Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 8/14

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Thí dụ · Bổn sự

रत्नमालावदान

Thông tin
GRETIL — Kanga Takahata. Ratnamālāvadāna. A Garland of Precious Gems or a Collection of Edifying Tales, Told in a Metrical Form, Belonging to the Mahāyāna. Tokyo 1954 (Oriental Library Series D, 3). = Rm.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

त्रिरत्नभजनोद्भूतं पुण्यमहत्तरं बहु / यथेछाबोधिसंभारपूरणं निर्वृतिं प्रदं // rm_22.69{69} //

इत्य् आदिष्टं मुनीन्द्रेण श्रुत्वा सर्वे ऽनुमोदिताः / त्रिरत्नभजनं कर्तुं प्राभ्यनन्दन् सदापि ते // rm_22.70{70} //

तदा सा दासिकाप्य् एवं शास्त्रा व्याकृतम् आत्मनः / श्रुत्वाभिनंदिता भूयो ननाम तं मुनीश्वरं // rm_22.71{71} //

ततः सा स्वामिना दत्तं द्रव्यम् आदाय सत्वरा / तद् अर्हभोजनैः पूर्णं पात्रं कृत्वा मुदाचरत् // rm_22.72{72} //

तत्र सा मुदिता तस्मै मुनीन्द्राय प्रदापयत् / सांजलिः प्रणतिं कृत्वा स्वगेहं समुपाचरत् // rm_22.73{73} //

ततः स भगवान् पृष्टे पिण्डपात्रं तयार्चितं / ससंघं स्वाश्रमे गत्वा व्यहरद् धर्मम् आदिशत् // rm_22.74{74} //

तत्र सा दासिका भद्रा त्रिरत्नं शरणं गता / सत्कृत्य श्रद्धया नित्यं प्राभजन् सर्वदा मुदा // rm_22.75{75} //

एवं मे गुरुणाख्यातं श्रुतं मयात्र कथ्यते / तथा त्वम् अपि राजेंद्र त्रिरत्नं सर्वदा भज // rm_22.76{76} //

तथा राजं प्रजाश् चापि बोधयित्वा प्रयत्नतः / बोधिमार्गे प्रतिष्ठाप्य पालयस्व समाहितः // rm_22.77{77} //

तथा तं मंगलं नित्यं सर्वत्रापि भवेद् ध्रुवं / क्रमाद् बोधिं समासाद्य संबुद्धपदम् आप्नुयाः // rm_22.78{78} //

इति तेनार्हतादिष्टं श्रुत्वाशोकः स भूमिपः / तथेत्य् अभ्यनुमोदित्वा प्राभ्यनन्दत् सपार्षदः // rm_22.79{79} //

इदं नरा ये चि च गंधमादनावदानम् अत्र प्रथितं प्रसादिताः / शृण्वन्ति ये चापि निशामयन्ति सर्वे सुखाढ्याः प्रचरन्ति सद्गतौ /

++ इति रत्नावदानतत्वे गंधमादनावदानं समाप्त ++

xxiii pretikāyāḥ kathā अथाशोको महाराजः सांजलिः संप्रमोदितः / उपगुप्तं गुरुं नत्वा पुनर् एवम् अभाषत // rm_23.1{1} //

भदन्त श्रोतुम् इछामि पुनर् अन्यत् सुभाषितं / तद्यथा गुरुणाख्यातं तथादेष्टुं च मे ऽर्हति // rm_23.2{2} //

इति संप्रार्थिते राज्ञा श्रुत्वा सो ऽर्हं महामतिः / उपगुप्तो नरेंद्रं तैः समालोक्यैवम् आदिशत् // rm_23.3{3} //

साधु शृणु महाराज यथा मे गुरुणोदितं / तथाहं ते प्रवक्ष्यामि श्रुत्वा बुद्धानुमोदय // rm_23.4{4} //

पुरा स भगवान् बुद्धः शाक्यसिंहो मुनीश्वरः / सर्वज्ञः सुगतः शास्ता धर्मराजो विनायकः // rm_23.5{5} //

भिक्षुभिः श्रावकैः सार्द्धं भिक्षुणीभिश् च चैलकैः / उपासकैः शुभाचारैर् उपासिकागणैर् अपि // rm_23.6{6} //

बोधिसत्वैर् महासत्वैः संबोधिचारिकोद्यमैः / तथान्यैस् तीर्थिकैश् चापि संबुद्धगुणवांछिभिः // rm_23.7{7} //

राजगृहपुरोपान्ते वेणुवने मनोरमे / जिनाश्रमे महोद्याने करंदकनिवापके // rm_23.8{8} //

सर्वसत्वहितार्थेन बोधिचर्यां प्रकाशयन् / सद्धर्मदेशनां कुर्वन् विजहार विरोचयन् // rm_23.9{9} //

तत् सद्धर्मदेशनां श्रोतुं तत्र सर्वे समागताः / देवा दैत्याश् च नागेन्द्रा यक्षगंधर्वकिन्नराः // rm_23.10{10} //

ग्रहा विद्याधराः सिद्धा लोकपालगणा अपि / ऋषयो ब्राह्मणाश् चापि राजानः क्षत्रियात्मजाः // rm_23.11{11} //

वैश्याश् च मंत्रिणो ऽमात्या गृहाधिपा महाजनाः / पौरिकाः सार्थवाहाश् च वणिजः शिल्पिनो ऽपि च // rm_23.12{12} //

ग्राम्या जानपदाश् चापि तथा कार्पटिकादयः / सर्वे ते समुपायातास् तत्राश्रमे उपाविशन् // rm_23.13{13} //

तत्र सभासनासीनं श्रीघनं तं मुनीश्वरं / व्यामप्रभाविरोचं तं भिक्षुसंघैः पुरस्कृतं // rm_23.14{14} //

दृष्ट्वा ते मुदिताः सर्वे प्रणत्वा समुपागताः / कृत्वा प्रदक्षिणान्य् एनं समानर्चु यथाक्रमं // rm_23.15{15} //

ततस् सर्वे ऽपि ते लोकाः परिवृत्य समंततः / तत् सद्धर्मामृतं पातुम् उपतस्थुः समाहिताः // rm_23.16{16} //

तदा स भगवान् दृष्ट्वा सर्वान्स् तान् समुपाशृतान् / आर्य्यसत्यं समार्गांगं सद्धर्मं समुपादिशन् // rm_23.17{17} //

तात् सद्धर्मामृतं पीत्वा सर्वे ते संप्रबोधिताः / धर्मविशेषम् आज्ञाय बोधिचर्यां समीछिरे // rm_23.18{18} //

तदैकस्मिन् दिने भिक्षुर् आयुष्मान् नारदाभिधः / भिक्षार्थं पात्रम् आदाय राजगृहपुरे ययौ // rm_23.19{19} //

तत्र स नारदो भिक्षुः पिंडार्थं समुपाचरन् / गृहस्थेन समालोक्य नीत्वा गेहे मुदासने // rm_23.20{20} //

प्रतिस्थाप्य समभ्यर्च्य सुप्रणीतरसान्वितैः / तीलोदनैः सुधाकल्पैः पानैश् च प्रतिपूजितः // rm_23.21{21} //

तद् भुक्त्वा स यतिस् तुष्टो दत्वा तस्मै शुभाशिषं / समुत्थाय ततो ऽरण्ये विहर्त्तुं निर्जने ऽचरत् // rm_23.22{22} //

तत्र स नारदो योगी गृध्रकूटनगान्तिके / ददर्श प्रेतिकाम् एकां राक्षसीम् इव भीषणां // rm_23.23{23} //

वृक्षमूले स्थितां रक्तविन्दुव्याप्ताम्वरावृतां / अस्थिशकलसंकीर्णे प्रेतालये निवासिनीं // rm_23.24{24} //

स्वात्मजान् अपि भक्षन्तीं क्षुत्पिपासाग्निदाहिनां / कृशाङ्गीं विकृताकारां कर्वुरमुक्तकेशिनीं // rm_23.25{25} //

दृष्ट्वा स नारदस् तत्र समुपासृत्य तत् पुरः / प्रेतिकां तां समालोक्य पप्रछैवं पुराकृतं // rm_23.26{26} //

किं त्वया प्रकृतं घोरं पातकं पूर्वजन्मसु / येनैवं दुःसहम् अनुभवसि सांप्रतं // rm_23.27{27} //

इति तेनार्हता पृष्टे प्रेतिका सा रुदन्त्य् अपि / नारदं तं यतिं दृष्ट्वा शनैर् एवम् अभाषत // rm_23.28{28} //

भदन्त किं मया ह्य् अत्र वक्ष्यते यत् पुराकृतं / दिवारात्रौ पंचपुत्रान् प्रसूता मे प्रभक्षिता // rm_23.29{29} //

तेनापि न संतुष्टा बुभुक्षिता प्रवर्द्धते / तद् भवांस् तं जगद्विज्ञं पृछता मत्पुराकृतं // rm_23.30{30} //

स मुनीन्द्रो जगच्छास्तादिशेत् ते ऽस्मत्पुराकृतं / आदित्ये हि समुद्याते दीपेन किं प्रयोजनं // rm_23.31{31} //

तथास्मत्प्रकृतं पापं श्रुत्वान्येन नरादयः / सत्वाः संत्रसिता एवं कुर्यु न के चन // rm_23.32{32} //

सर्वे ते ऽपि दिशेत् पापान् विरम्य शीलसंवृताः / त्रिरत्नशरणं कृत्वा प्रभजेयुः सदाद्रिताः // rm_23.33{33} //

इति तयोदितं श्रुत्वा नारदः स प्रबोधितः / तथेति सहसा गत्वा तत्र वेणुवने ऽसरत् // rm_23.34{34} //

तदा स भगवांस् तत्र ध्यानालयात् समुत्थितः / सभामध्यासनासीनः सद्धर्मं समुपादिशत् // rm_23.35{35} //

तस्मिन्न् अवसरे तत्र नारदः सत्वरान्वितः / दूरात् तं श्रीघनं पश्यन् सहसा समुपाचरन् // rm_23.36{36} //

तम् एव समुपायातं नारदं स मुनीश्वरः / दृष्ट्वारात् समुपामंत्र्य पुनर् एवम् अभाषत // rm_23.37{37} //

एहि ते स्वागतं भिक्षो कुतस् त्वं समुपागतः / किम् अर्थम् इह येनैवं प्रायासि तद् वदस्व मे // rm_23.38{38} //

इत्य् आदिष्टे मुनीन्द्रेण नारदः स कृतांजलिः / समुपेत्य मुनीन्द्रं तं प्रणत्वैवं न्यवेदयत् // rm_23.39{39} //

भगवन् भवतां पादौ द्रष्टुम् इह समाचरे / अद्याहं निर्जने ऽरण्ये विहर्तुं समुपाचरे // rm_23.40{40} //

तत्राहं प्रेतिकाम् एकां राक्षसीम् इव भीषणां / कृशाङ्गीं विकृताकारां रक्तविन्दुऽन्वितांवरां // rm_23.41{41} //

अनेका अस्थिषंकीर्णे प्रेतालये इव स्थितां / पश्यामि ताम् उपासृत्य परिपृछामि तत् कृतं // rm_23.42{42} //

किं त्वया प्रकृतं पापं पूर्वजन्मसु दारुणं / येनेदृग् महादुःखम् अनुभवसि सांप्रतं // rm_23.43{43} //

इति पृष्टे मयाथासौ प्रेतिका दुःखतापिनी / रुदन्ती मां समालोक्य शनैर् एवम् अभाषत // rm_23.44{44} //

भदन्त किं वदिष्यामि यन् मया पातकं कृतं / येनेदृशं महादुःखम् अनुभवामि सांप्रतं // rm_23.45{45} //

पंचपुत्रान् अहं रात्रौ दिवा पंच तथापरान् / प्रसूय तां प्रभक्ष्यामि नास्ति तृप्तिस् तथापि मे // rm_23.46{46} //

एवं क्षुत्पिपासाग्नितीव्रतापाभिदाहिता / दिवारात्रिं महद्दुःखं भुक्त्वा तिष्ठामि जंगले // rm_23.47{47} //

तत् पुरा किं कृतं घोरं पातकम् अतिदारुणं / मयापि ज्ञायते नात्र परिपृछ मुनीश्वरं // rm_23.48{148} //

सर्वज्ञस् त्रिजगच्छास्ता भगवान् स मुनीश्वरः / यन् मया प्रकृतं पापं तत् सर्वम् समुपाविशेत् // rm_23.49{49} //

इति तयोदितं श्रुत्वा तथेति परिबोधितः / भवन्तम् अत्र संप्रष्टुं समागछामि सांप्रतं // rm_23.50{50} //

किं तया प्रकृतं घोरं पातकम् अतिदारुणं / येनैवं दुःसहं दुःखं भुक्त्वा चरति साधुना // rm_23.51{51} // तत् सर्वं समुपादिश्य प्रबोधयितुम् अर्हति // rm_23.52{52} // इति संप्रार्थिते तेन भगवान् स मुनीश्वरः / नारदं तं महाभिज्ञं समालोक्यैवम् आदिशेत् // rm_23.53{53} //

नारद प्रेतिका सातितीव्रपातकसाधिनी / यदीच्छेस् तत् कृतं श्रोटुं शृणु वक्ष्यामि ते ऽधुना // rm_23.54{54} //

तद्यथाभूत् पुरा पुर्य्यां वाराणस्यां महाजनः / श्रेष्ठी प्राढ्यो महच्छ्रीमाच् छ्रीदोपमो धनाधिपः // rm_23.55{55} //

स कुलधर्मिणीं भार्याम् उपयेमे यथाविधिं / ततः स कांतया सार्द्धं तया रेमे प्रमोदयन् // rm_23.56{56} //

तस्यैवं रममाणस्य क्रीडतः सुचिराद् अपि / तस्याम् एको ऽपि पुत्रो वा पुत्री वा नाभ्यजायत // rm_23.57{57} //

ततः स गृहभृच् छ्रेष्ठी सन्ततिदर्शनोत्सुकः / तन् निराशाभिसंतप्तमूर्छितो ऽभूद् यथातुरः // rm_23.58{58} //

कपोलं स्वभुजे स्थाप्य शोकागारे व्यवस्थितः / संपच्चिन्ताविषण्णास्यो मनसैवं व्यचिंतयत् // rm_23.59{59} //

हा दैव किं मया पापं सुकृतं दुःकृतं पुरा / यन् ममैवं विधं दुःखं सुखं चात्र प्रजायते // rm_23.60{60} //

अनेकद्रव्यसंपत्तिसमुदितं गृहं मम / तत्र भोक्ता तु नैको ऽपि पुत्रो ऽस्ति दुहितापि न // rm_23.61{61} //

तत् सर्वं स्वापतेयं हि ममात्ययान् नराधिपः / अपुत्रकम् इति कृत्वा सर्वस्वं सर्वथा हरेत् // rm_23.62{62} //

यन् मयानेकयत्नेन साधितं रक्षितं च तत् / सर्वम् एव निरर्थेन विनष्टं मे भविष्यति // rm_23.63{63} //

तद् अत्र किं करिष्यामि यस्योपायं न मन्यते / सर्वथाहं विनष्टो ऽस्मि को मां रक्षेद् इहाधुना // rm_23.64{64} //

एवं चिन्ताविषण्णास्यं स्वामिनं तं गृहाधिपं / दृष्ट्वा सा रमणी भार्या समालोक्यैवम् अब्रवीत् // rm_23.65{65} //

स्वामिन्न् अत्र किम् एव त्वं तिष्ठसे दुःखचिन्तया / किं तव जायते दुःखं तद् वदस्व ममाग्रतः // rm_23.66{66} //

