Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 9/14

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Thí dụ · Bổn sự

रत्नमालावदान

Thông tin
GRETIL — Kanga Takahata. Ratnamālāvadāna. A Garland of Precious Gems or a Collection of Edifying Tales, Told in a Metrical Form, Belonging to the Mahāyāna. Tokyo 1954 (Oriental Library Series D, 3). = Rm.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

इत्य् आदिष्टं मुनीन्द्रेण श्रुत्वा स नृपतिर् मुदा / तथेति हि प्रतिज्ञाय प्राभ्यनंदत् प्रसादितः // rm_25.183{92} //

ततः स नृप उत्थाय नत्वा तं जगदीश्वरं / महानंदमहोत्साहैः स्वपुरं सजनो ययौ // rm_25.184{93} //

तत्र स नृपती राजा प्रासादतलम् आश्रितः / स मंत्रिपौरिकान् सर्वान् समामंत्र्यैवम् आदिशत् // rm_25.185{94} //

मंत्रिणः पौरिकाः सर्वे शृणुध्वं वचनं मम / यदि वांछास्ति वो भद्रे त्रिरत्नं भजतादरत् // rm_25.186{95} //

यवद् अयं जगच्छास्ता विहरत्य् अत्र सांघिकः / तावद् अस्य मुनीन्द्रस्य भजत सर्वदोत्सवैः // rm_25.187{96} //

विहारे सर्वदा गत्वा श्रद्धया समुपाश्रिताः / तत् सद्धर्मामृतं पीत्वा मुदा चरत सद्वृतौ // rm_25.188{97} //

सर्वांश् च सौगतान् भिक्षून् सर्वोपकरणैर् अपि / सत्कृत्य श्रद्धयामंत्र्य मानयध्वं सदादरात् // rm_25.189{98} //

एतन् मे वचनं श्रुत्वा त्रिरत्नशरणं गताः / संबोधिप्रणिधानेन चरत बोधिचारिकां // rm_25.190{99} //

तथा ते मंगलं नित्यं सर्वत्रापि भवेद् ध्रुवं / क्रमाद् बोधिं समासाद्य लभत सौगतिं गतिं // rm_25.191{100} //

इत्य् आदिष्टं मुनीन्द्रेण श्रुत्वा ते मंत्रिणो जनाः / सर्वे वीरादयो लोकास् तथेति प्रतिशुश्रुवुः // rm_25.192{1} //

तदा सर्वे ऽपि ते लोकाः सद्धर्मसाधनोद्यताः / त्रिरत्नभजनं कृत्वा प्रचेरिरे समोदिताः // rm_25.193{2} //

तदारभ्य सदा तत्र मंगलं निरुपद्रवं / सर्वत्र सर्वदाप्य् आसीत् त्रिरत्नस्यानुभावतः // rm_25.194{3} //

इति मे गुरुणादिष्टं तथा ते कथ्यते मया / त्वम् अप्य् एवं सदा राजन् त्रिरत्नं शरणं गतः // rm_25.195{4} //

सद्धर्मं समुपाश्रित्य चर नित्यं सदा शुभे / लोकाश् चापि महाराज बोधयित्वा प्रयत्नतः / त्रिरत्नशरणे स्थाप्य पालनीयाः सदा त्वया // rm_25.196{5} //

एवं ते मंगलं नित्यं सर्वत्रापि भवेद् ध्रुवं / क्रमाद् बोधिं समासाद्य संबुद्धपदम् आप्नुयाः // rm_25.197{6} //

इति तेनार्हतादिष्टं श्रुत्वाशोकः स भूमिपः / तथेत्य् अभ्यनुमोदित्वा प्राभ्यनंदत् सपार्षदः // rm_25.198{7} //

दूतावदानं यद् इदं मुदा ये शृण्वंति ये चापि निशामयन्ति / ते सर्व एवं त्रिदिवे व्रजन्ति संबुद्धलोके ऽपि सरन्ति चान्ते // rm_25.199{8} //

++ इति श्रिरत्नावदानतत्वे दूतावदानं समाप्तम् ++

xxvi tairthikāvadāna अथाशोको महीपालः कृतांजलिपुटो मुदा / उपगुप्तं तम् अर्हन्तं प्रणत्वैवम् अब्रवीत् // rm_26.1{1} //

भदन्त श्रोतुम् इछामि पुनर् अन्यत् सुभाषितं / तद्यथा गुरुणादिष्टं तथादेष्टुं च मे ऽर्हति // rm_26.2{2} //

इति संप्रार्थितं राज्ञा श्रुत्वा स सुगतात्मजः / उपगुप्तो नरेंद्रं तं समामंत्र्यैवम् आदिशत् // rm_26.3{3} //

साधु शृणु महाराज यथा मे गुरुणोदितं / तथात्राहं प्रवक्ष्यामि श्रुत्वानुमोदनां कुरु // rm_26.4{4} //

तद्यथा भगवांच् छास्ता श्रीघनो ऽर्हन् मुनीश्वरः / सर्वज्ञः सुगतो नाथो धर्मराजो विनायकः // rm_26.5{5} //

भिक्षुभिः श्रावकैः सार्द्धं तथा सर्वैश् च सांघिकैः / तत्रैव जेतकोद्याने विहारे व्यहरत् पुरा // rm_26.6{6} //

तद् धर्मदेशनां श्रोतुं सर्वे लोकैः समागतैः / देवदानवगंधर्वैर् यक्षकिन्नरराक्षसैः // rm_26.7{7} //

सिद्धैर् विद्याधरैश् चापि नागेन्द्रैर् गरुडैर् अपि / लोकपालैः ससैन्यैश् च ब्राह्मणैश् च महर्षिभिः // rm_26.8{8} //

योगिभिर् यतिभिश् चापि निर्ग्रन्थिभिश् च तापसैः / राजभिः क्षत्रियैश् चापि तथा राजकुमारकैः // rm_26.9{9} //

वैश्यैश् च मंत्रिभिः श्रेष्ठैर् गृहस्थैश् च महाजनैः / वणिग्भिः सार्थवाहैश् च शिल्पिभिः पौरिकैर् अपि // rm_26.10{10} //

ग्राम्यैर् जानपदैश् चापि कार्पटिकैस् तथापरैः / त्रिरत्नदर्शनोत्साहैः सद्धर्मगुणवांछिभिः // rm_26.11{11} //

सत्कृतो मानितो नित्यं पूज्यमानो ऽभिवंदितः / सर्वसत्वहितार्थेन वर्षं धर्मामृतं सदा // rm_26.12{12} //

तदा तत्र पुरे राजा प्रसेनजिन् नृपाधिपः / संबुद्धशासनं धृत्वा त्रिरत्नम् अभजन् मुदा // rm_26.13{13} //

तद् दृष्ट्वा तीर्थिकाः सर्वे ईर्ष्यारोषाहताशयाः / संमील्य सौगतं धर्मं प्रतिक्षिप्यैवम् अब्रुवन् // rm_26.14{14} //

भवन्तो यद् अयं बुद्धः सर्वज्ञ ऋद्धिमान् कृती / तत्सर्वान् इमां लोकान् स्वं धर्मे संनियोजयेत् // rm_26.15{15} //

तदास्मद्वचनं श्रोतुम् अपीछेन् नात्र कश्चन / सर्वे नः श्रावकाश् चापि भजेयुः सुगतं जिनं // rm_26.16{16} //

तदा सर्वे वयं लोकै निंद्यमानः समंततः / कथम् अत्र चरिष्यामस् तद् अन्यत्र चरेमहि // rm_26.17{17} //

इति सर्वैर् अपि प्रोक्ते तीर्थिकोपासको द्विजः / सर्वान्स् तान्स् तीर्थिकं दृष्ट्वा पुनर् एवम् अभाषत // rm_26.18{18} //

भवंतो म विषीदत्वं कर्तुं अर्हति सर्वथा / तद् उपायं करिष्यामि येनान्यत्र चरेज् जिनः // rm_26.19{19} //

इति तान्स् तीर्थिकान् सर्वान् बोधयित्वा स दुर्मतिः / नृपतेर् अन्तिके गत्वा सादरम् एवम् अब्रवीत् // rm_26.20{20} //

शृणु राजन् महाभाग यद् धितं ते तद् उच्यते / तथा त्वया समाधाय चरितव्यं सदादरात् // rm_26.21{21} //

यद् अयं मुण्डितो भिक्षुः कुलधर्मविनाशकृत् / जातिधर्मपरिभ्रष्टः संसारवृत्तिनिंदकः // rm_26.22{22} //

मायावी कुत्सिताचारो दुःशीलो लोकवंचकः / स्वयं नष्टः परांश् चापि नाशयितुम् इहागतः // rm_26.23{23} //

तद् अस्य दर्शनं राजं कर्त्तव्यं न कदा चन / ग्रहीतव्यं न नामापि श्रोतव्यं नापि तद् वचः // rm_26.24{24} //

सत्कारं न च कर्त्तव्यं दातव्यं नापि किं चन / आश्रमे ऽपि न गन्तव्यं स्थातव्यं न तदन्तिके // rm_26.25{25} //

दर्शनं ये प्रकुर्वन्ति तस्य भिक्षोर् दुरात्मनः / ते सर्वे नरके यायुः सद्गतिं न कदा चन // rm_26.26{26} //

ये च शृण्वन्ति तद् वाक्यं सर्वे ते निलयं गताः / तीव्रदुःखाभिसंतप्ता वसेयुर् अनुतापिताः // rm_26.27{27} //

सत्कारं ये च कुर्वंति सर्वे ते विलयं गताः / दरिद्रा दुर्गतिं गत्वा भ्रमेयुर् निहताशयाः // rm_26.28{28} //

ये च दानं प्रकुर्वन्ति तत्राशिर्लुहिताशयाः / ते ऽपि च नरके याता दुःखान्य् एवम् अवाप्नुयुः // rm_26.29{29} //

तदाश्रमे च गछंति सर्वे ते दुरिताङ्किताः / कुष्ठादि रोगसंतप्ता यायुश् च निरये ऽचिरात् // rm_26.30{30} //

ये च तैः सह तिष्ठन्ति ते सर्वे पापसंगिताः / तीव्रदुःखाग्निसंदग्धा चरेयु निरये सदा // rm_26.31{31} //

गृह्नन्ति ये च मन्नाम तेषां गेहेषु सर्वदा / लक्ष्मीर् मैव श्रयेत् तत्र नैरृतिर् एव संश्रयेत् // rm_26.32{32} //

ये बुद्धं भजन्त्य् अत्र ते ते सर्वे ऽप्य् अधर्मिणः / कदापि सद्गतिं नैव यांति दूरगतिम् एव हि // rm_26.33{33} //

इति मत्वा महाराज सदा भद्रं यदीछसि / सत्कारं दर्शनं तस्य कर्त्तव्यं नैव के चन // rm_26.34{34} //

किं धर्मं सौगतं धर्मं यन् मिथ्या परिकल्पितं / तत् तस्य दुर्यतेर् धर्मं श्रोतव्यं नैव केन चित् // rm_26.35{35} //

यस्य धर्मो हि सर्वत्र वेदशास्त्रे न गण्यते / स किं धर्मात्मको बुद्धस् तत् तत्र मंगलं न हि // rm_26.36{36} //

इति तेनोदितं श्रुत्वा स परिबोधितः / त्रिरत्नभजनोत्साहशैथिल्यक्षुभितो ऽभवत् // rm_26.37{37} //

ततस् तस्य वचः श्रुत्वा तीर्थिकोपासकस्य सः / नृपतिस् तैर्थिके धर्मे ऽभिललाष प्रसादितः // rm_26.38{38} //

तत्रैको गृहभृच् छ्रेष्ठी संबुद्धोपासकः सुधीः / तं तीर्थ्योपासकं दृष्ट्वा बोधयितुम् अभाषत // rm_26.39{39} //

किम् एवं दुर्मते बुद्धो धर्मराजो ऽपि निंद्यते / मा मैवं वदताम् अत्र त्वम् एव नरकं व्रजेः // rm_26.40{40} //

यो लोके समुत्पन्नः सर्वक्लेशान् विनिर्जयन् / जित्वा मारगणान् सर्वान् संबोधिज्ञानम् आप्तवान् // rm_26.41{41} //

सर्वै ब्रह्मादिभिर् लोकैः संस्तुतो वंदितो ऽर्चितः / मानितः सत्कृतो बुद्धस् त्वयैव निंद्यते कथं // rm_26.42{42} //

येनैव त्रिजगल्लोकां पुत्रवत् प्रतिपालितं / पूजनीयः कथं नाथं धर्मराजो मुनीश्वरः // rm_26.43{43} //

बुद्ध एव जगन्नाथो दयालुः सद्गुणाकरः / सर्वसत्वहिताधानो ऽद्वयवादी विनायकः // rm_26.44{44} //

सर्वज्ञः सुगतो भद्ररूपः सर्वहितार्थभृत् / सर्वविद्याधिपः शास्ता संबोधिमार्गदेशकः // rm_26.45{45} //

निर्जितक्लेश आत्मज्ञः षडभिज्ञो जगद्गुरुः / संबुद्धो ऽर्हञ् जिनस् त्रायी धर्मराजो मुनीश्वरः // rm_26.46{46} //

ततः स भगवान्न् एव सर्वत्रैधातुकेष्व् अपि / अग्रः श्रेष्ठो महाञ् जेष्ठो नान्यः कश्चिद् अतो ऽधिकः // rm_26.47{47} //

तस्माद् अस्य मुनीन्द्रस्य सत्कारं श्रद्धया सदा / शरणगमनं कृत्वा श्रोतव्यं धर्मम् आदरात् // rm_26.48{48} //

ये बुद्धे शरणं यान्ति न ते गछंति दुर्गतिं / सर्वदा सद्गतौ सौख्यं भुक्त्वा यान्ति जिनालये // rm_26.49{49} //

शृण्वन्ति ये च तद् धर्मं ते ऽपि नो यान्ति दुर्गतिं / सदा स्वर्गे सुखं भुक्त्वा यायुश् चान्ते सुनिर्वृतिं // rm_26.50{50} //

भजन्ति ये च संघेषु ते ऽपि न यान्ति दुर्गतिं / सदा धर्मरताः सौख्यं भुक्त्वा यान्ति सुखावतिं // rm_26.51{51} //

एवं ये ये त्रिरत्नानां सर्वदा शरणं गताः / सत्कृत्य श्रद्धया नित्यं भजन्ति बोधिमानसाः // rm_26.52{52} //

सर्वे ते सद्गुणाधाराः सर्वसत्वहितार्थिनः / क्रमाद् बोधिचरीः पूर्य संबुद्धपदम् आप्नुयुः // rm_26.53{53} //

तेनायं भगवान्न् एव जगन्नाथो जगद्गुरुः / धर्मराजो जगद्भर्त्ता जगत्त्रायी विनायकः // rm_26.54{54} //

तेनास्य सद्गुरोः शास्तुः श्रद्धया शरणं गताः / सद्धर्मं सर्वदा श्रुत्वा कर्तुम् अर्हति सत्कृतिं // rm_26.55{55} //

ये चाप्य् अस्य मुनीन्द्रस्य प्रतिक्षिपन्ति शासनं / सद्गतिं नैव ते यान्ति दुर्गतिम् एव सर्वदा // rm_26.56{56} //

इति मत्वा न कर्त्तव्या बुद्धे निंदा कथं चन / त्रिरत्नभजनान्य् एव कर्त्तव्यानि शुभार्थिभिः // rm_26.57{57} //

ये त्रिरत्नं भजन्त्य् अत्र सर्वे ते बोधिभागिनः / बोधिसत्वा महासत्वा भवेयुः सुगतात्मजाः // rm_26.58{58} //

