरेव तस्या बोधिसत्त्वपर्षदश्चित्ताशयविचारमाज्ञाय आर्यज्ञानवस्तुप्रविचयं नाम धर्मपर्यायं सर्वबुद्धाधिष्ठानाधिष्ठितो भगवन्तं परिपृच्छति स्म - देशयतु मे भगवानार्यज्ञानवस्तुप्रविचयं नाम धर्मपर्यायमष्टोत्तरपदशतप्रभेदाश्रयम्, यमाश्रित्य तथागता अर्हन्तः सम्यक्संबुद्धा बोधिसत्त्वानां महासत्त्वानां स्वसामान्यलक्षणपतितानां परिकल्पितस्वभावगतिप्रभेदं देशयन्ति, येन परिकल्पितस्वभावगतिप्रभेदेन सुप्रतिविभागविद्धेन पुद्गलधर्मनैरात्म्यप्रचारं प्रतिविशोध्य भूमिषु कृतविद्याः सर्वश्रावकप्रत्येकबुद्धतीर्थकरध्यानसमाधिसमापत्तिसुखमतिक्रम्य तथागताचिन्त्यविषयप्रचारगतिप्रचारं पञ्चधर्मस्वभावगतिविनिवृत्तं तथागतं धर्मकायं प्रज्ञाज्ञानसुनिबद्धधर्मं मायाविषयाभिनिवृत्तं सर्वबुद्धक्षेत्रतुषितभवनाकनिष्ठालयोपगं तथागतकायं प्रतिलभेरन् //

भगवानाह - इह महामते एके तीर्थ्यातीर्थ्यदृष्टयो नास्तित्वाभिनिविष्टा विकल्पबुद्धिहेतुक्षयस्वभावाभावान्नास्ति शशस्य विषाणं विकल्पयन्ति / यथा शशविषाणं नास्ति, एवं सर्वधर्माः / अन्ये पुनर्महामते भूतगुणाणुद्रव्यसंस्थानसंनिवेशविशेषं दृष्ट्वा नास्तिशशशृङ्गाभिनिवेशाभिनिविष्टा अस्ति गोशृङ्गमिति कल्पयन्ति / ते महामते अन्तद्वयदृष्टिपतिताश्चित्तमात्रानवधारितमतयः / स्वचित्तधातुविकल्पेन ते पुष्णन्ति / देहभोगप्रतिष्ठागतिविकल्पमात्रे महामते शशशृङ्गं नास्त्यस्तिविनिवृत्तं न कल्पयेत्तथा महामते सर्वभावानां नास्त्यस्तिविनिवृत्तं न कल्पयितव्यम् //

ये पुनर्महामते नास्त्यस्तिविनिवृत्ता नास्ति शशशृङ्गं न कल्पयन्ति, तैरन्योन्यापेक्षहेतुत्वान्नास्ति शशविषाणमिति न कल्पयितव्यम् / आपरमाणुप्रविचयाद्वस्त्वनुपलब्धभावान्महामते आर्यज्ञानगोचरविनिवृत्तमस्ति गोशृङ्गमिति न कल्पयितव्यम् //

अथ खलु महामतिर्बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत् - ननु भगवन् विकल्पस्याप्रवृत्तिलक्षणं दृष्ट्वा अनुमिमीमहे विकल्पाप्रवृत्त्यपेक्षं तस्य नास्तित्वम् / भगवानाह - न हि महामते विकल्पाप्रवृत्त्यपेक्षं तस्य नास्तित्वम् / तत्कस्य हेतोः? विकल्पस्य तत्प्रवृत्तिहेतुत्वात् / तद्विषाणाश्रयप्रवृत्तो हि महामते विकल्पः / यस्माद्विषाणाश्रयप्रवृत्तो महामते विकल्पः, तस्मादाश्रयहेतुत्वादन्यानन्यविवर्जितत्वान्न हि तदपेक्षं नास्तित्वं शशविषाणस्य / (वैद्य 24) यदि पुनर्महामते विकल्पो ऽन्यः स्याच्छशविषाणादविषाणहेतुकः स्यात् / अथानन्यः स्यात्, तद्धेतुकत्वादापरमाणुप्रविचयानुपलब्धेर्विषाणादनन्यत्वात्तदभावः स्यात् / तदुभयभावाभावात्कस्य किमपेक्ष्य नास्तित्वं भवति? अथ न भवति महामते अपेक्ष्य नास्तित्वं शशविषाणस्य अस्तित्वमपेक्ष्य नास्तित्वं शशविषाणं न कल्पयितव्यं विषमहेतुत्वान्महामते नास्त्यस्तित्वम् सिद्धिर्न भवति नास्त्यस्तित्ववादिनाम् / अन्ये पुनर्महामते तीर्थकरदृष्टयो रूपकारणसंस्थानाभिनिवेशाभिनिविष्टा आकाशभावापरिच्छेदकुशला रूपमाकाशभावविगतं परिच्छेदं दृष्ट्वा विकल्पयन्ति / आकाशमेव च महामते रूपम् / रूपभूतानुप्रवेशान्महामते रूपमेवाकाशम् / आधेयाधारव्ययस्थानभावेन महामते रूपाकाशकारणयोः प्रविभागः प्रत्येतव्यः / भूतानि महामते प्रवर्तमानानि परस्परस्वलक्षणभेदभिन्नानि आकाशे चाप्रतिष्ठितानि / न च तेष्वाकाशं नास्ति / एवमेव शशस्य विषाणं महामते गोविषाणमपेक्ष्य भवति / गोविषाणं पुनर्महामते अणुशो विभज्यमानं पुनरप्यणवो विभज्यमाना अणुत्वलक्षणे नावतिष्ठन्ते / तस्य किमपेक्ष्य नास्तित्वं भवति? अथान्यदपेक्ष्य वस्तु, तदप्येवंधर्मि //