इति भार्योदितं श्रुत्वा स गृहस्थो विनिश्वसन् / तं भार्यां रमणीकान्तां समालोक्यैवम् अब्रवीत् // rm_23.67{67} //

प्रिये ऽत्र किं वदिष्यामि यस्योपायं न मन्यते / यन् मे ऽस्ति महती संपद् अस्या भोक्ता न विद्यते // rm_23.68{68} //

नूनं मदत्ययाद् राजा ममैताः सर्वसंपदः / अपुत्रस्य नृपाधीना इति कृत्वा हरिष्यति // rm_23.69{69} //

यन् ममैता महायत्नैः साधिता वन्दिता अपि / तत् सर्वं हि निरर्थेन विनक्ष्यति निरत्ययात् // rm_23.70{70} //

एतन् मे जायते दुःखं तद् अत्र किं वदेय हि / को ममैतन् महच् छल्यं हृदये ऽत्र समुद्धरेत् // rm_23.71{71} //

इति चिन्ताविषण्णात्र हृदयं दह्यते मम / तेनैवम् अत्र तिष्ठामि विषदग्धो यथातुरः // rm_23.72{72} //

इति भर्त्रोदितं श्रुत्वा सा भार्या रमणी प्रिया / स्वामिनं तं समालोक्य बोधयितुं समब्रवीत् // rm_23.73{73} //

एतदर्थे विषादत्वं मा कृथाः सर्वथा प्रिये / उपायां कुरु तत् प्राप्त्यै यदि संततिम् इछसि // rm_23.74{74} //

उपायम् अपि सिद्ध्येत देवतानां प्रसादतः / तद् देवताः समाराध्य याचस्व सन्ततिं मुदा // rm_23.75{75} //

तदा देवप्रसादेन जयेन् नौ सन्ततिः खलु / पुत्रो वा यदि वा पुत्री जाता स्यात् सफलं भवे // rm_23.76{76} //

इति मे वचनम् श्रुत्वा कुलस्थितिं यदीछसि / देवताराधनं कृत्वा भजस्व संततीछया // rm_23.77{77} //

इति भार्योदितं श्रुत्वा स गृहस्थः प्रबोधितः / तथेत्य् अभ्यनुमोदित्वा तथा कर्त्तुं समैछत // rm_23.78{78} //

ततः स गृहभृच् छ्रेष्ठी भार्यया सह मोदितः / स्वकुलेशं समभ्यर्च्य सन्तानं समयाच तत् // rm_23.79{79} //

तथापि श्रेष्ठिनस् तस्य भार्याभून् नैव गर्भिणी / ततः स परिखिन्नात्मा तस्थाव् एवं निराशया // rm_23.80{80} //

ततः सा रमणी भार्या निराशाखिन्नमानसं / स्वामिनं तं समालोक्य पुनर् एवम् अभाषत // rm_23.81{81} //

स्वामिन् मात्र विषादत्वं कृथा धैर्यं समाश्रय / विषादो क्लीयते चित्तं क्षीणद्त्तो न वीर्यभाक् // rm_23.82{82} //

वीर्यं विनात्र संसारे किं चित् कार्यं न सिद्ध्यते / तस्माद् वीर्यं समालम्ब्य भज देवान् समाहितः // rm_23.83{83} //

यदि पुत्रो न जाताः स्यात् पुत्री वापि न जायते / पुण्यं तु वर्द्ध्यते नूनं देवताराधनाद् अपि // rm_23.84{84} //

इति मत्वात्र संसारे सदा सौख्यं यदीछसि / सर्वान् देवान् समभ्यर्च्य भजस्वा श्रद्धयादरात् // rm_23.85{85} //

इति भार्योदितं श्रुत्वा भर्त्ता श्रेष्ठी स बोधितः / तथेति प्रतिभाषित्वा देवान् अर्चितुम् ऐछत // rm_23.86{86} //

तथा सन्तानम् इछेन् स गृहस्थो भर्य्यया मुदा / विधिं स्रष्टारम् आराध्य संततिं समयाचत // rm_23.87{87} //

तथापि तस्य भार्या सा गर्भिणी नो ऽभवच् चिरं / ततश् च स विभग्नाशस् तस्थौ शोकविषादितः // rm_23.88{88} //

तटो ऽपि भार्यया भूयः प्रेर्य्यमाणः स बोधितः / विश्वंभरं समभ्यर्च्य ययाच संततिं तथा // rm_23.89{89} //

तथापि साभवन् नैव दोहदलक्षणाङ्किता / ततश् चासौ गृहस्थो ऽभून् निराशापरिखेदितः // rm_23.90{90} //

तथा स भार्यया भूयः प्रेरितः परिबोधितः / महेश्वरं समभ्यर्च्य संततिं समयाचत // rm_23.91{91} //

तथेन्द्रं च समाराध्य प्रार्थयत् संततिं मुदा / एवं लोकाधिपान् सर्वान् ग्रहान् सर्वान् अहूर् अपि / समाराध्य समभ्यर्च्य प्रार्थयत् सन्ततिं तथा // rm_23.92{92} //

ततश् चैवं महाकालं कुमारं च गणाधिपं / भैरवं मातृकाश् चापि प्रार्थयद् वंशम् अर्चयन् // rm_23.93{93} //

एवम् अन्यान् अपि देवान् विहारमण्डपाश्रयान् / मठसत्राश्रमारामशृंगाटकप्रतिष्ठितान् // rm_23.94{94} //

उद्यानपर्वतारण्याक्षत्रसीमादिसंस्थितान् / सर्वजलाश्रयस्थांश् च सर्वान् नागाधिपान् अपि // rm_23.95{95} //

रथ्याचत्वरमार्गादिप्रतिस्थितान् समुत्सुकः / सर्वान् देवान् समाराध्य ययाचैवं स संततिं // rm_23.96{96} //

तथापि श्रेष्ठिनस् तस्य भार्यायां सुचीराद् अपि / तस्यां नैवाभवत् किं चिद् दोहदोत्पत्तिलक्षणं // rm_23.97{97} //

ततः स गृहभृच् छ्रेष्ठी दृष्ट्वा वंशनिरन्तरं / निराशाप्रतिखिन्नात्मा तस्थाव् एवं यथातुरः // rm_23.98{98} //

एतद् दुःखविभिन्नास्यं दृष्ट्वा सा रमणी प्रिया / स्वामिनं तं समीक्षन्ती पुनर् एवम् अभाषत // rm_23.99{99} //

स्वामिन्न् अत्र विषादेन किं चित् कार्यं न सिद्ध्यते / इति मत्वा यथाकामं सौख्यं भुक्त्वा समाचर // rm_23.100{100} //

यद् आवाभ्यां कृतं पापं तत् फलं भुज्यते ऽधुना / तद् अत्र किं करिष्यावो दैवं हि वलवान् भवे // rm_23.101{1} //

यद् अभावि भवेन् नैव भावि चेन् नान्यथा क्वचित् / अवश्यं भाविनो भावा भवन्ति सर्वथा भवे // rm_23.102{2} //

इति मत्वात्र संसारे भुक्त्वा सौख्यं यथेछया / त्रिरत्नभजनं कृत्वा चर सत्यं समाहितः // rm_23.103{3} //

तेहैव सर्वदा भद्रम् इहामुत्रापि सर्वतः / क्रमाद् बोधिपदं प्राप्य निर्वृतिं समवाप्स्यति // rm_23.104{4} //

इति भार्यासमाख्यातं श्रुत्वा श्रेष्ठी स बोधितः / त्रिरत्नभजनं कृत्वा कञ्चित् कालं व्यलंघयत् // rm_23.105{5} //

ततस् तस्य सुहृन् मित्रम् उपागत्य पुरः स्थितः / तत् संतानसमुत्पत्यै तन् मित्रम् एवम् अब्रवीत् // rm_23.106{6} //

भो मित्र शृणु मे वाक्यं यत् ते हितं मयोच्यते / सर्वथास्यां प्रियायां ते संतानं विद्यते न हि // rm_23.107{7} //

तद् उपायं तु कर्त्तव्यं संततिं प्रतिपत्तये / निर्वंशस्य हि संसारे निरर्थं सर्वसाधनं // rm_23.108{8} //

तत् संतानसमुत्पत्यै द्वितीयं पुत्रभाविनीं / अपरां युवतीं भार्यां विवह विधिना पुनः // rm_23.109{9} //

कदा चित् तव भाग्येन सा पुत्रं जनयेद् अपि / तदा ते सफलं जन्मः कुलस्थितिर् भवेद् अपि // rm_23.110{10} //

इति मित्रोदितं श्रुत्वा स गृहस्थः प्रबोधितः / तथा हीति प्रतिज्ञाय तं मित्रम् अभ्यमानयत् // rm_23.111{11} //

ततः स गृहभृच् छ्रेष्ठी निरीक्ष्य पुत्रभाविनीं / अपरां युवतीं कांताम् उपयेमे यथाविधिः // rm_23.112{12} //

ततः स कुलिकः श्रेष्ठी तया सार्द्धं प्रमोदितः / यथाकामं सुखं भुक्त्वा रराम परिचारयन् // rm_23.113{13} //

ततस् तस्य गृहस्थस्य यथाकामं प्रभुंजतः / समये सा प्रिया भार्या वभूव गर्भिणी ऽचिरात् // rm_23.114{14} //

ततः क्रमात् प्रवृद्धो ऽभूद् गर्भस् तस्या दिने दिने / तदा सा गर्भसंजातं परिज्ञायाभ्यनन्दत // rm_23.115{15} //

ततः सा भद्रिका कान्ता स्वामिनं तं प्रमोदिता / रहसि समुपामंत्र्य समालोक्यैवम् अब्रवीत् // rm_23.116{16} //

दिष्ट्यार्य्यपुत्र वृद्धो ऽसि गर्भे मे जायते शिशुः / दक्षिणपार्श्वसंस्थायत् तद् अयं दारको भवेत् // rm_23.117{17} //

इति भार्योदितं श्रुत्वा स गृहस्थो ऽभिनंदितः / सव्यवाहुं समुत्सार्य मुदैवं समुदाहरत् // rm_23.118{18} //

हा मे ऽभिलषितं सिद्ध्येत् पश्येयं संततेर् मुखं / सांप्रतं नावजातो ऽस्मि कुलस्थितिर् भवेद् अपि // rm_23.119{19} //

कृत्यानि मे प्रकुर्वीत विभृयाच् च भृतः प्रति / दायाद्यं प्रतिपद्येत वंशो पि स्याच् चिरस्थितः // rm_23.120{20} //

यन् मया प्रकृतं दानं यच् च पुण्यं प्रसाधितं / एतद् विपाककौशल्यम् एतयोर् अनुगछतु // rm_23.121{21} //

एवं स मुदितः श्रेष्ठी तां भार्यां भद्रिकां प्रियां / सुपथ्योपचारसंयुक्तैर् आहारैः समपोषयत् // rm_23.122{22} //

दूष्यैश् चीनांशुकैः पट्टैः कोमलैस् सौरभान्वितैः / नानारत्नाभ्यलंकारैर् मण्डयित्वाभ्यमोदयत् // rm_23.123{23} //

एवं तां भद्रिकां कान्तां पथ्योपचारभूषणैः / पोषितां मण्डितां कृत्वा प्रामाणयत् प्रसादयन् // rm_23.124{24} //

एवं तां गर्भिणीं भर्तुर् बहुमानाभिनंदितां / दृष्ट्वा सा प्रथमा भार्या भूय एवं व्यचिंतायत् // rm_23.125{25} //

यद्य् एषा युवती कांता जनयेद् अतिसंततिं / तद् एतत् सर्वसंपत्तिर् अधीनास्या भवेद् अपि // rm_23.126{26} //

एषैव हि प्रधाना स्यात् सर्वलोकप्रमाणिका / को ऽपि प्रमाणयेन् नैव जरतीं माम् अपुत्रितां // rm_23.127{27} //

तद् अत्रास्याः सपत्न्या मे यथा स्याद् गर्भशातनं / तथोपायं प्रकर्त्तव्यं सुगुप्तेन मयाधुना // rm_23.128{28} //

कामरागाग्नितप्तस्य नास्ति किं चिद् धि पातकं / सर्वम् अपि प्रकर्त्तव्यं भोक्तव्यं सर्वतो ऽपि च // rm_23.129{29} //

ततः सा प्रमदा दुष्टा तस्या गर्भाभिशातनं / द्रयं पानाभिसंयुक्तं ददौ विश्रम्भवादिनी // rm_23.130{30} //

तत् सपत्न्यार्पितं पानं दृष्ट्वा सा भद्रिकार्जवा / हस्ताभ्यां सहसादाय पपौ तृष्णार्दिता यथा // rm_23.131{31} //

तद् एतत् पीतमात्रेण तस्या गर्भो विघूर्णितः / सहसाभिद्रवीभूतः प्रसश्रावाभ्यशोषतः // rm_23.132{32} //

ततः सा भद्रिका नारी भर्त्तारं तं सबांधवं / सहसा समुपामंत्र्य पुनर् एवं न्यवेदयत् // rm_23.133{33} //

स्वामिंस् तवानया पत्न्या प्रियया गर्भशातनं / पानम् औषधसंयुक्तं सादरं मे प्रदीयते // rm_23.134{34} //

तत् तद् दत्तं सविश्वासं गृहीत्वा पीयते मया / तत्पानपीतमात्रेण गर्भो मे स्रस्यते ऽधुना // rm_23.135{35} //

तद् अत्र किं करिष्यामि यतो मे नश्यते शिशुः / यद् अर्थं प्रकृतं दानं तत् सर्वं निस्फलं तव // rm_23.136{36} //

इत्य् आख्यातं तया पत्न्या श्रुत्वा श्रेष्ठी स रोषितः / तां सहसाहूय परिभाष्यैवम् आलपत् // rm_23.137{37} //

हा रे रे दुर्मते दुष्टे घोरपातकसाधिनी / एवम् अपि महाघोरं पातकं प्रकृतं त्वया // rm_23.138{38} //

यदर्थे देवताः सर्वास् समाराध्याभियाचिताः / नानाविधानयत्नानि प्रकृतानि ममानिशं // rm_23.139{39} //

सर्वाण्य् एतानि यत्नानि त्वया व्यर्थीकृतानि हि / तद् अत्र किं त्वया पत्न्या पापिष्ठया व्रजाधुना // rm_23.140{40} //

मया त्वं पापिनी त्यक्ता मा तिष्ठेह गृहे मम / इत्य् उक्तं स्वामिना तेन श्रुत्वा सा दुरिताशया / सज्ञातेः स्वामिनस् तस्य पुरर् एवम् अभाषत // rm_23.141{41} //

किम् एवं वदसे स्वामिन् न मयेदं कृतं खलु / मया न मन्यते नूनं तद् इदं त्वं विचारय // rm_23.142{42} //

यदि दत्तं मया द्रव्यम् अस्या गर्भाभिशातनं / प्रेतीभूतात्मजान् पुत्राञ् जातां जातान् दिवानिशं // rm_23.143{43} //

प्रभुक्त्वैवं महद्दुःखे चिरेयु दुर्गतौ सदा / इत्य् एवं शपथं कृत्वा स्वामिनं तम् अबोधयत् // rm_23.144{44} //

इति प्रोक्तं तया पत्न्या श्रुत्वा श्रेष्ठी स बोधितः / चिराशापरिमुक्तात्मा मृता प्रेतालये यायौ // rm_23.145{45} //

एषैव प्रेतिका श्रेष्ठिभार्या दुराशया / स्वकृतकर्मभोग्यानि भुक्त्वैवं भ्रमते ऽधुना // rm_23.146{46} //

