Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 6/8

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa

सद्धर्मपुण्डरीकसूत्र

Thông tin
GRETIL — P.L. Vaidya, Darbhanga : The Mithila Institute, 1960 (Buddhist Sanskrit Texts, 6).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

परिनिर्वृतं दृष्ट्व ममात्मभावं धातूषु पूजां विविधां करोन्ति / मां चा अपश्यन्ति जनेन्ति तृष्णां ततोर्जुकं चित्त प्रभोति तेषाम् // saddhp_15.5 //

ऋजू यदा ते मृदुमार्दवाश्च उत्सृष्टकामाश्च भवन्ति सत्त्वाः / ततो अहं श्रावकसंघ कृत्वाः आत्मान दर्शेम्यहु गृध्रकूटे // saddhp_15.6 //

एवं च हं तेष वदामि पश्चात् इहैव नाहं तद आसि निर्वृतः / उपायकौशल्य ममेति भिक्षवः पुनः पुनो भोम्यहु जीवलोके // saddhp_15.7 //

अन्येहि सत्त्वेहि पुरस्कृतो ऽहं तेषां प्रकाशेमि ममाग्रबोधिम् / यूयं च शब्दं न शृणोथ मह्यं अन्यत्र सो निर्वृतु लोकनाथः // saddhp_15.8 //

पश्याम्यहं सत्त्व विहन्यमानान् न चाहु दर्शेमि तदात्मभावम् / स्पृहेन्तु तावन्मम दर्शनस्य तृषितान सद्धर्मु प्रकाशयिष्ये // saddhp_15.9 //

सदाधिष्ठानं मम एतदीदृशं अचिन्तिया कल्पसहस्रकोट्यः / न च च्यवामी इतु गृध्रकूटात् अन्यासु शय्यासनकोटिभिश्च // saddhp_15.10 //

यदापि सत्त्वा इम लोकधातुं पश्यन्ति कल्पेन्ति च दह्यमानम् / तदापि चेदं मम बुद्धक्षेत्रं परिपूर्ण भोती मरुमानुषाणाम् // saddhp_15.11 //

क्रीडा रती तेष विचित्र भोति उद्यानप्रासादविमानकोट्यः / प्रतिमण्डितं रत्नमयैश्च पर्वतैर्द्रुमैस्तथा पुष्पफलैरुपेतैः // saddhp_15.12 //

उपरिं च देवाभिहनन्ति तूर्यान् मन्दारवर्षं च विसर्जयन्ति / ममं च अभ्योकिरि श्रावकांश्च ये चान्य बोधाविह प्रस्थिता विदू // saddhp_15.13 //

एवं च मे क्षेत्रमिदं सदा स्थितं अन्ये च कल्पेन्तिमु दह्यमानम् / सुभैरवं पश्यिषु लोकधातुं उपद्रुतं शोकशताभिकीर्णम् // saddhp_15.14 //

न चापि मे नाम शृणोन्ति जातु तथागतानां बहुकल्पकोटिभिः / धर्मस्य वा मह्य गणस्य चापि पापस्य कर्मस्य फलेवरूपम् // saddhp_15.15 //

ल्यदा तु सत्त्वा मृदु मार्दवाश्च उत्पन्न भोन्तीह मनुष्यलोके / उत्पन्नमात्राश्च शुभेन कर्मणा पश्यन्ति मां धर्मु प्रकाशयन्तम् // saddhp_15.16 //

न चाहु भाषामि कदाचि तेषां इमां क्रियामीदृशिकीमनुत्तराम् / तेनो अहं दृष्ट चिरस्य भोमि ततो ऽस्य भाषामि सुदुर्लभा जिनाः // saddhp_15.17 //

एतादृशं ज्ञानबलं मयेदं प्रभास्वरं यस्य न कश्चिदन्तः / आयुश्च मे दीर्घमनन्तकल्पं समुपार्जितं पूर्व चरित्व चर्याम् // saddhp_15.18 //

मा संशयं अत्र कुरुध्व पण्डिता विचिकित्सितं चो जहथा अशेषम् / भूतां प्रभाषाम्यहमेत वाचं मृषा ममा नैव कदाचि वाग् भवेत् // saddhp_15.19 //

यथा हि सो वैद्य उपायशिक्षितो विपरीतसंज्ञीन सुतान हेतोः / जीवन्तमात्मान मृतेति ब्रूयात् तं वैद्यु विज्ञो न मृषेण चोदयेत् // saddhp_15.20 //

यमेव हं लोकपिता स्वयंभूः चिकित्सकः सर्वप्रजान नाथः / विपरीत मूढांश्च विदित्व बालान् अनिर्वृतो निर्वृत दर्शयामि // saddhp_15.21 //

किं कारणं मह्यमभीक्ष्णदर्शनाद् विश्रद्ध भोन्ती अबुधा अजानकाः / विश्वस्त कामेषु प्रमत्त भोन्ती प्रमादहेतोः प्रपतन्ति दुर्गतिम् // saddhp_15.22 //

चरिं चरिं जानिय नित्यकालं वदामि सत्त्वान तथा तथाहम् / कथं नु बोधावुपनामयेयं कथ बुद्धधर्माण भवेयु लाभिनः // saddhp_15.23 //

इत्यार्यसद्धर्मपुण्डरीके धर्मपर्याये तथागतायुष्प्रमाणपरिवर्तो नाम पञ्चदशमः ॥

saddhp_16: पुण्यपर्यायपरिवर्तः ।

अस्मिन् खलु पुनस्तथागतायुष्प्रमाणनिर्देशे निर्दिश्यमाने अप्रमेयाणामसंख्येयानां सत्त्वानामर्थः कृतो ऽभूत् । अथ खलु भगवान् मैत्रेयं बोधिसत्त्वं महासत्त्वमामन्त्रयते स्म - अस्मिन् खलु पुनरजित तथागतायुष्प्रमाणनिर्देशधर्मपर्याये निर्दिश्यमाने अष्टषष्टिगङ्गानदीवालुकासमानां बोधिसत्त्वकोटीनयुतशतसहस्राणामनुत्पत्तिकधर्मक्षान्तिरुत्पन्ना । एभ्यः सहस्रगुणेन येषां बोधिसत्त्वानां महासत्त्वानां धारणीप्रतिलम्भो ऽभूत् । अन्येषां च साहस्रिकलोकधातुपरमाणुरजःसमानां बोधिसत्त्वानां महासत्त्वानामिमं धर्मपर्यायं श्रुत्वा असङ्गप्रतिभानताप्रतिलम्भो ऽभूत् । अन्येषां च द्विसाहस्रिकलोकधातुपरमाणुरजःसमानां बोधिसत्त्वानां महासत्त्वानां कोटीनयुतशतसहस्रपरिवर्ताया धारण्याः प्रतिलम्भो ऽभूत् । अन्ये च त्रिसाहस्रिकलोकधातुपरमाणुरजःसमा बोधिसत्त्वा महासत्त्वा इमं धर्मपर्यायं श्रुत्वा अवैवर्त्यधर्मचक्रं प्रवर्तयामासुः । अन्ये च मध्यमकलोकधातुपरमाणुरजःसमा बोधिसत्त्वा महासत्त्वा इमं धर्मपर्यायं श्रुत्वा विमलनिर्भासचक्रं प्रवर्तयामासुः । अन्ये च क्षुद्रकलोकधातुपरमाणुरजःसमा बोधिसत्त्वा महासत्त्वा इमं धर्मपर्यायं श्रुत्वा अष्टजाति[प्रति]बद्धा अभूवन् अनुत्तरायां सम्यक्संबोधौ । अन्ये च चतुश्चातुर्द्वीपिका लोकधातुपरमाणुरजःसमा बोधिसत्त्वा महासत्त्वा इमं धर्मपर्यायं श्रुत्वा चतुर्जातिप्रतिबद्धा अभूवन् अनुत्तरायां सम्यक्संबोधौ । अन्ये च त्रिचातुर्द्वीपिका लोकधातुपरमाणुरजःसमा बोधिसत्त्वा महासत्त्वा इमं धर्मपर्यायं श्रुत्वा त्रिजातिप्रतिबद्धा अभूवन् अनुत्तरायां सम्यक्संबोधौ । अन्ये च द्विचातुर्द्वीपिका लोकधातुपरमाणुरजःसमा बोधिसत्त्व्ः मह्ःसत्त्व्ः इमं धर्मपर्य्ःयं श्रुत्व्ः द्विज्ःतिप्रतिबद्ध्ः अभूवन्ननुत्तर्ःय्ःं सम्यक्संबोधौ । अन्ये चैकच्ःतुर्द्वीपिक्ः लोकध्ःतुपरम्ःणुरजःसम्ः बोधिसत्त्व्ः मह्ःसत्त्व्ः इमं धर्मपर्य्ःयं श्रुत्व्ः एकज्ःतिप्रतिबद्ध्ः अभूवन्ननुत्तर्ःय्ःं सम्यक्संबोधौ । अष्टत्रिस्ःहस्रमह्ःस्ःहस्रलोकध्ःतुपरम्ःणुरजःसमैश्च बोधिसत्त्वैर्मह्ःसत्त्वैरिमं धर्मपर्य्ःयं श्रुत्व्ः अनुत्तर्ःय्ःं सम्यक्संबोधौ चित्त्ःन्युत्प्ःदित्ःनि ॥

अथ समनन्तरनिर्दिष्टे भगवतैषां बोधिसत्त्वानां महासत्त्वानां धर्माभिसमये प्रतिष्ठाने, अथ तावदेवोपरिवैहायसादन्तरीक्षान्मान्दारवमहामान्दारवाणां पुष्पाणां पुष्पवर्षमभिप्रवृष्टम् । तेषु च लोकधातुकोटीनयुतशतसहस्रेषु यानि तानि बुद्धकोटीनयुतशतसहस्राण्यागत्य रत्नवृक्षमूलेषु सिंहासनोपविष्टानि, तानि सर्वाणि चावकिरन्ति स्म, अभ्यवकिरन्ति स्म, अभिप्रकिरन्ति स्म । भगवन्तं च शाक्यमुनिं तथागतमर्हन्तं सम्यक्संबुद्धं तं च भगवन्तं प्रभूतरत्नं तथागतमर्हन्तं सम्यक्संबुद्धं परिनिर्वृतं सिंहासनोपविष्टमवकिरन्ति स्म, अभ्यवकिरन्ति स्म, अभिप्रकिरन्ति स्म । तं च सर्वावन्तं बोधिसत्त्वगणं ताश्चतस्रः पर्षदो ऽवकिरन्ति स्म, अभ्यवकिरन्ति स्म, अभिप्रकिरन्ति स्म । दिव्यानि च चन्दनागरुचूर्णान्यन्तरीक्षात् प्रवर्षन्ति स्म । उपरिष्टाच्चान्तरीक्षे वैहायसं महादुन्दुभयो ऽघट्टिताः प्रणेदुर्मनोज्ञमधुरगम्भीरनिर्घोषाः (वैद्य 197)। दिव्यानि च दूष्ययुग्मशतसहस्राण्युपरिष्टादन्तरीक्षात् प्रपतन्ति स्म । हारार्धहारमुक्ताहारमणिरत्नमहारत्नानि चोपरिष्टाद्वैहायसमन्तरीक्षे समन्तात् सवासु दिक्षु प्रलम्बन्ति स्म । समन्ताच्च अनर्घप्राप्तस्य धूपस्य घटिकासहस्राणि रत्नमयानि स्वयमेव प्रविचरन्ति स्म । एकैकस्य च तथागतस्य रत्नमयीं छत्रावलीं यावद् ब्रह्मलोकादुपरि वैहायसमन्तरीक्षे बोधिसत्त्वा महासत्त्वा धारयामासुः । अनेन पर्यायेण सर्वेषां तेषामप्रमेयाणामसंख्येयानां बुद्धकोटीनयुतशतसहस्राणां ते बोधिसत्त्वा महासत्त्वा रत्नमयीं छत्रावलीं यावद्ब्रह्मलोकादुपरि वैहायसमन्तरीक्षे धारयामासुः । पृथक् पृथग् गाथाभिनिर्हारैर्भूतैर्बुद्धस्तवैस्तांस्तथागतानाभिष्टुवन्ति स्म ॥

अथ खलु मैत्रेयो बोधिसत्त्वो महासत्त्वस्तस्यां वेलायामिमा गाथा अभाषत -

आश्चर्य धर्मः सुगतेन श्रावितो न जातु अस्माभिः श्रुतैष पूर्वम् / महात्मता यादृशि नायकानां आयुष्प्रमाणं च यथा अनन्तम् // saddhp_16.1 //

एवं च धर्मं श्रुणियान अद्य विभज्यमानं सुगतेन संमुखम् / प्रीतिस्फुटाः प्राणसहस्रकोट्यो य औरसा लोकविनायकस्य // saddhp_16.2 //

अविवर्तिया केचि स्थिताग्रबोधौ केचि स्थिता धारणिये वरायाम् / असङ्गप्रतिभाणि स्थिताश्च केचित् कोटीसहस्राय च धारणीये // saddhp_16.3 //

परमाणुक्षेत्रस्य तथैव चान्ये ये प्रस्थिता उत्तमबुद्धज्ञाने / केचिच्च जातीभि तथैव चाष्टभि जिना भविष्यन्ति अनन्तदर्शिनः // saddhp_16.4 //

केचित्तु चत्वारि अतिक्रमित्वा केचित्रिभिश्चैव द्विभिश्च अन्ये / लप्स्यन्ति बोधिं परमार्थदर्शिनः श्रुणित्व धर्मं इमु नायकस्य // saddhp_16.5 //

के चापि एकाय स्थिहित्व जात्या सर्वज्ञ भोष्यन्ति भवान्तरेण / श्रुणित्व आयु इमु नायकस्य एतादृशं लब्धु फलं अनास्रवम् // saddhp_16.6 //

अष्टान क्षेत्राण यथा रजो भवेत् एवाप्रमाणा गणनाय तत्तकाः / याः सत्त्वकोट्यो हि श्रुणित्व धर्मं उत्पादयिंसू वरबोधिचित्तम् // saddhp_16.7 //

एतादृशं कर्म कृतं महर्षिणा प्रकाशयन्तेनिम बुद्धबोधिम् / अनन्तकं यस्य प्रमाणु नास्ति आकाशधातू च यथाप्रमेयः // saddhp_16.8 //

मान्दारवाणां च प्रवर्षि वर्षं बहुदेवपुत्राण सहस्रकोट्यः / शक्राश्च ब्रह्मा यथा गङ्गवालिका ये आगता क्षेत्रसहस्रकोटिभिः // saddhp_16.9 //