तेन ते ऽपि महासत्वास् त्रिरत्नोपासका अपि / श्रद्धया प्रणतिं तेसां कर्त्तुम् अर्हन्ति सर्वदा // rm_26.59{59} //

इति तेनोदितं श्रुत्वा तीर्थिकोपासकश् च सः / तं बुद्धोपासकं दृष्ट्वा पुनर् एवम् अभाषत // rm_26.60{60} //

आ किम् एवं त्वया प्रोक्तं किं बुद्धो ऽतापसा ऽयतिः / पूरणो ब्रह्मविज्ञस् तपस्वी संयमी सुधीः // rm_26.61{61} //

तत् तस्य पूरणस्याग्रे बुद्धः किं वक्तुम् उत्सहेत् / बालकान् एव वञ्चित्वा ह्य् असद्धर्म्मे युनक्ति सः // rm_26.62{62} //

पूरण एव सर्वेषां यतीनां ब्रह्मचारिणां / ऋद्धिमतां महान् अग्रो मात्रैकश् चित् ततो ऽधिकः // rm_26.63{63} //

इति तेनोदितं श्रुत्वा स बुद्धोपासकस् ततः / तीर्थिकोपासिकं दृष्ट्वा पुनर् एव तम् अब्रवीत् // rm_26.64{64} //

अरे किं ज्ञायते तस्य संबुद्धस्य गुणस् त्वया / येनैव कृपया दृष्ट्वा पालितं पुत्रवज् जगत् // rm_26.65{65} //

यस्य लोके दया नास्ति तेन किं पाल्यते जगत् / केवललोभसत्कारं हेतुनादोम्भिको हि सः // rm_26.66{66} //

तपस्वी योगवित् प्राज्ञ ऋद्धिमान् सिद्धिमान् अपि / यस्य नास्ति दया सत्वे स किम् शास्ता जगद्गुरुः // rm_26.67{67} //

यो दृष्ट्वा सकलान् सत्वान् कृपया संप्रबोधयन् / सद्धर्मे योजयत्य् अत्र स एव जगतां गुरुः // rm_26.68{68} //

तस्माद् अत्र जगच्छास्ता सर्वसत्वहितार्थभृत् / बुद्ध एव जगन्नाथो जगत्त्रायी जगद्गुरुः // rm_26.69{69} //

नास्ति बुद्धसमः कश् चित् सर्वसत्वहितंकरः / तेन ब्रह्मादिदेवैः स वंदनीयो मुनीश्वरः // rm_26.70{70} //

यतो ऽयं श्रीघनः त्रायी षडभिज्ञो विनायकः / मुनीन्द्रो ऽर्हं सुभद्रांशस् तेन तस्याधिको हि कः // rm_26.71{71} //

तेनायं सुगतो बुद्धो धर्मराजस् तथागतः / सत्कृत्य श्रद्धया सर्वे भजनीयः शुभेछुभिः // rm_26.72{72} //

इति तेनोदितं श्रुत्वा तीर्थिकोपासको ऽथ सः / रोषाग्निपरिदग्धास्यस् तं बौद्धम् एवम् अब्रवीत् // rm_26.73{73} //

आ एवम् उच्यते को ऽत्र पूरणात् पर उत्तमः / यतीर् विज्ञो महाभिज्ञः स एव त्रिजगद्गुरुः // rm_26.74{74} //

इति तेनोदितं श्रुत्वा संबुद्धोपासको ऽपि सः / सांजलिः प्रणतिं कृत्वा भूमाव् एवं तम् अब्रवीत् // rm_26.75{75} //

बुद्धाद् अन्यो विशिष्टः कस् त्रैधातुभुवनेष्व् अपि / बहुधा किं प्रवादेन बुद्ध एव जगत्प्रभुः // rm_26.76{76} //

तेनेत्य् उक्ते स रुष्टात्मा तीर्थिकोपासकस् तदा / कोपाग्निपरिदग्धांगस् तं बुद्धम् एवम् अब्रवीत् // rm_26.77{77} //

यदि बुद्धो विशिष्टः स्यात् पूरणाद् अर्हतो यतेः / सर्वस्वं मे तवाधीनं दासश् चापि भवाम्य् अहं // rm_26.78{78} //

यदि बुद्धाद् विशिष्टो हि पूरणो ऽर्हं महामतिः / सर्वस्वं ते ममाधीनं दासश् चापि भवेः खलु // rm_26.79{79} //

इति तेनोदिते तत्र संबुद्धोपासको ऽपि सः / तथेति वंधनिक्षेपं कृत्वा स्वीकरणं व्यधात् // rm_26.80{80} //

तयोर् एतत् प्रवादत्वं प्रसेनजिन् नराधिपः / मत्वामात्यान् समाहूय पुरर् एवम् अभाषत // rm_26.81{81} //

गछध्वं मंत्रिणः सर्वे बुद्धतैर्थिकयोर् अपि / निर्णयित्वा विवादत्वे मिमांसा क्रियताम् इह // rm_26.82{82} //

इति राज्ञा समादिष्टं श्रुत्वा ते मंत्रिणो जनाः / सहसा तज् जनान् सर्वान् समाहूयैवम् आदिशत् // rm_26.83{83} //

भवन्तो नृपतेर् एवम् आज्ञां श्रुत्वा समाहिताः / सर्वत्र विजिते घण्टानादैश् चोदय तद् द्रुतं // rm_26.84{84} //

इति तैर् मंत्रिभिः प्रोक्तैः श्रुत्वा ते सजनास् तथा / घण्टावघोषनं कृत्वा सर्वत्रैवं घोषयन् // rm_26.85{85} //

शृण्वन्तु पौरिकाः सर्वे इतो ऽह्नि सप्तमे ऽहनि / बौद्धतैर्थिकसंवादे मिमांसात्र भविष्यति // rm_26.86{86} //

ये ये ऽत्र द्रष्टुम् इछन्ति सर्वे ते समुपागताः / बुद्धस्य तीर्थिकस्यापि प्रभावं द्रष्टुम् अर्हत // rm_26.87{87} //

एवं ते विजिते तत्र सर्वत्र विषयेष्व् अपि / घण्टावघोषणं कृत्वा मंत्रिणां पुर आययुः // rm_26.88{88} //

ततस् ते सजनाः सर्वे राज्ञो ऽन्तिकम् उपागताः / प्रणत्वैतत् प्रवृत्तांतं पुरतः संन्यवेदयन् // rm_26.89{89} //

ततो ऽह्नि सप्तमे प्राप्ते सर्वे लोकाः समागताः / विस्तीर्णे भूतले रम्ये तद् द्रष्टुम् उपतस्थिरे // rm_26.90{90} //

तथा देवा अनेके च तद्दर्शनकुतूहलाः / अन्तरीक्षे समाश्रित्य संतस्थुः प्रतिमोदिताः // rm_26.91{91} //

एवं सर्वेषु लोकेषु नृपमंत्रिजनादिषु / नैकशतसहस्रेषु सन्निपातेषु सर्वतः // rm_26.92{92} //

तीर्थिकोपासकस् तत्र स गोमये प्रलेषिते / मंडले गंधपुष्पादिपूजांगैः समपूजयत् // rm_26.93{93} //

ततः स सांजलिर् नत्वा जानुभ्यां भुवि संस्थितः / उद्वहन्न् उत्तरासंगं प्रार्थयद् एवम् आदरात् // rm_26.94{94} //

येन सत्येन षड्विज्ञाः शास्तारः पूरणादयः / भगवंतो महाभिज्ञा अर्हन्तो ब्रह्मचारिणः // rm_26.95{95} //

अनेन सत्यभावेन सर्वान् एतान् यतीश्वरान् / एतत्पूजोपहाराणि प्रानुगंछंतु संमुखं // rm_26.96{96} //

एवं संप्रार्थनां कृत्वा तीर्थिकोपासको मुदा / तानि पंचोपहाराणि प्रादाय गगणे ऽक्षिपत् // rm_26.97{97} //

तेन क्षिप्रक्षिप्तमात्राणि तानि सर्वाणि भूतले / पतितान्य् अस्तंगतान्य् एव सहसादर्शने ययुः // rm_26.98{98} //

तद् दृष्ट्वा ससुरा लोकाः सर्वे ते भूमिपादयः / उच्चैर् नादैर् हसन्तस् तं तैर्थिकम् एव मेनिरे // rm_26.99{99} //

तद् दृष्ट्वा धिक्प्रवादं च श्रुत्वा स तैर्थिको ऽपतत् / ततश् चिरात् समुत्थाय लज्जाभिन्नमुखाशयः // rm_26.100{100} //

त्रसितो ऽधोमुखोद्रष्टो निष्प्रभः परिकंपितः / भ्रस्तस्कंधः करे कण्डं स्थाप्य तस्थौ विमुर्छितः // rm_26.101{1} //

तद् दृष्ट्वा स प्रसन्नात्मा बुद्धोपासको मुदा / प्रकृत्वा मण्डलं तत्र गोमयप्रतिलेपिते // rm_26.102{2} //

पंचोपहारपूजंगैः समभ्यर्च्य यथाविधिः / उद्वहन्न् उत्तरासङ्गं जानुभ्यां भुवि संस्थितः // rm_26.103{3} //

सांजलिः पुरतः स्थित्वा संबुद्धं तं मुनीश्वरं / स्मृत्वा नत्वा तथा सत्यं प्रार्थयद् एवम् आदरात् // rm_26.104{4} //

यतो ऽयं भगवान् बुद्धः सर्वलोकविनायकः / तेन सत्येन सर्वाणि पुष्पाणीमानि सूदकं // rm_26.105{5} //

इदं सौरभ्यधूपं च भगवन्तं मुनीश्वरं / संबुद्धं श्रीघनं नाथं प्राभियान्तु विहायसा // rm_26.106{6} //

इति संप्रार्थनां कृत्वा स बुद्धोपासको मुदा / तानि सर्वोपहाराणि प्रादाय गगणे ऽक्षिपत् // rm_26.107{7} //

तानि तेन प्रक्षिप्तानि सर्वाणि गगणे ऽसरन् / तानि सर्वाणि पुष्पाणि छत्रीभूत्वाचरन् क्रमात् // rm_26.108{8} //

धूपो मेघवद् अम्भो ऽपि वैडूर्य्यवत् तदाचरत् / तद् दृष्ट्वा जनता सर्वा महाश्चर्य्यं प्रलेहिरे // rm_26.109{9} //

क्रमेण तानि सर्वाणि प्रचरन्ति विहायसा / झटिति जेतकारण्ये विहारे संमुखं ययुः // rm_26.110{10} //

दृष्ट्वा सजनकायो ऽपि प्रतिहार्यं तद् अद्भुतं / जयशब्दं प्रकुर्वन्तः पश्यन्तो ऽनुययुर् मुदा // rm_26.111{11} //

तत्र सर्वाणि पुष्पाणि छत्रीभूत्वा जगद्गुरोः / संबुद्धस्य जगच्छास्तुर् उपरि समुपाश्रयन् // rm_26.112{12} //

तद् धूपम् अग्रतस् तस्य तस्थौ कृत्वा प्रदक्षिणां / पदाम्बुजं तद् अम्भो ऽपि पपात वियतः सरत् // rm_26.113{13} //

तत् समालोक्य सर्वे ते द्विजादि पौरिका जनाः / प्रसादिता मुनीन्द्रस्य सभायां समुपाचरन् // rm_26.114{14} //

सर्वे प्रदक्षिणीकृत्य कृतांजलिपुटा मुदा / भगावन्तं मुनिं नत्वा सर्वे ते समुपाश्रयन् // rm_26.115{15} //

स बुद्धोपासकश् चापि नत्वा तं श्रीघनं मुदा / तत् सद्धर्मामृतं पातुम् उपतस्थौ कृतांजलिः // rm_26.116{16} //

तीर्थिकोपासकः सो ऽपि तद् दृष्ट्वा विस्मयान्विताः / महद् बुद्धानुभावत्वं मत्वा द्रष्टुम् उपाश्रयत् // rm_26.117{17} //

ततः स भगवान् दृष्ट्वा सर्वान्स् तान् समुपस्थितान् / आर्यसत्यम् उपादिश्य पुनर् एवम् उपादिशत् // rm_26.118{18} //

शृणुध्वं साधवः सर्वे आर्यधर्मं समुच्यते / यत् त्रिरत्नं समाख्यातं तत् त्रिलोक्ये महत्तरं // rm_26.119{19} //

तद्यथा सर्वलोकानां त्रैधातुकनिवासिनां / सर्वेषाम् अपि भद्रार्थं सद्धर्मं संप्रकाशये // rm_26.120{20} //

स संबुद्धो जगच्छास्ता सर्वसत्वहितंकरः / जगन्नाथो जगत्त्राता बुद्धरत्नम् इदं वरं // rm_26.121{21} //

अत्र यैः श्रद्धया कर्मं दानादि सुकृतं कृतं / तेषाम् अग्रप्रसन्नानां विपाकैः फलम् उत्तमं // rm_26.122{22} //

अप्रमेयम् असंख्येयं संबोधिपददायकं / एवं मत्वात्र संबुद्धं भजत सर्वदा मुदा // rm_26.123{23} //

यावतश् चात्र संसारे संस्कृता वाप्य् असंस्कृताः / धर्मास् तेषां महान् अग्रो विरागो धर्मं उत्तमः // rm_26.124{24} //

धर्मरत्नम् इदं ये ऽत्र प्रभजन्ति प्रसादिताः / तेषाम् अग्रप्रसन्नानां विपाके फलम् उत्तमं // rm_26.125{12} //

अप्रमेयम् असंख्येयं संबोधिज्ञानदायकं / तद् एतत् सौगतं धर्मं श्रुत्वा भजंति संवरं // rm_26.126{13} //

यावन्तश् चात्र त्रैलोक्ये संघाः पूगा गणाः स्मृताः / तेषाम् अग्रो महान् ख्यातो बुद्धसंघो जगद्वरः // rm_26.127{14} //

संघरत्नम् इदं ये ऽत्र भजन्ति श्रद्धया मुदा / तेषाम् अग्रप्रसन्नानां विपाके फलम् उत्तमं // rm_26.128{15} //

अप्रमेयम् असंख्येयं संबोधिमार्गचालकं / तद् अत्र सौगते संघे भजत श्रद्धयादरात् // rm_26.129{16} //

इदं रत्नत्रयं ख्यातं सर्वसत्वशुभंकरं / वाञ्छितार्थप्रदं सिद्धं संबोधिज्ञानदायकं // rm_26.130{17} //

तद् एतत् त्रितयं रत्नं संबोधिपदवांछिभिः / सत्कृत्य श्रद्धया नित्यं पूजनीयं समादरात् // rm_26.131{18} //

ये त्रिरत्नं सदा नित्यं पूजयन्ति प्रसादिताः / न ते मारवशं याता भवंति बोधिलाभिनः // rm_26.132{19} //

इति मत्वा त्रिरत्नं तद् दृष्ट्वा कृत्वानुमोदनां / साञ्जलिप्रणतिं कृत्वा दूराद् वन्दितुम् अर्हथ // rm_26.133{20} //

इत्य् आदिष्टं मुनीन्द्रेण श्रुत्वा ते ब्राह्मणादयः / सर्वे लोकाः प्रसीदन्तस् त्रिरत्नशरणं ययुः // rm_26.134{21} //

तत्र के चिज् जना भद्राः संबुद्धशरणं गताः / शिक्षापदं समादाय प्राचरत् सौगतं व्रतं // rm_26.135{22} //

के चिद् भद्राशया विज्ञा संबुद्धशरणं गताः / प्रव्रज्याव्रतम् आदाय प्राचरद् ब्रह्मचारिकां // rm_26.136{23} //

