Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa
सद्धर्मपुण्डरीकसूत्र
- Thông tin
- GRETIL — P.L. Vaidya, Darbhanga : The Mithila Institute, 1960 (Buddhist Sanskrit Texts, 6).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
रात्रिंदिवानि क्षपयामि नाथ भूयिष्ठ सो एव विचिन्तयन्तः / पृच्छामि तावद् भगवन्तमेव भ्रष्टो ऽहमस्मीत्यथ वा न वेति // saddhp_3.8 //
एवं च मे चिन्तयतो जिनेन्द्र गच्छन्ति रात्रिंदिव नित्यकालम् / दृष्ट्वा च अन्यान् बहुबोधिसत्त्वान् संवर्णितांल्लोकविनायकेन // saddhp_3.9 //
श्रुत्वा च सो ऽहं इमु बुद्धधर्मं संघाय एतत्किल भाषितं ति / अतर्किकं सूक्ष्ममनास्रवं च ज्ञानं प्रणेती जिन बोधिमण्डे // saddhp_3.10 //
दृष्टीविलग्नो ह्यहमासि पूर्वं परिव्राजकस्तीर्थिकसंमतश्च / ततो ममा आशयु ज्ञात्व नाथो दृष्टीविमोक्षाय ब्रवीति निर्वृतिम् // saddhp_3.11 //
विमुच्य ता दृष्टिकृतानि सर्वशः शून्यांश्च धर्मानहु स्पर्शयित्वा / ततो विजानाम्यहु निर्वृतो ऽस्मि न चापि निर्वाणमिदं प्रवुच्यति // saddhp_3.12 //
यदा तु बुद्धो भवते ऽग्रसत्त्वः पुरस्कृतो नरमरुयक्षराक्षसैः / द्वात्रिंशतीलक्षणरूपधारी अशेषतो निर्वृतु भोति तत्र // saddhp_3.13 //
व्यपनीत सर्वाणि मि मन्यितानि श्रुत्वा च घोषं अहमद्य निर्वृतः / यदापि व्याकुर्वसि अग्रबोधौ पुरतो हि लोकस्य सदेवकस्य // saddhp_3.14 //
बलवच्च आसीन्मम छम्भितत्वं प्रथमं गिरं श्रुत्व विनायकस्य / मा हैव मारो स भवेद्विहेठको अभिनिर्मिणित्वा भुवि बुद्धवेषम् // saddhp_3.15 //
यदा तु हेतूहि च कारणैश्च दृष्टान्तकोटीनयुतैश्च दर्शिता / सुपरिस्थिता सा वरबुद्धबोधिस्ततो ऽस्मि निष्काङ्क्षु श्रुणित्व धर्मम् // saddhp_3.16 //
यदा च मे बुद्धसहस्रकोट्यः कीर्तेष्यती तान् परिनिर्वृतान् जिनान् / यथा च तैर्देशितु एष धर्म उपायकौशल्य प्रतिष्ठिहित्वा // saddhp_3.17 //
अनागताश्चो बहु बुद्ध लोके तिष्ठन्ति ये चो परमार्थदर्शिनः / उपायकौशल्यशतैश्च धर्मं निदर्शयिष्यन्त्यथ देशयन्ति च // saddhp_3.18 //
तथा च ते आत्मन यादृशी चरी अभिनिष्क्रमित्वा प्रभृतीय संस्तुता / बुद्धं च ते यादृशु धर्मचक्रं तथा च ते ऽवस्थित धर्मदेशना // saddhp_3.19 //
ततश्च जानामि न एष मारो भूतां चरिं दर्शयि लोकनाथः / न ह्यत्र माराण गती हि विद्यते ममैव चित्तं विचिकित्सप्राप्तम् // saddhp_3.20 //
यदा तु मधुरेण गभीरवल्गुना संहर्षितो बुद्धस्वरेण चाहम् / तदा मि विध्वंसित सर्वसंशया विचिकित्स नष्टा च स्थितो ऽस्मि ज्ञाने // saddhp_3.21 //
निःसंशयं भेष्यि तथागतो ऽहं पुरस्कृतो लोकि सदेवके ऽस्मिन् / संघाय वक्ष्ये इमु बुद्धबोधिं समादपेन्तो बहुबोधिसत्त्वान् // saddhp_3.22 //
एवमुक्ते भगवानायुष्मन्तं शारिपुत्रमेतदवोचत् - आरोचयामि ते शारिपुत्र, प्रतिवेदयामि ते अस्य सदेवकस्य लोकस्य पुरतः समारकस्य सब्रह्मकस्य सश्रमणब्राह्मणिकायाः प्रजायाः पुरतः । मया त्वं शारिपुत्र विंशतीनां बुद्धकोटीनयुतशतसहस्राणामन्तिके परिपाचितो ऽनुत्तरायां सम्यक्संबोधौ । मम च त्वं शारिपुत्र दीर्घरात्रमनुशिक्षितो ऽभूत् । स त्वं शारिपुत्र बोधिसत्त्वसंमन्त्रितेन बोधिसत्त्वरहस्येन इह मम प्रवचने उपपन्नः । स त्वं शारिपुत्र बोधिसत्त्वाधिष्ठानेन तत्पौर्वकं चर्याप्रणिधानं बोधिसत्त्वसंमन्त्रितं बोधिसत्त्वरहस्यं न समनुस्मरसि । निर्वृतो ऽस्मीति मन्यसे । सो ऽहं त्वां शारिपुत्र पूर्वचर्याप्रणिधानज्ञानानुबोधमनुस्मारयितुकाम इमं सद्धर्मपुण्डरीकं धर्मपर्यायं सूत्रान्तं महावैपुल्यं बोधिसत्त्वाववादं सर्वबुद्धपरिग्रहं श्रावकाणां संप्रकाशयामि ॥
अपि खलु पुनः शारिपुत्र, भविष्यसि त्वमनागते ऽध्वनि अप्रमेयैः कल्पैरचिन्त्यैरप्रमाणैर्बहूनां तथागतकोटीनयुतशतसहस्राणां सद्धर्मं धारयित्वा विविधां च पूजां कृत्वा इमामेव बोधिसत्त्वचर्यां परिपूर्य पद्मप्रभो नाम तथागतो ऽर्हन् सम्यक्संबुद्धो लोके भविष्यसि (वैद्य 48) विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान् ॥
तेन खलु पुनः शारिपुत्र समयेन तस्य भगवतः पद्मप्रभस्य तथागतस्य विरजं नाम बुद्धक्षेत्रं भविष्यति समं रमणीयं प्रासादिकं परमसुदर्शनीयं परिशुद्धं च स्फीतं च ऋद्धं च क्षेमं च सुभिक्षं च बहुजननारीगणाकीर्णं च मरुप्रकीर्णं च वैडूर्यमयं सुवर्णसूत्राष्टापदनिबद्धम् । तेषु च अष्टापदेषु रत्नवृक्षा भविष्यन्ति सप्तानां रत्नानां पुष्पफलैः सततसमितं समर्पिताः ॥
सो ऽपि शारिपुत्र पद्मप्रभस्तथागतो ऽर्हन् सम्यक्संबुद्धस्त्रीण्येव यानान्यारभ्य धर्मं देशयिष्यति । किंचापि शारिपुत्र स तथागतो न कल्पकषाय उत्पत्स्यते, अपि तु प्रणिधानवशेन धर्मं देशयिष्यति । महारत्नप्रतिमण्डितश्च नाम शारिपुत्र स कल्पो भविष्यति । तत्किं मन्यसे शारिपुत्र केन कारणेन स कल्पो महारत्नप्रतिमण्डित इत्युच्यते? रत्नानि शारिपुत्र बुद्धक्षेत्रे बोधिसत्त्वा उच्यन्ते । ते तस्मिन् काले तस्यां विरजायां लोकधातौ बहवो बोधिसत्त्वा भविष्यन्त्यप्रमेया असंख्येया अचिन्त्या अतुल्या अमाप्या गणनां समतिक्रान्ता अन्यत्र तथागतगणनया । तेन कारणेन स कल्पो महारत्नप्रतिमण्डित इत्युच्यते ॥
तेन खलु पुनः शारिपुत्र समयेन बोधिसत्त्वास्तस्मिन् बुद्धक्षेत्रे यद्भूयसा रत्नपद्मविक्रामिणो भविष्यन्ति । अनादिकर्मिकाश्च ते बोधिसत्त्वा भविष्यन्ति । चिरचरितकुशलमूला बहुबुद्धशतसहस्रचीर्णब्रह्मचर्याः, तथागतपरिसंस्तुता बुद्धज्ञानाभियुक्ता महाभिज्ञापरिकर्मनिर्जाताः सर्वधर्मनयकुशला मार्दवाः स्मृतिमन्तः । भूयिष्ठेन शारिपुत्र एवंरूपाणां बोधिसत्त्वानां परिपूर्णं तद्बुद्धक्षेत्रं भविष्यति ॥
तस्य खलु पुनः शारिपुत्र पद्मप्रभस्य तथागतस्य द्वादशान्तरकल्पा आयुष्प्रमाणं भविष्यति स्थापयित्वा कुमारभूतत्वम् । तेषां च सत्त्वानामष्टान्तरकल्पा आयुष्प्रमाणं भविष्यति । स च शारिपुत्र पद्मप्रभस्तथागतो द्वादशानामन्तरकल्पानामत्ययेन धृतिपरिपूर्णं नाम बोधिसत्त्वं महासत्त्वं व्याकृत्य अनुत्तरायां सम्यक्संबोधौ परिनिर्वास्यति । अयं भिक्षवो धृतिपरिपूर्णो बोधिसत्त्वो महासत्त्वो ममानन्तरमनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यते । पद्मवृषभविक्रामी नाम तथागतो ऽर्हन् सम्यक्संबुद्धो लोके भविष्यति विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान् । तस्यापि शारिपुत्र पद्मवृषभविक्रामिणस्तथागतस्य एवंरूपमेव बुद्धक्षेत्रं भविष्यति ॥
तस्य खलु पुनः शारिपुत्र पद्मप्रभस्य तथागतस्य परिनिर्वृतस्य द्वात्रिंशदन्तरकल्पान् सद्धर्मः स्थास्यति । ततस्तस्य तस्मिन् सद्धर्मे क्षीणे द्वात्रिंशदन्तरकल्पान् सद्धर्मप्रतिरूपकः स्थास्यति ॥
अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत - भविष्यसे शारिसुता तुहं पि अनागते ऽध्वानि जिनस्तथागतः / पद्मप्रभो नाम समन्तचक्षुर्विनेष्यसे प्राणिसहस्रकोट्यः // saddhp_3.23 //
बहुबुद्धकोटीषु करित्व सत्क्रियां चर्याबलं तत्र उपार्जयित्वा / उत्पादयित्वा च दशो बलानि स्पृशिष्यसे उत्तममग्रबोधिम् // saddhp_3.24 //
अचिन्तिये अपरिमितस्मि कल्पे प्रभूतरत्नस्तद कल्पु भेष्यति / विरजा च नाम्ना तद लोकधातुः क्षेत्रं विशुद्धं द्विपदोत्तमस्य // saddhp_3.25 //
वैदूर्यसंस्तीर्ण तथैव भूमिः सुवर्णसूत्रप्रतिमण्डिता च / रत्नामयैर्वृक्षशतैरुपेता सुदर्शनीयैः फलपुष्पमण्डितैः // saddhp_3.26 //
स्मृतिमन्त तस्मिन् बहुबोधिसत्त्वाः चर्याभिनिर्हारसुकोविदाश्च / ये शिक्षिता बुद्धशतेषु चर्यां ते तत्र क्षेत्रे उपपद्य सन्ति // saddhp_3.27 //
सो चेज्जिनः पश्चिमके समुच्छ्रये कुमारभूमीमतिनामयित्वा / जहित्व कामानभिनिष्कमित्वा स्पृशिष्यते उत्तममग्रबोधिम् // saddhp_3.28 //
सम द्वादशा अन्तरकल्प तस्य भविष्यते आयु तदा जिनस्य / मनुजानपी अन्तरकल्प अष्ट आयुष्प्रमाणं तहि तेष भेष्यति // saddhp_3.29 //
परिनिर्वृतस्यापि जिनस्य तस्य द्वात्रिंशतिं अन्तरकल्प पूर्णाम् / सद्धर्म संस्थास्यति तस्मि काले हिताय लोकस्य सदेवकस्य // saddhp_3.30 //
सद्धर्मि क्षीणे प्रतिरूपको ऽस्य द्वात्रिंशती अन्तरकल्प स्थास्यति / शरीरवैस्तारिक तस्य तायिनः सुसत्कृतो नरमरुतैश्च नित्यम् // saddhp_3.31 //
एतादृशः सो भगवान् भविष्यति प्रहृष्ट त्वं शारिसुता भवस्व / त्वमेव सो तादृशको भविष्यसि अनाभिभूतो द्विपदानमुत्तमः // saddhp_3.32 //
