Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 2/6

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa

सद्धर्मलङ्कावतारसूत्र

Thông tin
GRETIL — P.L. Vaidya, Darbhanga: The Mithila Institute, 1963, (Buddhist Sanskrit Texts, 3).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

पुनरपरं महामते बोधिसत्त्वाश्चित्तमनोमनोविज्ञानपञ्चधर्मस्वभावनैरात्म्यलक्षणद्वयगतिंगत्वा परहितहेतोरनेकरूपवेशधारिणो भवन्ति / परिकल्पितस्वभावा इव परतन्त्राशया विश्वरूपचिन्तामणिसदृशाः सर्वबुद्धक्षेत्रपर्षन्मण्डलगता मायास्वप्नप्रतिभासप्रतिबिम्बोदकचन्द्रगतिसमानुत्पादभङ्गशाश्वतोच्छेदरहितान् सर्वधर्मान् संमुखं सर्वतथागतेभ्यः सर्वश्रावकप्रत्येकबुद्धयानविरहान् धर्मदेशनां शृण्वन्ति, समाधिमुखशतसहस्राणि च प्रतिलभन्ते / यावदनेकानि समाधिकोटीनियुतशतसहस्राणि प्रतिलभ्यः तैः समाधिभिः क्षेत्रात्क्षेत्रं संक्रामन्ति / बुद्धपूजाभियुक्ताश्च सर्वोपपत्तिदेवभवनालयेषु रत्नत्रयमुपदेश्य बुद्धरूपमास्थाय श्रावकगणबोधिसत्त्वगणपरिवृताः स्वचित्तदृश्यमात्रावतारणतया बाह्यभावाभावोपदेशं कुर्वन्ति सदसत्पक्षविनिवृत्त्यर्थम् //

अथ खलु भगवांस्तस्यां वेलायामिमां गाथामभाषत -

चित्तमात्रं यदा लोकं प्रपश्यन्ति जिनात्मजाः / तदा नैर्माणिकं कायं क्रियासंस्कारवर्जितम् / लभन्ते ते बलाभिज्ञावशितैः सह संयुतम् // lank_2.134 //

अथ खलु महामतिर्बोधिसत्त्वो महासत्त्वः पुनरपि भगवन्तमध्येषते स्म - देशयतु भगवान् शून्यतानुत्पादाद्वयनिःस्वभावलक्षणं सर्वधर्माणाम्, येन शून्यतानुत्पादाद्वयनिःस्वभावलक्षणावबोधेन अहं च अन्ये च बोधिसत्त्वा महासत्त्वा नास्त्यस्तिविकल्पवर्जिताः क्षिप्रमनुत्तरां सम्यक्संबोधिमभिसंबुध्येरन् //

अथ खलु भगवान् महामतिं बोधिसत्त्वं महासत्त्वमेतदवोचत् - तेन हि महामते शृणु, तत्साधु च सुष्ठु च मनसि कुरु / भाषिष्ये ऽहं ते / साधु भगवन्निति महामतिर्बोधिसत्त्वो महासत्त्वो भगवतः प्रत्यश्रौषीत् / भगवानेतदवोचत् - शून्यता शून्यतेति महामते परिकल्पितस्वभावपदमेतत् / परिकल्पितस्वभावाभिनिवेशेन पुनर्महामते शून्यतानुत्पादाभावाद्वयनिःस्वभावभाववादिनो भवन्ति / तत्र महामते संक्षेपेण सप्तविधा शून्यता / यदुत लक्षणशून्यता भावस्वभावशून्यता अप्रचरितशून्यता प्रचरितशून्यता सर्वधर्मनिरभिलाप्यशून्यता परमार्थार्यज्ञानमहाशून्यता इतरेतरशून्यता च सप्तमी //

(वैद्य 32) तत्र महामते लक्षणशून्यता कतमा? यदुत स्वसामान्यलक्षणशून्याः सर्वभावाः / परस्परसमूहापेक्षितत्वात्प्रविचयविभागाभावान्महामते स्वसामान्यलक्षणस्याप्रवृत्तिः / स्वपरोभयाभावाच्च महामते लक्षणं नावतिष्ठते / अतस्तदुच्यते स्वलक्षणशून्याः सर्वभावा इति //

भावस्वभावशून्यता पुनर्महामते कतमा? यदुत स्वयं स्वभावाभावोत्पत्तितो महामते भावस्वभावशून्यता भवति सर्वधर्माणाम् / तेनोच्यते भावस्वभावशून्यतेति //

अप्रचरितशून्यता पुनर्महामते कतमा? यदुत अप्रचरितपूर्वं निर्वाणं स्कन्धेषु / तेनोच्यते अप्रचरितशून्यतेति //

प्रचरितशून्यता पुनर्महामते कतमा? यदुत स्कन्धा आत्मात्मीयरहिता हेतुयुक्तिक्रियाकर्मयोगैः प्रवर्तमानाः प्रवर्तन्ते / तेनोच्यते प्रचरितशून्यतेति //

सर्वधर्मनिरभिलाप्यशून्यता पुनर्महामते कतमा? यदुत परिकल्पितस्वभावानभिलाप्यत्वान्निरभिलाप्यशून्याः सर्वधर्माः / तेनोच्यते निरभिलाप्यशून्यतेति //

परमार्थार्यज्ञानमहाशून्यता पुनर्महामते कतमा? यदुत स्वप्रत्यात्मार्यज्ञानाधिगमः सर्वदृष्टिदोषवासनाभिः शून्यः / तेनोच्यते परमार्थार्यज्ञानमहाशून्यतेति //

इतरेतरशून्यता पुनर्महामते कतमा? यदुत यद्यत्र नास्ति तत्तेन शून्यमित्युच्यते / तद्यथा महामते शृगालमातुः प्रासादे हस्तिगवैडकाद्या न सन्ति / अशून्यं च भिक्षुभिरिति भाषितं मया / स च तैः शून्य इत्युच्यते / न च पुनर्महामते प्रासादः प्रासादभावतो नास्ति, भिक्षवश्च भिक्षुभावतो न सन्ति / न च ते ऽन्यत्र हस्तिगवैडकाद्या भावा नावतिष्ठन्ते / इदं महामते स्वसामान्यलक्षणं सर्वधर्माणाम् / इतरेतरं तु न संविद्यते / तेनोच्यते इतरेतरशून्यतेति / एषा महामते सप्तविधा शून्यता / एषा च महामते इतरेतरशून्यता सर्वजघन्या / सा च त्वया परिवर्जयितव्या //

न स्वयमुत्पद्यते, न च पुनर्महामते ते नोत्पद्यन्ते अन्यत्र समाध्यवस्थायाम् / तेनोच्यन्ते अनुत्पन्ना निःस्वभावाः / अनुत्पत्तिं संघाय महामते निःस्वभावाः सर्वभावाः / क्षणसंततिप्रबन्धाभावाच्च अन्यथाभावदर्शनान्महामते निःस्वभावाः सर्वभावाः / तेनोच्यते निःस्वभावाः सर्वभावा इति //

अद्वयलक्षणं पुनर्महामते कतमत्? यदुत च्छायातपवद्दीर्घह्रस्वकृष्णशुक्लवन्महामते द्वयप्रभाविअता न पृथक्पृथक् / एवं संसारनिर्वाणवन्महामते सर्वधर्मा अद्वयाः / न यत्र महामते निर्वाणं तत्र संसारः / न च यत्र संसारस्तत्र निर्वाणम्, विलक्षणहेतुसद्भावात् / तेनोच्यते अद्वया संसारपरिनिर्वाणवत्सर्वधर्मा इति / तस्मात्तर्हि महामते शून्यतानुत्पादाद्वयनिःस्वभावलक्षणे योगः करणीयः //

अथ खलु भगवांस्तस्यां वेलायामिमे गाथे अभाषत -

देशेमि शून्यतां नित्यं शाश्वतोच्छेदवर्जिताम् / संसारं स्वप्नमायाख्यं न च कर्म विनश्यति // lank_2.135 //

आकाशमथ निर्वाणं निरोधं द्वयमेव च / बालाः कल्पेन्त्यकृतकानार्या नास्त्यस्तिवर्जितान् // lank_2.136 //

अथ खलु भगवान् पुनरपि महामतिं बोधिसत्त्वं महासत्त्वमेतदवोचत् - एतद्धि महामते शून्यतानुत्पादाद्वयनिःस्वभावलक्षणं सर्वबुद्धानां सर्वसूत्रान्तगतम् / यत्र क्वचित्सूत्रान्ते ऽयमेवार्थो विभावयितव्यः / एष हि महामते सूत्रान्तः सर्वसत्त्वाशयदेशनार्थव्यभिचारणी, न सा तत्त्वप्रत्यवस्थानकथा / तद्यथा महामते मृगतृष्णिका मृगोल्लापिनी उदकभावाभिनिवेशेनाभिनिवेश्यते, तस्यां चोदकं नास्ति, एवमेव महामते सर्वसूत्रान्तदेशना धर्मा बालानां स्वविकल्पसंतोषणम्, न तु सा तत्त्वार्यज्ञानव्यवस्थानकथा / तस्मात्तर्हि महामते अर्थानुसारिणा भवितव्यं न देशनाभिलापाभिनिविष्टेन //

अथ खलु महामतिर्बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत् - तथागतगर्भः पुनर्भगवता सूत्रान्तपाठे ऽनुवर्णितः / स च किल त्वया प्रकृतिप्रभास्वरविशुद्ध्यादिविशुद्ध एव वर्ण्यते द्वात्रिंशल्लक्षणधरः सर्वसत्त्वदेहान्तर्गतः / महार्घमूल्यरत्नं मलिनवस्तुपरिवेष्टितमिव स्कन्धधात्वायतनवस्तुवेष्टितो रागद्वेषमोहाभूतपरिकल्पमलमलिनो नित्यो ध्रुवः शिवः शाश्वतश्च भगवता वर्णितः / तत्कथमयं भगवंस्तीर्थकरात्मवादतुल्यस्तथागतगर्भवादो न भवति? तीर्थकरा अपि भगवन् नित्यः कर्ता निर्गुणो विभुरव्यय इत्यात्मवादोपदेशं कुर्वन्ति //

भगवानाह - न हि महामते तीर्थकरात्मवादतुल्यो मम तथागतगर्भोपदेशः / किं तु महामते तथागताः शून्यताभूतकोटिनिर्वाणानुत्पादानिमित्ताप्रणिहिताद्यानां महामते पदार्थानां तथागतगर्भोपदेशं कृत्वा तथागता अर्हन्तः सम्यक्संबुद्धा बालानां नैरात्म्यसंत्रासपदविवर्जनार्थं निर्विकल्पनिराभासगोचरं तथागतगर्भमुखोपदेशेन देशयन्ति / न चात्र महामते अनागतप्रत्युत्पन्नैः बोधिसत्त्वैर्महासत्त्वैरात्माभिनिवेशः कर्तव्यः / तद्यथा महामते कुम्भकार एकस्मान्मृत्परमाणुराशेर्विविधानि भाण्डानि करोति हस्तशिल्पदण्डोदकसूत्रप्रयत्नयोगात्, एवमेव महामते तथागतास्तदेव धर्मनैरात्म्यं सर्वविकल्पलक्षणविनिवृत्तं विविधैः प्रज्ञोपायकौशल्ययोगैर्गर्भोपदेशेन वा नैरात्म्योपदेशेन वा कुम्भकारवच्चित्रैः पदव्यञ्जनपर्यायैर्देशयन्ते / एतस्मात्कारणान्महामते तीर्थकरात्मवादोपदेशतुल्यस्तथागतगर्भोपदेशो न भवति / एवं हि महामते तथागतगर्भोपदेशमात्मवादाभिनिविष्टानां तीर्थकराणामाकर्षणार्थं तथागतगर्भोपदेशेन निर्दिशन्ति - कथं बत अभूतात्मविकल्पदृष्टिपतिताशया विमोक्षत्रयगोचरपतिताशयोपेताः क्षिप्रमनुत्तरां सम्यक्संबोधिमभिसंबुध्येरन्निति / एतदर्थं महामते तथागता अर्हन्तः सम्यक्संबुद्धास्तथागतगर्भोपदेशं कुर्वन्ति / अत एतन्न भवति तीर्थकरात्मवादतुल्यम् / तस्मात्तर्हि महामते तीर्थकरदृष्टिविनिवृत्त्यर्थं तथागतनैरात्म्यगर्भानुसारिणा च ते भवितव्यम् //

अथ खलु भगवांस्तस्यां वेलायामिमां गाथामभाषत -

पुद्गलः संततिः स्कन्धाः प्रत्यया अणवस्तथा / प्रधानमीश्वरः कर्ता चित्तमात्रं विकल्प्यते // lank_2.137 //

अथ खलु महामतिर्बोधिसत्त्वो ऽनागतां जनतां समालोक्य पुनरपि भगवन्तमध्येषते स्म - देशयतु मे भगवान् योगाभिसमयं यथा बोधिसत्त्वा महासत्त्वा महायोगयोगिनो भवन्ति / भगवानाह - चतुर्भिर्महामते धर्मैः समन्वागता बोधिसत्त्वा महायोगयोगिनो भवन्ति / कतमैश्चतुर्भिः? यदुत स्वचित्तदृश्यविभावनतया च उत्पादस्थितिभङ्गदृष्टिविवर्जनतया च बाह्यभावाभावोपलक्षणतया च स्वप्रत्यात्मार्यज्ञानाधिगमाभिलक्षणतया च / एभिर्महामते चतुर्भिर्धर्मैः समन्वागता बोधिसत्त्वा महासत्त्वा महायोगयोगिनो भवन्ति //

तत्र कथं महामते बोधिसत्त्वो महासत्त्वः स्वचित्तदृश्यविभावनाकुशलो भवति? यदुत स एवं प्रत्यवेक्षते - स्वचित्तमात्रमिदं त्रैधातुकमात्मात्मीयरहितं निरीहमायूहनियूहविगतमनादिकालप्रपञ्चदौष्ठुल्यवासनाभिनिवेशवासितं त्रैधातुकविचित्ररूपोपचारोपनिबद्धं देहभोगप्रतिष्ठागतिविकल्पानुगतं विकल्प्यते ख्यायते च / एवं हि महामते बोधिसत्त्वो महासत्त्वः स्वचित्तदृश्यविभावनाकुशलो भवति //