सुगन्धचूर्णानि च चन्दनस्य अगरुस्य चूर्णानि च मुञ्चमानाः / चरन्ति आकाशि यथैव पक्षी अभ्योकिरन्ता विधिवज्जिनेन्द्रान् // saddhp_16.10 //

उपरिं च वैहायसु दुन्दुभीयो निनादयन्तो मधुरा अघट्टिताः / दिव्यान दूष्याण सहस्रकोट्यः क्षिपन्ति भ्रामेन्ति च नायकानाम् // saddhp_16.11 //

अनर्घमूल्यस्य च धूपनस्य रत्नामयी घटिकसहस्रकोट्यः / स्वयं समन्तेन विचेरु तत्र पूजार्थ लोकाधिपतिस्य तायिनः // saddhp_16.12 //

उच्चान् महन्तान् रतनामयांश्च छत्राण कोटीनयुताननन्तान् / धारन्तिमे पण्डित बोधिसत्त्वाः अवतंसकान् यावत् ब्रह्मलोकात् // saddhp_16.13 //

सवैजयन्तांश्च सुदर्शनीयान् ध्वजांश्च ओरोपयि नायकानाम् / गाथासहस्रैश्च अभिष्टुवन्ति प्रहृष्टचित्ताः सुगतस्य पुत्राः // saddhp_16.14 //

एतादृशाश्चर्यविशिष्ट अद्भुता विचित्र दृश्यन्तिमि अद्य नायकाः / आयुष्प्रमाणस्य निदर्शनेन प्रामोद्यलब्धा इमि सर्वसत्त्वाः // saddhp_16.15 //

विपुलो ऽद्य अर्थो दशसू दिशासु घोषश्च अभ्युद्गतु नायकानाम् / संतर्पिताः प्राणसहस्रकोट्यः कुशलेन बोधाय समन्विताश्च // saddhp_16.16 //

अथ खलु भगवान् मैत्रेयं बोधिसत्त्वं महासत्त्वमामन्त्रयते स्म - यैरजित अस्मिंस्तथागतायुष्प्रमाणनिर्देशधर्मपर्याये निर्दिश्यमाने सत्त्वैरेकचित्तोत्पादिकाप्यधिमुक्तिरुत्पादिता, अभिश्रद्दधानता वा कृता, कियत्ते कुलपुत्रा वा कुलदुहितरो वा पुण्यं प्रसवन्तीति तच्छृणु, साधु च सुष्ठु च मनसि कुरु । भाषिष्ये ऽहं यावत् पुण्यं प्रसवन्तीति । तद्यथापि नाम अजितकश्चिदेव कुलपुत्रो वा कुलदुहिता वा अनुत्तरां सम्यक्संबोधिमभिकाङ्क्षमाणः पञ्चसु पारमितास्वष्टौ कल्पकोटीनयुतशतसहस्राणि चरेत् । तद्यथा दानपारमितायां शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां विरहितः प्रज्ञापारमितया, येन च अजित कुलपुत्रेण वा कुलदुहित्रा वा इमं तथागतायुष्प्रमाणनिर्देशं धर्मपर्यायं श्रुत्वा एकचित्तोत्पादिकाप्यधिमुक्तिरुत्पादिता अभिश्रद्दधानता वा कृता, अस्य पुण्याभिसंस्कारस्य कुशलाभिसंस्कारस्य असौ पौर्वकः पुण्याभिसंस्कारः कुशलाभिसंस्कारः पञ्चपारमिताप्रतिसंयुक्तो ऽष्टकल्पकोटीनयुतशतसहस्रपरिनिष्पन्नः शततमीमपि कलां नोपयाति, सहस्रतमीमपि शतसहस्रतमीमपि कोटीशतसहस्रतमीमपि कोटीनयुतसहस्रतमीमपि कोटीनयुतशतसहस्रतमीमपि कलां नोपयाति, संख्यामपि कलामपि गणनामपि उपमामपि उपनिसामपि न क्षमते । एवंरूपेण अजित पुण्याभिसंस्कारेण समन्वागतः कुलपुत्रो वा कुलदुहिता वा विवर्तते ऽनुत्तरायाः सम्यक्संबोधेरिति नैतत् स्थानं विद्यते ॥

अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत -

यश्च पारमिताः पञ्च समादायेहि वर्तते / इदं ज्ञानं गवेषन्तो बुद्धज्ञानमनुत्तरम् // saddhp_16.17 //

कल्पकोटीसहस्राणि अष्टौ पूर्णानि युज्यते / दानं ददन्तो बुद्धेभ्यः श्रावकेभ्यः पुनः पुनः // saddhp_16.18 //

प्रत्येकबुद्धांस्तर्पेन्तो बोधिसत्त्वान कोटियः / खाद्यभोज्यान्नपानेहि वस्त्रशय्यासनेहि च // saddhp_16.19 //

प्रतिश्रयान् विहारांश्च चन्दनस्येह कारयेत् / आरामान् रमणीयांश्च चंक्रमस्थानशोभितान् // saddhp_16.20 //

एतादृशं ददित्वान दानं चित्र बहूविधम् / कल्पकोटीसहस्राणि दत्वा बोधाय नामयेत् // saddhp_16.21 //

पुनश्च शीलं रक्षेत शुद्धं संबुद्धवर्णितम् / अखण्डं संस्तुतं विज्ञैर्बुद्धज्ञानस्य कारणात् // saddhp_16.22 //

पुनश्च क्षान्ति भावेत दान्तभूमौ प्रतिष्ठितः / धृतिमान् स्मृतिमांश्चैव परिभाषाः क्षमे बहूः // saddhp_16.23 //

ये चोपलम्भिकाः सत्त्वा अधिमाने प्रतिष्ठिताः / कुत्सनं च सहेत्तेषां बुद्धज्ञानस्य कारणात् // saddhp_16.24 //

नित्योद्युक्तश्च वीर्यस्मिन् अभियुक्तो दृढस्मृतिः / अनन्यमनसंकल्पो भवेया कल्पकोटियः // saddhp_16.25 //

अरण्यवासि तिष्ठन्तो चंक्रमं अभिरुह्य च / स्त्यानमिद्धं च वर्जित्वा कल्पकोट्यो हि यश्चरेत् // saddhp_16.26 //

यश्च ध्यायी महाध्यायी ध्यानारामः समाहितः / कल्पकोट्यः स्थितो ध्यायेत् सहस्राण्यष्टनूनकाः // saddhp_16.27 //

तेन ध्यानेन सो वीरः प्रार्थयेद् बोधिमुत्तमाम् / अहं स्यामिति सर्वज्ञो ध्यानपारमितां गतः // saddhp_16.28 //

यच्च पुण्यं भवेत्तेषां निषेवित्वा इमां क्रियाम् / कल्पकोटीसहस्राणि ये पूर्वं परिकीर्तिताः // saddhp_16.29 //

आयुं च मम यो श्रुत्वा स्त्री वापि पुरुषो ऽपि वा / एकक्षणं पि श्रद्धाति इदं पुण्यमनन्तकम् // saddhp_16.30 //

विचिकित्सां च वर्जित्वा इञ्जिता मन्यितानि च / अधिमुच्येन्मुहूर्तं पि फलं तस्येदमीदृशम् // saddhp_16.31 //

बोधिसत्त्वाश्च ये भोन्ति चरिताः कल्पकोटियः / न ते त्रसन्ति श्रुत्वेदं मम आयुरचिन्तियम् // saddhp_16.32 //

मूर्धेन च नमस्यन्ति अहमप्येदृशो भवेत् / अनागतस्मिन्नध्वानि तारेयं प्राणिकोटियः // saddhp_16.33 //

यथा शाक्यमुनिर्नाथः शाक्यसिंहो महामुनिः / बोधिमण्डे निषीदित्वा सिंहनादमिदं नदेत् // saddhp_16.34 //

अहमप्यनागते ऽध्वानि सत्कृतः सर्वदेहिनाम् / बोधिमण्डे निषीदित्वा आयुं देशेष्यमीदृशम् // saddhp_16.35 //

अध्याशयेन संपन्नाः श्रुताधाराश्च ये नराः / संधाभाष्यं विजानन्ति काङ्क्षा तेषां न विद्यते // saddhp_16.36 //

पुनरपरमजित य इमं तथागतायुष्प्रमाणनिर्देशं धर्मपर्यायं श्रुत्वा अवतरेदधिमुच्येत अवगाहेत अवबुध्येत, सो ऽस्मादप्रमेयतरं पुण्याभिसंस्कारं प्रसवेद् बुद्धज्ञानसंवर्तनीयम् । कः पुनर्वादो य इममेवंरूपं धर्मपर्यायं शृणुयाच्छ्रावयेत वाचयेद धारयेद्वा लिखेद्वा लिखापयेद्वा पुस्तकगतं वा सत्कुर्यात्, गुरुकुर्यान्मानयेत् पूजयेत् सत्कारयेद्वा पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपातकाभिस्तैलप्रदीपैर्वा घृतप्रदीपैर्वा गन्धतैलप्रदीपैर्वा, बहुतरं पुण्याभिसंस्कारं प्रसवेद् बुद्धज्ञानसंवर्तनीयम् ॥

यदा च अजित स कुलपुत्रो वा कुलदुहिता वा इमं तथागतायुष्प्रमाणनिर्देशं धर्मपर्याय श्रुत्वा अध्याशयेनाधिमुच्यते, तदा तस्येदमध्याशयलक्षणं वेदितव्यम् - यदुत गृध्रकूटपर्वतगतं मां धर्मं निर्देशयन्तं द्रक्ष्यति बोधिसत्त्वगणपरिवृतं बोधिसत्त्वगणपुरस्कृतं श्रावकसंघमध्यगतम् । इदं च मे बुद्धक्षेत्रं सहां लोकधातुं वैडूर्यमयीं समप्रस्तरां द्रक्ष्यति सुवर्णसूत्राष्टापदविनद्धां रत्नवृक्षैर्विचित्रिताम् । कूटागारपरिभोगेषु च अत्र बोधिसत्त्वान् निवसतो द्रक्ष्यति । इदमजित अध्याशयेनाधिमुक्तस्य कुलपुत्रस्य वा कुलदुहितुर्वा अध्याशयलक्षणं वेदितव्यम् ॥

अपि तु खलु पुनरजित तानप्यहमध्याशयाधिमुक्तान् कुलपुत्रान् वदामि, ये तथागतस्य परिनिर्वृतस्य इमं धर्मपर्यायं श्रुत्वा न प्रतिक्षेप्स्यन्ति उत्तरि चाभ्यनुमोदयिष्यन्ति । कंः पुनर्वादो ये धारयिष्यन्ति वाचयिष्यन्ति । ततस्तथागतं सों ऽसेन परिहरति य इमं धर्मपर्यायं पुस्तकगतं कृत्वा अंसेन परिहरति । न मे तेनाजित कुलपुत्रेण वा कुलदुहित्रा वा स्तूपाः कर्तव्याः, न विहारा कर्तव्याः, न भिक्षुसंघाय ग्लानप्रत्ययभैषज्यपरिष्कारास्तेनानुप्रदेया भवन्ति । तत्कस्य हेतोः? कृता मे तेन अजित कुलपुत्रेण वा कुलदुहित्रा वा शरीरेषु शरीरपूजा, सप्तरत्नमयाश्च स्तूपाः कारिताः, यावद् ब्रह्मलोकमुच्चैस्त्वेन अनुपूर्वपरिणाहेन सच्छत्रपरिग्रहाः सवैजयन्तीका घण्टासमुद्गानुरताः, तेषां च शरीरस्तूपानां विविधाः सत्काराः कृता नानाविधैर्दिव्यैर्मानुष्यकैः पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकावैजयन्तीभिर्विविधमधुरमनोज्ञपटुपटहदुन्दुभिमहादुन्दुभिभिर्वाद्यतालनिनादर्निर्घोषशब्दैर्नानाविधैश्च गीतनृत्यलास्यप्रकारैर्बहुभिरपरिमितैर्बह्वप्रमेयाणि कल्पकोटीनयुतशतसहस्राणि सत्कारः कृतो भवति । इमं धर्मपर्यायं मम परिनिर्वृतस्य धारयित्वा वाचयित्वा लिखित्वा (वैद्य 202) प्रकाशयित्वा विहारा अपि तेन अजित कृता भवन्ति विपुला विस्तीर्णाः । प्रगृहीताश्च लोहितचन्दनमया द्वात्रिंशत्प्रासादा अष्टतला भिक्षुसहस्रावासाः । आरामपुष्पोपशोभिताश्चंक्रमवनोपेताः शयनासनोपस्तब्धाः खाद्यभोज्यान्नपानग्लानप्रत्ययभैषज्यपरिष्कारपरिपूर्णाः सर्वसुखोपधानप्रतिमण्डिताः । ते च बह्वप्रमेया यदुत शतं वा सहस्रं वा

शतसहस्रं वा कोटी वा कोटीशतं वा कोटीसहस्रं वा कोटिशतसहस्रं वा कोटीनयुतशतसहस्रं वा । ते च मम संमुखं श्रावकसंघस्य निर्यातिताः, ते च मया परिभुक्ता वेदितव्याः । य इमं धर्मपर्यायं तथागतस्य परिनिर्वृतस्य धारयेद्वा वाचयेद्वा देशयेद्वा लिखेद्वा लेखयेद्वा, तदनेनाहमजितपर्यायेण एवं वदामि - न मे तेन परिनिर्वृतस्य धातुस्तूपाः कारयितव्याः, न संघपूजा । कः पुनर्वादो ऽजित य इमं धर्मपर्यायं धारयन् दानेन वा संपादयेच्छीलेन वा क्षान्त्या वा वीर्येण वा ध्यानेन वा प्रज्ञया वा संपादयेत्, बहुतरं पुण्याभिसंस्कारं स कुलपुत्रो वा कुलदुहिता वा प्रसवेद् बुद्धज्ञानसंवर्तनीयमप्रमेयमसंख्येयमपर्यन्तम् । तद्यथापि नाम अजित आकाश धातुरपर्यन्तः पूर्वदक्षिणपश्चिमोत्तराधरोर्ध्वासु दिक्षु विदिक्षु, एवमप्रमेयासंख्येयान् स कुलपुत्रो वा कुलदुहिता वा पुण्याभिसंस्कारान् प्रसवेद् बुद्धज्ञानसंवर्तनीयान् य इमं धर्मपर्यायं धारयेद्वा वाचयेद्वा देशयेद्वा लिखेद्वा लिखापयेद्वा । तथागतचैत्यसत्कारार्थं च अभियुक्तो भवेत्, तथागतश्रावकाणां च वर्णं भाषेत, बोधिसत्त्वानां च महासत्त्वानां गुणकोटीनयुतशतसहस्राणि परिकीर्तयेत्, परेषां च संप्रकाशयेत्, क्षान्त्या च संपादयेत्, शीलवांश्च भवेत्, कल्याणधर्मः सुखसंवासः क्षान्तश्च भवेत्, दान्तश्च भवेदनभ्यसूयकश्च, अपगतक्रोधमनस्कारो ऽव्यापन्नमनस्कारः स्मृतिमांश्च स्थामवांश्च भवेत्, वीर्यवांश्च नित्याभियुक्तश्च भवेत्, बुद्धधर्मपर्येष्ट्या ध्यायी च भवेत्, प्रतिसंलयनगुरुकः प्रतिसंलयनबहुलश्च प्रश्नप्रभेदकुशलश्च भवेत्,