अथ खलु ताश्चतस्रः पर्षदो भिक्षुभिक्षुण्युपासकोपासिका देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगमनुष्यामनुष्या आयुष्मतः शारिपुत्रस्येदं व्याकरणमनुत्तरायां सम्यक्संबोधौ भगवतो ऽन्तिकात् संमुखं श्रुत्वा तुष्टा उदग्रा आत्तमनसः प्रमुदिताः प्रीतिसौमनस्यजाताः स्वकस्वकैश्चीवरैर्भगवन्तमभिच्छादयामासुः । शक्रश्च देवानामिन्द्रो ब्रह्मा च सहांपतिरन्याश्च देवपुत्रशतसहस्रकोट्यो भगवन्तं दिव्यैर्वस्त्रैरभिच्छादयामासुः । दिव्यैश्च मान्दारवैर्महामान्दरवैश्च पुष्पैरभ्यवकिरन्ति स्म । दिव्यानि च वस्त्राण्युपर्यन्तरीक्षे भ्रामयन्ति स्म । दिव्यानि च तूर्यशतसहस्राणि दुन्दुभयश्चोपर्यन्तरीक्षे पराहनन्ति स्म । महान्तं च पुष्पवर्षमभिप्रवर्षयित्वा एवं च वाचं भाषन्ते स्म - पूर्वं भगवता वाराणस्यामृषिपतने मृगदावे धर्मचक्रं प्रवर्तितम् । इदं पुनर्भगवता अद्य अनुत्तरं द्वितीयं धर्मचक्रं प्रवर्तितम् । ते च देवपुत्रास्तस्यां वेलायामिमा गाथा अभाषन्त -
धर्मचक्रं प्रवर्तेसि लोके अप्रतिपुद्गल / वाराणस्यां महावीर स्कन्धानामुदयं व्ययम् // saddhp_3.33 //
प्रथमं प्रवर्तितं तत्र द्वितीयमिह नायक / दुःश्रद्दधेय यस्तेषां देशितो ऽद्य विनायक // saddhp_3.34 //
बहु धर्मः श्रुतो ऽस्माभिअर्लोकनाथस्य संमुखम् / न चायमीदृशो धर्मः श्रुतपूर्वः कदाचन // saddhp_3.35 //
अनुमोदाम महावीर संधाभाष्यं महर्षिणः / यथार्थो व्याकृतो ह्येष शारिपुत्रो विशारदः // saddhp_3.36 //
वयमप्येदृशाः स्यामो बुद्धा लोके अनुत्तराः / संधाभाष्येण देशेन्तो बुद्धबोधिमनुत्तराम् // saddhp_3.37 //
यच्छ्रुतं कृतमस्माभिरस्मिंल्लोके परत्र वा / आरागितश्च यद्बुद्धः प्रार्थना भोतु बोधये // saddhp_3.38 //
अथ खल्वायुष्मान् शारिपुत्रो भगवन्तमेतदवोचत् - निष्काङ्क्षो ऽस्मि भगवन् विगतकथंकथो भगवतो ऽन्तिकात् संमुखमिदमात्मनो व्याकरणं श्रुत्वा अनुत्तरायां सम्यक्संबोधौ । यानि च इमानि भगवन् द्वादश वशीभूतशतानि भगवता पूर्वं शैक्षभूमौ स्थापितानि एवमववदितानि एवमनुशिष्टान्यभूवन् एतत्पर्यवसानो मे भिक्षवो धर्मविनयो यदिदं जातिजराव्याधिमरणशोकसमतिक्रमो निर्वाणसमवसरणः । इमे च भगवन् द्वे भिक्षुसहस्रे शैक्षाशैक्षाणां भगवतः श्रावकाणां सर्वेषामात्मदृष्टिभवदृष्टिविभवदृष्टिसर्वदृष्टिविवर्जितानां निर्वाणभूमिस्थिताः स्मः इत्यात्मनः संजानताम्, ते भगवतो ऽन्तिकादिममेवंरूपमश्रुतपूर्वं धर्म श्रुत्वा कथंकथामापन्नाः । तत्साधु भगवान् भाषतामेषां भिक्षूणां कौकृत्यविनोदनार्थ यथा भगवन्नेताश्चतस्रः पर्षदो निष्काङ्क्षा निर्विचिकित्सा भवेयुः ॥
एवमुक्ते भगवानायुष्मन्तं शारिपुत्रमेतदवोचत् - ननु ते मया शारिपुत्र पूर्वमेवाख्यातं यथा नानाभिनिर्हारनिर्देशविविधहेतुकारणनिदर्शनारम्बणनिरुक्त्युपायकौशल्यैर्नानाधिमुक्तानां सत्त्वानां नानाधात्वाशयानामाशयं विदित्वा तथागतो ऽर्हन् सम्यक्संबुद्धो धर्मं देशयति । इमामेवानुत्तरां सम्यक्संबोधिमारभ्य सर्वधर्मदेशनाभिर्बोधिसत्त्वयानमेव समादापयति । अपि तु खलु पुनः शारिपुत्र औपम्यं ते करिष्यामि अस्यैवार्थस्य भूयस्या मात्रया संदर्शनार्थम् । तत्कस्य हेतोः? उपमया इह एकत्या विज्ञपुरुषा भाषितस्यार्थमाजानन्ति ॥
तद्यथापि नाम शारिपुत्र इह स्यात् कस्मिंश्चिदेव ग्रामे वा नगरे वा निगमे वा जनपदे वा जनपदप्रदेशे वा राष्ट्रे वा राजधान्यां वा गृहपतिर्जीर्णो वृद्धो महल्लको ऽभ्यतीतवयो ऽनुप्राप्त आढ्यो महाधनो महाभोगः । महच्चास्य निवेशनं भवेदुच्छ्रितं च विस्तीर्णं च चिरकृतं च जीर्णं च द्वयोर्वा त्रयाणां वा चतुर्णां वा पञ्चानां वा प्राणिशतानामावासः । एकद्वारं च तन्निवेशनं भवेत् । तृणसंछन्नं च भवेत् । विगलितप्रासादं च भवेत् । पूतिस्तम्भमूलं च भवेत् । संशीर्णकुड्यकटलेपनं च भवेत् । तच्च सहसैव महाताग्निस्कन्धेन सर्वपार्श्वेषु सर्वावन्तं निवेशनं प्रदीप्तं भवेत् । तस्य च पुरुषस्य बहवः कुमारकाः स्युः पञ्च वा दश वा विंशतिर्वा । स च पुरुषस्तस्मान्निवेशनाद् बहिर्निर्गतः स्यात् ॥
अथ खलु शारिपुत्र स पुरुषस्तं स्वकं निवेशनं महाताग्निस्कन्धेन समन्तात् संप्रज्वलितं दृष्ट्वा भीतस्त्रस्त उद्विग्नचित्तो भवेत्, एवं चानुविचिन्तयेत् - प्रतिबलो ऽहमनेन महताग्निस्कन्धेनासंस्पृष्टो ऽपरिदग्धः क्षिप्रमेव स्वस्तिना अस्माद् गृहादादीप्ताद् द्वारेण निर्गन्तुं निर्धावितुम् । अपि तु य इमे ममैव पुत्रा बालकाः कुमारका अस्मिन्नेव निवेशने आदीप्ते तैस्तैः क्रीडनकैः क्रीडन्ति रमन्ति परिचारयन्ति, इमं चागारमादीप्तं न जानन्ति न बुध्यन्ते न विदन्ति न चेतयन्ति नोद्वेगमापद्यन्ते, संतप्यमाना अप्यनेन महताग्निस्कन्धेन महता च दुःखस्कन्धेन स्पृष्टाः समाना न दुःखं मनसि कुर्वन्ति, नापि निर्गमनमनसिकारमुत्पादयन्ति ॥
स च शारिपुत्र पुरुषो बलवान् भवेद् बाहुबलिकः । स एवमनुविचिन्तयेत् - अहमस्मि बलवान् बाहुबलिकश्च । यन्न्वहं सर्वानिमान् कुमारकानेकपिण्डयित्वा उत्सङ्गेनादाय अस्माद् गृहान्निर्गमयेयम् । स पुनरेवमनुविचिन्तयेत् - इदं खलु निवेशनमेकप्रवेशं संवृतद्वारमेव । कुमारकाश्चपलाश्चञ्चला बालजातीयाश्च । मा हैव परिभ्रमेयुः । ते ऽनेन महताग्निस्कन्धेनानयव्यसनमापद्येरन् । यन्नूनमहमेतान् संचोदययम् । इति प्रतिसंख्याय तान् कुमारकानामन्त्रयते स्म - आगच्छत भवन्तः कुमारकाः, निर्गच्छत । आदीप्तमिदं गृहं महता अग्निस्कन्धेन । मा हैवात्रैव सर्वे ऽनेन महताग्निस्कन्धेन धक्ष्यथ, अनयव्यसनमापत्स्यथ । अथ खलु ते कुमारका एवं तस्य हितकामस्य पुरुषस्य तद्भाषितं नावबुध्यन्ते नोद्विजन्ति नोत्रसन्ति न संत्रसन्ति न संत्रासमापद्यन्ते, न विचिन्तयन्ति न निर्धावन्ति, नापि जानन्ति न विजानन्ति किमेतदादीप्तं नामेति । अन्यत्र तेन तेनैव धावन्ति विधावन्ति, पुनः पुनश्च तं पितरमवलोकयन्ति । तत्कस्य हेतोः? यथापीदं बालभावत्वात् ॥
अथ खलु स पुरुष एवमनुविचिन्तयेत् - आदीप्तमिदं निवेशनं महताग्निस्कन्धेन संप्रदीप्तम् । मा हैवाहं चेमे च कुमारका इहैवानेन महाताग्निस्कन्धेन अनयव्यसनमापत्स्यामहे । यन्न्वहमुपायकौशल्येनेमान् कुमारकान् अस्माद् गृहात् निष्क्रामयेयम् । स च पुरुषस्तेषां कुमारकाणामाशयज्ञो भवेत्, अधिमुक्तिं च विजानीयात् । तेषां च कुमारकाणामनेकविधान्यनेकानि क्रीडनकानि भवेयुर्विविधानि च रमणीयकानीष्टानि कान्तानि प्रियाणि मनआपानि, तानि च दुर्लभानि भवेयुः ॥
अथ खलु स पुरुषस्तेषां कुमारकाणामाशयं जानंस्तान् कुमारकानेतदवोचत् - यानि तानि कुमारका युष्माकं क्रीडनकानि रमणीयकान्याश्चर्याद्भुतानि, येषामलाभात् संतप्यथ, नानावर्णानि बहुप्रकाराणि । तद्यथा गोरथकान्यजरथकानि मृगरथकानि । यानि भवतामिष्टानि कान्तानि प्रियाणि मनआपानि । तानि च मया सर्वाणि बहिनिर्वेशनद्वारे स्थापितानि युष्माकं क्रीडनहेतोः । आगच्छन्तु भवन्तो निर्धावन्त्वस्मान्निवेशनात् । अहं वो यस्य यस्य येनार्थो येन प्रयोजनं भविष्यति, तस्मै तस्मै तत्प्रदास्यामि । आगच्छत शीघ्रं तेषां कारणम्, निर्धावत । अथ खलु ते कुमारकास्तेषां क्रीडनकानां रमणीयकानामर्थाय यथेप्सितानां यथासंकल्पितानामिष्टानां कान्तानां प्रियाणां मनआपानां नामधेयानि श्रुत्वा तस्मादादीप्तादगारात् क्षिप्रमेवारब्धवीर्या बलवता जवेन अन्योन्यमप्रतीक्षमाणाः कः प्रथमं कः प्रथमतरमित्यन्योन्यं संघट्टितकायास्तस्मादादीप्तादगारात् क्षिप्रमेव निर्धाविताः ॥
अथ स पुरुषः क्षेमस्वस्तिना तान् कुमारकान् निर्गतान् दृष्ट्वा अभयप्राप्तानिति विदित्वा आकाशे ग्रामचत्वरे उपविष्टः प्रीतिप्रामोद्यजातो निरुपादानो विगतनीवरणो ऽभयप्राप्तो भवेत् । अथ खलु ते कुमारका येन स पिता तेनोपसंक्रामन्, उपसंक्रम्यैवं वदेयुः - देहि नस्तात तानि विविधानि क्रीडनकानि रमणीयानि । तद्यथा - गोरथकान्यजरथकानि मृगरथकानि । अथ खलु शारिपुत्र स पुरुषस्तेषां स्वकानां पुत्राणां वातजवसंपन्नान् (वैद्य 53) गोरथकानेवानुप्रयच्छेत् सप्तरत्नमयान् सवेदिकान् सकिङ्किणीजालाभिप्रलम्बितानुच्चान् प्रगृहीतानाश्चर्याद्भुतरत्नालंकृतान् रत्नदामकृतशोभान् पुष्पमाल्यालंकृतांस्तूलिकागोणिकास्तरणान् दूष्यपटप्रत्यास्तीर्णानुभयतो लोहितोपधानान् श्वेतैः प्रपाण्डरैः शीघ्रजवैर्गोणैर्योजितान् बहुपुरुषपरिगृहीतान् । सवैजयन्तान् गोरथकानेव वातबलजवसंपन्नानेकवर्णानेकविधानेकैकस्य दारकस्य दद्यात् । तत्कस्य हेतोः? तथा हि शारिपुत्र स पुरुष आढ्यश्च भवेन्महाधनश्च प्रभूतकोष्ठागारश्च । स एवं मन्येत - अलं म एषां कुमारकाणामन्यैर्यानैर्दत्तैरिति । तत्कस्य हेतोः? सर्व एवैते कुमारका ममैव पुत्राः, सर्वे च मे प्रिया मनआपाः । संविद्यन्ते च मे इमान्येवंरूपाणि महायानानि । समं च मयैते कुमारकाः सर्वे चिन्तयितव्या न विषमम् । अहमपि बहुकोषकोष्ठागारः । सर्वसत्त्वानामप्यहमिमान्येवंरूपाणि महायानानि दद्याम्, किमङ्ग पुनः स्वकानां पुत्राणाम् । ते च दारकास्तस्मिन् समये तेषु महायानेष्वभिरुह्य आश्चर्याद्भुतप्राप्ता भवेयुः । तत्किं मन्यसे शारिपुत्र मा हैव तस्य पुरुषस्य मृषावादः स्यात्, येन तेषां दारकाणां पूर्वं त्रीणि यानान्युपदर्शयित्वा पश्चात्सर्वेषां महायानान्येव दत्तानि, उदारयानान्येव दत्तानि?