अथ खलु भगवान् पुनरपि महामतिं बोधिसत्त्वं महासत्त्वमेतदवोचत् - शशगोशृङ्गाकाशरूपपदृष्टिविकल्पविगतेन महामते भवितव्यम्, तदन्यैश्च बोधिसत्त्वैः / स्वचित्तदृश्यविकल्पानुगममनसा च महामते भवितव्यम् / सर्वजिनसुतक्षेत्रमण्डले च त्वया स्वचित्तदृश्ययोगोपदेशः करणीयः //

अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत -

दृश्यं न विद्यते चित्तं चित्तं दृश्यात्प्रवर्तते / देवभोगप्रतिष्ठानमालयं ख्यायते नृणाम् // lank_2.123 //

चित्तं मनश्च विज्ञानं स्वभावं धर्मपञ्चकम् / नैरात्म्यं द्वितयं शुद्धं प्रभाषन्ते विनायकाः // lank_2.124 //

दीर्घह्रस्वादिसंबन्धमन्योन्यतः प्रवर्तते / अस्तित्वसाधकं नास्ति अस्ति नास्तित्वसाधकम् // lank_2.125 //

अणुशो भज्यमानं हि नैव रूपं विकल्पयेत् / चित्तमात्रं व्यवस्थानं कुदृष्ट्या न प्रसीदति // lank_2.126 //

तार्किकाणामविषयः श्रावकाणां न चैव हि / यं देशयन्ति वै नाथाः प्रत्यात्मगतिगोचरम् // lank_2.127 //

अथ खलु महामतिर्बोधिसत्त्वो महासत्त्वः पुनरपि स्वचित्तदृश्यधाराविशुद्ध्यर्थं भगवन्तमध्येषते स्म - कथं भगवन् स्वचित्तदृश्यधारा विशुध्यति युगपत्क्रमवृत्त्या वा? भगवानाह - क्रमवृत्त्या महामते स्वचित्तदृश्यधारा विशुध्यति न युगपत् / तद्यथा महामते आम्रफलानि क्रमशः पच्यन्ते न युगपत्, एवमेव महामते स्वचित्तदृश्यधारा सत्त्वानां क्रमशो विशुध्यति (वैद्य 25) न युगपत् / तद्यथा महामते कुम्भकारः क्रमशो भाण्डानि कुरुते न युगपत्, एवमेव महामते तथागतः सत्त्वानां स्वचित्तदृश्यधारां क्रमशो विशोधयति न युगपत् / तद्यथा महामते पृथिव्यां तृणगुल्मौषधिवनस्पतयः क्रमवृत्त्या विरोहन्ति न युगपत्, एवमेव महामते सत्त्वानां तथागतः क्रमशः स्वचित्तदृश्यधारां विशोधयति न युगपत् / तद्यथा महामते हास्यलास्यगीतवादित्रवीणालेख्ययोग्याः क्रमशः प्रवर्तन्ते न युगपत्, एवेमेव महामते तथागतः सर्वसत्त्वानां क्रमशः स्वचित्तदृश्यधारां विशोधयति न युगपत् / तद्यथा महामते दर्पणान्तर्गताः सर्वरूपावभासाः संदृश्यन्ते निर्विकल्पा युगपत्, एवमेव महामते स्वचित्तदृश्यधारां युगपत्तथागतः सर्वसत्त्वानां विशोधयति निर्विकल्पां निराभासगोचराम् / तद्यथा महामते सोमादित्यमण्डलं युगपत्सर्वरूपावभासान् किरणैः प्रकाशयति, एवमेव महामते तथागतः स्वचित्तदृश्यदौष्ठुल्यवासनाविगतानां सत्त्वानां युगपदचिन्त्यज्ञानजिनगोचरविषयं संदर्शयति / तद्यथा महामते आलयविज्ञानं स्वचित्तदृश्यदेहप्रतिष्ठाभोगविषयं युगपद्विभावयति, एवमेव महामते निष्यन्दबुद्धो युगपत्सत्त्वगोचरं परिपाच्य आकनिष्ठभवनविमानालययोगं योगिनामर्पयति / तद्यथा महामते धर्मताबुद्धो युगपन्निष्यन्दनिर्माणकिरणैर्विराजते, एवमेव महामते प्रत्यात्मार्यगतिधर्मलक्षणं भावाभावकुदृष्टिविनिवर्तनतया युगपद्विराजते //