ततः क्लेशान् विनिर्जित्य संसारभोग्यनिस्पृहाः / साक्षाद् अर्हत्पदं प्राप्य बभूव ब्रह्मचारिणः // rm_26.137{24} //

एतत् सर्वं समालोक्य तीर्थिकोपासको ऽपि सः / विस्मितः सुप्रसन्नात्मा त्रिरत्नं शरणं ययौ // rm_26.138{25} //

ततः स तैर्थिकस् तस्य मुनीन्द्रस्य पदाम्बुजे / साञ्जलिप्रणतश् चैवं प्रणिधानं व्यधान् मुदा // rm_26.139{26} //

अद्यारभ्य सदाप्य् अस्य मुनीन्द्रस्य जगद्गुरोः / सद्धर्मं समुपाश्रित्य त्रिरत्नोपासको भवे // rm_26.140{27} //

एतत्पुण्यविपाकेन लोके ऽन्धे ऽपरिनायके / संबोधिज्ञानम् आसाद्य भवेयं सुगतो जिनः // rm_26.141{28} //

अतीर्णां तारयिष्यामि मोचयिष्याम्य् अमोचितान् / सर्वान् आश्वासयिष्यामि ह्य् अनाश्वस्तान् सुदुःखिनः // rm_26.142{29} //

सत्वान् निर्वापयिष्यामि भवालयाद् अनिर्वृतान् / करिष्यामि सदा भद्रं त्रैधातुभुवनेष्व् अपि // rm_26.143{30} //

इति तेन कृतं बोधिप्रणिधानं स्वचेतसा / मत्वा स भगवान् स्मितं विससर्ज सरश्मिकं // rm_26.144{31} //

तदा ता रश्मयः पंचवर्णाः सर्वाः समंततः / लोकेषु प्रसृता भद्रं सौख्यं कृत्वा प्रसेरिरे // rm_26.145{32} //

या अधस्ताद् गताभासो सर्वत्र नरकेषु ताः / प्रसृता अवभास्यैवं भद्रसौख्यं प्रचक्रिरे // rm_26.146{33} //

तत्प्रभाभिः परिस्पृष्टा सर्वे ते नरकाश्रिताः / निर्दुःखा सौख्यम् आसाद्य विस्मयं समुपाययुः // rm_26.147{34} //

ततस् ते नारकाः सत्वाः सर्वे ते नरके स्थिताः / एकैकनरकेष्व् एवं संमील्य संवभाषिरे // rm_26.148{35} //

अहो चित्रं किम् अद्यैवं महत् सौख्यं प्रजायते / इतश् च्युताः किम् अन्यत्र समुत्पन्ना वयं खलु // rm_26.149{36} //

इति संवादिनां तेसां सर्वेषां संप्रबोधने / भगवान् निर्मितं बुद्धं प्रेरयन् नरके प्रति // rm_26.150{37} //

तं दृष्ट्वा नारकाः सर्वे विस्मिताः संप्रसादिताः / भूय एकत्र संमील्य मिथ एवं वभाषिरे // rm_26.151{38} //

अहो वयम् इतश् च्युत्वा नैवान्यत्र गताः खलु / किं त्व् अस्यापूर्वरूपस्य प्रभावान् नः शुभायते // rm_26.152{39} //

नूनम् अयं जगन्नाथो बुद्धो ऽस्मान् दुःखपीडितान् / समीक्ष्य कृपया दृष्ट्या समुद्धर्त्तुम् इहागतः // rm_26.153{40} //

तद् अस्यात्र वयं सर्वे सत्कृत्य श्रद्धयादरात् / सर्वदा शरणं गत्वा भक्तुम् अर्हामहे ऽधुना // rm_26.154{41} //

इति संभाषणां कृत्वा सर्वे ते संप्रसादिताः / अस्यैव शरणं गत्वा प्रणत्वा संप्रभेजिरे // rm_26.155{41!} //

ततस् ते नारकाः सर्वे तत्पापपरिमोचिताः / परिशुद्धाः शुभात्मानः सद्गतिं सहसा ययुः // rm_26.156{42} //

एवं तान् नारकान् सर्वाः समुद्धृत्य प्रभाश् च ताः / सर्वाः प्रत्यागतास् तत्र संबुद्धस्य पुरो ऽसरन् // rm_26.157{43} //

एवम् ऊर्द्धं गतायाश् च रश्मयस् ताः समंततः / सर्वान् देवालयां लोकान् अवभास्य प्रसेरिरे // rm_26.158{44} //

यावद् भवाग्रपर्यन्तम् अवभास्य समंततः / प्रसारिताः ततो गाथा निसृताः समचोदयन् // rm_26.159{45} //

अनित्यं खलु संसारं दुःखं शून्यम् अनात्मकं / पुण्यम् एव जगत्सारं तत् पुण्यं चिनुतादरात् // rm_26.160{46} //

निष्क्रामतारभध्वं तद् युज्यध्वं बुद्धशासने / धुनीत मृत्युसैन्यानि चरत सौगतं व्रतं // rm_26.161{47} //

यो ह्य् अस्मिन् सौगते धर्मे चरिष्यति समाहितः / स हित्वा जन्म संसारे दुःखस्यान्तं करिष्यति // rm_26.162{48} //

तत् त्रिरत्नं सदा यूयं संस्मृत्वा शरणं गताः / सत्कृत्य श्रद्धया नित्यं भजत बोधिप्राप्तये // rm_26.163{49} //

एवं तद् घोषम् आकर्ण्य सर्वदेवाः प्रबोधिताः / त्रिरत्नं शरणं कृत्वा प्रभेजिरे सदादरात् // rm_26.164{50} //

एवं ता रश्मयो देवाञ् चोदयित्वा समंततः / पुनः प्रत्यागतास् तत्र बुद्धान्तिकम् उपाययुः // rm_26.165{51} //

तत्र ता रश्मयः सर्वा एकीभूत्वाभिपिण्डिताः / त्रिधा प्रदक्षिणीकृत्य सूष्णीषे ऽन्तर्दधुर् मुनेः // rm_26.166{52} //

तद्दृष्ट्वा ससभालोकाः सर्वे ते विस्मयान्विताः / शास्ता किम् आदिशेद् धर्मम् इति ध्यात्वा निषेदिरे // rm_26.167{53} //

अथायुष्मान् महानन्दो मत्वा तल् लोकचिंतितं / उत्थाय सांजालिर् नत्वा पप्रछ तं मुनीश्वरं // rm_26.168{54} //

विगतोद्धवा दैन्यमदप्रहीणा बुद्धा जगत्य् उत्तमहेतुभूताः / नाकारणे शंखमृणालगौरं स्मितम् उपदेशयन्ति जिना जितारयः // rm_26.169{55} //

तत् कालं स्वयम् एवम् अधिगम्य धीर बुद्ध्या श्रोतॄणां श्रमण जिनेंद्र काङ्क्षितानां धीरभिर् / मुनिवृष वाग्भिर् उत्तमाभिर् उत्पन्नं व्यपनय संशयं शुभाभिः // rm_26.170{56} //

नाकस्माल् लवणजलाद्रिराजधैर्याः संबुद्धाः स्मितम् उपदर्शयन्ति नाथाः / यस्यार्थे स्मितम् उपदर्शयंति धीरास् तं श्रोतुं समभिलषन्ति जनोघाः // rm_26.171{57} //

तद् भवान् सर्वसत्वानां चित्ताभिपरिबोधने / यद् अभिलषितं कार्यं तद् उपदेष्टुम् अर्हति // rm_26.172{58} //

इति संप्रार्थिते तेन भगवान् स मुनीश्वरः / आयुष्मन्तं तम् आनंदं समालोक्यैवम् आदिशत् // rm_26.173{59} //

एवम् एतन् महानंद नाहेतुप्रत्ययं जिनाः / संबुद्धाः सुगताः सर्वे दर्शयन्ति स्मितं क्वचित् // rm_26.174{60} //

शृण्व् आनंद यदर्थे ऽहं स्मितं मुञ्चामि सांप्रतं / तदर्थं संप्रवक्ष्यामि सर्वसत्वप्रबोधने // rm_26.175{61} //

पश्यसि यद् अयं श्रेष्ठी तीर्थिकोपासको मुदा / ममात्र शरणं गत्वा प्रणिधानं करोति हि // rm_26.176{62} //

एतत्पुण्यविपाकेन त्रिकल्पान्तम् अनात्मवित् / क्रमाद् बोधिचारीः सर्वाः परिपूर्य भवेत् सुधीः // rm_26.177{63} //

ततः क्लेशगणाञ् जित्वा सर्वान् मारगणान् अपि / बोधिं प्राप्याचलो नाम तथागतो भविष्यति // rm_26.178{64} //

इत्य् आदिष्टं मुनीन्द्रेण श्रुत्वानंदादि भिक्षवः / सर्वे ते सुप्रसन्नास्याः प्राभ्यनन्दन् सविस्मयाः // rm_26.179{65} //

तथा तेन मुनीन्द्रेण व्याख्यातं स तैर्थिकः / श्रुत्वानुमोदनां कृत्वा प्राभ्यनन्दन् सविस्मयः // rm_26.180{66} //

ततः स सर्वदा नित्यं सत्कृत्य श्रद्धया मुदा / त्रिरत्नभजानं कृत्वा प्राचरत् सौगतं व्रतं // rm_26.181{67} //

इति मे गुरुणाख्यातं श्रुतं मया तथोच्यते / त्वम् अप्य् एवं महाराज त्रिरत्नसेवको भव // rm_26.182{68} //

प्रजाश् चापि तथा राजं बोधयित्वा प्रयत्नतः / त्रिरत्नभजनोत्साहे संचारयितुम् अर्हसि // rm_26.183{69} //

तथा ते सर्वदा नित्यं सर्वत्रापि शुभं भवेत् / क्रमाद् बोधिं समासाद्य संबुद्धपदम् आप्नुयात् // rm_26.184{70} //

इति तेनार्हतादिष्टं श्रुत्वाशोकः स भूपतिः / सत्यम् इति प्रतिज्ञाय प्राभ्यनान्दत् स पार्थिकः // rm_26.185{71} //

शृण्वन्तीदं नरा ये मुनिवरकथितं तैर्थिकस्यावदानं ये चापि श्रावयन्ति प्रमुदितमानसः श्रद्धया भक्तियुक्ताः / ते सर्वे बोधिसत्वाः सकलगुणभरा भद्रचर्या चरन्तो भुक्त्वा सत्सौख्यभद्रं जिनवरनिलये संप्रयान्ति प्रमोदाः // rm_26.186{72} //

++ इति श्रीरत्नावदानतत्वे तैर्थिकावदानं समाप्तम् ++

xxvii mālikāvadāna अथाशोको महीनाथः कृतांजलिपुटो मुदा / उपगुप्तं तम् अर्हन्तं प्रणत्वा प्रार्थयत् पुनः // rm_27.1{1} //

भदन्त श्रोतुम् इछामि पुनर् अन्यत् सुभाषितं / तद्यथा गुरुणादिष्टं तथादेष्टुं त्वं अर्हति // rm_27.2{2} //

इति तेन नरेन्द्रेण प्रार्थितं स यतीश्वरः / उपगुप्तो नरेन्द्रन् तं समालोक्यैवं आदिशत् // rm_27.3{3} //

शृणु साधु महाराज यथा मे गुरुणोदितं / तथाहं तत् प्रवक्ष्यामि तव पुण्यविवृद्धये // rm_27.4{4} //

तद्यथा भगवान् बुद्धः शाक्यसिंहो जगद्गुरुः / सर्वज्ञः सुगतः शास्ता धर्मराजो मुनीश्वरः // rm_27.5{5} //

एकस्मिन् समये तत्र श्रावस्त्या उपकण्ठिके / जेतारण्ये महोद्याने विहारे श्रावकैः सह // rm_27.6{6} //

भिक्षुभिश् चैलकैश् चापि भिक्षुणीभिर् उपासकैः / उपासिकाभिर् अन्यैश् च बोधिसत्वगणैर् अपि // rm_27.7{7} //

सर्वसत्वहितार्थेन बोधिचर्यं प्रकाशयन् / सद्धर्मं समुपादिश्य विजहार प्रभासयन् // rm_27.8{8} //

तत् सद्धर्मामृतं पातुं सर्वे लोकाः समागताः / शक्रादयो ऽपि देवेन्द्रा ब्रह्मादिलोकपालकाः // rm_27.9{9} //

दैत्येंद्रा गरुडा नागा यक्षगंधर्वकिंनराः / सिद्धा विद्याधराश् चापि राक्षसाश् च महर्द्धिकाः // rm_27.10{10} //

ऋषयो ब्राह्मणा चापि क्षत्रियाश् च नराधिपाः / वैश्या राजकुमाराश् च मंत्रिणो ऽमात्यका जनाः // rm_27.11{11} //

गृहस्थाः सार्थवाहाश् च वणिजः शिल्पिनो ऽपि च / पौरा जानपदा ग्राम्या अन्ये कार्पटिका अपि // rm_27.12{12} //

सर्वे ते समुपागत्य तत्र तं श्रीघनं मुनिं / दृष्ट्वा प्रदक्षिणीकृत्य प्रणत्वा समुपाचरन् // rm_27.13{13} //

यथाक्रमं समभ्यर्च्य नत्वा सांजलयो मुदा / परिवृत्य पुरस्कृत्य सर्वे ते समुपाश्रयन् // rm_27.14{14} //

तान् सर्वान् समुपासीनां दृष्ट्वा स भगवान् मुनिः / आर्यसत्यं समारभ्य दिदेश धर्मम् उत्तमं // rm_27.15{15} //

तद् धर्मं समुपाकर्ण्य सर्वे ते संप्रबोधिताः / धर्मवैशेषम् आज्ञाय बभुवुर् बोधिवांछिताः // rm_27.16{16} //

तदा तत्र पुरे राजा प्रसेनजित् कौशलः / यदा न सुगतस् तत्र तदा तीर्थिकभाग् अभूत् // rm_27.17{17} //

यदा तु सुगतस् तत्र ससांघिकः समागतः / तदा स नृपतिर् नित्यं श्रीघनं तं सदाभजत् // rm_27.18{18} //

तस्मिंश् च समये तत्र कश्चिद् आरामिको वनात् / नवं पद्मैः समादाय राज्ञे दातुं पुरे ऽविशत् // rm_27.19{19} //

तत्रैकपथि तं दृष्ट्वा तीर्थिकोपासिको मुदा / सहसा तस्य पुरो गत्वा प्रार्थयत् तं सरोरुहं // rm_27.20{20} //

भो मालिन्न् इदं पद्मं यदि विक्रेतुम् इछसि / उचितं मूल्यम् आदाय मह्यं दातुं त्वम् अर्हसि // rm_27.21{21} //

इति तेनार्थितं श्रुत्वा मालिकः लुभिताशयः / यदीछति भवान् दद्याम् इति तं दातुम् ऐछत // rm_27.22{22} //

तस्मिन्न् एव क्षणे तत्र गृहस्थो ऽनाथपिण्डदः / पुष्पार्थी समुपायातो मालिकं तम् अपृछत // rm_27.23{22} //

भो मालिन्न् इदं पद्मं यदि विक्रेतुम् इछति / द्विगुणं मूल्यम् आदाय भवान् मे दातुम् अर्हति // rm_27.24{23} //

इति तेनोदितं श्रुत्वा तीर्थिकोपासको ऽपि सः / तद्द्विगुणेन मूल्येन तद् पद्मं समयाचत // rm_27.25{24} //

इति तेनार्थितं श्रुत्वा स चाप्य् अनाथपिण्डदः / तद्द्वैगुण्येन मूल्येन कमलं तम् अयाचत // rm_27.26{25} //