शारिपुत्र आह - न ह्येतद् भगवन्, न ह्येतत् सुगत । अनेनैव तावद् भगवन् कारणेन स पुरुषो न मृषावादी भवेद् यत्तेन पुरुषेणोपायकौशल्येन ते दारकास्तस्मादादीप्ताद् गृहान्निष्कासिताः, जीवितेन च अभिच्छादिताः । तत्कस्य हेतोः? आत्मभावप्रतिलम्भेनैव भगवन् सर्वक्रीडनकानि लब्धानि भवन्ति । यद्यपि तावद् भगवन् स पुरुषस्तेषां कुमारकाणामेकरथमपि न दद्यात्, तथापि तावद् भगवन् स पुरुषो न मृषावादी भवेत् । तत्कस्य हेतोः? तथा हि भगवंस्तेन पुरुषेण पूर्वमेव एवमनुविचिन्तितम् - उपायकौशल्येन अहमिमान् कुमारकांस्तस्मान्महतो दुःखस्कन्धात् परिमोचयिष्यामीति । अनेनापि भगवन् पर्यायेण तस्य पुरुषस्य न मृषावादो भवेत् । कः पुनर्वादो यत्तेन पुरुषेण प्रभूतकोशकोष्ठागारमस्तीति कृत्वा पुत्रप्रियतामेव मन्यमानेन श्लाघमानेनैकवर्णान्येकयानानि दत्तानि, यदुत महायानानि । नास्ति भगवंस्तस्य पुरुषस्य मृषावादः ॥
एवमुक्ते भगवानायुष्मन्तं शारिपुत्रमेतदवोचत् - साधु साधु शारिपुत्र । एवमेतच्छारिपुत्र, एवमेतद् यथा वदसि । एवमेव शारिपुत्र तथागतो ऽर्हन् सम्यक्संबुद्धः सर्वभयविनिवृत्तः सर्वोपद्रवोपायासोपसर्गदुःखदौर्मनस्याविद्यान्धकारतमस्तिमिरपटलपर्यवनाहेभ्यः सर्वेण सर्वं सर्वथा विप्रमुक्तः । तथागतो ज्ञानबलवैशारद्यावेणिकबुद्धधर्मसमन्वागतः ऋद्धिबलेनातिबलवांल्लोकपिताः, महोपायकौशल्यज्ञानपरमपारमिताप्राप्तो महाकारुणिको ऽपरिखिन्नमानसो हितैषी अनुकम्पकः । स त्रैधातुके महता दुःखदौर्मनस्यस्कन्धेन आदीप्तजीर्णपटलशरणनिवेशनसदृश उत्पद्यते सत्त्वानां जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासाविद्यान्धकारतमस्तिमिरपटलपर्यवनाहप्रतिष्ठानां रागद्वेषमोहपरिमोचनहेतोरनुत्तरायां (वैद्य 54) सम्यक्संबोधौ समादापनहेतोः । स उत्पन्नः समानः पश्यति सत्त्वान् दह्यतः पच्यमानांस्तप्यमानान् परितप्यमानान् जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासैः, परिभोगनिमित्तं च कामहेतुनिदानं च अनेकाविधानि दुःखानि प्रत्यनुभवन्ति । दृष्टधार्मिकं च पर्येष्टिनिदानं परिग्रहनिदानं सांपरायिकं नरकतिर्यग्योनियमलोकेष्वनेकविधानि दुःखानि प्रत्यनुभविष्यन्ति । देवमनुष्यदारिद्र्यमनिष्टसंयोगमिष्टविनाभाविकानि च दुःखानि प्रत्यनुभवन्ति । तत्रैव च दुःखस्कन्धे परिवर्तमानाः क्रीडन्ति रमन्ते परिचारयन्ति नोत्रसन्ति न संत्रसन्ति न संत्रासमापद्यन्ते न बुध्यन्ते न चेतयन्ति नोद्विजन्ति न निःसरणं पर्येषन्ते । तत्रैव च आदीप्तागारसदृशे त्रैधातुके ऽभिरमन्ति, तेन तेनैव विधावन्ति । तेन च महता दुःखस्कन्धेन अभ्याहता न दुःखमनसिकारसंज्ञामुत्पादयन्ति ॥
तत्र शारिपुत्र तथागत एवं पश्यति - अहं खल्वेषां सत्त्वानां पिता । मया ह्येते सत्त्वा अस्मादेवंरूपान्महतो दुःखस्कन्धात् परिमोचयितव्याः, मया चैषां सत्त्वानामप्रमेयमचिन्त्यं बुद्धज्ञानसुखं दातव्यम्, येनैते सत्त्वाः क्रीडिष्यन्ति रमिष्यन्ति परिचारयिष्यन्ति, विक्रीडितानि च करिष्यन्ति ॥
तत्र शारिपुत्र तथागत एवं पश्यति - सचेदहं ज्ञानबलो ऽस्मीति कृत्वा ऋद्धिबलो ऽस्मीति कृत्वा अनुपायेनैषां सत्त्वानां तथागतज्ञानबलवैशारद्यानि संश्रावयेयम्, नैते सत्त्वा एभिर्धर्भैर्निर्यायेयुः । तत्कस्य हेतोः? अध्यवसिता ह्यमी सत्त्वाः पञ्चसु कामगुणेषु त्रैधातुकरत्याम् । अपरिमुक्ता जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासेभ्यः । दह्यन्ते पच्यन्ते तप्यन्ते परितप्यन्ते । अनिर्धावितास्त्रैधातुकादादीप्तजीर्णपटलशरणनिवेशनसदृशात् कथमेते बुद्धज्ञानं परिभोत्स्यन्ते?
तत्र शारिपुत्र तथागतो यद्यथापि नाम स पुरुषो बाहुबलिकः स्थापयित्वा बाहुबलम्, उपायकौशल्येन तान् कुमारकांस्तस्मादादीप्तादगारान्निष्कासयेत्, निष्कासयित्वा स तेषां पश्चादुदाराणि महायानानि दद्यात्, एवमेव शारिपुत्र तथागतो ऽप्यर्हन् सम्यक्संबुद्धस्तथागतज्ञानबलवैशारद्यसमन्वागतः स्थापयित्वा तथागतज्ञानबलवैशारद्यम्, उपायकौशल्यज्ञानेनादीप्तजीर्णपटलशरणनिवेशनसदृशात् त्रैधातुकात् सत्त्वानां निष्कासनहेतोस्त्रीणि यानान्युपदर्शयति यदुत् श्रावकयानं प्रत्येकबुद्धयानं बोधिसत्त्वयानमिति । त्रिभिश्च यानैः सत्त्वांल्लोभयति, एवं चैषां वदति - मा भवन्तो ऽस्मिन्नादीप्तागारसदृशे त्रैधातुके ऽभिरमध्वं हीनेषु रूपशब्दगन्धरसस्पर्शेषु । अत्र हि यूयं त्रैधातुके ऽभिरताः पञ्चकामगुणसहगतया तृष्णया दह्यथ तप्यथ परितप्यथ । निर्धावध्वमस्मात् त्रैधातुकात् । त्रीणि यानान्यनुप्राप्स्यथ यदिदं श्रावकयानं प्रत्येकबुद्धयानं बोधिसत्त्वयानमिति । अहं वो ऽत्र स्थाने प्रतिभूः । अहं वो दास्याम्येतानि त्रीणि यानानि । अभियुज्यध्वे त्रैधातुकान्नि ऽसरणहेतोः । एवं चैतांल्लोभयामि - एतानि भोः सत्त्वा यानि आर्याणि च आर्यप्रशस्तानि च महारमणीयकसमन्वागतानि च । अकृपणमेतैर्भवन्तः क्रीडिष्यथ रमिष्यथ परिचारयिष्यथ । इन्द्रियबलबोध्यङ्गध्यानविमोक्षसमाधिसमापत्तिभिश्च महतीं रतिं प्रत्यनुभविष्यथ । महता च सुखसौमनस्येन समन्वागता भविष्यथ ॥
तत्र शारिपुत्र ये सत्त्वाः पण्डितजातीया भवन्ति, ते तथागतस्य लोकपितुरभिश्रद्दधन्ति । अभिश्रद्दधित्वा च तथागतशासने ऽभियुज्यन्ते उद्योगमापद्यन्ते । तत्र केचित् सत्त्वा परघोषश्रवानुगमनमाकाङ्क्षमाणा आत्मपरिनिर्वाणहेतोश्चतुरार्यसत्यानुबोधाय तथागतशासने ऽभियुज्यन्ते । ते उच्यन्ते श्रावकयानमाकाङ्क्षमाणाः त्रैधातुकान्निर्धावन्ति । तद्यथापि नाम तस्मादादीप्तादगारादन्यतरे दारका मृगरथमाकाङ्क्षमाणा निर्धाविताः । अन्ये सत्त्वा अनाचार्यकं ज्ञानं दमशमथमाकाङ्क्षमाणा आत्मपरिनिर्वाणहेतोर्हेतुप्रत्ययानुबोधाय तथागतशासने ऽभियुज्यन्ते, ते उच्यन्ते प्रत्येकबुद्धयानमाकाङ्क्षमाणास्त्रैधातुकान्निर्धावन्ति । तद्यथापि नाम तस्मादादीप्तादगारादन्यतरे दारका अजरथमाङ्क्षमाणा निर्धाविताः । अपरे पुनः सत्त्वाः सर्वज्ञज्ञानं बुद्धज्ञानं स्वयंभूज्ञानमनाचार्यकं ज्ञानमाकाङ्क्षमाणा बहुजनहिताय बहुजनसुखाय लोकानुकम्पायै महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च सर्वसत्त्वपरिनिर्वाणहेतोस्तथागतज्ञानबलवैशारद्यानुबोधाय तथागतशासने ऽभियुज्यन्ते । ते उच्यन्ते महायानमाकाङ्क्षमाणास्त्रैधातुकान्निर्धावन्ति । तेन कारणेनोच्यन्ते बोधिसत्त्वा महासत्त्वा इति । तद्यथापि नाम तस्मादादीप्तादगारादन्यतरे दारका गोरथमाकाङ्क्षमाणानिर्धाविताः । तद्यथापि नाम शारिपुत्र स पुरुषस्तान् कुमारकांस्तस्मादादीप्तादगारान्निर्धावितान् दृष्ट्वा क्षेमस्वस्तिभ्यां परिमुक्तानभयप्राप्तानिति विदित्वा आत्मानं च महाधनं विदित्वा तेषां दारकाणामेकमेव यानमुदारमनुप्रयच्छेत्, एवमेव शारिपुत्र तथागतो ऽप्यर्हन् सम्यक्संबुद्धो यदा पश्यति -
अनेकाः सत्त्वकोटीस्त्रैधातुकात् परिमुक्ता दुःखभयभैरवोपद्रवपरिमुक्तास्तथागतशासनद्वारेण निर्धाविताः परिमुक्ताः सर्वभयोपद्रवकान्तारेभ्यः । निर्वृतिसुखप्राप्ताः निर्वृतिसुखाप्राप्ताः । तानेतान् शारिपुत्र तस्मिन् समये तथागतो ऽर्हन् सम्यक्संबुद्धः प्रभूतो महाज्ञानबलवैशारद्यकोश इति विदित्वा सर्वे चैते ममैव पुत्रा इति ज्ञात्वा बुद्धयानेनैव तान् सत्त्वान् परिनिर्वापयति । न च कस्यचित् सत्त्वस्य प्रत्यात्मिकं परिनिर्वाणं वदति । सर्वांश्च तान् सत्त्वांस्तथागतपरिनिर्वाणेन महापरिनिर्वाणेन परिनिर्वापयति । ये चापि ते शारिपुत्र सत्त्वास्त्रैधातुकात् परिमुक्ता भवन्ति, तेषां तथागतो ध्यानविमोक्षसमाधिसमापत्तीरार्याणि परमसुखानि क्रीडनकानि रमणीयकानि ददाति, सर्वाण्येतान्येकवर्णानि । तद्यथापि नाम शारिपुत्र तस्य पुरुषस्य न मृषावादो भवेत्, येन त्रीणि यानान्युपदर्शयित्वा तेषां कुमारकाणामेकमेव महायानं सर्वेषां दत्तं सप्तरत्नमयं सर्वालंकारविभूषितमेकवर्णमेव उदारयानमेव सर्वेषामग्रयानमेव दत्तं भवेत् । एवमेव शारिपुत्र तथागतो ऽप्यर्हन् सम्यक्संबुद्धो न मृषावादी भवति, येन पूर्वमुपायकौशल्येन त्रीणि यानान्युपदर्शयित्वा पश्चान्महायानेनैव सत्त्वान् परिनिर्वापयति । तत्कस्य हेतोः? तथागतो हि शारिपुत्र प्रभूतज्ञानबलवैशारद्यकोशकोष्ठागारसमन्वागतः प्रतिबलः सर्वसत्त्वानां सर्वज्ञज्ञानसहगतं (वैद्य 56) धर्ममुपदर्शयितुम् । अनेनापि शारिपुत्र पर्यायेणैवं वेदितव्यम्, यथा उपायकौशल्यज्ञानाभिनिर्हारैस्तथागत एकमेव महायानं देशयति ॥
अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत -
यथा हि पुरुषस्य भवेदगारं जीर्णं महन्तं च सुदुर्बलं च / विशीर्ण प्रासादु तथा भवेत स्तम्भाश्च मूलेषु भवेयु पूतिकाः // saddhp_3.39 //
गवाक्षहर्म्या गलितैकदेशा विशीर्ण कुडयं कटलेपनं च / जीर्णु प्रवृद्धोद्धृतवेदिकं च तृणच्छदं सर्वत ओपतन्तम् // saddhp_3.40 //
शतान पञ्चान अनूनकानां आवासु सो तत्र भवेत प्राणिनाम् / बहूनि चा निष्कुटसंकटानि उच्चारपूर्णानि जुगुप्सितानि // saddhp_3.41 //
गोपानसी विगलित तत्र सर्वा कुडयाश्च भित्तीश्च तथैव स्रस्ताः / गृध्राण कोट्यो निवसन्ति तत्र पारावतोलूक तथान्यपक्षिणः // saddhp_3.42 //
आशीविषा दारुण तत्र सन्ति देशप्रदेशेषु महाविषोग्राः / विचित्रिका वृश्चिकमूषिकाश्च एतान आवासु सुदुष्टप्राणिनाम् // saddhp_3.43 //
देशे च देशे अमनुष्य भूयो उच्चारप्रस्रावविनाशितं च / कृमिकीटखद्योतकपूरितं च श्वभिः शृगालैश्च निनादितं च // saddhp_3.44 //
भेरुण्डका दारुणा तत्र सन्ति मनुष्यकुणपानि च भक्षयन्तः / तेषां च निर्याणु प्रतीक्षमाणाः श्वानाः शृगालाश्च वसन्त्यनेके // saddhp_3.45 //
ते दुर्बला नित्य क्षुधाभिभूता देशेषु देशेषु विखादमानाः / कलहं करोन्ताश्च निनादयन्ति सुभैरवं तद्गृहमेवरूपम् // saddhp_3.46 //
सुरौद्रचित्ता पि वसन्ति यक्षा मनुष्यकुणपानि विकड्ढमानाः / देशेषु देशेषु वसन्ति तत्र शतापदी गोनसकाश्च व्यालाः // saddhp_3.47 //