कथं पुनर्महामते बोधिसत्त्वो महासत्त्व उत्पादस्थितिभङ्गदृष्टिविवर्जितो भवति? यदुत मायास्वप्नरूपजन्मसदृशाः सर्वभावाः स्वपरोभयाभावान्नोत्पद्यन्ते / स्वचित्तमात्रानुसारित्वाद्बाह्यभावाभावदर्शनाद्विज्ञानानामप्रवृत्तिं दृष्ट्वा प्रत्ययानामकूटराशित्वं च विकल्पप्रत्ययोद्भवं त्रैधातुकं पश्यन्तो ऽध्यात्मबाह्यसर्वधर्मानुपलब्धिभिर्निःस्वभावदर्शनादुत्पाददृष्टिविनिवृत्तौ मायादिधर्मस्वभावानुगमादनुत्पत्तिकधर्मक्षान्तिं प्रतिलभन्ते / अष्टम्यां भूमौ स्थिताः चित्तमनोमनोविज्ञानपञ्चधर्मस्वभावनैरात्म्यद्वयगतिपरावृत्त्यधिगमान्मनोमयकायं प्रतिलभन्ते //

महामतिराह - मनोमयकाय इति भगवन् केन कारणेन? भगवानाह - मनोमय इति महामते मनोवदप्रतिहतशीघ्रगाभित्वान्मनोमय इत्युच्यते / तद्यथा महामते मनो ऽप्रतिहतं गिरिकुड्यनदीवृक्षादिष्वनेकानि योजनशतसहस्राणि पूर्वदृष्टानुभूतान् विषयाननुस्मरन् स्वचित्तप्रबन्धाविच्छिन्नशरीरमप्रतिहतगति प्रवर्तते, एवमेव महामते मनोमयकायसहप्रतिलम्भेन मायोपमसमेन समाधिना बलवशिताभिज्ञानलक्षणकुसुमितमार्यगतिनिकायसहजो मन इव प्रवर्तते ऽप्रतिहतगतिः पूर्वप्रणिधानविषयाननुस्मरन् सत्त्वपरिपाकार्थम् / एवं हि महामते बोधिसत्त्वो महासत्त्व उत्पादस्थितिभङ्गदृष्टिविवर्जितो भवति //

तत्र कथं महामते बोधिसत्त्वो महासत्त्वो बाह्यभावाभावोपलक्षणकुशलो भवति? यदुत मरीचिस्वप्नकेशोण्डुकप्रख्या महामते सर्वभावाः / अनादिकालप्रपञ्चदौष्ठुल्यविचित्रविपाकविकल्पवासनाभिनिवेशहेतुकाः सर्वभावस्वभावा इति संपश्यन् प्रत्यात्मार्यज्ञानगतिविषयमभिलषते / एभिर्महामते चतुर्भिर्धर्मैः समन्वागता बोधिसत्त्वा महासत्त्वा महायोगयोगिनो भवन्ति / अत्र ते महामते योगः करणीयः //

अथ खलु महामतिर्बोधिसत्त्वः पुनरपि भगवन्तमध्येषते स्म - देशयतु मे भगवान् हेतुप्रत्ययलक्षणं सर्वधर्माणाम्, येन हेतुप्रत्ययलक्षणावबोधेन अहं च अन्ये च बोधिसत्त्वा महासत्त्वा सदसद्दृष्टिविकल्परहिताः सर्वभावनाक्रमं युगपदुत्पत्तिं न कल्पयेयुः //

भगवानाह - द्विप्रकारं महामते प्रतीत्यसमुत्पादहेतुलक्षणं सर्वधर्माणां यदुत बाह्यं च आध्यात्मिकं च / तत्र बाह्यप्रतीत्यसमुत्पादो महामते / मृत्पिण्डदण्डचक्रसूत्रोदकपुरुषप्रयत्नादिप्रत्ययैर्महामते घट उत्पद्यते / यथा च महामते घटो मृत्पिण्डादेव, तन्तुभ्यः पटाः, वीरणेभ्यः कटाः, बीजादङ्कुरः, मन्थादिपुरुषप्रयत्नयोगाद्दध्नो नवनीत उत्पद्यते, एवमेव महामते बाह्यः प्रतीत्यसमुत्पादः पूर्वोत्तरोत्तरो द्रष्टव्यम् //

तत्र आध्यात्मिकः प्रतीत्यसमुत्पादो यदुत अविद्या तृषा कर्मेत्येवमाद्या महामते धर्माः प्रतीत्यसमुत्पादसंज्ञां प्रतिलभन्ते / एभ्य उत्पन्ना महामते स्कन्धधात्वायतनाख्या धर्माः प्रतीत्यसमुत्पादसंज्ञां प्रतिलभन्ते / ते चाविशिष्टाः, कल्प्यन्ते च बालैः //

तत्र हेतुर्महामते षडूविधः / यदुत भविष्यद्धेतुः संबन्धहेतुर्लक्षणहेतुः कारणहेतुर्व्यञ्जनहेतुरुपेक्षाहेतुर्महामते षष्ठः / तत्र भविष्यद्धेतुर्महामते हेतुकृत्यं करोत्यध्यात्मबाह्योत्पत्तौ धर्माणाम् / संबन्धहेतुः पुनर्महामते आलम्बनकृत्यं करोत्यध्यात्मिकबाह्योत्पत्तौ स्कन्धबीजादीनाम् / लक्षणहेतुः पुनरपरं महामते अनन्तरक्रियालक्षणोपरिबद्धं जनयति / कारणहेतुः पुनर्महामते आधिपत्याधिकारकृत्यं करोति चक्रवर्तिनृपवत् / व्यञ्जनहेतुः पुनर्महामते उत्पन्नस्य विकल्पस्य भावस्य लक्षणोद्द्योतनकृत्यं करोति प्रदीपवद्रूपादीनाम् / उपेक्षाहेतुः पुनर्महामते विनिवृत्तिकाले प्रबन्धक्रियाव्युच्छित्तिं करोत्यविकल्पोत्पत्तौ //

एते हि महामते स्वविकल्पकल्पिता बालपृथग्जनैर्न क्रमवृत्त्या न युगपत्प्रवर्तन्ते / तत्कस्य हेतोः? यदि पुनर्महामते युगपत्प्रवर्तेरन्, कार्यकारणविभागो न स्यादप्रतिलब्धहेतुलक्षणत्वात् / अथ क्रमवृत्त्या प्रवर्तेरन्, अलब्धस्य लक्षणात्मकत्वात्क्रमवृत्त्या न प्रवर्तते / अजातपुत्रपितृशब्दवन्महामते क्रमवृत्तिसंबन्धयोगा न घटन्ते / तार्किकाणां हेत्वारम्बणनिरन्तराधिपतिप्रत्ययादिभिर्जन्यजनकत्वान्महामते क्रमवृत्त्या नोत्पद्यन्ते / परिकल्पितस्वभावाभिनिवेशलक्षणान्महामते युगपन्नोत्पद्यन्ते / स्वचित्तदृश्यदेहभोगप्रविष्ठानत्वात्स्वसामान्यलक्षणबाह्यभावाभावान्महामते क्रमेण युगपद्वा नोत्पद्यन्ते / अन्यत्र स्वचित्तदृश्यविकल्पविकल्पितत्वाद्विज्ञानं प्रवर्तते / तस्मात्तर्हि महामते हेतुप्रत्ययक्रियायोगलक्षणक्रमयुगपद्दृष्टिविगतेन ते भवितव्यम् //

तत्रेदमुच्यते -

न ह्यत्रोत्पद्यते किंचित्प्रत्ययैर्न निरुध्यते / उत्पद्यन्ते निरुध्यन्ते प्रत्यया एव कल्पिताः // lank_2.138 //

न भङ्गोत्पादसंक्लेशः प्रत्ययानां निवार्यते / यत्र बाला विकल्पन्ति प्रत्ययैः स निवार्यते // lank_2.139 //

यच्चासतः प्रत्ययेषु धर्माणां नास्ति संभवः / वासनैर्भ्रामितं चित्तं त्रिभवे ख्यायते यतः / नाभूत्वा जायते किंचित्प्रत्ययैर्न विरुध्यते // lank_2.140 //

वन्ध्यासुताकाशपुष्पं यदा पश्यन्ति संस्कृतम् / तदा ग्राहश्च ग्राह्यं च भ्रान्तिं दृष्ट्वा निवर्तते // lank_2.141 //

न चोत्पाद्यं न चोत्पन्नः प्रत्ययो ऽपि न किंचन / संविद्यते क्वचित्केचिद्वयवहारस्तु कथ्यते // lank_2.142 //

अथ खलु महामतिर्बोधिसत्त्वो महासत्त्वः पुनरपि भगवन्तमेतदवोचत् - देशयतु मे भगवान् वाग्विकल्पलक्षणहृदयं नाम धर्मपर्यायं येन वाग्विकल्पलक्षणहृदयेन भगवन् सुप्रतिविभागविनिबद्धेन अहं च अन्ये च बोधिसत्त्वा महासत्त्वा अभिलापाभिलाप्यार्थद्वयगतिंगताः क्षिप्रमनुत्तरां सम्यक्संबोधिमभिसंबुध्य अभिलापाभिलाप्यार्थद्वयगतिं सर्वसत्त्वानां विशोधयेयुः / भगवानाह - तेन हि महामते शृणु, साधु च सुष्ठु च मनसिकुरु / भाषिष्ये ऽहं ते / साधु भगवन् इति महामतिर्बोधिसत्त्वो महासत्त्वो भगवतः प्रत्यश्रौषीत् / भगवानस्यैतदवोचत् - चतुर्विधं महामते वाग्विकल्पलक्षणं भवति / यदुत लक्षणवाक् स्वप्नवाक् दौष्ठुल्यविकल्पाभिनिवेशवाक् अनादिविकल्पवाक् //

तत्र महामते लक्षणवाक् स्वविकल्परूपनिमित्ताभिनिवेशात्प्रवर्तते / स्वप्नवाक् पुनर्महामते पूर्वानुभूतविषयानुस्मरणात्प्रतिविबुद्धविषयाभावाच्च प्रवर्तते / दौष्ठुल्यविकल्पाभिनिवेशवाक् पुनर्महामते शत्रुपूर्वकृतकर्मानुस्मरणात्प्रवर्तते / अनादिकालविकल्पवाक् पुनर्महामते अनादिकालप्रपञ्चाभिनिवेशदौष्ठुल्यस्वबीजवासनातः प्रवर्तते / एतद्धि महामते चतुर्विधं वाग्विकल्पलक्षणमिति मे यदुक्तम्, इदं तत्प्रत्युक्तम् //

अथ खलु महामतिर्बोधिसत्त्वो महासत्त्वः पुनरपि भगवन्तमेतमेवार्थमध्येषते स्म - देशयतु मे भगवान् पुनरपि वाग्विकल्पाभिव्यक्तिगोचरम् / कुत्र कस्मात् कथं केन भगवन् नृणां वाग्विज्ञप्तिविकल्पः प्रवर्तते? भगवानाह - शिरौरोनासाकण्ठताल्वोष्ठजिह्वादन्तसमवायान्महामते वाक् प्रवर्तमाना प्रवर्तते / महामतिराह - किं पुनर्भगवन् वाग् विकल्पादन्या उत अनन्या? भगवानाह - न हि महामते वाग् विकल्पादन्या नानन्या / तत्कस्य हेतोः? यदुत तद्धेतूत्पत्तिलक्षणत्वान्महामते वाग्विकल्पः प्रवर्तते / यदि पुनर्महामते वाग् विकल्पादन्या स्यात्, अविकल्पहेतुकी स्यात् / अथानन्या स्यात्, अर्थाभिव्यक्तित्वाद्वाग् न कुर्यात् / सा च कुरुते / तस्मान्नान्या नानन्या //

पुनरपि महामतिराह - किं पुनर्भगवन् वचनमेव परमार्थः, उत यद्वचनेनाभिलप्यते स परमार्थः? भगवानाह - न महामते वचनं परमार्थः, न च यद्वचनेनाभिलप्यते स परमार्थः / तत्कस्य हेतोः? यदुत परमार्थार्यसुखाभिलापप्रवेशित्वात्परमार्थस्य वचनं न परमार्थः / परमार्थस्यु महामते आर्यज्ञानप्रत्यात्मगतिगम्यो न वाग्विकल्पबुद्धिगोचरः / तेन विकल्पो नोद्भावयति परमार्थम् / वचनं पुनर्महामते उत्पन्नप्रध्वंसि चपलं परस्परप्रत्ययहेतुसमुत्पन्नम् / यच्च महामते परस्परप्रत्ययहेतुसमुत्पन्नं तत्परमार्थं नोद्भावयति / स्वपरलक्षणाभावान्महामते बाह्यलक्षणं नोद्भावयति //

पुनरपरं महामते स्वचित्तदृश्यमात्रानुसारित्वाद्विविधविचित्रलक्षणबाह्यभावाभावाद्वाग्विकल्पः परमार्थं न विकल्पयति / तस्मात्तर्हि महामते वाग्विचित्रविकल्परहितेन ते भवितव्यम् //

तत्रेदमुच्यते -

सर्वभावो ऽस्वभावो हि सद्वचनं तथाप्यसत् / शून्यताशून्यतार्थं वा बालो ऽपश्यन् विधावति // lank_2.143 //

सर्वभावस्वभावा च वचनमपि नृणाम् / कल्पना सापि नास्ति निर्वाणं स्वप्नतुल्यम् / भवं परीक्षेत न संसारे नापि निर्वायात् // lank_2.144 //

राजा श्रेष्ठी यथा पुत्रान् विचित्रैर्मृन्मयैर्मृगैः / प्रलोभ्य क्रीडयित्वा च भूतान् दद्यात्ततो मृगान् // lank_2.145 //

तथाहं लक्षणैश्चित्रैर्धर्माणां प्रतिबिम्बकैः / प्रत्यात्मवेद्यां पुत्रेभ्यो भूतकोटिं वदाम्यहम् // lank_2.146 //

अथ खलु महामतिर्बोधिसत्त्वो महासत्त्वः पुनरपि भगवन्तमेतदवोचत् - देशयतु मे भगवान् नास्त्यस्तित्वैकत्वान्यत्वोभयनोभयनैवास्तिननास्तिनित्यानित्यवर्जितं सर्वतीर्थ्यागतिप्रचारमार्यप्रत्यात्मज्ञानगतिगम्यं परिकल्पितस्वसामान्यलक्षणविनिवृत्तं परमार्थतत्त्वावतारं भूम्यनुसंधिक्रमोत्तरोत्तरविशुद्धिलक्षणं तथागतभूम्यनुप्रवेशलक्षणमनाभोगपूर्वप्रणिधानविश्वरूपमणिसदृशविषयानन्तलक्षणप्रचारं स्वचित्तदृश्यगोचरगतिविभागलक्षणं सर्वधर्माणाम् / यथा च अहं च अन्ये च बोधिसत्त्वा महासत्त्वा एवमादिषु परिकल्पितस्वभावस्वसामान्य लक्षणविनिवृत्तदृष्टयः क्षिप्रमनुत्तरां सम्यक्संबोधिमभिसंबुध्य सर्वसत्त्वानां सर्वगुणसंपत्तीः परिपूरयेम //