तच् छ्रुत्वा तैर्थिकः सो ऽपि मददर्पाभिमानिनः / तत्त्रिगुणमूल्येन गृहीतुं तं समैछत // rm_27.27{26} //

तद् दृष्ट्वा स गृहस्थेणानाथपिण्डदोत्सही / चतुर्गुणेन मूल्येन पद्मं तम् अभ्ययाचत // rm_27.28{27} //

एवं तौ गृहपती सो थ यावच् छतसहर्स्रकैः / मूल्य तं पद्मम् आदाय मालिनं तं ययाचतुः // rm_27.29{28} //

तद् दृष्ट्वारामिकः स ऽपि प्रवर्द्धयन् परस्परं / तयोर् द्वयोर् अदत्वैव मनसैवं व्यचिंतयत् // rm_27.30{29} //

अयं गृहपतिः श्रेष्ठो ह्य् अनाथपिण्डदः सुधीः / अचपलो महाधीरः स्थिरसत्वो विचक्षणः // rm_27.31{30} //

कस्यार्थे न्व् इदं पद्मम् इयन् मूल्येन याचते / नूनम् अत्र महद्धेतुर् भविष्यति न संशयः // rm_27.32{31} // तद् एतत् परिपृछाव दास्यामि सद्गुणार्थिने // rm_27.33{32} // इति ध्यात्वा स्वचित्तेन स आरामिक उत्सुकः / तैर्थिकं तं समालोक्य पप्रछैवं समादरात् // rm_27.34{33} //

भो पुरुष भवान् कस्य कार्यस्यार्थे इदं कजं / इयन्मूल्येन विक्रेतुम् इछति तद् वदस्व मे // rm_27.35{34} //

इति तेनोदितं श्रुत्वा स तैर्थिकः प्रमोदितः / आरामिकं तम् आलोक्य प्रबोधयितुम् अब्रवीत् // rm_27.36{35} //

यः श्रीपतिर् जगद्भर्त्ता नारायनो जनार्दनः / तस्य पूजां करिष्यामि तद् इदं देहि मे ऽम्बुजं // rm_27.37{36} //

इति तेनोदितं श्रुत्वारामिको सानुबोधितः / अनाथपिण्डदं तं च दृष्ट्वा कार्यम् अपृछत // rm_27.38{37} //

भो साधो भवंश् चापि किम् अर्थम् इदम् अम्बुजं / बहुमूल्यैव समाहर्त्तुम् इछति तद् वदस्व मे // rm_27.39{38} //

इति तद् वचनं श्रुत्वा सो ऽनाथपिण्डदः सुधीः / आरामिकं तम् आलोक्य प्रबोधयितुम् अब्रवीत् // rm_27.40{39} //

साधु साधु महाभाग यद् इदं ते सरोरुहं / बहुमूल्येन वांछामि तद् अर्थं कथ्यते शृणु // rm_27.41{40} //

यो ऽत्र शौद्धोदनी राजा चक्रवर्त्ती नृपाधिपः / सर्वसत्वहितार्थेन संबोधिसाधनोद्यतः // rm_27.42{41} //

सर्वत्र भुवने लोके क्लेशाकुलासमाहिते / बोधिचर्याविहीने ऽत्र म्लेछधर्मप्रवर्त्तते // rm_27.43{42} //

बोधिचर्यां स्वयं धृत्वा प्रकाशयितुम् उद्यतः / सर्वराज्यं परित्यज्य सर्वांश् चापि परिग्रहान् // rm_27.44{43} //

वैराग्यधर्मम् आश्रित्य संसारभोगनिस्पृहः / गयाशीर्षे नगे गत्वा कृत्वा तपः सुदुष्करं // rm_27.45{44} //

ततो लोके हितं कर्तुं समुत्थाय समाहितः / बोधिवृक्षतलासीनस् तस्थौ ध्यानसमाहितः // rm_27.46{45} //

तत्र मारगणान् सर्वाञ् जित्वा क्लेशगणान् अपि / संबोधिज्ञानं आसाद्य बुद्धो भवति सांप्रतं // rm_27.47{46} //

सो ऽयं बुद्धो जगच्छास्ता जगन्नाथो जगद्गुरुः / जगद्भर्त्ता जगत्त्रायी धर्मराजा मुनीश्वरः // rm_27.48{47} //

सर्वज्ञः सुगतः श्रिमान् षडभिज्ञो विनायकः / सत्यवादी महाधीरः सत्यधर्मशुभार्थभृत् // rm_27.49{48} //

समन्तभद्ररूपांशः सौम्यरूपो जितेंद्रियः / द्वात्रिंशल्लक्षणाशीतिव्यंजनप्रतिमंडितः // rm_27.50{49} //

भगवाञ् छ्रीघनो ब्रह्मविहारिको गुणाकरः / सर्वत्रैधातुकाधीशःसर्वदुष्टप्रशान्तकृत् // rm_27.51{50} //

सर्वमारविजेतार्हं संबोधिमार्गदेशकः / वाञ्छितार्थप्रदातारश् चिंतामणिगुणाधिकः // rm_27.52{51} //

शुद्धशीलः शुभाचारः क्षान्तिव्रतधरः सुधीः / सर्वसत्वहितोद्योगी निःक्लेशः सर्वजित् कृती // rm_27.53{52} //

समाधिध्यानसंरक्तः संबोधिधर्मभास्करः / प्रज्ञानिधिर् महाविज्ञः सर्वविद्याविशारदः // rm_27.54{53} //

सर्वोपायविधानज्ञः प्रणिधिपारतारकः / त्रैलोकविजयी वीरः संबोधिकार्यपूरकः // rm_27.55{54} //

विज्ञानोर्मिसमाधिस्थः संबोधिज्ञानरत्नभृत् / सर्वसत्वशुभंकारी सर्वाकारस्वरूपिकः // rm_27.56{55} //

शाक्यमुनिर् महाबुद्धो जिनेश्वरस् तथागतः / सर्वसत्वहितार्थेन सर्वत्र समुपाचरन् // rm_27.57{56} //

भासयन् सकलान् लोकान् भद्रं कृत्वा समंततः / इहापि सर्वसत्वानां भद्रं कर्तुं समागतः // rm_27.58{57} //

सांप्रतं जेतकारामे विहारे सह सांघिकैः / सद्धर्मम् आदिशन् नित्यं विहरति प्रभासयन् // rm_27.59{58} //

तस्य पूजाम् अहं कर्तुम् इछामि सांप्रतं खलु / तदर्थे बहुमूल्येन याचामीदं सरोरुहं // rm_27.60{59} //

तद् भवान् मूल्यम् आदाय देहि मे इदम् अम्बुजं / यथाभिलषितं द्रव्यं दास्यामि ते प्रसाणयन् // rm_27.61{60} //

श्रद्धयेदं प्रदत्तं चेत् त्वयाहं संप्रमोदितः / एतत्पुण्यविपाकेन बोधिचित्तम् अवाप्स्यसि // rm_27.62{61} //

सर्वदा सद्गतिं यायाद् दुर्गतिं न कदा चन / क्रमाद् बोधिचरीः पूर्य संबोधिम् अपि प्राप्नुयाः // rm_27.63{62} //

एवं मत्वा भवान् साधो यदि संबोधिम् इछति / यथाभिलषितं द्रव्यम् आदायेदं प्रदेहि मे // rm_27.64{63} //

इति तेनार्थितं श्रुत्वा स मालिकः प्रमोदितः / तं गृहस्थम् अनाथानां भर्त्तारम् एवम् अब्रवीत् // rm_27.65{64} //

अहो बुद्धो महाभिज्ञो दृश्यते न कदा चन / ईदृग् महद् गुणं चापि श्रुयते न क्वचिन् मया // rm_27.66{65} //

तद् अहं तं जगन्नाथं द्रष्टुम् इछामि सांप्रतं / तत् सद्धर्मामृतं पातुं वांछा मे जायते खलु // rm_27.67{66} //

तस्मात् तत्र स्वयं गत्वा संबुद्धं तं मुनीश्वरं / अनेन पुण्डरीकेन पूजयिष्ये ऽहम् आदरात् // rm_27.68{67} //

तद् भवान् कृपया साधो संबुद्धस्य जगद्गुरोः / नीत्वा माम् आश्रमे तत्र सद्धर्मे योक्तुम् अर्हति // rm_27.69{68} //

इति तेनार्थितं श्रुत्वा सो ऽनाथपिण्डदो मुदा / मालिकं तं समालोक्य पुनर् एवम् अभाषत // rm_27.70{67} //

साधु साधु महाभाग कुरुष्वेवं यदीछसि / प्रागछ त्वं मया सार्द्धं पूजये तं मुनीश्वरं // rm_27.71{68} //

इत्य् उक्त्वा मालिकं तं स गृहपतिः प्रसादयन् / आदाय जेतकारामे विहारे समुदाचरत् // rm_27.72{69} //

तत्र तेन सहायेभ्य सो ऽनाथपिण्डदो गृही / सांजलिस् तं जगन्नाथं नत्वैकान्ते समाश्रयत् // rm_27.73{70} //

ततः स मालिको द्राक्षीच् छ्रीघनं तं मुनीश्वरैः / सभामध्यासनासीनं भिक्षुसंघपुरस्कृतं // rm_27.74{71} //

द्वात्रिंशल्लक्षणाशीतिव्यांजनप्रतिमण्डितं / रत्नराशिम् इवोज्वालं व्योमप्रभाभ्यलंकृतं // rm_27.75{72} //

समंतभद्ररूपांशं सौम्यरूपं शुभेन्द्रियं / दृष्ट्वा स मुदितो नत्वा कृत्वा त्रिधा प्रदक्षिणं // rm_27.76{73} //

तत् पद्मं पुरतः क्षिप्त्वा कृतांजलिः पुरो मुदा / नत्वा पादौ मुनेस् तस्य तत्रैकान्ते समाश्रयत् // rm_27.77{74} //

क्षिप्तमात्रं च तत्पद्मं सहसाकाशं संसरन् / छत्रीभूत्वा मुने मूर्द्ध्नर् उपरिस्थं व्यराजत // rm_27.78{75} //

तद् दृष्ट्वा ते सभालोकः सर्वे ते विस्मयान्विताः / अहो बुद्धस्य माहात्म्यम् इति प्रोक्त्वा प्रसेदिरे // rm_27.79{76} //

तद् दृष्ट्वा मालिकः स ऽतिविस्मयानंदिताशयः / उत्थाय सहसा शस्तुः पादयो न्यपतन् नतः // rm_27.80{77} //

ततः स सांजलिर् नत्वा पादाब्जवोर् जगद्गुरोः / संबुद्धपदलाभाय प्रणिधानं व्यधाद् धृदो // rm_27.81{78} //

एतत्पुण्यविपाकेन लोके ऽन्धे ऽपरिनायके / क्लेशाकुले विनष्टे ऽहं भूयासं सुगतो जिनः // rm_27.82{79} //

स्वयं तर्त्तुम् अशक्तानं तारयिता भवोदधिं / तथा क्लेशाब्धिमग्नानां समुद्धर्त्ता विमोचाकाः // rm_27.83{80} //

धर्मे ऽनाश्वसितानं च सादाश्वासयितापि वै / अदृष्टबोधिमार्गानां दर्शयिता भवेय हि // rm_27.84{81} //

इति तेन कृतं मत्वा प्रणिधानम् स सर्ववित् / भगवान् मुदितः प्राविरकार्षीत् स स्मितं तदा // rm_27.85{82} //

तत्र स्मिते मुनीन्द्रस्य मुखपद्माद् विनिर्गताः / सुरश्मयः पंचवर्णाः प्रसेस्रुस् त्रिजगत्स्व् अपि // rm_27.86{83} //

या अधस्ताद् गताभासस् ता सर्वनरकेष्व् अपि / अवभास्य शुभं कृत्वा प्रचक्रु दुःखनाशणं // rm_27.87{84} //

तत्प्रभाभिः परिस्पृष्ट्वा सर्वे ते नरकाश्रिताः / दुःखमुक्ता सुखस्पृष्टा विस्मिता एवम् अब्रुवन् // rm_27.88{85} //

अहो किं नु महासौख्यम् अस्माकं जायते ऽधुना / इतश् च्युताः कुहान्यत्र समुत्पन्ना वयं नु किं // rm_27.89{86} //

इति चिन्तापरितानां तेषां चित्तप्रबोधने / भगवान् निर्मितं बुद्धं प्रेषयत् प्रति नैरयं // rm_27.90{87} //

तद् दृष्ट्वा नरकस्थास् ते सर्वे ऽतिविस्मयान्विताः / परस्परं समालोक्य पुनर् एवं वभाषिरे // rm_27.91{88} //

भवन्तो नो इतश् च्युत्वा नान्यत्र संगता वयं / इहैव नरके स्थाः स्म कुत्रापि चलिता न हि // rm_27.92{89} //

किं त्व् अयं समुपायाता ह्य् अपूर्वदर्शनः पुमान् / नूनम् अस्यानुभावेन जायते शुभता ऽधुना // rm_27.93{90} //

नूनम् अयं महासत्वो दृष्ट्वास्मान् दुःखपीडितान् / कृपया सर्वथोद्धर्त्तुं नरके ऽत्र समागतः // rm_27.94{91} //

तद् अस्य समुपाश्रित्य प्रकृत्वा शरणं सदा / प्रणत्वा श्रद्धया नित्यं भजेमहि समादरात् // rm_27.95{92} //

इति संभाष्य ते सर्वे नारकीयाः प्रबोधिताः / तं बुद्धं शरणं गत्वा प्रणत्वा प्राभजन् मुदा // rm_27.96{93} //

तद्भजनोद्भवैः पुण्यैः सर्वे ते नरकोत्थिताः / सहसा सद्गतिं याता बभूवुर् धर्मभाजनाः // rm_27.97{94} //

एवं ता रश्मयः सर्वाः सर्वांस् तान् नरकाश्रितान् / समुद्धृत्य पुनस् तत्र जगच्छास्तुर् उपाययुः // rm_27.98{95} //

या चाप्य् ऊर्द्ध्वं गताभासस् तावभास्य दिशो ऽष्ट च / यावद् भवाग्रपर्यन्तम् अवभास्याभिप्रासरन् // rm_27.99{96} //

गाथाभिश् च सुरान् सर्वान् दिव्यकायसुखारतान् / समन्ततो महच्छब्दं रुच्चैर् एवम् अचोदयन् // rm_27.100{97} //

अनित्यं सर्वसंसारं दुःखं शून्यम् अनात्मकं / इति मत्वा शुभे धर्मं सर्वदा चरतादरात् // rm_27.101{98} //

निष्क्रामतारभध्वं तद् युज्यध्वं बुद्धशासने / त्रिरत्नशरणं कृत्वा भजध्वं सर्वदादरात् // rm_27.102{99} //

यो ह्य् अस्मिं सौगते धर्मे चरिष्यति समाहितः / स हित्वा जन्म संसारे दुःखस्यान्तं करिष्यति // rm_27.103{100} //

एतच् छब्दं समाकर्ण्य सर्वे देवाः प्रबोधिताः / त्रिरत्नशरणं कृत्वा प्रभेजिरे समाहिताः // rm_27.104{1} //

एवं ताः रश्मयः पंचः सर्वांल् लोकान् सुरान् अपि / त्रिरत्नशरणे स्थाप्य पुनर् मुनेर् उपाययुः // rm_27.105{2} //

तत्र ता रश्मयः सर्वा एकीभूता च पिण्डिताः / जिनं प्रदक्षिणीकृत्य तद् उष्णीषे विशेत् पुनः // rm_27.106{3} //