देशेषु देशेषु च निक्षिपन्ति ते पोतकान्यालयनानि कृत्वा / न्यस्तानि न्यस्तानि च तानि तेषां ते यक्ष भूयो परिभक्षयन्ति // saddhp_3.48 //
यदा च ते यक्ष भवन्ति तृप्ताः परसत्त्व खादित्व सुरौद्रचित्ताः / परसत्त्वमांसैः परितृप्तगात्राः कलहं तदा तत्र करोन्ति तीव्रम् // saddhp_3.49 //
विध्वस्तलेनेषु वसन्ति तत्र कुम्भाण्डका दारूणरौद्रचित्ताः / वितस्तिमात्रास्तथ हस्तमात्रा द्विहस्तमात्राश्चनुचंक्रमन्ति // saddhp_3.50 //
ते चापि श्वानान् परिगृह्य पादैरुत्तानकान् कृत्व तथैव भूमौ / ग्रीवासु चोत्पीड्य विभर्त्सयन्तो व्याबाधयन्तश्च रमन्ति तत्र // saddhp_3.51 //
नानाश्च कृष्णाश्च तथैव दुर्बला उच्चा महन्ताश्च वसन्ति प्रेताः / जिघत्सिता भोजन मार्गमाणा आर्तस्वरं क्रन्दिषु तत्र तत्र // saddhp_3.52 //
सूचीमुखा गोणमुखाश्च केचित् मनुष्यमात्रास्तथ श्वानमात्राः / प्रकीर्णकेशाश्च करोन्ति शब्दमाहारतृष्णापरिदह्यमानाः // saddhp_3.53 //
चतुर्दिशं चात्र विलोकयन्ति गवाक्ष-उल्लोकनकेहि नित्यम् / ते यक्ष प्रेताश्च पिशाचकाश्च गृध्राश्च आहार गवेषमाणाः // saddhp_3.54 //
एतादृशं भैरवु तद् गृहं भवेत् महन्तमुच्चं च सुदुर्बलं च / विजर्जरं दुर्बलमित्वरं च पुरुषस्य एकस्य परिग्रहं भवेत् // saddhp_3.55 //
स च बाह्यतः स्यात्पुरुषो गृहस्य निवेशनं तच्च भवेत्प्रदीप्तम् / सहसा समन्तेन चतुर्दिशं च ज्वालासहस्रैः परिदीप्यमानम् // saddhp_3.56 //
वंशाश्च दारूणि च अग्नितापिताः करोन्ति शब्दं गुरुकं सुभैरवम् / प्रदीप्त स्तम्भाश्च तथैव भित्तयो यक्षाश्च प्रेताश्च मुचन्ति नादम् // saddhp_3.57 //
ज्वालूषिता गृध्रशताश्च भूयः कुम्भाण्डकाः प्लोष्टमुखा भ्रमन्ति / समन्ततो व्यालशताश्च तत्र नदन्ति क्रोशन्ति च दह्यमानाः // saddhp_3.58 //
पिशाचकास्तत्र बहू भ्रमन्ति संतापिता अग्निन मन्दपुण्याः / दन्तेहि पाटित्व ति अन्यमन्यं रुधिरेण सिञ्चन्ति च दह्यमानाः // saddhp_3.59 //
भेरूण्डकाः कालगताश्च तत्र खादन्ति सत्त्वाश्च ति अन्यमन्यम् / उच्चार दह्यत्यमनोज्ञगन्धः प्रवायते लोकि चतुर्दिशासु // saddhp_3.60 //
शतापदीयो प्रपलायमानाः कुम्भाण्डकास्ताः परिभक्षयन्ति / प्रदीप्तकेशाश्च भ्रमन्ति प्रेताः क्षुधाय दाहेन च दह्यमानाः // saddhp_3.61 //
एतादृशं भैरव तन्निवेशनं ज्वालासहस्रैर्हि विनिश्चरद्भिः / पुरुषश्च सो तस्य गृहस्य स्वामी द्वारस्मि अस्थासि विपश्यमानः // saddhp_3.62 //
शृणोति चासौ स्वके अत्र पुत्रान् क्रीडापनैः क्रीडनसक्तबुद्धीन् / रमन्ति ते क्रीडनकप्रमत्ता यथापि बाला अविजानमानाः // saddhp_3.63 //
श्रुत्वा च सो तत्र प्रविष्टु क्षिप्रं प्रमोचनार्थाय तदात्मजानाम् / मा मह्य बाला इमि सर्व दारका दह्येयु नश्येयु च क्षिप्रमेव // saddhp_3.64 //
स भाषते तेषमगारदोषान् दुःखं इदं भोः कुलपुत्र दारुणम् / विविधाश्च सत्त्वेह अयं च अग्नि महन्तिका दुःखपरंपरा तु // saddhp_3.65 //
आशीविषा यक्ष सुरौद्रचित्ताः कुम्भाण्ड प्रेता बहवो वसन्ति / भेरुण्डकाः श्वानशृगालसंघा गृध्राश्च आहार गवेषमाणाः // saddhp_3.66 //
एतादृशास्मिन् बहवो वसन्ति विनापि चाग्नेः परमं सुभैरवम् / दुःखं इदं केवलमेवरूपं समन्ततश्चाग्निरयं प्रदीप्तः // saddhp_3.67 //
ते चोद्यमानास्तथ बालबुद्धयः कुमारकाः क्रीडनके प्रमत्ताः / न चिन्तयन्ते पितरं भणन्तं न चापि तेषां मनसीकरोन्ति // saddhp_3.68 //
पुरुषश्च सो तत्र तदा विचिन्तयेत् सुदुःखितो ऽस्मी इह पुत्रचिन्तया / किं मह्य पुत्रेहि अपुत्रकस्य मा नाम दह्येयुरिहाग्निना इमे // saddhp_3.69 //
उपायु सो चिन्तयि तस्मि काले लुब्धा इमे क्रीडनकेषु बालाः / न चात्र क्रीडा च रती च काचिद् बालान हो यादृशु मूढभावः // saddhp_3.70 //
स तानवोचछृणुथा कुमारका नानाविधा यानक या ममास्ति / मृगैरजैर्गोणवरैश्च युक्ता उच्चा महन्ता समलंकृता च // saddhp_3.71 //
ता बाह्यतो अस्य निवेशनस्य निर्धावथा तेहि करोथ कार्यम् / युष्माकमर्थे मय कारितानि निर्याथ तैस्तुष्टमनाः समेत्य // saddhp_3.72 //
ते यान एतादृशका निशाम्य आरब्धवीर्यास्त्वरिता हि भूत्वा / निर्धावितास्तत्क्षणमेव सर्वे आकाशि तिष्ठन्ति दुखेन मुक्ताः // saddhp_3.73 //
पुरुषश्च सो निर्गत दृष्ट्व दारकान् ग्रामस्य मध्ये स्थितु चत्वरस्मिन् / उपविश्य सिंहासनि तानुवाच अहो अहं निर्वृतु अद्य मार्षाः // saddhp_3.74 //
ये दुःखलब्धा मम ते तपस्विनः पुत्रा प्रिया ओरस विंश बालाः / ते दारूणे दुर्गगृहे अभूवन् बहूजन्तूपूर्णे च सुभैरवे च // saddhp_3.75 //
आदीप्तके ज्वालसहस्रपूर्णे रता च ते क्रीडरतीषु आसन् / मया च ते मोचित अद्य सर्वे येनाहु निर्वाणु समागतो ऽद्य // saddhp_3.76 //
सुखस्थितं तं पितरं विदित्वा उपगम्य ते दारक एवमाहुः / ददाहि नस्तात यथाभिभाषितं त्रिविधानि यानानि मनोरमाणि // saddhp_3.77 //
सचेत्तव सत्यक तात सर्वं यद्भाषितं तत्र निवेशने ते / त्रिविधानि यानानि ह संप्रदास्ये ददस्व कालो ऽयमिहाद्य तेषाम् // saddhp_3.78 //
पुरुषश्च सो कोशबली भवेत सुवर्णरूप्यामणिमुक्तकस्य / हिरण्य दासाश्च अनल्पकाः स्युरुपस्थपे एकविधा स याना // saddhp_3.79 //
रत्नामया गोणरथा विशिष्टा सवेदिकाः किङ्किणिजालनद्धाः / छत्रध्वजेभिः समलंकृताश्च मुक्तामणीजालिकछादिताश्च // saddhp_3.80 //
सुवर्णपुष्पाण कृतैश्च दामैर्देशेषु देशेषु प्रलम्बमानैः / बस्त्रैरुदारैः परिसंवृताश्च प्रत्यास्तृता दूष्यवरैश्च शुक्लैः // saddhp_3.81 //
मृदुकान् पट्टान तथैव तत्र वरतूलिकासंस्तृत ये ऽपि ते रथाः / प्रत्यास्तृताः कोटिसहस्रमूल्यैर्वरैश्च कोच्कैर्बकहंसलक्षणैः // saddhp_3.82 //
श्वेताः सुपुष्टा बलवन्त गोणा महाप्रमाणा अभिदर्शनीयाः / ये योजिता रत्नरथेषु तेषु परिगृहीताः पुरुषैरनेकैः // saddhp_3.83 //
एतादृशान् सो पुरुषो ददाति पुत्राण सर्वाण वरान् विशिष्टान् / ते चापि तुष्टात्तमनाश्च तेहि दिशाश्च विदिशाश्च व्रजन्ति क्रीडकाः // saddhp_3.84 //
एमेव हं शारिसुता महर्षी सत्त्वान त्राणं च पिता च भोमि / पुत्राश्च ते प्राणिन सर्वि मह्यं त्रैधातुके कामविलग्न बालाः // saddhp_3.85 //
त्रैधातुकं चो यथ तन्निवेशनं सुभैरवं दुःखशताभिकीर्णम् / अशेषतः प्रज्वलितं समन्ताज्जातीजराव्याधिशतैरनेकैः // saddhp_3.86 //
अहं च त्रैधातुकमुक्त शान्तो एकान्तस्थायी पवने वसामि / त्रैधातुकं चो ममिदं परिग्रहो ये ह्यत्र दह्यन्ति ममैति पुत्राः // saddhp_3.87 //
अहं च आदीनव तत्र दर्शयी विदित्व त्राणं अहमेव चैषाम् / न चैव मे ते श्रुणि सर्वि बाला यथापि कामेषु विलग्नबुद्धयः // saddhp_3.88 //
उपायकौशल्यमहं प्रयोजयी यानानि त्रीणि प्रवदामि चैषाम् / ज्ञात्वा च त्रैधातुकि नेकदोषान् निर्धावनार्थाय वदाम्युपायम् // saddhp_3.89 //
मां चैव ये निश्रित भोन्ति पुत्राः षडभिज्ञ त्रैविद्य महानुभावाः / प्रत्येकबुद्धाश्च भवन्ति ये ऽत्र अविवर्तिका ये चिह बोधिसत्त्वाः // saddhp_3.90 //
समान पुत्राण हु तेष तत्क्षणमिमेन दृष्टान्तवरेण पण्डित / वदामि एकं इमु बुद्धयानं परिगृह्णथा सर्वि जिना भविष्यथ // saddhp_3.91 //
तच्चा वरिष्ठं सुमनोरमं च विशिष्टरूपं चिह सर्वलोके / बुद्धान ज्ञानं द्विपदोत्तमानामुदाररूपं तथ वन्दनीयम् // saddhp_3.92 //
बलानि ध्यानानि तथा विमोक्षाः समाधिनां कोटिशता च नेका / अयं रथो ईदृशको वरिष्ठो रमन्ति येनो सद बुद्धपुत्राः // saddhp_3.93 //
क्रीडन्त एतेन क्षपेन्ति रात्रयो दिवसांश्च पक्षानृतवो ऽथ मासान् / संवत्सरानन्तरकल्पमेव च क्षपेन्ति कल्पान सहस्रकोट्यः // saddhp_3.94 //
रत्नामयं यानमिदं वरिष्ठं गच्छन्ति येनो इह बोधिमण्डे / विक्रीडमाना बहुबोधिसत्त्वा ये चो शृणोन्ति सुगतस्य श्रावकाः // saddhp_3.95 //
एवं प्रजानाहि त्वमद्य तिष्य नास्तीह यानं द्वितियं कहिंचित् / दिशो दशा सर्व गवेषयित्वा स्थापेत्वुपायं पुरुषोत्तमानाम् // saddhp_3.96 //
पुत्रा ममा यूयमहं पिता वो मया च निष्कासित यूय दुःखात् / परिदह्यमाना बहुकल्पकोटयस्त्रैधातुकातो भयभैरवातः // saddhp_3.97 //
एवं च हं तत्र वदामि निर्वृतिमनिर्वृता यूय तथैव चाद्य / संसारदुःखादिह यूय मुक्ता बौद्धं तु यानं व गवेषितव्यम् // saddhp_3.98 //
ये बोधिसत्त्वाश्च इहास्ति केचिच्छृण्वन्ति सर्वे मम बुद्धनेत्रीम् / उपायकौशल्यमिदं जिनस्य येनो विनेती बहुबोधिसत्त्वान् // saddhp_3.99 //
हीनेषु कामेषु जुगुप्सितेषु रता यदा भोन्तिमि अत्र सत्त्वाः / दुःखं तदा भाषति लोकनायको अनन्यथावादिरिहार्यसत्यम् // saddhp_3.100 //
ये चापि दुःखस्य अजानमाना मूलं न पश्यन्तिह बालबुद्धयः / मार्गं हि तेषामनुदर्शयामि समुदागमस्तृष्ण दुखस्य संभवः // saddhp_3.101 //
तृष्णानिरोधो ऽथ सदा अनिश्रिता निरोधसत्यं तृतियं इदं मे / अनन्यथा येन च मुच्यते नरो मार्गं हि भावित्व विमुक्त भोति // saddhp_3.102 //
कुतश्च ते शारिसुता विमुक्ता असन्तग्राहातु विमुक्त भोन्ति / न च ताव ते सर्वत मुक्त भोन्ति अनिर्वृतांस्तान् वदतीह नायकः // saddhp_3.103 //
किकारणं नास्य वदामि मोक्षमप्राप्यिमामुत्तममग्रबोधिम् / ममैष छन्दो अहु धर्मराजा सुखापनार्थायिह लोकि जातः // saddhp_3.104 //
इय शारिपुत्रा मम धर्ममुद्रा या पश्चिमे कालि मयाद्य भाषिता / हिताय लोकस्य सदेवकस्य दिशासु विदिशासु च देशयस्व // saddhp_3.105 //
यश्चापि ते भाषति कश्चि सत्त्वो अनुमोदयामीति वदेत वाचम् / मूर्ध्नेन चेदं प्रतिगृह्य सूत्रं अविवर्तिकं तं नरु धारयेस्त्वम् // saddhp_3.106 //
दृष्टाश्च तेनो पुरिमास्तथागताः सत्कारु तेषां च कृतो अभूषि / श्रुतश्च धर्मो अयमेवरूपो य एत सूत्रं अभिश्रद्दधेत // saddhp_3.107 //
