Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 7/14

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Thí dụ · Bổn sự

रत्नमालावदान

Thông tin
GRETIL — Kanga Takahata. Ratnamālāvadāna. A Garland of Precious Gems or a Collection of Edifying Tales, Told in a Metrical Form, Belonging to the Mahāyāna. Tokyo 1954 (Oriental Library Series D, 3). = Rm.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

इदं नरा ये धनिकावदानं शृण्वन्ति ये चापि निशामयन्ति / सुखानि भुक्त्वा स शुभे सदा ते सर्वे ऽपि शम्यान्ति जिनालयन् ते /

++ इति रत्नावदानतत्वे धनिकावदानं समाप्तम् ++

xix raivatāvadāna अथाशोको नरेन्द्रः स कृतांजलिपुटो मुदा / उपगुप्तं गुरुं नत्वा पुनर् एवम् अभाषत // rm_19.1{1} //

भदन्त श्रोतुम् इछामि पुनर् अन्यत् सुभाषितं / तद्यथा गुरुणाख्यातं तथादेष्टुम् च मे ऽर्हति // rm_19.2{2} //

इति सांप्रार्थितं राज्ञा श्रुत्वा सो ऽर्हं महामतिः / उपगुप्तो नरेन्द्रं तं समालोक्यैवम् आदिशत् // rm_19.3{3} //

साधु शृणु महाराज यथा मे गुरुणोदितं / तथाहं ते प्रवक्ष्यामि श्रुत्वैवं परिबुध्यतां // rm_19.4{4} //

क्रौर्येण द्विरसनाः शुचिवेष्टितानां मिथ्यापवादविषमं विषम् उत्सृजन्ति / ते पापशापपरितापपरंपरार्त्तास् तीव्रव्यलीकतिमिरविवरं विशन्ति // rm_19.5{5} //

तद्यथाभूत् पुरा भिक्षुः कास्मीरे पतिताश्रमे / रैवतकाभिधो बौद्धः सर्वभूतदयाश्रयः // rm_19.6{6} //

स कदाचिद् धनोद्देशे विविक्ते सुघटान्तरे / तरुत्वचः कषायेन चक्रे चीवररंजनं // rm_19.7{7} //

तस्मिन्न् अवसरे तत्र पिशुनाख्यद्विजन्मनः / धेनुवत्सा वने नष्टा वभूवुर् यूथनिर्गताः // rm_19.8{8} //

तदा स ब्राह्मणो दृष्ट्वा तं दुष्टाशितशंकितः / सर्वत्रापि समन्विष्टा तत्राप्य् अन्वेषितुं ययौ // rm_19.9{9} //

तत्र तच्चीवरक्वाथवाके वह्निसमुद्गतं / धूमं स द्विज आलोक्य वत्सपाकम् अमन्यत // rm_19.10{10} //

ततः स ब्राह्मणः सार्द्धं स्वजनैः शस्त्रपाणिभिः / तद् द्रष्टुं शैलम् आरुह्य सहसागात् तदन्तिके // rm_19.11{11} //

तत्र तं रैवतं भिक्षुं दृष्ट्वा स द्विज आदरात् / उपेत्य चूडिक-इड्याहतं कुम्भम् अपश्यत् // rm_19.12{12} //

तद् दृष्ट्वा शंकितश् चासौ विनयान् समुपासरन् / किम् एतत् क्रियते भिक्षोर् इति तं पर्यपृछत // rm_19.13{13} //

इति पृष्टे द्विजेनासौ रैवतो भिक्षुर् आदरात् / तत्र चीवररागो ऽयम् इति तं द्विजम् अब्रवीत् // rm_19.14{14} //

अस्मिन्न् अवसरे तस्या पूर्वकर्मविपाकतः / गोमांसरक्तपाणीयः सपाकः समपद्यत // rm_19.15{15} //

सुखं दुःखत्वम् आनाति शुक्लम् अप्य् एति कालतां / विधौ विधुरतां याते धर्मो ऽप्य् आयात्य् अधर्मतां // rm_19.16{16} //