तद् दृष्ट्वा ते सभालोकाः सर्वे ते विस्मयान्विताः / किम् आदेशेन् मुनीन्द्रो ऽयम् इति ध्यात्वा निषेदिरे // rm_27.107{2} //

अथा युष्मान् स आनन्दो मत्वा तेषां वितर्कितं / उत्थाय सांजलिर् नत्वा भगवन्तं तम् अब्रवीत् // rm_27.108{5} //

भगवन् भवता केन हेतुना सृज्यते स्मितं / नाहेतु सुगताः सर्वे विहसन्ति कदा चन // rm_27.109{6} //

यदर्थे हेतुना स्मितं भवान् मुंचति सांप्रतं / तदर्थं श्रोतुम् इछन्ति सर्वे लोका इमे खलु // rm_27.110{7} //

यदर्थेन भवान् स्मितं प्रकरोति जगद्गुरो / तदर्थं समुपादिश्य सर्वान् लोकान् प्रबोधय // rm_27.111{8} //

इत्य् आनन्दोदितं श्रुत्वा भगवान् स मुनीश्वरः / सर्वान् लोकान् समालोक्य तम् आनंदं चाब्रवीत् // rm_27.112{9} //

एवम् एतन् महानंद नाहेतुप्रत्ययं क्वचित् / सर्वबुद्धाः प्रमुंचन्ति स्मितं किंचित् कदा चन // rm_27.113{10} //

पश्य त्वं यद् अयं साधु आरामिकः प्रसादितः / ममैवं श्रद्धया पूजां करोति श्रद्धया मुदा // rm_27.114{11} //

एतत्पुण्यविपाकेन मालिको ऽयं सुबुद्धिमान् / बोधिचित्तं समासाद्य बोधिचर्यां चरन् क्रमात् // rm_27.115{12} //

सर्वाः पारमिताः पूर्य्य सर्वान् मारगणान् विनिजयन् / सम्यक्षंबोधिम् आसाद्य निःक्लेशो ऽर्हन् मुनीश्वरः // rm_27.116{13} //

दशबलो जगन्नाथः सर्वसत्वहितार्थभृत् / पद्मोत्तमो ऽभिधो बुद्धस् तथागतो भविष्यति // rm_27.117{14} //

यद् अयं मम सद्धर्मसाधने ऽभिप्रसादितः / संबोधिप्रणिधिं धृत्वा करोति श्रद्धयार्चनां // rm_27.118{15} //

एवं ये श्रद्धया नित्यं त्रिरत्नं शरणं गताः / भजन्ति ते जनाः सर्वे भवेयुः सुगतात्मजाः // rm_27.119{16} //

ततस् ते सर्वसत्वानां हितार्थेषु समुद्यताः / बोधिसत्वा महासत्वा भविष्यंति गुणाकराः // rm_27.120{17} //

ततः पारमिताः सर्वाः परिपूर्य यथाक्रमं / ततः संबोधिम् आसाद्य भवेयुः सुगता अपि // rm_27.121{18} //

एवं मत्वात्र संसारे संबोधिज्ञानवांछिभिः / त्रिरत्नभजनं कृत्वा चरितव्यं सदा शुभे // rm_27.122{19} //

इत्य् आदिष्टं मुनीन्द्रेण श्रुत्वानंदादयो ऽपि ते / भिक्षवः सांघिकाः सर्वे प्राभ्यनन्दन् प्रबोधिताः // rm_27.123{20} //

सर्वे लोकाश् च ते सर्वे श्रुत्वैवं श्रीघनोदितं / त्रिरत्नशरणं कृत्वा प्रभेजिरे ऽनुमोदिताः // rm_27.124{21} //

एवं शास्त्रा मुनीन्द्रेण व्याकृतं स्वयम् आत्मनः / श्रुत्वा सभान्तिकश् चापि प्राभ्यनन्दत् प्रमोदितः // rm_27.125{22} //

तदारभ्य सदा नित्यं मालिकः सो ऽनुमोदितः / त्रिरत्नभजनं कृत्वा प्राचरद् बोधिचारिकां // rm_27.126{23} //

ततः सानाथपिण्डो ऽपि तेन सह प्रमोदितः / सांजलिस् तं जगन्नाथं नत्वा स्वे निलये ययौ // rm_27.127{24} //

तत्र स मालिको गेहे भार्यया सह मोदितः / त्रिरत्नशरणं कृत्वा प्राचरत् सर्वदा शुभं // rm_27.128{25} //

ततस् तं सौगते धर्मे ऽनुचरन्तं निशम्य सः / तीर्थिकोपासिको रुष्टो उपेत्य पर्यभाषत // rm_27.129{26} //

अरे रे दुर्मते पापिन् किम् एवं चरसे ऽशुभे / सर्वथा त्वं परिभ्रष्टो नरके दुःखम् आप्स्यसि // rm_27.130{27} //

यद् अपात्रे दुराचारे मिथ्याधर्माभिभाषिनी / उपेत्य भजनं कृत्वा विनोषि किल्विषं महत् // rm_27.131{28} //

भजन्ते ये नरा बुद्धं न ते गछन्ति सद्गतिं / दुर्गतिम् एव ते याताश् चरन्त्य् अशुभे सदा // rm_27.132{29} //

कदा चिद् अपि तद् गेहे भद्रं न जायते क्वचित् / लक्ष्मीश् चापि वसेन् नैव यतो धर्मो विनश्यते // rm_27.133{30} //

किं चिन् नास्ति शुभाचारं तस्य भिक्षाशिनो ऽयतेः / किम् एवं श्रद्धया नित्यं भजसे सद्गुरोर् इव // rm_27.134{31} //

कृपणो यः स्वयं भ्रष्टः परांश् च भ्रंशयेद् इह / अधर्मे ये ऽपि सद्धर्मम् इत्य् आख्यायाभिवंचते // rm_27.135{32} //

स किं शास्ता सुधीर् विज्ञो धर्मराजो मुनीश्वरः / सद्भिर् न पूजनीयो ऽसौ निंदनीयो हि दुर्गतिः // rm_27.136{33} //

इति सत्यं मयाख्यातं हितार्थं ते शुभार्थिनः / यदि धर्मे ऽस्ति ते वांछा श्रुत्वास्मद्वचनं चर // rm_27.137{34} //

तद् बुद्धसंगतिं त्यक्त्वा तीर्थे स्नात्वा समाहितः / ब्रह्मणं विष्णुम् ईशानं भज नित्यं यथाविधिं // rm_27.138{35} //

ब्राह्मणं ये भजंत्य् अत्र सर्वे ते ब्रह्मचारिणः / परिशुद्धाशया भद्रा संप्रयान्ति सुरालयं // rm_27.139{31} //

ये भजन्ति सदा विष्णुं न ते गछंति दुर्गतिं / सद्गतिं सर्वदा याता भवन्ति मनुजाधिपाः // rm_27.140{32} //

ये भजन्ति महारुद्रं न ते गछन्ति नारके / सर्वसौख्यानि संभुक्त्वा यान्ति चान्ते शिवालयं // rm_27.141{33} //

एवं मत्वात्र संसारे यदि सौख्यं सदेछसि / तद् एताण् त्रिजगन्नाथान् भज नित्यं प्रपूजयन् // rm_27.142{34} //

एतन् मे वचनैः श्रुत्वा भज तान् सद्गुरून् यतीन् / तेषां सद्धर्मम् आकर्ण्य चर नित्यं शुभे व्रते // rm_27.143{35} //

तथा ते मंगलं नित्यं सर्वदात्र भवेद् ध्रुवं / अन्ते पापविनिर्मुक्ताः प्रयान्ति त्रिदशालयं // rm_27.144{36} //

इति तेनोदितं श्रुत्वा मालिकः स विरोषितः / तैर्थिकं तं समारभ्य परिभाष्यैवम् अब्रवीत् // rm_27.145{37} //

आ किम् एवं वदस्य् अत्र मा मैवं वदथाः पुनः / त्वम् एव नरकं याया निन्दसे यन् मुनीश्वरं // rm_27.146{38} //

शृण्व् अत्राहं प्रवक्ष्यामि संबुद्धे गुणम् अल्पकं / विस्तरेण कथं वक्तुं शक्यते ऽल्पशिया मया // rm_27.147{39} //

तथापि कथ्यते ऽल्पत्वात् तवाभिबोधने मया / श्रुत्वा त्वया विचार्यैव सद् असच् च परीक्ष्यतां // rm_27.148{40} //

संबुद्ध एव भगवान् सुगुणी न विष्णुः संशस्यते न हिरण्यगर्भः / तेषां सुभद्रचरितातिशयप्रभावाञ् छ्रुत्वा विचारयत को गुणवान् न वेति // rm_27.149{41} //

विष्णुः समुद्यततहो विघृणैः प्रमायी रुद्रो विभूत्यजकयोलधरः प्रमत्तः / एकान्तशान्तचरिताशयस् तु बुद्धः कं पूजयेमहि सुशान्तम् अशान्तरूपं // rm_27.150{36!} //

दुर्योधनादि नृपनाशकरः स चक्री हरस् त्रिपूरनाशकः पिनाकी / क्रौंचं गुहो ऽपि दृढशक्ति हते चकार बुद्धस्तोकवलमयस् तु जगतां हितेषी // rm_27.151{67} //

पीड्याममायमयम् एव तु रक्षणीयो वध्यो यम् इत्य् अपि सुरोत्तमनीतिर् एषा / निःश्रेयसात्युदयसौख्यहितैकबुद्धिर् बुद्धस्य नैवरिदवोनहिवं // rm_27.152{68} //

रागादि दोषजनितानि वचान्सि विष्णोर् उन्मत्तचेष्टितकराणि च यानि शम्भोः / निःशेषदोषशमकारिततथागतस्य वंद्यत्वम् अर्हति च को ऽत्र विचारयध्वं // rm_27.153{69} //

यश् चोद्यतः परिवधाय घृणां विहाय त्राणाय यश् च जगतः कृपया प्रवृत्तः / रागी च यो भवति यश् च विमुक्तरागः पूज्यंस् तयोः क इह तं वदतानुचिन्त्य // rm_27.154{70} //

शक्रं वज्रधरं बलं हलधरं कृष्णं च चक्रायुधं स्कंदं शक्तिधरं श्मशानविलयं रुद्रं त्रिशूलायुधं / एतान् दुःखभयाङ्कितान् गतघृणान् बालान् विचित्रायुधान् नित्यं प्राणिवधोद्युते प्रहरणान् कस् तान् नमस्येद् बुधः // rm_27.155{71} //

न यः शूलं धत्ते न च सुरतिम् अङ्के सुवदनां न चक्रं शक्तिं वा न च कुलिशम् उग्रं रव हलं विनिर्मुक्तं क्लेशैः परहितविधानाद्यतधियं / शरण्यं लोकानं तम् ऋषिम् उपयातास्मि शरणं // rm_27.156{72} //

रुद्रो रागवशात् स्त्रियं वहति यो हिंस्या ह्रिया वर्जिता विष्णुः क्रूरतरः कृतघ्नचरितः स्कंधः स्वयंज्ञाति ह / क्रूरास्या महिषान्तकृन् नरवशा मान्साशिनी पार्वती पानेप्सी च विनायको दशबलो स्रस्तो ह्य् अदोषः सुहृत् // rm_27.157{73} // वंधुर् नभे स भगवान् न रिपुर् न चान्यः शास्ता त्रिलोकगुरुर् एकतमो ऽपि धीरः श्रुत्वा वचःसुचरितातिशयप्रभावं बुद्धं गुणातिशयलोभतयाश्रिताः स्मः // rm_27.158{74} // नास्माकं सुगतः पिता न रिपवस् तीर्थ्यांधनं नैव ते / दत्तं तेन तथागतेन च हृतं किंचित् कणादादिभिः / किं त्व् एकांतजगद्धितः स भगवान् बुद्धो यतश् चामलं वाक्यं सर्वमलापहारिच यतस् तद् भिक्तवंतो वयं // rm_27.159{75} //

हितेषी यो नित्यं सततम् उपकारीव जगतः कृतं येन स्वास्थ्यं बहुविधरुजार्त्तस्य जगतः / गूढं यश् च ज्ञे भयं करतलम् इवावैति सकलं प्रपद्यध्वं सन्तस् तेमृषिवरदरं भक्तिमनसः // rm_27.160{76} //

असर्वभावेन यदृच्छया वा परानुवृत्य विचिकित्सया वा / ये तं नमस्यन्ति मुनीन्द्रचंद्रं ते ऽप्य् आमरीसंपदम् आप्नुवंति // rm_27.161{77} //

पौराणीश्रुतिनेष लोकमहितो बुद्धः किलायं हरिर् दृष्ट्वा जन्मजराविपत्तिवशगं लोकं कृपाभ्युद्यतः / जातः शाक्यकुलेन्दुरच्युतमतिस् त्राता नृणां गौतमः शास्तारं हितम् एव कस् तम् अधुना नावैति मूढो जनः // rm_27.162{78} //

यदा रागद्वेषाद् असुरसुरदारापहरणं कृतं मायाद्वित्वं धरणिहरणाशक्तमतिना / तदा पूज्यो वन्द्यो हरिर् अपरिमुक्तो ऽबुधतया विनिर्मुक्तं बुद्धं न नमति जनो माहवहुलः // rm_27.163{79} //

चतुर्जलधिमेखलाकुरतम्बभारालसां महीं महतीं विसृज्य हरयेवापकष्टां वलिः / प्रदाय मुनये तु पांशुलवम् अप्य् अशोको नृपः क्षितिं सकलचंद्रमण्डलतराञ् च संप्राप्तवान् // rm_27.164{80} //

यक्षपातो न मे बुद्धेन द्वेषटकपिलादिषु / मुक्तिमच् च वचो यस्य कार्यस् तस्य परिग्रहः // rm_27.165{81} //

अवश्यम् एषां कतमो ऽपि सर्ववित् जगर्द्धितैकान्तविशालसारः / स एव मृग्यो ह्य् अतिसूक्ष्मचेतसा जनेन शेषैः किम् अनर्थपण्डितैः // rm_27.166{82} //

यस्यापि किञ्चिन् न हि दोषलेशं शरद्गुणाः सन्ति जगद्धितार्थे / ब्रह्मापि विष्णुतिरिणो हरिर् वा समेहि शास्ता शुभकारिमित्रं // rm_27.167{83} //

यस्य न विद्यते दोषो विद्यन्ते सकला गुणाः / सर्वज्ञः स जगच्छास्ता तम् अहं शरणं व्रजे // rm_27.168{84} //

यो ऽस्मिन् सुदृष्ट्यात् संरक्ष्यति जगच्छुभे / तस्याहं शरणं गत्वा भजामि सततं मुदा // rm_27.169{85} //

यं दृष्ट्वा सुप्रसन्नास् ते भवन्ति निर्मलाशयाः / तम् एव सुगतं नाथं भजामि शरणं गतः // rm_27.170{86} //

येनैव त्रिजगल्लोकं पुत्रवत् प्रतिपालितं / तम् एव त्रिजगन्नाथं भजामि शरणं ततः // rm_27.171{87} //

यस्मै सुश्रद्धया दत्तं तत् फलं बोधिसाधनं / तम् एव श्रीघनं भक्त्या भजामि शरणं गतः // rm_27.172{88} //

यस्माद् धर्मामृतं पीत्वा सर्वे सत्वाः प्रमोदिनः / तम् एव संति सर्वे ऽपि दुःखछेदनसद्गुणाः / तम् एव श्रीप्रदातारं भजामि श्रद्धयादरात् // rm_27.173{89} //

बुद्ध एव जगच्छास्ता बुद्ध एव जगद्गुरुः / बुद्ध एव जगन्नाथो बुद्ध एव मुनीश्वरः // rm_27.174{90} //