अहं च त्वं चैव भवेत दृष्टो अयं च सर्वो मम भिक्षुसंघः / दृष्टाश्च सर्वे इमि बोधिसत्त्वा ये श्रद्दधे भाषितमेत मह्यम् // saddhp_3.108 //
सूत्रं इमं बालजनप्रमोहनमभिज्ञज्ञानान मि एतु भाषितम् / विषयो हि नैवास्तिह श्रावकाणां प्रत्येकबुद्धान गतिर्न चात्र // saddhp_3.109 //
अधिमुक्तिसारस्तुव शारिपुत्र किं वा पुनर्मह्य इमे ऽन्यश्रावकाः / एते ऽपि श्रद्धाय ममैव यान्ति प्रत्यात्मिकं ज्ञानु न चैव विद्यते // saddhp_3.110 //
मा चैव त्वं स्तम्भिषु मा च मानिषु मायुक्तयोगीन वदेसि एतत् / बाला हि कामेषु सदा प्रमत्ता अजानका धर्मु क्षिपेयु भाषितम् // saddhp_3.111 //
उपायकौशल्य क्षिपित्व मह्यं या बुद्धनेत्री सद लोकि संस्थिता / भृकुटिं करित्वान क्षिपित्व यानं विपाकु तस्येह शृणोहि तीव्रम् // saddhp_3.112 //
क्षिपित्व सूत्रं इदमेवरूपं मयि तिष्ठमाने परिनिर्वृते वा / भिक्षूषु वा तेषु खिलानि कृत्वा तेषां विपाकं ममिहं शृणोहि // saddhp_3.113 //
च्युत्वा मनुष्येषु अवीचि तेषां प्रतिष्ठ भोती परिपूर्णकल्पात् / ततश्च भूयो ऽन्तरकल्प नेकांश्च्युताश्च्युतास्तत्र पतन्ति बालाः // saddhp_3.114 //
यदा च नरकेषु च्युता भवन्ति ततश्च तिर्यक्षु व्रजन्ति भूयः / सुदुर्बलाः श्वानशृगालभूताः परेष क्रीडापनका भवन्ति // saddhp_3.115 //
वर्णेन ते कालक तत्र भोन्ति कल्माषका व्राणिक कण्डुलाश्च / निर्लोमका दुर्बल भोन्ति भूयो विद्वेषमाणा मम अग्रबोधिम् // saddhp_3.116 //
जुगुप्सिता प्राणिषु नित्य भोन्ति लोष्टप्रहाराभिहता रुदन्तः / दण्डेन संत्रासित तत्र तत्र क्षुधापिपासाहत शुष्कगात्राः // saddhp_3.117 //
उष्ट्राथ वा गर्दभ भोन्ति भूयो भारं वहन्तः कशदण्डताडिताः / आहारचिन्तामनुचिन्तयन्तो ये बुद्धनेत्री क्षिपि बालबुद्धयः // saddhp_3.118 //
पुनश्च ते क्रोष्टुक भोन्ति तत्र बीभत्सकाः काणक कुण्ठकाश्च / उत्पीडिता ग्रामकुमारकेहि लोष्टप्रहाराभिहताश्च बालाः // saddhp_3.119 //
ततश्च्यवित्वान च भूयु बालाः पञ्चाशतीनां सम योजनानाम् / दीर्घात्मभावा हि भवन्ति प्राणिनो जडाश्च मूढाः परिवर्तमानाः // saddhp_3.120 //
अपादका भोन्ति च क्रोडसक्किनो विखाद्यमाना बहुप्राणिकोटिभिः / सुदारुणां ते अनुभोन्ति वेदनां क्षिपित्व सूत्रं इदमेवरूपम् // saddhp_3.121 //
पुरुषात्मभावं च यद लभन्ते ते कुण्ठका लङ्गक भोन्ति तत्र / कुब्जाथ काणा च जडा जघन्या अश्रद्दधन्ता इम सूत्र मह्यम् // saddhp_3.122 //
अप्रत्यनीयाश्च भवन्ति लोके पूती मुखात्तेष प्रवाति गन्धः / यक्षग्रहो उक्रमि तेष काये अश्रद्दधन्तानिम बुद्धबोधिम् // saddhp_3.123 //
दरिद्रका पेषणकारकाश्च उपस्थायका नित्य परस्य दुर्बलाः / आबाध तेषां बहुकाश्च भोन्ति अनाथभूता विहरन्ति लोके // saddhp_3.124 //
यस्यैव ते तत्र करोन्ति सेवनामदातुकामो भवती स तेषाम् / दत्तं पि चो नश्यति क्षिप्रमेव फलं हि पापस्य इमेवरूपम् // saddhp_3.125 //
यच्चापि ते तत्र लभन्ति औषधं सुयुक्तरूपं कुशलेहि दत्तम् / तेनापि तेषां रुज भूयु वर्धते सो व्याधिरन्तं न कदाचि गच्छति // saddhp_3.126 //
अन्येहि चौर्याणि कृतानि भोन्ति डमराथ डिम्बास्तथ विग्रहाश्च / द्रव्यापहाराश्च कृतास्तथान्यैर्निपतन्ति तस्योपरि पापकर्मणः // saddhp_3.127 //
न जातु सो पश्यति लोकनाथं नरेन्द्रराजं महि शासमानम् / तस्याक्षणेष्वेव हि वासु भोति इमां क्षिपित्वा मम बुद्धनेत्रीम् // saddhp_3.128 //
न चापि सो धर्म शृणोति बालो बधिरश्च सो भोति अचेतनश्च / क्षिपित्व बोधीमिममेवरूपामुपशान्ति तस्यो न कदाचि भोति // saddhp_3.129 //
सहस्र नेका नयुतांश्च भूयः कल्पान कोट्यो यथ गङ्गवालिकाः / जडात्मभावो विकलश्च भोति क्षिपित्व सूत्रं इमु पापकं फलम् // saddhp_3.130 //
उद्यानभूमी नरको ऽस्य भोति निवेशनं तस्य अपायभूमिः / खरसूकरा क्रोष्टुक भूमिसूचकाः प्रतिष्ठितस्येह भवन्ति नित्यम् // saddhp_3.131 //
मनुष्यभावत्वमुपेत्य चापि अन्धत्व बधिरत्व जडत्वमेति / परप्रेष्य सो भोति दरिद्र नित्यं तत्कालि तस्याभरणानिमानि // saddhp_3.132 //
वस्त्राणि चो व्याधयु भोन्ति तस्य व्रणान कोटीनयुताश्च काये / विचर्चिका कण्डु तथैव पामा कुष्ठं किलासं तथ आमगन्धः // saddhp_3.133 //
सत्कायदृष्टिश्च घनास्य भोति उदीर्यते क्रोधबलं च तस्य / संरागु तस्यातिभृशं च भोति तिर्याण योनीषु च सो सदा रमी // saddhp_3.134 //
सचेदहं शारिसुताद्य तस्य परिपूर्णकल्पं प्रवदेय दोषान् / यो ही ममा एतु क्षिपेत सूत्रं पर्यन्तु दोषाण न शक्य गन्तुम् // saddhp_3.135 //
संपश्यमानो इदमेव चार्थं त्वां संदिशामी अहु शारिपुत्र / मा हैव त्वं बालजनस्य अग्रतो भाषिष्यसे सूत्रमिमेवरूपम् // saddhp_3.136 //
ये तू इह व्यक्त बहुश्रुताश्च स्मृतिमन्त ये पण्डित ज्ञानवन्तः / ये प्रस्थिता उत्तममग्रबोधिं तान् श्रावयेस्त्वं परमार्थमेतत् // saddhp_3.137 //
दृष्टाश्च येही बहुबुद्धकोट्यः कुशलं च यै रोपितमप्रमेयम् / अध्याशयाश्चा दृढ येष चो स्यात्तान् श्रावयेस्त्वं परमार्थमेतत् // saddhp_3.138 //
ये वीर्यवन्तः सद मैत्रचित्ता भावेन्ति मैत्रीमिह दीर्घरात्रम् / उत्सृष्टकाया तथ जीविते च तेषामिदं सूत्र भणेः समक्षम् // saddhp_3.139 //
अन्योन्यसंकल्प सगौरवाश्च तेषां च बालेहि न संस्तवो ऽस्ति / ये चापि तुष्टा गिरिकन्दरेषु तान् श्रावयेस्त्वं इद सूत्र भद्रकम् // saddhp_3.140 //
कल्याणमित्रांश्च निषेवमाणाः पापांश्च मित्रान् परिवर्जयन्तः / यानीदृशान् पश्यसि बुद्धपुत्रांस्तेषामिदं सूत्र प्रकाशयेसि // saddhp_3.141 //
अच्छिद्रशीला मणिरत्नसादृशा वैपुल्यसूत्राण परिग्रहे स्थिताः / पश्येसि यानीदृश बुद्धपुत्रांस्तेषाग्रतः सूत्रमिदं वदेसि // saddhp_3.142 //
अक्रोधना ये सद आर्जवाश्च कृपासमन्वागत सर्वप्राणिषु / सगौरवा ये सुगतस्य अन्तिके तेषाग्रतः सूत्रमिदं वदेसि // saddhp_3.143 //
यो धर्मु भाषे परिषाय मध्ये असङ्गप्राप्तो वदि युक्तमानसः / दृष्टान्तकोटीनयुतैरनेकैस्तस्येद सूत्रं उपदर्शयेसि // saddhp_3.144 //
मूर्ध्नाञ्जलिं यश्च करोति बद्ध्वा सर्वज्ञभावं परिमार्गमाणः / दशो दिशो यो ऽपि च चंक्रमेत सुभाषितं भिक्षु गवेषमाणः // saddhp_3.145 //
वैपुल्यसूत्राणि च धारयेत न चास्य रुच्यन्ति कदाचिदन्ये / एकां पि गाथां न च धारये ऽन्यतस्तं श्रावयेस्त्वं वरसूत्रमेतत् // saddhp_3.146 //
तथागतस्यो यथ धातु धारयेत्तथैव यो मार्गति कोचि तं नरः / एमेव यो मार्गति सूत्रमीदृशं लभित्व यो मूर्धनि धारयेत // saddhp_3.147 //
अन्येषु सूत्रेषु न काचि चिन्ता लोकायतैरन्यतरैश्च शास्त्रैः / बालान एतादृश भोन्ति गोचरास्तांस्त्वं विवर्जित्व प्रकाशयेरिदम् // saddhp_3.148 //
पूर्णं पि कल्पं अहु शारिपुत्र वदेयमाकार सहस्रकोट्यः / ये प्रस्थिता उत्तममग्रबोधिं तेषाग्रतः सूत्रमिदं वदेसि // saddhp_3.149 //
इत्यार्यसद्धर्मपुण्डरीके धर्मपर्याये औपम्यपरिवर्तो नाम तृतीयः ॥
saddhp_4: अधिमुक्तिपरिवर्तः ।
अथ खल्वायुष्मान् सुभूतिरायुष्मांश्च महाकात्यायनः आयुष्मांश्च महाकाश्यपः आयुष्मांश्च महामौद्गल्यायनः इममेवंरूपमश्रुतपूर्वं धर्मं श्रुत्वा भगवतो ऽन्तिकात् संमुखमायुष्मतश्च शारिपुत्रस्य व्याकरणं श्रुत्वा अनुत्तरायां सम्यक्संबोधौ आश्चर्यप्राप्ता अद्भुतप्राप्ता औद्बिल्यप्राप्ता स्तस्यां वेलायामुत्थायासनेभ्यो येन भगवांस्तेनोपसंक्रामन् । उपसंक्रम्य एकांसमुत्तरासङ्गं कृत्वा दक्षिणं जानुं पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमभिमुखमुल्लोकयमाना अवनकाया अभिनतकायाः प्रणतकायास्तस्यां वेलायां भगवन्तमेतदवोचन् - वयं हि भगवन् जीर्णा वृद्धा महल्लका अस्मिन् भिक्षुसंघे स्थविरसंमता जराजीर्णीभूता निर्वाणप्राप्ताः स्म इति भगवन् निरुद्यमा अनुत्तरायां सम्यक्संबोधावप्रतिबलाः स्मः, अप्रतिवीर्यारम्भाः स्मः । यदापि भगवान् धर्मं देशयति, चिरं निषण्णश्च भगवान् भवति, वयं च तस्यां धर्मदेशनायां प्रत्युपस्थिता भवामः, तदाप्यस्माकं भगवन् चिरं निषण्णानां भगवन्तं चिरं पर्युपासितानामङ्गप्रत्यङ्गानि दुःखन्ति, संधिविसंधयश्च दुःखन्ति । ततो वयं भगवन् भगवतो धर्मं देशयमानस्य शून्यतानिमित्ताप्रणिहितं सर्वमाविष्कुर्मः । नास्माभिरेषु बुद्धधर्मेषु बुद्धक्षेत्रव्यूहेषु वा बोधिसत्त्वविक्रीडितेषु वा तथागतविक्रीडितेषु वा स्पृहोत्पादिता । तत्कस्य हेतोः? यच्चास्माद्भगवंस्त्रैधातुकान्निर्धाविता निर्वाणसंज्ञिनः, वयं च जराजीर्णाः । ततो भगवन् अस्माभिरप्यन्ये बोधिसत्त्वा अववदिता अभूवन्ननुत्तरायां सम्यक्संबोधौ, अनुशिष्टाश्च । न च भगवंस्तत्रास्माभिरेकमपि
स्पृहाचित्तमुत्पादितमभूत् । ते वयं भगवन्नेतर्हि भगवतो ऽन्तिकाच्छ्रावकाणामपि व्याकरणमनुत्तरायां सम्यक्संबोधौ भवतीति श्रुत्वा आश्चर्याद्भुतप्राप्ता महालाभप्राप्ताः स्मः । भगवन्नद्य सहसैवेममेवंरूपमश्रुतपूर्वं तथागतघोषं श्रुत्वा महारत्नप्रतिलब्धाश्च स्मः । भगवन् अप्रमेयरत्नप्रतिलब्धाश्च स्मः । भगवन् अमार्गितमपर्येष्टमचिन्तितमप्रार्थितं चास्माभिर्भगवन्निदमेवं रूपं महारत्नं प्रतिलब्धम् । प्रतिभाति नो भगवन्, प्रतिभाति नः सुगत । तद्यथापि नाम भगवन् कश्चिदेव पुरुषः पितुरन्तिकादपक्रामेत् । सो ऽपक्रम्य अन्यतरं जनपदप्रदेशं गच्छेत् । स तत्र बहूनि वर्षाणि विप्रवसेद् विंशतिं वा त्रिंशद्वा चत्वारिंशद्वा पञ्चाशद्वा । अथ स भगवन् महान् पुरुषो भवेत् । स च दरिद्रः स्यात् । स च वृत्तिं पर्येषमाण आहारचीवरहेतोर्दिशो विदिशः प्रकामन् अन्यतरं जनपदप्रदेशं गच्छेत् । तस्य च स पिता अन्यतमं जनपदं प्रक्रान्तः स्यात् । बहुधनधान्यहिरण्यकोशकोष्ठागारश्च भवेत् । बहुसुवर्णरूप्यमणिमुक्तावैडूर्यशङ्खशिलाप्रवालजातरूपरजतसमन्वागतश्च भवेत् । बहुदासीदासकर्मकरपौरुषेयश्च भवेत् । बहुहस्त्यश्वरथगवेडकसमन्वागतश्च भवेत् । महापरिवारश्च भवेत् । महाजनपदेषु च धनिकः स्यात् । आयोगप्रयोगकृषिवणिज्यप्रभूतश्च भवेत् ॥