प्रश्नकोटीनयुतशतसहस्राणां विसर्जयिता । यस्य कस्यचिदजित बोधिसत्त्वस्य महासत्त्वस्य इमं धर्मपर्यायं तथागतस्य परिनिर्वृतस्य धारयतः इमे एवंरूपा गुणा भवेयुर्ये मया परिकीर्तिताः, सो ऽजित कुलपुत्रो वा कुलदुहिता वा एवं वेदितव्यः - बोधिमण्डसंप्रस्थितो ऽयं कुलपुत्रो वा कुलदुहिता वा बोधिमभिसंबोद्धुं बोधिवृक्षमूलं गच्छति । यत्र च अजित स कुलपुत्रो वा कुलदुहिता वा तिष्ठेद्वा निषीदेद्वा चंक्रमेद्वा, तत्र अजित तथागतमुद्दिश्य चैत्यं कर्तव्यम्, तथागतस्तूपो ऽयमिति च स वक्तव्यः सदेवकेन लोकेनेति ॥

अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत -

पुण्यस्कन्धो अपर्यन्तो वर्णितो मे पुनः पुनः / य इदं धारयेत्सूत्रं निर्वृते नरनायके // saddhp_16.37 //

पूजाश्च मे कृतास्तेन धातुस्तूपाश्च कारिताः / रत्नामया विचित्राश्च दर्शनीयः सुशोभनाः // saddhp_16.38 //

ब्रह्मलोकसमा उच्चा छत्रावलिभिरन्विताः / परिणाहवन्तः श्रीमन्तो वैजयन्तीसमन्विताः // saddhp_16.39 //

पटुघण्टा रणन्तश्च पट्टदामोपशोभिताः / वातेरितास्तथा घण्टा शोभन्ति जिनधातुषु // saddhp_16.40 //

पूजा च विपुला तेषां पुष्पगन्धविलेपनैः / कृता वाद्यैश्च वस्त्रैश्च दुन्दुभीभिः पुनः पुन // saddhp_16.41 //

मधुरा वाद्यभाण्डा च वादिता तेषु धातुषु / गन्धतैलप्रदीपाश्च दत्तास्ते ऽपि समन्ततः // saddhp_16.42 //

य इदं धारयेत् सूत्रं क्षयकालि च देशयेत् / ईदृशी मे कृता तेन विविधा पूजनन्तिका // saddhp_16.43 //

अग्रा विहारकोट्यो ऽपि बहुश्चन्दनकारिताः / द्वात्रिंशती च प्रासादा उच्चैस्त्वेनाष्टवत्तलाः // saddhp_16.44 //

शय्यासनैरुपस्तब्धाः खाद्यभोज्यैः समन्विताः / प्रवेणी प्रणीत प्रज्ञप्ता आवासाश्च सहस्रशः // saddhp_16.45 //

आरामाश्चंक्रमा दत्ताः पुष्पारामोपशोभिताः / बहु उच्छदकाश्चैव बहुरूपविचित्रिताः // saddhp_16.46 //

संघस्य विविधा पूजा कृता मे तेन संमुखम् / य इदं धारयेत्सूत्रं निर्वृतस्मिन् विनायके // saddhp_16.47 //

अधिमुक्तिसारो यो स्यादतो बहुतरं हि सः / पुण्यं लभेत यो एतत्सूत्रं वाचेल्लिखेत वा // saddhp_16.48 //

लिखापयेन्नरः कश्चित् सुनिरुक्तं च पुस्तके / पुस्तकं पूजयेत्तच्च गन्धमाल्यविलेपनैः // saddhp_16.49 //

दीपं च दद्याद्यो नित्यं गन्धतैलस्य पूरितम् / जात्युत्पलातिमुक्तैश्च प्रकरैश्चम्पकस्य च // saddhp_16.50 //

कुर्यादेतादृशीं पूजां पुस्तकेषु च यो नरः / बहु प्रसवते पुण्यं प्रमाणं यस्य नो भवेत् // saddhp_16.51 //

यथैवाकाशधातौ हि प्रमाणं नोपलभ्यते / दिशासु दशसू नित्यं पुण्यस्कन्धो ऽयमीदृशः // saddhp_16.52 //

कः पुनर्वादो यश्च स्यात् क्षान्तो दान्तः समाहितः / शीलवांश्चैव ध्यायी च प्रतिसंलानगोचरः // saddhp_16.53 //

अक्रोधनो अपिशुनश्चैत्यस्मिन् गौरवे स्थितः / भिक्षूणां प्रणतो नित्यं नाधिमानी न चालसः // saddhp_16.54 //

प्रज्ञवांश्चैव धीरश्च प्रश्नं पृष्टो न कुप्यति / अनुलोमं च देशेति कृपाबुद्धी च प्राणिषु // saddhp_16.55 //

य ईदृशो भवेत्कश्चिद् यः सूत्रं धारयेदिदम् / न तस्य पुण्यस्कन्धस्य प्रमाणमुपलभ्यते // saddhp_16.56 //

यदि कश्चिन्नरः पश्येदीदृशं धर्मभाणकम् / धारयन्तमिदं सूत्रं कुर्याद्वै तस्य सत्क्रियाम् // saddhp_16.57 //

दिव्यैश्च पुष्पैस्तथ ओकिरेत दिव्यैश्च वस्त्रैरभिच्छादयेत / मूर्धेन वन्दित्व च तस्य पादौ तथागतो ऽयं जनयेत संज्ञाम् // saddhp_16.58 //

दृष्ट्वा च तं चिन्तयि तस्मि काले गमिष्यते एष द्रुमस्य मूलम् / बुध्यिष्यते बोधिमनुत्तरां शिवां हिताय लोकस्य सदेवकस्य // saddhp_16.59 //

यस्मिंश्च सो चंक्रमि तादृशो विदुः तिष्ठेत वा यत्र निषीदयेद्वा / शय्यां च कल्पेय कहिंचि धीरो भाषन्तु गाथां पि तु एकसूत्रात् // saddhp_16.60 //

यस्मिंश्च स्तूपं पुरुषोत्तमस्य कारापयेच्चित्रसुदर्शनीयम् / उद्दिश्य बुद्धं भगवन्त नायकं पूजां च चित्रां तहि कारयेत्तथा // saddhp_16.61 //

मया स भुक्तः पृथिवीप्रदेशो मया स्वयं चंक्रमितं च तत्रं / तत्रोपविष्टो अहमेव च स्यां यत्र स्थितः सो भवि बुद्धपुत्रः // saddhp_16.62 //

इति श्रीसद्धर्मपुण्डरीके धर्मपर्याये पुण्यपर्यायपरिवर्तो नाम षोडशमः ॥

saddhp_17: अनुमोदनापुण्यनिर्देशपरिवर्तः ।

अथ खलु मैत्रेयो बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत् - यो भगवन् इमं धर्मपर्यायं देश्यमानं श्रुत्वा अनुमोदेत् कुलपुत्रो वा कुलदुहिता वा, कियन्तं स भगवन् कुलपुत्रो वा कुलदुहिता वा पुण्यं प्रसवेदिति?

अथ खलु मैत्रेयो बोधिसत्त्वो महासत्त्वस्तस्यां वेलायामिमां गाथामभाषत -

यो निर्वृते महावीरे शृणुयात्सूत्रमीदृशम् / श्रुत्वा चाभ्यनुमोदेया कियन्तं कुशलं भवेत् // saddhp_17.1 //

अथ खलु भगवान् मैत्रेयं बोधिसत्त्वं महासत्त्वमेतदवोचत् - यः कश्चिदजित कुलपुत्रो वा कुलदुहिता वा तथागतस्य परिनिर्वृतस्य इमं धर्मपर्याय देश्यमानं संप्रकाश्यमानं शृणुयाद् भिक्षुर्वा भिक्षुणी वा उपासको वा उपासिका वा विज्ञपुरुषो वा कुमारको वा, कुमारिका वा, श्रुत्वा च अभ्यनुमोदेत, सचेत्ततो धर्मश्रवणादुत्थाय प्रक्रामेत्, स च विहारगतो वा गृहगतो वा अरण्यगतो वा वीथीगतो वा ग्रामगतो वा जनपदगतो वा तान् हेतूंस्तानि कारणानि तं धर्मं यथाश्रुतं यथोद्गृहीतं यथाबलमपरस्य सत्त्वस्याचक्षीत मातुर्वा पितुर्वा ज्ञातेर्वा, संमोदितस्य वा अन्यस्य वा संस्तुतस्य कस्यचित्, सो ऽपि यदि श्रुत्वा अनुमोदेत, अनुमोद्य च पुनरन्यस्मै आचक्षीत । सो ऽपि यदि श्रुत्वानुमोदेत, अनुमोद्य च सो ऽप्यपरस्मै आचक्षीत, सो ऽपि तं श्रुत्वानुमोदेत । इत्यनेन पर्यायेण यावत् पञ्चाशत् परंपरया । अथ खल्वजित यो ऽसौ पञ्चाशत्तमः पुरुषो भवेत् परंपराश्रवानुमोदकः, तस्यापि तावदहमजित कुलपुत्रस्य वा कुलदुहितुर्वा अनुमोदनासहगतं पुण्याभिसंस्कारमभिनिर्देक्ष्यामि । तं शृणु, साधु च सुष्ठु च मनसिकुरु । भाषिष्ये ऽहं ते ॥

तद्यथापि नाम अजित चतुर्षु लोकधातुष्वसंख्येयशतसहस्रेषु ये सत्त्वाः सन्तः संविद्यमानाः षट्सु गतिषूपपन्नाः, अण्डजा वा जरायुजा वा संस्वेदजा वा औपपादुका वा रूपिणो वा अरूपिणो वा संज्ञिनो वा असंज्ञिनो वा नैवसंज्ञिनो वा नासंज्ञिनो वा अपदा वा द्विपदा वा चतुष्पदा वा बहुपदा वा यावदेव सत्त्वाः सत्त्वधातौ संग्रहसमवसरणं गच्छन्ति । अथ कश्चिदेव पुरुषः समुत्पद्येत पुण्यकामो हितकामस्तस्य सत्त्वकायस्य सर्वकामक्रीडारतिपरिभोगानिष्टान् कान्तान् प्रियान् मनापान् दद्यात् । एकैकस्य सत्त्वस्य जम्बुद्वीपं परिपूर्णं दद्यात् कामक्रीडारतिपरिभोगाय, हिरण्यसुवर्णरूप्यमणिमुक्तावैडूर्यशङ्खशिलाप्रवालानश्वरथगोरथहस्तिरथान् दद्यात् प्रासादान् कूटागारान् । अनेन पर्यायेण अजित स पुरुषो दानपतिर्महादानपतिः परिपूर्णान्यशीतिं वर्षाणि दानं दद्यात् । अथ खल्वजित स पुरुषो दानपतिर्महादानपतिरेवं चिन्तयेत् - इमे खलु सत्त्वाः सर्वे मया क्रीडापिता रमापिताः सुखं जिवापिताः । इमे च ते भवन्तः सत्त्वा बलिनः पलितशिरसो जीर्णवृद्धा महल्लका (वैद्य 206) अशीतिवर्षिका जात्या । अभ्याशीभूताश्चैते कालक्रियायाः । यन्न्वहमेतांस्तथागतप्रवेदिते धर्मविनये ऽवतारयेयमनुशासयेयम् । अथ खल्वजित स पुरुषस्तान् सर्वसत्त्वान् समादापयेत् । समादापयित्वा च तथागतप्रवेदिते धर्मविनये ऽवतारयेद् ग्राहयेत् । तस्य ते सत्त्वास्तं च धर्मं शृणुयुः । श्रुत्वा च एकक्षणेन एकमुहूर्तेन एकलवेन सर्वे स्रोतआपन्नाः स्युः, सकृदागामिनो ऽनागामिनो ऽनागामिफलं प्राप्नुयुर्यावदर्हन्तो भवेयुः, क्षीणास्रवा ध्यायिनो महाध्यायिनो ऽष्टविमोक्षध्यायिनः । तत्किं मन्यसे अजित अपि नु स पुरुषो दानपतिर्महादानपतिस्ततोनिदानं बहु पुण्यं प्रसवेदप्रमेयमसंख्येयम्? एवमुक्ते मैत्रेयो बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत् - एवमेतत् भगवन्, एवमेतत् सुगत । अनेनैव तावद् भगवन् कारणेन स पुरुषो दानपतिर्महादानपतिर्बहु पुण्यं प्रसवेत्, यस्तावतां सत्त्वानां सर्वसुखोपधानं दद्यात् । कः पुनर्वादो यदुत्तरिअर्हत्त्वे प्रतिष्ठापयेत् ॥

एवमुक्ते भगवानजितं बोधिसत्त्वं महासत्त्वमेतदवोचत् - आरोचयामि ते अजित, प्रतिवेदयामि । यश्च स दानपतिर्महादानपतिः पुरुषश्चतुर्षु लोकधातुष्वसंख्येयशतसहस्रेषु सर्वसत्त्वानां सर्वसुखोपधानैः परिपूर्य अर्हत्त्वे प्रतिष्ठाप्य पुण्यं प्रसवेत्, यश्च पञ्चाशत्तमः पुरुषः परंपराश्रवानुगतः श्रवणेन इतो धर्मपर्यायादेकामपि गाथामेकपदमपि श्रुत्वा अनुमोदेत । यच्चैतस्य पुरुषस्यानुमोदनासहगतं पुण्यक्रियावस्तु, यच्च तस्य पुरुषस्य दानपतेर्महादानपतेर्दानसहगतमर्हत्त्वं प्रतिष्ठापनासहगतपुण्यक्रियावस्तु, इदमेव ततो बहुतरम् । यो ऽयं पुरुषः पञ्चाशत्तमः, ततः पुरुषपरंपरात इतो धर्मपर्यायादेकामपि गाथामेकपदमपि श्रुत्वा अनुमोदेत् । अस्य अनुमोदनासहगतस्य अजित पुण्याभिसंस्कारस्य कुशलमूलाभिसंस्कारस्य अनुमोदनासहगतस्य अग्रतःअसौ पौर्विको दानसहगतश्च अर्हत्त्वप्रतिष्ठापनासहगतश्च पुण्याभिसंस्कारः शततमीमपि कलां नोपयाति, सहस्रतमीमपि शतसहस्रतमीमपि कोटीतमीमपि कोटीशततमीमपि कोटीसहस्रतमीमपि कोटीशतसहस्रतमीमपि कोटीनियुतशतसहस्रतमीमपि कलां नोपयाति । संख्यामपि कलामपि गणनामपि उपमामपि उपनिःअदमपि न क्ःअमते । एवमप्रमेयमसंख्येयमजित सो ऽपि तावत् पञ्चाशत्तमः परंपराश्रवणे पुरुःअ इतो धर्मपर्यायादन्तश एकगाथामपि एकपदमपि अनुमोद्य च पुण्यं प्रसवति । कः पुनर्वादो ऽजित यो ऽयं मम संमुखमिमं धर्मपर्यायं शृणुयात्, श्रुत्वा चाभ्यनुमोदेत्, अप्रमेयतरमसंख्ययेतरं तस्याहमजित तं पुण्याभिसंस्कारं वदामि ॥