पुनरपरं महामते धर्मतानिष्यन्दबुद्धः स्वसामान्यलक्षणपतितात्सर्वधर्मात्स्वचित्तदृश्यवासनाहेतुलक्षणोपनिबद्धात्परिकल्पितस्वभावाभिनिवेशहेतुकानतदात्मकविविधमायारङ्गपुरुषवैचित्र्याभिनिवेशानुपलब्धितो महामते देशयति / पुनरपरं महामते परिकल्पितस्वभाववृत्तिलक्षणं परतन्त्रस्वभावाभिनिवेशतः प्रवर्तते / तद्यथा तृणकाष्ठगुल्मलताश्रयान्मायाविद्यापुरुषसंयोगात्सर्वसत्त्वरूपधारिणं मायापुरुषविग्रहमभिनिष्पन्नैकसत्त्वशरीरं विविधकल्पविकल्पितं ख्यायते, तथा ख्यायन्नपि महामते तदात्मको न भवति, एवमेव महामते परतन्त्रस्वभावे परिकल्पितस्वभावे विविधविकल्पचित्तविचित्रलक्षणं ख्यायते / वस्तुपरिकल्पलक्षणाभिनिवेशवासनात्परिकल्पयन् महामते परिकल्पितस्वभावलक्षणं भवति / एषा महामते निष्यन्दबुद्धदेशना / धर्मताबुद्धः पुनर्महामते चित्तस्वभावलक्षणविसंयुक्तां प्रत्यात्मार्यगतिगोचरव्यवस्थां करोति / निर्मितनिर्माणबुद्धः पुनर्महामते दानशीलध्यानसमाधिचित्रप्रज्ञाज्ञानस्कन्धधात्वायतनविमोक्षविज्ञानगतिलक्षणप्रभेदप्रचारं व्यवस्थापयति / तीर्थ्यदृष्ट्या च रूप्यसमतिक्रमणलक्षणं देशयति / धर्मताबुद्धः पुनर्महामते निरालम्बः / आलम्बविगतं सर्वक्रियेन्द्रियप्रमाणलक्षणविनिवृत्तमविषयं बालश्रावकप्रत्येकबुद्धतीर्थकरात्मकलक्षणाभिनिवेशाभिनिविष्टानाम् / तस्मात्तर्हि महामते प्रत्यात्मार्यगतिविशेषलक्षणे योगः करणीयः / स्वचित्तलक्षणदृश्यविनिवृत्तिदृष्टिना च ते भवितव्यम् //