अथे खलु भगवन् स दरिद्रपुरुष आहारचीवरपर्येष्टिहेतोर्ग्रामनगरनिगमजनपदराष्ट्रराजधानीषु पर्यटमानो ऽनुपूर्वेण यत्रासौ पुरुषो बहुधनहिरण्यसुवर्णकोशकोष्ठागारस्तस्यैव पिता वसति, तन्नगरमनुप्राप्तो भवेत् । अथ खलु भगवन् स दरिद्रपुरुषस्य पिता बहुधनहिरण्यकोशकोष्ठागारस्तस्मिन् नगरे वसमानस्तं पञ्चाशद्वर्षनष्टं पुत्रं सततसमितमनुस्मरेत् । समनुस्मरमाणश्च न कस्यचिदाचक्षेदन्यत्रैक एवात्मनाध्यात्मं संतप्येत्, एवं च चिन्तयेत् - अहमस्मि जीर्णो वृद्धो महल्लकः । प्रभूतं मे हिरण्यसुवर्णधनधान्यकोशकोष्ठागारं संविद्यते । न च मे पुत्रः कश्चिदस्ति । मा हैव मम कालक्रिया भवेत् । सर्वमिदमपरिभुक्तं विनश्येत् । स तं पुनः पुनः पुत्रमनुस्मरेत् - अहो नामाहं निर्वृतिप्राप्तो भवेयं यदि मे स पुत्र इमं धनस्कन्धं परिभुञ्जीत ॥
अथ खलु भगवन् स दरिद्रपुरुष आहारचीवरं पर्येषमाणो ऽनुपूर्वेण येन तस्य प्रभूतहिरण्यसुवर्णधनधान्यकोशकोष्ठागारस्य समृद्धस्य पुरुषस्य निवेशनं तेनोपसंक्रामेत् । अथ खलु भगवन् स तस्य दरिद्रपुरुषस्य पिता स्वके निवेशनद्वारे महत्या ब्राह्मणक्षत्रियविट्शूद्रपरिषदा परिवृतः पुरस्कृतो महासिंहासने सपादपीठे सुवर्णरूप्यप्रतिमण्डिते उपविष्टो हिरण्यकोटीशतसहस्रैर्व्यवहारं कुर्वन् वालव्यजनेन वीज्यमानो विततविताने पृथिवीप्रदेशे मुक्तकुसुमाभिकीर्णे रत्नदामाभिप्रलम्बिते महत्यद्धर्या उपविष्टः स्यात् । अद्राक्षीत् स भगवन् दरिद्रपुरुषस्तं स्वकं पितरं स्वके निवेशनद्वारे एवंरूपया ऋध्या उपविष्टं महता जनकायेन परिवृतं गृहपतिकृत्यं कुर्वाणम् । दृष्ट्वा च पुनर्भीतस्त्रस्तः संविग्नः संहृष्टरोमकूपजातः उद्विग्नमानसः एवमनुविचिन्तयामास - सहसैवायं मया राजा वा राजमात्रो वा आसादितः । नास्त्यस्माकमिह किंचित् कर्म । गच्छामो वयं येन दरिद्रवीथी, तत्रास्माकमाहारचीवरमल्पकृच्छ्रेणैव उत्पत्स्यते । अलं मे चिरं विलम्बितेन । मा हैवाहमिह वैष्टिको वा गृह्येय, अन्यतरं वा दोषमनुप्राप्नुयाम् ॥
अथ खलु भगवन् स दरिद्रपुरुषो दुःखपरंपरामनसिकारभयभीतस्त्वरमाणः प्रक्रामेत् पलायेत्, न तत्र संतिष्ठेत् । अथ खलु भगवन् स आढ्यः पुरुषः स्वके निवेशनद्वारे सिंहासने उपविष्टस्तं स्वकं पुत्रं सहदर्शनेनैव प्रत्यभिजानीयात् । दृष्ट्वा च पुनस्तुष्ट उदग्र आत्तमनस्कः प्रमुदितः प्रीतिसौमनस्यजातो भवेत्, एवं च चिन्तयेत् - आश्चर्यं यावद् यत्र हि नाम अस्य महतो हिरण्यसुवर्णधनधान्यकोशकोष्ठागारस्य परिभोक्ता उपलब्धः । अहं चैतमेव पुनः पुनः समनुस्मरामि । अयं च स्वयमेवेहागतः । अहं च जीर्णो वृद्धो महल्लकः ॥
अथ खलु भगवन् स पुरुषः पुत्रतृष्णासंपीडितस्तस्मिन् क्षणलवमुहूर्ते जवनान् पुरुषान् संप्रेषयेत् - गच्छत मार्षा एतं पुरुषं शीघ्रमानयध्वम् । अथ खलु भगवंस्ते पुरुषाः र्सव एव जवेन प्रधावितास्तं दरिद्रपुरुषमध्यालम्बेयुः । अथ खलु दरिद्रपुरुषस्तस्यां वेलायां भीतस्त्रस्तः संविग्नः संहृष्टरोमकूपजातः उद्विग्रमानसो दारुणमार्तस्वरं मुञ्चेदारवेद् विरवेत् । नाहं युष्माकं किंचिदपराध्यामीति वाचं भाषेत । अथ खलु ते पुरुषा बलात्कारेण तं (वैद्य 73) दरिद्रपुरुषं विरवन्तमप्याकर्षेयुः । अथ खलु स दरिद्रपुरुषो भीतस्त्रस्तः संविग्न उद्विग्नमानस एवं च चिन्तयेत् - मा तावदहं वध्यो दण्डयो भवेयम् । नश्यामीति । स मूर्छितो धरण्यां प्रपतेत्, विसंज्ञश्च स्यात् । आसन्ने चास्य स पिता भवेत् । स तान् पुरुषानेवं वदेत् - मा भवन्त एतं पुरुषमानयन्त्विति । तमेनं शीतलेन वारिणा परिसिञ्चित्वा न भूय आलपेत् । तत्कस्य हेतोः? जानाति स गृहपतिस्तस्य दरिद्रपुरुषस्य हीनाधिमुक्तिकतामात्मनश्चोदारस्थामताम् । जानीते च ममैष पुत्र इति ॥
अथ खलु भगवन् स गृहपतिरुपायकौशल्येन न कस्यचिदाचक्षेत् - ममैष पुत्र इति । अथ खलु भगवन् स गृहपतिरन्यतरं पुरुषमामन्त्रयेत् - गच्छ त्वं भोः पुरुष । एनं दरिद्रपुरुषमेवं वदस्व - गच्छ त्वं भोः पुरुष येनाकाङ्क्षसि । मुक्तो ऽसि । एवं वदति स पुरुषस्तस्मै प्रतिश्रुत्य येन स दरिद्रपुरुषस्तेनोपसंक्रामेत् । उपसंक्रम्य तं दरिद्रपुरुषमेवं वदेत् - गच्छ त्वं भोः पुरुष येनाकाङ्क्षसि । मुक्तो ऽसीति । अथ खलु स दरिद्रपुरुष इदं वचनं श्रुत्वा आश्चर्याद्भुतप्राप्तो भवेत् । स उत्थाय तस्मात् पृथिवीप्रदेशाद्येन दरिद्रवीथी तेनोपसंक्रामेदाहारचीवरपर्येष्टिहेतोः । अथ खलु स गृहपतिस्तस्य दरिद्रपुरुषस्याकर्षणहेतोरुपायकौशल्यं प्रयोजयेत् । स तत्र द्वौ पुरुषौ प्रयोजयेत् दुर्वर्णावल्पौजस्कौ - गच्छतां भवन्तौ यो ऽसौ पुरुष इहागतो ऽभूत्, तं युवां द्विगुणया दिवसमुद्रया आत्मवचनेनैव भरयित्वेह मम निवेशने कर्म कारापयेथाम् । सचेत् स एवं वदेत् - किं कर्म कर्तव्यमिति, स युवाभ्यामेवं वक्तव्यः - संकारधानं शोधयितव्यं सहावाभ्यामिति । अथ तौ पुरुषौ तं दरिद्रपुरुषं पर्येषयित्वा तया क्रियया संपादयेताम् । अथ खलु तौ द्वौ पुरुषौ स च दरिद्रपुरुषो वेतनं गृहीत्वा तस्य महाधनस्य पुरुषस्यान्तिकात्तस्मिन्नेव निवेशने संकारधानं शोधयेयुः । तस्यैव च महाधनस्य पुरुषस्य गृहपरिसरे कटपलिकुञ्चिकायां वासं कल्पयेयुः । स चाढ्यः पुरुषो गवाक्षवातायनेन तं स्वकं पुत्रं पश्येत् संकारधानं शोधयमानम् । दृष्ट्वा च पुनराश्चर्यप्राप्तो भवेत् ॥
अथ खलु स गृहपतिः स्वकान्निवेशनादवतीर्य अपनयित्वा माल्याभरणनि, अपनयित्वा मृदुकानि वस्त्राणि, चौक्षाण्युदाराणि मलिनानि वस्त्राणि प्रावृत्य, दक्षिणेन पाणिना पिटकं परिगृह्य पांसुना स्वगात्रं दूषयित्वा दूरत एव संभाषमाणो येन स दरिद्रपुरुषस्तेनोपसंक्रामेत् । उपसंक्रम्यैवं वदेत् - वहन्तु भवन्तः पिटकानि, मा तिष्ठत, हरत पांसूनि । अनेनोपायेन तं पुत्रमालपेत् संलपेच्च । एनं वदेत् - इहैव त्वं भोः पुरुष कर्म कुरुष्व । मा भूयो ऽन्यत्र गमिष्यसि । सविशेषं ते ऽहं वेतनकं दास्यामि । येन येन च ते कार्य भवेत्, तद्विश्रब्धं मां याचेः, यदि वा कुण्डमूल्येन यदि वा कुण्डिकामूल्येन यदि वा स्थालिकामूल्येन यदि वा काष्ठमूल्येन यदि वा लवणमूल्येन यदि वा भोजनेन यदि वा प्रावरणेन । अस्ति मे भोः पुरुष जीर्णशाटी । सचेत्तया ते कार्यं स्यात्, याचेः, अहं ते ऽनुप्रदास्यामि । येन येन ते भोः पुरुष कार्यमेवंरूपेण परिष्कारेण, तं तमेवाहं ते सर्वमनुप्रदास्यामि । निर्वृतस्त्वं भोः पुरुष भव । यादृशस्ते पिता, तादृशस्ते ऽहं मन्तव्यः । तत्कस्य हेतोः? अहं (वैद्य 74) च वृद्धः, त्वं च दहरः । मम च त्वया बहु कर्म कृतमिमं संकारधानं शोधयता । न च त्वया भोः पुरुष अत्र कर्म कुर्वता शाठयं वा वक्रता वा कौटिल्यं वा मानो वा म्रक्षो वा कृतपूर्वः, करोषि वा । सर्वथा ते भोः पुरुष न समनुपश्याम्येकमपि पापकर्म, यथैषामन्येषां पुरुषाणां कर्म कुर्वतामिमे दोषाः संविद्यन्ते । यादृशो मे पुत्र औरसः, तादृशस्त्वं मम अद्याग्रेण भवसि ॥
अथ खलु भगवन् स गृहपतिस्तस्य दरिद्रपुरुषस्य पुत्र इति नाम कुर्यात् । स च दरिद्रपुरुषस्तस्य गृहपतेरन्तिके पितृसंज्ञामुत्पादयेत् । अनेन भगवन् पर्यायेण स गृहपतिः पुत्रकामतृषितो विंशतिवर्षाणि तं पुत्रं संकारधानं शोधापयेत् । अथ विंशतेर्वर्षाणामत्ययेन स दरिद्रपुरुषस्तस्य गृहपतेर्निवेशने विश्रब्धो भवेन्निष्क्रमणप्रवेशे, तत्रैव च कटपलिकुञ्चिकायां वासं कल्पयेत् ॥
अथ खलु भगवंस्तस्य गृहपतेर्ग्लान्यं प्रत्युपस्थितं भवेत् । स मरणकालसमयं च आत्मनः प्रत्युपस्थितं समनुपश्येत् । स तं दरिद्रपुरुषमेवं वदेत् - आगच्छ त्वं भोः पुरुष । इदं मम प्रभूतं हिरण्यसुवर्णधनधान्यकोशकोष्ठागारमस्ति । अहं बाढग्लानः । इच्छाम्येतं यस्य दातव्यं यतश्च ग्रहीतव्यं यच्च निधातव्यं भवेत्, सर्वं संजानीयाः । तत्कस्य हेतोः? यादृश एव अहमस्य द्रव्यस्य स्वामी, तादृशस्त्वमपि । मा च मे त्वं किंचिदतो विप्रणाशयिष्यसि ॥
अथ खलु भगवन् स दरिद्रपुरुषो ऽनेन पर्यायेण तच्च तस्य गृहपतेः प्रभूतं हिरण्यसुवर्णधनधान्यकोशकोष्ठागारं संजानीयात् । आत्मना च ततो निःस्पृहो भवेत् । न च तस्मात् किंचित् प्रार्थयेत्, अन्तशः सक्तुप्रस्थमूल्यमात्रमपि । तत्रैव च कटपलिकुञ्चिकायां वासं कल्पयेत्, तामेव दरिद्रचिन्तामनुविचिन्तयमानः ॥
अथ खलु भगवन् स गृहपतिस्तं पुत्रं शक्तं परिपालकं परिपक्वं विदित्वा अवमर्दितचित्तमुदारसंज्ञया च पौर्विकया दरिद्रचिन्तया आर्तीयन्तं जेह्रीयमाणं जुगुप्समानं विदित्वा मरणकालसमये प्रत्युपस्थिते तं दरिद्रपुरुषमानाय्य महतो ज्ञातिसंघस्योपनामयित्वा राज्ञो वा राजमात्रस्य वा पुरतो नैगमजानपदानां च संमुखमेवं संश्रावयेत् - शृण्वन्तु भवन्तः, अयं मम पुत्र औरसो मयैव जनितः । अमुकं नाम नगरम् । तस्मादेष पञ्चाशद्वर्षो नष्टः । अमुको नामैष नाम्ना । अहमप्यमुको नाम । ततश्चाहं नगरादेतमेव मार्गमाण इहागतः । एष मम पुत्रः, अहमस्य पिता । यः कश्चिन्ममोपभोगो ऽस्ति, तं सर्वमस्मै पुरुषाय निर्यातयामि । यच्च मे किंचिदस्ति प्रत्यात्मकं धनम्, तत्सर्वमेष एव जानाति ॥
अथ खलु भगवन् स दरिद्रपुरुषस्तस्मिन् समये इममेवंरूपं घोषं श्रुत्वा आश्चर्याद्भुतप्राप्तो भवेत् । एवं च विचिन्तयेत् - सहसैव मयेदमेव तावद् हिरण्यसुवर्णधनधान्यकोशकोष्ठागारं प्रतिलब्धमिति ॥