यद् ईर्ष्यया तया तस्याः प्रकृतं गर्भशातनं / तेन सा दुष्कृताकारा प्रेतीभूता चरत्य् अपि // rm_23.147{47} //

यच् च तया मृषावाचा शपथः प्रकृता यथा / तथा तत्कर्मपाकेन दुर्गतौ भ्रमते सदा // rm_23.148{48} //

पंचपुत्रान् दिवारात्रिं प्रसूय सा क्षुधान्विता / सर्वांस् तां स्वात्मजान् वालान् अपि भुक्त्वा न तृप्यते // rm_23.149{49} //

एवं सा पापिनी प्रेती जातां जतांस् तथात्मजान् / भुक्त्वा क्षुधाग्निसंदगधा भ्रमेत् प्रेतालये सदा // rm_23.150{50} //

एवं नारद विज्ञाय विरम्य पातकात् सदा / मृषावादाच् च सद्धर्मे चरितव्यं शुभार्थिभिः // rm_23.151{51} //

सद्धर्मस्य विपाके हि सर्वदा मंगलं भवे / पातकस्य सदा दुःखं विश्रिते स्य तथोभयं // rm_23.152{52} //

इति मत्वा सदा यूयं त्रिरत्नं शरणं गताः / सत्कृत्य श्रद्धया नित्यं प्रभजध्वं समाहिताः // rm_23.153{53} //

ये बुद्धशरणं कृत्वा भजन्ति श्रद्धया मुदा / ते सर्वे दुर्गतिं हित्वा संप्रयान्ति जिनालये // rm_23.154{54} //

ये च शृण्वन्ति सद्धर्मं मानयन्ति च सादरं / ते ऽपि क्लेशान् विनिर्जित्य संयांति सौगतालये // rm_23.155{55} //

ये संघं शरणं कृत्वा सत्कृत्य प्रभजन्ति ते / सर्वे ऽपि दुर्गतेर् मुक्त्वा संप्रयान्ति सुखावतीं // rm_23.156{56} //

एवं मत्वात्र संसारे सर्वदा शुभवांछिभिः / त्रिरत्नभजनं कृत्वा चरितव्यं शुभे सदा // rm_23.157{57} //

इत्य् आदिष्टं मुनींद्रेण श्रुत्वा स नारदः सुधीः / ससंघः सर्वदा लोकाश् च तथेति प्रत्यपद्यत // rm_23.158{58} //

ततः स नारदो भिक्षुः कृतांजलिः पुरोगतः / भगवंतं प्रणत्वा च पप्रछ तद् विशोधनं // rm_23.159{59} //

भगवन् सा पापिनी प्रेती ततः प्रेतालयात् कदा / तद्घोरपातकान् मुक्ता संयायात् सद्गतौ कथं // rm_23.160{60} //

तद् उपायं जगच्छास्त समुपादेष्टुम् अर्हति / येनासौ दुर्गातेर् मुक्ता सहसा सद्गतिं व्रजेत् // rm_23.161{61} //

इति संप्रार्थिते तेन नारदेन स सर्ववित् / भगवांस् तं सभां चापि समालोक्यैवम् आदिशत् // rm_23.162{62} //

शृणु नारद तस्यास् तत् पातकपरिशोधनं / उपायं समयं चापि प्रवक्ष्याम्य् अधुना तथा // rm_23.163{63} //

यदा लोकेश्वरो नाथः सर्वसत्वानुकंपकः / बोधिसत्वो महासत्वस् त्रैधातुकाधिपेश्वरः // rm_23.164{64} //

सुखावत्या विनिर्गत्य सर्वाल् लोकान् प्रभासयन् / सर्वान् सत्वान् समुद्धर्तुं प्रेतलोके समाचरेत् // rm_23.165{65} //

तदा तत्प्रभया स्पृष्टा सातिसौख्यसमन्विता / किम् अद्य मे महत्सौख्यम् इति प्रोक्त्वाभ्यचिंतयत् // rm_23.166{66} //

अहो सौख्यं समुत्पन्नं प्रभावेयं प्रसारिता / नूनम् अत्र महासत्वः सत्वान् उद्धर्तुम् आगताः // rm_23.167{67} //

यस्येदृक् सत्कृपादृष्टिः सत्वेष्व् एवं प्रसर्य्यति / तस्यैव शरणं गत्वा भजेयं सर्वदादरात् // rm_23.168{68} //

इति ध्यात्वा विनिश्चित्य सा प्रेती प्रतिविस्मिता / तस्यैवा स्मरणं कृत्वा तिष्ठे दृष्टं समुत्सुका // rm_23.169{69} //

तदा स भगवांस् तत्र लोकनाथः कृपामयः / प्रेतलोकान् समूद्धर्तुम् उपाचरेत् प्राभासयः // rm_23.170{70} //

तं प्रभासंतम् आयातं दृष्ट्वा सर्वे ऽपि प्रेतकाः / सहसा समुपेत्यैवं प्रार्थयेयुः समादरात् // rm_23.171{71} //

स्वागतं भगवन् नाथ प्रसीद परमेश्वर / कृपयास्मान् समालोक्य प्रेतलोकान् समुद्धर // rm_23.172{72} //

सर्वदा भवताम् एव शरणं संव्रजामहे / तत् कृत्वा परिशुद्धान् नः सर्वा प्रेरय सद्गतौ // rm_23.173{73} //

इति तत् प्रार्थिते सर्वे लोकनाथः कृपानिधिः / सद्धर्मं समुपादिश्य पुनर् एवम् उपादिशेत् // rm_23.174{74} //

यदीछथ सदा सौख्यं यूयं सर्वे समाहिताः / त्रिरत्नं स्मरणं कृत्वा भजत श्रद्धया मुदा // rm_23.175{75} //

तदैतत् पातकैर् मुक्तास् सर्वे यूयं पवित्रिताः / सहसा सद्गतिं प्राप्ता भवेत बोधिचारिणः // rm_23.176{76} //

इत्य् आदिष्टं जगच्छास्त्रा लोकनाथेन तेन ते / सर्वे ऽपि प्रेतिकाः श्रुत्वा तथा कर्तुं समीछिरे // rm_23.177{77} //

तदा ते प्रेतिकाः सर्वे परिशुद्धाशया मुदा / त्रिरत्नं शरणं कृत्वा स्मृत्वा भजेयुर् आनताः // rm_23.178{78} //

तदा तत्स्मृतिपुण्येन सर्वे ते प्रेतिकास् ततः / प्रेतलोकात् समुत्थाय संयास्यन्ति सुखावतीं // rm_23.179{79} //

तत्रामिताभनाथस्य सर्वे ते शरणं गताः / भजन्तो धर्मम् आकर्ण्य चरिष्यंति शुभाचरिं // rm_23.180{80} //

ततः सर्वे ऽपि ते सत्वा बोधिसत्वाः शुभंकराः / क्रमाद् बोधिं समासाद्य संबुद्धपदम् आप्नुयुः // rm_23.181{81} //

तदा सा पापिनी प्रेती सर्वपापविमोचिता / प्रेतलोकात् समुत्थाय सद्गतिं समवाप्स्यति // rm_23.182{82} //

एवं मत्वात्र संसारे सद्गतिं सुखवांछिभिः / त्रिरत्नभजनं कृत्वा चरितव्यं सदा शुभे // rm_23.183{83} //

त्रिरत्नभजनोद्भूतं पुण्यं न क्षिणुयात् क्वचित् / सर्वक्लेशान् विनिर्दह्य प्रापयेत् सौगतं पदं // rm_23.184{84} //

इत्य् आदिष्टं मुनीन्द्रेण श्रुत्वा स नारदो यतिः / ससांघिकसभालोकस् तथेति प्राभ्यनंदत // rm_23.185{85} //

इति मे गुरुणादिष्टं मयात्र वक्ष्यते / मत्वा राजंस् त्वम् अप्य् एवं त्रिरत्नं भज सर्वदा // rm_23.186{86} //

प्रजाश् चापि तथा धर्मं श्रावायित्वा प्रबोधयन् / बोधिमार्गे प्रतिष्ठाप्य पालयस्व समाहितः // rm_23.187{87} //

ततस् ते सर्वदा भद्रं सर्वत्रापि भवेद् ध्रुवं / क्रमाद् बोधिं शिवां प्राप्य संबुद्धपदं आप्नुयाः // rm_23.188{88} //

इति तेनार्हतादिष्टं श्रुत्वाशोको नराधिपः / तथा हीति प्रतिज्ञाय प्राभ्यनन्दत् सपार्षदः // rm_23.189{89} //

ये चेदं प्रेतिकायाः सुगतकथितम् इदं श्रद्धया ये ऽवदानं शृण्वंति श्रावयन्ति प्रमुदितमनसस् ते नराः सर्व एवं / कृत्वा रत्नत्रयस्य प्रभजनम् अनिशं बोधिचित्तं समाप्य कृत्वा लोकेषु भद्रं सकलगुणभरा बौद्धलोके प्रयान्ति /

++ इति रत्नावदानतत्वे प्रेतिकायाः कथा समाप्तम् ++

xxiv pretībhūtamaharddhikāvadāna अथाशोको महीपालः कृतांजलिपुटो मुदा / उपगुप्तं यतिं नत्वा प्रार्थयच् च तथादरात् // rm_24.1{1} //

भदन्त श्रोतुम् इछामि पुनर् अन्यत् सुभाषितं / तद्यथा गुरुणादिष्टं तथा मे समुपादिश // rm_24.2{2} //

इति संप्रार्थिते राज्ञा श्रुत्वा सो ऽर्हं सुधीर् यतिः / नृपतिं तं महीपालं संपश्यन्न् एवम् आदिशत् // rm_24.3{3} //

साधु शृणु महाराज यथा मे गुरुणोदितं / तथाहं संप्रवक्ष्यामि तव धर्मप्रवृद्धये // rm_24.4{4} //

तद्यथा भगवाञ् छास्ता श्रीघनः स मुनीश्वरः / सर्वज्ञः सुगतो नाथो धर्मराज विनायकः // rm_24.5{5} //

भिक्षुभिः श्रावकैः सार्द्धं भिक्षुणीभिश् च चैलकैः / उपासकैः शुभाचारैर् उपासिकागणैर् अपि // rm_24.6{6} //

बोधिसत्वैर् महासत्वैस् तथान्यैर् बोधिवांछिभिः / ब्रह्मदेवासुरेन्द्रैश् च यक्षगंधर्वकिंनरैः // rm_24.7{7} //

सिद्धैर् विद्याधरैश् चापि नागेन्द्रै गरुडैर् अपि / सर्वै लोकाधिपैश् चापि तथान्यैश् च महर्षिभिः // rm_24.8{8} //

ब्राह्मणै राजभि राजकुमारैश् च शुभार्थिभिः / वैश्यै मंत्रिगणैश् चापि तथामात्यगणैर् अपि // rm_24.9{9} //

श्रेष्ठिभिः पौरिकैश् चपि गृहस्थैश् च महाजनैः / वणिग्भिः सार्थवाहैश् च तथा शिल्पिगणैर् अपि // rm_24.10{10} //

ग्राम्यै जानपदैश् चापि कार्पटिकैः सतीर्थिकैः / तथान्यैः सुजनै विज्ञैः सद्धर्मगुणवांछिभिः // rm_24.11{11} //

सेविताभ्यर्चितस् तत्र वेणुवने मनोरमे / करंदकनिवापाख्ये विहारे सौगताश्रमे // rm_24.12{12} //

सद्धर्मं समुपादिश्य विजहार प्रभासयन् / सर्वसत्वहितार्थेन रत्नराशिम् इवोज्वलन् // rm_24.13{13} //

तदैव समये तत्र राजगृहे पुरोत्तमे / आसीद् गृहपते श्रेष्ठी महाजनो महाधनः // rm_24.14{14} //

श्रिमां श्रीदोपमः सर्वद्रव्यसंपत्समान्वितः / स सदृशात् कुला भार्यां स्वकुलधर्मचारिणीं // rm_24.15{15} //

सुभद्रांगां समानीय विधिनोदवहन् मुदा / ततः स गृहभृत् कन्ता भार्यया कांतया तथा // rm_24.16{16} //

यथाकामं रतिं भुक्त्वा चक्रीड परिचारयन् / ततस् तस्य गृहस्थस्य यथाकामं प्रभुंजतः // rm_24.17{17} // समये सा प्रिया भार्या बभूव गर्भधारिणी // rm_24.18{18} // ततः सा समये ऽसूत दारकं सुंदरांशिकं / तच् छ्रुत्वा स पिता श्रेष्ठी मुदा द्रष्टुम् उपाचरन् // rm_24.19{19} //

तत्र स समुपेत्याशु दारकं तं शुभांशिकं / दृष्ट्वा संमुदितः पश्यन्न् एव तस्थाव् अतृप्तितः // rm_24.20{20} //

ततो ज्ञातीन् समाहूय कृत्वा जातिमहं शिशोः / अस्य नामप्रसिद्धेन क्रियताम् इत्य् अभाषत // rm_24.21{21} //

तच् छ्रुत्वा ज्ञातयः सर्वे ते कृत्वा समतं तथा / तं श्रेष्ठिनं समाहूय पुर एवं समब्रुवन् // rm_24.22{22} //

यद् अयं दारको जातो नक्षत्र उत्तराभिधे / तेनोत्तर इति ख्यातो भवतु भवदात्मजः // rm_24.23{23} //

इति तैर् ज्ञातिभिः ख्यातं श्रुत्वा स गृहभृत् तथा / तेनैव नामधेयेन प्राख्यापयत् तम् आत्मजं // rm_24.24{24} //

ततः स दारको ऽष्टाभि धात्रिभिः प्रतिपालितः / दिने दिने प्रवृद्धो ऽभू ह्रदस्थम् अम्बुजं यथा // rm_24.25{25} //

ततः प्रवर्द्धमानः स गुरुभिः शिक्षितः क्रमात् / लिप्यादि सर्वविद्यानां द्रुतं पारं समाययौ // rm_24.26{26} //

तदा स उत्तरो विज्ञः सवयोभिः सहान्वितः / चरमानः पुरे तत्र लोकमनोहरो वभौ // rm_24.27{27} //

यदा स उत्तरः प्रौढयौवनमदनाश्रयः / तदा तस्य पिता श्रेष्ठी दैवात् कालं समाययौ // rm_24.28{28} //

ततस् तस्य गृहे तत्र स उत्तरस् तदात्मजः / स्वामी संपत्तिसंप्राप्तो गृहि लोकाधिपो ऽभवत् // rm_24.29{29} //

ततः स कुलवृत्तिस्थो व्यवहारविचक्षणः / क्रयविक्रयकार्याणि कृत्वा द्रव्यं समर्जयत् // rm_24.30{30} //

स एकस्मिन् दिने तत्र वेणुवने जिनाश्रमे / संबुद्धं श्रीघनं द्रष्टुं धर्मार्थी समुपाचरत् // rm_24.31{31} //

तत्र स समुपासृत्याद्राक्षीत् तम् श्रीघनं मुनिं / द्वात्रिंशल्लक्षणाशीतिव्यंजनप्रतिमंडितं // rm_24.32{32} //

व्यामप्रभाविरोचंतं समंतभद्ररूपिणं / रत्नराशिम् इवोज्वालं रत्नाद्रिम् इव जंगमं // rm_24.33{33} //

सभामध्यासनासीनं भिक्षुसंघपुरस्कृतं / धर्मामृतप्रवर्षन्तं सर्वलोकैर् नमस्कृतं // rm_24.34{34} //