पुनरपरं महामते द्विविधं श्रावकयाननयप्रभेदलक्षणं यदुत प्रत्यात्मार्याधिगमविशेषलक्षणं च भावविकल्पस्वभावाभिनिवेशलक्षणं च / तत्र महामते प्रत्यात्मार्याधिगमविशेषलक्षणं श्रावकाणां कतमत्? यदुत शून्यतानात्मदुःखानित्यविषयसत्यवैराग्योपशमात्स्कन्धधात्वायतनस्वसामान्यलक्षणबाह्यार्थविनाशलक्षणाद्यथाभूतपरिज्ञानाच्चित्तं (वैद्य 26) समाधीयते / स्वचित्तं समाधाय ध्यानविमोक्षसमाधिमार्गफलसमापत्तिविमुक्तिवासनाचिन्त्यपरिणतिच्युतिविगतं प्रत्यात्मार्यगतिलक्षणसुखविहारं महामते अधिगच्छन्ति श्रावकाः / एतन्महामते श्रावकाणां प्रत्यात्मार्यगतिलक्षणम् / एतद्धि महामते श्रावकाणां प्रत्यात्मार्याधिगमविहारसुखमधिगम्य बोधिसत्त्वेन महासत्त्वेन निरोधसुखं समापत्तिसुखं च सत्त्वक्रियापेक्षया पूर्वस्वप्रणिधानाभिनिर्हृततया च न साक्षात्करणीयम् / एतन्महामते श्रावकाणां प्रत्यात्मार्यगतिलक्षणसुखं यत्र बोधिसत्त्वेन महासत्त्वेन प्रत्यात्मार्यगतिलक्षणसुखे न शिक्षितव्यम् / भावविकल्पस्वभावाभिनिवेशः पुनर्महामते श्रावकाणां कतमः? यदुत नीलपीतोष्णद्रवचलकठिनानि महाभूतान्यक्रियाप्रवृत्तानि स्वसामान्यलक्षणयुक्त्यागमप्रमाणसुविनिबद्धानि दृष्ट्वा तत्स्वभावाभिनिवेशविकल्पः प्रवर्तते / एतन्महामते बोधिसत्त्वेनाधिगम्य व्यावर्तयितव्यम् / धर्मनैरात्म्यलक्षणानुप्रवेशतया पुद्गलनैरात्म्यलक्षणदृष्टिं निवार्य भूमिक्रमानुसंघौ प्रतिष्ठापयितव्यम् / एतन्महामते श्रावकाणां भावविकल्पस्वभावाभिनिवेशलक्षणं यदुक्तम्, इदं तत्प्रत्युक्तम् //

अथ खलु महामतिर्बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत् - नित्यमचिन्त्यं च भगवता प्रत्यात्मार्यगतिगोचरं परमार्थगोचरं च प्रभाषितम् / ननु भगवंस्तीर्थकरा अपि नित्याचिन्त्यवादिनः कारणानाम्? भगवानाह - न महामते तीर्थकराणां कारणस्य नित्याचिन्त्यतां प्राप्नोति / तत्कस्य हेतोः? तीर्थकराणां महामते नित्याचिन्त्यं न हेतुस्वलक्षणयुक्तम् / यस्य महामते नित्याचिन्त्यं न हेतुस्वलक्षणयुक्तम्, तत्कथं केनाभिव्यज्यते नित्यमचिन्त्यमिति? नित्याचिन्त्यवादः पुनर्महामते यदि हेतुस्वलक्षणयुक्तः स्यात्, नित्यं कारणाधीनहेतुलक्षणत्वान्नित्यमचिन्त्यं न भवति / मम तु महामते परमार्थनित्याचिन्त्यं परमार्थलक्षणहेतुयुक्तं भावाभावविगतं प्रत्यात्मार्याधिगमलक्षणत्वाल्लक्षणवत्परमार्थज्ञानहेतुत्वाच्च हेतुमद्भावाभावविगतत्वादकृतकाकाशनिर्वाणनिरोधदृष्टान्तसाधर्म्यान्नित्यम् / अत एतन्महामते तीर्थकरनित्याचिन्त्यवादतुल्यं न भवति / नित्याचिन्त्यतैवेयं महामते तथागतानां प्रत्यात्मार्यज्ञानाधिगमतथता / तस्मात्तर्हि महामते बोधिसत्त्वेन महासत्त्वेन नित्याचिन्त्यप्रत्यात्मार्यज्ञानाधिगमाय योगः करणीयः //

पुनरपरं महामते नित्याचिन्त्यता तीर्थकराणामनित्यभावविलक्षणहेतुत्वात् / न स्वकृतहेतुलक्षणप्रभावितत्वान्नित्यम् / यदि पुनर्महामते तीर्थकराणां नित्याचिन्त्यता कृतकभावाभावादनित्यतां दृष्ट्वा अनुमानबुद्ध्या नित्यं समाप्यते, तेनैव हेतुना ममापि महामते कृतकभावाभावादनित्यतां दृष्ट्वा नित्यमहेतूपदेशात् //

यदि पुनर्महामते हेतुलक्षणसंयुक्तं नित्याचिन्त्यता, तीर्थकराणां हेतुभावस्वलक्षणभावाभावाच्छशविषाणतुल्या महामते नित्याचिन्त्यता, वाग्विकल्पमात्रा च महामते तीर्थकराणां प्रसज्यते / तत्कस्य हेतोः? यदुत वाग्विकल्पमात्रं हि महामते शशविषाणं स्वहेतुलक्षणाभावात् / मम तु महामते नित्याचिन्त्यता प्रत्यात्मार्याधिगमलक्षणहेतुत्वात्कृतकभावाभाववर्जितत्वान्नित्यम्, (वैद्य 27) न बाह्यभावाभावनित्यानित्यानुप्रमाणान्नित्यम् / यस्य पुनर्महामते बाह्याभावान्नित्यानुमानान्नित्याचिन्त्यत्वान्नित्यम्, तस्या नित्याचिन्त्यतायाः स्वहेतुलक्षणं न जानीते / प्रत्यात्माधिगमार्यज्ञानगोचरलक्षणं बहिर्धा ते महामते असंकथ्याः //