मिथ्यापापप्रकटता जनकोपः पदच्युतिः / अपुण्यपरिपाकानाम् एतत् प्रत्यक्षलक्षणं // rm_19.17{17} // दोषः समुन्मिषति यात्य् अगुणः प्रकाशं कार्यं विपर्ययम् उपेति विशीर्यते धीः // rm_19.18{18} //पुंसां पुराविहितः दुःकृतपाककाले के के न नाम निपतन्ति महाभिघाताः // rm_19.19{19} // ततः स ब्राह्मणो ऽप्य् अत्र कुम्भे किम् इति शंकितः / पश्यामीति विनिश्चित्य निरीक्षितुम् उपाचरत् // rm_19.20{20} //

विरुद्धामिषगंधेन रुधिरेण च शंकितः / अपश्यन् स द्विजः कुम्भे मांसपिण्डं सुपक्वितैः // rm_19.21{21} //

प्रत्यक्षदोषम् आलोक्य द्विजः क्रोधितो रुषा / तम् अभाषत निर्भत्स्य तीव्रवैशशकंपितः // rm_19.22{22} //

अहो वत सदाचारः स्थितो ऽयं विजने वने / यस्येदृशानि कर्माणि न कस्यचिद् इह पश्यति // rm_19.23{23} //

प्रव्रज्यारंजितः कायः क्रिया म्लेछजनोचिता / जानाति छन्नपापानां कः कूटव्रतशान्तितां // rm_19.24{24} //

इत्य् उक्ते तेन साक्षेपं स रैवतो ऽप्य् अचिंतयत् / दोषे प्रत्यक्षलक्ष्यस्मिन् किं ब्रवीमि निरुत्तरः // rm_19.25{25} //

मम दैवाय घातो ऽयम् इत्य् उक्ते को ऽनुमन्यते / हास्यायतनताम् एति प्रत्यक्ष्यापह्नवी जनः // rm_19.26{26} //

उपस्थितं सहे सर्वं मौनम् आलम्ब्य केवलं / अयं मे निःप्रतीकारः सलिलाद् अग्निदुत्थितः // rm_19.27{27} //

दोषे गुणातिशयम् आशु गुणे ऽपि दोषं पैयूषधाम्नि विषम् अप्य् अमृतं विषे च // संदर्शयत्य् अनिशम् अद्भुतरूपम् एव कालेन्द्रजालिकावधूर् भवितव्येयं // rm_19.28{28} // इत्य् एवं मनसा ध्यात्वा रैवतः स महामतिः / स्वदैवस्मरणं कृत्वा तस्थौ योगसमाहितः // rm_19.29{29} //

इति ध्यानं समालम्ब्य स्थितं तं रैवतं मुनिं / दृष्ट्वातिरुषितश् चासौ संतर्य्य पर्यभाषत // rm_19.30{30} //

अरे रे दुर्मते भिक्षो किं अत्र दुर्जने वने / स्थित्वेवं दारुणं पापं साधयित्वा निषीदसि // rm_19.31{31} //

अरे पापिष्ठ भाषस्व यद् अर्थे वालकां वृषं / हत्वात्र पच्यते मांस त्वयात्मनो परेण वा // rm_19.32{32} //

परेणापि हतं दृष्ट्वा तत् पापैः परिलिप्यसे / तत् त्वया वृषभी हत्वा कथं पापैर् न दह्यसे // rm_19.33{33} //

धिग् धिक् त्वाम् अत्र रेभिक्षो संबुद्धशासने यतः / प्रव्रज्यासंवरं धृत्वा निर्जने वन आश्रयन् // rm_19.34{34} //

महद्दुःकरकर्माणि कृत्वैवं तपसे ऽधुना / अरे रे श्रूयते किं न त्वया संबुद्धभाषितं // rm_19.35{35} //

अथ श्रुत्वापि ते तत्र श्रद्धा न विद्यते खलु / किम् एवं पातकं कृत्वा प्रव्रज्यासंवरं चरन् // rm_19.36{36} //