तद् अहं सर्वभावेन बुद्धस्य शरणं गतः / श्रद्धया धर्मम् आसाद्य भजामि बोधिप्राप्तये // rm_27.175{91} //

ये बुद्धं शरणं यान्ति न ते गछन्ति दुर्गतिं / निर्मुक्तपापकाः सौख्यं भुक्त्वा यांति जिनालयं // rm_27.176{92} //

शृण्वन्ति सौगतं वाक्यं ये ते न यान्ति दुर्गतिं / समन्तभद्रसौख्यानि भुक्त्वा यांति सुखावतिं // rm_27.177{93} //

भजन्ति लोकनाथं ये ते ऽपि न यान्ति दुर्गतिं / पापमुक्ताः सुखान्य् एव भुक्त्वा यांति सुरालयं // rm_27.178{94} //

एतद् रत्नत्रयं लोके उत्पन्नं सद्गुणाकरं / तद् अहं शरणं गत्वा भजामि समुपासिकः // rm_27.179{95} //

एतत्पुण्यविपाकेन सर्वसत्वहितार्थकः / क्रमाद् बोधिचराः पूर्य संबुद्धपदम् आप्नुयात् // rm_27.180{96} //

तदाहं सुगतो भूत्वा सर्वसत्वशुभार्थभृत् / सत्वान् बोधौ प्रतिष्ठाप्य निर्वृतिं समवाप्नुयात् // rm_27.181{97} //

एवं विज्ञाय सद्धर्मं यदीछति भवान् अपि / त्रिरत्नशरणं गत्वा भज नित्यं समादरात् // rm_27.182{98} //

एतत्पुण्यविपाकेन सदा त्वं सद्गतिं ततः / बोधिं चापि समासाद्य संबुद्धपदम् आप्नुयाः // rm_27.183{99} //

इति तेन समाख्यातं श्रुत्वा स परिबोधितः / तैर्थ्यधर्मं प्रतिक्षिप्य संबुद्धश्रावको ऽभवत् // rm_27.184{100} //

तदारभ्य सदा नित्यं सद्धर्मश्रवणोत्सुकः / विहारे समुपाश्रित्य प्राभजत् तं मुनीश्वरं // rm_27.185{1} //

इति मे गुरुणादिष्टं श्रुतं मया तथोच्यते / त्वं चाप्य् एवं महाराज त्रिरत्नं सर्वदा भज // rm_27.186{2} //

प्रजाश् चापि महाराज बोधयित्वा प्रयत्नतः / बोधिमार्गे प्रतिष्ठाप्य पालयस्व समाहितः // rm_27.187{3} //

एतत्पुण्यविपाकेन सदा ते मंगलं भवेत् / क्रमाद् बोधिचरीः पूर्य संबुद्धपदम् आप्नुयाः // rm_27.188{4} //

इति तेनार्हतादिष्टं श्रुत्वाशोकः स भूमिपः / तथेति प्रतिविज्ञप्य प्राभ्यनन्दत् सपार्षदः // rm_27.189{5} //

शृण्वन्तीदं मुदा ये जिनवरकथितं मालिकस्यावदानं ये चापि श्रावयन्ति प्रमुदितमनसः श्रद्धया भद्रकामाः / ते सर्वे लोकनाथास् त्रिमलकलिजिता बोधिसत्वा महेशा भुक्त्वा सौख्यं सदान्ते जिनवरनिलये संप्रयान्ति प्रसन्नाः /

++ इति रत्नावदानतत्वे मालिकावदानं समाप्तम् ++

xxviii pāñcālarājāvadāna अथाशोको महीपालः कृतांजलिपुटो मुदा / उपगुप्तं गुरुं भिक्षुं नत्वैवं पुनर् अब्रवीत् // rm_28.1{1} //

भदन्त श्रोतुम् इछामि पुनर् अन्यत् सुभाषितं / तद्यथा गुरुणाख्यातं तथादेष्टुं च मे ऽर्हति // rm_28.2{2} //

इति संप्रार्थिते राज्ञा स उपगुप्त आत्मवित् / तम् अशोकं महीपालं समामंत्र्यैवम् अब्रवीत् // rm_28.3{3} //

साधु शृणु महाराज यथा मे गुरुणोदितं / तथाहं ते प्रवक्ष्यामि श्रुत्वानुमोदनां कुरु // rm_28.4{4} //

तद्यथासौ जगच्छास्ता शाक्यसिंहस् तथागतः / सर्वज्ञः सुगतो नाथो धर्मराजा मुनीश्वरः // rm_28.5{5} //

एकस्मिन् समये तत्र श्रावस्त्या बहिर् आश्रमे / विहारे जेतकोद्याने विजहार ससांघिकः // rm_28.6{6} //

तदा स भगवांस् तत्र भिक्षुसंघैः पुरस्कृतः / सभामध्यासनासीनो धर्मम् आदेष्टुम् आरभत् // rm_28.7{7} //

तद् धर्मदेशनां श्रोतुं सर्वे लोकाः समागताः / देवा दैत्याश् च नागाश् च यक्षगंधर्वकिन्नराः // rm_28.8{8} //

सिद्धा विद्याधराश् चापि गरुडा राक्षसा अपि / ऋषयो ब्राह्मणा विज्ञा राजानः क्षत्रिया अपि // rm_28.9{9} //

वैश्या राजकुमाराश् च मंत्रिणश् च महाजनाः / वणिजः सार्थवाहाश् च गृहस्थाः शिल्पिनो ऽपि च // rm_28.10{10} //

ग्राम्या जानपदाश् चापि कार्पटिकादयो ऽपि च / तीर्थिका अपि ते सर्वे जेतारामे उपागताः // rm_28.11{11} //

विहारे तं जगन्नाथं दृष्ट्वा सांजलयो मुदा / नत्वा प्रदक्षिणीकृत्य समभ्यर्च्य यथाक्रमं // rm_28.12{12} //

ततस् ते मुदिताः सर्वे परिवृत्य समंततः / तत् सद्धर्मामृतं पतुम् उपतस्थुः समाहिताः // rm_28.13{13} //

तदा स भगवान् दृष्ट्वा सर्वान्स् तान् समुपस्थितान् / आदिमध्यान्तकल्याणं दिदेश धर्मम् उत्तमं // rm_28.14{14} //

तत् सद्धर्मामृतं पीत्वा सर्वे लोकाः प्रबोधिताः / संबुद्धं शरणं कृत्वा प्रचेरुर् बोधिसंवरं // rm_28.15{15} //

तस्मिन्न् अवसरे तत्र पंचाल उत्तराधिपः / दक्षिणाधिपपंचालं पराजेतुम् उपाक्रमत् // rm_28.16{16} //

तयोः पंचालयो राज्ञो विरुद्धास्य् अभिमानिनोः / महायुद्धम् अभून् नित्यं परस्परविघातनं // rm_28.17{17} //

प्रवर्त्तिते सदा युद्धे तयो राज्ञो हि मानिनोः / दुर्भिक्षम् अपि तत्राभूद् बहुलोकविघातनं // rm_28.18{18} //

तदा तौ क्षत्रियौ क्रूरौ परस्परविघातिनौ / विरुद्धमानसौ वीरौ वैरशाम्यं न जग्मतः // rm_28.19{19} //

तद् दृष्ट्वा नृपती राजा प्रसेनजिन् स कौशलः / तद् वैरशमनोपायं चिरं ध्यात्वा व्यचिंतयत् // rm_28.20{20} //

यद् एतौ नृपती वीरौ नित्यं युद्धाभिकांक्षिणौ / संबोधिसाधनं धर्मं श्रोतुं नैवाभिवांछत // rm_28.21{21} //

सर्वे ऽपि मंत्रिणो ऽमात्याः सर्वे लोकाश् च योधिनः / संबुद्धदर्शने चापि नात्रागछन्ति के चन // rm_28.22{22} //

एवं तेषां सदा नित्यं हिंसाकर्माभिरागिणां / सद्धर्मे श्रवणे वापि गोचरं नैव विद्यते // rm_28.23{23} //

धर्मं विनात्र संसारे किं सारं जन्म मानुषे / परस्परं निहत्यैव यास्यंति नरके ध्रुवं // rm_28.24{24} //

धिग् जन्म मानुषे तेषां केवलं पापसाधनं / ये क्लेशमानदर्प्यान्धा न पश्यंति मुनीश्वरं // rm_28.25{25} //

ये चात्र सौगतं धर्मं न शृण्वन्ति कदा चन / कथं ते भद्रचर्यायां गोचरं समवाप्नुयुः // rm_28.26{26} //

सदा ते मारचर्यायां स्थित्वा क्लेशाभिमानिनः / बोधिचर्यां प्रतिक्षिप्य चरेयुः कामचारिणः // rm_28.27{27} //

ततः स्वयं परिभ्रष्टा भ्रंशयन्तः परान् अपि / यथेछया चरन्तस् ते चिनुयुर् बहुपातकं // rm_28.28{28} //

ततस् ते क्लेशसंतप्ताः स्वपरार्थाभिघातिनः / तीव्रदुःखाग्निसंतप्ताः पतेयुर् नरके ध्रुवं // rm_28.29{29} //

नरकेषु भ्रमन्तस् ते सदा दुःखाभिभोजिनः / पश्चात्तापाग्निसंतप्ताश् चरेयुर् आभवं तथा // rm_28.30{30} //

तद् एषां सर्वलोकानां भद्रार्थं हितकारणं / सर्वथोपायम् आधातुम् अर्हामि सांप्रतं द्रुतं // rm_28.31{31} //

यावद् एतौ नृपौ वीरौ विरुद्धौ नोपशाम्यतः / तावद् अत्र भुवि क्वापि मंगलं न भवेत् सदा // rm_28.32{32} //

तद् एतौ नृपती तावद् बोधयित्वा प्रयत्नतः / मैत्रस्नेहसंबद्धौ कुर्यां निर्वैरभाविनौ // rm_28.33{33} //

एतौ हि क्षत्रियौ वीरौ पांचालौ मानगर्वितौ / अनयोर् मित्रवंधं को बोधयित्वा करिष्यति // rm_28.34{34} //

बुद्ध एव जगच्छास्ता धर्मराजः प्रबोधयन् / अनयोश् चिरवैर्याग्निं शमयितुं प्रशक्नुयात् // rm_28.35{35} //

तद् अत्र सहसा गत्वा प्रार्थयेयं मुनीश्वरं / नूनं बुद्धानुभावात् तौ नृपौ मित्रत्वम् आप्स्यतः // rm_28.36{36} //

इति निश्चित्य राजा स प्रसेनजित् समुत्थितः / विहारे सहसा गत्वा ननाम तं मुनीश्वरं // rm_28.37{37} //

तत्र स पुरतो गत्वा सांजलिः समुपाश्रयन् / एतत् सर्वप्रवृत्तांतं निवेद्यैवम् अभाषत // rm_28.38{38} //

भगवन् नाथ सर्वज्ञ विजानीयाद् भवान् अपि / यत् तौ पांचालभूपालौ विरुद्धौ भवतो ऽधुना // rm_28.39{39} //

यद् एतयोर् विरुद्धे त सर्वे लोका विरोधिताः / तद् अत्र सर्वदा युद्धं प्रवर्त्तते दिवानिशं // rm_28.40{40} //

तत् तेसां सर्वलोकानां सद्धर्मे गोचरं कदा / सदा युद्धाभिसक्तास् ते साधयेयुः शुभं कथं // rm_28.41{41} //

तद् अत्र भगवाञ्च् छास्ता बोधयंस् तौ नराधिपौ / संबोधिमार्गम् आदिश्य शुभे चारयितुम् अर्हति // rm_28.42{42} //

इति संप्रार्थिते तेन राज्ञा स भगवान् मुनिः / तस्य राज्ञे नरेंद्रस्य तूष्णीभूत्वाध्युवास तत् // rm_28.43{43} //

ततः स नृपती राजा मत्वा शास्त्राधिवासितं / सांजलिस् तं मुनिं नत्वा मुदितः स्वालयं ययौ // rm_28.44{44} //

ततः स भगवान् पात्रम् आदाय चीवरावृतः / भासयन् भद्रतां कुर्वन् प्रतस्थे सह सांघिकैः // rm_28.45{45} //

एवं सर्वत्र मार्गेषु भासयं स मुनीश्वरः / कृत्वा भद्रं क्रमेणैवं वाराणसीम् उपाचरत् // rm_28.46{46} //

तत्र स भगवां प्राप्तो भाभिः संभासयन् क्रमात् / चरं कृत्वा सुभद्रत्वं मृगदावे उपाचरत् // rm_28.47{47} //

तत्र स भगवान् प्रातः ससंघः सौगताश्रमे / सभामध्यासनासीनः सद्धर्मं समुपादिशत् // rm_28.48{48} //

तत् सद्धर्मामृतं पीत्वा सर्वे लोकाः प्रमोदिताः / त्रिरत्नं शरणं कृत्वा प्रभेजिरे समादरात् // rm_28.49{49} //

तदा दक्षिणपांचालनृपतिः स प्रमोदितः / संबुद्धदर्शनं कर्तुं मृगदावे उपाचरत् // rm_28.50{50} //

तत्र तं श्रीघनं दृष्ट्वा नृपतिः स प्रमोदितः / सांजलिः पुरतो गत्वा नत्वैकान्ते उपाश्रयत् // rm_28.51{51} //

तस्मिन्न् अवसरे तत्र मृगदावे समाश्रितः / भगवान्न् इति शुश्राव पांचालौत्तराधिपः // rm_28.52{52} //

स उत्तरपांचालो नृपतिः प्रतिरोषितः / तं नृपं याम्यपांचालं पराजेतुम् उपाचरत् // rm_28.53{53} //

तत्र स नृपतिर् वीरश् चतुरंगवलैः सह / जयवाद्यमहोत्साहैः सहसा समुपाचरत् // rm_28.54{54} //

तत्र स याम्यपांचालराजा तं रिपुम् आगतं / निशम्य सहसोत्थाय नत्वा ह तं मुनीश्वरं // rm_28.55{55} //

भगवन् नाथ सर्वज्ञ स मे वैरा इहागतः / तद् अत्र किं करिष्यामि तद् अनुज्ञां ददातु मे // rm_28.56{56} //

इति तेन नरेन्द्रेण प्रार्थिते स जिनेश्वरः / दृष्ट्वा तं याम्यपांचालं समाश्वास्यैवम् आदिशत् // rm_28.57{57} //

नृपते मा विभेषी त्वं धैर्य्यम् आलम्ब्य तिष्ठत / तद् उपायं करिष्यामि येनासौ ते वशे चरेत् // rm_28.58{58} //

इत्य् आदिश्य स सर्वज्ञश् चतुरङ्गबलान्वितं / महत्सैन्याधिपं वीरं निर्माय ऽप्रेषयत् ततः // rm_28.59{59} //

स सैन्याधिपतिर् वीरश् चतुरङ्गबलैः सह / चरन्न् उत्तरपांचालम् अभियोद्धुम् उपाचरत् // rm_28.60{60} //

तन् महत्सैन्यं आयातं समालोक्याभ्युपद्रुतं / सर्व उत्तरपांचालसैन्या भीताः पराययुः // rm_28.61{61} //

तद् दृष्ट्वोत्तरपांचालनृपतिश् चापि खेटितः / एकाकी रथम् आरुह्य भगवत्संमुखे ऽचरत् // rm_28.62{62} //

तत्र स दूरतो दृष्ट्वा श्रीघनं तं सभाश्रितं / अवतीर्य रथात् तत्र मृगदावे उपाचरत् // rm_28.63{63} //