पुनरपरं महामते संसारविकल्पदुःखभयभीता निर्वाणमन्वेषन्ते / संसारनिर्वाणयोरविशेषज्ञाः सर्वभावविकल्पाभावादिन्द्रियाणामनागतविषयोपरमाच्च महामते निर्वाणं विकल्पयन्ति न प्रत्यात्मगतिविज्ञानालयं परावृत्तिपूर्वकं महामते / अतस्ते महामते मोहपुरुषा यानत्रयवादिनो भवन्ति, न चित्तमात्रगतिनिराभाअसवादिनः / अतस्ते महामते अतीतानागतप्रत्युत्पन्नानां तथागतानां स्वचित्तदृश्यगोचरानभिज्ञा बाह्यचित्तदृश्यगोचराभिनिविष्टाः / ते संसारगतिचक्रे पुनर्महामते चंक्रम्यन्ते //

पुनरपरं महामते अनुत्पन्नान् सर्वधर्मानतीतानागतप्रत्युत्पन्नास्तथागता भाषन्ते / तत्कस्य हेतोः? यदुत स्वचित्तदृश्यभावाभावात्सदसतोरुत्पत्तिविरहितत्वान्महामते अनुत्पन्नाः सर्वभावाः / शशहयखरोष्ट्रविषाणतुल्या महामते सर्वधर्माः / बालपृथग्जनाभूतपरिकल्पितस्वभावविकल्पितत्वान्महामते अनुत्पन्नाः सर्वभावाः / प्रत्यात्मार्यज्ञानगतिगोचरो हि महामते सर्वभावस्वभावलक्षणोत्पादः, न बालपृथग्जनविकल्पद्वयगोचरस्वभावः / देहभोगप्रतिष्ठागतिस्वभावलक्षणं महामते आलयविज्ञानं ग्राह्यग्राहकलक्षणेन प्रवर्तमानं बाला उत्पादस्थितिभङ्गदृष्टिद्वयपतिताशया उत्पादं सर्वभावानां सदसतोर्विकल्पयन्ति / अत्र ते महामते योगः करणीयः //

पुनरपरं महामते पञ्चाभिसमयगोत्राणि / कतमानि पञ्च? यदुत श्रावकयानाभिसमयगोत्रं प्रत्येकबुद्धयानाभिसमयगोत्रं तथागतयानाभिसमयगोत्रम् अनियतैकतरगोत्रम् अगोत्रं च पञ्चमम् / कथं पुनर्महामते श्रावकयानाभिसमयगोत्रं प्रत्येतव्यम्? यः स्कन्धधात्वायतनस्वसामान्यलक्षणपरिज्ञानाधिगमे देश्यमाने रोमाञ्चिततनुर्भवति / लक्षणपरिचयज्ञाने चास्य बुद्धिः प्रस्कन्दति, न प्रतीत्यसमुत्पादाविनिर्भागलक्षणपरिचये / इदं महामते श्रावकयानाभिसमयगोत्रम् / यः श्रावकयानाभिसमयं दृष्ट्वा षट्पञ्चम्यां भूमौ पर्युत्थानक्लेशप्रहीणो वासनक्लेशाप्रहीणो ऽचिन्त्याच्युतिगतः सम्यक्सिंहनादं नदति - क्षीणा मे जातिः, उषितं ब्रह्मचर्यम्, इत्येवमादि निगद्य पुद्गलनैरात्म्यपरिचयाद्यावन्निर्वाणबुद्धिर्भवति //

अन्ये पुनर्महामते आत्मसत्त्वजीवपोषपुरुषपुद्गलसत्त्वावबोधान्निर्वाणमन्वेषन्ते / अन्ये पुनर्महामते कारणाधीनान् सर्वधर्मान् दृष्ट्वा निर्वाणगतिबुद्धयो भवन्ति / धर्मनैरात्म्यदर्शनाभावान्नास्ति मोक्षो महामते / एषा महामते श्रावकयानाभिसमयगोत्रकस्यानिर्याणनिर्याणबुद्धिः / अत्र ते महामते कुदृष्टिव्यावृत्त्यर्थं योगः करणीयः //