दृष्ट्वा स मुदितस् तत्र सांजलिः पुरतो व्रजन् / पादौ तस्य मुनीन्द्रस्य प्रणत्वैकान्त आश्रयन् // rm_24.35{35} //

तत्र तस्याशयं शुद्धं दृष्ट्वा स भगवांस् तथा / आर्यसत्यं समारभ्य सद्धर्मं समुपादिशत् // rm_24.36{36} //

तत् सद्धर्मामृतं पीत्वा स उत्तरः प्रमोदितः / पुनः पादौ मुनेर् नत्वा प्रत्याययौ स्वम् आलयं // rm_24.37{37} //

एवं स उत्तरो विज्ञः प्रतिदिनं जगद्गुरोः / द्रष्टुं धर्मामृतं वापि पातुम् नित्यम् उपाचरत् // rm_24.38{38} //

तथा तस्य मुनीन्द्रस्य पीत्वा धर्मामृतं तदा / संबुद्धशासने तत्र प्रव्रजितुं समैछत // rm_24.39{39} //

ततः स उत्तरस् तस्य मुनीन्द्रस्य पुरोगतः / पादाब्जौ सांजलिर् नत्वा प्रव्रज्यां समयाचत // rm_24.40{40} //

भगवन् नाथ सर्वज्ञ भवतां शरणं व्रजे / तत् प्रव्रज्यां व्रतं मह्यं दातुम् अर्हति सांप्रतं // rm_24.41{41} //

इति संप्रार्थिते तेन भगवान् मुनीश्वरः / उत्तराख्यं कुमारं तं समालोक्यैवम् आदिशत् // rm_24.42{42} //

कुमार शासने बौद्धे प्रव्रजितुं यदीछसि / अनुज्ञां मातुर् आसाद्य प्रागछ दास्यते तदा // rm_24.43{43} //

इत्य् आदिष्टे मुनीन्द्रेण स उत्तरः प्रबोधितः / तथेति चरणौ तस्य मुनेर् नत्वा गृहं ययौ // rm_24.44{44} //

तत्र गृहे समासाद्य स उत्तरः प्रमोदितः / जनन्याश् चरणौ नत्वा सांजलिर् एवम् अब्रवीत् // rm_24.45{45} //

मातर् अद्य विहारे ऽहं गछामि सौगताश्रमे / तत्र शास्तु मुखाब्जोत्थम् आर्यधर्मामृतं पिबे // rm_24.46{46} //

तत् सद्धर्मामृतं पीत्वा तृष्णा मे वर्द्ध्यते पुनः / तत् सद्धर्मं समालब्धुम् इछामि परितुष्टये // rm_24.47{47} //

धन्यास् ते हि शुभात्मानः परिशुद्धत्रिमंडलाः / संबुद्धशासने स्थित्वा सदा धर्मं पिबन्ति ये // rm_24.48{48} //

अहम् अपि सदा तत्र संबुद्धशासने चरन् / तत् सद्धर्मामृतं लब्धुम् इछामि जननी ध्रुवं // rm_24.49{49} //

तत् प्रव्रज्याव्रतं धृत्वा चरितुं सौगताश्रमे / इछामि सांप्रतं मातस् तद् अनुज्ञां प्रदेहि मे // rm_24.50{50} //

इति पुत्रादितं श्रुत्वा मता सा प्रहताशया / चिरं तम् आत्मजं दृष्ट्वा रुदन्त्यैवम् अभाषत // rm_24.51{51} //

किम् एव वदसे पुत्र मैवं मे पुरतो वदः / किम् अर्थं स्वगृहं त्यक्त्वा प्रव्रजितु त्वम् इछसि // rm_24.52{52} //

किं ते दुःखं कुतो जातं मया किं चिन् न दृश्यते / त्वया तु दृश्यते यत् तद् वक्तव्यं पुरतो मम // rm_24.53{53} //

अद्यापि तव तातस्य शोकाधिः शाम्यते न मे / तथापि मां कथं त्यक्तुम् इछसि सांप्रतं सुते // rm_24.54{54} //

इति मात्रोदितं श्रुत्वा स उत्तरः कुमारकः / मातरं तं समालोक्य बोधयितुं समब्रवीत् // rm_24.55{55} //

मातस् त्वत्कृपया मे ऽत्र किं चिद् दुःखं न विद्यते / गृहे ऽपि महती संपद् अस्ति भोग्यं यथेछया // rm_24.56{56} //

अनित्यं खलु संसारं क्षणध्वंसि शरीरकं / अनित्यं जीवितं विद्युत्संपातम् इव न ध्रुवं // rm_24.57{57} //

संपच् चापि स्थिरा नैवं कस्य श्री सर्वदा स्थिरा / सर्वेषाम् अपि जंतूनां सर्वत्र मरणं ध्रुवं // rm_24.58{58} //

सर्वे ऽपि प्राणिनः काले त्यक्त्वा सर्वान् परिग्रहान् / ज्ञातिवंधुसुहृत्मित्रान्न् अपि यांति यमालयैः // rm_24.59{59} //

एको ऽपि विद्यते नैव मृत्युप्राप्ते सहानुगः / धर्म एव तदैकः स्यात् त्रातानुगो यमालये // rm_24.60{60} //

धर्मेण रक्ष्यते तत्र यमदूतैर् अधिष्ठिते / तद् अत्र सर्वथा नित्यं कर्त्तव्यं धर्मम् एव हि // rm_24.61{61} //

धर्मवान्न् अत्र संसारे भ्रमन्न् अपि सदा सुखी / सर्वत्र सत्सुखान्य् एव प्रभुक्त्वा याति सद्गतिं // rm_24.62{62} //

तत्रापि सर्वदा सौख्यं भुक्त्वा कृत्वा च मंगलं / सर्वसत्वहितार्थेन सद्धर्माण्य् एव साधयेत् // rm_24.63{63} //

एतत्पुण्यविपाकैः स सद्गुरुं समुपाश्रयेत् / सद्गुरोस् तु प्रसादेन बोधिचित्तं लभेत् तदा // rm_24.64{64} //

ततो बोधिचरीं प्राप्य बोधिसत्वो भवेत् सुधीः / ततः सत्वहितार्थेन बोधिचर्यां समाचरेत् // rm_24.65{65} //

ततः पारमिताः सर्वाः परिपूर्य यथाक्रमं / त्रिविधां बोधिम् आसाद्य संबुद्धपदम् आप्नुयात् // rm_24.66{66} //

इत्य् आदिष्टं मुनीन्द्रेण सर्वज्ञेन हितार्थिना / श्रुतं मया परिज्ञाय तथा चरितुम् इछ्यते // rm_24.67{67} //

एतत्पुण्यविभागत्वम् अपि प्राप्तुं यदीछसि / तद् अनुज्ञां प्रदत्वा मे चित्तं मातः प्रतोषय // rm_24.68{68} //

इति पुत्रोदितं श्रुत्वा माता सा विहताशया / वियोगदुःखसंकार्त्ता विलपन्त्य् एवम् अब्रवीत् // rm_24.69{69} //

हा पुत्र कथम् एकान्ते मां विहातुं त्वम् इछसि / नान्यो मे विद्यते पुत्रस् त्वम् एवैको ऽस्ति नंदनः // rm_24.70{70} //

पितापि तव मां त्यज्य दैवाद् यातो यमालयं / त्वम् अपि मां परित्यक्त्वा कुत्र गंतुं तथेछसि // rm_24.71{71} //

हा पुत्र कथम् अज्ञो ऽसि केनात्र त्वं प्रवंच्यसे / किं पश्यन् हेतुना केन प्रव्रजितुं त्वम् इछसि // rm_24.72{72} //

हा पुत्र केन मूढो ऽसि यद् एता द्रव्यसंपदः / त्यक्त्वा परगृहे भिक्षां याचित्वा भोक्तुम् इछसि // rm_24.73{73} //

हा पुत्र त्वं कुमारो ऽसि तत् प्रव्रज्यां चरेः कथं / प्रव्रजितो गृहं त्यक्त्वा बहिर् देशे सदाश्रयेः // rm_24.74{74} //

तत् कथं त्यक्त्वा बहिर् देशे समाश्रयेः / शाणकंटावृतो मुंदो मृत्वात्र धरेश्वरः // rm_24.75{75} //

शीतवातातपाक्रान्ते कथं दुःखं सहेः सुत / क्षुत्पिपासाग्निसंतप्तः दुःखं कस् ते ऽभिशामयेत् // rm_24.76{76} //

श्मशानेषु शवान्य् अस्यन् कथम् एकश् चरेः सुत / जंगले निर्जने ऽरण्ये एकाकी निवसेः कथं // rm_24.77{77} //

तथा भूतालये शून्यगेहेव निवसेः कथं / तथामित्रेषु देशेषु कथम् एकोर् इव च्चरे // rm_24.78{78} //

ज्वरादि रोगसंतप्ते कस् तव परिचारयेत् / को वा ते कृपया दद्यात् पथ्यम् आहारम् औषधं // rm_24.79{79} //

यदि दैवाद् विपत्तिः स्यात् तदा कः परिशोधयेत् / इति समीक्ष्य मा पुत्र प्रव्रज्याव्रत उत्सह / ममात्र वचनं श्रुत्वा सुखं भुक्त्वा गृहे वस // rm_24.80{80} //

इति मात्रोदितं श्रुत्वा स पुत्रश् चैवम् अब्रवीत् / दैवभावा भवन्त्य् एव सर्वत्रापि जगत्स्व् अपि // rm_24.81{81} //

एको ऽपि विद्यते नात्र सुहृन्मित्रसहानुगः / धर्म एव सहायः स्यात् सर्वत्र मरणे ध्रुवं // rm_24.82{82} //

इति सद्धर्मसंप्राप्त्यै प्रव्रज्याव्रतम् उत्तमं / चरितव्यं भवेद् विज्ञैर् निर्वृतिपदवांछिभिः // rm_24.83{83} //

इति तेन मुनीन्द्रेण समादिष्टं निशम्यते / मात तस्मा तथात्रैतद् व्रतं चरितुम् इछ्यते // rm_24.84{84} //

तद् अत्र सौगते धर्मे मां नियोक्तुं यदीछसि / तद् अनुज्ञां प्रदानं मे कृपया दातुम् अर्हति // rm_24.85{85} //

इति पुत्रार्थितं श्रुत्वा माता सा गद्गदस्वरा / स्नेहदुःखाग्निसंतप्ता दृष्ट्वैवं सुतम् अब्रवीत् // rm_24.86{86} //

हा पुत्र कथम् एव त्वं निर्दयास्य् अतिनिष्ठुरः / यद् वृद्धां जननीं दृष्ट्वा कारुण्यं नास्ति ते हृदि // rm_24.87{87} //

तद् अत्र यदि ते पुत्र दयास्ति मयि मातरि / यावज् जीवाम्य् अहं तावद् गृहे वस मया सह // rm_24.88{88} //

यावच् चैतन् महत् संपत् स्वगृहे स्थिरा तव / तावद् यथेप्सितं सौख्यं भुक्त्वा रमं समाचर // rm_24.89{89} //

अवश्यं मरणं यायां कस्य मृत्युर् भवे न हि / तदा मयि मृतायां तु प्रव्रजस्व यथेछया // rm_24.90{90} //

संपच् चापि भवेत् क्षीणा कस्य संपत् सदा स्थिरा / तदा संपत् परिक्षीणे भिक्षान्नादो व्रतं चर // rm_24.91{91} //

यद्य् एवं प्रार्थिते ऽपि त्वं विलंघ्य वचनं मम / निर्दयानिष्ठुरस्वान्तः प्रव्रजसि हठाद् अपि // rm_24.92{92} //

तदाहं ते पुरोगत्वा सौगतशासने ऽपि हि / त्यक्त्वाहारं विषं भुक्त्वा यास्यामि मरणं ध्रुवं // rm_24.93{93} //

इति मे वचनं सत्यं विज्ञायेह त्वम् आत्मज / मया सह गृहे सौख्यं भुक्ष्व कुत्रापि मा व्रज // rm_24.94{94} //

इति मे वचनं श्रुत्वा यथाकामं सुखं गृहे / भुक्त्वा नित्यं सदोत्साहैश् चरं रम स्वम् आत्मज // rm_24.95{95} //

इति मात्रोदितं श्रुत्वा स उत्तरो ऽभिशंकितः / तथेति प्रतिबुद्धित्वा तस्थौ गेहे निराशितः // rm_24.96{96} //

ततश् चैकदिने प्रातः समुत्थाय स उत्तरः / संबुद्धं तं मुनिं द्रष्टुं विहारे समुपाचरत् // rm_24.97{97} //

तत्र तं श्रीघनं दृष्ट्वा स उत्तरः प्रमोदितः / नत्वा प्रदक्षिणीकृत्य सांजलिस् समुपाश्रयत् // rm_24.98{98} //

ततः स भगवांच् छास्ता दृष्ट्वा तस्य मनोगतं / बोधयितुं समालोक्य तम् एवं समुपालपत् // rm_24.99{99} //

कुमार किं विषण्णो ऽसि यन् मनो ऽन्तर्गतं तव / तन् ममाग्रे समाख्याहि पूरयामि यदीहितं // rm_24.100{100} //

इत्य् आदिष्टे मुनीन्द्रेण स उत्तरः समुत्थितः / पादौ तस्य मुनेर् नत्वा सांजलिर् एवम् अब्रवीत् // rm_24.101{1} //

सर्वज्ञ भगवञ् छास्तर् विजानीयाद् भवान् मम / यन् मनो ऽन्तर्गतं सर्वं यथाप्य् अहं निवेदये // rm_24.102{2} //

भगवन् नाथ सर्वज्ञ न मे माता प्रबोधिता / तद् अनुज्ञां न मे दातुम् इछति प्रार्थितापि सा // rm_24.103{3} //

तद् भवान् मे यथा योग्यं व्रतं संबोधिसाधनं / अन्यथापि प्रदत्वात्र प्रबोधयितुम् अर्हति // rm_24.104{4} //

इति संप्रार्थिते तेन भगवान् स मुनीश्वरः / तं विशुद्धाशयं दृष्ट्वा समाश्वास्यैवम् आदिशत् // rm_24.105{5} //

मा कुमार विषादत्वं कृथा धैर्यं समाश्रय / अवश्यं समये प्राप्ते ब्रह्मचारी भविष्यसि // rm_24.106{6} //

तावद् गृहे सदा दानं कृत्वार्थिभ्यो यथेप्सितं / त्रिरत्नस्मरणं कृत्वा शुभे चर समाहितः // rm_24.107{7} //

एतत्पुण्यविपाकेन समये समुपागते / प्रव्रज्याव्रतम् आसाद्य निर्वाणपदम् आप्स्यसि // rm_24.108{8} //

इति मत्वा कुमारात्र यावज् जीवति सा प्रसूः / तावद् गृहे सदा दानं कृत्वा शुभे चरन् वस // rm_24.109{6} //

इत्य् आदिष्टं मुनीन्द्रेण श्रुत्वा स उत्तरः सुधीः / तथेति प्रतिविज्ञप्य प्रससाद प्रबोधितः // rm_24.110{10} //

ततः स उत्तरो नत्वा सांजलिस् तं मुनीश्वरं / सुप्रसन्नमुखाम्भोजस् तन् मनाः स्वगृहं ययौ // rm_24.111{11} //

तत्र स स्वगृहे स्थित्वा स्वकुलवृत्तिसाधनैः / प्रतिसार्यापणं तत्र चकार क्रयविक्रयं // rm_24.112{12} //

तत्र मुलाधिकं लाभं यल् लब्धं गणवन्धनं / तत् सर्वं स सुतस् तस्या मातुर् हस्ते समर्पयत् // rm_24.113{13} //