केवलं पापकान्य् एव साधयित्वात्र तिष्ठसे / प्रव्रजितो विरक्तात्मा परिशुद्धत्रिमंडलः // rm_19.37{37} // सर्वसत्वदयादृष्टिश् चरेन् नित्यं समाहितः // rm_19.38{37!} // अदत्तं कस्य चिद् द्रव्यं गृहीयान् न कथं चन / दयाकरुण्ययुक्तात्मा न कुर्यात् प्राणिपीडिनं // rm_19.39{38} //

कामभोगम् अधर्मेण नैव भुंज्यात् कदा चन / मृषावादं कदाप्य् अत्र नैव ब्रूयात् कथं चन // rm_19.40{39} //

पारुष्यवचनं चापि नैव ब्रूयात् कथं चन / पैशुन्यवचनं वापि वदेन् न कस्य चित् पुरः // rm_19.41{40} //

संभिन्नप्रलापं च न प्रवदेत् कस्य चिद् अपि / व्यापादं कस्य चिच् चापि भावयेन् न कथं चन // rm_19.42{41} // अभिध्यां च तथा नैव चिंतयेत् कस्य चिद् अपि // rm_19.43{42} // मिथ्यादृष्टिं सदा क्वापि भावयेन् न कदा चन / एतानि दशपापानां मूलानि सर्वथा त्यजेत् // rm_19.44{43} //

एतानि ये समालभ्य प्रचरन्ति प्रमादतः / ते सर्वे क्लेशसंतप्ता भ्रमन्ति दुःखिनो भवे // rm_19.45{44} //

ततः क्लेशाग्निसंतप्ताः पापेष्व् एव समाहिताः / दुःखान्य् एव सदा भुक्त्वा नरकेषु भ्रमन्ति ते // rm_19.46{45} //

इति मत्वात्र संसारे त्यक्त्वैतानि दशापि हि / सन्तो नित्यम् शुभेष्व् एव प्रचरन्ति समाहिताः // rm_19.47{46} //

शुभेन सद्गतिं यान्ति पपिन दुर्गतिं सदा / इत्य् आख्यातं जिनैः सर्वैः किं नैतच् छ्रूयते त्वया // rm_19.48{47} //

कथम् एतद् अवज्ञाय प्रव्रजितस् त्वम् आचरेः / धिक् ते चित्तं यद् एवं मे गोवत्सं भोक्तुम् इछति // rm_19.49{48} //

प्रव्रजितो हि शुद्धात्मा परिशुद्धस् त्रिमण्डलः / सर्वसत्वदयाचित्तश् चरेन् नित्यं समाहितः // rm_19.50{49} //

सर्वसत्वहितं कृत्वा ब्रह्मचर्यं समाहितः / भिक्षान्नमात्रसंकृष्टः सुनिःस्पृहश् चरेच् छुभे // rm_19.51{50} //

समाधिनिरतो योगी धारणीपरमार्थभृत् / सर्वक्लेशान् विनिर्जित्वा सर्वमारगाणान् अपि // rm_19.52{51} //

सर्वान् परिग्रहान् त्यक्त्वा निर्विकल्पो निरंजनः / साक्षाद् अर्हत्वम् आसाद्य ब्रह्मचर्यं समाचरेत् // rm_19.53{52} //

एवं प्रव्रजितो भिक्षुश् चरन् नित्यं सुशीलभृत् / शिवां बोधिं समासाद्य निर्वृतिपदम् आप्नुयात् // rm_19.54{53} //

त्वं तु प्रव्रजितो ऽप्य् एवं महद्दारुणपातकं / कृत्वात्र निर्जने भुक्त्वा चरसे म्लेछचारिकां // rm_19.55{54} //

हा वतात्र विनष्टो ऽसि यद् एतत् पातकान्वितः / सहसा नरके गत्वा चिरं दुःखानि भोक्ष्यसि // rm_19.56{55} //

किं त्वया प्रकृतं पापं पुरा जन्मान्तरे कथं / यद् अत्र सौगते धर्मं प्राप्तो ऽप्य् एवं दुराशयः // rm_19.57{56} //