तत्र महामते प्रत्येकबुद्धयानाभिसमयगोत्रकः, यः प्रत्येकाभिसमये देश्यमाने अश्रुहृष्टरोमाञ्चिततनुर्भवति / असंसर्गप्रत्ययाद्भावाभिनिवेशबहुविविधस्वकायवैचित्र्यर्द्धिव्यस्तयमकप्रातिहार्यदर्शने निर्दिश्यमाने ऽनुनीयते, स प्रत्येकबुद्धयानाभिसमयगोत्रक इति विदित्वा प्रत्येकबुद्धयानाभिसमयानुरूपा कथा करणीया / एतन्महामते प्रत्येकबुद्धयानाभिसमयगोत्रकस्य लक्षणम् //

तत्र महामते तथागतयानाभिसमयगोत्रं त्रिविधम् - यदुत स्वभावनिःस्वभावधर्माभिसमयगोत्रम्, अधिगमस्वप्रत्यात्मार्याभिसमयगोत्रम्, बाह्यबुद्धक्षेत्रौदार्याभिसमयगोत्रं च / यदा पुनर्महामते त्रयाणामप्येषामन्यतमे देश्यमाने स्वचित्तदृश्यदेहालभोगप्रतिष्ठाचिन्त्यविषये देश्यमाने नोत्रसति न संत्रसति न संत्रासमापद्यते, वेदितव्यमयं तथागतयानाभिसमयगोत्रक इति / एतन्महामते तथागतयानाभिसमयगोत्रकस्य लक्षणम् //

अनियतगोत्रकः पुनर्महामते त्रिष्वप्येतेषु देश्यमानेषु यत्रानुनीयते तत्रानुयोज्यः स्यात् / परिकर्मभूमिरियं महामते गोत्रव्यवस्था / निराभासभूम्यवक्रमणतया व्यवस्था क्रियते / प्रत्यात्मालये तु स्वक्लेशवासनाशुद्धस्य धर्मनैरात्म्यदर्शनात्समाधिसुखविहारं प्राप्य श्रावको जिनकायतां प्रतिलप्स्यते //

अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत् -

स्रोतापत्तिफलं चैव सकृदागामिनस्तथा / अनागामिफलं चैव अर्हत्त्वं चित्तविभ्रमम् // lank_2.128 //

त्रियानमेकयानं च अयानं च वदाम्यहम् / बालानां मन्दबुद्धीनामार्याणां च विविक्तताम् // lank_2.129 //

द्वारं हि परमार्थस्य विज्ञप्तिर्द्वयवर्जिता / यानत्रयव्यवस्थानं निराभासे स्थिते कुतः // lank_2.130 //

ध्यानानि चाप्रमाणानि आरूप्याश्च समाधयः / संज्ञानिरोधो निखिलं चित्तमात्रे न विद्यते // lank_2.131 //

तत्रेच्छन्तिकानां पुनर्महामते अनिच्छन्तिकतामोक्षं केन प्रवर्तते? यदुत सर्वकुशलमूलोत्सर्गतश्च सत्त्वानादिकालप्रणिधानतश्च / तत्र सर्वकुशलमूलोत्सर्गः कतमः? यदुत बोधिसत्त्वपिटकनिक्षेपो ऽभ्याख्यानं च नैते सूत्रान्ता विनयमोक्षानुकूला इति ब्रुवतः सर्वकुशलमूलोत्सर्गत्वान्न निर्वायते / द्वितीयः पुनर्महामते बोधिसत्त्वो महासत्त्व एवं भवप्रणिधानोपायपूर्वकत्वान्नापरिनिर्वृतैः सर्वसत्त्वैः परिनिर्वास्यामीति ततो न परिनिर्वाति / एतन्महामते अपरिनिर्वाणधर्मकाणां लक्षणं येनेच्छन्तिकगतिं समाधिगच्छन्ति //

पुनरपि महामतिराह - कतमो ऽत्र भगवन् अत्यन्ततो न परिनिर्वाति? भगवानाह - बोधिसत्त्वेच्छन्तिको ऽत्र महामते आदिपरिनिर्वृतान् सर्वधर्मान् विदित्वा अत्यन्ततो न परिनिर्वाति / (वैद्य 29) न पुनः सर्वकुशलमूलोत्सर्गेच्छन्तिकः / सर्वकुशलमूलोत्सर्गेच्छन्तिको हि महामते पुनरपि तथागताधिष्ठानात्कदाचित्कर्हिचित्कुशलमूलान् व्युत्थापयति / तत्कस्य हेतोः? यदुत अपरित्यक्ता हि महामते तथागतानां सर्वसत्त्वाः / अत एतस्मात्कारणान्महामते बोधिसत्त्वेच्छन्तिको न परिनिर्वातीति //