भगवानाह - साधु साधु महामते, साधु खलु पुनस्त्वं महामते, यत्त्वमेतमर्थमध्येषितव्यं मन्यसे / बहुजनहिताय त्वं महामते प्रतिपन्नो बहुजनसुखाय लोकानुकम्पायै महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च / तेन हि महामते शृणु, साधु च सुष्ठु च मनसि कुरु / भाविष्ये ऽहं ते / साधु भगवन्निति महामतिर्बोधिसत्त्वो महासत्त्वो भगवतः (वैद्य 38) प्रत्यश्रौषीत् / भगवांस्तस्यैतदवोचत् - स्वचित्तदृश्यमात्रानवबोधान्महामते बालपृथग्जना बाह्यविचित्रभावाभिनिवेशेन च नास्त्यस्तित्वैकत्वान्यत्वोभयनैवास्तिननास्तिनित्यानित्यस्वभाववासनाहेतुविकल्पाभिनिवेशेन विकल्पयन्ति / तद्यथा महामते मृगतृष्णोदकं मृगा उदकभावेन विकल्प्य ग्रीष्माभितप्ताः पातुकामतया प्रधावन्ति, स्वचित्तदृष्टिभ्रान्त्यनवबोधान्न प्रजानन्तिनात्रोदकमिति, एवमेव महामते बालपृथग्जना अनादिकालविविधप्रपञ्चविकल्पवासितमतयो रागद्वेषमोहाग्नितापितमनसो विचित्ररूपविषयाभिलाषिणः उत्पादभङ्गस्थितिदृष्ट्याशया आध्यात्मिकबाह्यभावाभावाकुशलाः / ते एकत्वान्यत्वनास्त्यस्तित्वग्राहे प्रपतन्ति / तद्यथा महामते गन्धर्वनगरे ऽविदुषामनगरे नगरसंज्ञा भवति / सा च नगराकृतिरनादिकालनगरबीजवासनाभिनिवेशात्ख्याति / तच्च नगरं नानगरं न नगरम् / एवमेव महामते अनादिकालतीर्थ्यप्रप्रञ्चवादवासनाभिनिविष्टाः एकत्वान्यत्वास्तित्वनास्तित्ववादानभिनिविशन्ते स्वचित्तदृश्यमात्रानवधारितमतयः /

तद्यथा महामते कश्चिदेव पुरुषः शयितः स्वप्नान्तरे स्त्रीपुरुषहस्त्यश्वरथपदातिग्रामनगरनिगमगोमहिषवनोद्यानविविधगिरिनदीतडागोपशोभितं जनपदमन्तःपुरं प्रविश्य प्रतिविबुध्येत / स प्रतिविबुद्धः संस्तदेव जनपदमन्तःपुरं समनुस्मरेत् / तत्किं मन्यसे महामते - अपि नु स पुरुषः पण्डितजातीयो भवेत्, यस्तदभूतं स्वप्नवैचित्र्यमनुस्मरेत्? आह - नो हीदं भगवन् / भगवानाह - एवमेव महामते बालपृथग्जनाः कुदृष्टिदष्टास्तीर्थ्यमतयः स्वप्नतुल्यात्स्वचित्तदृश्यभावान्न प्रतिविजानन्ते, एकत्वान्यत्वनास्त्यस्तित्वदृष्टिं समाश्रयन्ते / तद्यथा महामते चित्रकरकृतप्रदेशा अनिम्नोन्नताः सन्तो निम्नोन्नता बालैः कल्प्यन्ते, एवमेव महामते भविष्यन्त्यनागते ऽध्वनि तीर्थ्यदृष्टिवासनाशयप्रतिविकल्पपुष्टाः / ते एकत्वान्यत्वोभयानुभयवादाभिनिविष्टाः स्वयं नष्टा अन्यानपि सदसत्पक्षविविक्तानुत्पादवादिनो नास्तिका इति वक्ष्यन्ति / एते हेतुफलापवादिनो दुर्दर्शनोन्मूलितहेतुकुशलशुक्लपक्षाः / एते श्रेयोर्थिभिर्दूरतः परिवर्ज्यां इति वक्ष्यन्ते / ते च स्वपरोभयदृष्टिपतिताशया नास्त्यस्तित्वविकल्पसमारोपापवादकुदृष्टिपतिताशया नरकपरायणा भविष्यन्ति / तद्यथा महामते तैमिरिकाः केशोण्डुकं दृष्ट्वा परस्परमाचक्षते - इअदं चित्रमिदं चित्रमिति पश्यन्तु भो मार्षाः / तच्च केशोण्डुकमुभयानुत्पन्नतया न भावो नाभावो दर्शनादर्शनतः / एवमेव महामते तीर्थ्यकुदृष्टिविकल्पाशयाभिनिविष्टाः सदसत्पक्षैकत्वान्यत्वोभयानुभयत्ववादाभिनिविष्टाः सद्धर्मापवादका आत्मानं परांश्च विनिपातयिष्यन्ति /

तद्यथा महामते अचक्रमलातचक्रं बालैश्चक्रभावेन परिकल्प्यते न पण्डितैः, एवमेव महामते कुदृष्टितीर्थ्याशयपतिता एकत्वान्यत्वोभयानुभयत्वं परिकल्पयिष्यन्ति सर्वभावोत्पत्तौ / तद्यथा महामते देवे प्रवर्षति जलबुद्बुदकाः स्फटिकमणिसदृशाः ख्यायन्ते / तत्र च बालाः स्फटिकमणिभावमभिनिवेश्य प्रधावन्ति / ते च महामते उदकबुद्बुदका न मणयो नामणयो ग्रहणाग्रहणतः / एवमेव महामते तीर्थ्यदृष्टिविकल्पाशयवासनावासिता असतश्चोत्पादं वर्णयिष्यन्ति प्रत्ययैः, सतश्च विनाशम् //

पुनरपरं महामते प्रमाणत्रयावयवप्रत्यवस्थानं कृत्वा आर्यज्ञानप्रत्यात्माधिगम्यं स्वभावद्वयविनिर्मुक्तं वस्तु स्वभावतो विद्यत इति विकल्पयिष्यन्ति / न च महामते चित्तमनो मनोविज्ञानचित्तपरावृत्त्याश्रयाणां स्वचित्तदृश्यग्राह्यग्राहकविकल्पप्रहीणानां तथागतभूमिप्रत्यात्मार्यज्ञानगतानां योगिनां भावाभावसंज्ञा प्रवर्तते / यदि पुनर्महामते योगिनामेवंगतिविषयाणां भावाभावग्राहः प्रवर्तते, स एवैषामात्मग्राहः पोषग्राहः पुरुषग्राहः पुद्गलग्राहः स्यात् / या पुनरेवं महामते भावस्वभावस्वसामान्यलक्षणदेशना, एषा महामते नैर्माणिकबुद्धदेशनाः न धर्मताबुद्धदेशना / देशना पुनर्महामते बालशयगतदृष्टिप्रवृत्ता, न च प्रत्यवस्थानगतिस्वभावधर्मार्यज्ञानप्रत्यात्माधिगमसमाधिसुखविहारमुद्भावयति / तद्यथा महामते जलान्तर्गता वृक्षच्छाया ख्यायते / सा च न च्छाया नाच्छाया वृक्षसंस्थानासंस्थानतः, एवमेव महामते तीर्थ्यदृष्टिवासनावासितविकल्पा एकत्वान्यत्वोभयत्वानुभयत्वनास्त्यस्तित्वं विकल्पयिष्यन्ति स्वचित्तदृश्यमात्रानवधारितमतयः / तद्यथा महामते दर्पणान्तर्गतानि सर्वरूपप्रतिबिम्बकानि ख्यायन्ते यथाप्रत्ययतः स्वविकल्पनाच्च, न तानि बिम्बानि नाबिम्बानि बिम्बाबिम्बदर्शनतः / अथ च ते महामते स्वचित्तदृश्यविकल्पाः ख्यायन्ते बालानां बिम्बाकृतयः / एवमेव महामते स्वचित्तप्रतिबिम्बानि ख्यायन्ते एकत्वान्यत्वोभयानुभयदृष्ट्याकारेण / तद्यथा महामते प्रतिश्रुत्का पुरुषनदीपवनसंयोगात्प्रवर्तमाना अनुश्रूयते /

सा च न भावा नाभावा घोषाघोषश्रवणतः, एवमेव महामते नास्त्यस्तित्वैकत्वान्यत्वोभयनोभयदृष्टिस्वचित्तवासनाविकल्पाः ख्यायन्ते / तद्यथा महामते निस्तृणगुल्मलतावनायां मेदिन्यामादित्यसंयोगान्मृगतृष्णिकास्तरंगवत्स्यन्दन्ते / ते च न भावा नाभावा लोभ्यालोभ्यतः / एवमेव महामते बालानामनादिकालप्रपञ्चदौष्ठुल्यवासनावासितं विकल्पविज्ञानमुत्पादस्थितिभङ्गैकत्वान्यत्वोभयानुभयनास्त्यस्त्यार्यप्रत्यात्मज्ञानवस्तुमुखेन मृगतृष्णिकावत्तरंगायते / तद्यथा महामते वेतालयन्त्रपुरुषौ निःसत्त्वौ पिशाचयुक्तिगात्स्पन्दनक्रियां कुर्वाते / तत्र च असद्विकल्पे बाला अभिनिविशन्ते गमनागमनतः / एवमेव महामते बालपृथग्जनाः कुदृष्टितीर्थ्याशयपतिता एकत्वान्यत्ववादानभिनिविशन्ते / स च असद्भूतसमारोपः / तस्मात्तर्हि महामते उत्पादस्थितिभङ्गैकत्वान्यत्वोभयानुभयनास्त्यस्त्यार्यप्रत्यात्मवस्त्वधिगमविकल्परहितेन भवितव्यम् //

तत्रेदमुच्यते -

जलवृक्षच्छायासदृशाः स्कन्धा विज्ञानपञ्चमाः / मायास्वप्नोपमादृशा(श्या?) विज्ञप्त्या मा विकल्पयते // lank_2.147 //

केशोण्डुकप्रख्यमिदं मरीच्युदकविभ्रमत् / त्रिभवं स्वप्नमायाख्यं विभावेन्तो विमुच्यते // lank_2.148 //

मृगतृष्णा यथा ग्रीष्मे स्पन्दते चित्तमोहनी / मृगा गृह्णन्ति पानीयं न चास्यां वस्तु विद्यते // lank_2.149 //

तथा विज्ञानबीजं हि स्पन्दते दृष्टिगोचरे / बाला गृह्णन्ति जायन्तं तिमिरं तैमिरा यथा // lank_2.150 //

अनादिगतिसंसारे भावग्राहोपगूहितम् / बालः कीले यथा कीलं प्रलोभ्य विनिवर्तयेत् // lank_2.151 //

मायावेतालयन्त्राभं स्वप्नविद्युद्धनं सदा / त्रिसंततिव्यवच्छिन्नं जगत्पश्य (न्?) विमुच्यते // lank_2.152 //

न ह्यत्र काचिद्विज्ञप्तिर्मरीचीनां यथा नभे / एवं धर्मान् विजानन्तो न किंचित्प्रतिजानते // lank_2.153 //

विज्ञप्तिर्नाममात्रेयं लक्षणेन न विद्यते / स्कन्धाः केशोण्डुकाकारा यत्र चासौ विकल्प्यते // lank_2.154 //

चित्तं केशोण्डुकं मायां स्वप्न गन्धर्वमेव च / अलातं मृगतृष्णा च असन्तः ख्याति वै नृणाम् // lank_2.155 //

नित्यानित्यं तथैकत्वमुभयं नोभयं तथा / अनादिदोषसंबन्धाद् बालाः कल्पन्ति मोहिताः // lank_2.156 //

दर्पणे उदके नेत्रे भाण्डेषु च मणीषु च / बिम्बं हि दृश्यते तेषु बिम्बं नास्ति च कुत्रचिद् // lank_2.157 //

भावाभासं तथा चित्तं मृगतृष्णा यथा नभे / दृश्यते चित्ररूपेण स्वप्ने वन्ध्यौरसो यथा // lank_2.158 //

पुनरपरं महामते चतुष्टयविनिर्मुक्ता तथागतानां धर्मदेशना, यदुत एकत्वान्यत्वोभयानुभयपक्षविवर्जिता नास्त्यस्तिसमारोपापवादविनिर्मुक्ता / असत्यप्रतीत्यसमुत्पादनिरोधमार्गविमोक्षप्रवृत्तिपूर्वका महामते तथागतानां धर्मदेशना / न प्रकृतीश्वरहेतुयदृच्छाणुकालस्वभावोपनिबद्धा महामते तथागतानां धर्मदेशना //

पुनरपरं महामते क्लेशज्ञेयावरणद्वयविशुद्ध्यर्थं सार्थवाहवदानुपूर्व्या अष्टोत्तरे निराभासपदशते प्रतिष्ठापयन्ति यानभूम्यङ्गसुविभागलक्षणे च //

पुनरपरं महामते चतुर्विधं ध्यानम् / कतमच्चतुर्विधम्? यदुत बालोपचारिकं ध्यानम्, अर्थप्रविचयं ध्यानम्, तथतालम्बनं ध्यानम्, ताथागतं चतुर्थं ध्यानम् / तत्र महामते बालोपचारिकं ध्यानं कतमत्? यदुत श्रावकप्रत्येकबुद्धयोगयोगिनां पुद्गलनैरात्म्यभावस्वसामान्यबिम्बसंकलानित्यदुःखाशुभलक्षणाभिनिवेशपूर्वकम्, एवमिदं लक्षणं नान्यथेति (वैद्य 41) पश्यतः पूर्वोत्तरोत्तरत आ संज्ञानिरोधाद्बालोपचारिकं भवति / तत्र अर्थप्रविचयध्यानं पुनर्महामते कतमत्? यदुत पुद्गलनैरात्म्यस्वसामान्यलक्षणबाह्यतीर्थकरस्वपरोभयाभावं कृत्वा धर्मनैरात्म्यभूमिलक्षणार्थं प्रविचयानुपूर्वकमर्थप्रविचयध्यानं भवति / तत्र तथतालम्बनं ध्यानं महामते कतमत्? यदुत परिकल्पितनैरात्म्यद्वयविकल्पयथाभूतावस्थानादप्रवृत्तेर्विकल्पस्य तथतालम्बनमिति वदामि / ताथागतं पुनर्महामते ध्यानं कतमत्? यदुत ताथागतभूम्याकारप्रवेशं प्रत्यात्मार्यज्ञानलक्षणत्रयसुखविहाराचिन्त्यसत्त्वकृत्यकरणतया ताथागतं ध्यानमिति वदामि //