यः खलु पुनरजित अस्य धर्मपर्यायस्य श्रवाणार्थं कुलपुत्रो वा कुलदुहिता वा स्वगृहान्निष्क्रम्य विहारं गच्छेत् । स च गत्त्वा तस्मिन्निमं धर्मपर्यायं मुहूर्तकमपि शृणुयात् स्थितो वा निषण्णो वा । स सत्त्वस्तन्मात्रेण पुण्याभिसंस्कारेण कृतेनोपचितेन जातिविनिवृत्तो द्वितीये समुच्छ्रये द्वितीये आत्मभावप्रतिलम्भे गोरथानां लाभी भविष्यति, अश्वरथानां हस्तिरथानां शिबिकानां गोयनानामृषभयानानां दिव्यानां च विमानानां लाभी भविष्यति । सचेत् पुनस्तत्र धर्मश्रवणे मुहूर्तमात्रमपि निषद्य इदं धर्मपर्यायं शृणुयात्, (वैद्य 207) परं वा निषादयेत्, आसनसंविभागं वा कुर्यादपरस्य सत्त्वस्य, तेन स पुण्याभिसंस्कारेण लाभी भविष्यति शक्रासनानां ब्रह्मासनानां चक्रवर्तिसंहासनानाम् । सचेत् पुनरजित कश्चिदेव कुलपुत्रो वा कुलदुहिता वा अपरं पुरुषमेवं वदेत् - आगच्छ त्वं भोः पुरुष । सद्धर्मपुण्डरीकं नाम धर्मपर्यायं शृणुष्व । स च पुरुषस्तस्य तां प्रोत्साहनामागम्य यदि मुहूर्तमात्रमपि शृणुयात्, स सत्त्वस्तेन प्रोत्साहेन कुशलमूलेनाभिसंस्कृतेन धारणीप्रतिलब्धैर्बोधिसत्त्वैः सार्धं समवधानं प्रतिलभते । अजडश्च भवति, तीक्ष्णेन्द्रियः प्रज्ञावान् । न तस्य जातिशतसहस्रैरपि पूति मुखं भवति न दुर्गन्धि । नाप्यस्य जिह्वारोगो भवति, न मुखरोगो भवति । न च श्यामदन्तो भवति, न विषमदन्तो भवति, न पीतदन्तो भवति, न दुःसंस्थितदन्तो न खण्डदन्तो न पतितदन्तो न वक्रदन्तो न लम्बोष्ठो भवति, नाभ्यन्तरोष्ठो न प्रसारितोष्ठो न खण्डोष्ठो न वङ्कोष्ठो न कृष्णोष्ठो न बीभत्सोष्ठो भवति । न चिपीटनासो

भवति, न वक्रनासो भवति । न दीर्घमुखो भवति, न वङ्कमुखो भवति, न कृष्णमुखो भवति, नाप्रियदर्शनमुखः । अपि तु खल्वजित सूक्ष्मसुजातजिह्वादन्तोष्ठो भवति आयतनासः । प्रणीतमुखमण्डलः सुभ्रूः सुपरिनिक्षिप्तललाटो भवति । सुपरिपूर्णपुरुषव्यञ्जनप्रतिलाभी च भवति । तथागतं च अववादानुशासकं प्रतिलभते । क्षिप्रं च बुद्धैर्भगवद्भिः सह समवधानं प्रतिलभते । पश्य अजित एकसत्त्वमपि नाम उत्साहयित्वा इयत् पुण्यं प्रसवति । कः पुनर्वादो यः सत्कृत्य शृणुयात्, सत्कृत्य वाचयेत्, सत्कृत्य देशयेत्, सत्कृत्य प्रकाशयेदिति ॥

अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत -

पञ्चाशिमो यश्च परंपरायां सूत्रस्यिमस्यो शृणुतेकगाथाम् / अनुमोदयित्वा च प्रसन्नचित्तः शृणुष्व पुण्यं भवि यत्तकं तत् // saddhp_17.2 //

स चैव पुरुषो भवि दानदाता सत्त्वान् कोटीनयुतेषु नित्यम् / ये पूर्वमौपम्यकृता मया वै तान् सर्वि तर्पेय अशीति वर्षान् // saddhp_17.3 //

सो दृष्ट्व तेषां च जरामुपस्थितां वली च खण्डं च शिरश्च पाण्डरम् / हाहाधिमुच्यन्ति हि सर्वसत्त्वा यन्नून धर्मेण हु ओवदेयम् // saddhp_17.4 //

सो तेष धर्मं वदतीह पश्चान्निर्वाणभूमिं च प्रकाशयेत / सर्वे भवाः फेनमरीचिकल्पा निर्विद्यथा सर्वभवेषु क्षिप्रम् // saddhp_17.5 //

ते सर्वसत्त्वाश्च श्रुणित्व धर्मं तस्यैव दातुः पुरुषस्य अन्तिकात् / अर्हन्तभूता भवि एककाले क्षीणास्रवा अन्तिमदेहधारिणः // saddhp_17.6 //

पुण्यं ततो बहुतरु तस्य हि स्यत् परंपरातः श्रुणि एकगाथाम् / अनुमोदि वा यत्तकु तस्य पुण्यं कल पुण्यस्कन्धः पुरिमो न भोति // saddhp_17.7 //

एवं बहु तस्य भवेत पुण्यं अनन्तकं यस्य प्रमाणु नास्ति / गाथां पि श्रुत्वैक परंपराय किं वा पुनः संमुख यो श्रुणेया // saddhp_17.8 //

यश्चैकसत्त्वं पि वदेय तत्र प्रोत्साहये गच्छ शृणुष्व धर्मम् / सुदुर्लभं सुत्रमिदं हि भोति कल्पान कोटीनयुतैरनेकैः // saddhp_17.9 //

स चापि प्रोत्साहितु तेन सत्त्वः श्रुणेय सूत्रेम मुहूर्तकं पि / तस्यापि धर्मस्य फलं शृणोहि मुखरोग तस्य न कदाचि भोति // saddhp_17.10 //

जिह्वापि तस्य न कदाचि दुःखति न तस्य दन्ता पतिता भवन्ति / श्यामाथ पीता विषमा च जातु बीभत्सितोष्ठो न च जातु भोति // saddhp_17.11 //

कुटिलं च शुष्कं च न जातु दीर्घं मुखं न चिपिटं स्य कदाचि भोति / सुसंस्थिता नास तथा ललाटं दन्ता च ओष्ठो मुखमण्डलं च // saddhp_17.12 //

प्रियदर्शनो भोति सदा नराणां पूर्तिं च वक्रं न कदाचि भोति / यथोत्पलस्येह सदा सुगन्धिः प्रवायते तस्य मुखस्य गन्धः // saddhp_17.13 //

गृहाद्विहारं हि व्रजित्व धीरो गच्छेत सूत्रं श्रवणाय एतत् / गत्वा च सो तत्र शृणे मुहूर्तं प्रसन्नचित्तस्य फलं शृणोथ // saddhp_17.14 //

सुगौरु तस्यो भवतेत्मभावः परियाति चो अश्वरथेहि धीरः / हस्तीरथांश्चो अभिरुह्य उच्चान् रतनेहि चित्राननुचंक्रमेया // saddhp_17.15 //

विभूषितां सो शिबिकां लभेत नरैरनेकैरिह वाह्यमानाम् / गत्वापि धर्मं श्रवणाय तस्य फलं शुभं भोति च एवरूपम् // saddhp_17.16 //

निषद्य चासौ परिषाय तत्र शुक्लेन कर्मेण कृतेन तेन / शक्रासनानां भवते स लाभी ब्रह्मासनानां च नृपासनानाम् // saddhp_17.17 //

इति श्रीसद्धर्मपुण्डरीके धर्मपर्याये अनुमोदनापुण्यनिर्देशपरिवर्तो नाम सप्तदशमः ॥

saddhp_18: धर्मभाणकानुशंसापरिवर्तः ।

अथ खलु भगवान् सततसमिताभियुक्तं बोधिसत्त्वं महासत्त्वमामन्त्रयामास - यः कश्चित् कुलपुत्र इमं धर्मपर्यायं धारयिष्यति वाचयिष्यति वा देशयिष्यति वा लिखिष्यति व, स कुलपुत्रो वा कुलदुहिता व अष्टौ चक्षुर्गुणशतानि प्रतिलप्स्यते, द्वादश श्रोत्रगुणशतानि प्रतिलप्स्यते, अष्टौ घ्राणगुणशतानि प्रतिलप्स्यते, द्वादश जिह्वागुणशतानि प्रतिलप्स्यते, अष्टौ कायगुणशतानि प्रतिलप्स्यते, द्वादश मनोगुणशतानि प्रतिलप्स्यते । तस्यैभिर्बहुभिर्गुणशतैः षडिन्द्रियग्रामः परिशुद्धः सुपरिशुद्धो भविष्यति । स एवं परिशुद्धेन चक्षुरिन्द्रियेण प्राकृतेन मांसचक्षुषा मातापितृसंभवेन त्रिसाहस्रमहासाहस्रां लोकधातुं सान्तर्बहिः सशैलवनषण्डामधो यावदवीचिमहानिरयमुपादाय उपरि च यावत् भवाग्रं तत् सर्वं द्रक्ष्यति प्राकृतेन मांसचक्षुषा । ये च तस्मिन् सत्त्वा उपपन्नाः, तान् सर्वान् द्रक्ष्यति, कर्मविपाकं च तेषां ज्ञास्यतीति ॥

अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत -

य इमं सूत्र भाषेत पर्षासु च विशारदः / अनोलीनः प्रकाशेया गुणांस्तस्य शृणुष्व मे // saddhp_18.1 //

अष्टौ गुणशताअस्तस्य चक्षुषो भोन्ति सर्वशः / येनास्य विमलं भोति शुद्धं चक्षुरनाविलम् // saddhp_18.2 //

स मांसचक्षुषा तेन मातापितृकसंभुना / पश्यते लोकधात्वेमां सशैलवनकाननाम् // saddhp_18.3 //

मेरुं सुमेरु सर्वा च चक्रवाला स पश्यति / ये चान्ये पर्वताः खण्डाः समुद्रांश्चापि पश्यति // saddhp_18.4 //

यावानवीचि हेष्ठेन भवाग्रं चोपरिष्टतः / सर्वं स पश्यते धीरो मांसचक्षुस्य ईदृशम् // saddhp_18.5 //

न ताव दिव्यचक्षु स्य भोति नो चापि जायते / विषयो मांसचक्षुस्य भवेत्तस्यायमीदृशः // saddhp_18.6 //

पुनरपरं सततसमिताभियुक्त स कुलपुत्रो वा कुलदुहिता वा इमं धर्मपर्यायं संप्रकाशयमानः परेषां च संश्रावयमानस्तैर्द्वादशभिः श्रोत्रगुणशतैः समन्वागतः ये त्रिसाहस्रमहासाहस्रायां लोकधातौ विविधाः शब्दा निश्चरन्ति यावदवीचिर्महानिरयो यावच्च भवाग्रं सान्तर्बहिः, तद्यथा - हस्तिशब्दा वा अश्वशब्दा वा उष्ट्रशब्दा वा गोशब्दा वा अजशब्दा वा जनपदशब्दा वा रथशब्दा वा रुदितशब्दा वा शोकशब्दा वा भैरवशब्दा वा शङ्खशब्दा वा घण्टाशब्दा वा पटहशब्दा वा भेरीशब्दा वा क्रीडाशब्दा वा गीतशब्दा वा नृत्यशब्दा वा तूर्यशब्दा वा वाद्यशब्दा वा स्त्रीशब्दा वा पुरुषशब्दा वा दारकशब्दा वा (वैद्य 211) दारिकाशब्दा वा धर्मशब्दा वा अधर्मशब्दा वा सुखशब्दा वा दुःखशब्दा वा बालशब्दा वा आर्यशब्दा वा मनोज्ञशब्दा वा अमनोज्ञशब्दा वा देवशब्दा वा नागशब्दा वा यक्षशब्दा वा राक्षसशब्दा वा गन्धर्वशब्दा वा असुरशब्दा वा गरुडशब्दा वा किन्नरशब्दा वा महोरगशब्दा वा मनुष्यशब्दा वा अमनुष्यशब्दा वा अग्निशब्दा वा वायुशब्दा वा उदकशब्दा वा ग्रामशब्दा वा नगरशब्दा वा भिक्षुशब्दा वा श्रावकशब्दा वा प्रत्येकबुद्धशब्दा वा बोधिसत्त्वशब्दा वा तथागतशब्दा वा, यावन्तः केचित्रिसाहस्रमहासाहस्रायां लोकधातौ सान्तर्बहिः शब्दा निश्चरन्ति, तान् शब्दांस्तेन प्राकृतेन परिशुद्धेन श्रोत्रेन्द्रियेण शृणोति । न च तावद्दिव्यं श्रोत्रमभिनिर्हरति । तेषां तेषां च सत्त्वानां रुतान्यवबुध्यते, विभावयति विभजति तेन च प्राकृतेन श्रोत्रेन्द्रियेण । तेषां तेषां च सत्त्वानां रुतानि शृण्वतस्तस्य तैः सर्वशब्दैः श्रोत्रेन्द्रियं नाभिभूयते । एवंरूपः सततसमिताभियुक्त तस्य बोधिसत्त्वस्य महासत्त्वस्य श्रोत्रेन्द्रियप्रतिलम्भो भवति, न च तावद्दिव्यं श्रोत्रमभिनिर्हरति ॥

