Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 3/8

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa

सद्धर्मपुण्डरीकसूत्र

Thông tin
GRETIL — P.L. Vaidya, Darbhanga : The Mithila Institute, 1960 (Buddhist Sanskrit Texts, 6).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

शृणोथ मे देवमनुष्यसंघा उपसंक्रमध्वं मम दर्शनाय / तथागतो ऽहं भगवाननाभिभूः संतारणार्थं इह लोकि जातः // saddhp_5.19 //

भाषामि च प्राणिसहस्रकोटिनां धर्मं विशुद्धं अभिदर्शनीयम् / एका च तस्यो समता तथत्वं यदिदं विमुक्तिश्चथ निर्वृती च // saddhp_5.20 //

स्वरेण चैकेन वदामि धर्मं बोधिं निदानं करियान नित्यम् / समं हि एतद्विषमत्व नास्ति न कश्चि विद्वेषु न रागु विद्यते // saddhp_5.21 //

अनुनीयता मह्य न काचिदस्ति प्रेमा च दोषश्च न मे कहिंचित् / समं च धर्मं प्रवदामि देहिनां यथैकसत्त्वस्य तथा परस्य // saddhp_5.22 //

अनन्यकर्मा प्रवदामि धर्मं गच्छन्तु तिष्ठन्तु निषीदमानः / निषण्ण शय्यासनमारुहित्वा किलासिता मह्य न जातु विद्यते // saddhp_5.23 //

संतर्पयामी इमु सर्वलोकं मेघो व वारिं सम मुञ्चमानः / आर्येषु नीचेषु च तुल्यबुद्धिर्दुःशीलभूतेष्वथ शीलवत्सु // saddhp_5.24 //

विनष्टचारित्र तथैव ये नराश्चारित्रआचारसमन्विताश्च / दृष्टिस्थिता ये च विनष्टदृष्टी सम्यग्दृशो ये चाविशुद्धदृष्टयः // saddhp_5.25 //

हीनेषु चोत्कृष्टमतीषु चापि मृद्विन्द्रियेषु प्रवदामि धर्मम् / किलासितां सर्व विवर्जयित्वा सम्यक् प्रमुञ्चाम्यहु धर्मवर्षम् // saddhp_5.26 //

यथाबलं च श्रुणियान मह्यं विविधासु भूमीषु प्रतिष्ठिहन्ति / देवेषु मर्त्येषु मनोरमेषु शक्रेषु ब्रह्मेष्वथ चक्रवर्तिषु // saddhp_5.27 //

क्षुद्रानुक्षुद्रा इम ओषधीयो क्षुद्रीक एता इह याव लोके / अन्या च मध्या महती च ओषधी शृणोथ ताः सर्व प्रकाशयिष्ये // saddhp_5.28 //

अनास्रवं धर्म प्रजानमाना निर्वाणप्राप्ता विहरन्ति ये नराः / षडभिज्ञ त्रैविद्य भवन्ति ये च सा क्षुद्रिका ओषधि संप्रवुत्ता // saddhp_5.29 //

गिरिकन्देषू विहरन्ति ये च प्रत्येकबोधिं स्पृहयन्ति ये नराः / ये ईदृशा मध्यविशुद्धबुद्धयः सा मध्यमा ओषधि संप्रवुत्ता // saddhp_5.30 //

ये प्रार्थयन्ते पुरुषर्षभत्वं बुद्धो भविष्ये नरदेवनाथः / वीर्यं च ध्यानं च निषेवमाणाः सा ओषधी अग्र इयं प्रवुच्चति // saddhp_5.31 //

ये चापि युक्ताः सुगतस्य पुत्रा मैत्रीं निषेवन्तिह शान्तचर्याम् / निष्काङ्क्षप्राप्ता पुरुषर्षभत्वे अयं द्रुमो वुच्यति एवरूपः // saddhp_5.32 //

अविवर्तिचक्रं हि प्रवर्तयन्ता ऋद्धीबलस्मिन् स्थित ये च धीराः / प्रमोचयन्तो बहु प्राणिकोटी महाद्रुमो सो च प्रवुच्चते हि // saddhp_5.33 //

समश्च सो धर्म जिनेन भाषितो मेघेन वा वारि समं प्रमुक्तम् / चित्रा अभिज्ञा इम एवरूपा यथौषधीयो धरणीतलस्थाः // saddhp_5.34 //

अनेन दृष्टान्तनिदर्शनेन उपायु जानाहि तथागतस्य / यथा च सो भाषति एकधर्मं नानानिरुक्ती जलबिन्दवो वा // saddhp_5.35 //

ममापि चो वर्षतु धर्मवर्षं लोको ह्ययं तर्पितु भोति सर्वः / यथाबलं चानुविचिन्तयन्ति सुभाषितं एकरसं पि धर्मम् // saddhp_5.36 //

तृणगुल्मका वा यथ वर्षमाणे मध्या पि वा ओषधियो यथैव / द्रुमा पि वा ते च महाद्रुमा वा यथ शोभयन्ते दशदिक्षु सर्वे // saddhp_5.37 //

इयं सदा लोकहिताय धर्मता तर्पेति धर्मेणिमु सर्वलोकम् / संतर्पितश्चाप्यथ सर्वलोकः प्रमुञ्चते ओषधि पुष्पकाणि // saddhp_5.38 //

मध्यापि च ओषधियो विवर्धयी अर्हन्त ये ते स्थित आस्रवक्षये / प्रत्येकबुद्धा वनषण्डचारिणो निष्पादयी धर्ममिमं सुभाषितम् // saddhp_5.39 //

बहुबोधिसत्त्वाः स्मृतिमन्त धीराः सर्वत्र त्रैधातुकि ये गतिंगताः / पर्येषमाणा इममग्रबोधिं द्रुमा व वर्धन्ति ति नित्यकालम् // saddhp_5.40 //

ये ऋद्धिमन्तश्चतुध्यानध्यायिनो ये शून्यतां श्रुत्व जनेन्ति प्रीतिम् / रश्मीसहस्राणि प्रमुञ्चमानास्ते चैव वुच्चन्ति महाद्रुमा इह // saddhp_5.41 //

एतादृशी काश्यप धर्मदेशना मेघेन वा वारि समं प्रमुक्तम् / बह्वी विवर्धन्ति महौषधीयो मनुष्यपुष्पाणि अनन्तकानि // saddhp_5.42 //

स्वप्रत्ययं धर्म प्रकाशयामि कालेन दर्शेमि च बुद्धबोधिम् / उपायकौशल्यु ममैतदग्रं सर्वेष चो लोकविनायकानाम् // saddhp_5.43 //

परमार्थ एवं मयं भूतभाषितो ते श्रावकाः सर्वि न एन्ति निर्वृतिम् / चरन्ति एते वर बोधिचारिकां बुद्धा भविष्यन्तिमि सर्वश्रावकाः // saddhp_5.44 //

पुनरपरं काश्यप तथागतः सत्त्वविनये समो न चासमः । तद्यथा काश्यप चन्द्रसुर्यप्रभा सर्वलोकमवभासयति कुशलकारिणमकुशलकारिणं चोर्ध्वावस्थितमधरावस्थितं च सुगन्धि दुर्गन्धि, सा सर्वत्र समं प्रभा निपतति न विषमम्, एवमेव काश्यप तथागतानामर्हतां सम्यक्संबुद्धानां सर्वज्ञज्ञानचित्तप्रभा सर्वेषु पञ्चगत्युपपन्नेषु सत्त्वेषु यथाधिमुक्तिं महायानिकप्रत्येकबुद्धयानिकश्रावकयानिकेषु सद्धर्मदेशना समं प्रवर्तते । न च तथागतस्य ज्ञानप्रभाया ऊनता वा अतिरिक्तता वा यथापुण्यज्ञानसमुदागमाय संभवति । न सन्ति काश्यप त्रीणि यानानि । केवलमन्योन्यचरिताः सत्त्वाः, तेन त्रीणि यानानि प्रज्ञप्यन्ते ॥

एवमुक्ते आयुष्मान् महाकाश्यपो भगवन्तमेतदवोचत् - यदि भगवन् न सन्ति त्रीणि यानानि, किं कारणं प्रत्युत्पन्ने ऽध्वनि श्रावकप्रत्येकबुद्धबोधिसत्त्वानां प्रज्ञप्तिः प्रज्ञप्यते? एवमुक्ते भगवानायुष्मन्तं महाकाश्यपमेतदवोचत् - तद्यथा काश्यप कुम्भकारः समासु मृत्तिकासु भाजनानि करोति । तत्र कानिचिद् गुडभाजनानि भवन्ति, कानिचिद् घृतभाजनानि, कानिचिद् दधिक्षीरभाजनानि, कानिचिद् हीनान्यशुचिभाजनानि भवन्ति, न च मृत्तिकाया नानात्वम्, अथ च द्रव्यप्रक्षेपमात्रेण भाजनानां नानात्वं प्रज्ञायते । एवमेव काश्यप एकमेवेदं यानं यदुत बुद्धयानम् । न द्वितीयं न तृतीयं वा यानं संविद्यते ॥

एवमुक्ते आयुष्मान् महाकाश्यपो भगवन्तमेतदवोचत् - यद्यपि भगवन् सत्त्वा नानाधिमुक्तयो ये त्रैधातुकान्निःसृताः, किं तेषामेकं निर्वाणमुत द्वे त्रीणि वा? भगवानाह - सर्वधर्मसमतावबोधाद्धि काश्यप निर्वाणम् । तच्चैकम्, न द्वे न त्रीणि । तेन हि काश्यप उपमां ते करिष्यामि । उपमया इहैकत्या विज्ञपुरुषा भाषितस्यार्थमाजानन्ति । तद्यथा काश्यप जात्यन्धः पुरुषः । स एवं ब्रूयान्न सन्ति सुवर्णदुर्वणानि रूपाणि, न सन्ति सुवर्णदुर्वर्णानां रूपाणां द्रष्टारः, न स्तः सूर्याचन्द्रमसौ, न सन्ति नक्षत्राणि, न सन्ति ग्रहाः, न सन्ति ग्रहाणां द्रष्टारः । अथान्ये पुरुषास्तस्य जात्यन्धस्य पुरुषस्य पुरत एवं वदेयुः - सन्ति सुवर्णदुर्वर्णानि रूपाणि, सन्ति सुवर्णदुर्वर्णानां रूपाणां द्रष्टारः, स्तः सूर्याचन्द्रमसौ, सन्ति नक्षत्राणि, सन्ति ग्रहाः, सन्ति ग्रहाणां द्रष्टारः । स च जात्यन्धः पुरुषस्तेषां पुरुषाणां न श्रद्दध्यात्, नोक्तं गृह्णीयात् । अथ कश्चिद् वैद्यः सर्वव्याधिज्ञः स्यात् । स तं जात्यन्धं पुरुषं पश्येत् । तस्यैवं स्यात् - तस्य पुरुषस्य पूर्वपापेन कर्मणा व्याधिरुत्पन्नः । ये च केचन व्याधय उत्पद्यन्ते, ते सर्वे चतुर्विधाः - वातिकाः पैत्तिकाः श्लैःमिकाः सांनिपातिकाश्च । अथ स वैद्यस्तस्य व्याधेर्व्युपशमनार्थं पुनः पुनरुपायं चिन्तयेत् । तस्यैवं स्यात् - यानि खल्विमानि द्रव्याणि प्रचरन्ति, न तैः शक्यो ऽयं व्याधिश्चिकित्सितुम् । सन्ति तु हिमवति पर्वतराजे चतस्र ओषधयः । कतमाश्चतस्रः? तद्यथा - प्रथमा सर्ववर्णरसस्थानानुगता नाम, द्वितीया सर्वव्याधिप्रमोचनी नाम, तृतीया सर्वविषविनाशनी नाम, चतुर्थी

यथास्थानस्थितसुखप्रदा नाम । इमाश्चतस्रः ओषधयः । अथ स वैद्यस्तस्मिन् जात्यन्धे कारुण्यमुत्पाद्य तादृशमुपायं चिन्तयेत्, येनोपायेन हिमवन्तं पर्वतराजं शक्नुयाद्गन्तम् । गत्वा चोर्ध्वमप्यारोहेत्, अधो ऽप्यवतरेत्, तिर्यगपिप्रविचिनुयात् । स एवं प्रविचिन्वंस्ताश्चतस्र ओषधीरारागयेत् । आराग्य च कांचिद्दन्तैः क्षोदितां कृत्वा दद्यात्, कांचित् पेषयित्वा दद्यात्, कांचिदन्यद्रव्यसंयोजितां पाचयित्वा दद्यात्, कांचिदामद्रव्यसंयोजितां कृत्वा दद्यात्, कांचिच्छलाकया शरीरस्थानं विद्ध्वा दद्यात्, कांचिदग्निना परिदाह्य दद्यात्, कांचिदन्योन्यद्रव्यसंयुक्तां यावत् पानभोजनादिष्वपि योजयित्वा दद्यात् । अथ स जात्यन्धपुरुषस्तेनोपाययोगेन चक्षुः प्रतिलभेत । स प्रतिलब्धचक्षुर्बहिरध्यात्मं दूरे आसन्ने च चन्द्रसूर्यप्रभां नक्षत्राणि ग्रहान् सर्वरूपाणि च पश्येत् । एवं च वदेत् - अहो बताहं मूढः, यो ऽहं पूर्वमाचक्षमाणानां न श्रद्दधामि, नोक्तं (वैद्य 92) गृह्णामि । सो ऽहमिदानीं सर्वं पश्यामि । मुक्तो ऽस्मि अन्धभावात् । प्रतिलब्धचक्षुश्चास्मि । न च मे कश्चिद् विशिष्टतरो ऽस्तीति । तेन च समयेन पञ्चाभिज्ञा ऋषयो भवेयुर्दिव्यचक्षुर्दिव्यश्रोत्रपरचित्तज्ञानपूर्वनिवासानुस्मृतिज्ञानर्द्धिविमोक्षक्रियाकुशलाः, ते तं पुरुषमेवं वदेयुः - केवलं भोः पुरुष त्वया चक्षुः प्रतिलब्धम् । न तु भवान् किंचिज्जानाति । कुतो ऽभिमानस्ते समुत्पन्नः? न च ते ऽस्ति प्रज्ञा । न चासि पण्डितः । तमेनमेवं वदेयुः - यदा त्वं भोः पुरुष अन्तर्गृहं निषण्णो बहिरन्यानि रूपाणि न पश्यसि, न च जानासि, नापि ते ये सत्त्वाः स्निग्धचित्ता वा द्रुग्धचित्ता वा । न विजानीषे