एवमेव भगवन् वयं तथागतस्य पुत्रप्रतिरूपकाः । तथागतश्च अस्माकमेवं वदति - पुत्रा मम यूयमिति, यथा स गृहपतिः । वयं च भगवंस्तिसृभिर्दुःखताभिः संपीडिता अभूम । कतमाभिस्तिसृभिः? यदुत दुःखदुःखतया संस्कारदुःखतया विपरिणामदुःखतया च । संसारे च हीनाधिमुक्तिकाः । ततो वयं भगवता बहून् धर्मान् प्रत्यवरान् संकारधानसदृशाननुविचिन्तयिताः । तेषु चास्म प्रयुक्ता घटमाना व्यायच्छमानाः । निर्वाणमात्रं च वयं भगवन् दिवसमुद्रामिव पर्येषमाणा मार्गामः । तेन च वयं भगवन् निर्वाणेन प्रतिलब्धेन तुष्टा भवामः । बहु च लब्धमिति मन्यामहे तथागतस्यान्तिकात् एषु धर्मेष्वभियुक्ता घटित्वा व्यायमित्वा । प्रजानाति च तथागतो ऽस्माकं हीनाधिमुक्तिकताम्, ततश्च भगवानस्मानुपेक्षते, न संभिनत्ति, नाचष्टे - यो ऽयं तथागतस्य ज्ञानकोशः, एष एव युष्माकं भविष्यतीति । भगवांश्चास्माकमुपायकौशल्येन अस्मिंस्तथागतज्ञानकोशे दायादान् संस्थापयति । निःस्पृहाश्च वयं भगवन् । तत एवं जानीम - एतदेवास्माकं बहुकरं यद्वयं तथागतस्यान्तिकाद्दिवसमुद्रामिव निर्वाणं प्रतिलभामहे । ते वयं भगवन् बोधिसत्त्वानां महासत्त्वानां तथागतज्ञानदर्शनमारभ्य उदारां धर्मदेशनां कुर्मः । तथागतज्ञानं विवरामो दर्शयाम उपदर्शयामः । वयं भगवंस्ततो निःस्पृहाः समानाः । तत्कस्य हेतोः? उपायकौशल्येन तथागतो ऽस्माकमधिमुक्तिं प्रजानाति । तच्च वयं न जानीमो न बुध्यामहे यदिदं भगवता एतर्हि कथितम् - यथा वयं भगवतो भूताः पुत्राः, भगवांश्चास्माकं स्मारयति तथागतज्ञानदायादान् ।
तत्कस्य हेतोः? यथापि नाम वयं तथागतस्य भूताः पुत्राः इति, अपि तु खलु पुनर्हीनाधिमुक्ताः । सचेद् भगवानस्माकं पश्येदधिमुक्तिबलम्, बोधिसत्त्वशब्दं भगवानस्माकमुदाहरेत् । वयं पुनर्भगवता द्वे कार्ये कारापिताः - बोधिसत्त्वानां चाग्रतो हीनाधिमुक्तिका इत्युक्ताः, ते चोदारायां बुद्धबोधौ समादापिताः, अस्माकं चेदानीं भगवानधिमुक्तिबलं ज्ञात्वा इदमुदाहृतवान् । अनेन वयं भगवन् पर्यायेणैवं वदामः - सहसैवास्माभिर्निःस्पृहैराकाङ्क्षितममार्गितमपर्येषितमचिन्तितमप्रार्थितं सर्वज्ञतारत्नं प्रतिलब्धं यथापीदं तथागतस्य पुत्रैः ॥
अथ खल्वायुष्मान् महाकाश्यपस्तस्यां वेलायामिमा गाथा अभाषत् -
आश्चर्यभूताः स्म तथाद्भुताश्च औद्बिल्यप्राप्ताः स्म श्रुणित्व घोषम् / सहसैव अस्माभिरयं तथाद्य मनोज्ञघोषः श्रुतु नायकस्य // saddhp_4.1 //
विशिष्टरत्नान महन्तराशिर्मुहूर्तमात्रेणयमद्य लब्धः / न चिन्तितो नापि कदाचि प्रार्थितस्तं श्रुत्व आश्चर्यगताः स्म सर्वे // saddhp_4.2 //
यथापि बालः पुरुषो भवेत उत्प्लावितो बालजनेन सन्तः / पितुः सकाशातु अपक्रमेत अन्यं च देशं व्रजि सो सुदूरम् // saddhp_4.3 //
पिता च तं शोचति तस्मि काले पलायितं ज्ञात्व स्वकं हि पुत्रम् / शोचन्तु सो दिग्विदिशासु अञ्चे वर्षाणि पञ्चाशदनूनकानि // saddhp_4.4 //
तथा च सो पुत्र गवेषमाणो अन्यं महन्तं नगरं हि गत्वा / निवेशनं मापिय तत्र तिष्ठेत् समर्पितो कामुगणेहि पञ्चभिः // saddhp_4.5 //
बहुं हिरण्यं च सुवर्णरूप्यं धान्यं धनं शङ्खशिलाप्रवालम् / हस्ती च अश्वाश्च पदातयश्च गावः पशूश्चैव तथैडकाश्च // saddhp_4.6 //
प्रयोग आयोग तथैव क्षेत्रा दासी च दासा बहु प्रेष्यवर्गः / सुसत्कृतः प्राणिसहस्रकोटिभी राज्ञश्च सो वल्लभु नित्यकालम् // saddhp_4.7 //
कृताञ्जली तस्य भवन्ति नागरा ग्रामेषु ये चापि वसन्ति ग्रामिणः / बहुवाणिजास्तस्य व्रजन्ति अन्तिके बहूहि कार्येहि कृताधिकाराः // saddhp_4.8 //
एतादृशो ऋद्धिमतो नरः स्याज्जीर्णश्च वृद्धश्च महल्लकश्च / स पुत्रशोकं अनुचिन्तयन्तः क्षपेय रात्रिंदिव नित्यकालम् // saddhp_4.9 //
स तादृशो दुर्मति मह्य पुत्रः पञ्चाश वर्षाणि तदा पलानकः / अयं च कोशो विपुलो ममास्ति कालक्रिया चो मम प्रत्युपस्थिता // saddhp_4.10 //
सो चापि बालो तद तस्य पुत्रो दरिद्रकः कृपणकु नित्यकालम् / ग्रामेण ग्रामं अनुचंक्रमन्तः पर्येषते भक्त अथापि चोलम् // saddhp_4.11 //
पर्येषमाणो ऽपि कदाचि किंचिल्लभेत किंचित् पुन नैव किंचित् / स शुष्यते परशरणेषु बालो दद्रूय कण्डूय च दिग्धगात्रः // saddhp_4.12 //
सो च व्रजेत्तं नगरं यहिं पिता अनुपूर्वशो तत्र गतो भवेत / भक्तं च चोलं च गवेषमाणो निवेशनं यत्र पितुः स्वकस्य // saddhp_4.13 //
सो चापि आढ्यः पुरुषो महाधनो द्वारस्मि सिंहासनि संनिषण्णः / परिवारितः प्राणिशतैरनेकैर्वितान तस्या विततो ऽन्तरीक्षे // saddhp_4.14 //
आप्तो जनश्चास्य समन्ततः स्थितो धनं हिरण्यं च गणेन्ति केचित् / केचित्तु लेखानपि लेखयन्ति केचित् प्रयोगं च प्रयोजयन्ति // saddhp_4.15 //
सो चा दरिद्रो तहि एतु दृष्ट्वा विभूषितं गृहपतिनो निवेशनम् / कहिं नु अद्य अहमत्र आगतो राजा अयं भेष्यति राजमात्रः // saddhp_4.16 //
मा दानि दोषं पि लभेयमत्र गृह्णित्व वेष्टिं पि च कारयेयम् / अनुचिन्तयन्तः स पलायते नरो दरिद्रवीथीं परिपृच्छमानः // saddhp_4.17 //
सो चा धनी तं स्वकु पुत्र दृष्ट्वा सिंहासनस्थश्च भवेत् प्रहृष्टः / स दूतकान् प्रेषयि तस्य अन्तिके आनेथ एतं पुरुषं दरिद्रम् // saddhp_4.18 //
समनन्तरं तेहि गृहीतु सो नरो गृहीतमात्रो ऽथ च मूर्च्छ गच्छेत् / ध्रूवं खु मह्यं वधका उपस्थिताः किं मह्य चोलेनथ भोजनेन वा // saddhp_4.19 //
दृष्ट्वा च सो पण्डितु तं महाधनी हीनाधिमुक्तो अयु बाल दुर्मतिः / न श्रद्दधी मह्यमिमां विभूषितां पिता ममायं ति न चापि श्रद्दधीत् // saddhp_4.20 //
पुरुषांश्च सो तत्र प्रयोजयेत वङ्काश्च ये काणक कुण्ठकाश्च / कुचेलकाः कृष्णक हीनसत्त्वाः पर्येषथा तं नरु कर्मकारकम् // saddhp_4.21 //
संकारधानं इमु मह्य पूतिकमुच्चारप्रस्रावविनाशितं च / तं शोधनार्थाय करोहि कर्म द्विगुणं च ते वेतनकं प्रदास्ये // saddhp_4.22 //
एतादृशं घोष श्रुणित्व सो नरो आगत्य संशोधयि तं प्रदेशम् / तत्रैव सो आवसथं च कुर्यान्निवेशनस्योपलिकुञ्चिके ऽस्मिन् // saddhp_4.23 //
सो चा धनी तं पुरुषं निरीक्षेद् गवाक्षओलोकनके ऽपि नित्यम् / हीनाधिमुक्तो अयु मह्य पुत्रः संकारधानं शुचिकं करोति // saddhp_4.24 //
स ओतरित्वा पिटकं गृहीत्वा मलिनानि वस्त्राणि च प्रावरित्वा / उपसंक्रमेत्तस्य नरस्य अन्तिके अवभर्त्सयन्तो न करोथ कर्म // saddhp_4.25 //
द्विगुणं च ते वेतनकं ददामि द्विगुणां च भूयस्तथ पादम्रक्षणम् / सलोणभक्तं च ददामि तुभ्य शाकं च शाटिं च पुनर्ददामि // saddhp_4.26 //
एवं च तं भर्त्सिय तस्मि काले संश्लेषयेत्तं पुनरेव पण्डितः / सुष्ठुं खलू कर्म करोषि अत्र पुत्रो ऽसि व्यक्तं मम नात्र संशयः // saddhp_4.27 //
स स्तोकस्तोकं च गृहं प्रवेशयेत् कर्मं च कारापयि तं मनुष्यम् / विंशच्च वर्षाणि सुपूरितानि क्रमेण विश्रम्भयि तं नरं सः // saddhp_4.28 //
हिरण्यु सो मौक्तिकु स्फाटिकं च प्रतिसामयेत्तत्र निवेशनस्मिन् / सर्वं च सो संगणनां करोति अर्थं च सर्वं अनुचिन्तयेत // saddhp_4.29 //
बहिर्धा सो तस्य निवेशनस्य कुटिकाय एको वसमानु बालः / दरिद्रचिन्तामनुचिन्तयेत न मे ऽस्ति एतादृश भोग केचित् // saddhp_4.30 //
ज्ञात्वा च सो तस्य इमेवरूपमुदारसंज्ञाभिगतो मि पुत्रः / स आनयित्वा सुहृज्ञातिसंघं निर्यातयिष्याम्यहु सर्वमर्थम् // saddhp_4.31 //
राजान सो नैगमनागरांश्च समानयित्वा बहुवाणिजांश्च / उवाच एवं परिषाय मध्ये पुत्रो ममायं चिर विप्रनष्टकः // saddhp_4.32 //
पञ्चाश वर्षाणि सुपूर्णकानि अन्ये च ऽतो विंशतिये मि दृष्टः / अमुकातु नगरातु ममैष नष्टो अहं च मार्गन्त इहैवमागतः // saddhp_4.33 //
सर्वस्य द्रव्यस्य अयं प्रभुर्मे एतस्य निर्यातयि सर्वशेषतः / करोतु कार्यं च पितुर्धनेन सर्वं कुटुम्बं च ददामि एतत् // saddhp_4.34 //
आश्चर्यप्राप्तश्च भवेन्नरो ऽसौ दरिद्रभावं पुरिमं स्मरित्वा / हीनाधिमुक्तिं च पितुश्च तान् गुणांल्लब्ध्वा कुटुम्बं सुखितो ऽस्मि अद्य // saddhp_4.35 //
तथैव चास्माक विनायकेन हीनाधिमुक्तित्व विजानियान / न श्रावितं बुद्ध भविष्यथेति यूयं किल श्रावक मह्य पुत्राः // saddhp_4.36 //
अस्मांश्च अध्येषति लोकनाथो ये प्रस्थिता उत्तममग्रबोधिम् / तेषां वदे काश्यप मार्ग नुत्तरं यं मार्ग भावित्व भवेयु बुद्धाः // saddhp_4.37 //
वयं च तेषां सुगतेन प्रेषिता बहुबोधिसत्त्वान महाबलानाम् / अनुत्तरं मार्ग प्रदर्शयाम दृष्टान्तहेतूनयुतान कोटिभिः // saddhp_4.38 //
श्रुत्वा च अस्माकु जिनस्य पुत्रा बोधाय भावेन्ति सुमार्गमग्र्यम् / ते व्याक्रियन्ते च क्षणस्मि तस्मिन् भविष्यथा बुद्ध इमस्मि लोके // saddhp_4.39 //
एतादृशं कर्म करोम तायिनः संरक्षमाणा इम धर्मकोशम् / प्रकाशयन्तश्च जिनात्मजानां वैश्वासिकस्तस्य यथा नरः सः // saddhp_4.40 //
दरिद्रचिन्ताश्च विचिन्तयाम विश्राणयन्तो इमु बुद्धकोशम् / न चैव प्रार्थेम जिनस्य ज्ञानं जिनस्य ज्ञानं च प्रकाशयामः // saddhp_4.41 //
प्रत्यात्मिकीं निर्वृति कल्पयाम एतावता ज्ञानमिदं न भूयः / नास्माक हर्षो ऽपि कदाचिअ भोति क्षेत्रेषु बुद्धान श्रुणित्व व्यूहान् // saddhp_4.42 //
शान्ताः किला सर्विमि धर्मनास्रवा निरोधौत्पादविवर्जिताश्च / न चात्र कश्चिद्भवतीह धर्मो एवं तु चिन्तेत्व न भोति श्रद्धा // saddhp_4.43 //
सुनिःस्पृहा स्मा वय दीर्घरात्रं बौद्धस्य ज्ञानस्य अनुत्तरस्य / प्रणिधानमस्माक न जातु तत्र इयं परा निष्ठ जिनेन उक्ता // saddhp_4.44 //
निर्वाणपर्यन्ति समुच्छ्रये ऽस्मिन् परिभाविता शून्यत दीर्घरात्रम् / परिमुक्त त्रैधातुकदुःखपीडिताः कृतं च अस्माभि जिनस्य शासनम् // saddhp_4.45 //
यं हि प्रकाशेम जिनात्मजानां ये प्रस्थिता भोन्ति इहाग्रबोधौ / तेषां च यत्किंचि वदाम धर्मं स्पृह तत्र अस्माक न जातु भोति // saddhp_4.46 //
तं चास्म लोकाचरियः स्वयंभूरुपेक्षते कालमवेक्षमाणः / न भाषते भूतपदार्थसंधिं अधिमुक्तिमस्माकु गवेषमाणः // saddhp_4.47 //
उपायकौशल्य यथैव तस्य महाधनस्य पुरुषस्य काले / हीनाधिमुक्तं सततं दमेति दमियान चास्मै प्रददाति वित्तम् // saddhp_4.48 //
सुदुष्करं कुर्वति लोकनाथो उपायकौशल्य प्रकाशयन्तः / हीनाधिमुक्तान् दमयन्तु पुत्रान् दमेत्व च ज्ञानमिदं ददाति // saddhp_4.49 //