इदमवोचद्भगवान् । इदं वदित्वा सुगतो ह्यथापरमेतदुवाच शास्ता -

श्रोत्रेन्द्रियं तस्य विशुद्धु भोति अनाविलं प्राकृतकं च तावत् / विविधान् हि येनेह शृणोति शब्दानिह लोकधातौ हि अशेषतो ऽयम् // saddhp_18.7 //

हस्तीन अश्वान शृणोति शब्दान् रथान गोणान अजैडकानाम् / भेरीमृदङ्गान सुघोषकानां वीणान वेणूनथ वल्लकीनाम् // saddhp_18.8 //

गीतं मनोज्ञं मधुरं शृणोति न चापि सो सज्जति तत्र धीरः / मनुष्यकोटीन शृणोति शब्दान् भाषन्ति यं यं च यहिं यहिं ते // saddhp_18.9 //

देवान चो नित्य शृणोति शब्दान् गीतस्वरं च मधुरं मनोज्ञम् / पुरुषाण इस्त्रीण रुतानि चापि तथ दारकाणामथ दारिकाणाम् // saddhp_18.10 //

ये पर्वतेष्वेव गुहानिवासी कलविङ्कका कोकिल बर्हिणश्च / पक्षीण ये जीवकजीवका हि तेषां च वल्गू शृणुते हि शब्दान् // saddhp_18.11 //

नरकेषु ये वेदन वेदयन्ति सुदारुणांश्चापि करोन्ति शब्दान् / आहारदुःखैरवपीडितानां यान् प्रेत कुर्वन्ति तथैव शब्दान् // saddhp_18.12 //

असुराश्च ये सागरमध्यवासिनो मुञ्चन्ति घोषांस्तथ चान्यमन्यान् / सर्वानिहस्थो स हि धर्मभाणकः शृणोति शब्दान्न च ओस्तरीयति // saddhp_18.13 //

तिर्याण योनीषु रुतानि यानि अन्योन्यसंभाषणतां करोन्ति / इह स्थितस्तानपि सो शृणोति विविधानि शब्दानि बहूविधानि // saddhp_18.14 //

ये ब्रह्मलोके निवसन्ति देवा अकनिष्ठ आभास्वर ये च देवाः / ये चान्यमन्यस्य करोन्ति घोषान् शृणोति तत्सर्वमशेषतो ऽसौ // saddhp_18.15 //

स्वाध्याय कुर्वन्तिह ये च भिक्षवः सुगतानिह शासनि प्रव्रजित्वा / पर्षासु ये देशयते च धर्मं तेषां पि शब्दं शृणुते स नित्यम् // saddhp_18.16 //

ये बोधिसत्त्वाश्चिह लोकधातौ स्वाध्याय कुर्वन्ति परस्परेण / संगीति धर्मेषु च ये करोन्ति शृणोति शब्दान् विविधांश्च तेषाम् // saddhp_18.17 //

भगवान् पि बुद्धो नरदम्यसारथिः पर्षासु धर्मं ब्रुवते यमग्रम् / तं चापि सो शृण्वन्ति एककाले यो बोधिसत्त्वो इमु सूत्र धारयेत् // saddhp_18.18 //

सर्वे त्रिसाहस्रि इमस्मि क्षेत्रे ये सत्त्व कुर्वन्ति बहूं पि शब्दान् / अभ्यन्तरेणापि च बाहिरेण अवीचिपर्यन्त भवाग्रमूर्ध्वम् // saddhp_18.19 //

सर्वेष सत्त्वान शृणोति शब्दान् नं चापि क्षेत्रं उपरुध्यते ऽस्य / पट्विन्द्रियो जानति स्थानस्थानं श्रोत्रेन्द्रियं प्राकृतकं हि तावत् // saddhp_18.20 //

न च ताव दिव्यस्मि करोति यत्नं प्रकृत्य संतिष्ठति श्रोत्रमेतत् / सूत्रं हि यो धारयते विशारदो गुणा स्य एतादृशका भवन्ति // saddhp_18.21 //

पुनरपरं सततसमिताभियुक्त अस्य बोधिसत्त्वस्य महासत्त्वस्य इमं धर्मपर्यायं धारयतः प्रकाशयतः स्वाध्यायतो लिखतो ऽष्टाभिर्गुणशतैः समन्वागतं घ्राणेन्द्रियं परिशुद्धं भवति । स तेन परिशुद्धेन घ्राणेन्द्रियेण ये त्रिसाहस्रमहासाहस्रायां लोकधातौ सान्तर्बहिर्विविधगन्धाः संविद्यन्ते, तद्यथा - पूतिगन्धा वा मनोज्ञगन्धा वा नानाप्रकाराणां सुमनसां गन्धाः, तद्यथा - जातिमल्लिकाचम्पकपाटलगन्धाः, तान् गन्धान् घ्रायति । जलजानामपि पुष्पाणां विविधान् गन्धान् घ्रायति, तद्यथा - उत्पलपद्मकुमुदपुण्डरीकाणां गन्धान् घ्रायति । विविधानां पुष्पफलवृक्षाणां पुष्पफलगन्धान् घ्रायति, तद्यथा - चन्दनतमालपत्रतगरागरुसुरभिगन्धान् घ्रायति । नानाविकाराणि गन्धविकृतिशतसहस्राणि यान्येकस्थानस्थितः सर्वाणि घ्रायति । सत्त्वानामपि विविधान् गन्धान् घ्रायति, तद्यथा - हस्त्यश्वगवेडकपशुगन्धान् घ्रायति । विविधानां च तिर्यग्योनिगतानां प्राणिनामात्मभावगन्धान् घ्रायति । स्त्रीपुरुषात्मभावगन्धान् घ्रायति । दारकदारिकात्मभावगन्धान् घ्रायति । दूरस्थानामपि तृणगुल्मौषधिवनस्पतीनां गन्धान् घ्रायति । भूतान् गन्धान् वन्दति, न च तैर्गन्धैः संह्रियते, न संमुह्यति । स इहस्थित एव देवानामपि गन्धान् घ्रायति, तद्यथा - पारिजातकस्य कोविदारस्य मान्दारवमहामान्दारवमञ्जूषकमहामञ्जूषकानां दिव्यानां पुष्पाणां गन्धान् घ्रायति । दिव्यानामगरुचूर्णचन्दनचूर्णानां गन्धान् घ्रायति । दिव्यानां च नानाविधानां पुष्पविकृतिशतसहस्राणां गन्धान् घ्रायति, नामानि चैषां संजानीते । देवपुत्रात्मभावगन्धान् घ्रायति, तद्यथा -

शक्रस्य देवानामिन्द्रस्य आत्मभावगन्धं घ्रायति । तं च जानीते यदि वा वैजयन्ते प्रासादे क्रीडन्तं रमन्तं परिचारयन्तं यदि वा सुधर्मायां देवसभायां देवानां त्रायस्त्रिंशानां धर्मं देशयन्तं यदि वा उद्यानभूमौ निर्यान्तं क्रीडनाय । अन्येषां च देवपुत्राणां (वैद्य 214) पृथक्पृथगात्मभावगन्धान् घ्रायति । देवकन्यानामपि देववधूनामपि आत्मभावगन्धान् घ्रायति । देवकुमाराणामपि आत्मभावगन्धान् घ्रायति । देवकुमारिकाणामपि आत्मभावगन्धान् घ्रायति । न च तैर्गन्धैः संह्रियते । अनेन पर्यायेण यावद् भवाग्रोपपन्नानामपि सत्त्वानामात्मभावगन्धान् घ्रायति । ब्रह्मकायिकानामपि देवपुत्राणां महाब्रह्मणामपि चात्मभावगन्धान् घ्रायति । अनेन पर्यायेण सर्वदेवनिकायानामपि आत्मभावगन्धान् घ्रायति । श्रावकप्रत्येकबुद्धबोधिसत्त्वतथागतात्मभावगन्धान् घ्रायति । तथागतासनानामपि गन्धान् घ्रायति । यस्मिंश्च स्थाने ते तथागता अर्हन्तः सम्यक्संबुद्धा विहरन्ति, तच्च प्रजानाति । न चास्य तद् घ्राणेन्दियं तैस्तैर्विविधैर्गन्धैः प्रतिहन्यते, नोपहन्यते, न संपीड्यते । आकाङ्क्षमाणश्च तांस्तान् गन्धान् परेषामपि व्याकरोति । न चास्य स्मृतिरुपहन्यते ॥

अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत -

घ्राणेन्द्रियं तस्य विशुद्ध भोति विविधांश्च गन्धान् बहु घ्रायते ऽसौ / ये लोकधातौ हि इमस्मि सर्वे सुगन्ध दुर्गन्ध भवन्ति केचित् // saddhp_18.22 //

जातीय गन्धो अथ मल्लिकाया तमालपत्रस्य च चन्दनस्य / तगरस्य गन्धो अगरुस्य चापि विविधान पुष्पाण फलान चापि // saddhp_18.23 //

सत्त्वान गन्धान् पि तथैव जानति नराण नारीण च दूरतः स्थितः / कुमारकाणां च कुमारिकाणां गन्धेन सो जानति तेष स्थानम् // saddhp_18.24 //

राज्ञां पि सो जानति चक्रवर्तिनां बलचक्रवर्तीनथ मण्डलीनाम् / कुमारकामात्य तथैव तेषां गन्धेन चान्तःपुर सर्व जानति // saddhp_18.25 //

परिभोगरत्नानि बहूविधानि कुप्यानि भूमौ निहितानि यानि / स्त्रीरत्नभूतानि भवन्ति यापि गन्धेन सो जानति बोधिसत्त्वः // saddhp_18.26 //

तेषां च या आभरणा भवन्ति कायस्मि आमुक्त विचित्ररूपा / वस्त्रं च माल्यं च विलेपनं च गन्धेन सो जानति बोधिसत्त्वः // saddhp_18.27 //

स्थितां निषण्णां शयितां तथैव क्रीडारतिं ऋद्धिबलं च सर्वम् / सो जानती घ्राणबलेन धीरो यो धारयेत् सूत्रमिदं वरिष्ठम् // saddhp_18.28 //

सुगन्धतैलान तथैव गन्धान् नानाविधान् पुष्पफलान गन्धान् / सकृतस्थितो जानति घ्रायते च अमुकस्मि देशस्मि इमस्मि गन्धान् // saddhp_18.29 //

ये पर्वतानां विवरान्तरेषु बहु चन्दना पुष्पित तत्र सन्ति / ये चापि तस्मिन्निवसन्ति सत्त्वाः सर्वेष गन्धेन विदुर्विजानति // saddhp_18.30 //

ये चक्रवालस्य भवन्ति पार्श्वे ये सागरस्यो निवसन्ति मध्ये / पृथिवीय ये मध्यि वसन्ति सत्त्वाः सर्वान् स गन्धेन विदुर्विजानति // saddhp_18.31 //

सुरांश्च जानाति तथासुरांश्च असुराण कन्याश्च विजानते ऽसौ / असुराण क्रीडाश्च रतिं च जानति घ्राणस्य तस्येदृशकं बलं हि // saddhp_18.32 //

अटवीषु ये केचि चतुष्पदास्ति सिंहाश्च व्याघ्रास्तथ हस्तिनागाः / महिषा गवा ये गवयश्च तत्र घ्राणेन सो जानति तेष वासम् // saddhp_18.33 //

स्त्रियश्च या गुर्विणिका भवन्ति कुमारकां वापि कुमारिकां वा / धारेन्ति कुक्षौ हि किलान्तकाया गन्धेन सो जानति यं तहिं स्यात् // saddhp_18.34 //

आपन्नसत्त्वां पि विजानते ऽसौ विनाशधर्मां पि विजानते ऽसौ / इयं पि नारी व्यपनीतदुःखा प्रसविष्यते पुण्यमयं कुमारम् // saddhp_18.35 //

पुरुषाण अभिप्रायु बहुं विजानते अभिप्रायगन्धं च तथैव घ्रायते / रक्तान दुष्टान तथैव म्रक्षिणां उपशान्तचित्तान च गन्ध घ्रायते // saddhp_18.36 //

पृथिवीय ये चापि निधान सन्ति घनं हिरण्यं च सुवर्णरूप्यम् / मञ्जूष लोही च तथा सुपूर्णा गन्धेन सो घ्रायति बोधिसत्त्वः // saddhp_18.37 //

हारार्धहारान् मणिमुक्तिकाश्च अनर्घप्राप्ता विविधा च रत्ना / गन्धेन सो जानति तानि सर्वा अनर्घनामं द्युतिसंस्थितं च // saddhp_18.38 //

उपरिं च देवेषु तथैव पुष्पा मन्दारवांश्चैव मञ्जूषकांश्च / या पारिजातस्य च सन्ति पुष्पा इह स्थितो घ्रायति ता स धीरः // saddhp_18.39 //

विमान ये यादृशकाश्च यस्य उदार हीनास्तथ मध्यमाश्च / विचित्ररूपाश्च भवन्ति यत्र इह स्थितो घ्राणबलेन घ्रायति // saddhp_18.40 //

उद्यानभूमिं च तथा प्रजानते सुधर्म देवासनि वैजयन्ते / प्रासादश्रेष्ठे च तथा विजानते ये चो रमन्ते तहि देवपुत्राः // saddhp_18.41 //

इह स्थितो घ्रायति गन्धु तेषां गन्धेन सो जानति देवपुत्रान् / यो यत्र कर्मा कुरुते स्थितो वा शेते वा गच्छति यत्र वापि // saddhp_18.42 //

या देवकन्या बहुपुष्पमण्डिता आमुक्तमाल्याभरणा अलंकृताः / रमन्ति गच्छन्ति च यत्र यत्र गन्धेन सो जानति बोधिसत्त्वः // saddhp_18.43 //

यावद्भवाग्रादुपरिं च देवा ब्रह्मा महाब्रह्म विमानचारिणः / तांश्चापि गन्धेन तहिं प्रजानते स्थितांश्च ध्याने अथ व्युत्थितान् वा // saddhp_18.44 //

आभास्वरान् जानति देवपुत्रान् च्युतोपपन्नांश्च अपूर्वकांश्च / घ्राणेन्द्रियं ईदृश तस्य भोति यो बोधिसत्त्वो इमु सूत्र धारयेत् // saddhp_18.45 //

य केचि भिक्षू सुगतस्य शासने अभियुक्तरूपा स्थित चक्रमेषु / उद्देशस्वाध्यायरताश्च भिक्षवो सर्वान् हि सो जानति बोधिसत्त्वः // saddhp_18.46 //

ये श्रावका भोन्ति जिनस्य पुत्रा विहरन्ति केचित् सद वृक्षमूले / गन्धेन सर्वान् विदु जानते तान् अमुत्र भिक्षू अमुको स्थितो ति // saddhp_18.47 //