पञ्चयोजनान्तरस्थितस्य जनस्य भाषमाणस्य । भेरीशङ्खादीनां शब्दं न प्रजानासि, न शृणोषि । क्रोशान्तरमप्यनुत्क्षिप्य पादौ न शक्नोषि गन्तुम् । जातसंवृद्धश्चासि मातुः कुक्षौ । तां च क्रियां न स्मरसि । तत्कथमसि पण्डितः? कथं च सर्वं पश्यामीति वदसि? तत्साधु भोः पुरुष यदन्धकारं तत्प्रकाशमिति संजानीषे, यच्च प्रकाशं तदन्धकारमिति संजानीषे ॥

अथ स पुरुषस्तान् ऋषीनेवं वदेत् - क उपायः, किं वा शुभं कर्म कृत्वेदृशीं प्रज्ञां प्रतिलभेय, युष्माकं प्रसादाच्चैतान् गुणान् प्रतिलभेय? अथ खलु ते ऋषयस्तस्य पुरुषस्यैवं कथयेयुः - यदीच्छसि, अरण्ये वस । पर्वतगुहासु वा निषण्णो धर्मं चिन्तय । क्लेशाश्च ते प्रहातव्याः । तथा धूतगुणसमन्वागतो ऽभिज्ञाः प्रतिलप्स्यसे । अथ स पुरुषस्तमर्थं गृहीत्वा प्रव्रजितः । अरण्ये वसन् एकाग्रचित्तो लोकतृष्णां प्रहाय पञ्चाभिज्ञाः प्राप्नुयात् । प्रतिलब्धाभिज्ञश्च चिन्तयेत् - यदहं पूर्वमन्यत्कर्म कृतवान्, तेन मे न कश्चिद् गुणो ऽधिगतः । इदानीं यथाचिन्तितं गच्छामि । पूर्वं चाहमल्पप्रज्ञो ऽल्पप्रतिसंवेदी अन्धभूतो ऽस्म्यासीत् ॥

इति हि काश्यप उपमैषा कृता अस्यार्थस्य विज्ञप्तये । अयं च पुनरत्रार्थो द्रष्टव्यः । जात्यन्ध इति काश्यप षड्गतिसंसारस्थितानां सत्त्वानामेतदधिवचनम्, ये सद्धर्मं न जानन्ति, क्लेशतमोन्धकारं च संवर्धयन्ति । ते चाविद्यान्धाः । अविद्यान्धाश्च संस्कारानुपविचिन्वति, संस्कारप्रत्ययं च नामरूपम्, यावदेवमस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो भवति । एवमविद्यान्धास्तिष्ठन्ति सत्त्वाः संसारे । तथागतस्तु करुणां जनयित्वा त्रैधातुकान्निःसृतः पितेव प्रिये एकपुत्रके करुणां जनयित्वा त्रैधातुके ऽवतीर्य सत्त्वान् संसारचक्रे परिभ्रमतः संपश्यति । न च ते संसारान्निःसरणं प्रजानन्ति । अथ भगवांस्तान् प्रज्ञाचक्षुषा पश्यति । दृष्ट्वा च जानाति - अमी सत्त्वाः पूर्वं कुशलं कृत्वा मन्दद्वेषास्तीव्ररागाः, मन्दरागास्तीव्रद्वेषाः, केचिदल्पप्रज्ञाः, केचित् पण्डिताः, केचित्परिपाकशुद्धाः, केचिन्मिथ्यादृष्टयः । तेषां सत्त्वानां तथागत उपायकौशल्येन त्रीणि यानानि देशयति । तत्र यथा ते ऋषयः पञ्चाभिज्ञा विशुद्धचक्षुषः, एवं बोधिसत्त्वा बोधिचित्तान्युत्पाद्य अनुत्पत्तिकीं धर्मक्षान्तिं प्रतिलभ्य अनुत्तरां सम्यक्संबोधिमभिसंबुध्यन्ते ॥

तत्र यथासौ महावैद्यः, एवं तथागतो द्रष्टव्यः । यथासौ जात्यन्धस्तथा मोहान्धाः सत्त्वा द्रष्टव्याः । यथा वातपित्तश्लेष्माणः, एवं रागद्वेषमोहाः, द्वाषष्टि च दृष्टिकृतानि द्रष्टव्यानि । यथा चतस्र ओषधयस्तथा शून्यतानिमित्ताप्रणिहितनिर्वाणद्वारं च द्रष्टव्यम् । यथा यथा द्रव्याण्युपयुज्यन्ते, तथा तथा व्याधयः प्रशाम्यन्तीति । एवं शून्यतानिमित्ताप्रणिहितानि विमोक्षमुखानि भावयित्वा सत्त्वा अविद्यां निरोधयन्ति । अविद्यानिरोधात् संस्कारनिरोधः, यावदेवमस्य केवलस्य महतो दुःखस्कन्धस्य निरोधो भवति । एवं चास्य चित्तं न कुशले तिष्ठति न पापे ॥

यथा अन्धश्चक्षुः प्रतिलभते, तथा श्रावकप्रत्येकबुद्धयानीयो द्रष्टव्यः । संसारक्लेशबन्धनानि च्छिनत्ति । क्लेशबन्धनान्निर्मुक्तः प्रमुच्यते षङ्गतिकात् त्रैधातुकात् । तेन श्रावकयानीयः एवं जानाति, एवं च वाचं भाषते - न सन्त्यपरे धर्मा अभिसंबोद्धव्याः । निर्वाणप्राप्तो ऽस्मीति । अथ खलु तथागतस्तस्मै धर्मं देशयति । येन सर्वधर्मा न प्राप्ताः, कुतस्तस्य निर्वाणमिति? तं भगवान् बोधौ समादापयति । स उत्पन्नबोधिचित्तो न संसारस्थितो न निर्वाणप्राप्तो भवति । सो ऽवबुध्य त्रैधातुकं दशसु दिक्षु शून्यं निर्मितोपमं मायोपमं स्वप्नमरीचिप्रतिश्रुत्कोपमं लोकं पश्यति । स सर्वधर्माननुत्पन्नाननिरुद्धान् अबद्धानमुक्तान् अतमोन्धकारान् नप्रकाशान् पश्यति । य एवं गम्भीरान् धर्मान् पश्यति, स पश्यति अपश्यनया सर्वत्रैधातुकं परिपूर्णमन्योन्यसत्त्वाशयाधिमुक्तम् ॥

अथ खलु भगवानिममेवार्थं भूयस्या मात्रया संदर्शयमानः तस्यां वेलायामिमा गाथा अभाषत -

चन्द्रसूर्यप्रभा यद्वन्निपतन्ति समं नृषु / गुणवत्स्वथ पापेषु प्रभाया नोनपूर्णता // saddhp_5.45 //

तथागतस्य प्रज्ञाभा समा ह्यादित्यचन्द्रवत् / सर्वसत्त्वान् विनयते न चोना नैव चाधिका // saddhp_5.46 //

यथा कुलालो मृद्भाण्डं कुर्वन् मृत्सु समास्वपि / भवन्ति भाजना तस्य गुडक्षीरधृताम्भसाम् // saddhp_5.47 //

अशुचेः कानिचित्तत्र दध्नो ऽन्यानि भवन्ति तु / मृदमेकां स गृह्णाति कुर्वन् भाण्डानि भार्गवः // saddhp_5.48 //

यादृक् प्रक्षिप्यते द्रव्यं भाजनं तेन लक्ष्यते / सत्त्वाविशेषे ऽपि तथा रुचिभेदात्तथागताः // saddhp_5.49 //

यानभेदं वर्णयन्ति बुद्धयानं तु निंश्चितम् / संसारचक्रस्याज्ञानान्निर्वृतिं न विजानते // saddhp_5.50 //

यस्तु शून्यान् विजानाति धर्मानात्मविवर्जितान् / संबुद्धानां भगवतां बोधिं जानाति तत्त्वतः // saddhp_5.51 //

प्रज्ञामध्यव्यवस्थानात् प्रत्येकजिन उच्यते / शून्यज्ञानविहीनत्वाच्छ्रावकः संप्रभाष्यते // saddhp_5.52 //

सर्वधर्मावबोधात्तु सम्यक्संबुद्ध उच्यते / तेनोपायशतैर्नित्यं धर्मं देशेति प्राणिनाम् // saddhp_5.53 //

यथा हि कश्चिज्जात्यन्धः सूर्येन्दुग्रहतारकाः / अपश्यन्नेवमाहासौ नास्ति रूपाणि सर्वशः // saddhp_5.54 //

जात्यन्धे तु महावैद्यः कारुण्यं संनिवेश्य ह / हिमवन्तं स गत्वान तिर्यगूर्ध्वमधस्तथा // saddhp_5.55 //

सर्ववर्णरस्थाना नगाल्लभत ओषधीः / एवमादीश्चतस्रो ऽथ प्रयोगमकरोत्ततः // saddhp_5.56 //

दन्तैः संचूर्ण्य कांचित्तु पिष्ट्वा चान्यां तथापराम् / सूच्यग्रेण प्रवेश्याङ्गे जात्यन्धाय प्रयोजयेत् // saddhp_5.57 //

स लब्धचक्षुः संपश्येत् सूर्येन्दुग्रहतारकाः / एवं चास्य भवेत्पूर्वज्ञानात्तदुदाहृतम् // saddhp_5.58 //

एवं सत्त्वा महाज्ञाना जात्यन्धाः संसरन्ति हि / प्रतीत्योत्पादचक्रस्य अज्ञानाद्दुःखवर्त्मनः // saddhp_5.59 //

एवमज्ञानसंमूढे लोके सर्वविदुत्तमः / तथागतो महावैद्य उत्पन्नः करुणात्मकः // saddhp_5.60 //

उपायकुशलः शास्ता सद्धर्मं देशयत्यसौ / अनुत्तरां बुद्धबोधिं देशयत्यग्रयानिके // saddhp_5.61 //

प्रकाशयति मध्यां तु मध्यप्रज्ञाय नायकः / संसारभीरवे बोधिमन्यां संवर्णयत्यपि // saddhp_5.62 //

त्रैधातुकान्निःसृतस्य श्रावकस्य विजानतः / भवत्येवं मया प्राप्तं निर्वाणममलं शिवम् // saddhp_5.63 //

तामेव तत्र प्रकाशेमि नैतन्निर्वाणमुच्यते / सर्वधर्मावबोधात्तु निर्वाणं प्राप्यते ऽमृतम् // saddhp_5.64 //

महर्षयो यथा तस्मै करुणां संनिवेश्य वै / कथयन्ति च मूढो ऽसि मा ते ऽभूज्ज्ञानवानहम् // saddhp_5.65 //

अभ्यन्तरावस्थितस्त्वं यदा भवसि कोष्ठके / बहिर्यद्वर्तते तद्वै न जानीषे त्वमल्पधीः // saddhp_5.66 //

यो ऽभ्यन्तरे ऽवस्थितस्तु बहिर्ज्ञातं कृताकृतम् / सो अद्यापि न जानाति कुतस्त्वं वेत्स्यसे ऽल्पधीः // saddhp_5.67 //

पञ्चयोजनमात्रं तु यः शब्दो निश्चरेदिह / तं श्रोतुं न समर्थो ऽसि प्रागेवान्यं विदूरतः // saddhp_5.68 //

त्वयि ये पापचित्त वा अनुनीतास्तथापरे / ते न शक्यं त्वया ज्ञातुमभिमानः कुतो ऽस्ति ते // saddhp_5.69 //

क्रोशमात्रे ऽपि गन्तव्ये पदवीं न विना गतिः / मातुः कुक्षौ च यद्वृत्तं विस्मृतं तत्तदेव ते // saddhp_5.70 //

अभिज्ञा यस्य पञ्चैताः स सर्वज्ञ इहोच्यते / त्वं मोहादप्यकिंचिज्ज्ञः सर्वज्ञो ऽस्मीति भाषसे // saddhp_5.71 //

सर्वज्ञत्वं प्रार्थयसे यद्यभिज्ञाभिनिर्हरेः / तं चाभिज्ञाभिनिर्हारमरण्यस्थो विचिन्तय / धर्मं विशुद्धं तेन त्वमभिज्ञाः प्रतिलप्स्यसे // saddhp_5.72 //

सो ऽर्थं गृह्य गतो ऽरण्यं चिन्तयेत् सुसमाहितः / अभिज्ञाः प्राप्तवान् पञ्च नचिरेण गुणान्वितः // saddhp_5.73 //

तथैव श्रावकाः सर्वे प्राप्तनिर्वाणसंज्ञिनः / जिनो ऽथ देशयेत्तस्मै विश्रामो ऽयं न निर्वृतिः // saddhp_5.74 //

उपाय एष बुद्धानां वदन्ति यदिमं नयम् / सर्वज्ञत्वमृते नास्ति निर्वाणं तत्समारभ // saddhp_5.75 //

त्र्यध्वज्ञानमनन्तं च षट् च पारमिताः शुभाः / शून्यतामनिमित्तं च प्रणिधानविवर्जितम् // saddhp_5.76 //

बोधिचित्तं च ये चान्ये धर्मा निर्वाणगामिनः / सास्रवानास्रवाः शान्ताः सर्वे गगनसंनिभाः // saddhp_5.77 //

ब्रह्मविहाराश्चत्वारः संग्रहा ये च कीर्तिताः / सत्त्वानां विनयार्थाय कीर्तिताः परमर्षिभिः // saddhp_5.78 //

यश्च धर्मान् विजानाति मायास्वप्नस्वभावकान् / कदलीस्कन्धनिःसारान् प्रतिश्रुत्कासमानकान् // saddhp_5.79 //

तत्स्वभावं च जानाति त्रैधातुकमशेषतः / अबद्धमविमुक्तं च न विजानाति निर्वृतिम् // saddhp_5.80 //

सर्वधर्मान् समान् शून्यान्निर्नानाकरणात्मकान् / न चैतान् प्रेक्षते नापि किंचिद्धर्मं विपश्यति // saddhp_5.81 //

स पश्यति महाप्रज्ञो धर्मकायमशेषतः / नास्ति यानत्रयं किंचिदेकयानमिहास्ति तु // saddhp_5.82 //

सर्वधर्माः समाः सर्वे समाः समसमाः सदा / एवं ज्ञात्वा विजानाति निर्वाणममृतं शिवम् // saddhp_5.83 //