तत्रेदमुच्यते -

अर्थप्रविचयं ध्यानं ध्यानं बालोपचारिकम् / तथतालम्बनं ध्यानं ध्यानं ताथागतं शुभम् // lank_2.159 //

सोमभास्करसंस्थानं पद्मपातालसादृशम् / गगनाग्निचित्रसदृशं योगी युञ्जन् प्रपश्यति // lank_2.160 //

निमित्तानि च चित्राणि तीर्थमार्गं नयन्ति ते / श्रावकत्वे निपातन्ति प्रत्येकजिनगोचरे // lank_2.161 //

विधूय सर्वाण्येतानि निराभासं यदा भवेत् / तदा बुद्धाकरादित्याः सर्वक्षेत्राः समागताः / शिरो हि तस्य मार्जन्ति निमित्तं तथतानुगम् // lank_2.162 //

अथ खलु महामतिर्बोधिसत्त्वो महासत्त्वः पुनरपि भगवन्तमेतदवोचत् - निर्वाणं निर्वाणमिति भगवन्नुच्यते / कस्यैतद्भगवन्नधिवचनं यदुत निर्वाणमिति ? भगवानाह - सर्वविज्ञानस्वभाववासनालयमनोमनोविज्ञानदृष्टिवासनापरावृत्तिर्निर्वाणमित्युच्यते सर्वबुद्धैर्मया च निर्वाणगतिस्वभावशून्यतावस्तुगोचरम् //

पुनरपरं महामते निर्वाणमार्यज्ञानप्रत्यात्मगतिगोचरं शाश्वतोच्छेदविकल्पभावाभावविवर्जितम् / कथं न शाश्वतम्? यदुत स्वसामान्यलक्षणविकल्पप्रहीणम्, अतो न शाश्वतम् / तत्रानुच्छेदो यदुत सर्वार्था अतीतानागतप्रत्युत्पन्नाः प्रत्यात्ममपि गच्छन्ति, अतो नोच्छेदः //

पुनर्महामते महापरिनिर्वाणं न नाशो न मरणम् / यदि पुनर्महामते महापरिनिर्वाणं मरणं स्यात्, पुनरपि जन्मप्रबन्धः स्यात् / अथ विनाशः स्यात्, संस्कृतलक्षणपतितं स्यात् / अत एतस्मात्कारणान्महामते महापरिनिर्वाणं न नाशं न मरणम् / च्युतिविगतं मरणमधिगच्छन्ति योगिनः / पुनरपरं महामते महापरिनिर्वाणमप्रहीणासंप्राप्तितो ऽनुच्छेदाशाश्वततो नैकार्थतो नानार्थतो निर्वाणमित्युच्यते //

पुनरपरं महामते श्रावकप्रत्येकबुद्धानां निर्वाणं स्वसामान्यलक्षणावबोधादसंसर्गतः / विषयाविपर्यासदर्शनाद्विकल्पो न प्रवर्तते / ततस्तेषां तत्र निर्वाणबुद्धिर्भवति //

पुनरपरं महामते द्विप्रकारं स्वभावद्वयलक्षणं भवति / कतमत् द्विप्रकारम्? यदुत अभिलापस्वभावाभिनिवेशतश्च वस्तुस्वभावाभिनिवेशतश्च / तत्र महामते अभिलापस्वभावाभिनिवेशो ऽनादिकालवाक्प्रपञ्चवासनाभिनिवेशात्प्रवर्तते / तत्र वस्तुस्वभावाभिनिवेशः पुनर्महामते स्वचित्तदृश्यमात्रानवबोधात्प्रवर्तते //

पुनरपरं महामते अधिष्ठानद्वयाधिष्ठिता बोधिसत्त्वास्तथागतानामर्हतां सम्यक्संबुद्धानां चरणयोर्निपत्य प्रश्नान् परिपृच्छन्ति / कतमेनाधिष्ठानद्वयेनाधिष्ठिताः? यदुत समाधिसमापत्त्यधिष्ठानेन सर्वकायमुखपाण्यभिषेकाधिष्ठानेन च / तत्र महामते बोधिसत्त्वा महासत्त्वाः प्रथमायां भूमौ बुद्धाधिष्ठानाधिष्ठिता महायानप्रभासं नाम बोधिसत्त्वसमाधिं समापद्यन्ते / समनन्तरसमापन्नानां च तेषां बोधिसत्त्वानां महासत्त्वानां महायानप्रभासं बोधिसत्त्वसमाधिम्, अथ दशदिग्लोकधातुव्यवस्थितास्तथागता अर्हन्तः सम्यक्संबुद्धा मुखान्युपदर्श्य सर्वकायमुखवाचासंदर्शनेनाधिष्ठानं कुर्वन्ति / यथा महामते वज्रगर्भस्य बोधिसत्त्वस्य महासत्त्वस्य अन्येषां च तादृग्लक्षणगुणसमन्वागतानां बोधिसत्त्वानां महासत्त्वानाम्, एवं महामते प्रथमायां भूमौ बोधिसत्त्वा महासत्त्वाः समाधिसमापत्त्यधिष्ठानं प्रतिलभन्ते / कल्पशतसहस्रं संचितैः कुशलमूलैरनुपूर्वेण भूमिपक्षविपक्षलक्षणगतिंगतां धर्ममेघायां बोधिसत्त्वभूमौ महापद्मविमानासनस्थस्य बोधिसत्त्वस्य महासत्त्वस्य तदनुरूपैर्बोधिसत्त्वैर्महासत्त्वैः परिवृतस्य सर्वरत्नाभरणविभूषितकिरीटस्य हरितालकनकचम्पकचन्द्रांशुमयूखपद्मसदृशा दशदिग्लोकधात्वागता जिनकरास्तस्य बोधिसत्त्वस्य महासत्त्वस्य पद्मविमानासनस्थस्य मूर्धन्यभिषिञ्चन्ति वशवर्तिचक्रवर्तीन्द्रराजवत्सर्वकायमुखपाण्यभिषेकेन / स च बोधिसत्त्वस्ते च बोधिसत्त्वाः पाण्यभिषेकाधिष्ठानाधिष्ठिता इत्युच्यन्ते / एतन्महामते बोधिसत्त्वानां महासत्त्वानामधिष्ठानद्वयम्, येनाधिष्ठानद्वयेनाधिष्ठिता बोधिसत्त्वा महासत्त्वाः सर्वबुद्धमुखान्यवलोकयन्ति / अन्यत्राव्यवलोक्यास्तथागता अर्हन्तः सम्यक्संबुद्धाः //

पुनरपरं महामते यत्किंचिद्बोधिसत्त्वानां महासत्त्वानां प्रतिभाति समाध्यृद्धिदेशनाकारेण, तत्सर्वबुद्धाधिष्ठानद्वयाधिष्ठितानाम् / यदि पुनर्महामते बोधिसत्त्वानां महासत्त्वानामधिष्ठानमन्तरेण प्रतिभानं प्रतिभायात्, बालपृथग्जनानामपि महामते प्रतिभानं प्रतिभायात् / तत्कस्य हेतोः? यदुत अधिष्ठानानधिष्ठितत्वात् / तृणगुल्मवृक्षपर्वता अपि महामते विविधानि च वाद्यभाण्डानि नगरभवनगृहविमानासनस्थानानि तथागतप्रवेशाधिष्ठानेन प्रवाद्यन्ते / किं पुनर्महामते सचेतना मूकान्धबधिरा अपि महामते स्वदोषेभ्यो विमुच्यन्ते / एवं महागुणविशेषं महामते तथागताधिष्ठानम् //

पुनरपरं महामतिराह - किं पुनर्भगवंस्तथागता अर्हन्तः सम्यक्संबुद्धा बोधिसत्त्वानां महासत्त्वानां समाधिसमापत्त्यवस्थानकाले विशेषभूमौ च अभिषेकाधिष्ठानं प्रकुर्वन्ति? (वैद्य 43) भगवानाह - मारकर्मक्लेशवियुक्तार्थं श्रावकध्यानभूम्यप्रपतनतया च तथागतभूमिप्रत्यात्माधिगमनतया च प्राप्तधर्माधिगमविवृद्धये च / एतेन महामते कारणेन तथागता अर्हन्तः सम्यक्संबुद्धा बोधिसत्त्वानां महासत्त्वानामधिष्ठानैरधितिष्ठन्ति / अनधिष्ठिताश्च महामते बोधिसत्त्वा महासत्त्वाः कुतीर्थ्यश्रावकमाराशयपतिता नानुत्तरां सम्यक्संबोधिमभिसंबुध्येरन् / अतस्तेन कारणेन बोधिसत्त्वा महासत्त्वास्तथागतैरर्हद्भिः सम्यक्संबुद्धैरनुगृह्यन्ते //

तत्रेदमुच्यते -

अधिष्ठानं नरेन्द्राणां प्रणिधानैर्विशोधितम् / अभिषेकसमाध्याद्याः प्रथमाद्दशमाय वै // lank_2.163 //

अथ खलु महामतिर्बोधिसत्त्वः पुनरपि भगवन्तमेतदवोचत् - प्रतीत्यसमुत्पादं पुनर्भगवता देशयता कारणव्यपदेश एव कृतो न स्वनयप्रकृत्यवस्थानकथा / तीर्थकरा अपि भगवन् कारणत उत्पत्तिं वर्णयन्ति, यदुत प्रधानेश्वरपुरुषकालाणुप्रत्ययेभ्यो भावानामुत्पत्तयः / किं तु भगवता प्रत्ययपर्यायान्तरेणोत्पत्तिर्वर्ण्यते भावानाम् / न च सिद्धान्तविशेषान्तरम् / सदसतो हि भगवंस्तीर्थकरा अप्युत्पत्तिं वर्णयन्ति, भूत्वा च विनाशं प्रत्ययैर्भावानाम् / यदप्युक्तं भगवता - अविद्याप्रत्ययाः संस्कारा यावज्जरामरणमिति, अहेतुवादव्यपदेश एष भगवतानुवर्णितः, न स हेतुवादः / युगपद्वयवस्थितानां भगवन्नेतद्भवति - अस्मिन् सतीदं भवतीति, न क्रमवृत्त्यपेक्षावस्थितानाम् / किं तु तीर्थकरव्यपदेश एव भगवन् विशिष्यते न त्वदीयम् / तत्कस्य हेतोः? तीर्थकराणां हिं भगवन् कारणमप्रतीत्यसमुत्पन्नं कार्यमभिनिर्वर्तयति / तव तु भगवन् कारणमपि कार्यापेक्षं कार्यमपि कारणापेक्षम् / हेतुप्रत्ययसंकरश्च एवमन्योन्यानवस्था प्रसज्यते / अहेतुत्वं च भगवन् लोकस्य - अस्मिन् सतीदं ब्रुवतः / भगवानाह - न महामते ममाहेतुककारणवादो हेतुप्रत्ययसंकरश्च प्रसज्यते - अस्मिन् सतीदं ब्रुवतः, ग्राह्यग्राहकाभावात्, स्वचित्तदृश्यमात्रावबोधात् / ये तु महामते ग्राह्यग्राहकाभिनिविष्टाः स्वचित्तदृश्यमात्रं नावबुध्यन्ते बाह्यस्वविषयभावाभावत्वेन, तेषां महामते एष दोषः प्रसज्यते , न तु मम प्रतीत्यकारणव्यपदेशं कुर्वतः //

पुनरपरं महामतिराह - ननु भगवन् अभिलापसद्भावात्सन्ति सर्वभावाः / यदि पुनर्भगवन् भावा न स्युः, अभिलापो न प्रवर्तते / प्रवर्तते च / तस्मादभिलापसद्भावाद्भगवन् सन्ति सर्वभावाः / भगवानाह - असतामपि महामते भावानामभिलापः क्रियते / यदुत शशविषाणकूर्मरोमवन्ध्यापुत्रादीनां लोके दृष्टो ऽभिलापः / ते च महामते न भावा नाभावाः, अभिलप्यन्ते च / तद्यदवोचस्त्वं महामते - अभिलापसद्भावात्सन्ति सर्वभावा इति, स हि वादः प्रहीणः / न च महामते सर्वबुद्धक्षेत्रेषु प्रसिद्धो ऽभिलापः / अभिलापो महामते कृतकः / क्वचिन्महामते बुद्धक्षेत्रे ऽनिमिषप्रेक्षया धर्मो देश्यते, क्वचिदिङ्गितैः, क्वचिद्भूविक्षेपेण, क्वचिन्नेत्रसंचारेण, क्वचिदास्येन, क्वचिद्विजृम्भितेन, क्वचिदुत्कासनशब्देन, (वैद्य 44) क्वचित्क्षेत्रस्मृत्या, क्वचित्स्पन्दितेन / यथा महामते अनिमिषायां गन्धसुगन्धायां च लोकधातौ समन्तभद्रस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य बुद्धक्षेत्रे अनिमिषैर्नेत्रैः प्रेक्षमाणास्ते बोधिसत्त्वा महासत्त्वा अनुत्पत्तिकधर्मक्षान्तिं प्रतिलभन्ते अन्यांश्च समाधिविशेषान्, अत एवास्मात्कारणान्महामते नाभिलापसद्भावात्सन्ति सर्वभावाः / दृष्टं चैतन्महामते / इह लोके कृमिमक्षिकैवमाद्याः सत्त्वविशेषा अनभिलापेनैव स्वकृत्यं कुर्वन्ति //

तत्रेदमुच्यते -

आकाशं शशशृङ्गं च वन्ध्यायाः पुत्र एव च / असन्तो ह्यभिलप्यन्ते तथा भावेषु कल्पना // lank_2.164 //

हेतुप्रत्ययसामग्र्यां बालाः कल्पन्ति संभवम् / अजानाना नयमिदं भ्रमन्ति त्रिभवालये // lank_2.165 //