ततः स उत्तरः पुत्रो मातरं तां प्रसादयन् / तल् लब्धं सकलं द्रव्यं दत्वैवं प्रत्यबोधयत् // rm_24.114{14} //

शृणु मातर् ममानेन द्रव्येन स्वजनां जनान् / अर्थिनः कृपणान् विप्रान् मानयित्वाभितोषय // rm_24.115{15} //

इति पुत्रोदितं श्रुत्वा माता सा अतिकुंचिका / लुब्धा मत्सराक्रांतहृदयैवम् अभाषत // rm_24.116{16} //

पुत्र पित्रा प्रयत्नेन संपदस् ते समर्जिताः / त्वम् एताः संपदः सर्वा दत्वार्थिभ्यो व्ययिष्यसि // rm_24.117{17} //

यावत् पित्रार्जितं द्रव्यं तावन् मया न दास्यते / तावत् मात्रं तवाधीनं यावत् त्वया समर्जितं // rm_24.118{18} //

यावज् जिवाम्य् अहं तात न ते दास्यामि किं चन / मृतायां मयि तत् सर्वं तवाधीनं भवेत् तदा // rm_24.119{19} //

इत्य् उक्त्वा सा प्रसूस् तस्य मात्सर्य्यकलुषाशया / सर्वद्रव्यं प्रयत्नेन गुप्तीकृत्यात्यरक्षत // rm_24.120{20} //

किं चिद् अर्थिभ्यो सा कुधी ददौ / गुप्तीकृत्य प्रयत्नेन तद् द्रव्यं समगोपयत् // rm_24.121{21} //

दृष्ट्वा च सार्थिनः सर्वान् स्वगृहं समुपागतान् / सहसा समुपाश्रित्य परिभाष्याभ्यनिन्दयत् // rm_24.122{22} //

अरे माया न गेहे ऽस्मिं यूयं प्रेता इवागताः / नित्यं परगृहे पिंडं भोक्तुं भ्रमथ भूतवत् // rm_24.123{23} //

एवं तान् अर्थिनः सर्वान् सा नारी दुरिताशया / नैकधा विप्रलापेन परिभाष्याभ्यनिंदयत् // rm_24.124{24} //

एवं मात्रा प्रतिक्रुष्य विप्रलापाभिनिंदितान् / श्रुत्वा स उत्तरः पुत्रो मातरं ताम् अभाषत // rm_24.125{25} //

अरे मात किम् एव त्वम् अर्थिनः परिभाषसे / धिक् त्वां धर्मपरिभ्रष्टां कथं न नरके पतेः // rm_24.126{26} //

यदि त्वं वांछसे सौख्यम् इहामुत्रापि सर्वदा / कृपणान् अर्थिनः सर्वान् संप्रदानैः प्रमोदय // rm_24.127{27} //

यद्य् एवं क्रियते मातः संगतिः सर्वदावयोः / अन्यथा चेत् ततो नौ स्याद् विभिन्नभोजनाश्रयः // rm_24.128{28} //

यद्य् अस्ति ते मया सार्द्धं सर्वदा भोजने रतिः / यथेप्सितं सदार्थिभ्यो दत्वा चर शुभे वृषे // rm_24.129{29} //

इति तेनात्मजेनापि प्रत्याख्यतं निशम्य सा / माता लज्जाविभिन्नास्या तम् आत्मजम् अभाषत // rm_24.130{30} //

यद्य् एवं नन्दनार्थिभ्यः सर्वस्वम् अपि दित्ससि / तत् स्वद्रव्याणि सर्वाणि दास्यामि तद् यथेप्सितं // rm_24.131{31} //

इत्य् उक्त्वा सा प्रसू नारी तम् आत्मजं मृषागिरा / बोधयित्वा गृहे तानि द्रव्याणि समगोपयेत् // rm_24.132{32} //

ततः सा प्रमदा दुष्टा मिथ्यावाचा तम् आत्मजं / अद्य यतो ऽर्थिनो भिक्षून्स् तोषयामीत्य् अबोधयत् // rm_24.133{33} //

एवं मिथ्यया वाचा बोधयन्ती तम् आत्मजं / स्वयम् एव प्रभुक्त्वा च तद् द्रव्यं सर्वं गोपयत् // rm_24.134{34} //

कस्मै चिद् अर्थिने किं चिद् अपि सा न ददौ कुधीः / सा केभ्यो ऽपि वलिं दातुं नैवोत्सेहे कदा चन // rm_24.135{35} //

एवं सा दुर्मतिर् लुब्धा मत्सराक्रान्तचेतसा / परिभाष्यार्थिनः सर्वान् निंदयन्त्य् अशुभे ऽचरत् // rm_24.136{36} //

एवं केवलपापानि प्राचित्वा सा दुराशया / काले निराशया दुःखार्त्ता मृता प्रेतालये ययौ // rm_24.137{37} //

तत्र प्रेतगतिप्राप्ता प्रेतीभूता दुराकृतिः / स्वकेशप्रतिछन्नांगा शूचीमुखा कृशांगिका // rm_24.138{38} //

अस्थियंत्रवद् उच्छ्राया पर्वतसंनिभोदरा / क्षुत्पिपासाग्निसंतप्ता दग्धस्थूणासमांगिका // rm_24.139{39} //

आर्त्तस्वरा विरावन्ती क्रंदन्ती सा समंततः / अन्नपान हि मार्गन्ती पर्यभ्रमद् इतस् ततः // rm_24.140{40} //

ततः स उत्तरो मातुः कृत्वाग्निसंस्कृतिं तदा / स्नानशौचादि कर्मां कुर्वञ् छोकं व्यनोदयत् // rm_24.141{41} //

ततः स उत्तरो विजो मातृशोकं व्यनोदयत् / अर्थिभ्यो वांछितं दत्वा बहुपुण्याण्य् उपार्जयत् // rm_24.142{42} //

ततः कामविरक्तः स संसारभोगनिस्पृहः / निर्वृतिपदसंप्रात्यै प्रव्रजितुं समैछत // rm_24.143{43} //

ततः स मुदितो गत्वा वेणुवने जिनाश्रमे / दृष्ट्वा तं श्रीघनं नत्वा सांजलिः समुपाचरत् // rm_24.144{44} //

तत्र प्रदक्षिणीकृत्वा ससंघं तं मुनीश्वरं / प्रणत्वा पुरतः स्थित्वा सांजलिर् एवम् अब्रवीत् // rm_24.145{45} //

भगवन् नाथ सर्वज्ञ विजानीयाद् भवान् अपि / यन् मे सा जननी विघ्ना सांप्रतं प्रलयं गता // rm_24.146{46} //

तद् अत्र भगवच् छास्तर् भवतां शरणं व्रजे / तन् मे ऽनुग्रहम् आधाय प्रव्रज्यां दातुम् अर्हति // rm_24.147{47} //

इति संप्रर्थिते तेन भगवान् स मुनीश्वरः / सव्यकरेण तन्मूर्द्ध्नि संस्पृश्यैवं समादिशत् // rm_24.148{48} //

एहि चर कुमारात्र ब्रह्मचर्यं समाहितः / इत्य् उक्त्वा भगवां छास्ता सांघिके तं समग्रहीत् // rm_24.149{49} //

एहीत्य् उक्ते मुनीन्द्रेण मुंडितो ऽभूत् स उत्तरः / खिक्खिरीपात्रभृच् छुद्धकाषायचीवरावृतः // rm_24.150{50} //

ततः शास्तुः प्रसादात् स परिशुद्धस् त्रिमंडलः / निःक्लेशयविशुद्धात्मा संसारविरतोत्सवः // rm_24.151{51} //

समाधिधारणीविद्याघटमानो विचक्षणः / हित्वाविद्यागणं सर्वविद्यागुणान्तम् आप्तवान् // rm_24.152{52} //

विदित्वा सर्वसंसारगतिं विद्युत्क्षणस्थितिं / मत्वा च सर्वसंस्कारगतिर् ऽनेकविघातिनिं // rm_24.153{53} //

सर्वक्लेशगणां जित्वा सर्वान् मारगणान् अपि / साक्षाद् अर्हत्वम् आसाद्य श्रावकबोधिम् आप्तवान् // rm_24.154{54} //

ततः स सुविशुद्धात्मा वीतरागो जितेंद्रियः / आकाशनिर्मलस्वान्तः सर्वलोष्टककांचनः // rm_24.155{55} //

वासीचंदनकल्पांशो निर्विकल्पो निरंजनः / सर्वसत्वहिताधानः संबुद्धगुणसाधकः // rm_24.156{56} //

सदेवासुरलोकानां सर्वेषां प्राणिनाम् अपि / वंद्यः पूज्यो ऽभिमान्यश् च ब्रह्मचारी बभूव सः // rm_24.157{57} //

ततः सो ऽर्हन् महाभिज्ञो गंगातिरे शुभस्थले / पर्णकुट्यां समाश्रित्य तस्थौ ध्यानसमाहितः // rm_24.158{58} //

तत्रैकस्मिन् दिने तस्य माता सा प्रेतिका सती / नग्न स्वरोमसंछन्ना दघस्थूणाविवर्णिता // rm_24.159{59} //

सूचीमुखास्थियंत्रेव पर्वतसन्निभोदरा / क्षुत्पिपासाग्निदग्धांगा पानाहारगवेषिनी // rm_24.160{60} //

आर्तस्वरं विरावन्ती क्रंदन्ती समुपागता / आयुष्मन्तं तम् अर्हन्तं पश्यन्ती समुपाश्रयत् // rm_24.161{61} //

एवं तां समुपासीनां दृष्ट्वा स उत्तरो यतिः / का त्वम् एवंविधायाता वदस्वेत्य् अन्वपृछत // rm_24.162{62} //

इति तेनोदितं श्रुत्वा सा प्रेती पुरतः स्थिता / उत्तरं तं यतिं पुत्रं समालोक्यैवम् अब्रवीत् // rm_24.163{63} //

अहं ते जननी स्निग्धा ययासि जनितः सुतः / अन्नपानविविक्तास्मि प्रेतीभूता ऽधुना चरे // rm_24.164{64} //

पंचविंशति वर्साणि यांति कालगता ह्य् अहं / नाभिजानामि पाणीयं कुतो भक्तस्य दर्शनं // rm_24.165{65} //

सफलां पुष्पितां वृक्षं दृष्ट्वा गछामि दूरतः / सर्वे ऽपि निष्फला शुष्का विपुष्पाश् च भवन्ति ते // rm_24.166{66} //

सरांसि चाम्बुपूर्णाणि दृष्ट्वा गछामि दूरतः / तानि सर्वाणि शुष्कानि भवन्ति तत् क्षणाद् अपि // rm_24.167{67} //

भेदं तस्य महासौख्यं वृक्षमूलश्रितस्य ते / विद्यते सर्वदाप्य् अत्र किं त्वया प्रकृतं शुभं // rm_24.168{68} //

तद् अत्र कृपया पश्यन् कारुण्यं जनयन् सुत / मात्रे तृषार्दितायै मे शीताम्बु दातुम् अर्हसि // rm_24.169{69} //

इति तयार्थितम् श्रुत्वा स उत्तरः सविस्मयः / तां प्रेतीं सुचिरं दृष्ट्वा शंकितश् चैवम् अब्रवीत् // rm_24.170{70} //

मातस् तर्हि क्षणं प्राप्ते त्वया पारुष्यभूतया / दानानि न कृतान्य् एव पुण्यानि वा चितानि न // rm_24.171{71} //

अन्यकृतानि दानानि पुण्यानि भाषितानि च / दृष्ट्वा श्रुत्वापि ते चित्ते क्रोधाग्निर् ज्वलितस् तदा // rm_24.172{72} //

किं चिन् नापि शुभं कर्म कृत्वापुण्यं त्वयार्जितं / परेणापि कृतं दृष्ट्वा श्रुत्वापि नानुमोदितं // rm_24.173{73} //

एतत्कर्मविपाकेन जननी त्वं मृताधुना / प्रेतीभूतान्नपानेन वियुक्ता भ्रमसे भवे // rm_24.174{74} //

इदानिं किं करिष्यामि त्वं चात्र किं करिष्यसि / तदा सर्वाहितं प्रोक्तं त्वया तत्र श्रुतं न तत् // rm_24.175{75} //

इति तेनात्मजेनोक्तं श्रुत्वा सा प्रतिबोधिता / विगलदश्रुरुक्षाक्षा तं पुत्रम् एवम् अब्रवीत् // rm_24.176{76} //

न मया हि कृतं दानं पुण्यं न चाभिसाधितं / दृष्ट्वानुमोदितं नापि मात्सर्यपरिभूतया // rm_24.177{77} //

यद् यद् द्रव्यं त्वया पुत्र मम हस्ते समर्पितं / तत् तत् सर्वं मया वंधिखदायां परिगोपितं // rm_24.178{78} //

तद् इदानिं समुद्धृत्य ज्ञातिहस्ते समर्पय / तेन तं सुगतं बुद्धं ससंघं भोजयात्मज // rm_24.179{79} //

दक्षिणादेशनां चापि मम नाम्नाभिकारय / तदा प्रेतगतेर् मुक्ता यायाम् अहं सुरालयं // rm_24.180{80} //

इति तयोदितं श्रुत्वा स उत्तरो ऽनुबोधितः / एवम् अस्त्व् इति संश्रुत्य पुनस् ताम् एवम् अब्रवीत् // rm_24.181{81} //

ससंघं सुगतं तेन भोजयिष्यामि सांप्रतं / किं तु त्वयाम्व तत्रापि स्थातव्यं सुगतांतिके // rm_24.182{82} //

इति तेनोदितं श्रुत्वा सा प्रेती लज्जयान्विता / तम् अर्हन्तं समालोक्य पुर एवम् अभाषत // rm_24.183{83} //

यद् अहं पुत्र नग्नास्मि प्रेती विभ्रन्सिताकृती / तत् कथं समुपाश्रित्य स्थास्यामि श्रीघनांतिके // rm_24.184{84} //

इति तयोदितं श्रुत्वा स उत्तरो महामतिः / तां प्रेतीं समुपालोक्य पुनर् एवम् अभाषत // rm_24.185{85} //

क्रियमाने यदा पापे लज्जा नास्ति तदा तव / फलभोजनकाले ऽत्र किम् एवं लज्जसे ऽधुना // rm_24.186{86} //

इति तद् वचनं श्रुत्वा सा प्रेती प्रतिबोधिता / तथा गमिष्यामीति प्रोक्त्व त्वरितं विज्ञालयं ययौ // rm_24.187{87} //

ततः स उत्तरो गत्वा ज्ञातीन् आहूय तद् वृतिं / यथामात्रोदितं ख्याय सर्वम् एव न्यवेदयत् // rm_24.188{88} //

तच् छ्रुत्वा ज्ञातिवर्गास् ते सर्व ऽतिविस्मयान्विताः / तथा तद् द्रव्यम् आदाय सर्वं तस्यान् उपाहरन् // rm_24.189{89} //

तद् द्रव्यं सर्वम् आलोक्य स उत्तरः प्रमोदितः / सर्वेषाम् अपि गोत्राणां पुनर् एवं समब्रवीत् // rm_24.190{90} //

भवन्तो ज्ञातयः सर्वे द्रव्येनैतेन सांप्रतं / ससांघिकं मुनीन्द्रं तं भोजयिष्यामि पूजयन् // rm_24.191{91} //

तद् एतत् सर्वम् आदाय यदा प्रकंपिताशयाः / संघभोज्यार्हसामग्रीं साधयित्वा प्रदत्त मे // rm_24.192{92} //