इत्यार्यसद्धर्मपुण्डरीके धर्मपर्याये ओषधीपरिवर्तो नाम पञ्चमः ॥

saddhp_6: व्याकरणपरिवर्तः ।

अथ खलु भगवानिमा गाथा भाषित्वा सर्वावन्तं भिक्षुसंघमामन्त्रयते स्म - आरोचयामि वो भिक्षवः, प्रतिवेदयामि । अयं मम श्रावकः काश्यपो भिक्षुस्त्रिंशतो बुद्धकोटीसहस्राणामन्तिके सत्कारं करिष्यति, गुरुकारं माननां पूजनामर्चनामपचायनां करिष्यति, तेषां च बुद्धानां भगवतां सद्धर्मं धारयिष्यति । स पश्चिमे समुच्छ्रये अवभासप्राप्तायां लोकधातौ महाव्यूहे कल्पे रश्मिप्रभासो नाम तथागतो ऽर्हन् सम्यक्संबुद्धो लोके भविष्यति विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान् । द्वादश चास्यान्तरकल्पानायुष्प्रमाणं भविष्यति । विंशतिं चास्यान्तरकल्पान् सद्धर्मः स्थास्यति । विंशतिमेवान्तरकल्पान् सद्धर्मप्रतिरूपकः स्थास्यति । तच्चास्य बुद्धक्षेत्रं शुद्धं भविष्यति शुचि अपगतपाषाणशर्करकठल्यमपगतश्वभ्रप्रपातमपगतस्यन्दनिकागूथोलिगल्लं समं रमणीयं प्रासादिकं दर्शनीयं वैडूर्यमयं रत्नवृक्षप्रतिमण्डितं सुवर्णसूत्राष्टापदनिबद्धं पुष्पाभिकीर्णम् । बहूनि च तत्र बोधिसत्त्वशतसहस्राण्युत्पत्स्यन्ते । अप्रमेयाणि च तत्र श्रावककोटीनयुतशतसहस्राणि भविष्यन्ति । न च तत्र मारः पापीयानवतारं लप्स्यते, न च मारपर्षत् प्रज्ञास्यते । भविष्यन्ति तत्र खलु पुनर्मारश्च मारपर्षदश्च । अपि तु खलु पुनस्तत्र लोकधातौ तस्यैव भगवतो रश्मिप्रभासस्य तथागतस्य शासने सद्धर्मपरिग्रहायाभियुक्ता भविष्यन्ति ॥

अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत -

पश्याम्यहं भिक्षव बुद्धचक्षुषा स्थविरो ह्ययं काश्यप बुद्ध भेष्यति / अनागते ऽध्वानि असंख्यकल्पे कृत्वान पूजां द्विपदोत्तमानाम् // saddhp_6.1 //

त्रिंशत्सहस्राः परिपूर्णकोट्यो जिनानयं द्रक्ष्यति काश्यपो ह्ययम् / चरिष्यती तत्र च ब्रह्मचर्यं बौद्धस्य ज्ञानस्य कृतेन भिक्षवः // saddhp_6.2 //

कृत्वान पूजां द्विपदोत्तमानां समुदानिय ज्ञानमिदं अनुत्तरम् / स पश्चिमे चोच्छ्रयि लोकनाथो भविष्यते अप्रतिमो महर्षिः // saddhp_6.3 //

क्षेत्रं च तस्य प्रवरं भविष्यति विचित्र शुद्धं शुभ दर्शनीयम् / मनोज्ञरूपं सद प्रेमणीयं सुवर्णसूत्रैः समलंकृतं च // saddhp_6.4 //

रत्नामया वृक्ष तहिं विचित्रा अष्टापदस्मिं तहि एकमेके / मनोज्ञगन्धं च विमुञ्चमाना भेष्यन्ति क्षेत्रस्मि इमस्मि भिक्षो // saddhp_6.5 //

पुष्पप्रकारैः समलंकृतं च विचित्रपुष्पैरुपशोभितं च / श्वभ्रप्रपाता न च तत्र सन्ति समं शिवं भेष्यति दर्शनीयम् // saddhp_6.6 //

तहि बोधिसत्त्वान सहस्रकोट्यः सुदान्तचित्तान महर्द्धिकानाम् / वैपुल्यसूत्रान्तधराण तायिनां बहू भविष्यन्ति सहस्र नेके // saddhp_6.7 //

अनास्रवा अन्तिमदेहधारिणो भेष्यन्ति ये श्रावक धर्मराज्ञः / प्रमाणु तेषां न कदाचि विद्यते दिव्येन ज्ञानेन गणित्व कल्पान् // saddhp_6.8 //

सो द्वादश अन्तरकल्प स्थास्यति सद्धर्म विंशान्तरकल्प स्थास्यति / प्रतिरूपकश्चान्तरकल्प विंशतिं रश्मिप्रभासस्य वियूह भेष्यति // saddhp_6.9 //

अथ खल्वायुष्मान् महामौद्गल्यायनः स्थविर आयुष्मांश्च सुभूतिरायुष्मांश्च महाकात्यायनः प्रवेपमानैः कायैर्भगवन्तमनिमिषैर्नेत्रैर्व्यवलोकयन्ति स्म । तस्यां च वेलायां पृथक् पृथङमनःसंगीत्या इमा गाथा अभाषन्त -

अर्हन्त हे महावीर शाक्यसिंह नरोत्तम / अस्माकमनुकम्पाय बुद्धशब्दमुदीरय // saddhp_6.10 //

अवश्यमवसरं ज्ञात्वा अस्माकं पि नरोत्तम / अमृतेनेव सिञ्चित्वा व्याकुरुष्व विभोजन // saddhp_6.11 //

दुर्भिक्षादागतः कश्चिन्नरो लब्ध्वा सुभोजनम् / प्रतीक्ष भूय उच्येत हस्तप्राप्तस्मि भोजने // saddhp_6.12 //

एवमेवोत्सुका अस्मो हीनयानं विचिन्तय / दुष्कालभुक्तसत्त्वा वा बुद्धज्ञानं लभामहे // saddhp_6.13 //

न तावदस्मान् संबुद्धो व्याकरोति महामुनिः / यथा हस्तस्मि प्रक्षिप्तं न तद्भुञ्जीत भोजनम् // saddhp_6.14 //

एवं च उत्सुका वीर श्रुत्वा घोषमनुत्तरम् / व्याकृता यद भेष्यामस्तदा भेष्याम निर्वृताः // saddhp_6.15 //

व्याकरोहि महावीर हितैषी अनुकम्पकः / अपि दारिद्र्यचित्तानां भवेदन्तो महामुने // saddhp_6.16 //

अथ खलु भगवांस्तेषा महाश्रावकाणां स्थविराणामिममेवंरूपं चेतसैव चेतःपरिवितर्कमाज्ञाय पुनरपि सर्वावन्तं भिक्षुसंघमामन्त्रयते स्म - अयं मे भिक्षवो महाश्रावकः स्थविरः सुभूतिस्त्रिंशत एव बुद्धकोटीनयुतशतसहस्राणां सत्कारं करिष्यति, गुरुकारं माननां पूजनामर्चनामपचायनां करिष्यति । तत्र च ब्रह्मचर्यं चरिष्यति, बोधिं च समुदानयिष्यति । एवंरूपांश्चाधिकारान् कृत्वा पश्चिमे समुच्छ्रये शशिकेतुर्नाम तथागतो ऽर्हन् सम्यक्संबुद्धो लोके भविष्यति विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान् । रत्नसंभवं च नामास्य तद् बुद्धक्षेत्रं भविष्यति । रत्नावभासश्च नाम स कल्पो भविष्यति । समं च तद् बुद्धक्षेत्रं भविष्यति, रमणीयं स्फटिकमयं रत्नवृक्षविचित्रितमपगतश्वभ्रप्रपातमपगतगूथोलिगल्लं मनोज्ञं पुष्पाभिकीर्णम् । कूटागारपरिभोगेषु चात्र पुरुषा वासं कल्पयिष्यन्ति । बहवश्चास्य श्रावका भविष्यन्त्यपरिमाणाः, येषां न शक्यं गणनया पर्यन्तो ऽधिगन्तुम् । बहूनि चात्र बोधिसत्त्वकोटीनयुतशतसहस्राणि भविःयन्ति । तस्य च भगवतो द्वादशान्तरकल्पानायुःप्रमाणं भविःयति । विंशतिं चान्तरकल्पान् सद्धर्मः स्थास्यति । विंशतिमेवान्तरकल्पान् सद्धर्मप्रतिरूपकः स्थास्यति । स च भगवान् वैहायसमन्तरीक्ःए स्थित्वा अभीक्ःणं धर्मं देशयिःयति, बहूनि च बोधिसत्त्वशतसहस्राणि बहूनि च श्रावकशतसहस्राणि विनेःयति ॥

अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत -

आरोचयामि अहमद्य भिक्षवः प्रतिवेदयाम्यद्य ममा शृणोथ / स्थविरः सुभूतिर्मम श्रावको ऽयं भविष्यते बुद्ध अनागते ऽध्वनि // saddhp_6.17 //

बुद्धांश्च पश्यित्व महानुभावान् त्रिंशच्च पूर्णानयुतान कोटीः / चरिष्यते चर्य तदानुलोमिकीमिमस्य ज्ञानस्य कृतेन चैषः // saddhp_6.18 //

स पश्चिमे वीर समुच्छ्रयस्मिन् द्वात्रिंशतीलक्षणरूपधारी / सुवर्णयूपप्रतिमो महर्षिर्भविष्यते लोकहितानुकम्पी // saddhp_6.19 //

सुदर्शनीयं च सुक्षेत्र भेष्यति इष्टं मनोज्ञं च महाजनस्य / विहरिष्यते यत्र स लोकबन्धुस्तारित्व प्राणीनयुतान कोटीः // saddhp_6.20 //

बहुबोधिसत्त्वात्र महानुभावा अविवर्त्यचक्रस्य प्रवर्तितारः / तीक्ष्णेन्द्रियास्तस्य जिनस्य शासने ये शोभयिष्यन्ति त बुद्धक्षेत्रम् // saddhp_6.21 //

बहुश्रावकास्तस्य न संख्य तेषां प्रमाणु नैवास्ति कदाचि तेषाम् / षडभिज्ञ त्रैविद्य महर्द्धिकाश्च अष्टाविमोक्षेषु प्रतिष्ठिताश्च // saddhp_6.22 //

अचिन्तियं ऋद्धिबलं च भेष्यति प्रकाशयन्तस्यिममग्रबोधिम् / देवा मनुष्या यथ गङ्गवालिका भेष्यन्ति तस्यो सततं कृताञ्जली // saddhp_6.23 //

सो द्वादशो अन्तरकल्प स्थास्यपि सद्धर्मु विंशान्तरकल्प स्थास्यति / प्रतिरूपको विंशतिमेव स्थास्यति कल्पान्तराणि द्विपदोत्तमस्य // saddhp_6.24 //

अथ खलु भगवान् पुनरेव सर्वावन्तं भिक्षुसंघमामन्त्रयते स्म - आरोचयामि वो भिक्षयः, प्रतिवेदयामि । अयं मम श्रावकः स्थविरो महाकात्यायनो ऽष्टानां बुद्धकोटीशतसहस्राणामन्तिके सत्कारं करिष्यति, गुरुकारं माननां पूजनामर्चनामपचायनां करिष्यति । परिनिर्वृतानां च तेषां तथागतानां स्तूपान् करिष्यति योजनसहस्रं समुच्छ्रयेण पञ्चाशद् योजनानि परिणाहेन सप्तानां रत्नानाम् । तद्यथा सुवर्णस्य रूप्यस्य वैडूर्यस्य स्फटिकस्य लोहितमुक्तेरश्मर्गभस्य मुसारगल्वस्य सप्तमस्य रत्नस्य । तेषां च स्तूपानां पूजां करिष्यति पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकावैजयन्तीभिश्च (वैद्य 101) । ततश्च भूयः परेण परतरेण पुनर्विशतीनां बुद्धकोटीनामन्तिके एवरूपमेव सत्कारं करिष्यति, गुरुकारं माननां पूजनामर्चनामपचायनां करिष्यति । स पश्चिमे समुच्छ्रये पश्चिमे आत्मभावप्रतिलम्भे जाम्बूनदप्रभासो नाम तथागतो ऽर्हन् सम्यक्संबुद्धो लोके भविष्यति विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवन् । परिशुद्धं चास्य बुद्धक्षेत्रं भविष्यति समं रमणीयं प्रासादिकं दर्शनीयं स्फटिकमयं रत्नवृक्षाभिविचित्रितं सुवर्णसूत्राच्छोडितं पुष्पसंस्तरसंस्तृतमपगतनिरयतिर्यग्योनियमलोकासुरकायं बहुनरदेवप्रतिपूर्णं बहुश्रावकःअतसहस्रोपःओभितं बहुबोधिसत्त्वःअतसहस्रालंकृतम् । द्वादःअ चास्य अन्तरकल्पानायुष्प्रमाणं भविष्यति । विंःअतिं चास्य अन्तरकल्पान् सद्धर्मः स्थास्यति । विंःअतिमेवान्तरकल्पान् सद्धर्मप्रतिरूपकः स्थास्यति ॥

अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत -

शृणोथ मे भिक्षव अद्य सर्वे उदाहरन्तस्य गिरामनन्यथाम् / कात्यायनः स्थविरु अयं मि श्रावकः करिष्यते पूज विनायकानाम् // saddhp_6.25 //

सत्कारु तेषां च बहुप्रकारं बहूविधं लोकविनायकानाम् / स्तूपांश्च कारापयि निर्वृतानां पुष्पेहि गन्धेहि च पूजयिष्यति // saddhp_6.26 //

लभित्व सो पश्चिमकं समुच्छ्रयं परिशुद्धक्षेत्रस्मि जिनो भविष्यति / परिपूरयित्वा इममेव ज्ञानं देशेष्यते प्राणिसहस्रकोटिनाम् // saddhp_6.27 //

स सत्कृतो लोकि सदेवकस्मिन् प्रभाकरो बुद्ध विभुर्भविष्यति / जाम्बूनदाभासु स चापि नाम्ना संतारको देवमनुष्यकोटिनाम् // saddhp_6.28 //

बहुबोधिसत्त्वास्तथ श्रावकाश्च अमिता असंख्या पि च तत्र क्षेत्रे / उपशोभयिष्यन्ति ति बुद्धशासनं भवप्रहीणा विभवाश्च सर्वे // saddhp_6.29 //

अथ खलु भगवान् पुनरेव सर्वावन्तं भिक्षुसंघमामन्त्रयते स्म - आरोचयामि वो भिक्षवः, प्रतिवेदयामि । अयं मम श्रावकः स्थविरो महामौद्गल्यायनो ऽष्टाविंशतिबुद्धसहस्राण्यारागयिष्यति, तेषां च बुद्धानां भगवतां विविधं सत्कारं करिष्यति, गुरुकारं माननां पूजनामर्चनामपचायनां करिष्यति । परिनिर्वृतानां च तेषां बुद्धानां भगवतां स्तूपान् कारयिष्यति सप्तरत्नमयान् । तद्यथा सुवर्णस्य रूप्यस्य वैदूर्यस्य स्फटिकस्य लोहितमुक्तेरश्मगर्भस्य मुसारगल्वस्य । योजनसहस्रं समुच्छ्रयेण पञ्चयोजनशतानि परिणाहेन । तेषां च स्तूपानां विविधां पूजां करिष्यति पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकावैजयन्तीभिः । ततश्च भूयः परेण परतरेण विंशतेर्बुद्धकोटीशतसहस्राणामेवंरूपमेव सत्कारं करिष्यति, गुरुकारं माननां पूजनामर्चनामपचायनां करिष्यति । पश्चिमे च आत्मभावप्रतिलम्भे तमालपत्रचन्दनगन्धो नाम तथागतो ऽर्हन् सम्यक्संबुद्धो लोके भविष्यति विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान् । मनोभिरामं च नामास्य तद्बुद्धक्षेत्रं भविष्यति । रतिप्रपूर्णश्च नाम स कल्पो भविष्यति । परिशुद्धं चास्य तद्बुद्धक्षेत्रं भविष्यति, समं रमणीयं प्रासादिकं सुदर्शनीयं स्फटिकमयं रत्नवृक्षाभिविचित्रितं मुक्तकुसुमाभिकीर्णं बहुनरदेवप्रतिपूर्णमृषिशतसहस्रनिषेवितं यदुत श्रावकैश्च बोधिसत्त्वैश्च । चतुर्विशतिं चास्य अन्तरकल्पानायुष्प्रमाणं भविष्यति । चत्वारिंशच्च अन्तरकल्पान् सद्धर्मः स्थास्यति । चत्वारिंशदेव अन्तरकल्पान् सद्धर्मप्रतिरूपकः स्थास्यति ॥

अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत -

मौद्गल्यगोत्रो मम श्रावको ऽयं जहित्व मानुष्यकमात्मभावम् / विंशत्सहस्राणि जिनान तायिनामन्यांश्च अष्टौ विरजान द्रक्ष्यति // saddhp_6.30 //

चरिष्यते तत्र च ब्रह्मचर्यं बौद्धं इमं ज्ञान गवेषमाणः / सत्कारु तेषां द्विपदोत्तमानां विविधं तदा काहि विनायकानाम् // saddhp_6.31 //

सद्धर्मु तेषां विपुलं प्रणीतं धारेत्व कल्पान सहस्रकोट्यः / पूजां च स्तूपेषु करिष्यते तदा परिनिर्वृतानां सुगतान तेषाम् // saddhp_6.32 //

रत्नामयान् स्तूप सवैजयन्तान् करिष्यते तेष जिनोत्तमानाम् / पुष्पेहि गन्धेहि च पूजयन्तो वाद्येहि वा लोकहितानुकम्पिनाम् // saddhp_6.33 //

तत्पश्चिमे चैव समुच्छ्रयस्मिन् प्रियदर्शने तत्र मनोज्ञक्षेत्रे / भविष्यते लोकहितानुकम्पी तमालपत्रचन्दनगन्ध नाम्ना // saddhp_6.34 //

चतुर्विशपूर्णान्तरकल्प तस्य आयुष्प्रमाणं सुगतस्य भेष्यति / प्रकाशयन्तस्यिम बुद्धनेत्रीं मनुजेषु देवेषु च नित्यकालम् // saddhp_6.35 //

बहुश्रावकातस्य जिनस्य तत्र कोटी सहस्रा यथ गङ्गवालिकाः / षडभिज्ञ त्रैविद्य महर्द्धिकाश्च अभिज्ञप्राप्ताः सुगतस्य शासने // saddhp_6.36 //

अवैवर्तिकाश्चो बहुबोधिसत्त्वा आरब्धवीर्याः सद संप्रजानाः / अभियुक्तरूपाः सुगतस्य शासने तेषां सहस्राणि बहूनि तत्र // saddhp_6.37 //

परिनिर्वृतस्यापि जिनस्य तस्य सद्धर्मु संस्थास्यति तस्मि काले / विंशच्च विंशान्तरकल्प पूर्णा एतत्प्रमाणं प्रतिरूपकस्य // saddhp_6.38 //

महर्द्धिकाः पञ्च मि श्रावका ये निर्दिष्ट ये ते मय अग्रबोधये / अनागते ऽध्वानि जिनाः स्वयंभुवस्तेषां च चर्यां शृणुथा ममान्तिकात् // saddhp_6.39 //

इत्यार्यसद्धर्मपुण्डरीके धर्मपर्याये व्याकरणपरिवर्तो नाम षष्ठः ॥

saddhp_7: पूर्वयोगपरिवर्तः ।

भूतपूर्व भिक्षवो ऽतीते ऽध्वनि असंख्येयैः कल्पैरसंख्येयतरैर्विपुलैरप्रमेयैरचिन्त्यैरपरिमितैरप्रमाणैस्ततः परेण परतरेण यदासीत् - तेन कालेन तेन समयेन महाभिज्ञाज्ञानाभिभूर्नाम तथागतो ऽर्हन् सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ताः देवानां च मनुष्याणां च बुद्धो भगवान् संभवायां लोकधातौ महारूपे कल्पे । कियच्चिरोत्पन्नः स भिक्षवस्तथागतो ऽभूत् । तद्यथापि नाम भिक्षवो यावानिह त्रिसाहस्रमहासाहस्रे लोकधातौ पृथिवीधातुः, तं कश्चिदेव पुरुषः सर्वं चूर्णीकुर्यात्, मषिं कुर्यात् । अथ खलु स पुरुषस्तस्माल्लोकधातोरेकं परमाणुरजो गृहीत्वा पूर्वस्यां दिशि लोकधातुसहस्रमतिक्रम्य तदेकं परमाणुरज उपनिक्षिपेत् । अथ स पुरुषो द्वितीयं च परमाणुरजो गृहीत्वा ततः परेण परतरं लोकधातुसहस्रमतिक्रम्य द्वितीयं परमाणुरज उपनिक्षिपेत् । अनेन पर्यायेण स पुरुषः सर्वावन्तं पृथिवीधातुमुपनिक्षिपेत् पूर्वस्यां दिशि । तत्किं मन्यध्वे भिक्षवः शक्यं तेषां लोकधातूनामन्तो वा पर्यन्तो वा गणनयाधिगन्तुम्? त आहुः - नो हीदं भगवन्, नो हीदं सुगत । भगवानाह - शक्यं पुनर्भिक्षवस्तेषां लोकधातूनां केनचिद् गणकेन वा गणकमहामात्रेण वा गणनया पर्यन्तो ऽधिगन्तुम्, येषु वोपनिक्षिप्तानि तानि परमाणुरजांसि, येषु वा नोपनिक्षिप्तानि । न त्वेव तेषां कल्पकोटीनयुतशतसहस्राणां शक्यं गणनायोगेन पर्यन्तो ऽधिगन्तुम् । यावन्तः कल्पास्तस्य भगवतो महाभिज्ञाज्ञानाभिभुवस्तथागतस्य परिनिर्वृतस्य, एतावान् स कालो ऽभूदेवमचिन्त्यः, एवमप्रमाणः । तं चाहं भिक्षवस्तथागतं तावच्चिरं परिनिर्वृतमनेन तथागतज्ञानदर्शनबलाधानेन यथाद्य श्वो वा परिनिर्वृतमनुस्मरामि ॥

अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत -

अभू अतीता बहु कल्पकोट्यो अनुस्मरामि द्विपदानमुत्तमम् / अभिज्ञज्ञानाभिभूवं महामुनिमभूषि तत्कालमनुत्तमो जिनः // saddhp_7.1 //

यथा त्रिसाहस्रिम लोकधातुं कश्चिद् रजं कुर्य अणुप्रमाणम् / परमाणुमेकं च ततो गृहीत्वा क्षेत्रं सहस्रं गमियान निक्षिपेत् // saddhp_7.2 //

द्वितीयं तृतीयं पि च एव निक्षिपेत् सर्वं पि सो निक्षिपि तं रजोगतम् / रिक्ता भवेता इय लोकधातुः सर्वश्च सो पांसु भवेत क्षीणः // saddhp_7.3 //

यो लोकधातूषु भवेत तासु पांसु रजो यस्य प्रमाणु नास्ति / रजं करित्वान अशेषतस्तं लक्ष्यं ददे कल्पशते गते च // saddhp_7.4 //

एवाप्रमेया बहु कल्पकोट्यः परिनिर्वृतस्य सुगतस्य तस्य / परमाणु सर्वे न भवन्ति लक्ष्यास्तावद्बहु क्षीण भवन्ति कल्पाः // saddhp_7.5 //

तावच्चिरं निर्वृतु तं विनायकं तान् श्रावकांस्तांश्च पि बोधिसत्त्वान् / एतादृशं ज्ञानु तथागतानां स्मरामि वृत्तं यथ अद्य श्वो वा // saddhp_7.6 //

एतादृशं भिक्षव ज्ञानमेतदनन्तज्ञानश्च तथागतस्य / बुद्धं मया कल्पशतैरनेकैः स्मृतीय सूक्ष्माय अनास्रवाय // saddhp_7.7 //

तस्य खलु पुनर्भिक्षवो महाभिज्ञाज्ञानाभिभुवस्तथागतस्यार्हतः सम्यक्संबुद्धस्य चतुष्पञ्चाशत्कल्पकोटीनयुतशतसहस्राण्यायुष्प्रमाणमभूत् । पूर्वे च स भगवान् महाभिज्ञानाभिभूस्तथागतो ऽनभिसंबुद्धो ऽनुत्तरां सम्यक्संबोधिं बोधिमण्डवराग्रग्रत एव सर्वां मारसेनां प्राभञ्जीत् पराजैषीत् । प्रभञ्जयित्वा पराजयित्वा अनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यामिति न च तावत्तस्य ते धर्मा आमुखीभवन्ति स्म । स बोधिवृक्षमूले बोधिमण्डे एकमन्तरकल्पमस्थात् । द्वितीयमप्यन्तरकल्पस्थात् । न च तावदनुत्तरां सम्यक्संबोधिमभिसंबुध्यते । तृतीयमपि चतुर्थमपि पञ्चममपि षष्ठमपि सप्तममपि अष्टममपि नवममपि दशममप्यन्तरकल्पं बोधिवृक्षमूले बोधिमण्डे ऽस्थात् सकृद्वर्तनेन पर्यङ्केन अन्तरादव्युत्थितः । अनिञ्जमानेन चित्तेन अचलमानेन अवेपमानेन कायेनास्थात् । न च तावदस्य ते धर्मा आमुखीभवन्ति स्म ॥

तस्य खलु पुनर्भिक्षवो भगवतो बोधिमण्डवराग्रगतस्य देवैस्त्रायस्त्रिंशैर्महासिंहासनं प्रज्ञप्तमभूद् योजनशतसहस्रं समुच्छ्रयेण, यत्र स भगवान् निषद्य अनुत्तरां सम्यक्संबोधिमभिसंबुद्धः । समनन्तरनिषण्णस्य च खलु पुनस्तस्य भगवतो बोधिमण्डे, अथ ब्रह्मकायिका देवपुत्रा दिव्यं पुष्पवर्षमभिप्रवर्षयामासुः । बोधिमण्डस्य परिसामन्तकेन योजनशतमन्तरिक्षे च वातान् प्रमुञ्चन्ति, ये तं जीर्णपुष्पमवकर्षयन्ति । यथाप्रवर्षितं च तत् पुष्पवर्षं तस्य भगवतो बोधिमण्डे निषण्णस्य अव्युच्छिन्नं प्रवर्षयन्ति । परिपूर्णान् दशान्तरकल्पान् तं भगवन्तमभ्यवकिरन्ति (वैद्य 106) स्म । तथा प्रवर्षितं च तत्पुःपवर्ःअं प्रवर्ःअयन्ति यावत् परिनिर्वाणकालसमये तस्य भगवतस्तं भगवन्तमभ्यवकिरन्ति । चातुर्महाराजकायिकाश्च देवपुत्रा दिव्यां देवदुन्दुभिमभिप्रवादयामासुः । तस्य भगवतो बोधिमण्डवराग्रगतस्य सत्कारार्थमव्युच्छिन्नं प्रवादयामासुः परिपूर्णान् दशान्तरकल्पान् तस्य भगवतो निःअण्णस्य । तत उत्तरि तानि दिव्याणि तूर्याणि सततसमितं प्रवादयामासुर्यावत्तस्य भगवतो महापरिनिर्वाणकालसमयात् ॥

अथ खलु भिक्षवो दशानामन्तरकल्पानामत्ययेन स भगवान् महाभिज्ञाज्ञानाभिभूस्तथागतो ऽर्हन् सम्यक्संबुद्धो ऽनुत्तरां सम्यक्संबोधिमभिसंबुद्धः । समनन्तराभिसंबुद्धं च तं विदित्वा ये तस्य भगवतः कुमारभूतस्य षोडश पुत्रा अभूवन्नौरसाः, ज्ञानाकरो नाम तेषां ज्येष्ठो ऽभूत् । तेषां च खलु पुनर्भिक्षवः षोडशानां राजकुमाराणामेकैकस्य च विविधानि क्रीडनकानि रामणीयकान्यभूवन् विचित्राणि दर्शनीयानि । अथ खलु भिक्षवस्ते षोडश राजकुमारास्तानि विविधानि क्रीडनकानि रामणीयकानि विसर्जयित्वा, तं भगवन्तं महाभिज्ञाज्ञानाभिभुवं तथागतमर्हन्तं सम्यक्संबुद्धमनुत्तरां सम्यक्संबोधिमभिसंबुद्धं विदित्वा, मातृभिर्धात्रीभिश्च रुदन्तीभिः परिवृताः पुरस्कृताः तेन च महाराज्ञा चक्रवर्तिना आर्यकेण महाकोशेन राजामात्यैश्च बहुभिश्च प्राणिकोटीनयुतशतसहस्रैः परिवृताः पुरस्कृताः येन भगवान् महाभिज्ञाज्ञानाभिभूस्तथागतो ऽर्हन् सम्यक्संबुद्धो बोधिमण्डवराग्रगतः, तेनोपसंक्रामन्ति स्म । तस्य भगवतः सत्कारार्थाय गुरुकारार्थाय माननार्थाय पूजनार्थाय अर्चनार्थाय अपचायनार्थाय उपसंक्रान्ताः । उपसंक्रम्य तस्य भगवतः पादौ शिरोभिर्वन्दित्वा तं भगवन्तं त्रिष्प्रदक्षिणीकृत्य अञ्जलिं प्रगृह्य तं भगवन्तं संमुखमाभिर्गाथाभिः सारूप्याभिरभिष्टुवन्ति स्म -

महाभिषट्को ऽसि अनुत्तरो ऽसि अनन्तकल्पैः समुदागतो ऽसि / उत्तारणार्थायिह सर्वदेहिनां परिपूर्ण संकल्पु अयं ति भद्रकः // saddhp_7.8 //

सुदुष्करा अन्तरकल्पिमान् दश कृतानि एकासनि संनिषद्य / न च ते ऽन्तरा कायु कदाचि चालितो न हस्तपादं न पि चान्यदङ्गम् // saddhp_7.9 //

चित्तं पि ते शान्तगतं सुसंस्थितमनिञ्ज्यभूतं सद अप्रकम्प्यम् / विक्षेपु नैवास्ति कदाचि पि तव अत्यन्तशान्तस्थितु त्वं अनास्रवः // saddhp_7.10 //