ये बोधिसत्त्वाः स्मृतिमन्त ध्यायिनो उद्देशस्वाध्यायरताश्च ये सदा / पर्षासु धर्मं च प्रकाशयन्ति गन्धेन तान् जानति बोधिसत्त्वः // saddhp_18.48 //

यस्यां दिशायां सुगतो महामुनिर्धर्मं प्रकाशेति हितानुकम्पकः / पुरस्कृतः श्रावकसंघमध्ये गन्धेन सो जानति लोकनाथम् // saddhp_18.49 //

ये चापि सत्त्वा स्य शृणोति धर्मं श्रुत्वा च ये प्रीतमना भवन्ति / इह स्थितो जानति बोधिसत्त्वो जिनस्य पर्षामपुइ तत्र सर्वाम् // saddhp_18.50 //

एतादृशं घ्राणबलं स्य भोति न च ताव दिव्यं भवते स्य घ्राणम् / पूर्वंगमं तस्य तु एत भोति दिव्यस्य घ्राणस्य अनास्रवस्य // saddhp_18.51 //

पुनरपरं सततसमिताभियुक्त स कुलपुत्रो वा कुलदुहिता वा इमं धर्मपर्यायं धारयमाणो देशयमानः प्रकाशयमानो लिखमानस्तैर्द्वादशभिर्जिह्वागुणशतैः समन्वागतं जिह्वेन्द्रियं प्रतिलप्स्यते । स तथारूपेण जिह्वेन्द्रियेण यान् यान् रसानास्वादयति, यान् यान् रसान् जिह्वेन्द्रिये उपनिक्षेप्सति, सर्वे ते दिव्यं महारसं मोक्ष्यन्ते । तथा च आस्वादयिष्यति यथा न कंचिद् रसममनआपमास्वादयिष्यति । ये ऽपि अमनआपा रसास्ते ऽपि तस्य जिह्वेन्द्रिये समुपनिक्षिप्ताः दिव्यं रसं मोक्ष्यन्ते । यं च धर्मं व्याहरिष्यति पर्षन्मध्यगतः, तेन तस्य ते सत्त्वाः प्रीणितेन्द्रिया भविष्यन्ति तुष्टाः परमतुष्टाः प्रामोद्यजाताः । मधुरश्चास्य वल्गुमनोज्ञस्वरो गम्भीरो निश्चरिष्यति हृदयंगमः प्रेमणीयः । तेनास्य ते सत्त्वास्तुष्टा उदग्रचित्ता भविष्यन्ति । येषां च धर्मं देशयिष्यति, ते चास्य मधुरनिर्घोषं श्रुत्वा वल्गुमनोज्ञं देवा अप्युपसंक्रमितव्यं मंस्यन्ते दर्शनाय वन्दनाय पर्युपासनाय धर्मश्रवनाय च । देवपुत्रा अपि देवकन्या अपि उपसंक्रमितव्यं मंस्यन्ते दर्शनाय वन्दनाय पर्युपासनाय धर्मश्रवणाय च । शक्रा अपि ब्रह्माणो ऽपि ब्रह्मकायिका अपि देवपुत्रा उपसंक्रमितव्यं मंस्यन्ते दर्शनाय वन्दनाय पर्युपासनाय धर्मश्रवणाय च । नागा नागकन्या अपि उपसंक्रमितव्यं मंस्यन्ते दर्शनाय वन्दनाय पर्युपासनाय धर्मश्रवणाय च । असुरा असुरकन्या अपि उपसंक्रमितव्यं मंस्यन्ते दर्शनाय वन्दनाय पर्युपासनाय धर्मश्रवणाय च । गरूडा गरूडकन्या अपि उपसंक्रमितव्यं मंस्यन्ते दर्शनाय वन्दनाय पर्युपासनाय धर्मश्रवणाय च । किन्नराः किन्नरकन्या

अपि, महोरगा महोरगकन्या अपि, यक्षा यक्षकन्या अपि, पिशाचाः पिशाचकन्या अपि उपसंक्रमितव्यं मंस्यन्ते दर्शनाय वन्दनाय पर्युपासनाय धर्मश्रवणाय च । ते चास्य सत्कारं करिष्यन्ति, गुरुकारं माननां पूजनामर्चनामपचायनां करिष्यन्ति । भिक्षुभिक्षुण्युपासकोपासिका अपि दर्शनकामा भविष्यन्ति । राजानो ऽपि राजपुत्रा अपि राजामात्या अपि राजमहामात्रा अपि दर्शनकामा भविष्यन्ति । बलचक्रवर्तिनो ऽपि राजानः, चक्रवर्तिनो ऽपि सप्तरत्नसमन्वागताः सकुमाराः सामात्याः सान्तःपुरपरिवारा दर्शनकामा भविष्यन्ति सत्कारार्थिनः । तावन्मधुरं स धर्मभाणको धर्मं भाषिष्यते यथाभूतं यथोक्तं तथागतेन । अन्ये ऽपि ब्राह्मणगृहपतयो नैगमजानपदास्तस्य धर्मभाणकस्य (वैद्य 219) सततसमितं समनुबद्धा भविष्यन्ति यावदायुष्पर्यवसानम् । तथागतश्रावका अपि अस्य दर्शनकामा भविष्यन्ति । प्रत्येकबुद्धा अप्यस्य दर्शनकामा भविष्यन्ति । बुद्धा अप्यस्य भगवन्तो दर्शनकामा भविष्यन्ति । यस्यां च दिशि स कुलपुत्रो वा कुलदुहिता वा विहरिष्यति, तस्यां दिशि तथागताभिमुखं धर्मं देशयिष्यति, बुद्धधर्माणां च भाजनभूतो भविष्यति । एवं मनोज्ञस्तस्य गम्भीरो धर्मशब्दो निश्चरिष्यति ॥

अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत -

जिह्वेन्द्रियं तस्य विशिष्टु भोति न जातु हीनं रस स्वादयेत / निक्षिप्तमात्राश्च भवन्ति दिव्या रसेन दिव्येन समन्विताश्च // saddhp_18.52 //

वल्गुस्वरां मधुर प्रभाषते गिरां श्रवणीयमिष्टां च मनोरमां च / पर्षाय मध्यस्मि ह प्रेमणीयं गम्भीरघोषं च सदा प्रभाषते // saddhp_18.53 //

यश्चापि धर्मं शृणुते ऽस्य भाषतो दृष्टान्तकोटीनयुतैरनेकैः / प्रामोद्य तत्रापि जनेति सो ऽग्रं पूजां च तस्य कुरुते ऽप्रमेयाम् // saddhp_18.54 //

देवा पि नागासुरगुह्यकाश्च द्रष्टुं तमिच्छन्ति च नित्यकालम् / शृण्वन्ति धर्मं च सगौरवाश्च इमे गुणास्तस्य भवन्ति सर्वे // saddhp_18.55 //

आकाङ्क्षमाणश्च इम लोकधातुं स्वरेण सर्वामभिविज्ञपेया / स्निग्धः स्वरो ऽस्य मधुरश्च भोति गम्भीर वल्गुश्च सुप्रेमणीयः // saddhp_18.56 //

राजान ये क्षितिपति चक्रवर्तिनः पूजार्थिकास्तस्युपसंक्रमन्ति / सपुत्रदारा करियाण अञ्जलिं शृण्वन्ति धर्मस्य च नित्यकालम् // saddhp_18.57 //

यक्षाण चो भोति सदा पुरस्कृतो नागान गन्धर्वगणान चैव / पिशाचकानां च पिशाचिकानां सुसत्कृतो मानितु पूजितश्च // saddhp_18.58 //

ब्रह्मापि तस्य वशवर्ति भोति महेश्वरो ईश्वर देवपुत्रः / शक्रस्तथान्ये ऽपि च देवपुत्रा बहुदेवकन्याश्चुपसंक्रमन्ति // saddhp_18.59 //

बुद्धाश्च ये लोकहितानुकम्पकाः सश्रावकास्तस्य निशाम्य घोषम् / करोन्ति रक्षां मुखदर्शनाय तुष्टाश्च भोन्ति ब्रुवतो ऽस्य धर्मम् // saddhp_18.60 //

पुनरपरं सततसमिताभियुक्त स बोधिसत्त्वो महासत्त्व इमं धर्मपर्यायं धारयमाणो वा वाचयमानो वा प्रकाशयमानो वा देशयमानो वा लिखमानो वा अष्टौ कायगुणशतानि प्रतिलप्स्यति । तस्य कायः शुद्धः परिशुद्धो वैडूर्यपरिशुद्धच्छविवर्णो भविष्यति, प्रियदर्शनः सत्त्वानाम् । स तस्मिन्नात्मभावे परिशुद्धे सर्वं त्रिसाहस्रमहासाहस्रलोकधातुं द्रक्ष्यति । ये च त्रिसाहस्रमहासाहस्रे लोकधातौ सत्त्वाश्च्यवन्ति उपपद्यन्ते च, हीनाः प्रणीताश्च, सुवर्णा दुर्वर्णाः, सुगतौ दुर्गतौ, ये च चक्रवालमहाचक्रवालेषु मेरुसुमेरुषु च पर्वतराजेषु सत्त्वाः प्रतिवसन्ति, ये च अधस्तादवीच्यामूर्ध्वं च यावद् भवाग्रं सत्त्वाः प्रतिवसन्ति, तान् सर्वान् स्व आत्मभावे द्रक्ष्यति । ये चापि केचिदस्मिंस्त्रिसाहस्रमहासाहस्रे लोकधात्रौ श्रावका वा प्रत्येकबुद्धा वा बोधिसत्त्वा वा तथागता वा प्रतिवसन्ति, यं च ते तथागता धर्मं देशयन्ति, ये च सत्त्वास्तांस्तथागतान् पर्युपासन्ते, सर्वेषां तेषां सत्त्वानामात्मभावप्रतिलम्भान् स्व आत्मभावे द्रक्ष्यति । तत्कस्य हेतोः? यथापीदं परिशुद्धत्वादात्मभावस्येति ॥

अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत -

परिशुद्ध तस्यो भवतेत्मभावो यथापि वैडूर्यमयो विशुद्धः / सत्त्वान नित्यं प्रियदर्शनश्च यः सूत्र धारेति इदं उदारम् // saddhp_18.61 //

आदर्शपृष्ठे यथ विम्बु पश्येत् लोको ऽस्य काये अयु दृश्यते तथा / स्वयंभु सो पश्यति नान्यि सत्त्वाः परिशुद्धि कायस्मि इम एवरूपा // saddhp_18.62 //

ये लोकधातौ हि इहास्ति सत्त्वा मनुष्य देवासुर गुह्यका वा / नरकेषु प्रेतेषु तिरश्चयोनिषु प्रतिबिम्बु संदृश्यति तत्र काये // saddhp_18.63 //

विमान देवान भवाग्र यावच्छैलं पि चो पर्वतचक्रवालम् / हिमवान् सुमेरुश्च महांश्च मेरुः कायस्मि दृश्यन्तिमि सर्वथैव // saddhp_18.64 //

बुद्धान् पि सो पश्यति आत्मभावे सश्रावकान् बुद्धसुतांस्तथान्यान् / ये बोधिसत्त्वा विहरन्ति चैकका गणे च ये धर्म प्रकाशयन्ति // saddhp_18.65 //

एतादृशी कायविशुद्धि तस्य यहि दृश्यते सर्विय लोकधातुः / न च ताव सो दिव्य न प्रापुणोति प्रकृतीय कायस्यियमीदृशी भवेत् // saddhp_18.66 //

पुनरपरं सततसमिताभियुक्त अस्य बोधिसत्त्वस्य महासत्त्वस्य तथागते परिनिर्वृते इमं धर्मपर्यायं धारयतो देशयतः संप्रकाशयतो लिखतो वाचयतस्तैर्द्वादशभिर्मनस्कारगुणशतैः समन्वागतं मनैन्द्रियं परिशुद्धं भविष्यति । स तेन परिशुद्धेन मनैन्द्रियेण यद्येकगाथामप्यन्तशः श्रोष्यति, तस्य बह्वर्थमाज्ञास्यति । स तावमबुध्य तन्निदानं मासमपि धर्मं देशयिष्यति, चतुर्मासमपि संवत्सरमपि धर्मं देशयिष्यति । यं च धर्मं भाषिष्यति, सो ऽस्य स्मृतो न स संप्रमोषं यास्यति । ये केचिल्लौकिका लोकव्यवहारा भाष्याणि वा मन्त्रा वा, सर्वांस्तान् धर्मनयेन संस्यन्दयिष्यति । यावन्तश्च केचित्रिसाहस्रमहासाहस्रायां लोकधातौ षट्सु गतिषूपपन्नाः सत्त्वाः संसरन्ति, सर्वेषां तेषां सत्त्वानां चित्तचरितविस्पन्दितानि ज्ञास्यति । इञ्जितमन्यितप्रपञ्चितानि ज्ञास्यति प्रविचिनिष्यति । अप्रतिलब्धे च तावदार्यज्ञाने एवंरूपं चास्य मनैन्द्रियं परिशुद्धं भविष्यति ॥ यां यां च धर्मनिरुक्तिमनुविचिन्त्य धर्मं देशयिष्यति, सर्वं तद् भूतं देशयिष्यति । सर्वं तत्तथागतभाषितं सर्वं पूर्वजिनसूत्रपर्यायनिर्दिष्टं भाषति ॥

अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत -

मनैन्द्रियं तस्य विशुद्ध भोति प्रभास्वरं शुद्धमनाविलं च / सो तेन धर्मान् विविधान् प्रजानति हीनानथोत्कृष्ट तथैव मध्यमान् // saddhp_18.67 //

एकामपि गाथ श्रुणित्व धीरो अर्थ बहुं जानति तस्य तत्र / समितं च भूतं च सदा प्रभाषते मासान् पि चत्वारि तथापि वर्षम् // saddhp_18.68 //

ये चापि सत्त्वा इह लोकधातौ अभ्यन्तरे बाहिरि ये वसन्ति / देवा मनुष्यासुरगुह्यकाश्च नागाश्च ये चापि तिरश्चयोनिषु // saddhp_18.69 //

षट्सु गतीषु निवसन्ति सत्त्वा विचिन्तितं तेष भवेत यं च / एकक्षणे सर्वि विदुर्विजानते धारेत्व सूत्रं इम आनुशंसाः // saddhp_18.70 //

यं चापि बुद्धः शतपुण्यलक्षणो धर्मं प्रकाशेदिद सर्वलोके / तस्यापि शब्दं शृणुते विशुद्धं यं चापि सो भाषति गृह्यते तत् // saddhp_18.71 //

बहून् विचिन्तेति च अग्रधर्मान् बहूंश्च सो भाषति नित्यकालम् / न चास्य संमोह कदाचि भोति धारेत्व सूत्रं इमि आनुशंसाः // saddhp_18.72 //