पुनरपरं महामते बोधिसत्त्वेन महासत्त्वेन स्वभावलक्षणत्रयकुशलेन भवितव्यम् / तत्र महामते परिकल्पितस्वभावो निमित्तात्प्रवर्तते / कथं पुनर्महामते परिकल्पितस्वभावो निमित्तात्प्रवर्तते? तत्र महामते परतन्त्रस्वभावो वस्तुनिमित्तलक्षणाकारः ख्यायते / तत्र महामते वस्तुनिमित्तलक्षणाभिनिवेशः पुनर्द्विप्रकारः / परिकल्पितस्वभावं व्यवस्थापयन्ति तथागता अर्हन्तः सम्यक्संबुद्धा नामाभिनिवेशलक्षणेन च नामवस्तुनिमित्ताभिनिवेशलक्षणेन च / तत्र वस्तुनिमित्ताभिनिवेशलक्षणं पुनर्महामते यदुत अध्यात्मबाह्यधर्माभिनिवेशः / निमित्तलक्षणाभिनिवेशः पुनर्यदुत तेष्वेव आध्यात्मिकबाह्येषु धर्मेषु स्वसामान्यलक्षणपरिज्ञानावबोधः / एतन्महामते द्विप्रकारं परिकल्पितस्वभावस्य लक्षणम् / यदाश्रयालम्बनात्प्रवर्तते तत्परतन्त्रम् / तत्र महामते परिनिष्पन्नस्वभावः कतमः? यदुत निमित्तनामवस्तुलक्षणविकल्पविरहितं तथतार्यज्ञानगतिमनप्रत्यात्मार्यज्ञानगतिगोचरः / एष महामते परिनिष्पन्नस्वभावस्तथागतगर्भहृदयम् //

अथ खलु भगवांस्तस्यां वेलायामिमां गाथामभाषत -

निमित्तं नाम संकल्पः स्वभावद्वयलक्षणम् / सम्यग्ज्ञानं हि तथता परिनिष्पन्नलक्षणम् // lank_2.132 //

एष महामते पञ्चधर्मस्वभावलक्षणप्रविचयो नाम धर्मपर्यायः प्रत्यात्मार्यज्ञानगतिगोचरः, यत्र त्वया अन्यैश्च बोधिसत्त्वैः शिक्षितव्यम् //

पुनरपरं महामते बोधिसत्त्वेन महासत्त्वेन नैरात्म्यद्वयलक्षणप्रविचयकुशलेन भवितव्यम् / तत्र महामते कतमन्नैरात्म्यद्वयलक्षणम्? यदुत आत्मात्मीयरहितस्कन्धधात्वायतनकदम्बमज्ञानकर्मतृष्णाप्रभवं चक्षुषा रूपादिग्रहणाभिनिवेशात्प्रवर्तमानं विज्ञानं सर्वेन्द्रियैः स्वचित्तदृश्यभाजनदेहालयस्वचित्तविकल्पविकल्पितं विज्ञापयति / नदीबीजदीपवायुमेघसदृशक्षणपरंपराभेदभिन्नं चपलं वानरमक्षिकासदृशमचौक्षमचौक्षविषयचार्यनाथो ऽनल इवातृप्तमनादिकालप्रपञ्चविषयवासनारहितमरघट्टचक्रयन्त्रचक्रवत्संसारभवगतिचक्रे विचित्रदेहरूपधारिमायावेतालयन्त्रप्रतिमं प्रवर्तमानं प्रवर्तते / यदत्र महामते लक्षणकौशलज्ञानम्, इदमुच्यते पुद्गलनैरात्म्यज्ञानम् //

तत्र महामते धर्मनैरात्म्यज्ञानं कतमत्? यदुत स्कन्धधात्वायतनानां परिकल्पितलक्षणस्वभावावबोधः / यथा महामते स्कन्धधात्वायतनान्यात्मविरहितानि स्कन्धसमूहमात्रं हेतुकर्मतृष्णासूत्रोपनिबद्धमन्योन्यप्रत्ययतया प्रवर्तते निरीहम्, तथा स्कन्धा अपि महामते स्वसामान्यलक्षणविरहिता अभूतपरिकल्पलक्षणविचित्रप्रभाविता बालैर्विकल्प्यन्ते न त्वार्यैः / (वैद्य 30) चित्तमनोमनोविज्ञानपञ्चधर्मस्वभावरहितान् महामते सर्वधर्मान् विभावयन् बोधिसत्त्वो महासत्त्वो धर्मनैरात्म्यकुशलो भवति / धर्मनैरात्म्यकुशलः पुनर्महामते बोधिसत्त्वो महासत्त्वो नचिरात्प्रथमां बोधिसत्त्वभूमिं निराभासप्रविचयां प्रतिलभते / भूमिलक्षणप्रविचयावबोधात्प्रमुदितानन्तरमनुपूर्वं नवसु भूमिषु कृतविद्यो महाधर्ममेघा प्रतिलभते / स तस्यां प्रतिष्ठितो ऽनेकरत्नमुक्तोपशोभिते महापद्मराजे पद्मकृतौ महारत्नविमाने मायास्वभावगोचरपरिचयाभिनिर्वृत्ते निषण्णः तदनुरूपैर्जिनपुत्रैः परिवृतः सर्वबुद्धक्षेत्रागतैर्बुद्धपाण्यभिषेकैश्चक्रवर्तिपुत्रवदभिषिच्यते / बुद्धसुतभूमिमतिक्रम्य प्रत्यात्मार्यधर्मगतिगमनत्वात्तथागतो धर्मकायवशवर्ती भविष्यति धर्मनैरात्म्यदर्शनात् / एतन्महामते सर्वधर्मनैरात्म्यलक्षणम् / अत्र ते महामते शिक्षितव्यम्, अन्यैश्च बोधिसत्त्वैर्महासत्त्वैः //