अथ खलु महामतिर्बोधिसत्त्वो महासत्त्वः पुनरपि भगवन्तमेतदवोचत् - नित्यशब्दः पुनर्भगवन् क्वभिहितः? भगवानाह - भ्रान्तौ महामते / यस्मादियं भ्रान्तिरार्याणामपि ख्यायते विपर्यासतः / तद्यथा महामते मृगतृष्णालातचक्रकेशोण्डुकगन्धर्वनगरमायास्वप्नप्रतिबिम्बाक्षपुरुषा लोके ऽविद्वद्भिर्विपर्यस्यन्ते, न तु विद्वद्भिः / न च पुनर्न ख्यायन्ते / सा पुनर्भ्रान्तिर्महामते अनेकप्रकारा ख्यायात् / न भ्रान्तेरशाश्वततां कुरुते / तत्कस्य हेतोः? यदुत भावाभावविवर्जितत्वात् / कथं पुनर्महामते भावाभावविवर्जिता भ्रान्तिः? यदुत सर्वबालविचित्रगोचरत्वात्समुद्रतरंगगङ्गोदकवत्प्रेतानां दर्शनादर्शनतः / अत एतस्मात्कारणान्महामते भ्रान्तिभावो न भवति / यस्माच्च तदुदकमन्येषां ख्यायते, अतो ह्यभावो न भवति / एवं भ्रान्तिरार्याणां विपर्यासाविपर्यासवर्जिता / अतश्च महामते अस्मात्कारणाच्छाश्वता भ्रान्तिर्यदुत निमित्तलक्षणाभेदत्वात् / न हि महामते भ्रान्तिर्विविधविचित्रनिमित्तविकल्पेन विकल्प्यमाना भेदमुपयाति / अत एतस्मात्कारणान्महामते भ्रान्तिः शाश्वता //

कथं पुनर्महामते भ्रान्तिस्तत्त्वं भवति? येन पुनः कारणेन महामते आर्याणामस्यां भ्रान्तौ विपर्यासबुद्धिर्न प्रवर्तते, नाविपर्यासबुद्धिः / नान्यत्र महामते आर्या अस्यां भ्रान्तौ यकिंचित्संज्ञिनो भवन्ति नार्यज्ञानवस्तुसंज्ञिनः / यत्किंचिदिति महामते बालप्रलाप एष नार्यप्रलापः / सा पुनर्भ्रान्तिर्विपर्यासाविपर्यासेन विकल्प्यमाना गोत्रद्वयावहा भवति यदुत आर्यगोत्रस्य वा बालपृथग्जनगोत्रस्य वा / आर्यगोत्रं पुनर्महामते त्रिप्रकारमुपयाति यदुत श्रावकप्रत्येकबुद्धबुद्धप्रभेदतः / तत्र कथं पुनर्महामते बालैर्भ्रान्तिर्विकल्प्यमाना श्रावकयानगोत्रं जनयति? यदुत महामते स्वसामान्यलक्षणाभिनिवेशेनाभिनिविश्यमाना श्रावकयानगोत्राय संवर्तते / एवं महामते सा भ्रान्तिः श्रावकयानगोत्रावहा भवति / तत्र कथं पुनर्महामते सैव भ्रान्तिर्विकल्प्यमाना प्रत्येकबुद्धयानगोत्रावहा भवति? यदुत तस्या एव महामते भ्रान्तेः स्वसामान्यलक्षणाभिनिवेशासंसर्गतः प्रत्येकबुद्धयानगोत्रावहा भवति / तत्र कथं (वैद्य 45) पुनर्महामते पण्डितैः सैव भ्रान्तिर्विकल्प्यमाना बुद्धयानगोत्रावहा भवति? यदुत महामते स्वचित्तदृश्यमात्रावबोधाद्बाह्यभावाभावविकल्पनतया विकल्प्यमाना बुद्धयानगोत्राअवहा भवति / अत एव महामते गोत्रम् / एष गोत्रार्थः / विचित्रवस्तुभावना पुनर्महामते बालैर्भ्रान्तिर्विकल्प्यमाना संसारयानगोत्रावहा भवति, एवमिदं नान्यथेति / अत एतस्मात्कारणान्महामते भ्रान्तिर्विचित्रवस्तुत्वेन कल्प्यते बालैः / सा च न वस्तु, नावस्तु / सैव महामते भ्रान्तिरविकल्प्यमाना आर्याणां चित्तमनोमनोविज्ञानदौष्ठुल्यवासनास्वभावधर्मपरावृत्तिभावाद्भ्रान्तिरार्याणां तथतेत्युच्यते / अत एतदुक्तं भवति महामते - तथतापि चित्तविनिर्मुक्तेति / अस्यैव महामते पदस्याभिद्योतनार्थमिदमुक्तं मया - कल्पनैश्च विवर्जितं सर्वकल्पनाविरहितमिति यावदुक्तं भवति //

महामतिराह - भ्रान्तिर्भगवन् विद्यते नेति? भगवानाह - मायावन्महामते न लक्षणाभिनिवेशतो भ्रान्तिर्विद्यते / यदि पुनर्महामते भ्रान्तिर्लक्षणाभिनिवेशेन विद्यते, अव्यावृत्त एव महामते भावाभिनिवेशः स्यात् / प्रतीत्यसमुत्पादवत्तीर्थकरकारणोत्पादवदेतत्स्यान्महामते / महामतिराह - यदि भगवन् मायाप्रख्या भ्रान्तिः, तेनान्यस्या भ्रान्तेः कारणीभविष्यति / भगवानाह - न महामते माया भ्रान्तिकारणम् / अदौष्ठुल्यदोषावहत्वान्न हि महामते माया दौष्ठुल्यदोषमावहति / अविकल्प्यमाना माया पुनर्महामते परपुरुषविद्याधिष्ठानात्प्रवर्तते, न स्वविकल्पदौष्ठुल्यवासनाधिष्ठानतः / सा न दोषावहा भवति / चित्तदृष्टिमोहमात्रमेतन्महामते बालानां यत्किंचिदभिनिवेशतो न त्वार्याणाम् //

तत्रेदमुच्यते -

आर्यो न पश्यति भ्रान्तिं नापि तत्त्वं तदन्तरे / भ्रान्तिरेव भवेत्तत्त्वं यस्मात्तत्त्वं तदन्तरे // lank_2.166 //

भ्रान्तिं विधूय सर्वां हि निमित्तं जायते यदि / सैव तस्य भवेद्भ्रान्तिरशुद्धं तिमिरं यथा // lank_2.167 //

पुनरपरं महामते न माया नास्ति / साधर्म्यदर्शनात्सर्वधर्माणां मायोपमत्वं भवति / महामतिराह - किं पुनर्भगवन् विचित्रमायाभिनिवेशलक्षणेन सर्वधर्माणां मायोपमत्वं भवति, अथ वितथाभिनिवेशलक्षणेन? तद्यदि भगवन् विचित्रमायाभिनिवेशलक्षणेन सर्वधर्माणां मायोपमत्वं भवति, हन्त भगवन् न भावा मायोपमाः / तत्कस्य हेतोः? यदुत रूपस्य विचित्रलक्षणाहेतुदर्शनात् / न हि भगवन् कश्चिद्धेतुरस्ति येन रूपं विचित्रलक्षणाकारं ख्यायते मायावत् / अत एतस्मात्कारणाद्भगवन् न विचित्रमायालक्षणाभिनिवेशसाधर्म्याद्भावा मायोपमाः //

भगवानाह - न महामते विचित्रमायालक्षणाभिनिवेशसाधर्म्यात्सर्वधर्मा मायोपमाः, किं तर्हि महामते वितथाशुविद्युत्सदृशसाधर्म्येण सर्वधर्मा मायोपमाः / तद्यथा महामते (वैद्य 46) विद्युल्लता क्षणभङ्गदृष्टनष्टदर्शनं पुनर्बालानां ख्यायते, एवमेव महामते सर्वभावाः स्वविकल्पसामान्यलक्षणाः प्रविचयाभावान्न ख्यायन्ते रूपलक्षणाभिनिवेशतः //

तत्रेदमुच्यते -

न माया नास्ति साधर्म्याद्भावानां कथ्यते ऽस्तिता / वितथाशुविद्युत्सदृशास्तेन मायोपमाः स्मृताः // lank_2.168 //

पुनरपरं महामतिराह - यत्पुनरेतदुक्तं भगवता - अनुत्पन्नाः सर्वभावा मायोपमाश्चेति / ननु ते भगवन् एवं ब्रुवतः पूर्वोत्तरवचनव्याघातदोषः प्रसज्यते, अनुत्पादं भावानां मायोपमत्वेनाभिलपतः / भगवानाह - न महामते ममानुत्पादं भावानां मायोपमत्वेनाभिलपतः पूर्वोत्तरवचनव्याघातदोषो भवति / तत्कस्य हेतोः? यदुत उत्पादानुत्पादस्वचित्तदृश्यमात्रावबोधात्सदसतोर्बाह्यभावाभावानुत्पत्तिदर्शनान्न महामते पूर्वोत्तरवचनव्याघातदोषः प्रसज्यते / किं तु महामते तीर्थकरकारणक्षोत्पत्तिव्युदासार्थमिदमुच्यते - मायावदनुत्पन्नाः सर्वभावाः / तीर्थकरमोहवर्गा हि महामते सदसतोर्भावानामुत्पत्तिमिच्छन्ति न स्वविकल्पविचित्राभिनिवेशप्रत्ययतः / मम तु महामते न संत्रासमुत्पद्यते / अत एतस्मात्कारणान्महामते अनुत्पादाभिधानमेवाभिधीयते / भावोपदेशः पुनर्महामते संसारपरिग्रहार्थं च नास्तीत्युच्छेदनिवारणार्थं च / मच्छिष्याणां विचित्रकर्मोपपत्त्यायतनपरिग्रहार्थं भावशब्दपरिग्रहेण संसारपरिग्रहः क्रियते / मायाभावस्वभावलक्षणनिर्देशेन महामते भावस्वभावलक्षणव्यावृत्त्यर्थं बालपृथग्जनानां कृदृष्टिलक्षणपतिताशयानां स्वचित्तदृश्यमात्रानवधारिणां हेतुप्रत्ययक्रियोत्पत्तिलक्षणाभिनिविष्ठानां निवारणार्थं मायास्वप्नस्वभावलक्षणान् सर्वधर्मान् देशयामि / एते बालपृथग्जनाः कुदृष्टिलक्षणाशयाभिनिविष्टा आत्मानं परं च सर्वधर्मा यथाभूतावस्थानदर्शनाद्विसंवादयिष्यन्ति / तत्र यथाभूतावस्थानदर्शनं महामते सर्वधर्माणां यदुत स्वचित्तदृश्यमात्रावतारः //

तत्रेदमुच्यते -

अनुत्पादे कारणाभावो भावे संसारसंग्रहः / मायादिसदृशं पश्येल्लक्षणं न विकल्पयेत् // lank_2.169 //

पुनरपरं महामते नामपदव्यञ्जनकायानां लक्षणमुद्देक्ष्यामः, यैर्नामपदव्यञ्जनकायैः सूपलक्षितैर्बोधिसत्त्वा महासत्त्वा अर्थपदव्यञ्जनानुसारिणः क्षिप्रमनुत्तरां सम्यक्संबोधिमभिसंबुध्य तथैव सर्वसत्त्वानवबोधयिष्यन्ति / तत्र महामते कायो नाम यदुत यद्वस्त्वाश्रित्य नाम क्रियते, स कायो वस्तु / कायः शरीरमित्यनर्थान्तरम् / एष महामते नामकायः / पदकायः पुनर्महामते यदुत पदार्थकायसद्भावो निश्चयः / निष्ठा उपलब्धिरित्यनर्थान्तरम् / एष महामते पदकायोपदेशः कृतो माया / व्यञ्जनकायः पुनर्महामते यदुत येन नामपदयोरभिव्यक्तिर्भवति / व्यञ्जनं लिङ्गं लक्षणमुपलब्धिः प्रज्ञप्तिरित्यनर्थान्तरम् //

पुनरपरं महामते पदकायो यदुत पदकार्यनिष्ठा / नाम पुनर्महामते यदुत अक्षराणां च नामस्वभावभेदो ऽकाराद्यावद्धकारः / तत्र व्यञ्जनं पुनर्महामते यदुत ह्रस्वदीर्घप्लुतव्यञ्जनानि / तत्र पदकायाः पुनर्महामते ये पदवीथीगामिनो हस्त्यश्वनरमृगपशुगोमहिषाजैडकाद्याः पदकायसंज्ञां लभन्ते / नाम च व्यञ्जनं च पुनर्महामते चत्वार अरूपिणः स्कन्धाः / नाम्नाभिलप्यन्त इति कृत्वा नाम, स्वलक्षणेन व्यज्यते इति कृत्वा व्यञ्जनम् / एतन्महामते नामपदव्यञ्जनकायानां नामपदाभिधानलक्षणम् / अत्र ते परिचयः करणीयः //

तत्रेदमुच्यते -

व्यञ्जने पदकाये च नाम्नि चापि विशेषतः / बालाः सज्जन्ति दुर्मेधा महापङ्के यथा गजाः // lank_2.170 //

पुनरपरं महामते युक्तिहेतुबुद्धिवैकल्यात्कुतार्किका दुर्विदग्धमतयो ऽनागते ऽध्वनि पृष्टा विद्वद्भिरेकत्वान्यत्वोभयानुभयदृष्टिलक्षणविनिर्मुक्तमन्तद्वयविधिं पृच्छद्भिरेवं वक्ष्यन्ति - अप्रश्नमिदं नेदं योनिश इति, यदुत रूपादिभ्यो ऽनित्यता अन्या अनन्येति / एवं निर्वाणं संस्कारेभ्यो लक्षणाल्लक्षणं गुणेभ्यो गुणी भूतेभ्यो भौतिकं दृश्याद्दर्शनं पांशुभ्यो ऽणवो ज्ञानाद्योगिनः, एवमाद्येनोत्तरोत्तरक्रमलक्षणविधिना अव्याकृतानि पृष्टाः स्थापनीयं भगवता अव्याकृतमिति वक्ष्यन्ति / न तु ते मोहपुरुषा एवं ज्ञास्यन्ति यथा श्रोतॄणां बुद्धिवैकल्यात् तथागता अर्हन्तः सम्यक्संबुद्धा उत्रासपदविवर्जनार्थं सत्त्वानां न व्याकुर्वन्ति / अव्याकृतान्यपि च महामते तीर्थकरदृष्टिवादव्युदासार्थं नोपदिश्यन्ते तथागतैः / तीर्थकरा हि महामते एवंवादिनः - यदुत स जीवस्तच्छरीरम्, अन्यो जीवो ऽन्यच्छरीरम्, इत्येवमाद्ये ऽव्याकृतवादः / तीर्थकराणां हि महामते कारणविसंमूढानामव्याकृतं न तु मत्प्रवचने / मत्प्रवचने तु महामते ग्राह्यग्राहकविसंयुक्ते विकल्पो न प्रवर्तते / तेषां कथं स्थाप्यं भवेत्? ये तु महामते ग्राह्यग्राहकाभिनिविष्टाः स्वचित्तदृश्यमात्रानवधारितमतयस्तेषां स्थाप्यं भवति / चतुर्विधपदप्रश्नव्याकरणेन महामते तथागता अर्हन्तः सम्यक्संबुद्धाः सत्त्वेभ्यो धर्मं देशयन्ति / स्थापनीयमिति महामते कालान्तरदेशनैषा मया कृता अपरिपक्वेन्द्रियाणाम् / न तु परिपक्वेन्द्रियाणां स्थाप्यं भवति //