दिष्टयासि क्षेमेण च स्वस्तिना च अविहेठितः प्राप्त इमाग्रबोधिम् / अस्माकमृद्धी इयमेवरूपा दिष्टया च वर्धाम नरेन्द्रसिंह // saddhp_7.11 //

अनायिकेयं प्रज सर्व दुःखिता उत्पाटिताक्षी व निहीनसौख्या / मार्गं न जानन्ति दुखान्तगामिनं न मोक्षहेतोर्जनयन्ति वीर्यम् // saddhp_7.12 //

अपाय वर्धन्ति च दीर्घरात्रं दिव्याश्च कायाः परिहाणधर्माः / न श्रूयते जातु जिनान शब्दस्तमोन्धकारो अयु सर्वलोकः // saddhp_7.13 //

प्राप्तं च ते लोकविदू इहाद्य शिवं पदं उत्तम नास्रवं च / वयं च लोकश्च अनुगृहीतः शरणं च त्वा एति व्रजाम नाथ // saddhp_7.14 //

अथ खलु भिक्षवस्ते षोडश राजकुमाराः कुमारभूता एव बालकाः, तं भगवन्तं महाभिज्ञाज्ञानाभिमुखं तथागतमर्हन्तं सम्यक्संबुद्धमाभिः सारूप्यभीर्गाथाभिः संमुखमभिष्टुत्य तं भगवन्तमध्येषन्ते स्म धर्मचक्रप्रवर्तनतायै - देशयतु भगवान् धर्मम्, देशयतु सुगतो धर्मं बहुजनहिताय बहुजनसुखाय लोकानुकम्पायै महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च । तस्यां च वेलायामिमा गाथा अभाषन्त -

देशेहि धर्मं शतपुण्यलक्षणा विनायका अप्रतिमा महर्षे / लब्धं ति ज्ञानं प्रवरं विशिष्टं प्रकाशया लोकि सदेवकस्मिन् // saddhp_7.15 //

अस्मांश्च तारेहि इमांश्च सत्त्वान् निदर्शय ज्ञानु तथागतानाम् / यथा वयं पि इममग्रबोधिं अनुप्राप्नुयामो ऽथ इमे च सत्त्वाः // saddhp_7.16 //

चर्यां च ज्ञानं पि च सर्व जानसि अध्याशयं पूर्वकृतं च पुण्यम् / अधिमुक्ति जानासि च सर्वप्राणिनां प्रवर्तया चक्रवरं अनुत्तरम् // saddhp_7.17 //

इति ॥

तेन खलु पुनर्भिक्षवः समयेन तेन भगवता महाभिज्ञाज्ञानाभिभुवा तथागतेनार्हता सम्यक्संबुद्धेन अनुत्तरां सम्यक्संबोधिमभिसंबुध्यमानेन दशसु दिक्ष्वैकैकस्यां दिशि पञ्चाशल्लोकधातुकोटीनयुतशतसहस्राणि षड्विकारं प्रकम्पितान्यभूईवन्, महता चावभासेन स्फुटान्यभूवन् । सर्वेषु च तेषु लोकधातुषु या लोकान्तरिकास्तासु ये अक्षणाः संवृता अन्धकारतमिस्राः यत्र इमावपि चन्द्रसूर्यौ एवंमहर्द्धिकौ एवंमहानुभावौ एवंमहौजस्कौ आभयाप्याभां नानुभवतः, वर्णेनापि वर्णं तेजसापि तेजो नानुभवतः, तास्वपि तस्मिन् समये महतो ऽवभासस्य प्रादुर्भावो ऽभूत् । ये ऽपि तासु लोकान्तरिकासु सत्त्वा उपपन्नाः, ते ऽप्यन्योन्यमेवं पश्यन्ति अन्योन्यमेवं संजानन्ति - अन्ये ऽपि बत भोः सत्त्वाः सन्तीहोपपन्नाः । अन्ये ऽपि बत भोः सत्त्वाः सन्तीहोपपन्नाः इति । सर्वेषु च तेषु लोकधातुषु यानि देवभवनानि देवविमानानि च, यावद् ब्रह्मलोकाद् षड्विकारं प्रकम्पितान्यभूवन्, महता चावभासेन स्फुटान्यभूवन् अतिक्रम्य देवानां देवानुभावम् । इति हि भिक्षवस्तस्मिन् समये तेषु लोकधातुषु महतः पृथिवीचालस्य महतश्च औदारिकस्यावभासस्य लोके प्रादुर्भावो ऽभूत् ॥

अथ पूर्वस्यां दिशि तेषु पञ्चाशत्सु लोकधातुकोटीनयुतशतसहस्रेषु यानि ब्राह्माणि विमानानि, तान्यतीव भ्राजन्ति तपन्ति विराजन्ति, श्रीमन्ति औजस्वीनि च । अथ खलु भिक्षवस्तेषां महाब्रह्मणामेतदभवत् - इमानि खलु पुनर्ब्राह्माणि विमानान्यतीव भ्राजन्ति तपन्ति विराजन्ति श्रीमन्ति औजस्वीनि च । कस्य खल्विदं पूर्वनिमित्तं भविष्यतीति? अथ खलु भिक्षवस्तेषु पञ्चाशत्सु लोकधातुकोटीनयुतशतसहस्रेषु ये महाब्रह्माणः, ते सर्वे ऽन्योन्यभवनानि गत्वा आरोचयामासुः ॥

अथ खलु भिक्षवः सर्वसत्त्वत्राता नाम महाब्रह्मा तं महान्तं ब्रह्मगणं गाथाभिरध्यभाषत -

अतीव नो हर्षित अद्य सर्वे विमानश्रेष्ठा इमि प्रज्वलन्ति / श्रिया द्युतीया च मनोरमा ये किं कारणं ईदृशु भेष्यते ऽद्य // saddhp_7.18 //

साधु गवेषामथ एतमर्थं को देवपुत्रो उपपन्नु अद्य / यस्यानुभावो अयमेवरूपो अभूतपूर्वो अयमद्य दृश्यते // saddhp_7.19 //

यदि वा भवेद् बुद्ध नरेन्द्रराजा उत्पन्नु लोकस्मि कहिंचिदद्य / यस्यो निमित्तं इममेवरूपं श्रिया दशो दिक्षु ज्वलन्ति अद्य // saddhp_7.20 //

अथ खलु भिक्षवस्तेषु पञ्चाशत्सु लोकधातुकोटीनयुतशतसहस्रेषु ये महाब्रह्माणः, ते सर्वे सहिताः समग्रास्तानि दिव्यानि स्वानि स्वानि ब्राह्माणि विमानान्यभिरुह्य दिव्यांश्च सुमेरुमात्रान् पुष्पपुटान् गृहीत्वा चतसृषु दिक्ष्वनुचंक्रमन्तो ऽनुविचरन्तः पश्चिमं दिग्भागं प्रक्रान्ताः । अद्राक्षुः खलु पुनस्तेषु पञ्चाशत्सु लोकधातुकोटीनयुतशतसहस्रेषु भिक्षवस्ते महाब्रह्माणः पश्चिमे दिग्भागे तं भगवन्तं महाभिज्ञाज्ञानाभिभुवं तथागतमर्हन्तं सम्यक्संबुद्धं बोधिमण्डवराग्रगतं बोधिवृक्षमूले सिंहासनोपविष्टं परिवृतं पुरस्कृतं देवनागयक्षगन्धर्वासुरगरूडकिन्नरमहोरगमनुष्यामनुष्यैः, तैश्च पुत्रैः षोडशभी राजकुमारैरध्येष्यमाणं धर्मचक्रप्रवर्तनतायै । दृष्ट्वा च पुनर्येन स भगवांस्तेनोपसंक्रान्ताः । उपसंक्रम्य तस्य भगवतः पादौ शिरोभिर्वन्दित्वा तं भगवन्तमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य तैश्च सुमेरुमात्रैः पुष्पपुटैस्तं भगवन्तमभ्यवकिरन्ति स्म, अभिप्रकिरन्ति स्म, तं च बोधिवृक्षं दशयोजनप्रमाणम् । अभ्यवकीर्य तानि ब्राह्माणि विमानानि तस्य भगवतो निर्यातयामासुः - परिगृह्णातु भगवानिमानि ब्राह्माणि विमानानि अस्माकमनुकम्पामुपादाय । परिभुञ्जतु सुगत इमानि ब्राह्माणि विमानान्यस्माकमनुकम्पामुपादाय ॥

अथ खलु भिक्षवस्ते महाब्रह्माणस्तानि स्वानि स्वानि विमानानि तस्य भगवतो निर्यात्य तस्यां वेलायां तं भगवन्तं संमुखमाभिर्गाथाभिः सारूप्याभिरभिष्टुवन्ति स्म -

आश्चर्यभूतो जिन अप्रमेयो उत्पन्न लोकस्मि हितानुकम्पी / नाथो ऽसि शास्तासि गुरूसि जातो अनुगृहीता दशिमा दिशो ऽद्य // saddhp_7.21 //

पञ्चाशती कोटिसहस्र पूर्णा या लोकधातून इतो भवन्ति / यतो वयं वन्दन आगता जिनं विमानश्रेष्ठान् प्रजहित्व सर्वशः // saddhp_7.22 //

पूर्वेण कर्मेण कृतेन अस्मिन् विचित्रचित्रा हि इमे विमानाः / प्रतिगृह्य अस्माकमनुग्रहार्थं परिभुञ्जतां लोकविदू यथेष्टम् // saddhp_7.23 //

अथ खलु भिक्षवस्ते महाब्रह्माणस्तं भगवन्तं महाभिज्ञाज्ञानभिभुवं तथागतमर्हन्तं सम्यक्संबुद्धं संमुखमाभिः सारूप्याभिर्गाथाभिरभिष्टुत्य तं भगवन्तमेतदूचुः - प्रवर्तयतु भगवान् धर्मचक्रम्, प्रवर्तयतु सुगतो धर्मचक्रं लोके । देशयतु भगवान् निर्वृतिम् । तारयतु भगवान् सत्त्वान् । अनुगृह्णातु भगवानिमं लोकम् । देशयतु भगवान् धर्मस्वामी धर्ममस्य लोकस्य समारकस्य सब्रह्मकस्य सश्रमणब्राह्मणिकायाः प्रजायाः सदेवमानुषासुरायाः । तद् भविष्यति बहुजनहिताय बहुजनसुखाय लोकानुकम्पायै महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च ॥

अथ खलु भिक्षवस्तानि पञ्चाशद् ब्रह्मकोटीनयुतशतसहस्राण्येकस्वरेण समसंगीत्या तं भगवन्तमाभिः सारूप्याभिर्गाथाभिरध्यभाषन्त -

देशेहि भगवन् धर्मं देशेहि द्विपदोत्तम / मैत्रीबलं च देशेहि सत्त्वांस्तारेहि दुःखितान् // saddhp_7.24 //

दुर्लभो लोकप्रद्योतः पुष्पमौदुम्बरं यथा / उत्पन्नो ऽसि महावीर अध्येषामस्तथागतम् // saddhp_7.25 //

अथ खलु भिक्षवः स भगवांस्तेषां महाब्रह्मणां तूष्णींभावेनाधिवासयति स्म ॥

तेन खलु पुनर्भिक्षवः समयेन पूर्वदक्षिणे दिग्भागे तेषु पञ्चाशत्सु लोकधातुकोटीनयुतशतसहस्रेषु यानि ब्राह्माणि विमानानि, तान्यतीव भ्राजन्ति तपन्ति विराजन्ति श्रीमन्ति ओजस्वीनि च । अथ खलु भिक्षवस्तेषां ब्रह्मणामेतदभवत् - इमानि खलु पुनर्ब्राह्माणि विमानान्यतीव भ्राजन्ति तपन्ति विराजन्ति श्रीमन्ति ओजस्वीनि च । कस्य खल्विदं पूर्वनिमित्तं भविष्यतीति? अथ खलु भिक्षवस्तेषु पञ्चाशत्सु लोकधातुकोटीनयुतशतसहस्रेषु ये महाब्रह्माणः, ते ऽपि सर्वे ऽन्योन्यभवनानि गत्वा आरोचयामासुः । अथ खलु भिक्षवो ऽधिमात्रकारुणिको नाम महाब्रह्मा तं महान्तं ब्रह्मगणं गाथाभिरध्यभाषत -

कस्य पूर्वनिमित्तेन मारिषा अथ दृश्यते / विमानाः सर्वि भ्राजन्ति अधिमात्रं यशस्विनः // saddhp_7.26 //

यदि वा देवपुत्रो ऽद्य पुण्यवन्त इहागतः / यस्येमे अनुभावेन विमानाः सर्वि शोभिताः // saddhp_7.27 //

अथ वा बुद्ध लोके ऽस्मिन्नुत्पन्नो द्विपदोत्तमः / अनुभावेन यस्याद्य विमाना इमि ईदृशाः // saddhp_7.28 //

सहिताः सर्वि मार्गामो नैतत् कारणमल्पकम् / न खल्वेतादृशं पूर्वं निमित्तं जातु दृश्यते // saddhp_7.29 //

चतुर्दिशं प्रपद्यामो अञ्चामः क्षेत्रकोटियो / व्यक्तं लोके ऽद्य बुद्धस्य प्रादुर्भावो भविष्यति // saddhp_7.30 //

अथ खलु भिक्षवस्तान्यपि पञ्चाशद् ब्रह्मकोटीनयुतःअतसहस्राणि तानि स्वानि स्वानि दिव्यानि ब्राह्माणि विमानान्यभिरुह्य दिव्यांःच सुमेरुमात्रान् पुष्पपुटान् गृहीत्वा चतसृषु दिक्ष्वनुचंक्रमन्तो ऽनुविचरन्त उत्तरपःचिमं दिग्भागं प्रक्रान्ताः । अद्राक्षुः खलु पुनर्भिक्षवस्ते महाब्रह्माण उत्तरपःचिमे दिग्भागे तं भगवन्तं महाभिज्ञाज्ञानाभिभुवं तथागतमर्हन्तं सम्यक्संबुद्धं बोधिमण्डवराग्रगतं बोधिवृक्षमूले सिंहासनोपविष्ट परिवृतं पुरस्कृतं देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगमनुष्यामनुष्यैः, तैःच पुत्रैः षोडःअभी राजकुमारैरध्येष्यमाणं धर्मचक्रप्रवर्तनतायै । दृष्ट्वा च पुनर्येन स भगवान् महाभिज्ञाज्ञानाभिभूस्तथागतो ऽर्हन् सम्यक्संबुद्धस्तेनोपसंक्रन्ताः । उपसंक्रम्य च तस्य भगवतः पादौ ःइरोभिर्वन्दित्वा तं भगवन्तमनेकःअतसहस्रकृत्वः प्रदक्षिणीकृत्य तैः सुमेरुमात्रैः पुष्पपुटैस्तं भगवन्तमभ्यवकिरन्ति स्म, अभिप्रकिरन्ति स्म तं च बोधिवृक्षं दःअयोजनप्रमाणम् । अभ्यवकीर्य तानि ब्राह्माणि विमानानि तस्य भगवतो निर्यातयामासुः - परिगृह्णातु भगवानिमानि ब्राह्माणि विमानान्यस्माकमनुकम्पामुपादाय । परिभुञ्जतु सुगत इमानि ब्राह्माणि विमानान्यस्माकमनुकम्पामुपादाय ॥