इति संप्रार्थितं श्रुत्वा सर्वे ते ज्ञातयस् तथा / संघभोज्यार्हसामग्रीं सर्वद्रव्यैर् असाधयत् // rm_24.193{93} //

तद् दृष्ट्वा मुदितः सो ऽर्हन् उत्तरः संप्रसन्नधीः / शास्तुर् निमंत्रणं कर्तुं विहारे समुपाचरत् // rm_24.194{94} //

तत्र स समुपाश्रित्य तं मुनीन्द्रं ससांघिकैः / प्रणत्वा साञ्जलिस् तत्र पुरः स्थित्वा न्यमंत्रयत् // rm_24.195{95} //

भगवन् नाथ सर्वज्ञ भगवंतं ससांघिकं / पूजयितुं समिछामि श्वो ऽनुगृहीतुम् अर्हति // rm_24.196{96} //

इति संप्रार्थिते तेन भगवान् स मुनीश्वरः / तम् उत्तरं समालोक्य तूष्णीभूत्वाध्युवास तत् // rm_24.197{97} //

ततः स उत्तरो मत्वा भगवताधिवासितं / तं मुनीन्द्रं पुनर् नत्वा ज्ञातीनां पुरतो ययौ // rm_24.198{98} //

तत्र स उत्तरस् तेषां च निमंत्रणं / कृत्वा तत्र पुनस् तेषां पुर एवम् अभाषत // rm_24.199{99} //

संघभोज्ये प्रवृत्ते ऽत्र यूयं सर्वे समागताः / प्रेतीभूतां ममाम्बां ताम् अवलोकितुम् अर्हथ // rm_24.200{100} //

इत्य् उक्त्वा स्वाश्रमं गत्वा स उत्तरः प्रसादितः / ध्यानागारसमासीनस् तस्थौ ध्यानसमाहितः // rm_24.201{1} //

ततः प्रातः समुत्थाय ज्ञातीनां पुरतो गतः / पूजोपचारसामग्रीं सहसा समसाधयत् // rm_24.202{2} //

ततः स उत्तरः प्राह्ने विहारे समुपासरन् / भगवंतं मुनीन्द्रं तं प्रणत्वैवम् अभाषत // rm_24.203{3} //

भगवन् सर्वविच् छास्तः समयो वर्त्तते ऽधुना / तत् ससंघो भवान् अत्र विजयितुं समर्हति // rm_24.204{4} //

इति संप्रार्थिते तेन गंडीम् आकोटयन् मुनिः / तच् छब्दचोदितास् तत्र स च संघा उपासरन् // rm_24.205{5} //

तत्र ते ज्ञातयः सर्वे लोका अन्ये ऽपि हर्षिताः / तत्र प्रेतां समायातां तां द्रष्टुं समुपागताः // rm_24.206{6} //

तदा स भगवांस् तत्र ससांघिकः समागताः / तद् दत्तं पाद्यम् आदाय शुद्धासने समाश्रयत् // rm_24.207{7} //

तां दृष्ट्वा ज्ञातयः सर्वे लोका अन्ये ऽपि खेटिताः / हा पापम् इति भाषन्ते तस्थुः सद्धर्मवांछया // rm_24.208{8} //

तदा ते ज्ञातयः सर्वे भगवंतं ससांघिकं / यथाक्रमं समभ्यर्च्य भोजनैः समतोषयत् // rm_24.209{9} //

ततस् ते सांघिकाः सर्वे संबुद्धप्रमुखा अपि / तत् प्रणीतरसं भोज्यं भुक्त्वा तृप्तिं समाययुः // rm_24.210{10} //

ततो ऽपनीय पात्राणि शोधयित्वा भुजादिकं / तेषां पूगादि ताम्बूलगणं ते प्रददुर् मुदा // rm_24.211{11} //

तत्र स उत्तरो भिक्षुर् ज्ञातिभिस् तै सहान्वितः / भगवंतं ससंघं तं प्रणत्वा समुपाश्रयत् // rm_24.212{12} //

तत्र स भगवान् दृष्ट्वा तम् उत्तरम् उपाश्रितं / दाक्षिणादेशनां तस्याः प्रेत्या नाम्ना समादिशत् // rm_24.213{13} //

इतो दानाद् धि यत् पुण्यं तत् प्रेतीम् उपगछतु / उत्तिष्ठताम् इयं प्रेती प्रेतलोकात् ततो द्रुतं // rm_24.214{14} //

इति शुभाशिषं दत्वा भगवान् स मुनीश्वरः / आर्य्यसत्यं समारभ्य सद्धर्मं च समादिशत् // rm_24.215{15} //

तद् आर्य्यधर्मम् आकर्ण्य सर्वे लोकाः प्रबोधिताः / धर्मविशेषम् आज्ञाय बभूवुः सत्यदर्शिनः // rm_24.216{16} //

सापि प्रेती समानीय तत् सद्धर्मामृतं मुदा / सुप्रसन्नाशया स्मृत्वा त्रिरत्नं शरणं ययौ // rm_24.217{17} //

ततः सा भूतलोके ऽभूज् जाता भूतमहर्द्धिका / तत्रापि साभवद् दुष्टा मात्सर्य्यरुक्षिताशया // rm_24.218{18} //

ततः स भगवांस् तस्मात् ससांघिकः प्रभासयन् / गत्वा स्वाश्रमम् आश्रित्य तस्थौ धर्मम् उपादिशन् // rm_24.219{19} //

ततः स बुद्धिमान् विज्ञ आयुष्मान् यतिर् उत्तरः / कुत्रासौ जायते माताधुनेति समपश्यत // rm_24.220{20} //

एवं स उत्तरो विज्ञः समभीक्ष्य समंततः / ददर्श तां संप्रजातां भूतमहर्द्धिकालये // rm_24.221{21} //

दृष्ट्वा स उत्तरः पुत्रो मातरं तां च भौतिकां / सहसा समुपाश्रित्य समामंत्र्यैवम् अब्रवीत् // rm_24.222{22} //

किम् अम्बास्ति त्वया शक्तिर् अपि दानेषु सांप्रतं / यदीछसि सदा भद्रं कुरु दानम् इहाधुना // rm_24.223{23} //

इति तेनोदितं श्रुत्वा सा च भूतमहर्द्धिका / उत्तरं तं सुतं दृष्ट्वा पुनर् एवम् अभाषत // rm_24.224{24} //

नाद्यापि विद्यते दाने ऽभिलाषं मम नंदन / तत् किं चिद् अपि वा द्रव्यं प्रदातुं नाहम् उत्सहे // rm_24.225{25} //

इति तेनोदितं श्रुत्वायुष्मान् स उत्तरो यतिः / दृष्ट्वा तां मातरं भूतमहर्द्धिकाम् अभाषत // rm_24.226{26} //

अद्यापि ते तिष्ठति तच् छरीरं विवृद्धनिर्मान्सत्वगस्थिचर्मा लोभांधकारावृतलोचनाया निवर्तितं यत् तव प्रेतलोके / धिक् त्वां प्रदुष्टाम् इह किं वदेयम् अद्यापि यत् त्वं दुरिताशयासि / केनात्र ते पापनिमग्नचित्तं संशोधितं पुण्यकरोद्धृतं स्यात् // rm_24.227{27} //

सदापि चैवं नरके निवासा भवेत् कदा त्वं परिमोक्ष्यसे ऽतः / अहो हि दुर्बुद्धिदुराशयानां मनो न केनापि विशुद्ध्यते वै // rm_24.228{28} //

एवं बहुप्रकारेण परिभाष्योत्तरः स तां / तदङ्गात् यमलीम् एकाम् आकृष्यापहरद् वलात् // rm_24.229{29} //

ततस् तां यमलीं सो ऽर्हं संघाय समकल्पयत् / तत्र मूल्येन तां क्रीत्वा भिक्षुमानवके न्यसेत् // rm_24.230{30} //

तत्रापि निशि सा गत्वा यमलीं ताम् उपाहरत् / तथापहृतां भिक्षुर् उत्तराय न्यवेदयत् // rm_24.231{31} //

तच् छ्रुत्वा चोत्तरो गत्वा परिभाष्य वलेन तां / अपहृत्य पुनस् तस्मै भिक्षवे समकल्पयत् // rm_24.232{32} //

भूयो ऽपि निशि सा गत्वा यमलीं ताम् उपाहरत् / तथा स उत्तरश् चापि तस्याश् च ताम् अपाहरत् // rm_24.233{33} //

एवं त्रिधा निशायां सा तत्र गत्वाहरच् च तां / उत्तरश् चापहृत्यैव तां तस्मै भिक्षवे ददौ // rm_24.234{34} //

तेनापि भिक्षुणादाय चतुदिक्सांघिकाय सा / पाद्यलेपानिकायां संसीवित्वा प्रतिपादिता // rm_24.235{35} //

तत्र तां सीवितां दृष्ट्वा सा च भूतमहर्द्धिता / अपहृतविभग्नाशा रुदन्ती स्वालयं ययौ // rm_24.236{36} //

तच्चित्ताग्निप्रतप्ता सा स्मृत्वा तं सुतम् उत्तरं / कालं गता ततो ऽन्यत्र यक्षलोके ऽलभज् जनुः // rm_24.237{37} //

एवं मत्वा महत्पापमूलं मात्सर्य्यम् एव हि / तत् मात्सर्यं परित्यज्य कर्त्तव्यं दानम् आदरात् // rm_24.238{38} //

दानेन शुद्ध्यते चित्तः शुद्धचित्तः सुधीकृतिः / क्रमाद् बोधिचरिं धृत्वा संबुद्धपदम् आप्नुयात् // rm_24.239{39} //

एवं विज्ञाय सर्वत्र यदीछन्ति सदा शुभं / मात्सर्यं विषवत् त्यक्त्वा चरितव्यं सदा शुभे // rm_24.240{40} //

इति मे गुरुणाख्यातं श्रुतं तथा मयोच्यते / त्वं चाप्य् एवं परिज्ञाय चरितव्यम् शुभे सदा // rm_24.241{41} //

प्रजाश् चापि महाराज बोधयित्वा प्रयत्नतः / बोधिमार्गे प्रतिष्ठाप्य पालयितुं सदार्हसि // rm_24.242{42} //

तथा ते मंगलं नित्यं सर्वत्रापि भवेद् ध्रुवं / क्रमाद् बोधिं समासाद्य संबुद्धपदम् आप्नुयाः // rm_24.243{43} //

इति तेनार्हताख्यातं श्रुत्वाशोकः स भूपतिः / तथेति प्रतिभाषित्वा प्राभ्यनंदत् सपार्षदः // rm_24.244{44} //

इदं नरा ये मुदिताश् च भूतमहर्द्धिकायानुवदानम् अत्र / मुदा निशम्य प्रतिमोदयन्ते प्रयांति ते श्रीघनसंनिवासे // rm_24.245{45} //

++ इति रत्नावदानत्वे प्रेतीभूतमहर्द्धिकावदानं समाप्तम् ++

xxv dūtāvadāna अथाशोको महीपालः कृतांजलिपुटो मुदा / उपगुप्तं गुरुं नत्वा पुनर् एवम् अवोचत् // rm_25.1{1} //

भदन्त श्रोतुम् इछामि पुनर् अन्यत् सुभाषितं / तद्यथा गुरुणाख्यातं तथादेष्टुं च मे ऽर्हति // rm_25.2{2} //

इति संप्रार्थितं राज्ञा श्रुत्वा सो ऽर्हन् महामतिः / उपगुप्तो नरेंद्रं तं समामंत्र्यैवम् आदिशत् // rm_25.3{3} //

शृणु राजन् महाभाग यथा मे गुरुभाषितं / तथाहं ते प्रवक्ष्यामि श्रुत्वा चात्रानुमोदय // rm_25.4{4} //

तद्यथा भगवान् बुद्धः श्रीघनः स मुनीश्वरः / सर्वज्ञः सुगतः शास्ता धर्मराजो विनायकः // rm_25.5{5} //

भिक्षुभिः श्रावकैः सार्द्धं भिक्षुणीभिश् च चेलकैः / उपासकगणैश् चापि तथा चोपासिकागणैः // rm_25.6{6} //

राजगृहपुरोपान्ते गृद्धकूटे नगोत्तमे / वेणुवने महोद्याने करंदकनिवापके // rm_25.7{7} //

सर्वसत्वहितार्थेन बोधिचर्यां प्रकाशयन् / सद्धर्मं समुपादिश्य विजहार प्रभासयन् // rm_25.8{8} //

तत् सद्धर्मामृतं पातुं सर्वे लोका उपागताः / देवा दैत्याश् च नागाश् च यक्षगंधर्वकिन्नराः // rm_25.9{9} //

ग्रहा विद्याधराः सिद्धा राक्षसा गरुडा अपि / लोकपालगणाश् चापि तीर्थिकाश् च महर्षयः // rm_25.10{10} //

ब्राह्मणाः क्षत्रिया भूपा वैश्याश् च मांत्रिणो ऽपि च / अमात्याः श्रेष्ठिनश् चापि गृहस्थाश् च महाजनाः // rm_25.11{11} //

वणिजः सार्थवाहाश् च शिल्पिनः पौरिकास् तथा / ग्राम्या जानपदाश् चापि तथा कार्पटिका अपि // rm_25.12{12} //

तथान्ये ऽपि जनाश् चैवं सर्वे तत्र समागताः / दृष्ट्वा तं श्रीघनं नत्वा समभ्यर्च्य यथाक्रमं // rm_25.13{13} //

कृतांजलिपुटाः सर्वे परिवृत्योपतस्थिरे / ततः स भगवां दृष्ट्वा सर्वांस् तां समुपस्थितान् / आदिमध्यांतकल्याणं सद्धर्मं समुपादिशत् // rm_25.14{14} //

तत् सद्धर्मामृतं पीत्वा सर्वे लोकाः प्रबोधिताः / धर्मवैशेषम् आज्ञाय बभूवुर् बोधिसाधिनः // rm_25.15{15} //

एवं स भगवांस् तत्र नित्यं सद्धर्मम् आदिशन् / वर्षासु व्यहरल् लोकहितं कृत्वा ससांघिकः // rm_25.16{16} //

तस्मिंस् तु समये तत्र श्रावस्त्यां पुरि सत्तमः / अनाथपिंडदः श्रेष्ठी गृहपतिर् महाजनः // rm_25.17{17} //

त्रिरत्नभक्तिमान् दाता संबुद्धदर्शनोत्सुकः / प्रसेनजिन् महीपालं प्रणत्वा प्रार्थयत् तथा // rm_25.18{18} //

जय देव महारज जानीयात् तद् भवान् अपि / यद् अस्माभि मुनीन्द्रो ऽसौ सुचिरं नाभिदृश्यते // rm_25.19{19} //

तत् तस्मात्र मुनीन्द्रस्य दर्शने तृषिता वयं / भगवंतं मुनीन्द्रं तं द्रष्टुम् इछामहे ऽधुना // rm_25.20{20} //

तद् भवान् समुपामंत्र्य भगवंतं जगद्गुरुं / अत्र लोकहितार्थाय विजयितुं समर्हति // rm_25.21{21} //

इति संप्रार्थितं तेन गृहाधिपतिना सदा / श्रुत्वा स भूपती राजा तं गृहपतिम् अब्रवीत् // rm_25.22{22} //

किं त्वया श्रूयते साधो भगवान् स मुनीश्वरः / एतर्हि तिष्ठते कुत्र वर्षासु सह सांघिकैः // rm_25.23{22!} //

इति राज्ञोदितं श्रुत्वा सो ऽनाथपिण्डदो गृही / तं नरेंद्रं समालोक्य पुनर् एवम् अभाषत // rm_25.24{23} //