पुनरपरं महामते क्रियाकारकरहिताः सर्वधर्मा नोत्पद्यन्ते ऽकारकत्वात् / तेनोच्यते ऽनुप्तन्नाः सर्वधर्माः / निःस्वभावाः पुनर्महामते सर्वभावाः केन कारणेनः? यस्मान्महामते स्वबुद्ध्या विचार्यमाणानां स्वसामान्यलक्षणाभावा नावधार्यन्ते, तेनोच्यन्ते निःस्वभावाः सर्वधर्मा इति / तत्र अनायूहानिर्यूहाः पुनर्महामते सर्वधर्माः केन कारणेन? यस्मान्महामते स्वसामान्यलक्षणमायूह्यमानं नायुह्यते, निर्यूह्यमानं न निर्यूह्यते / अत एतस्मात्कारणान्महामते सर्वधर्मा आयूहनिर्यूहविगताः / अनिरुद्धाः पुनर्महामते सर्वधर्माः केन कारणेन? यदुत भावस्वभावलक्षणासत्त्वात्सर्वधर्मा नोपलभ्यन्ते / तेनोच्यन्ते ऽनिरुद्धाः सर्वधर्मा इति / तत्र (वैद्य 48) अनित्याः पुनर्महामते सर्वधर्माः केन कारणेनोच्यन्ते? यदुत लक्षणोत्पत्त्यनित्यभावात् / तेनोच्यन्ते अनित्याः सर्वधर्मा इति / तत्र नित्याः पुनर्महामते सर्वधर्माः केन कारणेन? यदुत लक्षणोत्पन्नानुत्पन्नाभावादनित्यतया नित्याः / तेनोच्यन्ते महामते नित्याः सर्वधर्मा इति //

तत्रेदमुच्यते -

चतुर्विधं व्याकरणमेकांशं परिपृच्छनम् / विभज्यं स्थापनीयं च तीर्थवादनिवारणम् // lank_2.171 //

सदसतोर्ह्यनुत्पादः सांख्यवैशेषिकैः स्मृतः / अव्याकृतानि सर्वाणि तैरेव हि प्रकाशिता // lank_2.172 //

बुद्ध्या विवेच्यमानानां स्वभावो नावधार्यते / तस्मादनभिलाप्यास्ते निःस्वभावाश्च देशिताः // lank_2.173 //

अथ खलु महामतिर्बोधिसत्त्वो महासत्त्वः पुनरपि भगवन्तमेतदवोचत् - देशयतु मे भगवान् स्रोतआपन्नानां स्रोतआपत्तिगतिप्रभेदनयलक्षणम् / येन स्रोतआपत्तिगतिप्रभेदनयलक्षणेन अहं च अन्ये च बोधिसत्त्वा महासत्त्वाः स्रोतआपन्नानां स्रोतआपत्तिगतिप्रभेदनयलक्षणकुशला उत्तरोत्तरसकृदागाम्यनागाम्यर्हत्त्वोपायलक्षणविधिज्ञास्तथा सत्त्वेभ्यो धर्मं देशयेयुः, यथा नैरात्म्यलक्षणद्वयमावरणद्वयं च प्रतिविशोध्य भूमेर्भूमिलक्षणातिक्रमगतिंगतास्तथागताचिन्त्यगतिविषयगोचरं प्रतिलभ्य विश्वरूपमणिसदृशाः सर्वसत्त्वोपजीव्यतामधिगच्छेयुः, सर्वधर्मविषयगतिकायोपभोग्यतोपजीव्याः स्युः //

भगवानाह - तेन हि महामते शृणु, साधु च सुष्ठु च मनसिकुरु / भाषिष्ये ऽहं ते / साधु भगवन्निति महामतिर्बोधिसत्त्वो महासत्त्वो भगवतः प्रत्यश्रौषीत् / भगवांस्तस्यैतदवोचत् - त्रय इमे महामते स्रोतआपन्नानां स्रोतआपत्तिफलप्रभेदाः / कतमे त्रयः? यदुत हीनमध्यविशिष्टाः तत्र महामते हीनः सप्तजन्मभवपरमः / मध्यः पुनर्महामते त्रिपञ्चभवपरिनिर्वायी भवति / उत्तमः पुनर्महामते तज्जन्मपरिनिर्वायी भवति / एषां तु महामते त्रयाणां त्रीणि संयोजनानि मृदुमध्याधिमात्राण्येव भवन्ति / तत्र महामते कतमानि त्रीणि संयोजनानि? यदुत सत्कायदृष्टिर्विचिकित्सा शीलव्रतपरामर्शश्च / एतानि महामते त्रीणि संयोजनानि विशेषोत्तरोत्तरेण अर्हतामर्हत्फलीभवन्ति / तत्र महामते सत्कायदृष्टिर्द्विविधा यदुत सहजा च परिकल्पिता च, परतन्त्रपरिकल्पितस्वभाववत् / तद्यथा महामते परतन्त्रस्वभावाश्रयाद्विचित्रपरिकल्पितस्वभावाभिनिवेशः प्रवर्तते / स च तत्र न सन्नासन्न सदसन्, अभूतपरिकल्पलक्षणत्वात् / अथ च बालैर्विकल्प्यते विचित्रस्वभावलक्षणाभिनिवेशेन मृगतृष्णिकेव मृगैः / इयं महामते स्रोतआपन्नस्य परिकल्पिता सत्कायदृष्टिरज्ञानाच्चिरकालाभिनिवेशसंचिता / सा च तस्य पुद्गलनैरात्म्यग्रहाभावतः प्रहीणा / सहजा पुनर्महामते स्रोतआपन्नस्य सत्कायदृष्टिः स्वपरकायसमतया चतुःस्कन्धरूपलक्षणत्वाद्रूपस्योत्पत्तिभूतभौतिकत्वात्परस्परहेतुलक्षणत्वाद्भूतानां (वैद्य 49) रूपस्यासमुदय इति कृत्वा स्रोतआपन्नस्य सदसत्पक्षदृष्टिदर्शनात्सत्कायदृष्टिः प्रहीणा भवति / अत एव सत्कायदृष्टिप्रहीणस्य रागो न प्रवर्तते / एतन्महामते सत्कायदृष्टिलक्षणम् //

विचिकित्सालक्षणं पुनर्महामते यदुत प्राप्तिधर्माधिगमसुदृष्टिलक्षणत्वात्पूर्वं सत्कायदृष्टिद्वयविकल्पप्रहीणत्वाच्च विचिकित्सा धर्मेषु न भवति / न चास्य अन्या शास्तृदृष्टिर्भवति शुद्धाशुद्धितः / एतन्महामते विचिकित्सालक्षणं स्रोतआपन्नस्य //

शीलं पुनर्महामते कथं न परामृशति स्रोतआपन्नः? यदुत दुःखोपपत्त्यायतनलक्षणसंदृष्टत्वान्न परामृशति / परामृष्टिः पुनर्महामते यदुत शीलव्रततपोनियमैर्बालपृथग्जना भोगसुखाभिलाषिणो भवोत्पत्तिं प्रार्थयन्ते, न च परामृशन्ति / एवमन्यत्र स्वप्रत्यात्माधिगमविशेषगामितायां परिणामयन्ति / निर्विकल्पानास्रवधर्मलक्षणाकारेण प्रसज्यन्ते शीलाङ्गैः / एतन्महामते स्रोतआपन्नस्य शीलव्रतपरामर्शलक्षणं भवति / न तु महामते स्रोतआपन्नस्य त्रिसंयोजनप्रहीणस्य रागद्वेषमोहाः प्रवर्तन्ते //

महामतिराह - रागः पुनर्भगवता बहुप्रकार उपदिष्टः / तत्कतमस्तस्यात्र रागः प्रहीणो भवति? भगवानाह - विषयकामेन्द्रियः स्त्रीसंयोगरागः प्रत्युत्पन्नसुखः आयत्यां दुःखजन्महेतुकः खटचपेटलिङ्गितचुम्बितपरिष्वक्ताघ्रातकटाक्षेक्षितैः / तस्य महामते रागो न प्रवर्तते / तत्कस्य हेतोः? यदुत समाधिसुखविहारलाभित्वात् / अत एष प्रहीणो भवति, न निर्वाणाधिगमरागः //

सकृदागामिफललक्षणं पुनर्महामते कतमत्? यदुत सकृद्रूपलक्षणाभासविकल्पः प्रवर्तते / निमित्तदृष्टिलक्ष्यलक्षणाभावाद्ध्यानगतिलक्षणसुदृष्टत्वात्सकृदेतं लोकमागम्य दुःखस्यान्तक्रियायै परिनिर्वास्यति / तेनोच्यते सकृदागामीति / तत्र अनागामीति महामते कथं भवति? यदुत अतीतानागतप्रत्युत्पन्नस्य रूपलक्षणभावाभावप्रवृत्तेर्दृष्टिदोषानुशयविकल्पस्य अनागामित्वादनागामिरूपप्रहीणत्वाच्च संयोजनानामनागामीत्युच्यते / अर्हन् पुनर्महामते ध्यानध्येयसमाधिविमोक्षबलाभिज्ञाक्लेशदुःखविकल्पाभावादर्हन्नित्युच्यते //

महामतिराह - त्रयः पुनर्भगवता अर्हन्तो ऽभिहिताः / तत्कतमस्यायं भगवन्नर्हच्छब्दो निपात्यते? किं भगवन् शमैकायनमार्गप्रतिलम्भिकस्य, उत बोधिप्रणिधानाभ्यस्तकुशलमूलसंमूढस्य, उत निर्मितनैर्माणिकस्य? भगवानाह - शमैकायनमार्गप्रतिलम्भिकस्य महामते श्रावकस्य, न त्वन्येषाम् / अन्ये पुनर्महामते बोधिसत्त्वचर्याचरिताविनो बुद्धनिर्मितनैर्माणिकाश्च उपायकुशलमूलप्रणिधानपूर्वकत्वात्पर्षन्मण्डलेषूपपत्तिं दर्शयन्ति बुद्धपर्षन्मण्डलोपशोभनार्थम् / विकल्पगतिसंस्थानान्तरविचित्रोपदेशो ऽयं महामते यदुत फलाधिगमध्यानध्यातृध्येयविविक्तत्वात्स्वचित्तदृश्योपगमात्फलप्राप्तिलक्षणमुपदिश्यते / पुनरपरं महामते यदि (वैद्य 50) स्रोतआपन्नस्यैतदभविष्यत् - इमानि संयोजनानि, अहमेभिर्न संयुक्त इति, तद्द्वित्वप्रसङ्ग आत्मदृष्टिपतितः स्यादप्रहीणसंयोजनश्च //

पुनरपरं महामते ध्यानाप्रमाणारूप्यधातुसमतिक्रमाय स्वचित्तदृश्यलक्षणव्यावृत्तिः करणीया / संज्ञावेदितनिरोधसमापत्तिश्च महामते स्वचित्तदृश्यगतिव्यतिक्रमस्तस्य न युज्यते चित्तमात्रत्वात् //

तत्रेदमुच्यते -

ध्यानानि चाप्रमाणानि आरूप्याश्च समाधयः / संज्ञानिरोधो निखिलश्चित्तमात्रे न विद्यते // lank_2.174 //

स्रोतापत्तिफलं चैव सकृदागामिनस्तथा / अनागामिफलं चैव अर्हत्त्वं चित्तविभ्रमः // lank_2.175 //

ध्याता ध्यानं च ध्येयं च प्रहाणं सत्यदर्शनम् / कल्पनामात्रमेवेदं यो बुध्यति स मुच्यते // lank_2.176 //

पुनरपरं महामते द्विप्रकारा बुद्धिः प्रविचयबुद्धिश्च विकल्पलक्षणग्राहाभिनिवेशप्रतिष्ठापिका च / तत्र महामते प्रविचयबुद्धिर्नाम यदुत यया बुद्ध्या भावस्वभावलक्षणं प्रविचीयमानं चतुष्कोटिकारहितं नोपलभ्यते, सा प्रविचयबुद्धिः / तत्र महामते चतुष्कोटिका यदुत एकत्वान्यत्वोभयनोभयास्तिनास्तिनित्यानित्यरहितां चतुष्कोटिकामिति वदामि / एतया चतुष्कोटिकया महामते रहिताः सर्वधर्मा इत्युच्यते / इयं महामते चतुष्कोटिका सर्वधर्मपरीक्षायां प्रयोक्तव्या / तत्र महामते विकल्पलक्षणग्राहाभिनिवेशप्रतिष्ठापिका बुद्धिः कतमा? यदुत येन महामते चित्तविकल्पलक्षणग्राहाभिनिवेशेन उष्णद्रवचलकठिनानभूतपरिकल्पलक्षणान् महाभूतान् प्रतिज्ञाहेतुलक्षणदृष्टान्ताभिनिवेशादसद्भूतसमारोपेण समारोपयति, सा विकल्पलक्षणग्राहाभिनिवेशप्रतिष्ठापिका बुद्धिः / एतन्महामते बुद्धिद्वयस्य लक्षणं येन बुद्धिद्वयलक्षणेन समन्वागता बोधिसत्त्वा धर्मपुद्गलनैरात्म्यलक्षणगतिंगता निराभासबुद्धिप्रविचयचर्याभूमिकुशलाः प्रथमां भूमिं प्रतिलभन्ते, समाधिशतं च समापद्यन्ते / बुद्धबोधिसत्त्वशतं च समाधिविशेषप्रतिलम्भेन पश्यन्ति, कल्पशतं च पूर्वान्तापरान्ततो ऽनुप्रविशन्ति, क्षेत्रशतं चावभासयन्ति / क्षेत्रशतं चावभास्य उत्तरोत्तरभूमिलक्षणविधिज्ञाः प्रणिधानवैशेषिकतया विक्रीडन्तो धर्ममेघाभिषेकाभिषिक्तास्तथागतप्रत्यात्मभूमिमधिगम्य दशनिष्ठापदसुनिबद्धधर्माणः सत्त्वपरिपाकाय विचित्रैर्निर्माणकिरणैर्विराजन्ते प्रत्यात्मगतिसुखसमाहिताः //