संधिं विसंधिं च विजानते ऽसौ सर्वेषु धर्मेषु विलक्षणानि / प्रजानते अर्थ निरुक्तयश्च यथा च तं जानति भाषते तथा // saddhp_18.73 //

यं भाषितं भोतिह दीर्घरात्रं पूर्वेहि लोकाचरियेहि सूत्रम् / तं धर्म सो भाषति नित्यकालं असंत्रसन्तो परिषाय मध्ये // saddhp_18.74 //

मनैन्द्रियं ईदृशमस्य भोति धारेत्व सूत्रं इमु वाचयित्वा / न च ताव असङ्गं लभते ह ज्ञानं पूर्वंगमं तस्य इमं तु भोति // saddhp_18.75 //

आचार्यभूमौ हि स्थितश्च भोति सर्वेष सत्त्वान कथेय धर्मम् / निरुक्तिकोटीकुशलश्च भोति इमु धारयन्तो सुगतस्य सुत्रम् // saddhp_18.76 //

इति श्रीसद्धर्मपुण्डरीके धर्मपर्याये धर्मभाणकानुशंसापरिवर्तो नामाष्टादशमः ॥

saddhp_19: सदापरिभूतपरिवर्तः ।

अथ खलु भगवान् महास्थामप्राप्तं बोधिसत्त्वं महासत्त्वमामन्त्रयते स्म - अनेनापि तावन्महास्थामप्राप्त पर्यायेण एवं वेदितव्यम् - यथा य इममेवंरूपं धर्मपर्यायं प्रतिक्षेप्स्यन्ति, एवंरूपांश्च सूत्रान्तधारकांश्च भिक्षुभिक्षुण्युपासकोपासिका आक्रोशिष्यन्ति, परिभाषिष्यन्ति, असत्यया परुषया वाचा समुदाचरिष्यन्ति, तेषामेवमनिष्टो विपाको भविष्यति, यो न शक्यं वाचा परिकीर्तयितुम् । ये च इममएवंरूपं सूत्रान्तं धारयिष्यन्ति वाचयिष्यन्ति देशयिष्यन्ति पर्यवाप्स्यन्ति, परेभ्यश्च विस्तरेण संप्रकाशयिष्यन्ति, तेषामेवमिष्टो विपाको भविष्यति यादृशो मया पूर्वं परिकीर्तितः । एवंरूपां च चक्षुःश्रोत्रघ्राणजिह्वाकायमनः - परिशुद्धिमधिगमिष्यन्ति ॥

भूतपूर्वं महास्थामप्राप्त अतीते ऽध्वन्यसंख्येयैः कल्पैरसंख्येयतरैर्विपुलैरप्रमेयैरचिन्त्यैस्तेभ्यः परेण परतरेण यदासीत् - तेन कालेन समयेन भीष्मगर्जितस्वरराजो नाम तथागतो ऽर्हन् सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान् विनिर्भोगे कल्पे महासंभवायां लोकधातौ । स खलु पुनर्महास्थामप्राप्त भगवान् भीष्मगर्जितस्वरराजस्तथागतो ऽर्हन् सम्यक्संबुद्धस्तस्यां महासंभवायां लोकधातौ सदेवमानुषासुरस्य लोकस्य पुरतो धर्मं देशयति स्म । यदिदं श्रावकाणां चतुरार्यसत्यसंप्रयुक्तं धर्मं देशयति स्म जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायाससमतिक्रमाय निर्वाणपर्यवसानं प्रतीत्यसमुत्पादप्रवृत्तिम् । बोधिसत्त्वानां महासत्त्वानां षट्पारमिताप्रतिसंयुक्तानामनुत्तरां सम्यक्संबोधिमारभ्य तथागतज्ञानदर्शनपर्यवसानं धर्मं देशयति स्म । तस्य खलु पुनर्महास्थामप्राप्त भगवतो भीष्मगर्जितस्वरराजस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य चत्वारिंशद्गङ्गानदीवालिकासमानि कल्पकोटीनयुतशतसहस्राण्यायुष्प्रमाणमभूत् । परिनिर्वृतस्य जम्बुद्वीपपरमाणुरजःसमानि कल्पकोटीनयुतशतसहस्राणि सद्धर्मः स्थितो ऽभूत् । चतुर्द्वीपपरमाणुरजःसमानि कल्पकोटीनयुतसहस्राणि सद्धर्मप्रतिरूपकः स्थितो ऽभूत् । तस्यां खलु पुनर्महास्थामप्राप्त महासंभवायां लोकधातौ भगवतो भीष्मगर्जितस्वरराजस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य परिनिर्वृतस्य सद्धर्मप्रतिरूपके च अन्तर्हिते अपरो ऽपि

भीष्मगर्जितस्वरराज एव तथागतो ऽर्हन् सम्यक्संबुद्धो लोक उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान् । अनया महास्थामप्राप्त परंपरया तस्यां महासंभवायां लोकधातौ भीष्मगर्जितस्वरराजनाम्नां तथागतानामर्हतां सम्यक्संबुद्धानां विंशतिकोटीनयुतशतसहस्राण्यभूवन् । तत्र महास्थामप्राप्त यो ऽसौ तथागतः सर्वपूर्वको ऽभूद् भीष्मगर्जितस्वरराजो नाम तथागतो ऽर्हन् सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान्, तस्य भगवतः परिनिर्वृतस्य सद्धर्मे ऽन्तर्हिते सद्धर्मप्रतिरूपके च अन्तर्धीयमाने तस्मिन् शासने ऽधिमानिकभिक्ष्वध्याक्रान्ते (वैद्य 225) सदापरिभूतो नाम बोधिसत्त्वो भिक्षुरभूत् । केन कारणेन महास्थामप्राप्त स बोधिसत्त्वो महासत्त्वः सदापरिभूत इत्युच्यते? स खलु पुनर्महास्थामप्राप्त बोधिसत्त्वो महासत्त्वो यं यमेव पश्यति भिक्षुं वा भिक्षूणीं वा उपासकं वा उपासिकां वा, तं तमुपसंक्रम्य एव वदति - नाहमायुष्मन्तो युष्माकं परिभवामि । अपरिभूता यूयम् । तत्कस्य हेतोः? सर्वे हि भवन्तो बोधिसत्त्वचर्यां चरन्तु । भविष्यथ यूयं तथागता अर्हन्तः सम्यक्संबुद्धा इति । अनेन महास्थामप्राप्त पर्यायेण स बोधिसत्त्वो महासत्त्वो भिक्षुभूतो नोद्देशं करोति, न स्वाध्याय करोति, अन्यत्र यं यमेव पश्यति दूरगतमपि, सर्वं तमुपंसक्रम्य एवं संश्रावयति भिक्षुं वा भिक्षुणीं वा उपासकं वा उपासिकां वा, तं तमुपसंक्रम्यैवं वदति - नाहं भगिन्यो

युष्माकं परिभवामि । अपरिभूता यूयम् । तत्कस्य हेतोः? सर्वा यूयं बोधिसत्त्वचर्यां चरध्वम् । भविष्यथ यूयं तथागता अर्हन्तः सम्यक्संबुद्धाः । यं यमेव महास्थामप्राप्त स बोधिसत्त्वो महासत्त्वस्तस्मिन् समये भिक्षुं वा भिक्षुणीं वा उपासकं वा उपासिकां वा एवं संश्रावयति, सर्वे ऽस्य यद्भूयस्त्वेन क्रुध्यन्ति, व्यापादन्ति अप्रसादमुत्पादयन्ति आक्रोशन्ति परिभाषन्ते - कुतो ऽयमपृष्टो भिक्षुरपरिभवचित्तमित्यस्माकमुपदर्शयति? परिभूतमात्मानं करोति यदस्माकं व्याकरोत्यनुत्तरायां सम्यक्संबोधौ असन्तमनाकाङ्क्षितं च । अथ खलु महास्थामप्राप्त तस्य बोधिसत्त्वस्य महासत्त्वस्य बहूनि वर्षाणि तथा आक्रुश्यतः परिभाष्यमाणस्य गच्छन्ति । न च कस्यचित् क्रुध्यति, न व्यापादचित्तमुत्पादयति । ये चास्य एवं संश्रावयतो लोष्टं वा दण्डं वा क्षिपन्ति, स तेषां दूरत एव उच्चैःस्वरं कृत्वा संश्रावयति स्म - नाहं युष्माकं परिभवामीति । तस्य ताभिरभिमानिकभिक्षुभिक्षुण्युपासकोपासिकाभिः सततसमितं संश्राव्यमाणाभिः सदापरिभूत इति नाम कृतमभूत् ॥

तेन खलु पुनर्महास्थामप्राप्त सदापरिभूतेन बोधिसत्त्वेन महासत्त्वेन कालक्रियायां प्रत्युपस्थितायां मरणकालसमये प्रत्युपस्थिते अयं सद्धर्मपुण्डरीको धर्मपर्यायः श्रुतो ऽभूत् । तेन च भगवता भीष्मगर्जितस्वरराजेन तथागतेनार्हता सम्यक्संबुद्धेन अयं धर्मपर्यायो विंशतिभिर्गाथाविंशतिकोटीनयुतशतसहस्रैर्भाषितो ऽभूत् । स च सदापरिभूतो बोधिसत्त्वो महासत्त्वो मरणकालसमये प्रत्युपस्थिते अन्तरीक्षनिर्घोषादिमं धर्मपर्यायमश्रौषीत् । येन केनचिद् भाषितमन्तरीक्षान्निर्घोषं श्रुत्वा इमं धर्मपर्यायमुद्गृहीतवान्, इमां चैवंरूपां चक्षुर्विशुद्धिं श्रोत्रविशुद्धिं घ्राणविशुद्धिं जिह्वाविशुद्धिं कायविशुद्धिं मनोविशुद्धिं च प्रतिलब्धवान् । सहप्रतिलब्धाभिर्विशुद्धिभिः पुनरन्यानि विंशतिवर्षकोटीनयुतशतसहस्राणि आत्मनो जीवितसंस्कारमधिष्ठाय इमं सद्धर्मपुण्डरीकं धर्मपर्यायं संप्रकाशितवान् । ये च ते ऽभिमानिकाः सत्त्वा भिक्षुभिक्षुण्युपासकोपासिकाः, ये पूर्वं नाहं युष्माकं परिभवामीति संश्राविताः, यैरस्येदं सदापरिभूत इति नाम कृतमभूत्, तस्योदारर्द्धिबलस्थामं प्रतिज्ञाप्रतिभानबलस्थामं प्रज्ञाबलस्थामं (वैद्य 226) च दृष्ट्वा सर्वे ऽनुसहायीभूता अभूवन् धर्मश्रवणाय । सर्वे तेन अन्यानि च बहूनि प्राणिकोटीनयुतशतसहस्राणि अनुत्तरायां सम्यक्संबोधौ समादापितान्यभूवन् ॥

स खलु पुनर्महास्थामप्राप्त बोधिसत्त्वो महासत्त्वस्ततश्च्यवित्वा चन्द्रस्वरराजसहनाम्नां तथागतानामर्हतां सम्यक्संबुद्धानां विंशतिकोटीशतान्यारागितवान्, सर्वेषु च इमं धर्मपर्यायं संप्रकाशयामास । सो ऽनुपूर्वेण तेनैव पूर्वकेण कुशलमूलेन पुनरप्यनुपूर्वेण दुन्दुभिस्वरराजसहनाम्नां तथागतानामर्हतां सम्यक्संबुद्धानां विंशतिमेव तथागतकोटीनयुतशतसहस्राण्यारागितवान् । सर्वेषु च इममेव सद्धर्मपुण्डरीकं धर्मपर्यायमारागितवान्, संप्रकाशितवांश्चतसृणां पर्षदाम् । सो ऽनेनैव पूर्वकेण कुशलमूलेन पुनरप्यपूर्वेण मेघस्वरराजसहनाम्नां तथागतानामर्हतां सम्यक्संबुद्धानां विंशतिमेव तथागतकोटीशतसहस्राण्यारागितवान्, सर्वेषु च इममेव सद्धर्मपुण्डरीकं धर्मपर्यायमारगितवान्, संप्रकाशितवांश्चतसृणां पर्षदाम् । सर्वेषु च एवंरूपया चक्षुःपरिशुद्धया समन्वागतो ऽभूत्, श्रोत्रपरिशुद्ध्या घ्राणपरिशुद्धया जिह्वापरिशुद्धया कायपरिशुद्धया मनःपरिशुद्धया समन्वागतो ऽभूत् ॥

स खलु पुनर्महास्थामप्राप्त सदापरिभूतो बोधिसत्त्वो महासत्त्व इयतां तथागत कोटीनयुतशतसहस्राणां सत्कारं गुरुकारं माननां पूजनामर्चनामपचायनां कृत्वा अन्येषां च बहूनां बुद्धकोटीनयुतशतसहस्राणां सत्कारं गुरुकारं माननां पूजनामर्चनामपचायनां कृत्वा, सर्वेषु च तेषु इममेव सद्धर्मपुण्डरीकं धर्मपर्यायमारागितवान्, आरागयित्वा स तेनैव पूर्वकेण कुशलमूलेन परिपक्वेन अनुत्तरां सम्यक्संबोधिमभिसंबुद्धः । स्यात्खलु पुनस्ते महास्थामप्राप्त एवं काङ्क्षा वा विमतिर्वा विचिकित्सा वा - अन्यः स तेन कालेन तेन समयेन सदापरिभूतो नाम बोधिसत्त्वो महासत्त्वो ऽभूत्, यस्तस्य भगवतो भीष्मगर्जितस्वरराजस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य शासने चतसृणां पर्षदां सदापरिभूतः संमतो ऽभूत्, येन ते तावन्तस्तथागता अर्हन्तः सम्यक्संबुद्धा आरागिता अभूवन्? न खलु पुनस्ते महास्थामप्राप्त एवं द्रष्टव्यम् । तत्कस्य हेतोः? अहमेव स महास्थामप्राप्त तेन कालेन तेन समयेन सदापरिभूतो नाम बोधिसत्त्वो महासत्त्वो ऽभूवम् । यदा मया महास्थामप्राप्त पूर्वमयं धर्मपर्यायो नोद्गृहीतो ऽभविष्यत्, न धारितः, नाहमेवं क्षिप्रमनुत्तरां सम्यक्संबोधिमभिसंबुद्धो ऽभविष्यम् । यतश्चाहं महास्थामप्राप्त पौर्विकाणां तथागतानामर्हतां सम्यक्संबुद्धानामन्तिकादिमं धर्मपर्यायं धारितवान् वाचितवान् देशितवान्, ततो ऽहमेवं क्षिप्रमनुत्तरां सम्यक्संबोधिमभिसंबुद्धः । यान्यपि तानि महास्थामप्राप्त तेन सदापरिभूतेन बोधिसत्त्वेन महासत्त्वेन भिक्षुशतानि भिक्षुणीशतानि च उपासकशतानि उपासिकाशतानि च तस्य भगवतः