श्रुतं मया महाराज भगवान् स ससांघिकं / राजगृहे ऽधुना प्रावृत्समये ऽप्य् अवतिष्ठते // rm_25.25{24} //

इति तेन समाख्यातं श्रुत्वा स नृपतिस् ततः / दूतम् एकं समाहूय पुर एवम् उपालपत् // rm_25.26{25} //

एहि त्वं भो महासाधो श्रुत्वा मे वचनं द्रुतं / तत्र राजगृहे गत्वा भगवत उपाचर // rm_25.27{26} //

अस्माकं वचनैस् तस्य शास्तुः पादाम्बुजे नमः / नत्वा देहादि सर्वत्र कौशल्यं परिपृछ च // rm_25.28{27} //

एवं चापि मुनेस् तस्य पुरो विज्ञापयादरात् / कौशल्ये नृपती राजा भगवंतं द्रष्टुम् इछति // rm_25.29{28} //

तथा सर्वे ऽपि लोकाश् च श्रावस्त्यायाश् च पौरिकाः / त्रिरत्नदर्शनं कर्तुम् अभिवांछन्ति सांप्रतं // rm_25.30{29} //

भवद्धर्मामृतं चापि पातुम् इछंति सर्ववित् / तत् ससंघो भवांस् तत्र कृपयागंतुम् अर्हति // rm_25.31{30} //

इति रज्ञोदितं श्रुत्वा तथेति प्रतिमोदितः / तं नृपं सांजलिर् नत्वा द्रुतं राजगृहं ययौ // rm_25.32{31} //

तत्र राजगृहे गत्वा स दूतः प्रतिनंदितः / विलोक्य सुप्रसन्नात्मा गृध्रकूटे उपाचरत् // rm_25.33{32} //

तत्र स दूरतो दृष्ट्वा भगवंतं प्रमोदितः / उपेत्य सांजलिर् नत्वा प्रार्थयद् एवम् आदरात् // rm_25.34{33} //

भगवन् नाथ सर्वज्ञ वंदे ते चरणाम्बुजे / यदर्थे ऽहम् इहायामि तज् जानीयाद् भवां जिनः // rm_25.35{34} //

तथाप्य् अहं जगच्छास्तुः पुरो विज्ञापयामि तत् / भगव सर्वविद् राजा प्रसेनजित् सुकौशलः // rm_25.36{35} //

भवतां वंदते पादौ कुशलं चापि पृछते / तथा च भगवन् सर्वे श्रावस्त्येयाश् च पौरिकाः // rm_25.37{36} //

वंदंते भवतां पादौ पृछंते चापि कौशलं / नृपादि सर्वलोकाश् च भवतां दर्शनोत्सुकाः // rm_25.38{37} //

त्रिरत्नं द्रष्टुम् इछाम इत्य् एवं प्रवदन्ति ते / भवद्धर्मामृतं चापि पातुम् इछंति ते ऽधुना // rm_25.39{38} //

नृपतिप्रमुखाः सर्वे तृष्णार्दिता इवामृतं / तत् साधु भगवांस् तत्र श्रावस्त्यां पुरि सांप्रतं / अनुकम्पाम् उपादाय विजयतां ससांघिकः // rm_25.40{39} //

इत्य् उक्ते तेन दूतेन भगवान् स मुनीश्वरः / तं दूतं पुरुषं दृष्ट्वा समामंत्र्येवम् आदिशत् // rm_25.41{40} //

भो पुरुष महाराजो बिम्बिसारो नृपाधिपः / यद्य् अनुज्ञां ददात्य् अत्र तदा यास्याम्य् अहं ध्रुवं // rm_25.42{41} //

तत् साधु नृपतेस् तस्य बिम्बिसारस्य भूभृतः / अनुज्ञाप्रार्थनां कृत्वा गछायास्याम्य् अहं तदा // rm_25.43{42} //

इत्य् आदिष्टं मुनीन्द्रेण श्रुत्वा स दूत आदरात् / तथेति तं मुनिं नत्वा राज्ञो ऽन्तिकम् उपाचरत् // rm_25.44{43} //

तत्र स समुपाश्रित्य बिम्बिसारं नराधिपं / सांजलिः पुरतो गत्वा प्रणत्वैवं न्यवेदयत् // rm_25.45{44} //

जय देव महाराज प्रसीदानुग्रहं कुरु / प्रसेनजिन्महीभर्तुर् दूतो ऽहं समुपागतः // rm_25.46{45} //

महाराज महीपाल प्रसेनजित् स कौशलः / भगवतो मुनीन्द्रस्य दर्शनम् अभिवांछति // rm_25.47{46} //

तथा सर्वे ऽपि लोकाश् च श्रावस्त्र्येयाः सपौरिकाः / त्रिरत्नस्य जगद्भर्तुः प्रष्टुम् इछन्ति सांप्रतं // rm_25.48{47} //

तद् अस्य त्रिजगच्छास्तुर् भगवतो भवान् प्रभो / तत्रानुगमने ऽनुज्ञां कृपया दातुम् अर्हति // rm_25.49{48} //

इति तेनार्थितं श्रुत्वा बिम्बिसारः स भूपतिः / तं दूतं समुपालोक्य चिरेणैवम् अभाषत // rm_25.50{49} //

सधो स भगवान्स् तत्र यदि गंतुं समिछति / तद् अत्र किं वदिष्यामि यत्रेछेत् तत्र गछतु // rm_25.51{50} //

इति राज्ञा समादिष्टं श्रुत्वा दूतः स मोदितः / बिम्बिसारं नरेंद्रं तं नत्वा ययौ जिनान्तिके // rm_25.52{51} //

तत्र स सहसा गत्वा श्रीघनं तं मुनीश्वरं / कृतांजलिपुटो नत्वा प्रार्थयद् एवम् आदरात् // rm_25.53{52} //

भगवंस् तेन भूपेन ह्य् अनुज्ञातो ऽसि सांप्रतं / तत् ससंघो भगवांस् तत्र विजयितुं समर्हति // rm_25.54{53} //

इति तेनोदितं श्रुत्वा भगवान् स मुनीश्वरः / एनं दूतं समालोक्य तूष्णीभूत्वाध्युवास तत् // rm_25.55{54} //

ततः स भगवान् वर्षात्रिमासान्त ससांघिकः / सर्वत्र मंगलं कृत्वा प्रतस्थे संप्रभासयन् // rm_25.56{55} //

तदा स पुरुषो दूतस् तद्विहाराद् विनिर्गतः / सहसा रथम् आरुह्य संप्रतस्थे पुरः पथि // rm_25.57{56} //

तत्र स भगवंतं पद्भ्यां संप्रस्थितं पथि / दृष्ट्वैव सहसा तस्माद् रथात् स्वयम् अवातरत् // rm_25.58{57} //

तत्र स सहसोपेत्य भगवन्तं मुनीश्वरं / सांजलिः पुरतो गत्वा प्रणत्वैवम् अवोचत // rm_25.59{58} //

प्रसीदतु जगन्नाथ ममानुकम्पया भवान् / इदं रथं समारुह्य विजयतां ससांघिकः // rm_25.60{59} //

इति तेनोदितं श्रुत्वा भगवान् स जगद्गुरुः / तं दूतं पुरुषं दृष्ट्वा तत्रैवं समुपादिशत् // rm_25.61{60} //

ऋद्धिपादरथेनाहं सम्यग्व्यायामवर्त्तिना / प्रचरामि महीं कृत्स्नाम् अक्षतः क्लेशकष्टकैः // rm_25.62{61} //

इत्य् आदिष्टं मुनीन्द्रेण स दूतः प्रतिबोधितः / भूयो ऽपि सांजलिर् नत्वा प्रार्थयत् तं मुनीश्वरं // rm_25.63{62} //

यद्य् अपि भगवान् ऋद्धियानयायी तथापि तु / ममानुग्रहम् आधातुं गृह्यताम् अनुकम्पया // rm_25.64{63} //

इति तेनार्थितं श्रुत्वा भगवान् ससांघिकः / ऋद्ध्या रथोपरि स्थित्वा संप्रतस्थे प्रभासयन् // rm_25.65{64} //

तत्र मार्गेषु सर्वत्र भगवान् ससांघिकः / भासयन् मंगलं कृत्वा श्रावस्तीपुरम् आययौ // rm_25.66{65} //

तत्र स पुरुषो दूतः सहसा प्रचरन् पुरः / प्रसेनजिन्नरेन्द्रस्य गत्वैवं संन्यवेदयत् // rm_25.67{66} //

जय देव महाराज दिष्ट्या वर्द्धस्व सांप्रतं / यद् असौ भगवांच् छास्ता ससंघो ऽत्र समागतः // rm_25.68{67} //

इति तेनोदितं श्रुत्वा प्रसेनजित् स भूपतिः / तत्र सर्वत्र मार्गेषु शोधयित्वाभ्यशोधयत् // rm_25.69{68} //

छत्रध्वजवितानैश् च समंततो ऽभ्यमंडयत् / ततः स नृपति राजा तूर्यसंगीतिवादनैः / सजनो भगवन्तं तं प्रत्युद्ययौ महोत्सवैः // rm_25.70{69} //

तत्र समुदितो राजा समंत्रिजनपौरिकः / दूरात् तं श्रीघनं दृष्ट्वा पद्भ्यां चरन्न् उपाचरत् // rm_25.71{70} //

तत्रोपेत्य स भूपालः ससंघन् तं मुनीश्वरं / प्रणत्वा सांजलिः स्थित्वा पुरो दृष्ट्वैवम् अब्रवीत् // rm_25.72{71} //

भगवन् नाथ सार्वज्ञ कच्चिच् च कुशलं तनौ / भवतां विषये ह्य् अत्र विहरस्व ससांघिकः // rm_25.73{72} //

तथा सर्वे ऽपि लोकाश् च समंत्रिजनपौरिकाः / सांजलयः प्रणत्वैवं प्रार्थयंस् तं मुनीश्वरं // rm_25.74{73} //

स्वागतं भगवंच् छास्त विजयस्व कृपानिधे / सदात्र स्वाश्रमे स्थित्वा विहरस्वानुकम्पया // rm_25.75{74} //

इत्य् उक्त्वा सर्वलोकास् ते नृपतिप्रमुखा मुदा / पूजादि मंगलोत्साहैः प्रावेशयंस् ततः पुरे // rm_25.76{75} //

ततः स भगवान् दृष्ट्वा सर्वांस् तान् संप्रमोदितान् / नृपतिप्रमुखान् दत्वा भद्राशिषं समाचरत् // rm_25.77{76} //

तत्र स भगवांस् तस्याः श्रावस्त्या गोपुरान्तिके / अवतीर्य यथा पद्भ्यां प्रचक्राम ससांघिकः // rm_25.78{77} //

तत्र स श्रीघनो नाथः प्रभासयन् समंततः / सर्वेषां भद्रतां कुर्वन् प्रविवेश ससांघिकः // rm_25.79{78} //

प्रविष्टे नगरे तत्र संबुद्धे सुगते जिने / तत्पुण्यसुप्रभाव्याप्ते सर्वत्राप्य् अभवच् छुभं // rm_25.80{79} //

अंधा रूपाणि प्राद्राक्षुर् वधिराः शुश्रुवु रवं / ये च हीनेंद्रियास् ते ऽपि सर्वे पूर्णेन्द्रिया वभुः // rm_25.81{80} //

क्षुधाग्निपरितप्तांगास् ते ऽभवन् परितृप्तिताः / पिपासापरिदग्धांगास् ते ऽप्य् आसन् संप्रतर्पिताः // rm_25.82{81} //

कुचेला दुर्भगांशा ये शुद्धांशुकाः शुभांशिकाः / चिररोगातुरा येन नीरोगा वलिनो ऽभवन् // rm_25.83{82} //

उन्मत्ताः स्मृतिमंतश् च दरिद्रा धनिनो ऽभवन् / चिरवैरानुवद्धा ये ते ऽप्य् आसन् मैत्रभाविनः // rm_25.84{83} //

चंडालाश् च दयावन्तः क्रोधिनः क्षान्तिभाविनः / लब्धाश् च निःस्पृहा आसन् ईर्ष्यालवश् च साधवः // rm_25.85{84} //

मत्सरिणश् च दातारः कृपणाः संतोषिताशयाः / अधर्मकामसंरक्तास् ते धर्मकामसाधिनः // rm_25.86{85} //

मृषावादरता ये च ते ऽप्य् आसन् सत्यभाषिणः / पैशुन्याभिरता ये च ते ऽपि विश्रम्भभोजनाः // rm_25.87{86} //

संभिन्नलापिनो दुष्टास् ते ऽपि संतः समार्जवाः / पारुष्यंवादिनः क्रूरास् ते आसन् प्रियवादिनः // rm_25.88{87} //

ये ऽभिध्यालवस् ते ऽपि सज्जना कीर्तिमानिनः / व्यापादनिरता ये च ते ऽपि सत्वहितार्थिनः // rm_25.89{88} //

मिथ्यादृष्टिचरा ये च ते धर्मसत्यदृष्टयः / बोधिचर्यासमुत्साहाः सर्वे पुण्यार्थिनो ऽभवन् // rm_25.90{89} //

एवम् अन्ये ऽपि ये सत्वा दुःखिनः पापसंरताः / सर्वे ते सुखिनः संतः सद्धर्मवांछिनो ऽभवन् // rm_25.91{90} //

सुगंधिनः सुखस्पर्शाः शीतला वायवो ववुः / प्रसेदिरे दिशः सर्वाः पुष्पाणि ववृषुर् घनाः // rm_25.92{91} //

सुरदुंदुभयो नेदुः प्रससार महोदधिः / प्रचचार मही षड्धा प्रजुज्वलुः शुभाग्नयः // rm_25.93{92} //

बभूवुः पादपाः सर्वे फलपुष्पाभरानत्ताः / अष्टांगगुणयुक्ताम्बुपरिपूर्णजलाश्रयाः // rm_25.94{93} //

अनेकधातुरत्नादि निधयः प्रचकासिरे / निस्पन्नशस्यसंपन्ना बह्हूव वसुधा तदा // rm_25.95{94} //

बहुक्षीरप्रदा गाव औषधयो गुणान्विताः / रसाश् च सुगुणा आसन् फलानि सुरसानि च // rm_25.96{95} //

एवं तत्र सुभद्राणि सर्वत्राप्य् अभवंस् तदा / उपद्रवाश् च सर्वे ऽपि सर्वत्र विलयं गताः // rm_25.97{96} //

सर्वे विघ्नगणा दुष्टा ते ऽप्य् अत्र विलयं ययुः / सर्वे सत्वाः सुखाढ्याश् च प्रचेरिरे प्रहर्षिताः // rm_25.98{97} //

एवं तदा मुनीन्द्रस्य प्रभावेन समंततः / सद्धर्ममंगलोत्साहं बभूव निरुपद्रवं // rm_25.99{98} //

एवं स भगवांस् तत्र कृत्वा भद्रं प्रभासयन् / प्रदक्षिणक्रमेणैवं प्रचक्राम नृपालये // rm_25.100{99} //

तत्र शोधान्तरे रम्ये प्रासादे परिशोधिते / छत्रध्वजवितानैश् च मण्डिते विसृतासने // rm_25.101{100} //

प्रविश्य पाद्यम् आदाय नृपदत्तं ससांघिकः / भगवान् भासयंस् तत्र शुद्धासने समाश्रयन् // rm_25.102{1} //

तथा ते सांघिकाश् चापि सर्वे दत्तं महीभुजा / स्वयं समादाय स्वस्वासने समाश्रयत् // rm_25.103{2} //

एवं तत्र समासीनं श्रीघनं तं ससांघिकं / नृपतिप्रमुखाः सर्वे लोका दृष्ट्वा प्रमोदिताः // rm_25.104{3} //