पुनरपरं महामते बोधिसत्त्वेन महासत्त्वेन महाभूतभौतिककुशलेन भवितव्यम् / कथं च महामते बोधिसत्त्वो महाभूतभौतिककुशलो भवति? तत्र महामते बोधिसत्त्वो महासत्त्व इतः प्रतिसंशिक्षते तत्सत्यं यत्र महाभूतानामसंभवो ऽसंभूतानि चेमानि महामते भूतानीति प्रतिविपश्यति / एवं प्रतिविपश्यन् नाम विकल्पमात्रं स्वचित्तदृश्यमात्रावबोधाद्बाह्यभावाभावान्नाम चित्तदृश्यविकल्पमात्रमिदं यदुत त्रैधातुकं महाभूतभौतिकरहितं प्रतिविपश्यति चातुष्कोटिकनयविशुद्धिमात्मात्मीयरहितं यथाभूतस्वलक्षणावस्थानावस्थितमनुत्पादस्वलक्षणसिद्धम् / (वैद्य 51) तत्र महामते महाभूतेषु कथं भौतिकं भवति? यदुत स्नेहविकल्पमहाभूतं महामते अब्धातुं निष्पादयत्यध्यात्मबाह्यम् / उत्साहविकल्पमहाभूतं महामते तेजोधातुं निष्पादयत्यध्यात्मबाह्यम् / समुदीरणविकल्पमहाभूतं महामते वायुधातुं निष्पादयत्यध्यात्मबाह्यम् / रूपपरिच्छेदविकल्पमहाभूतं पुनर्महामते पृथिवीधातुं जनयत्याकाशसहितमध्यात्मबाह्यम् / मिथ्यासत्याभिनिवेशात्पञ्चस्कन्धकदम्बकं महाभूतभौतिकं प्रवर्तते / विज्ञानं पुनर्महामते विचित्रपदविषयाभिनिवेशाभिलाषहेतुत्वाद्विज्ञानं प्रवर्तते ऽन्यगतिसंधौ / पृथिवीभूतभौतिकानां महामते कारणमस्ति महाभूतानि, न तु महाभूतानाम् / तत्कस्य हेतोः? यदुत भावलिङ्गलक्षणग्रहणसंस्थानक्रियायोगवतां महामते क्रियासंयोगोत्पत्तिर्भवति नालिङ्गवताम् / तस्मादेतन्महामते महाभूतभौतिकलक्षणं तीर्थकरैर्विकल्प्यते न तु मया //

पुनरपरं महामते स्कन्धानां स्कन्धस्वभावलक्षणं निर्देक्ष्यामः / तत्र महामते पञ्च स्कन्धाः / कतमे? यदुत रूपवेदनासंज्ञासंस्कारविज्ञानानि / तत्र महामते चत्वारः स्कन्धा अरूपिणो वेदना संज्ञा संस्कारां विज्ञानं च / रूपं महामते चातुर्महाभौतिकम्, भूतानि च परस्परविलक्षणानि / न च महामते अरूपिणां चतुष्कसंख्या भवत्याकाशवत् / तद्यथा महामते आकाशं संख्यालक्षणातीतम्, अथ च विकल्प्यते एवमाकाशमिति, एवमेव महामते स्कन्धाः संख्यालक्षणगणनातीता भावाभावविवर्जिताश्चातुष्कोटिकरहिताः संख्यागणनानिर्देशेन निर्दिश्यन्ते बालैर्न त्वार्यैः //

आर्यैः पुनर्महामते मायाविचित्ररूपाकृतिवदन्यानन्यवर्जिताः प्रज्ञाप्यन्ते स्वप्नबिम्बपुरुषवत् / आश्रयानन्यत्वादार्यज्ञानगतिसंमोहान्महामते स्कन्धविकल्पः ख्यायते / एतन्महामते स्कन्धानां स्कन्धस्वभावलक्षणम् / स च विकल्पस्त्वया व्यावर्तनीयः, व्यावृत्य विविक्तधर्मोपदेशः करणीयः / सर्वबुद्धपर्षन्मण्डलेषु तीर्थ्यदृष्टिनिवारणाय विविक्तधर्मोपदेशेन महामते क्रियमाणेन धर्मनैरात्म्यदर्शनं विशुध्यते, दूरंगमाभूमिप्रवेशश्च भवति / स दूरंगमां महाभूमिमनुप्रविश्य अनेकसमाधिवशवर्ती भवति / मनोमयकायप्रतिलम्भाच्च समाधिं मायोपमं प्रतिलभते / बलाभिज्ञावशितागतिंगतः सर्वसत्त्वोपजीव्यो भवति पृथिवीवत् / यथा महामते महापृथिवी सर्वसत्त्वोपजीव्या भवति, एवमेव महामते बोधिसत्त्वो महासत्त्वः सर्वसत्त्वोपजीव्यो भवति //

पुनरपरं महामते चतुर्विधं निर्वाणम् / कतमच्चतुर्विधम्? यदुत भावस्वभावाभावनिर्वाणं लक्षणविचित्रभावाभावनिर्वाणं स्वलक्षणभावाभावावबोधनिर्वाणं स्कन्धानां स्वसामान्यलक्षणसंततिप्रबन्धव्युच्छेदनिर्वाणम् / एतन्महामते चतुर्विधं तीर्थकराणां निर्वाणं न तु मत्प्रवचने / मत्प्रवचने पुनर्महामते विकल्पकस्य मनोविज्ञानस्य व्यावृत्तिर्निर्वाणमित्युच्यते //

महामतिराह - ननु भगवता अष्टौ विज्ञानानि व्यवस्थापितानि? भगवानाह - व्यवस्थापितानि महामते / महामतिराह - तद्यदि भगवन् व्यवस्थापितानि, तत्कथं मनोविज्ञानस्यैव (वैद्य 52) व्यावृत्तिर्भवति न तु सप्तानां विज्ञानानाम्? भगवानाह - तद्धेत्वालम्बनत्वान्महामते सप्तानां विज्ञानानां प्रवृत्तिर्भवति / मनोविज्ञानं पुनर्महामते विषयपरिच्छेदाभिनिवेशेन प्रवर्तमानं वासनाभिरालयविज्ञानं प्रपुष्णाति / मनः सहितमात्मात्मीयग्राहाभिनिवेशमन्यनाकारेणानुप्रवर्तते / अभिन्नशरीरलक्षणमालयविज्ञानहेत्वालम्बनं स्वचित्तदृश्यविषयाभिनिवेशाच्चित्तकलापः प्रवर्तते ऽन्योन्यहेतुकः / उदधितरंगा इव महामते स्वचित्तदृश्यविषयपवनेरिताः प्रवर्तन्ते निवर्तन्ते च / अतस्तेन महामते मनोविज्ञानेन व्यावृत्तेन सप्तानां विज्ञानानां व्यावृत्तिर्भवति //

तत्रेदमुच्यते -

नाहं निर्वामि भावेन क्रियया लक्षणेन च / विकल्पहेतुविज्ञाने निवृत्ते निर्वृतो ह्यहम् // lank_2.177 //

तद्धेतुकं तदालम्ब्य मनोगतिसमाश्रयम् / हेतुं ददाति चित्तस्य विज्ञानं च समाश्रितम् // lank_2.178 //

यथा क्षीणे महा)ओधे तरंगाणामसंभवः / तथा विज्ञानवैचित्र्यं निरुद्धं न प्रवर्तते // lank_2.179 //

पुनरपरं महामते परिकल्पितस्वभावप्रभेदनयलक्षणमुपदेक्ष्यामो येन परिकल्पितस्वभावप्रभेदनयलक्षणेन सुप्रतिविभागविद्धेन त्वं च अन्ये च बोधिसत्त्वा महासत्त्वा विकल्पकल्परहिताः प्रत्यात्मार्यस्वगतितीर्थ्यनयगतिसुदृष्टबुद्धयो ग्राह्यग्राहकविकल्पप्रहीणाः परतन्त्रविविधविचित्रलक्षणं परिकल्पितस्वभावाकारं न प्रतिविकल्पयिष्यन्ति / तत्र महामते कतमत्परिकल्पितस्वभावप्रभेदनयलक्षणम्? यदुत अभिलापविकल्पो ऽविधेयविकल्पो लक्षणविकल्पो ऽर्थविकल्पः स्वभावविकल्पो हेतुविकल्पो दृष्टिविकल्पो युक्तिविकल्प उत्पादविकल्पो ऽनुत्पादविकल्पः संबन्धविकल्पो बन्धाबन्धविकल्पः / एतन्महामते परिकल्पितस्वभावप्रभेदनयलक्षणम् //

तत्र महामते अभिलापविकल्पः कतमः? यदुत विचित्रस्वरगीतमाधुर्याभिनिवेशः / एष महामते अभिलापविकल्पः / तत्र महामते अभिधेयविकल्पः कतमः? यदुत अस्ति तत्किंचिदभिधेयवस्तु स्वभावकमार्यज्ञानगतिगम्यं यदाश्रित्याभिलापः प्रवर्तते इति विकल्पयति / तत्र लक्षणविकल्पः कतमः? यदुत तस्मिन्नेवाभिधेये मृगतृष्णाख्ये लक्षणवैचित्र्याभिनिवेशेनाभिनिवेशते यदुत उष्णद्रवचलकठिनलक्षणात्सर्वभावान् विकल्पयति / तत्र अर्थविकल्पः कतमः? यदुत सुवर्णरूप्यविविधरत्नार्थविषयाभिलापः / तत्र स्वभावविकल्पः कतमः? यदुत भावस्वभावावधारणमिदमेवमिदं नान्यथेति तीर्थ्यविकल्पदृष्ट्या विकल्पयन्ति / तत्र हेतुविकल्पः कतमः? यदुत यद्येन हेतुप्रत्ययेन सदसतोर्विभज्यते हेतुलक्षणोत्पत्तितः स हेतुविकल्पः / तत्र दृष्टिविकल्पः कतमः? यदुत नास्त्यस्तित्वैकत्वान्यत्वोभयानुभयकुदृष्टितीर्थ्यविकल्पाभिनिवेशः / (वैद्य 53) तत्र युक्तिविकल्पः कतमः? यदुत आत्मात्मीयलक्षणयुक्तिविग्रहोपदेशः / तत्र उत्पादविकल्पः कतमः? यदुत प्रत्ययैः सदसतोर्भावस्योत्पादाभिनिवेशः / तत्र अनुत्पादविकल्पः कतमः? यदुत अनुत्पन्नपूर्वाः सर्वभावा अभूत्वा प्रत्ययैर्भवन्त्यहेतुशरीराः / तत्र संबन्धविकल्पः कतमः? यदुत सह संबध्यते सुवर्णतन्तुवत् / तत्र बन्धाबन्धविकल्पः कतमः? यदुत बन्धहेतुबन्ध्याभिनिवेशवत् / यथा पुरुषः पाशसंयोगाद्रज्जुग्रन्थिः क्रियते मुच्यते च / एवं महामते परिकल्पितस्वभावप्रभेदनयलक्षणम्, यस्मिन् परिकल्पितस्वभावप्रभेदनयलक्षणे सर्वबालपृथग्जना अभिनिविशन्ते / सदसतः परतन्त्राभिनिवेशाभिनिविष्टा महामते परिकल्पितस्वभाववैचित्र्यमभिनिविशन्ते / मायाश्रयवैचित्र्यदर्शनवदन्यमायादर्शनबुद्ध्या बालैर्विकल्प्यन्ते / माया च महामते वैचित्र्यान्नान्या नानन्या / यद्यन्या स्यात्, वैचित्र्यं मायाहेतुकं न स्यात् / अथानन्या स्यात्, वैचित्र्यान्मायावैचित्र्ययोर्विभागो न स्यात् / स च दृष्टो विभागः / तस्मान्नान्या नानन्या / अत एतस्मात्कारणान्महामते त्वया अन्यैश्च बोधिसत्त्वैर्महासत्त्वैर्माया नास्त्यस्तित्वेन नाभिनिवेष्टव्या //

तत्रेदमुच्यते -

चित्तं विषयसंबन्धं ज्ञानं तर्के प्रवर्तते / निराभासे विशेषे च प्रज्ञा वै संप्रवर्तते // lank_2.180 //

परिकल्पितस्वभावो ऽति परतन्त्रे न विद्यते / कल्पितं गृह्यते भ्रान्त्या परतन्त्रं न कल्प्यते // lank_2.181 //

विविधाङ्गाभिनिर्वृत्त्या यथा माया न सिध्यति / निमित्तं हि तथा चित्रं कल्प्यमानं न सिध्यति // lank_2.182 //

निमित्तं दौष्ठुल्यमयं बन्धनं चित्तसंभवम् / परिकल्पितं ह्यजानानं परतन्त्रैर्विकल्प्यते // lank_2.183 //

यदेतत्कल्पितं भावं परतन्त्रं तदेव हि / कल्पितं हि विचित्राभं परतन्त्रे विकल्प्यते // lank_2.184 //

संवृतिः परमार्थश्च तृतीयं नास्तिहेतुकम् / कल्पितं संवृतिर्ह्युक्ता तच्छेदादार्यगोचरम् // lank_2.185 //

यथा हि योगिनां वस्तु चित्रमेकं विराजते / न ह्यस्ति चित्रता तत्र तथा कल्पितलक्षणम् // lank_2.186 //

यथा हि तैमिरैश्चित्रं कल्प्यते रूपदर्शनम् / तिमिरं न रूपं नारूपं परतन्त्रं तथाबुधैः // lank_2.187 //

हैमं स्यात्तु यथा शुद्धं जलं कलुषवर्जितम् / गगनं हि घनाभावात्तथा शुद्धं विकल्पितम् // lank_2.188 //

नास्ति वै कल्पितो भावः परतन्त्रश्च विद्यते / समारोपापवादं हि विकल्पन्तो विनश्यति // lank_2.189 //

कल्पितं यद्यभावं स्यात्परतन्त्रस्वभावतः / विना भावेन वै भावो भावश्चाभावसंभवः // lank_2.190 //

परिकल्पितं समाश्रित्य परतन्त्रोपलभ्यते / निमित्तनामसंबन्धाज्जायते परिकल्पितम् // lank_2.191 //