अथ खलु महामतिर्बोधिसत्त्वो महासत्त्वः पुनरपि भगवन्तमेतदवोचत् - समारोपापवादलक्षणं मे भगवान् देशयतु यथाहं च अन्ये च बोधिसत्त्वाः समारोपापवादकुदृष्टिवर्जितमतयः क्षिप्रमनुत्तरां सम्यक्संबोधिमभिसंबुध्येरन् / अभिसंबुध्य शाश्वतसमारोपापवादोच्छेददृष्टिविवर्जितास्तव बुद्धनेत्रीं नापवदिष्यन्ते //

अथ खलु भगवान् पुनरपि महामतेर्बोधिसत्त्वस्य महासत्त्वस्याध्येषणां विदित्वा इमां गाथामभाषत -

समारोपापवादो हि चित्तमात्रे न विद्यते / देहभोगप्रतिष्ठाभं ये चित्तं नाभिजानते / समारोपापवादेषु ते चरन्त्यविपश्चितः // lank_2.133 //

अथ खलु भगवानेतमेव गाथार्थमुद्द्योतयन् पुनरप्येतदवोचत् - चतुर्विधो महामते असत्समारोपः / कतमश्चतुर्विधः? यदुत असल्लक्षणसमारोपो ऽसद्दृष्टिसमारोपो ऽतद्धेतुसमारोपो ऽसद्भावसमारोपः / एष हि महामते चतुर्विधः समारोपः //

अपवादः पुनर्महामते कतमः? यदुत अस्यैव कुदृष्टिसमारोपस्यानुपलब्धिप्रविचयाभावादपवादो भवति / एतद्धि महामते समारोपापवादस्य लक्षणम् //

पुनरपरं महामते असल्लक्षणसमारोपस्य लक्षणं कतमत्? यदुत स्कन्धधात्वायतनानामसत्स्वसामान्यलक्षणाभिनिवेशः - इदमेवमिदं नान्यथेति / एतद्धि महामते असल्लक्षणसमारोपस्य लक्षणम् / एष हि महामते असल्लक्षणसमारोपविकल्पो ऽनादिकालप्रपञ्चदौष्ठुल्यविचित्रवासनाभिनिवेशात्प्रवर्तते / एतद्धि महामते असल्लक्षणसमारोपस्य लक्षणम् //

असद्दृष्टिसमारोपः पुनर्महामते यस्तेष्वेव स्कन्धधात्वायतनेष्वात्मसत्त्वजीवजन्तुपोषपुरुषपुद्गलदृष्टिसमारोपः / अयमुच्यते महामते असद्दृष्टिसमारोपः //

असद्धेतुसमारोपः पुनर्महामते यदुत अहेतुसमुत्पन्नं प्राग्विज्ञानं पश्चादभूत्वा मायावदनुत्पन्नं पूर्वं चक्षूरूपालोकस्मृतिपूर्वकं प्रवर्तते / प्रवृत्य भूत्वा च पुनर्विनश्यति / एष महामते असद्धेतुसमारोपः //

(वैद्य 31) असद्धावसमारोपः पुनर्महामते यदुत आकाशनिरोधनिर्वाणाकृतकभावाभिनिवेशसमारोपः / एते च महामते भावाभावविनिवृत्ताः / शशहयखरोष्ट्रविषाणकेशोण्डुकप्रख्या महामते सर्वधर्माः सदसत्पक्षविगताः / समारोपापवादाश्च / बालैर्विकल्प्यन्ते स्वचित्तदृश्यमात्रानवधारितमतिभिर्न त्वार्यैः / एतन्महामते असद्भावविकल्पसमारोपापवादस्य लक्षणम् / तस्मात्तर्हि महामते समारोपापवाददृष्टिविगतेन भवितव्यम् //

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.