अथ खलु भिक्षवस्ते महाब्रह्माणस्तानि स्वानि स्वानि विमानानि तस्य भगवतो निर्यात्य तस्यां वेलायां तं भगवन्तं संमुखमाभिः सारूप्याभिर्गाथाभिरभिष्टुवन्ति स्म -

नमो ऽस्तु ते अप्रतिमा महर्षे देवातिदेवा कलविङ्कसुस्वरा / विनायका लोकि सदेवकस्मिन् वन्दामि ते लोकहितानुकम्पी // saddhp_7.31 //

आश्चर्यभूतो ऽसि कथंचिलोके उत्पन्नु अद्यो सुचिरेण नाथ / कल्पान पूर्णा शत शून्य आसीदशीति बुद्धैरयु जीवलोकः // saddhp_7.32 //

शून्यश्च आसीद्द्विपदोत्तमेहि अपायभूमी तद उत्सदासि / दिव्याश्च कायाः परिहायिषू तदा अशीति कल्पान शता सुपूर्णा // saddhp_7.33 //

सो दानि चक्षुश्च गतिश्च लेणं त्राणं पिता चो तथ बन्धुभूतः / उत्पन्नु लोकस्मि हितानुकम्पी अस्माक पुण्यैरिह धर्मराजा // saddhp_7.34 //

अथ खलु भिक्षवस्ते महाब्रह्माणस्तं भगवन्तं महाभिज्ञाज्ञानाभिभुवं तथागतमर्हन्तं सम्यक्संबुद्धं संमुखमाभिः सारूप्याभिर्गाथाभिरभिष्टुत्य तं भगवन्तमेतदूचुः - प्रवर्तयतु भगवान् धर्मचक्रम् । प्रवर्तयतु सुगतो धर्मचक्रं लोके । देशयतु भगवान् निर्वृतिम् । तारयतु भगवान् सत्त्वान् । अनुगृह्णातु भगवानिमं लोकम् । देशयतु भगवान् धर्ममस्य लोकस्य समारकस्य सब्रह्मकस्य सश्रमणब्राह्मणिकायाः प्रजायाः सदेवमानुषासुरयाः । तद्भविष्यति बहुजनहिताय बहुजनसुखाय लोकानुकम्पायै महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च ॥

अथ खलु भिक्षवस्तानि पञ्चाशद् ब्रह्मकोटीनयुतशतसहस्राणि एकस्वरेण समसंगीत्या तं भगवन्तमाभ्यां सारूप्याभ्यां गाथाभ्यामध्यभाषन्त -

प्रवर्तया चक्रवरं महामुने प्रकाशया धर्मु दशादिशासु / तारेहि सत्त्वान् दुखधर्मपीडितान् प्रामोद्य हर्षं जनयस्व देहिनाम् // saddhp_7.35 //

यं श्रुत्व बोधीय भवेयु लाभिनो दिव्यानि स्थानानि व्रजेयु चापि / हायेयु चो आसुरकाय सर्वे शान्ताश्च दान्ताश्च सुखी भवेयुः // saddhp_7.36 //

अथ खलु भिक्षवः स भगवांस्तेषामपि महाब्रह्मणां तूष्णीभावेनाधिवासयति स्म ॥

तेन खलु पुनर्भिक्षवः समयेन दक्षिणस्यां दिशि तेषु पञ्चाशत्सु लोकधातुकोटीनयुतशतसहस्रेषु यानि ब्राह्माणि विमानानि तान्यतीव भ्राजन्ति तपन्ति विराजन्ति, श्रीमन्ति ओजस्वीनि च । अथ खलु भिक्षवस्तेषां महाब्रह्मणामेतदभवत् - इमानि खलु पुनर्ब्राह्माणि विमानान्यतीव भ्राजन्ति तपन्ति विराजन्ति श्रीमन्ति ओजस्वीनि च । कस्य खल्विदमेवंरूपं पूर्वनिमित्तं भविष्यति? अथ खलु भिक्षवस्तेषु पञ्चाशत्सु लोकधातुकोटीनयुतशतसहस्रेषु ये महाब्रह्माणः, ते सर्वे ऽन्योन्यभवनानि गत्वा आरोचयामासुः । अथ खलु भिक्षवः सुधर्मो नाम महाब्रह्मा तं महान्तं ब्रह्मगणं गाथाभ्यामध्यभाषत - नाहेतु नाकारणमद्य मार्षाः सर्वे विमाना इह जाज्वलन्ति / निमित्त दर्शेन्ति ह किं पि लोके साधु गवेषाम तमेतमर्थम् // saddhp_7.37 //

अनून कल्पान शता ह्यतीता नैतादृशं जातु निमित्तमासीत् / यदि वोपपन्नो इह देवपुत्रो उत्पन्नु लोके यदि वेह बुद्धः // saddhp_7.38 //

अथ खलु भिक्षवस्तेषु पञ्चाशत्सु लोकधातुकोटीनयुतशतसहस्रेषु ये महाब्रह्माणः ते सर्वे सहिताः समग्रास्तानि दिव्यानि स्वानि स्वानि ब्राह्माणि विमानान्यभिरुह्य दिव्यांश्च सुमेरुमात्रान् पुष्पपुटान् गृहीत्वा चतसृषु दिक्ष्वनुचंक्रमन्तो ऽनुविचरन्त उत्तरं दिग्भागं प्रक्रान्ताः । अद्राक्षुः खलु पुनर्भिक्षवस्ते महाब्रह्माण उत्तरं दिग्भागं तं भगवन्तं महाभिज्ञाज्ञानाभिभुवं तथागतमर्हन्तं सम्यक्संबुद्धं बोधिमण्डवराग्रगतं बोधिवृक्षमूले सिंहासनोपविष्टं परिवृतं पुरस्कृतं देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगमनुष्यामनुष्यैः, तैश्च पुत्रैः षोडषभी राजकुमारैरध्येष्यमाणं धर्मचक्रप्रवर्तनतायै । दृष्ट्वा च पुनर्येन स भगवांस्तेनोपसंक्रान्ताः । उपसंक्रम्य तस्य भगवतः पादौ शिरोभिर्वन्दित्वा तं भगवन्तमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य तैः सुमेरुमात्रैः पुष्पपुटैस्तं भगवन्तमभ्यवकिरन्ति स्म, अभिप्रकिरन्ति स्म तं च बोधिवृक्षं दशयोजनप्रमाणम् । अभ्यवकीर्य तानि ब्राह्माणि दिव्यानि विमानानि तस्य भगवतो निर्यातयामासुः - परिगृह्णातु भगवानिमानि ब्राह्माणि विमानानि अस्माकमनुकम्पामुपादाय । परिभुञ्जतु सुगत इमानि ब्राह्माणि विमानानि अस्माकमनुकम्पामुपादाय ॥

अथ खलु भिक्षवस्ते ऽपि महाब्रह्माणस्तानि स्वानि स्वानि विमानानि तस्य भगवतो निर्यात्य तस्यां वेलायां तं भगवन्तं संमुखमाभिः सारूप्याभिर्गाथाभिरभिष्टुवन्ति स्म -

सुदुर्लभं दर्शन नायकानां स्वभ्यागतं ते भवरागमर्दन / सुचिरस्य ते दर्शनमद्य लोके परिपूर्ण कल्पान शतेभि दृश्यसे // saddhp_7.39 //

तृषितां प्रजां तर्पय लोकनाथ अदृष्टपूर्वो ऽसि कथंचि दृश्यसे / औदुम्बरं पुष्प यथैव दुर्लभं तथैव दृष्टो ऽसि कथंचि नायक // saddhp_7.40 //

विमान अस्माकमिमा विनायक तवानुभावेन विशोभिताद्य / परिगृह्य एतानि समन्तचक्षुः परिभुञ्ज चास्माकमनुग्रहार्थम् // saddhp_7.41 //

अथ खलु भिक्षवस्ते महाब्रह्माणस्तं भगवन्तं महाभिज्ञाज्ञानाभिभुवं तथागतमर्हन्तं सम्यक्संबुद्धं संमुखमाभिः सारूप्यभिर्गाथाभिरभिष्टुत्य ते भगवन्तमेतदूचुः - प्रवर्तयतु भगवान् धर्मचक्रं लोके । देशयतु भगवान् निर्वृतिम् । तारयतु भगवान् सत्त्वान् । अनुगृह्णातु भगवानिमं लोकम् । देशयतु भगवान् धर्ममस्य लोकस्य समारकस्य सब्रह्मकस्य सश्रमणब्राह्मणिकायाः (वैद्य 114) प्रजायाः सदेवमानुषासुरायाः । तद्भविष्यति बहुजनहिताय बहुजनसुखाय लोकानुकम्पायै महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च ॥

अथ खलु भिक्षवस्तानि पञ्चाशद् ब्रह्मकोटीनयुतशतसहस्राणि एकस्वरेण समसंगीत्या तं भगवन्तमाभ्यां सारूप्याभ्यां गाथाभ्यामध्यभाषन्त -

देशेहि धर्मं भगवन् विनायक प्रवर्तया धर्ममयं च चक्रम् / निर्नादया धर्ममयं च दुन्दुभिं तं धर्मशङ्खं च प्रपूरयस्व // saddhp_7.42 //

सद्धर्मवर्षं वर्षयस्व लोके वल्गुस्वरं भाष सुभाषितं च / अध्येषितो धर्ममुदीरयस्व मोचेहि सत्त्वा नयुतान कोट्यः // saddhp_7.43 //

अथ खलु भिक्षवः स भगवांस्तेषां महाब्रह्मणां तूष्णींभावेनाधिवासयति स्म । पेयालम् । एवं दक्षिणपश्चिमायां दिशि, एवं पश्चिमायां दिशि, एवं पश्चिमोत्तरस्यां दिशि, एवमुत्तरस्यां दिशि, एवमुत्तरपूर्वस्यां दिशि, एवमधोदिशि ॥

अथ खलु भिक्षव ऊर्ध्वायां दिशि तेषु पञ्चाशत्सु लोकधातुकोटीनयुतशतसहस्रेषु यानि ब्राह्माणि विमानानि, तान्यतीव भ्राजन्ति तपन्ति विराजन्ति श्रीमन्ति ओजस्वीनि च । अथ खलु भिक्षवस्तेषां महाब्रह्मणामेतदभवत् - इमानि खलु पुनर्ब्राह्माणि विमानान्यतीव भ्राजन्ति तपन्ति विराजन्ति श्रीमन्ति ओजस्वीनि च । कस्य खल्विदमेवंरूपं पूर्वंनिमित्तं भविष्यतीति? अथ खलु भिक्षवस्तेषु पञ्चाशत्सु लोकधातुकोटीनयुतशतसहस्रेषु ये महाब्रह्माणः, ते सर्वे ऽन्योन्यभवनानि गत्वा आरोचयामासुः ॥

अथ खलु भिक्षवः शिखी नाम महाब्रह्मा तं महान्तं ब्रह्मगणं गाथाभिरध्यभाषत -

किं कारणं मार्ष इदं भविष्यति येना विमानानि परिस्फुटानि / ओजेन वर्णेन द्युतीय चापि अधिमात्र वृद्धानि किमत्र कारणम् // saddhp_7.44 //

न ईदृशं नो अभिदृष्टपूर्वं श्रुतं च केनो तथ पूर्व आसीत् / ओज ऽस्फुटानि यथ अद्य एता अधिमात्र भ्राजन्ति किमत्र कारणम् // saddhp_7.45 //

यदि वा नु कश्चिद्भवि देवपुत्रः शुभेन कर्मेण समन्वितो इह / उपपन्नु तस्यो अयमानुभावो यदि वा भवेद् बुद्ध कदाचि लोके // saddhp_7.46 //

अथ खलु भिक्षवस्तेषु पञ्चाशत्सु लोकधातुकोटीनयुतशतसहस्रेषु ये महाब्रह्माणः, ते सर्वे सहिताः समग्रास्तानि दिव्यानि स्वानि स्वानि ब्राह्माणि विमानान्यभिरुह्य दिव्यांश्च सुमेरुमात्रान् पुष्पपुटान् गृहीत्वा चतसृषु दिक्ष्वनुचंक्रमन्तो ऽनुविचरन्तो येन अधोदिग्भागस्तेनोपसंक्रान्ताः । अद्राक्षुः खलु पुनर्भिक्षवस्ते महाब्रह्माणो ऽधोदिग्भागे तं भगवन्तं महाभिज्ञाज्ञानाभिभुवं तथागतमर्हन्तं सम्यक्संबुद्धं बोधिमण्डवराग्रगतं बोधिवृक्षमूले सिंहासनोपविष्टं परिवृतं पुरस्कृतं देवनागयक्षगन्धर्वासुरगरूडकिन्नरमहोरगमनुष्यामनुष्यैः, तैश्च पुत्रैः षोडशभी राजकुमारैरध्येष्यमाणं धर्मचक्रप्रवर्तनतायै । दृष्ट्वा च पुनर्येन स भगवांस्तेनोपसंक्रान्ताः । उपसंक्रम्य भगवतः पादौ शिरोभिर्वन्दित्वा तं भगवन्तमनेकशतसहस्रकृत्वः प्रदक्षिणीकृत्य तैः सुमेरुमात्रैः पुष्पपुटैस्तं भगवन्तमभ्यवकिरन्ति स्म, अभिप्रकिरन्ति स्म तं च बोधिवृक्षं दशयोजनप्रमाणम् । अभ्यवकीर्य तानि दिव्यानि स्वानि स्वानि ब्राह्माणि विमानानि तस्य भगवतो निर्यातयामासुः - प्रतिगृह्णातु भगवानिमानि ब्राह्माणि विमानान्यस्माकमनुकम्पामुपादाय । परिभुञ्जतु सुगत इमानि ब्राह्माणि विमानान्यस्माकमनुकम्पामुपादायेति ॥

अथ खलु भिक्षवस्ते ऽपि महाब्रह्माणस्तानि स्वानि स्वानि विमानानि तस्य भगवतो निर्यात्य तस्यां वेलायां तं भगवन्तं संमुखमाभिः सारूप्याभिर्गाथाभिरभिष्टुवन्ति स्म -

साधु दर्शन बुद्धान लोकनाथान तायिनाम् / त्रधातुकस्मि बुद्धा वै सत्त्वानां ये प्रमोचकाः // saddhp_7.47 //