तत्र स नृपति राजा समुपेत्य कृतांजलिः / त्रिधा प्रदक्षिणीकृत्य ननाम शरणं गतः // rm_28.64{64} //

ततश् चिरात् समुत्थाप्य स पांचलो नराधिपः / तत् सद्धर्मामृतं पातुं तत्रैकान्ते समाश्रयत् // rm_28.65{65} //

तदा स भगवान् दृष्ट्वा नृपतिं तं समाश्रितं / आर्य्यसत्यं समारभ्य दिदेश धर्मम् उत्तमं // rm_28.66{66} //

तद् आर्यसत्यम् आकर्ण्य नृपतिः सो ऽभिबोधितः / संसारसाधनं धर्मं पुनः श्रोतुं समैछत // rm_28.67{67} //

ततः स नृपती राजा समुत्थाय कृतांजलिः / प्रणत्वा भगवंतं तं प्रार्थयद् एवम् आदरात् // rm_28.68{68} //

भगवन् नाथ सर्वज्ञ भवतां शरणं व्रजे / तन् मे ऽत्रानुग्रहं कृत्वा सम्यग् आदेष्टुम् अर्हति // rm_28.69{69} //

यद् अत्र भगवन् सत्वाः प्रवर्त्तन्तो भवोदधौ / सुखदुःखाभिभुंजानो भ्रमंते षड्गतौ कथं // rm_28.70{70} //

कर्मणा केन देवाः स्युर् मानुषाः केन कर्मणा / दैत्याश् च कर्मणा केन तत् सम्यक् समुपादिश // rm_28.71{71} //

तिर्यञ्चः कर्मणा केन प्रेताश् च केन कर्मणा / नारकाः कर्मणा केन तत् सर्वं समुपादिश // rm_28.72{72} //

तत्राप्य् अनेकरूपाश् च सर्वे भिन्नाशया अपि / निहीनमध्यमोत्कृष्टाः सुखदुःखान्विता अपि // rm_28.73{73} //

एतत् सर्वं समाख्याय भवाञ् छास्ता जगद् गुरुः / संसारगतिसंचारं प्रबोधयितुम् अर्हति // rm_28.74{74} //

इति संप्रार्थिते तेन राज्ञा स भगवान् सुधीः / तं विशुद्धाशयं भूपं दृष्ट्वैवं समुपादिशत् // rm_28.75{75} //

साधु शृणु महाराज संसारगतिचारणं / सम्यग् धर्मं प्रवक्ष्यामि युष्माकं परिबोधने // rm_28.76{76} //

कायवाग्मानसं कर्मकृतं यच् च शुभाशुभं / लोकस् तस्य फलं भुक्ते कर्त्ता नान्यो ऽस्ति कस्य चित् // rm_28.77{77} //

इति सर्वे कृपाविष्टास् त्रैलोक्ये गुरवो जिनाः / उक्तवन्तस् तथा तद् धि कर्मणो यस्य यत् फलं // rm_28.78{78} //

कर्मं कर्तुं विहातुं च सदसद्गतिहेतुकं / लोभमोहभयक्रोधा ये नरा नरघातिनः // rm_28.79{79} //

संवद्ध्यान्याञ् च हि सन्ति संजीवं यान्ति ते ध्रुवं / संवत्सरसहस्राणि बहून्य् अपि हताहताः // rm_28.80{80} // संजीवन्ति यतस् तत्र तेन संजीव उच्यते // rm_28.81{81!} // मातापितृसुहृद्वंधुमित्रद्रोहकराश् च ये / पैशुन्यानृतवत्तारः कालसूत्राभिगामिनः // rm_28.82{82} //

कालसूत्रेण संसूड्य पाट्यन्ते दारुवद् यतः / ज्वलद्भिः क्रकचैस् तत्र कालसूत्रस् ततः स्मृतः // rm_28.83{83} //

दावादौ दहनैर् दाहं देहिनां विदधाति ये / स तीव्रज्वलनैर् जन्तुस् तप्यते तपने रटन् // rm_28.84{84} //

तीव्रं तपनसंतापं तनोत्य् एव निरंतरं / यत् ततो ऽन्वर्थम् आलोके ख्यातस् तपनसंज्ञया // rm_28.85{85} //

धर्माधर्मविपर्यासं नास्तिको यः प्रकाशयन् / संतापयति चान्यांश् च तप्यते स प्रतापने // rm_28.86{86} //

प्रतापयति तत्रस्थान् सत्वान्स् तीव्रेण वह्निना / तपनातिशयनो ऽसौ प्रोक्तस् तस्मात् प्रतापनः // rm_28.87{87} //

अजैडकशृगालांश् च शशाखुमृगासुकरान् / अन्यांश् च प्राणिनो घ्नंति संघातं यान्ति ते नराः // rm_28.88{88} //

संहतास् तत्र घात्यंते सम्यग्वाहैव वंययः / तस्मात् संघात इत्य् एवं विख्यातो ऽन्वर्थसंज्ञया // rm_28.89{89} //

कायवाग्मानसं तापं ये कुर्वन्तीह देहिनां / कटुक्यपटिका ये च रौरवं यान्ति ते नाराः // rm_28.90{90} //

तीव्रेण वह्निना तत्र दह्यमाना निरंतरं / रौद्रं रवं विमुंचन्ति यतस् तस्मात् स रौरवं // rm_28.91{91} //

देवद्विजगुरोर् द्रव्यं हृतं यैर् दुःखिनाम् इह / ते महारौरवं यान्ति ये चान्यस्वापहारिणः // rm_28.92{92} //

रौद्रत्वाद् वह्निदाहस्य रवस्य च महत्तया / रौरवो हि महांस् तस्य मन्त्व रौरवाद् अपि // rm_28.93{93} //

कृत्वा गुणाधिके तीव्रम् अपकारं निहत्य च / मातापितृगुरुन् कल्पम् अवीचौ पच्यते ध्रुवं // rm_28.94{94} //

अस्थीन्य् अपि विशीर्य्यन्ते रौद्राग्नौ तत्र देहिनां / यतो न वीचिः सौख्यस्य नावीचिर् उदाहृतः // rm_28.95{95} //

मिथोद्रोहरता ये त्रणे घ्नन्तीव देहिनः / पापाद् असिनखास् ते तु जायन्ते दुःखभागिनः // rm_28.96{96} //

नखा एवासयस् तेषाम् आयसा ज्वलिताः खराः / तैर् अन्योन्यं निकृन्तन्ति यत् तेनासिनखाः स्मृताः // rm_28.97{97} //

लोहज्वलिततीक्ष्णाग्राः षोडशाङ्गुलकण्टकाः / बलाद् आरोह्यत ह्रंदन् शाल्मलीः पालदारिकः // rm_28.98{98} //

लोहदम्ष्ट्रा महाकाया ज्वलितास् तीव्रभैरवाः / अश्लिष्य भक्षयन्त्य् एनं परदारोपहारिणं // rm_28.99{99} //

आरटन्तो ऽपि खाद्यन्ते श्वगृध्रोलूकवायसैः / अशिवं कुर्वते छिन्ना विश्वासघाटिनो नराः // rm_28.100{100} //

अयोगुडानि भुज्यन्ते प्रतप्तानि पुनः पुनः / याप्यन्ते क्वथितं ताम्रं ये परस्वापहारिणः // rm_28.101{1} //

क्रूरैः श्वभिर् अयोद्रंष्ट्रैः कृत्यन्ते विवशा भृशं / वर्षकोटि रटन्तो ऽपि ये नराः खेटके रताः // rm_28.102{2} //

मत्स्यादीञ् जलजान् हत्वा ज्वलन्त्य् अम्रद्रवोदकां / याति वैतरणीं शश्वद् वह्निना दह्यते नरः // rm_28.103{3} //

ये स्वार्थलवसंमूढो व्यवहारम् अधार्मिकं / करोति नरके क्रदन् स चक्रेणाभिपीड्यते // rm_28.104{4} //

पीडा वहुभिर् आकारैः कृता यैर् दुःखिनाम् इह / पीड्यन्ते ते चिरं तप्तैर् यत्र मुद्गरपर्वतैः // rm_28.105{5} //

भेदका धर्मसेतूनां ये चासन् मार्गवाहिनः / क्षुरधाराचितं मार्गं गत्वा क्रामन्ति ते नराः // rm_28.106{6} //

नखैः संचूर्ण्य यूकादीञ् चूर्ण्यन्ते मेषपर्वतै / भूयो भूयो महाकायाः क्रन्दन्तस् ते शरच्छतं // rm_28.107{7} //

व्रतं यस् तु समाश्रित्य संपन्नो परिरक्षति / शीर्यमानमान्सास्थिः कुकुंले पच्यते ध्रुवं // rm_28.108{8} //

अणुनापि हि यः कश्चिन् मिथ्याजीवेन जीवति / भक्ष्यते क्रिमिभिश् चण्डैः संमग्नो गूथमृत्तिके // rm_28.109{9} //

दृष्ट्वापि व्रीहिमध्यस्थान् प्राणिनश् चूर्णयन्ति ये / आयसै मुखलैस् तप्तैः क्षोभ्यन्ते ते पुनः पुनः // rm_28.110{10} //

अत्यन्तक्रोधनाः क्रूराः शठाः पापाभिकांक्षिणः / परव्यसनकृष्ट्वा च जायन्ते यमराक्षसाः // rm_28.111{11} //

सर्वेषाम् एव दुःखानां वीजं मृद् वाभिभेदतः / कायवाग्मानसं कर्म पापं यत् तद् अण्व् अपि वर्त्तयेत् /

++ नरककाण्डं समाप्तम् ++

हंसपारावतादीनं खराणाम् अपि रागिणां / येन रागेण जायन्ते मूढाः कीटादियोनिषु // rm_28.112{1} //

सर्प्पाः क्रोधोपनाहाभ्यां मारस्तब्धा मृगाधिपाः / अभिमानेन जायन्ते गदामाश्वादियोनिषु // rm_28.113{2} //

मात्सर्येर्ष्यादि दोषेण वानराः प्रेतदेहिनः / जायन्ते मुखरा धृष्टाश् चपलात्मानश् च वायसाः // rm_28.114{3} //

वधवंधनमात्सर्यैर् गवाश्वादिषु देहिनः / जायन्ते क्रूरकर्माणो लूताः खर्ज्जूरवृश्चिकः // rm_28.115{4} //

व्याघ्रमार्जारगोमायुऋक्षगृध्रवृगादायः / जायन्ते प्रेतमन्सादोः क्रोधना मत्सरा नराः // rm_28.116{5} //

दातारः क्रोधनाः क्रूरा नरा नागमहर्द्धिकाः / भवान्तत्यागिनो दर्प्पात् क्रोधाच् च गरुडेश्वराः // rm_28.117{6} //

कृतं यत् पापकं कर्म स्वयं वाक्कायमानसं / तिर्यञ्चस् तेन जायन्ते तन् मनोगतिम् आकृथाः // rm_28.118{7} //

++ इति तिर्यक्काण्डं समाप्तम् ++

भक्ष्यभोज्यापहर्तारो ये क्षुद्रा दानवर्जि / भवन्ति कुणपाहाराः प्रेतास् ते कटपूतनाः // rm_28.119{1} //

विहेठयन्ति ये बाला वंचयन्त्य् अपि तृष्णया / ते ऽपि गर्भमलाहारा जायन्ते कटपूतनाः // rm_28.120{2} //

हीनाचारातिदीनाश् च मत्सरा नित्यकांक्षिणः / जायंते ये नराः प्रेता ऽष्टास् ते गलगण्डकाः // rm_28.121{3} //

दानं निवारयत्य् एव न हि किं तिद् ददाति यः / क्षुत्क्षामासौ महाकुक्षिः प्रेतः शूचिमुखो भवेत् // rm_28.122{4} //

धनं रक्षति वंशार्थे न भुंक्ते न ददाति यः / दत्तादायी ततः प्रेतः श्राद्धभोक्ता स जायते // rm_28.123{5} //

यः परस्वापहारेप्सुर् दत्वा चैवानुतप्यते / भोक्ता विट्श्लेष्मवान्तानां प्रेत्य प्रेतः स जायते // rm_28.124{6} //

अप्रियं वक्ति यः क्रोधाद् वाक्यं मर्मविभेदतं / ब्बवन्त्य् उल्कामुखः प्रेतः सुचिरं तेन कर्मणा // rm_28.125{7} //

कुरुते कलहं यस् तु निष्कृपः क्रूरमानसः / क्रिमिकीटपतङ्गादेः प्रेते ऽसौ ज्योतिको भवेत् // rm_28.126{8} //

ग्रामकूटौ ददात्य् एव यो जनं पीडयन्त्य् अपि / कुम्भाण्डो विकृताकारः पूयाहारश् च जायते // rm_28.127{9} //

निर्दयाः प्राणिनो घ्नन्ति भक्ष्यार्थं ये ददन्त्य् अपि / मांसाहाराश् च ते ऽवश्यं भवन्ति प्रेतराक्षसाः // rm_28.128{10} //

गंधमालारता नित्यं मंदक्रोधाः प्रदायकाः / गंधर्वाः प्रेत्य जायन्ते देवानां रतिहेतवः // rm_28.129{11} //

क्रोधनाः पिशुनः किञ्चिदर्थार्थं यः प्रयछति / स पिशाचं प्रदुष्टात्मा जायते विकृताननः // rm_28.130{12} //

नित्यप्रदुष्टाश् चपलाः परपीडाकरा नराः / संप्रदानरता नित्यं भूताः प्रेत्य भवन्ति ते // rm_28.131{13} //

क्रूराः क्रूद्धाः प्रदातारः प्रिया सर्वसुरा च ये / जायन्ते प्रेत्य यक्षास् तु क्रूरात्मानः सुराप्रियाः // rm_28.132{14} //

मातापितृगुरून् यानैर् ये नयन्ति यथेप्सितं / विमानचारिणो यक्षा जायंते सुसुखान्विताः // rm_28.133{15} //

तृष्णामात्सर्यदोषेण प्रेता भवन्त्य् अमी सदा / यक्षादयः शुभैः क्लिष्टैर् अतस् तान् परिवर्जयेत् // rm_28.134{16} //

++ इति प्रेतकाण्डं समाप्तम् ++

देवासुरमनुष्येषु दीर्घम् आयुर् अहिंसया / जायते हिन्सया स्वल्पाम् अतो हिंसां विवर्जयेत् // rm_28.135{1} //

कुष्ठरोगज्वरोन्मादा ये चान्ये व्याधयो नृणां / भवन्ति भूतप्रयुक्तेस् ते वधवंधनताडनैः // rm_28.136{2} //

यो न हर्त्ता परस्वानां न वञ्चवित् प्रयछति / महतापि प्रयत्नेन स द्रव्यं नाधिगछति // rm_28.137{3} //

अदत्तं वित्तम् आदाय दानानि च ददाति यः / स प्रेत्य द्रव्यवान् भूत्वा भूयो भवति निर्धनः // rm_28.138{4} //

यो न हर्त्ता न दाता च न चातिकृपणो नरः / कृत्स्नेन महता द्रव्यं स्थिरं स लभते ध्रुवं // rm_28.139{5} //

न हर्त्ता यः परस्वानां त्यागवान् वीतमत्सरः / अहार्यं विपुलं वित्तम् इष्टम् च लभते नरः // rm_28.140{6} //

आयुर्वर्णवलोपेतः श्रीमान् रोगविवर्जितः / सुखी च स लभेन् नित्यं यो ददातीह भोजनं // rm_28.141{7} //

सलज्जो रूपवान् भोगी सुछायः प्राणिनां प्रियः / स भवेद् वस्त्रलाभी च यो वासान्सि प्रयछति // rm_28.142{8} //