अत्यन्तं चाप्यनिष्पन्नं कल्पितं न परोद्भवम् / तदा प्रज्ञायते शुद्धं स्वभावं पारमार्थिकम् // lank_2.192 //

परिकल्पितं दशविधं परतन्त्रं च षड्विधम् / प्रत्यात्मतथताज्ञेयमतो नास्ति विशेषणम् // lank_2.193 //

पञ्च धर्मा भवेत्तत्त्वं स्वभावा हि त्रयस्तथा / एतद्विभावयेद्योगी तथतां नातिवर्तते // lank_2.194 //

निमित्तं परतन्त्रं हि यन्नाम तत्प्रकल्पितम् / परिकल्पितनिमित्तं तु पारतन्त्र्यात्प्रवर्तते // lank_2.195 //

बुद्ध्या विवेच्यमानं तु न तन्त्रं नापि कल्पितम् / निष्पन्नो नास्ति वै भावः कथं बुद्ध्या विकल्प्यते // lank_2.196 //

निष्पन्नो विद्यते भावो भावाभावविवर्जितः / भावाभावविनिर्मुक्तो द्वौ स्वभावौ कथं नु तौ // lank_2.197 //

परिकल्पितस्वभावे द्वौ स्वभावौ द्वौ प्रतिष्ठितौ / कल्पितं दृश्यते चित्रं विशुद्धं चार्यगोचरम् // lank_2.198 //

कल्पितं हि विचित्राभं परतन्त्रैर्विकल्प्यते / अन्यथा कल्प्यमानं हि तीर्थ्यवादं समाश्रयेत् // lank_2.199 //

कल्पना कल्पितेत्युक्तं दर्शनाद्धेतुसंभवत् / विकल्पद्वयनिर्मुक्तं निष्पन्नं स्यात्तदेव हि // lank_2.200 //

पुनरपि महामतिराह - देशयतु मे भगवान् प्रत्यात्मार्यज्ञानगतिलक्षणमेकयानं च, येन भगवन् प्रत्यात्मैकयानगतिलक्षणेन अहं च अन्ये च बोधिसत्त्वा महासत्त्वाः प्रत्यात्मार्यज्ञानैकयानकुशला अपरप्रणेया भविष्यन्ति बुद्धधर्मेषु //

भगवानाह - तेन हि महामते शृणु, साधु च सुष्ठु च मनसिकुरु / भाषिष्ये ऽहं ते / साधु भगवन्निति महामतिर्बोधिसत्त्वो महासत्त्वो भगवतः प्रत्यश्रौषीत् / भगवांस्तस्यैतदवोचत् - प्रमाणाप्तोपदेशविकल्पाभावान्महामते बोधिसत्त्वो महासत्त्व एकाकी रहोगतः स्वप्रत्यात्मबुद्ध्या विचारयत्यपरप्रणेयो दृष्टिविकल्पविवर्जित उत्तरोत्तरतथागतभूमिप्रवेशनतया व्यायमते / एतन्महामते स्वप्रत्यात्मार्यज्ञानगतिलक्षणम् / तत्र एकयानगतिलक्षणं कतमत्? (वैद्य 55) यदुत एकयानमार्गाधिगमावबोधादेकयानमिति वदामि / एकयानमार्गाधिगमावबोधः कतमः? यदुत ग्राह्यग्राहकविकल्पयथाभूतावस्थानादप्रवृत्तेर्विकल्पस्य एकयानावबोधः कृतो भवति / एष एकयानावबोधो महामते नान्यतीर्थ्यश्रावकप्रत्येकबुद्धब्रह्मादिभिः प्राप्तपूर्वो ऽन्यत्र मया / अत एतस्मात्कारणान्महामते एकयानमित्युच्यते //

महामतिराह - किं कारणं भगवता यानत्रयमुपदिष्टम्, एकयानं नोपदिश्यते? भगवानाह - स्वयमपरिनिर्वाणधर्मत्वान्महामते सर्वश्रावकप्रत्येकबुद्धानामेकयानं न वदामि / यस्मान्महामते सर्वश्रावकप्रत्येकबुद्धास्तथागतविनयविवेकयोगोपदेशेन विमुच्यन्ते न स्वयम् //

पुनरपरं महामते ज्ञेयावरणकर्मवासनाप्रहीणत्वात्सर्वश्रावकप्रत्येकबुद्धानां नैकयानम् / धर्मनैरात्म्यानवबोधाच्च अचिन्त्यपरिणामच्युतेरप्राप्तिवाच्च यानत्रयं देशयामि श्रावकाणाम् / यदा तेषां महामते सर्वदोषवासनाः प्रहीणा भवन्ति धर्मनैरात्म्यावबोधात्, तदा ते वासनादोषसमाधिमदाभावादनास्रवधातौ प्रतिविबुध्यन्ते / पुनरपि लोकोत्तरानास्रवधातुपर्यापन्नान् संभारान् परिपूर्य अचिन्त्यधर्मकायवशवर्तितां प्रतिलप्स्यन्ते //

तत्रेदमुच्यते -

देवयानं ब्रह्मयानं श्रावकीयं तथैव च / ताथागतं च प्रत्येकं यानानेतान् वदाम्यहम् // lank_2.201 //

यानानां नास्ति वै निष्ठा यावच्चित्तं प्रवर्तते / चित्ते तु वै परावृत्ते न यानं न च यानिनः // lank_2.202 //

यानव्यवस्थानं नैवास्ति यानभेदं वदाम्यहम् / परिकर्षणार्थं बालानां यानभेदं वदाम्यहम् // lank_2.203 //

विमुक्तयस्तथा तिस्रो धर्मनैरात्म्यमेव च / समताज्ञानक्लेशाख्या विमुक्त्या ते विवर्जिताः // lank_2.204 //

यथा हि काष्ठमुदधौ तरंगैर्विप्रवाह्यते / तथा हि श्रावको मूढो लक्षणेन प्रवाह्यते // lank_2.205 //

वासनाक्लेशसंबद्धाः पर्युत्थानैर्विसंयुताः / समाधिमदमत्तास्ते धातौ तिष्ठन्त्यनास्रवे // lank_2.206 //

निष्ठागतिर्न तस्यास्ति न च भूयो निवर्तते / समाधिकायं संप्राप्य आ कल्पान्न प्रबुध्यते // lank_2.207 //

यथा हि मत्तपुरुषो मद्याभावाद्विबुध्यते / तथा ते बुद्धधर्माख्यं कायं प्राप्स्यन्ति मामकम् // lank_2.208 //

इति लङ्कावतारे षट्त्रिंशत्साहस्रसर्वधर्मसमुच्चयो नाम द्वितीयः परिवर्तः //

स्तर्त् परिवर्त 3

अनित्यतापरिवर्तो नाम तृतीयः /

अथ खलु भगवान् पुनरपि महामतिं बोधिसत्त्वं महासत्त्वमेतदवोचत् - मनोमयकायगतिप्रभेदनयलक्षणं महामते उपदेक्ष्यामि / तच्छृणु, साधु च सुष्ठु च मनसिकुरु / भाषिष्ये ऽहं ते / साधु भगवन्निति महामतिर्बोधिसत्त्वो महासत्त्वो भगवतः प्रत्यश्रौषीत् / भगवांस्तस्यैतदवोचत् - त्रिप्रकारो महामते कायो मनोमयः / कतमस्त्रिप्रकारः? यदुत समाधिसुखसमापत्तिमनोमयो धर्मस्वभावावबोधमनोमयो निकायसहजसंस्कारक्रियामनोमयश्च / प्रथमोत्तरोत्तरभूमिलक्षणपरिज्ञानादधिगच्छन्ति योगिनः / तत्र कतमो महामते समाधिसुखसमापत्तिमनोमयः कायः? यदुत त्रिचतुर्थपञ्चम्यां भूमौ स्वचित्तविविधविवेकविहारेणचित्तोदधिप्रवृत्तितरंगविज्ञानलक्षणसुखसमापत्तिमनसो ऽप्रवृत्तिः स्वचित्तदृश्यविषयाभावाभावपरिज्ञानान्मनसो मनोमयः काय इत्युच्यते / तत्र धर्मस्वभावावबोधमनोमयः कायः कतमः? यदुत अष्टम्यां भूमौ मायादिधर्मनिराभासप्रविचयावबोधेन चित्ताश्रयपरावृत्तस्य मायोपमसमाधिप्रतिलम्भादन्येषां च समाधिमुखानां प्रतिलम्भादनेकलक्षणवशिताभिज्ञाकुसुमितं मनोजवसदृशं मायास्वप्नबिम्बप्रख्यमभौतिकं भूतभौतिकसदृशं सर्वरूपविचिअत्राङ्गसमुदितं सर्वबुद्धक्षेत्रपर्षन्मण्डलानुगतं कायं धर्मस्वभावगतिंगतत्वान्मनोमय इत्युच्यते / तत्र निकायसहजसंस्कारक्रियामनोमयः कायः कतमः? यदुत सर्वबुद्धधर्मप्रत्यात्माधिगमसुखलक्षणावबोधान्निकायसहजसंस्कारक्रियामनोमय इत्युच्यते / अत्र ते महामते कायत्रयलक्षणप्रविचयावबोधे योगः करणीयः //

तत्रेदमुच्यते -

न मे यानं महायानं न घोषो न च अक्षराः / न सत्या न विमोक्षा वै न निराभासगोचरम् // lank_3.1 //

किं तु यानं महायानं समाधिवशवर्तिता / कायो मनोमयश्चित्रो वशितापुष्पमण्डितः // lank_3.2 //

अथ खलु महामतिर्बोधिसत्त्वो महासत्त्वः पुनरपि भगवन्तमेतदवोचत् - पञ्चानन्तर्याणि भगवता निर्दिष्टानि / कतमानि तानि भगवन् पञ्चानन्तर्याणि यान्यध्यापद्य कुलपुत्रो वा कुलदुहिता वा अवीचिको भवति? भगवानाह - तेन हि महामते शृणु, साधु च सुष्ठु च मनसिकुरु / भाषिष्ये ऽहं ते / साधु भगवन्निति महामतिर्बोधिसत्त्वो महासत्त्वो भगवतः प्रत्यश्रौषीत् / भगवानेतदवोचत् - तत्र महामते पञ्चानन्तर्याणि कतमानि? यदुत मातृपित्रर्हद्वधसंघभेदास्तथागतकाये दुष्टचित्तरुधिरोत्पादश्च //

तत्र महामते माता कतमा सत्त्वानाम्? यदुत तृष्णा पौनर्भविकी नन्दीरागसहगता मातृत्वेनोत्तिष्ठते / अविद्या पितृत्वेनायतनग्रामस्योत्पत्तये / अनयोरुभयोर्मातापित्रोरत्यन्तमूलोपच्छेदान्मातृपितृवधो (वैद्य 57) भवति / तत्र अनुशयानामरिप्रख्याणां मूषिकाविषवत्प्रकोपधर्मिणामत्यन्तसमुद्धातादर्हद्वधो भवति / तत्र संधभेदः कतमः? यदुत भिन्नान्योन्यलक्षणस्य स्कन्धसंघातस्यात्यन्तमूलोपघातात्संघभेद इत्युच्यते / स्वसामान्यबाह्यस्वचित्तदृश्यमात्रावबोधकानां महामते अष्टानां विज्ञानकायानां विमोक्षत्रयानास्रवदुष्टविकल्पेनात्यन्तोपघाताद्विज्ञानबुद्धस्य दुष्टचित्तरुधिरोत्पादनादानन्तर्यकारीत्युच्यते / एतानि महामते आध्यात्मिकानि पञ्चानन्तर्याणि यान्यध्यापद्य कुलपुत्रो वा कुलदुहिता वा आनन्तर्यकारी भवत्यभिसमितधर्मः //

पुनरपरं महामते बाह्यानि ते आनन्तर्याण्युपदेक्ष्यामि, यैरुपदिष्टैस्त्वं च अन्ये च बोधिसत्त्वा अनागते ऽध्वनि संमोहं न गमिष्यन्ति / तत्र कतमानि तानि? यदुत यानि देशनापाठे ऽनुसंवर्णितान्यानन्तर्याणि, यान्यध्यापद्य तिसॄणां विमुक्तीनामन्यतरान्यतरस्यां नाभिसमेता भवन्ति अन्यत्र निर्मिताधिष्ठानाभिसमयात् / निर्मिताधिष्ठानश्रावको हि महामते बोधिसत्त्वाधिष्ठानेन वा तथागताधिष्ठानेन वा / यस्य कस्यचिदन्यस्यानन्तर्यकारिणः कौकृत्यं तस्य कौकृत्यदृष्टिविनिवर्तनार्थं निक्षिप्तधुरस्य कौकृत्यदृष्ट्यभावार्थम् / पुनरपि प्रोत्साहनां करिष्यत इति कृत्वा निर्मिताधिष्ठानाभिसमयः प्रदर्श्यते मया / नास्त्येकान्तेन महामते आनन्तर्यकारिणो ऽभिसमयः अन्यत्र स्वचित्तदृश्यभावनामात्रतावबोधाद्देहभोगप्रतिष्ठागतिविकल्पात्मात्मीयग्राहविविक्तदर्शनात्कदा - चित्कर्हिचित्कल्याणमित्रमासाद्य अन्यगतिसंधौ स्वविकल्पदोषैर्विमुच्यते //

तत्रेदमुच्यते -

तृष्णा हि माता इत्युक्ता अविद्या च पिता तथा / विषयावबोधाद्विज्ञानं बुद्ध इत्युपदिश्यते // lank_3.3 //

अर्हन्तो ह्यनुशयाः पञ्च संघाः स्कन्धकदम्बकः / निरन्तरान्तरच्छेदात्कर्मस्यानन्तरं भवेत् // lank_3.4 //

पुनरपि महामतिराह - देशयतु मे भगवान् बुद्धानां भगवतां कथं भगवन् बुद्धानां बुद्धता भवति? भगवानाह - धर्मपुद्गलनैरात्म्यावबोधान्महामते आवरणद्वयपरिज्ञानावबोधाच्च च्युतिद्वयाधिगमात्क्लेशद्वयप्रहाणाच्च महामते बुद्धानां भगवतां बुद्धता भवति / एतेषामेव महामते धर्माणामधिगमाच्छ्रावकप्रत्येकबुद्धसंबुद्धता भवति / अत एतस्मान्महामते एकयानं देशयामि //

तत्रेदमुच्यते -

नैरात्म्यस्य द्वयं क्लेशास्तथैवावरणद्वयम् / अचिन्त्यपरिणामिन्याश्च्युतेर्लाभात्तथागतः // lank_3.5 //

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.