समन्तचक्षु लोकेन्द्रा व्यवलोकेन्ति दिशो दश / विवरित्वामृतद्वारमोतारेन्ति बहून् जनान् // saddhp_7.48 //

शून्या अचिन्तियाः कल्पा अतीताः पूर्वि ये अभू / अदर्शनाज्जिनेन्द्राणां अन्धा आसीद्दिशो दश // saddhp_7.49 //

वर्धन्ति नरकास्तीव्रास्तिर्यग्योनिस्तथासुराः / प्रेतेषु चोपपद्यन्ते प्राणिकोट्यः सहस्रशः // saddhp_7.50 //

दिव्याः कायाश्च हीयन्ते च्युता गच्छन्ति दुर्गतिम् / अश्रुत्वा धर्म बुद्धानां गत्येषां भोति पापिका // saddhp_7.51 //

चर्याशुद्धिगतिप्रज्ञा हीयन्ते सर्वप्राणिनाम् / सुखं विनश्यती तेषां सुखसंज्ञा च नश्यति // saddhp_7.52 //

अनाचाराश्च ते भोन्ति असद्धर्मे प्रतिष्ठिताः / अदान्ता लोकनाथेन दुर्गतिं प्रपतन्ति ते // saddhp_7.53 //

दृष्टो ऽसि लोकप्रद्योत सुचिरेणासि आगतः / उत्पन्नु सर्वसत्त्वानां कृतेन अनुकम्पकः // saddhp_7.54 //

दिष्टया क्षेमेण प्राप्तो ऽसि बुद्धज्ञानमनुत्तरम् / वयं ते अनुमोदामो लोकश्चैव सदेवकः // saddhp_7.55 //

विमानानि सुचित्राणि अनुभावेन ते विभो / ददाम ते महावीर प्रतिगृह्ण महामुने // saddhp_7.56 //

अस्माकमनुकम्पार्थं परिभुञ्ज विनायक / वयं च सर्वसत्त्वाश्च अग्रां बोधिं स्पृशेमहि // saddhp_7.57 //

अथ खलु भिक्षवस्ते महाब्रह्माणस्तं भगवन्तं महाभिज्ञाज्ञानाभिभुवं तथागतमर्हन्तं सम्यक्संबुद्धं संमुखमाभिः सारूप्याभिर्गाथाभिरभिष्टुत्य तं भगवन्तमेतदूचुः - प्रवर्तयतु भगवान् धर्मचक्रम् । प्रवर्तयतु सुगतो धर्मचक्रम् । देशयतु भगवान् निर्वृतिम् । तारयतु भगवान् सर्वसत्त्वान् । अनुगृह्णातु भगवानिमं लोकम् । देशयतु भगवान् । धर्ममस्य लोकस्य समारकस्य सब्रह्मकस्य सश्रमणब्राह्मणिकायाः प्रजायाः सदेवमानुषासुरायाः । तद्भविष्यति बहुजनहिताय बहुजनसुखाय लोकनुकम्पायै महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च ॥

अथ खलु भिक्षवस्तानि पञ्चाशद् ब्रह्मकोटीनयुतशतसहस्राण्येकस्वरेण समसंगीत्या तं भगवन्तमाभ्यां सारूप्याभ्यां गाथाभ्यामध्यभाषन्त -

प्रवर्तया चक्रवरमनुत्तरं पराहनस्वा अमृतस्य दुन्दुभिम् / प्रमोचया दुःखशतैश्च सत्त्वान् निर्वाणमार्गं च प्रदर्शयस्व // saddhp_7.58 //

अस्माभिरध्येषितु भाष धर्ममस्माननुगृह्ण इमं च लोकम् / वल्गुस्वरं चो मधुरं प्रमुञ्च समुदानितं कल्पसहस्रकोटिभिः // saddhp_7.59 //

अथ खलु भिक्षवः स भगवान् महाभिज्ञाज्ञानाभिभूस्तथागतो ऽर्हन् सम्यक्संबुद्धस्तेषां ब्रह्मकोटीनयुतशतसहस्राणामध्येषणां विदित्वा तेषां च षोडशानां पुत्राणां राजकुमाराणाम्, तस्यां वेलायां धर्मचक्रं प्रवर्तयामास त्रिपरिवर्तं द्वादशाकारमप्रवर्तितं श्रमणेन वा ब्राह्मणेन वा देवेन वा मारेण वा ब्रह्मणा वा अन्येन वा केनचित् पुनर्लोके सह धर्मेण । यदिदं (वैद्य 117) दुःखम्, अयं दुःखसमुदयः, अयं दुःखनिरोधः, इयं दुःखनिरोधगामिनी प्रतिपदार्यसत्यमिति । प्रतीत्यसमुत्पादप्रवृत्तिं च विस्तरेण संप्रकाशयामास - इति हि भिक्षवो ऽविद्याप्रत्ययाः संस्काराः, संस्कारप्रत्ययं विज्ञानम्, विज्ञानप्रत्ययं नामरूपम्, नामरूपप्रत्ययं षडायतनम्, षडायतनप्रत्ययः स्पर्शः, स्पर्शप्रत्यया वेदना वेदनाप्रत्यया तृष्णा, तृष्णाप्रत्ययमुपादानम्, उपादानप्रत्ययो भवः, भवप्रत्यया जातिः, जातिप्रत्यया जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासाः संभवन्ति । एवमस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो भवति । अविद्यानिरोधात् संस्कारनिरोधः, संस्कारनिरोधाद् विज्ञाननिरोधः, विज्ञाननिरोधान्नामरूपनिरोधः, नामरूपनिरोधात् षडायतननिरोधः, षडायतननिरोधात् स्पर्शनिरोधः, स्पर्शनिरोधाद् वेदनानिरोधः, वेदनानिरोधात्तृष्णानिरोधः, तृष्णानिरोधादुपादाननिरोधः, उपादाननिरोधाद् भवनिरोधः, भवनिरोधाज्जातिनिरोधः, जातिनिरोधाज्जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासा निरुध्यन्ते । एवमस्य केवलस्य महतो दुःखस्कन्धस्य निरोधो भवति ॥

सहप्रवर्तितं चेदं भिक्षवस्तेन भगवता महाभिज्ञाज्ञानाभिभुवा तथागतेनार्हता सम्यक्संबुद्धेन धर्मचक्रं सदेवकस्य लोकस्य समारकस्य सब्रह्मकस्य सश्रमणब्राह्मणिकायाः प्रजायाः सदेवमानुषासुरायाः पर्षदः पुरस्तात्, अथ तस्मिन्नेव क्षणलवमुहूर्ते षष्टेः प्राणिकोटीनयुतशतसहस्राणामनुपादाय आस्रवेभ्यश्चित्तानि विमुक्तानि । सर्वे च ते त्रैविद्याः षडभिज्ञा अष्टविमोक्षध्यायिनः संवृत्ताः । पुनरनुपूर्वेण भिक्षवः स भगवान् महाभिज्ञाज्ञानाभिभूस्तथागतो ऽर्हन् सम्यक्संबुद्धो द्वितीयां धर्मदेशनामकार्षीत्, तृतीयामपि धर्मदेशनामकार्षीत्, चतुर्थीमपि धर्मदेशनामकार्षीत् ॥

अथ खलु भिक्षवस्तस्य भगवतो महाभिज्ञाज्ञानाभिभुवस्तथागतस्यार्हतः सम्यक्संबुद्धस्यैकैकस्यां धर्मदेशनायां गङ्गानदीवालुकासमानां प्राणिकोटीनयुतशतसहस्राणामनुपादाय आस्रवेभ्यश्चित्तानि विमुक्तानि । ततः पश्चाद् भिक्षवस्तस्य भगवतो गणनासमतिक्रान्तः श्रावकसंघो ऽभूत् ॥

तेन खलु पुनर्भिक्षवः समयेन ते षोडश राजकुमाराः कुमारभूता एव समानाः श्रद्धया अगारादनागारिकां प्रव्रजिताः । सर्वे च ते श्रामणेरा अभूवन् पण्डिता व्यक्ता मेधाविनः कुशला बहुबुद्धशतसहस्रचरिताविनो ऽर्थिनश्चानुत्तरायाः सम्यक्संबोधेः । अथ खलु भिक्षवस्ते षोडश श्रामणेरास्तं भगवन्तं महाभिज्ञाज्ञानाभिभुवं तथागतमर्हन्तं सम्यक्संबुद्धमेतदूचुः - इमानि खलु पुनर्भगवंस्तथागतस्य बहूनि श्रावककोटीनयुतशतसहस्राणि महर्द्धिकानि महानुभावानि महेशाख्यानि भगवतो धर्मदेशनया परिनिष्पन्नानि । तत् साधु भगवांस्तथागतो ऽर्हन् सम्यक्संबुद्धो ऽस्माकमनुकम्पामुपादाय अनुत्तरां सम्यक्संबोधिमारभ्य धर्मं देशयतु, यद्वयमपि तथागतस्यानुशिक्षेमहि । अर्थिनो वयं भगवंस्तथागतज्ञानदर्शनेन । भगवानेवास्माकमस्मिन्नेवार्थे साक्षी । त्वं च भगवन् सर्वसत्त्वाशयज्ञो जानीषे अस्माकमध्याशयमिति ॥

तेन खलु पुनर्भिक्षवः समयेन तान् बालान् दारकान् राजकुमारान् प्रव्रजितान् श्रामणेरान् दृष्ट्वा यावांस्तस्य राज्ञश्चक्रवर्तिनः परिवारः, ततो ऽर्धः प्रव्रजितो ऽभूदशीतिप्राणिकोटीनयुतशतसहस्राणि ॥

अथ खलु भिक्षवः स भगवान् महाभिज्ञाज्ञानाभिभूस्तथागतो ऽर्हन् सम्यक्संबुद्धस्तेषां श्रामणेराणामध्याशयं विदित्वा विंशतेः कल्पसहस्राणामत्ययेन सद्धर्मपुण्डरीकं नाम धर्मपर्यायं सूत्रान्तं महावैपुल्यं बोधिसत्त्वाववादं सर्वबुद्धपरिग्रहं विस्तरेण संप्रकाशयामास तासां सर्वासां चतसृणां पर्षदाम् ॥

तेन खलु पुनर्भिक्षवः समयेन तस्य भगवतो भाषितं ते षोदश राजकुमाराः श्रामणेरा उद्गृहीतवन्तो धारितवन्त आराधितवन्तः पर्याप्तवन्तः ॥

अथ खलु भिक्षवः स भगवान् महाभिज्ञाज्ञानाभिभूस्तथागतो ऽर्हन् सम्यक्संबुद्धस्तान् षोडश श्रामणेरान् व्याकार्षीदनुत्तरायां सम्यक्संबोधौ । तस्य खलु पुनर्भिक्षवो महाभिज्ञाज्ञानाभिभुवस्तथागतस्यार्हतः सम्यक्संबुद्धस्येमं सद्धर्मपुण्डरीकं धर्मपर्यायं भाषमाणस्य श्रावकाश्चाधिमुक्तवन्तः । ते च षोडश श्रामणेरा बहूनि च प्राणिकोटीनयुतशतसहस्राणि विचिकित्साप्राप्तान्यभूवन् ॥

अथ खलु भिक्षवः स भगवान् महाभिज्ञाज्ञानाभिभूस्तथागतो ऽर्हन् सम्यक्संबुद्ध इमं सद्धर्मपुण्डरीकं धर्मपर्यायमष्टौ कल्पसहस्राण्यविश्रान्तो भाषित्वा विहारं प्रविष्टः प्रतिसंलयनाय । तथा प्रतिसंलीनश्च भिक्षवः स तथागतश्चतुरशीतिकल्पसहस्राणि विहारस्थित एवासीत् ॥

अथ खलु भिक्षवस्ते षोडश श्रामणेरास्तं भगवन्तं महाभिज्ञाज्ञानाभिभुवं तथागतं प्रतिसंलीनं विदित्वा पृथक् पृथग् धर्मासनानि सिंहासनानि प्रज्ञाप्य तेषु निषण्णास्तं भगवन्तं महाभिज्ञाज्ञानाभिभुवं तथागतं नमस्कृत्य तं सद्धर्मपुण्डरीकं धर्मपर्यायं विस्तरेण चतसृणां पर्षदां चतुरशीतिकल्पसहस्राणि संप्रकाशितवन्तः । तत्र भिक्षव एकैकः श्रामणेरो बोधिसत्त्वः षष्टिषष्टिगङ्गानदीवालुकासमानि प्राणिकोटीनयुतशतसहस्राण्यनुत्तरायां सम्यक्संबोधौ परिपाचितवान् समादापितवान् संहर्षितवान् समुत्तेजितवान् संप्रहर्षितवानवतारितवान् ॥

अथ खलु भिक्षवः स भगवान् महाभिज्ञाज्ञानाभिभूस्तथागतो ऽर्हन् सम्यक्संबुद्धस्तेषां चतुरशीतेः कल्पसहस्राणामत्ययेन स्मृतिमान् संप्रजानस्तस्मात् समाधेर्व्युत्तिष्ठत् । व्युत्थाय च स भगवान् महाभिज्ञाज्ञानाभिभूस्तथागतो येन तद्धर्मासनं तेनोपसंक्रामत् । उपसंक्रम्य प्रज्ञप्त एवासने न्यषीदत् । समनन्तरनिषण्णश्च खलु पुनर्भिक्षवः स भगवान् महाभिज्ञाज्ञानाभिभूस्तथागतस्तस्मिन् धर्मासने, अथ तावदेव सर्वावन्तं पर्षन्मण्डलमवलोक्य भिक्षुसंघमामन्त्रयामासआश्चर्यप्राप्ता भिक्षवो ऽद्भुतप्राप्ता इमे षोडश श्रामणेराः प्रज्ञावन्तो बहुबुद्धकोटीनयुतशतसहस्रपर्युपासिताश्चीर्णचरिता बुद्धज्ञानपर्युपासका बुद्धज्ञानप्रतिग्राहका बुद्धाज्ञानावतारका बुद्धज्ञानसंदर्शकाः । पर्युपासध्वं भिक्षव एतान् षोडश श्रामणेरान् पुनः पुनः । ये केचिद् भिक्षवः (वैद्य 119) श्रावकयानिका वा प्रत्येकबुद्धयानिका वा बोधिसत्त्वयानिका वा एषां कुलपुत्राणां धर्मदेशनां न प्रतिक्षेप्स्यन्ति । न प्रतिबाधिष्यन्ते, सर्वे ते क्षिप्रमनुत्तरायाः सम्यक्संबोधेर्लाभिनो भविष्यन्ति, सर्वे च ते तथागतज्ञानमनुप्राप्स्यन्ति ॥