सर्वपूजोपहारांगैः समभ्यर्च्य यथाविधिः / यथार्हभोजनैश् चापि प्रणीतैः समतोषयन् // rm_25.105{4} //

ततस् तं सुगतं तृप्तं ससमहं स नराधिपः / दृष्ट्वापनीय पात्राणि तद् धस्तादीन् अशोधयत् // rm_25.106{5} //

ततः क्रमुकताम्बूलमहौषद्धिरसायनं / दत्वा क्षमार्थनां कृत्वा ननाम तं ससांघिकं // rm_25.107{6} //

तत्र समुदितो राजा तस्य शास्तुर् जगद्गुरोः / पुरो नीचासनासीनो तस्थौ श्रोतुं वृषं मुदा // rm_25.108{7} //

तथा मंत्रिजनाद्याश् च सर्वे लोकाः प्रमोदिताः / नत्वा तं श्रीघनं तत्र धर्मम् श्रोतुम् उपाश्रयन् // rm_25.109{8} //

ततः स भगवां दृष्ट्वा सर्वांस् तान् समुपाश्रितान् / नृपतिं तं समामंत्र्य सद्धर्मं समुपादिशत् // rm_25.110{9} //

शृणु राजन् महाभाग सर्वदारोग्यम् अस्तु वः / सर्वे सत्वाश् च सद्धर्मनिरता सन्तु सर्वदा // rm_25.111{10} //

एवं त्वं भो महाराज साधयित्वा प्रयत्नतः / सर्वां सत्वां शुभे धर्मे योजयित्वाभिपालय // rm_25.112{11} //

एवं लोके शुभं कृत्वा बोधिचर्यां समाहितः / त्रिरत्नभजनं कृत्वा चिनु धर्मं समादरात् // rm_25.113{12} //

अनित्यं खलु संसारं क्षणध्वंसि शरीरकं / जीवितं च क्षणस्थायि धर्म एव सहानुगः // rm_25.114{13} //

इति मत्वा महाराज क्लेशान् दुर्जयान् वलैः / जित्वा सत्वांच् छुभे स्थाप्य पालय सद्वृषं चिनुः // rm_25.115{14} //

धर्मेण सद्गतिं यायाः सद्गतौ सर्वदा सुखं / भुक्त्वा बोधिचरिं धृत्वा चरं बोधिम् अवाप्नुयाः // rm_25.116{15} //

एवं विज्ञाय राजेंद्र स्वयं धर्मे समाहितः / सर्वसत्वहितं कृत्वा चर नित्यं समाहितः // rm_25.117{16} //

इत्य् आदिश्य नरेंद्राय सलोकाय शुभाशिषं / ससंघो भगवान् बुद्धः स्वाश्रमे गंतुम् उत्थितः // rm_25.118{17} //

भासयं सकलांल् लोकां भद्रं कृत्वा समंततः / स्वाश्रमाभिमुखस् तस्मात् प्रतस्थे क्रमतः पुरात् // rm_25.119{18} //

तत्र सर्वे ऽपि लोका नृपतिप्रमुखा अपि / शास्तुस् तस्य ससंघस्य प्रानुययुः सहोत्सवैः // rm_25.120{19} //

तथा स भगवान् गत्वा ससांघिको नृपादिभिः / लोकैः सह महोत्साहैः स्वाश्रमं समुपाययौ // rm_25.121{20} //

तत्र जेतवनोद्याने विहारे समुपाश्रितः / ससांघिकः सभासीनः स शास्ता धर्मम् आदिशत् // rm_25.122{21} //

तद् धर्मदेशनां श्रुत्वा तत्रैव ते नृपादयः / सर्वे लोकाः प्रमोदन्तो रात्रौ न्यूषुः सहोत्सवैः // rm_25.123{22} //

तस्याम् एव निशायां स दूतो ऽल्पायूर् ज्वरान्वितः / त्रिरत्नस्मरणं कुर्वन् देहं त्यक्त्वा दिवं ययौ // rm_25.124{23} //

तत्र स्वर्गे समुत्पन्नः स दूतो विस्मयान्वितः / कुतश् च्युतः कुहोत्पन्नः कथम् इति व्यचिंतयत् // rm_25.125{24} //

तदा स मनसाद्राक्षीन् मनुष्येभ्यश् च्युतास्म्य् अहं / इह स्वर्गे समुत्पन्नः संबुद्धभजनाद् इति // rm_25.126{25} //

अथ स दूतपूर्वी स देवपुत्रः प्रसादितः / संबुद्धस्य गुणान् स्मृत्वा पुनर् एवं व्यचिंतयत् // rm_25.127{26} //

अहो ह्य् अहं मुनीन्द्रस्य प्रसादाद् दिवि सांप्रतं / जातो ऽस्मि तन् मुनीन्द्रस्य कुर्यां संदर्शनं पुनः // rm_25.128{27} //

इति हि दूतपुर्वी स देवपुत्रो विचिंतयन् / स्नात्वा सुगंधिलिप्तांगं शुद्धाम्वरावृतः सुधीः // rm_25.129{28} //

मौलिकुण्डलमालादि दिव्यालंकारभूषितः / दिव्यपूजोपचारां धृत्वा देवं सहाचरत् // rm_25.130{29} //

तस्याम् एव निशायां स देवपुत्रः सुरैः सह / अवभास्य प्रभास् तस्मिज् जेतारण्ये उपाचरत् // rm_25.131{30} //

तत्रोद्याने विहारे तं भगवंतं मुनीश्वरं / आलोक्य सांजलिर् नत्वा पुरतः समुपाचरत् // rm_25.132{31} //

ततस् तं श्रीघनं नाथं समभ्यर्च्य यथाविधिः / नत्वा प्रदक्षिणीकृत्य सांजलिः समुपाश्रयत् // rm_25.133{32} //

अथ स भगवांस् तस्य दृष्ट्वा चित्तं विशोधितं / आर्य्यसत्यं समारभ्य सद्धर्मं समुपादिशत् // rm_25.134{33} //

तद् आर्य्यधर्मम् आकर्ण्य देवपुत्रः स बोधितः / धर्मविशेषम् आज्ञाय दृष्टसत्यो ऽभवंस् ततः // rm_25.135{34} //

सत्कायदृष्टिभूमीन्ध्रं विंशतिशिखरोद्गतं / प्रभित्वा ज्ञानवज्रेण सद्धर्मं साधनोत्सुकः // rm_25.136{35} //

परिशुद्धाशयः श्रोतआपत्तिफलम् आप्तवान् / शास्तुस् तस्य पदौ नत्वा सांजलिर् एवम् अब्रवीत् // rm_25.137{36} //

भगवन्न् इदम् अस्माकं गुरुभिर् न कृतं खलु / न मात्रा नापि पित्रा वा न ज्ञातिमित्रवांधवैः // rm_25.138{37} //

न चेष्टैर् ब्राह्मणैर् वापि न चापि पूर्वप्रेतकैः / न राज्ञा श्रमणैश् चान्यैर् देवैर् अपि कृतं खलु // rm_25.139{38} //

यद् अस्माकं कृतं भद्रं भवतास्थिशिरोच्चयाः / लंघिता रुधिरा चाब्धिर् उछोषिताश् च सांप्रतं // rm_25.140{39} //

पिहितो पापमार्गश् च स्वर्गमार्गश् च वैवृतः / दर्शितो मोक्षमार्गो ऽपि तीर्णो दुःखार्णवापि च // rm_25.141{40} //

प्रसादाद् भवताम् अद्य प्राप्तं शुद्धेंद्रियं मया / शान्तम् आर्यपदं कांतं संबोधिगुणसाधनं // rm_25.142{41} //

अद्य मे सफलं जन्म भवतां दर्शनाद् इह / सद्धर्मश्रवणाद् अद्य बुद्धपुत्रो ऽस्मि सांप्रतं // rm_25.143{42} //

इत्य् उक्त्वा दूतपुर्वी स देवपुत्रः प्रमोदितः / तस्य शास्तुर् जगद्वंधोः पादौ नत्वा कृतांजलिः // rm_25.144{43} //

त्रिधा प्रदक्षिणीकृत्य समभिनंदिताशयः / ततो ऽनुज्ञां समासाद्य सुरैः सह दिवं ययौ // rm_25.145{44} //

तत्र स्वर्गे स सम्यातः सुरम्ये स्वालये स्थितः / त्रिरत्नभजनं कृत्वारमं देवैः सहावसत् // rm_25.146{45} //

तत्र दृष्ट्वावभासं तं प्रसेनजित् स कौशलः / विस्मितः प्रातर् उत्थाय विहारे समुपाचरत् // rm_25.147{56!} //

तत्र तं श्रीघनं दृष्ट्वा नृपतिः स प्रमोदितः / नत्वा प्रदक्षिणीकृत्य सांजलिः समुपाश्रितः // rm_25.148{57} //

ततः स नृप उत्थाय सूत्तरासङ्गम् उद्वहन् / जानुभ्यां भुवि संस्थित्वा प्रार्थयत् तं मुनीश्वरं // rm_25.149{58} //

भगवन्न् अत्र निशायां को भवतां समुपागतः / तद् भवतां समुपादिश्या मां बोधयितुम् अर्हति // rm_25.150{59} //

इति संप्रार्थिते राज्ञा भगवान् स मुनीश्वरः / नृपतिं तं महीपालं समालोक्यैवम् आदिशत् // rm_25.151{60} //

अन्यो न हि स राजेंद्र यो ऽद्य रात्राव् इहागातः / अपि तु तावको दूतो देवभूतः स आगतः // rm_25.152{61} //

इत्य् आदिष्टे मुनीन्द्रेण नृपतिः स सविस्मयः / भगवंतं पुनर् नत्वा तत् कर्म पर्यपृछतः // rm_25.153{62} //

भवन् किं कदा तेन दूतेन सुकृतं कृतं / येनासौ दिवि संजातो दृष्टसत्यो भवत्य् अपि // rm_25.154{63} //

तद् भवान् भगवंच् छास्त यत् तेन सुकृतं कृतं / तत् सर्वं समुपाख्याय बोधयितुम् अनाशयं // rm_25.155{64} //

इति संप्रार्थिते राज्ञा भगवान् स जगद्गुरुः / कौशलं तं महाराजं समालोक्यैवम् आदिशत् // rm_25.156{65} //

शृणु राजन् महाभाग तेन देवेन यत् कृतं / तद् अत्र संप्रवक्ष्यामि तव चित्तप्रबोधने // rm_25.157{66} //

यत् त्वया प्रेषितो दूतो मयि राजगृहे स्थिते / येन संप्रार्थितं श्रुत्वा तथा ह्य् अहं समागतः // rm_25.158{67} //

स साधुस् तावको दूतो मया सार्द्धम् इहागतः / सद्धर्मदेशनां श्रुत्वा श्रद्धाभक्तिसमन्वितः // rm_25.159{68} //

त्रिरत्नभजनं कृत्वा प्राचरच् छासने मम / आल्पायुष्को ह्य् असौ भद्री विहारे ऽत्र निवासितः // rm_25.160{69} // कालधर्माभिसंयुक्ते त्यक्त्वा देहं दिवं ययौ // rm_25.161{70} // स ह्य् असौ तावको दूतो रात्राव् अद्येह भासयन् / मम संदर्शनं कर्तुं देवलोकैः सहागतः // rm_25.162{71} //

मम पूजां विधायासौ कृत्वा चापि प्रदक्षिणां / नत्वा सादरम् आश्रित्य सद्धर्मं श्रद्धयाशृणोत् // rm_25.163{72} //

मत्सद्धर्मामृतं पीत्वा दृष्टसत्यः प्रमोदितः / नत्वा मां स पुनः स्वर्गे देवलोकैः सहाचरत् // rm_25.164{73} //

तत्र स स्वालये रम्ये स्थित्वा देवैः सहारमन् / त्रिरत्नभजनं कुर्वन् प्राचरं वसते सुखं // rm_25.165{74} //

एतत्पुण्यविपाकेन दूतः स तावकः कृती / स्वर्गे सौख्यं चिरं भुक्त्वा क्रमाद् बोधिम् अवाप्स्यति // rm_25.166{75} //

एवं विज्ञाय राजेंद्र संसारे ऽत्र महत्सुखं / यदीछसि सदा भद्रे चरितव्यं त्वयादरात् // rm_25.167{76} //

भद्रं तु जायते शीघ्रं त्रिरत्नभजनोद्यमात् / तत् त्रिरत्नम् उपाश्रित्य भज नित्यं समाहितः // rm_25.168{77} //

त्रिरत्ने यत् कृतं कर्मं तन् नैव क्षिणुया क्वचित् / यावद् बोधिपदं दद्या एवं महत्तरं वृषं // rm_25.169{78} //

ये त्रिरत्नं भजन्त्य् अत्र न ते गछन्ति दुर्गतिं / सदैव सद्गतिं यान्ति बोधिं च समवाप्नुयुः // rm_25.170{79} //

तिस्रो हीमाः समाख्याता अग्राः प्रज्ञप्तयो नृप / यत्र किं चित् कृतं कर्म तद्विपाको महान् स्मृताः // rm_25.171{80} //

तद्यथा कतमास् तिस्रो अग्राः प्रज्ञप्तयः स्मृताः / त्रिरत्ने प्रकृता यास् ता अग्राः प्रज्ञप्तयः स्मृताः // rm_25.172{81} //

तद्यथा सर्वसत्वानां त्रैधातुकनिवासिनां / बुद्ध एव महान् अग्रो ज्येष्ठः श्रेष्ठो वरोत्तमः // rm_25.173{82} //

ये बुद्धश्रद्धया भक्त्या प्रभजंति प्रसादिताः / सर्वे ऽत्यग्रप्रसन्नास् ते ज्येष्ठाः श्रेष्ठा वरोत्तमाः // rm_25.174{83} //

तदग्राभिप्रसन्नानां विपाको ऽप्य् अग्र उत्तमः / तथा धर्माश् च ये सर्वे संस्कृता वाप्य् असंकृताः // rm_25.175{84} //

तेषाम् अपि च सर्वेषां बुद्धधर्माग्र उच्यते / तत्र धर्मे प्रसन्ना ये ते ऽग्रे हि संप्रसन्निताः / तद् अग्राभिप्रसन्नानां विपाको ऽप्य् अग्र उच्यते // rm_25.176{85} //

ये च संघा गणास् तेषां बुद्धसंघो ऽग्र उच्यते / तत्र संघे प्रसन्ना ये ते ऽग्रे ऽभिसंप्रसादिनः // rm_25.177{86} //

तेषाम् अग्रप्रसन्नानां विपाको ऽप्य् अग्र उच्यते / एताः प्रज्ञप्तयस् तिस्रो ह्य् अग्राः ख्यातो मुनीश्वरैः // rm_25.178{87} //

तद् अत्र श्रद्धया राज त्रिरत्ने संप्रसन्नधीः / सत्कारैः समुपाश्रित्य भज नित्यं समादरात् // rm_25.179{88} //

एतत्पुण्यम् असंख्येयम् अप्रमेयं महत्तरं / सर्वसत्वमहासौख्यगुणसंपत्तिदायकं // rm_25.180{89} //

एवं मत्वा महत्पुण्यं सर्वान् सत्वान् प्रबोधयत् / त्रिरत्नभजनोत्साहैश् चारयस्व शुभे नृप // rm_25.181{90} //

एवं ते सर्वदा भद्रं सर्वत्रापि भवेद् ध्रुवं / क्रमाद् बोधिं समासाद्य संबुद्धपदम् आप्नुयाः // rm_25.182{91} //

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.