शासने इमं धर्मपर्यायं संश्रावितान्यभूवन् - नाहं युष्माकं परिभवामीति । सर्वे भवन्तो बोधिसत्त्वचर्यां चरन्तु । भविष्यथ यूयं तथागता अर्हन्तः सम्यक्संबुद्धाः । यैस्तस्य बोधिसत्त्वस्यान्तिके व्यापादचित्तमुत्पादितमभूत्, (वैद्य 227) तैर्विशतिकल्पकोटीनयुतशतसहस्राणि न जातु तथागतो दृष्टो ऽभूत्, नापि धर्मशब्दो न संघशब्दः श्रुतो ऽभूत् । दश च कल्पसहस्राण्यवीचौ महानरके दारुणां वेदनां वेदयामासुः । ते च सर्वे तस्मात् कर्मावरणात् परिमुक्ताः । तेनैव बोधिसत्त्वेन महासत्त्वेन परिपाचिता अनुत्तरायां सम्यक्संबोधौ । स्यात्खलु पुनस्ते महास्थामप्राप्त काङ्क्षा वा विमतिर्वा विचिकित्सा वा - कतमे तेन कालेन तेन समयेन ते सत्त्वा अभूवन् ये ते तं बोधिसत्त्वं प्तहासत्त्वमुल्लापितवन्त उच्चग्घितवन्तः? अस्यामेव महास्थामप्राप्त पर्षदि भद्रपालप्रमुखाणि पञ्च बोधिसत्त्वशतानि सिंहचन्द्राप्रमुखानि पञ्चभिक्षुणीशतानि सुगतचेतनाप्रमुखानि पञ्चोपासिकाशतानि सर्वाण्यवैवर्तिकानि कृतानि अनुत्तरायां सम्यक्संबोधौ । एवमियं महास्थामप्राप्त महार्थस्य धर्मपर्यायस्य धारणा वाचना देशना बोधिसत्त्वानां महासत्त्वानामनुत्तरायाः सम्यक्संबोधेराहारिका संवर्तते । तस्मात्तर्हि महास्थामप्राप्त अयं धर्मपर्यायो बोधिसत्त्वैर्महासत्त्वैस्तथागते परिनिर्वृते अभीक्ष्णं धारयितव्यो वाचयितव्यो देशयितव्यः संप्रकाशयितव्य इति ॥

अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत -

अतीतमध्वानमनुस्मरामि भीष्मस्वरो राज जिनो यदासि / महानुभावो नरदेवपूजितः प्रणायको नरमरुयक्षरक्षसाम् // saddhp_19.1 //

तस्य जिनस्य परिनिर्वृतस्य सद्धर्म संक्षोभ व्रजन्ति पश्चिमे / भिक्षू अभूषी तद बोधिसत्त्वो नामेन सो सदपरिभूत उच्यते // saddhp_19.2 //

उपसंक्रमित्वा तद भिक्षु अन्यान् उपलम्भदृष्टीन तथैव भिक्षुणी / परिभाव मह्यं न कदाचिदस्ति यूयं हि चर्यां चरथाग्रबोधये // saddhp_19.3 //

एवं च संश्रावयि नित्यकालं आक्रोश परिभाष सहन्तु तेषाम् / कालक्रियायां समुपस्थितायां श्रुतं इदं सूत्रमभूषि तेन // saddhp_19.4 //

अकृत्व कालं तद पण्डितेन अधिष्ठिहित्वा च सुदीर्घमायुः / प्रकाशितं सूत्रमिदं तदासीत् तहि शासने तस्य विनायकस्य // saddhp_19.5 //

ते चापि सर्वे बहु ओपलम्भिका बोधीय तेन परिपाचितासीत् / ततश्च्यवित्वान स बोधिसत्त्वो आरागयी बुद्धसहस्रकोट्यः // saddhp_19.6 //

अनुपूर्व पुण्येन कृतेन तेन प्रकाशयित्वा इमु सूत्र नित्यम् / बोधिं स संप्राप्त जिनस्य पुत्रो अहमेव सो शाक्यमुनिस्तदासीत् // saddhp_19.7 //

ये चापि भिक्षू तद ओपलम्भिका या भिक्षुणी ये च उपासका वा / उपासिकास्तत्र च या तदासीद् ये बोधि संश्रावित पण्डितेन // saddhp_19.8 //

ते चापि दृष्ट्वा बहुबुद्धकोट्य इमे च ते पञ्चशता अनूनकाः / तथैव भिक्षूण च भिक्षुणी च उपासिकाश्चापि मि मह्य संमुखम् // saddhp_19.9 //

सर्वे मया श्रावित अग्रधर्मा ते चैव सर्वे परिपाचिता मे / मयि निर्वृते चापिमि सर्वि धीरा इमु धारयिष्यन्ति ह सूत्रमग्रम् // saddhp_19.10 //

कल्पान कोट्यो बहुभीरचिन्त्यैर्न कदाचिदेतादृश धर्म श्रूयते / बुद्धान कोटीशत चैव भोन्ति न च ते पिमं सूत्र प्रकाशयन्ति // saddhp_19.11 //

तस्माच्छ्रूणित्वा इदमेवरूपं परिकीर्तितं धर्मु स्वयं स्वयंभूवा / आरागयित्वा च पुनः पुनश्चिमं प्रकाशयेत् सूत्र मयीह निर्वृते // saddhp_19.12 //

इति श्रीसद्धर्मपुण्डरीके धर्मपर्याये सदापरिभूतपरिवर्तो नामैकोनविंशतिमः ॥

saddhp_20: तथागतद्धर्यभिसंस्कारपरिवर्तः ।

अथ खलु यानि तानि साहस्रलोकधातुपरमाणुरजःसमानि बोधिसत्त्वकोटीनयुतशतसहस्राणि पृथिवीविवरेभ्यो निष्क्रान्तानि, तानि सर्वाणि भगवतो ऽभिमुखमञ्जलिं प्रगृह्य भगवन्तमेतदूचुः - वयं भगवन् इमं धर्मपर्यायं तथागतस्य परिनिर्वृतस्य सर्वबुद्धक्षेत्रेषु यानि यानि भगवतो बुद्धक्षेत्राणि, यत्र यत्र भगवान् परिनिर्वृतो भविष्यति, तत्र तत्र संप्रकाशयिष्यामः । अर्थिनो वयं भगवन् अनेनैकवमुदारेण धर्मपर्यायेण धारणाय वाचनाय देशनाय संप्रकाशनाय वा लिखनाय ॥

अथ खलु मञ्जुश्रीप्रमुखानि बहूनि बोधिसत्त्वकोटीनयुतशतसहस्राणि यानि अस्यां सहायां लोकधातौ वास्तव्यानि, भिक्षुभिक्षुण्युपासकोपासिका देवनागयक्षागन्धर्वासुरगरूडकिन्नरमहोरगमनुष्यामनुष्याः, बहवश्च गङ्गानदीवालिकोपमा बोधिसत्त्वा महासत्त्वा भगवन्तमेतदूचुः - वयमपि भगवन् इमं धर्मपर्यायं संप्रकाशयिष्यामस्तथागतस्य परिनिर्वृतस्य अद्दष्टेनात्मभावेन, भगवन् अन्तरीक्षे स्थिता घोषं संश्रावयिष्यामः, अनवरोपितकुशलमूलानां च सत्त्वानां कुशलमूलान्यवरोपयिष्यामः ॥

अथ खलु भगवांस्तस्यां वेलायां तेषां पौर्विकाणां बोधिसत्त्वानां महासत्त्वानां गणिनां महागणिनां गणाचार्याणामेकं प्रमुखं विशिष्टचारित्रं नाम बोधिसत्त्वं महासत्त्वं महागणिनं गणाचार्यमामन्त्रयामास - साधु साधु विशिष्टचारित्र । एवं युष्माभिः करणीयमस्य धर्मपर्यायस्यार्थे । यूयं तथागतेन परिपाचिताः ॥

अथ खलु भगवान् शाक्यमुनिस्तथागतः स च भगवान् प्रभूतरत्नस्तथागतो ऽर्हन् सम्यक्संबुद्धः परिनिर्वृतः स्तूपमध्ये । सिंहासनोपविष्टौ द्वावपि स्मितं प्रादुष्कृरुतः, मुखविवरान्तराभ्यां च जिह्वेन्द्रियं निर्णामयतः । ताभ्यां च जिह्वेन्द्रियाभ्यां यावद् ब्रह्मलोकमनुप्राप्नुतः । ताभ्यां च जिह्वेन्द्रियाभ्यां बहूनि रश्मिकोटीनयुतशतसहस्राणि निश्चरन्ति स्म । तासु च रश्मिष्वेकैकस्या रश्मेर्बहूनि बोधिसत्त्वकोटीनयुतशतसहस्राणि निश्चेरुः । सुवर्णवर्णाः कायैर्द्वात्रिंशद्भिर्महापुरुषलक्षणैः समन्वागताः पद्मगर्भे सिंहासने निषण्णाः । ते च बोधिसत्त्वा दिग्विदिक्षु लोकधातुशतसहस्रेषु विसृताः, सर्वासु दिग्विदिक्ष्वन्तरीक्षे स्थिता धर्मं देशयामासुः । यथैव भगवान् शाक्यमुनिस्तथागतो ऽर्हन् सम्यक्संबुद्धो जिह्वेन्द्रियेण ऋद्धिप्रातिहार्यं करोति प्रभूतरत्नश्च तथागतो ऽर्हन् सम्यक्संबुद्धः तथैव ते सर्वे तथागता अर्हन्तः सम्यक्संबुद्धाः, ये ते ऽन्यलोकधातुकोटीनयुतशतसहस्रेभ्यो ऽभ्यागता रत्नवृक्षमूलेषु पृथक् पृथक् सिंहासनोपविष्टा जिह्वेन्द्रियेण ऋद्धिप्रातिहार्यं कुर्वन्ति ॥

अथ खलु भगवान् शाक्यमुनिस्तथागतो ऽर्हन् सम्यक्संबुद्धः ते च सर्वे तथागता अर्हन्तः सम्यक्संबुद्धाः तमृद्धयभिसंस्कारं परिपूर्णं वर्शशतसहस्रं कृतवन्तः । अथ खलु वर्षशतसहस्रस्यात्ययेन ते तथागता अर्हन्तः सम्यक्संबुद्धास्तानि जिह्वेन्द्रियाणि पुनरेवोपसंहृत्य एकस्मिन्नेव क्षणलवमुहूर्ते समकालं सर्वैर्महासिंहोत्कासनशब्दः कृतः, एकश्चाच्छटासंघातशब्दः (वैद्य 230) कृतः । तेन च महोत्कासनशब्देन महाच्छटासंघातशब्देन यावन्ति दशसु दिक्षु बुद्धक्षेत्रकोटीनयुतशतसहस्राणि, तानि सर्वाण्याकम्पितान्यभूवन्, प्रकम्पितानि संप्रकम्पितानि चलितानि प्रचलितानि संप्रचलितानि वेधितानि प्रवेधितानि संप्रवेधितानि । तेषु च सर्वेषु बुद्धक्षेत्रेषु यावन्तः सर्वसत्त्वा देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगमनुष्यामनुष्याः, ते ऽपि सर्वे बुद्धानुभावेन तत्रस्था एवमिमां सहां लोकधातुं पश्यन्ति स्म । तानि च सर्वतथागतकोटीनयुतशतसहस्राणि रत्नवृक्षमूलेषु पृथक् पृथक् सिंहासनोपविष्टानि भगवन्तं च शाक्यमुनिं तथागतमर्हन्तं सम्यक्संबुद्धं तं च भगवन्तं प्रभूतरत्नं तथागतमर्हन्तं सम्यक्संबुद्धं परिनिर्वृतं तस्य महारत्नस्तूपस्य मध्ये सिंहासनोपविष्टं भगवता शाक्यमुनिना तथागतेन सार्धं निषण्णां ताश्च तिस्रः पर्षदः पश्यन्ति स्म । दृष्ट्वा च आश्चर्यप्राप्ता अद्भुतप्राप्ता औद्बिल्यप्राप्ता अभूवन् । एवं च अन्तरीक्षाद् घोषमश्रौषुः - एष मार्षा अप्रमेयाण्यसंख्येयानि लोकधातुकोटीनयुतशतसहस्राण्यतिक्रम्य सहा नाम लोकधातुः । तस्यां शाक्यमुनिर्नाम तथागतो ऽर्हन् सम्यक्संबुद्धाः । स एतर्हि सद्धर्मपुण्डरीकं नाम धर्मपर्यायं सूत्रान्तं महावैपुल्यं बोधिसत्त्वाववादं सर्वबुद्धपरिग्रहं बोधिसत्त्वानां महासत्त्वानां संप्रकाशयति । तं यूयमध्याशयेन अनुमोदध्वम्, तं च भगवन्तं शाक्यमुनिं तथागतमर्हन्तं सम्यक्संबुद्धं तं च भगवन्तं प्रभूतरत्नं तथागतमर्हन्तं सम्यक्संबुद्धं नमस्कुरुध्वम् ॥

अथ खलु ते सर्वसत्त्वा इममेवंरूपमन्तरीक्षान्निर्घोषं श्रुत्वा तत्रस्था एव नमो भगवते शाक्यमुनये तथागतायार्हते सम्यक्संबुद्धायेति वाचं भाषन्ते स्म अञ्जलिं प्रगृह्य । विविधाश्च पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकावैजयन्त्यो येनेयं सहा लोकधातुस्तेन क्षिपन्ति स्म, नानविधानि चाभरणानि पिन्धाणि हारार्धहारमणिरत्नान्यपि क्षिपन्ति स्म, भगवतः शाक्यमुनेः प्रभूतरत्नस्य च तथागतस्य पूजाकर्मणे, अस्य च सद्धर्मपुण्डरीकस्य धर्मपर्यायस्य । ताश्च पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकावैजयन्त्यस्तानि च हारार्धहारमणिरत्नानि क्षिप्तानि इमां सहां लोकधातुमागच्छन्ति स्म । तैश्च पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकावैजयन्तीराशिभिर्हारार्धहारैर्मणिरत्नैश्च अस्यां सहायां लोकधातौ सार्धं तैरन्यर्लोकधातुकोटीनयुतशतसहस्रैरेकीभूतैर्ये तेषु तथागताः संनिषण्णाः, तेषु सर्वेषु वैहायसे ऽन्तरीक्षे समन्तान्महापुष्पवितानं परिसंस्थितमभूत् ॥

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.