तैः खलु पुनर्भिक्षवः षोडशभिः कुलपुत्रैस्तस्य भगवतः शासने ऽयं सद्धर्मपुण्डरीको धर्मपर्यायः पुनः पुनः संप्रकाशितो ऽभूत् । तैः खलु पुनर्भिक्षवः षोडशभिः श्रामणेरैर्बोधिसत्त्वैर्महासत्त्वैर्यानि तान्येकैकेन बोधिसत्त्वेन महासत्त्वेन षष्टिषष्टिगङ्गानदीवालुकासमानि सत्त्वकोटीनयुतशतसहस्राणि बोधाय समादापितान्यभूवन्, सर्वाणि च तानि तैरेव सार्धं तासु तासु जातिष्वनुप्रव्रजितानि । तान्येव समनुपश्यन्तस्तेषामेवान्तिकाद्धर्ममश्रौषुः । तैश्चत्वारिंशद् बुद्धकोटीसहस्राण्यारागितानि । केचिदद्याप्यारागयन्ति ॥

आरोचयामि वो भिक्षवः, प्रतिवेदयामि वः । ये ते षोडश राजकुमाराः कुमारभूता ये तस्य भगवतः शासने श्रामणेरा धर्मभाणका अभूवन्, सर्वे ते ऽनुत्तरां सम्यक्संबोधिमभिसंबुद्धाः । सर्वे च त एतर्हि तिष्ठन्ति ध्रियन्ते यापयन्ति । दशसु दिक्षु नानाबुद्धक्षेत्रेषु बहूनां श्रावकबोधिसत्त्वकोटीनयुतशतसहस्राणां धर्मं देशयन्ति । यदुत पूर्वस्यां दिशि भिक्षवो ऽभिरत्यां लोकधातावक्षोभ्यो नाम तथागतो ऽर्हन् सम्यक्संबुद्धो मेरुकूटश्च नाम तथागतो ऽर्हन् सम्यक्संबुद्धः । पूर्वदक्षिणस्यां दिशि भिक्षवः सिंहघोषश्च नाम तथागतो ऽर्हन् सम्यक्संबुद्धः सिंहध्वजश्च नाम तथागतो ऽर्हन् सम्यक्संबुद्धः । दक्षिणस्यां दिशि भिक्षवः आकाशप्रतिष्ठितश्च नाम तथागतो ऽर्हन् सम्यक्संबुद्धो नित्यपरिनिर्वृतश्च नाम तथागतो ऽर्हन् सम्यक्संबुद्धः । दक्षिणपश्चिमायां दिशि भिक्षव इन्द्रध्वजश्च नाम तथागतो ऽर्हन् सम्यक्संबुद्धो ब्रह्मध्वजश्च नाम तथागतो ऽर्हन् सम्यक्संबुद्धः । पश्चिमायां दिशि भिक्षवो ऽमितायुश्च नाम तथागतो ऽर्हन् सम्यक्संबुद्धः सर्वलोकधातूपद्रवोद्वेगप्रत्युत्तीर्णश्च नाम तथागतो ऽर्हन् सम्यक्संबुद्धः । पश्चिमोत्तरस्यां दिशि भिक्षवस्तमालपत्रचन्दनगन्धाभिज्ञश्च नाम तथागतो ऽर्हन् सम्यक्संबुद्धो मेरुकल्पश्च नाम तथागतो ऽर्हन् सम्यक्संबुद्धः । उत्तरस्यां दिशि भिक्षवो मेघस्वरदीपश्च नाम तथागतो ऽर्हन् सम्यक्संबुद्धो मेघस्वरराजश्च नाम तथागतो ऽर्हन् सम्यक्संबुद्धः । उत्तरपूर्वस्यां दिशि भिक्षवः सर्वलोकभयच्छम्भितत्वविध्वंसनरकरश्च नाम तथागतो ऽर्हन् सम्यक्संबुद्धः । अहं च भिक्षवः शाक्यमुनिर्नाम तथागतो ऽर्हन् सम्यक्संबुद्धः षोडशमो मध्ये खल्वस्यां सहायां लोकधातावनुत्तरां सम्यक्संबोधिमभिसंबुद्धः ॥

ये पुनस्ते भिक्षवस्तदा अस्माकं श्रामणेरभूतानां सत्त्वां धर्मं श्रुतवन्तः तस्य भगवतः शासन एकैकस्य बोधिसत्त्वस्य महासत्त्वस्य बहूनि गङ्गानदीवालुकासमानि सत्त्वकोटीनयुतशतसहस्राणि यान्यस्माभिः समादापितान्यनुत्तरायां सम्यक्संबोधौ, तान्येतानि भिक्षवो ऽद्यापि श्रावकभूमावेवावस्थितानि । परिपाच्यन्त एवानुत्तरायां सम्यक्संबोधौ । एषैवैषामानुपूर्वी अनुत्तरायाः सम्यक्संबोधेरभिसंबोधनाय । तत्कस्य हेतोः? एवं दुरधिमोच्यं हि भिक्षवस्तथागतज्ञानम् (वैद्य 120) । कतमे च ते भिक्षवः सत्त्वाः, ये मया बोधिसत्त्वेन तस्य भगवतः शासने अप्रमेयाण्यसंख्येयानि गङ्गानदीवालुकासमानि सत्त्वकोटीनयुतशतसहस्राणि सर्वज्ञताधर्ममनुश्रावितानि? यूयं ते भिक्षवस्तेन कालेन तेन समयेन सत्त्वा अभूवन् ॥

ये च मम परिनिर्वृतस्य अनागते ऽध्वनि श्रावका भविष्यन्ति, बोधिसत्त्वचर्यां च श्रोष्यन्ति, न चावभोत्स्यन्ते बोधिसत्त्वा वयमिति, किंचापि ते भिक्षवः सर्वे परिनिर्वाणसंज्ञिनः परिनिर्वास्यन्ति, अपि तु खलु पुनर्भिक्षवो यदहमन्यासु लोकधातुष्वन्योन्यैर्नामधेयैर्विहरामि, तत्र ते पुनरुत्पत्स्यन्ते तथागतज्ञानं पर्येषमाणाः । तत्र च ते पुनरेवैतां क्रियां श्रोष्यन्ति । एकमेव तथागतानां परिनिर्वाणम् । नास्त्यन्यद् द्वितीयमितो बहिर्निर्वाणम् । तथागतानामेतद्भिक्षव उपायकौशल्यं वेदितव्यं धर्मदेशनाभिनिर्हारश्च । यस्मिन् भिक्षवः समये तथागतः परिनिर्वाणकालसमयमात्मनः समनुपश्यति, परिशुद्धं च पर्षदं पश्यति अधिमुक्तिसारां शून्यधर्मगतिं गतां ध्यानवतीं महाध्यानवतीम्, अथ खलु भिक्षवस्तथागतो ऽयं काल इति विदित्वा सर्वान् बोधिसत्त्वान् सर्वश्रावकांश्च संनिपात्य पश्चादेतमर्थं संश्रावयति । न भिक्षवः किंचिदस्ति लोके द्वितीयं नाम यानं परिनिर्वाणं वा, कः पुनर्वादस्तृतीयस्य? उपायकौशल्यं खल्विदं भिक्षवस्तथागतानामर्हताम् - दूरप्रनष्टं सत्त्वधातुं विदित्वा हीनाभिरतान् कामपङ्कमग्नान्, तत एषां भिक्षवस्तथागतस्तन्निर्वाणं भाषते यदधिमुच्यन्ते ॥

तद्यथापि नाम भिक्षव इह स्यात् पञ्चयोजनशतिकमटवीकान्तारम् । महांश्चात्र जनकायः प्रतिपन्नो भवेद् रत्नदीपं गमनाय । देशिकश्चैषामेको भवेद् व्यक्तः पण्डितो निपुणो मेधावी कुशलः खल्वटवीदुर्गाणाम् । स च तं सार्थमटवीमवक्रामयेत् । अथ खलु स महाजनकायः श्रान्तः क्लान्तो भीतस्त्रस्तः एवं वदेत् - यत् खल्वार्य देशिक परिणायक जानीयाः - वयं हि श्रान्ताः क्लान्ता भीतास्त्रस्ता अनिर्वृताः । पुनरेव प्रतिनिवर्तयिष्यामः । अतिदूरमितो ऽटवीकान्तारमिति । अथ खलु भिक्षवः स देशिक उपायकुशलस्तान् पुरुषान् प्रतिनिवर्तितुकामान् विदित्वा एवं चिन्तयेत् - मा खल्विमे तपस्विनस्तादृशं महारत्नद्वीपं न गच्छेयुरिति । स तेषामनुकम्पार्थमुपायकौशल्यं प्रयोजयेत् । तस्या अटव्या मध्ये योजनशतं वा द्वियोजनशतं वा त्रियोजनशतं वा अतिक्रम्य ऋद्धिमयं नगरमभिनिर्मिमीयात् । ततस्तान् पुरुषानेवं वदेत् - मा भवन्तो भैष्ट, मा निवर्तध्वम् । अयमसौ महाजनपदः । अत्र विश्राम्यत । अत्र वो यानि कानिचित् करणीयानि तानि सर्वाणि कुरुध्वम् । अत्र निर्वाणप्राप्ता विहरध्वमत्र विश्रान्ताः । यस्य पुनः कार्यं भविष्यति, स तं महारत्नद्वीपं गमिष्यति ॥

अथ खलु भिक्षवस्ते कान्तारप्राप्ताः सत्त्वा आश्चर्यप्राप्ता अद्भुतप्राप्ता भवेयुः - मुक्ता वयमटवीकान्तारात् । इह निर्वाणप्राप्ता विहरिष्याम इति । अथ खलु भिक्षवस्ते पुरुषास्तदृद्धिमयं नगरं प्रविशेयुः, आगतसंज्ञिनश्च भवेयुः, निस्तीर्णसंज्ञिनश्च भवेयुः । निर्वृताः शीतीभूता स्म इति मन्येरन् । ततस्तान् देशिको विश्रान्तान् विदित्वा तदृद्धिमयं नगरमन्तर्धापयेत् । अन्तर्धापयित्वा च तान् पुरुषानेवं वदेत् - आगच्छन्तु भवन्तः सत्त्वाः । अभ्यासन्न एष महारत्नद्वीपः । इदं तु मया नगरं युष्माकं विश्रामणार्थमभिनिर्मितमिति ॥

एवमेव भिक्षवस्तथागतो ऽर्हन् सम्यक्संबुद्धो युष्माकं सर्वसत्त्वानां च देशिकः । अथ खलु भिक्षवस्तथागतो ऽर्हन् सम्यक्संबुद्ध एवं पश्यति - महदिदं क्लेशकान्तारं निर्गन्तव्यं निष्क्रान्तव्यं प्रहातव्यम् । मा खल्विमे एकमेव बुद्धज्ञानं श्रुत्वा द्रवेणैव प्रतिनिवर्तयेयुः, नैवोपसंक्रमेयुः । बहुपरिक्लेशमिदं बुद्धज्ञानं समुदानयितव्यमिति । तत्र तथागतः सत्त्वान् दुर्बलाशयान् विदित्वा यथा स देशिकस्तदृद्धिमयं नगरमभिनिर्मितीते तेषां सत्त्वानां विश्रामणार्थम्, विश्रान्तानां चैषामेवं कथयति - इदं खलु ऋद्धिमयं नगरमिति, एवमेव भिक्षवस्तथागतो ऽप्यर्हन् सम्यक्संबुद्धो महोपायकौशल्येन अन्तरा द्वे निर्वाणभूमी सत्त्वानां विश्रामणार्थं देशयति संप्रकाशयति यदिदं श्रावकभूमिं प्रत्येकबुद्धभूमिं च । यस्मिंश्च भिक्षवः समये ते सत्त्वास्तत्र स्थिता भवन्ति, अथ खलु भिक्षवस्तथागतो ऽप्येवं संश्रावयति - न खलु पुनर्भिक्षवो यूयं कृतकृत्याः कृतकरणीयाः । अपि तु खलु पुनर्भिक्षवो युष्माकमभ्यासः । इतस्तथागतज्ञानं व्यवलोकयध्वं भिक्षवो व्यवचारयध्वम् । यद् युष्माकं निर्वाणं नैव निर्वाणम्, अपि तु खलु पुनरूपायकौशल्यमेतद् भिक्षवस्तथागतानामर्हतां सम्यक्संबुद्धानां यत् त्रीणि यानानि संप्रकाशयन्तीति ॥

अथ खलु भगवानिममेवार्थं भूयस्या मात्रयोपदर्शयमानस्तस्यां वेलायामिमा गाथा अभाषत -

अभिज्ञज्ञानाभिभु लोकनायको यद्बोधिमण्डस्मि निषण्ण आसीत् / दशेह सो अन्तरकल्प पूर्णान् न लप्सि बोधिं परमार्थदर्शी // saddhp_7.60 //

देवाथ नागा असुराथ गुह्यका उद्युक्त पूजार्थ जिनस्य तस्य / पुष्पाण वर्षं प्रमुमोचु तत्र बुद्धे च बोधिं नरनायके ऽस्मिन् // saddhp_7.61 //

उपरिं च खे दुन्दुभयो विनेदुः सत्कारपूजार्थ जिनस्य तस्य / सुदुःखिता चापि जिनेन तत्र चिरबुध्यमानेन अनुत्तरं पदम् // saddhp_7.62 //

दशान चो अन्तरकल्प अत्ययात् स्पृशे स बोधिं भगवाननाभिभूः / हृष्टा उदग्रास्तद आसु सर्वे देवा मनुष्या भुजगासुराश्च // saddhp_7.63 //

वीराः कुमारा अथ तस्य षोडश पुत्रा गुणाढ्या नरनायकस्य / उपसंक्रमी प्राणीसहस्रकोटिभिः पुरस्कृतास्तं द्विपदेन्द्रमग्र्यम् // saddhp_7.64 //

वन्दित्व पादौ च विनायकस्य अध्येषिषू धर्म प्रकाशयस्व / अस्मांश्च तर्पेहि इमं च लोकं सुभाषितेनेह नरेन्द्रसिंह // saddhp_7.65 //

चिरस्य लोकस्य दशद्दिशे ऽस्मिन् विदितो ऽसि उत्पन्नु महाविनायक / निमित्तसंचोदनहेतु प्राणिनां ब्राह्मा विमानानि प्रकम्पयन्तः // saddhp_7.66 //

दिशाय पूर्वाय सहस्रकोट्यः क्षेत्राण पञ्चाशदभूषि कम्पिताः / तत्रापि ये ब्राह्म विमान अग्रास्ते तेजवन्तो अधिमात्रमासि // saddhp_7.67 //

विदित्व ते पूर्वनिमित्तमीदृशमुपसंक्रमी लोकविनायकेन्द्रम् / पुष्पैरिहाभ्योकिरियाण नायकमर्पेन्ति ते सर्व विमान तस्य // saddhp_7.68 //

अध्येषिषू चक्रप्रवर्तनाय गाथाभिगीतेन अभिसंस्तविंसु / तूष्णीं च सो आसि नरेन्द्रराजा न ताव कालो मम धर्म भाषितुम् // saddhp_7.69 //

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.