आवासं यो ददातीह सुप्रसन्नेन चेतसा / प्रासादाः सर्वकामाश् च जायन्ते तस्य देहिनः // rm_28.143{9} //

उपानत्संक्रमादीनि ये प्रयछन्ति मानवाः / भवन्ति सुखिनो नित्यं यानानि च लभन्ति ते // rm_28.144{10} //

वापीकूपतडागादीन् कारयित्वा जलाश्रयान् / सुखिनस् त्यक्तसंतापा निःपिपासा भवन्ति ते // rm_28.145{11} //

पुष्पैर् अभ्यर्चितः श्रीमान् शरण्यः सर्वदेहिनां / समृद्धितः स स्याद् आरामं यः प्रयछति // rm_28.146{12} //

विद्यादानेन पण्डित्यं प्रज्ञाभ्यासेन चाप्यते / भैषज्याभयदानेन रोगमुक्तस् तु जायते // rm_28.147{13} //

दीपदानेन चक्षुष्मान् वाद्यदानेन सुस्वरः / शयनासनदानेन सुखी भवति मानवः // rm_28.148{14} //

गवादीन्न् यो ददातीह भोज्यं रससमन्वितं / बलवान् वर्णवान् भोगी दीर्घायुः स भवेन् नरः // rm_28.149{15} //

कन्यादानेन समान्यां लाभी स्यात् परिवारवान् / धनधान्यसमृद्धस् तु भूमिदानेन जायते // rm_28.150{16} //

पत्रं पुष्पं फलं तोयम् अभयं वचनं प्रियं / यद् यद् एवेप्सितं शक्त्या दातव्यं तत् तद् अर्थिनः // rm_28.151{17} //

क्लेशयित्वा ददातीह स्वकार्थं वा ह येन वा / यशःसौख्याभिलाखाद् वा स क्लिष्टं लभते फलं // rm_28.152{18} //

स्वकार्यं निरपेक्षेण कृपाविष्टेन चेतसा / परार्थं यो ददातीह सो ऽक्लिष्टं फलम् अश्नुते // rm_28.153{19} //

यत् किञ्चिद् दीयते ऽन्यस्मै यथाकालं यथाविधिं / तेन तेन प्रकारेण तत् सर्वम् उपतिष्ठते // rm_28.154{20} //

परान् अन्वपहत्य् एवं सर्वकालं यथेप्सितं / अक्लेशयित्वा दातव्यं हितं धर्माविरोधियत् // rm_28.155{21} //

एवं हि दीयमानस्य दानस्यैव फलादयः / दानं हि सर्वसौख्यानाम् अनन्यत् कारणं मतं // rm_28.156{22} //

विरजः परदारेभ्यो दारान् इष्टान् अवाप्नुयात् / स्वेभ्यो ऽप्य् अदेशकालौ च वर्जयेत् पुंस्त्वम् अर्छति // rm_28.157{23} //

परदारेषु संसक्तं चित्तं यो न नियछति / अनंगेषु चक्ष्येत स पुमां स्त्रीत्वम् अर्छति // rm_28.158{24} //

स्त्रीत्वं जुगुप्सते या तु सुशीलमन्दरागिणी / पुंस्त्वम् आकांक्षते नित्यं सा नारी नरतां व्रजेत् // rm_28.159{25} //

यस् तु सम्यग्निरातङ्कं ब्रह्मचर्यं निषेवते / तेजस्वी सद्गुणः श्रीमान् देवैर् अपि स लक्ष्यते // rm_28.160{26} //

दृढस्मृतिर् असंमूढो मघवानो निषेवनात् / जायते सत्यवादी च यशःसौख्यान्वितः पुमान् // rm_28.161{27} //

भिन्नानाम् अपि सत्वानां भेदं नैव करोति यः / अभेद्यपरिवारो ऽसौ जायते स्थिरमानसः // rm_28.162{28} //

यस् त्व् आज्ञां कुरुते नित्यं गुरूणां हृष्टमानसः / हिताहिताभिधायी च स स्याद् आदेयवाक्कृती // rm_28.163{29} //

नीचापरायमानेन विपर्यासेन चोद्गतः / भवन्ति सुखिनः सौख्यं दुःखं दत्वा च दुःखिनः // rm_28.164{30} //

परप्रपञ्चाभिरताः शठाश् चानृतवादिनः / कुब्जवामनतां यान्ति ये च रूपाभिमानिनः // rm_28.165{31} //

जडो विज्ञानमात्सर्याद् भवेन् मूकः प्रियाप्रियः / वाधिर्यं याति मूढात्मा हितवाक्याभिगूढकः // rm_28.166{32} //

दुःखम् पापस्य पुण्यस्य सुखं मिश्रस्य मिश्रितं / सर्वं सादृश्यनिःस्यन्दम् अभ्युह्यं कर्मणः फलं // rm_28.167{33} //

++इति मनुष्य कांदं समाप्तम् ++

शठ्येन मायया नित्यं चरत्य् अकृतकिल्बिषः / कलिप्रियः प्रदाता च स भवेद् असुरेश्वरः // rm_28.168{1} //

++ इत्य् असुरकाण्डम् ++

नात्मना यः सुखाकांक्षी न च कृव्येत परिग्रहं / ग्रहाणाम् अग्रणी चासौ महाराजिकतां व्रजेत् // rm_28.169{1} //

मातापितृकुलज्येष्ठपूजकस्यागवान् कृती / हृष्यमे यो न कलहैस् त्रिदशेषु स जायते // rm_28.170{2} //

न विग्रहे रता नैव कलहे हृष्टमानसाः / एकान्तकुशलोद्युक्ता ये च मोयापगास् तु ते // rm_28.171{3} //

बहुश्रुता धर्मधराः सुप्रज्ञा मोक्षकांक्षिणः गुणैर् / ये परिहृष्णाश् च नरास् ते तुषितोपगाः // rm_28.172{4} //

शीलप्रदानविनये प्रवृत्ता ये स्वयं नराः / महोत्साहाश् च ते ऽवश्यं निर्माणरतिगामिनः // rm_28.173{5} //

अदीनसत्वा मे श्रेष्ठाः प्रदाने दमसंयमैः / गुणाधिकाश् च ये यान्ति परनिर्मिततां ध्रुवं // rm_28.174{6} //

शीलेन स्वर्गम् आप्नोति ध्यानेन च विशेषतः / यथाभूतपरिज्ञानात् पर्यन्ते वो पुनर्भवः // rm_28.175{7} //

शुभाशुभफलं कर्म यद् एतत् कथितं स्फुटं / शुभेन लभ्यते सौख्यं दुःखं त्व् अशुभसंभवं // rm_28.176{8} //

मृत्युर् व्याधिर् जरा चैव चिन्तनीयम् इदं त्रयं / विप्रयोगा प्रियैः सार्द्धं कर्मणां च स्वकं फलं // rm_28.177{9} //

एवं विरागम् आप्नोति विविक्तः पुण्यम् अर्छति / पापं च नार्जयेद् एवं तच् च संक्षेपतः शृणु // rm_28.178{10} //

सम्यक्परार्थकरणं परानर्थविवर्जनं / पुण्यं विपर्ययात् पापभुक्तम् एव मुनीश्वरैः // rm_28.179{11} //

++ इति देवकाण्डं समाप्तम् ++

एवं मत्वा महाराज षड्गतिकारिकां भवे / संबोधिधर्मम् आधाय चरितव्यं सदा शुभे // rm_28.180{1} //

ये संबोधिव्रतं धृत्वा प्रचरन्ति समाहिताः / सर्वसत्वहितार्थेन बोधिसत्वा भवन्ति ते // rm_28.181{2} //

एवं विज्ञाय राजेन्द्र सदा भद्रं यदीछसि / त्रिरत्नं शरणं कृत्वा भज नित्यं समादरात् // rm_28.182{3} //

एतत्पुण्यविपाकेन सर्वक्लेशन् विनिर्जयन् / क्रमाद् बोधिं समासाद्य संबुद्धपदम् आप्नुयाः // rm_28.183{4} //

इति तेन मुनीन्द्रेण समाख्यातं निशम्य सः / राजाप्य् उत्तरपांचालः प्रव्रजितुं समैछत // rm_28.184{5} //

ततः स नृपती राजा समुत्थाय कृतांजलिः / भगवन्तम् आनत्वा प्रार्थयद् एवम् आदरात् // rm_28.185{6} //

भगवन् नाथ सर्वज्ञ भवतां शरणं गतः / संबोधिव्रतम् आधाय प्रेछामि चरितुं सदा // rm_28.186{7} //

यद् भवाञ् जगतां शास्ता संबोधिधर्मदेशिकः / तन् मे ऽनुग्रहतां कृत्वा प्रव्रज्यां दातुम् अर्हति // rm_28.187{8} //

इति संप्रार्थिते तेन राज्ञा स भगवान् सुधीः / तस्य राज्ञो मनःशुद्धं विज्ञायैवम् उपादिशत् // rm_28.188{9} //

साधु राजन् महाभाग यदीछसि शुभां गतिं / एहि चर समाधाय चर मे शासने व्रतं // rm_28.189{10} //

इत्य् आदिश्य मुनीन्द्रो ऽसौ पाणिना तच् छिरः स्पृशन् / संबुद्धे शासने धर्मे तं नरेंद्रं समग्रहीत् // rm_28.190{11} //

एहीति तेन शास्त्रोक्ते नृपतिः स प्रबोधितः / खिक्खिरीपात्रधरो भिक्षु ऽभूच् चीवरावृतः // rm_28.191{12} //

ततः स भूपतिश् चापि विरक्तो भोग्यनिस्पृहः / निःक्लेशः परिशुद्धात्मा बभूव विजितेंद्रियः // rm_28.192{13} //

साक्षाद् अर्हत्वम् आसाद्य ब्रह्मचारी निरंजनः / संबोधिपदम् आसाद्य संबुद्धः श्रावको ऽभवत् // rm_28.193{14} //

ततः स ब्रह्मविद् योगी त्रैधातुवासिनाम् अपि / सदेवासुरलोकानां वन्द्यो मान्यो ऽभवद् गुरुः // rm_28.194{15} //

ततो दक्षिणपांचालराजा स प्रतिमोदितः / उत्थाय सांजलिर् नत्वा प्रार्थ्यत् तं मुनीश्वरं // rm_28.195{16} //

भगवन् नाथ सर्वज्ञ कृपया मे प्रसीदतु / त्रैमास्यं भक्तुम् इछामि तत् कुरुताम् अनुग्रहं // rm_28.196{17} //

इति संप्रार्थिते राज्ञा भगवान् स मुनीश्वरः / नृपतिं तं समालोक्य तूष्णीभूत्वाध्युवास तत् // rm_28.197{18} //

ततः स नृपती राजा भगवताध्युवासितं / विदित्वा सर्वसामग्रीं सहसा समसाधयत् // rm_28.198{19} //

ततः स राजा भगवंतं ससांघिकं / यथार्हभोजनैर् नित्यं समभ्यर्च्य ऽभ्यतोषयत् // rm_28.199{20} //

विचित्रचीवरैश् चापि श्रीघनं तं ससांघिकं / आछाद्य सांजलिर् नत्वा प्रणिधानं मुदा व्यधात् // rm_28.200{21} //

एतत्पुण्यविपाकेन लोके ऽंधे ऽपरिनायके / सद्धर्मभास्करः शास्ता संबुद्धो ऽर्हं भवेय हि // rm_28.201{22} //

एवं तेन नरेन्द्रेण प्रणिधानं कृतं मुदा / मत्वा स भगवान् स्मितं प्रामुञ्चच् छुभरोचिषं // rm_28.202{23} //

तत् स्मितसमुत्पन्नाः पंचवर्णाः सुरश्मयः / प्रसारितास् त्रिलोकेषु भासयन्त्यः प्रचेरिरे // rm_28.203{24} //

तद्रस्मिसंपरिस्पृष्टाः सर्वे ऽपि नारकाश्रिताः / निर्मुक्तवेदनाखेदा महत्सौख्यं प्रलेभिरे // rm_28.204{25} //

तदा ते विस्मिताः सर्वे नारकीयाः प्रमोदिताः / किम् एवं जायते सौख्यम् इति ध्यात्वा निषेदिरे // rm_28.205{26} //

ततः स भगवांस् तेषां विस्मयाक्रांतचेतसां / मनांसि परिबोधार्थं प्रैषयत् तत्र नैर्मितं // rm_28.206{27} //

तदा ते नारकाः सर्वे दृष्ट्वा तं सुगतं मुदा / उपेत्य प्रणतिं कृत्वा प्राभजञ् छरणं गताः // rm_28.207{28} //

ततस् तत् पुण्यलिप्तास् ते सर्वे विमुक्तपापकाः / परिशुद्धाः शुभात्मानः सद्गतिं समुपाययुः // rm_28.208{29} //

ततस् ता रश्मयः सर्वा अवभास्य समंततः / अकनिष्ठालयं यावत् प्रसृताः समभासयन् // rm_28.209{30} //

गाथाघोषैश् च सर्वत्र सर्वान् देवान् प्रमोदिनः / बोधयित्वा शुभे धर्मे प्रतिष्ठाप्य पचेरिरे // rm_28.210{31} //

ततस् ता रश्मयः सर्वा पिण्डीभूता मुनेः पुरः / त्रिधा प्रदक्षिणीकृत्वा महोष्णीषे समाविशत् // rm_28.211{32} //

तद् दृष्ट्वा ते सभालोकाः सर्वे ऽतिविस्मयोद्धताः / शास्ता किम् आदिशेद् धर्मम् इति ध्यात्वा निषेदिरे // rm_28.212{33} //

इति तेषां मनस्तर्कं मत्वानंदः समुत्थितः / उपेत्य सांजलिर् नत्वा प्रार्थयेत् तं मुनीश्वरं // rm_28.213{34} //

भगवन् हेतुना केन स्मितं मुंचति सांप्रतं / नाहेत्वप्रत्ययं स्मितं न मुंचंति मुनीश्वराः // rm_28.214{35} //

तद् यदर्थे भवान् स्मितं मुंचतीमे सभाजनाः / श्रोतुम् इछंति सर्वे तद् अर्थम् आदेष्टुम् अर्हति // rm_28.215{36} //

इत्य् आनंदोदितं श्रुत्वा भगवान् स जगद्गुरुः / सर्वांल् लोकान् समालोक्य तम् आनंदं समब्रवीत् // rm_28.216{37} //

एवम् एव सदानंद सर्वे बुद्धा मुनीश्वराः / नाहेतुप्रत्ययं स्मितं विमुंचन्ति कदा चन // rm_28.217{38} //

पश्यताम् अयम् आनंद राजातिसंप्रसादितः / सत्कृत्य श्रद्धयास्माकं त्रैमास्यं भजते मुदा // rm_28.218{39} //

एतत्पुण्यविपाकेन राजायं सद्गुणाकरः / क्रमात् पारमिताः सर्वाः परिपूर्य बलान्वितः // rm_28.219{40} //

सर्वक्लेशगणाञ् जित्वा माराञ् चापि विनिर्जयन् / बोधिम् आसाद्य सर्वज्ञस् तथागतो मुनीश्वरः // rm_28.220{41} //

सर्वविद्याधिपः शास्ता धर्मराजो विनायकः / विजयो नाम संबुद्धो भविष्यति भवान्तरे // rm_28.221{42} //

एवम् आनंद विज्ञाय बुद्धक्षेत्रशुभंकृतं / तद्विपाके महत्सौख्यं भद्रं संबोधिसाधनं // rm_28.222{43} //

त्रिरत्नशरणं कृत्वा सत्कारैः श्रद्धया सदा / संबोधिवाञ्छिभिर् लोकैश् चरितव्यं शुभे मुदा // rm_28.223{44} //

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.