आश्चर्यप्राप्ताः सहसा स्म अद्य यथा दरिद्रो लभियान वित्तम् / फलं च प्राप्तं इह बुद्धाशासने प्रथमं विशिष्टं च अनास्रवं च // saddhp_4.50 //
यच्छीलमस्माभि च दीर्घरात्रं संरक्षितं लोकविदुस्य शासने / अस्माभि लब्धं फलमद्य तस्य शीलस्य पूर्वं चरितस्य नाथ // saddhp_4.51 //
यद् ब्रह्मचर्यं परमं विशुद्धं निषेवितं शासनि नायकस्य / तस्यो विशिष्टं फलमद्य लब्धं शान्तं उदारं च अनास्रवं च // saddhp_4.52 //
अद्यो वयं श्रावकभूत नाथ संश्रावयिष्यामथ चाग्रबोधिम् / बोधीय शब्दं च प्रकाशयामस्तेनो वयं श्रावक भीष्मकल्पाः // saddhp_4.53 //
अर्हन्तभूता वयमद्य नाथ अर्हामहे पूज सदेवकातः / लोकात्समारातु सब्रह्मकातः सर्वेष सत्त्वान च अन्तिकातः // saddhp_4.54 //
को नाम शक्तः प्रतिकर्तु तुभ्यमुद्युक्तरूपो बहुकल्पकोट्यः / सुदुष्कराणीदृशका करोषि सुदुष्करान् यानिह मर्त्यलोके // saddhp_4.55 //
हस्तेहि पादेहि शिरेण चापि प्रतिप्रियं दुष्करकं हि कर्तुम् / शिरेण अंसेन च यो धरेत परिपूर्णकल्पान् यथ गङ्गवालिकाः // saddhp_4.56 //
खाद्यं ददेद्भोजनवस्त्रपानं शयनासनं चो विमलोत्तरच्छदम् / विहार कारापयि चन्दनामयान् संस्तीर्य चो दूष्ययुगेहि दद्यात् // saddhp_4.57 //
गिलानभैषज्य बहुप्रकारं पूजार्थ दद्यात् सुगतस्य नित्यम् / ददेय कल्पान् यथ गङ्गवालिका नैवं कदाचित् प्रतिकर्तु शक्यम् // saddhp_4.58 //
महात्मधर्मा अतुलानुभावा महर्द्धिकाः क्षान्तिबले प्रतिष्ठिताः / बुद्धा महाराज अनास्रवा जिना सहन्ति बालान इमीदृशानि // saddhp_4.59 //
अनुवर्तमानस्तथ नित्यकालं निमित्तचारीण ब्रवीति धर्मम् / धर्मेश्वरो ईश्वरु सर्वलोके महेश्वरो लोकविनायकेन्द्रः // saddhp_4.60 //
प्रतिपत्ति दर्शेति बहुप्रकारं सत्त्वान स्थानानि प्रजानमानः / नानाधिमुक्तिं च विदित्व तेषां हेतूसहस्रेहि ब्रवीति धर्मम् // saddhp_4.61 //
तथागतश्चर्य प्रजानमानः सर्वेष सत्त्वानथ पुद्गलानाम् / बहुप्रकारं हि ब्रवीति धर्मं निदर्शयन्तो इममग्रबोधिम् // saddhp_4.62 //
इत्यार्यसद्धर्मपुण्डरीके धर्मपर्याये अधिमुक्तिपरिवर्तो नाम चतुर्थः ॥
saddhp_5: ओषधीपरिवर्तः ।
अथ खलु भगवानायुष्मन्तं महाकाश्यपं तांश्चान्यान् स्थविरान् महाश्रावकानामन्त्रयामास - साधु साधु महाकाश्यप । साधु खलु पुनर्युष्माकं काश्यप यद्यूयं तथागतस्य भूतान् गुणवर्णान् भाषध्वे । एते च काश्यप तथागतस्य भूता गुणाः । अतश्चान्ये ऽप्रमेया असंख्येयाः, येषां न सुकरः पर्यन्तो ऽधिगन्तुमपरिमितानपि कल्पान् भाषमाणैः । धर्मस्वामी काश्यप तथागतः, सर्वधर्माणां राजा प्रभुर्वशी । यं च काश्यप तथागतो धर्मं यत्रोपनिक्षिपति, स तथैव भवति । सर्वधर्माश्च काश्यप तथागतो युक्त्योपनिक्षिपति । तथागतज्ञानेनोपनिक्षिपति । यथा ते धर्माः सर्वज्ञभूमिमेव गच्छन्ति । सर्वधर्मार्थगतिं च तथागतो व्यवलोकयति । सर्वधर्मार्थवशिताप्राप्तः सर्वधर्माध्याशयप्राप्तः सर्वधर्मविनिश्चयकौशल्यज्ञानपरमपारमिताप्राप्तः सर्वज्ञज्ञानसंदर्शकः सर्वज्ञज्ञानावतारकः सर्वज्ञज्ञानोपनिक्षेपकः काश्यप तथागतो ऽर्हन् सम्यक्संबुद्धः ॥
तद्यथापि नाम काश्यप अस्यां त्रिसाहस्रमहासाहस्रायां लोकधातौ यावन्तस्तृणगुल्मौषधिवनस्पतयो नानावर्णा नानाप्रकारा ओषधिग्रामा नानानामधेयाः पृथिव्यां जाताः पर्वतगिरिकन्दरेषु वा । मेघश्च महावारिपरिपूर्ण उन्नमेत्, उन्नमित्वा सर्वावतीं त्रिसाहस्रमहासाहस्रां लोकधातुं संछादयेत् । संछाद्य च सर्वत्र समकालं वारि प्रमुञ्चेत् । तत्र काश्यप ये तृणगुल्मौषधिवनस्पतयो ऽस्यां त्रिसाहस्रमहासाहस्रलोकधातौ, तत्र ये तरुणाः कोमलनालशाखापत्रपलाशास्तृणगुल्मौषधिवनस्पतयो द्रुमा महाद्रुमाः, सर्वे ते ततो महामेघप्रमुक्ताद्वारिणो यथाबलं यथाविषयमब्धातुं प्रत्यापिबन्ति । ते चैकरसेन वारिणा प्रभूतेन मेघप्रमुक्तेन यथाबीजमन्वयं विवृद्धिं विरूढिं विपुलतामापद्यन्ते, तथा च पुष्पफलानि प्रसवन्ति । ते च पृथक् पृथगू नानानामधेयानि प्रतिलभन्ते । एकधरणीप्रतिष्ठिताश्च ते सर्वे ओषधिग्रामा बीजग्रामा एकरसतोयाभिष्यन्दिताः । एवमेव काश्यप तथागतो ऽर्हन् सम्यक्संबुद्धो लोक उत्पद्यते । यथा महामेघः उन्नमते, तथा तथागतो ऽप्युत्पद्य सर्वावन्तं सदेवमानुषासुरं लोकं स्वरेणाभिविज्ञापयति । तद्यथापि नाम काश्यप महामेघः सर्वावतीं त्रिसाहस्रमहासाहस्रां लोकधातुमवच्छादयति, एवमेव काश्यप तथागतो ऽर्हन् सम्यक्संबुद्धः सदेवमानुषासुरस्य लोकस्य पुरत एवं शब्दमुदीरयति, घोषमनुश्रावयति - तथागतो ऽस्मि भवन्तो देवमनुष्याः अर्हन् सम्यक्संबुद्धः, तीर्णस्तारयामि, मुक्तो मोचयामि, आश्वस्त आश्वासयामि, परिनिर्वृतः परिनिर्वापयामि । अहमिमं च लोकं परं च लोकं सम्यक् प्रज्ञया यथाभूतं प्रजानामि
सर्वज्ञः सर्वदर्शी । उपसंक्रामन्तु मां भवन्तो देवमनुष्या धर्मश्रवणाय । अहं मार्गस्याख्याता मार्गदेशिको मार्गवित् मार्गकोविदः । तत्र काश्यप बहूनि प्राणिकोटीनयुतशतसहस्राणि तथागतस्य धर्मश्रवणायोपसंक्रामन्ति । अथ तथागतो ऽपि तेषां सत्त्वानामिन्द्रियवीर्यपरापरवैमात्रतां (वैद्य 85) ज्ञात्वा तांस्तान् धर्मपर्यायानुपसंहरति, तां तां धर्मकथां कथयति बह्वीं विचित्रां हर्षणीयां परितोषणीयां प्रामोद्यकरणीयां हितसुखसंवर्तनकरणीयाम् । यया कथय ते सत्त्वाः दृष्ट एव धर्मे सुखिता भवन्ति, कालं च कृत्वा सुगतीषूपपद्यन्ते, यत्र प्रभूतांश्च कामान् परिभुञ्जन्ते, धर्मं च शृण्वन्ति । श्रुत्वा च तं धर्मं विगतनीवरणा भवन्ति । अनुपूर्वेण च सर्वज्ञधर्मेष्वभियुज्यन्ते यथाबलं यथाविषयं यथास्थानम् ॥
तद्यथापि नाम काश्यप महामेघः सर्वावतीं त्रिसाहस्रमहासाहस्रां लोकधातुं संछाद्य समं वारि प्रमुञ्चति, सर्वांश्च तृणगुल्मौषधिवनस्पतीन् वारिणा संतर्पयति । यथाबलं यथाविषयं यथास्थामं च ते तृणगुल्मौषधिवनस्पतयो वार्यापिबन्ति, स्वकस्वकां च जातिप्रमाणतां गच्छन्ति । एवमेव काश्यप तथागतो ऽर्हन् सम्यक्संबुद्धो यं धर्मं भाषते, सर्वः स धर्म एकरसो यदुत विमुक्तिरसो विरागरसो निरोधरसः सर्वज्ञज्ञानपर्यवसानः । तत्र काश्यप ये ते सत्त्वास्तथागतस्य धर्मं भाषमाणस्य शृण्वन्ति धारयन्ति अभिसंयुज्यन्ते, न ते आत्मनात्मानं जानन्ति वा वेदयन्ति वा बुध्यन्ति वा । तत्कस्य हेतोः? तथागत एव काश्यप तान् सत्त्वांस्तथा जानाति, ये च ते, यथा च ते, यादृशाश्च ते । यं च ते चिन्तयन्ति, यथा च ते चिन्तयन्ति, येन च ते चिन्तयन्ति । यं च ते भावयन्ति, यथा च ते भावयन्ति, येन च ते भावयन्ति । यं च ते प्राप्नुवन्ति, यथा च ते प्राप्नुवन्ति, येन च ते प्राप्नुवन्ति । तथागत एव काश्यप तत्र प्रत्यक्षः प्रत्यक्षदर्शी यथा च दर्शी तेषां सत्त्वानां तासु तासु भूमिषु स्थितानां तृणगुल्मौषधिवनस्पतीनां हीनोत्कृष्टमध्यमानाम् । सो ऽहं काश्यप एकरसधर्म विदित्वा यदुत विमुक्तिरसं निर्वृतिरसं निर्वाणपर्यवसानं नित्यपरिनिर्वृतमेकभूमिकमाकाशगतिकमधिमुक्तिं सत्त्वानामनुरक्षमाणो न सहसैव सर्वज्ञज्ञानं संप्रकाशयामि । आश्चर्यप्राप्ता अद्भुतप्राप्ता यूयं काश्यप यद्यूयं संधाभाषितं तथागतस्य न शक्नुथ अवतरितुम् । तत्कस्य हेतोः? दुर्विज्ञेयं काश्यप तथागतानामर्हतां सम्यक्संबुद्धानां संधाभाषितमिति ॥
अथ खलु भगवांस्तस्यां वेलायामिममेवार्थं भूयस्या मात्रया संदर्शयमान इमा गाथा अभाषत -
धर्मराजा अहं लोके उत्पन्नो भवमर्दनः / धर्मं भाषामि सत्त्वानामधिमुक्तिं विजानिय // saddhp_5.1 //
धीरबुद्धी महावीरा चिरं रक्षन्ति भाषितम् / रहस्यं चापि धारेन्ति न च भाषन्ति प्राणिनाम् // saddhp_5.2 //
दुर्बोध्यं चापि तज्ज्ञानं सहसा श्रुत्व बालिशाः / काङ्क्षां कुर्युः सुदुर्मेधास्ततो भ्रष्टा भ्रमेयु ते // saddhp_5.3 //
यथाविषयु भाषामि यस्य यादृशकं बलम् / अन्यमन्येहि अर्थेहि दृष्टिं कुर्वामि उज्जुकाम् // saddhp_5.4 //
यथापि काश्यपा मेघो लोकधातूय उन्नतः / सर्वमोनहती चापि छादयन्तो वसुंधराम् // saddhp_5.5 //
सो च वारिस्य संपूर्णो विद्युन्माली महाम्बुदः / निर्नादयन्त शब्देन हर्षयेत् सर्वदेहिनः // saddhp_5.6 //
सूर्यरश्मी निवारित्वा शीतलं कृत्व मण्डलम् / हस्तप्राप्तो ऽवतिष्ठन्तो वारि मुञ्चेत् समन्ततः // saddhp_5.7 //
स चैव मम मुञ्चेत आपस्कन्धमनल्पकम् / प्राखरन्तः समन्तेन तर्पयेन्मेदिनीमिमाम् // saddhp_5.8 //
इह या काचि मेदिन्यां जाता ओषधयो भवेत् / तृणगुल्मवनस्पत्यो द्रुमा वाथ महाद्रुमाः // saddhp_5.9 //
सस्यानि विविधान्येव यद्वापि हरितं भवेत् / पर्वते कन्दरे चैव निकुञ्जेषु च यद्भवेत् // saddhp_5.10 //
सर्वान् संतर्पयेन्मेघस्तृणगुल्मवनस्पतीन् / तृषितां धरणीं तर्पेत् परिषिञ्चति चौषधीः // saddhp_5.11 //
तच्च एकरसं वारि मेघमुक्तमिहस्थितम् / यथाबलं यथाविषयं तृणगुल्मा पिबन्ति तत् // saddhp_5.12 //
द्रुमाश्च ये केचि महाद्रुमाश्च खुद्राक मध्याश्च यथावयाश्च / यथाबलं सर्वे पिबन्ति वारि पिबन्ति वर्धन्ति यथेच्छकामाः // saddhp_5.13 //
काण्डेन नालेन त्वचा यथैव शाखाप्रशाखाय तथैव पत्रैः / वर्धन्ति पुष्पेहि फलेहि चैव मेघाभिवृष्टेन महौषधीयः // saddhp_5.14 //
यथाबलं ता विषयश्च यादृशो यासां च यद् यादृशकं च बीजम् / स्वकस्वकं ताः प्रसवं ददन्ति वारिं च तं एकरसं प्रमुक्तम् // saddhp_5.15 //
एमेव बुद्धो ऽपि ह लोके काश्यप उत्पद्यते वारिधरो व लोके / उत्पद्य च भाषति लोकनाथो भूतां चरिं दर्शयते च प्राणिनाम् // saddhp_5.16 //
एवं च संश्रावयते महर्षिः पुरस्कृतो लोके सदेवके ऽस्मिन् / तथागतो ऽहं द्विपदोत्तमो जिनो उत्पन्नु लोकस्मि यथैव मेघः // saddhp_5.17 //
संतर्पयिष्याम्यहु सर्वसत्त्वान् संशुष्कगात्रांस्त्रिभवे विलग्नान् / दुःखेन शुष्यन्त सुखे स्थपेयं कामांश्च दास्याम्यहु निर्वृतिं च // saddhp_5.18 //
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