तच् चरस्व समाधाय प्रायश्चित्तव्रतं पुनः / एतत्पापाभिसंशुद्ध्यै पुनर् व्रतसमाप्तये // rm_19.58{57} //

तथा ते शुद्धिते काये मंगलं च भवेत् क्रमात् / परिशुद्धस् त्रिकायश् च प्रव्रज्यासंवरं चर // rm_19.59{58} //

तदा त्वं सर्वथा जित्वा क्लेशान् मारगणान्न् अपि / साक्षाद् अर्हत्वम् आसाद्य ब्रह्मचारी भविष्यति // rm_19.60{59} //

तदा त्वं परिशुद्धात्मा निर्विकल्पो निरंजनः / शिवां बोधिं समासाद्य निर्वृतिपदम् आप्नुयाः // rm_19.61{60} //

इति तेनोदितं श्रुत्वा रैवतः स प्रबोधितः / तथापि मौनम् आधाय तथौ दैवाभ्यनुस्मरन् // rm_19.62{61} //

एवं स्थितं तम् आलोक्य ब्राह्मणः स रुषान्वितः / एवं द्विधा त्रिधाप्य् एनं परिभाष्याभ्यनिन्दयत् // rm_19.63{62} //

एवं द्विधा त्रिधाप्य् उक्ते ब्राह्मणेन स रैवतः / स्वदैवम् अभ्यनुस्मृत्वा मौनेनैव न्यषीदत // rm_19.64{63} //

स्वदैवचिन्तयस् तस्य मौनात् स ब्राह्मणो रुषा / रैवतं तां कताक्षेण दृष्ट्वैनं पर्यभाषत // rm_19.65{64} //

अरे रे दुर्मते भिक्षो किम् एवं तिष्ठसे ऽधुना / उत्तिष्ठात्र प्रवंधित्व नयामि त्वां नृपान्तिके // rm_19.66{65} //

एवं तेनोदिते ऽप्य् एव स्थितः स रैवतो यतिः / किं चिन् नैवावदेन् मौनम् एवालम्ब्य न्यषीदत // rm_19.67{66} //

ततः स ब्राह्मणस् तस्य मौनाद् अतिप्रकोपितः / मुर्द्ध्नि पापम् इव स्थूलं लगुडं मर्पयातयत् // rm_19.68{67} //

तथाभिघात्यमानो ऽपि रैवतः स समाहितः / दैवम् एवाभ्यनुस्मृत्वा तस्थौ निःकंपिताशयः // rm_19.69{68} //

तथास्थितं तं मुनिम् आत्मविद्यं दैवं स्मरंतं ह्य् अकृतापराधं / निनाय पश्चात्कृतवाहुदंडं सदस् तदा नंदनभूमिभर्तुः // rm_19.70{69} //

तथास्थितं तम् आलोक्य स द्विजः प्रतिरोषितः / रक्ताक्षं रैवतं वद्ध्वा सहसानयन् नृपान्तिके // rm_19.71{70} //

तत्र स ब्राह्मणो नीत्वा तं राज्ञः स्थितः / तद्वत्सपिशितं पक्वम् उपस्थाप्य ऽभ्यदर्शयत् // rm_19.72{71} //

ततः स ब्राह्मणः क्रूरस् तस्य भिक्षो सविस्तरं / सर्ववृत्तांतम् आख्याय तं नृपं पर्यकोपयत् // rm_19.73{72} //

तद् वत्समांसम् आलोक्य नृपतिः स प्रकोपितः / रैवतं तं यतिं वद्ध्वा चक्रे कारागृहातिथिं // rm_19.74{73} //

निर्दोषः क्लेशम् आश्नाति तम्भते गुप्तपातकः / जानाति कस्य कः शुद्धिं चित्राकारेष्व् असाक्षिषु // rm_19.75{74} //

तत्र स वंधनागारे वंधितो ऽपि स सन्मतिः / त्रिरत्नस्मरणं कृत्वा तस्थौ दैवानुचिन्तयन् // rm_19.76{75} //

तत्रैवं वंधनागारे तस्मिन् भिक्षौ निवन्धिते / काले न विस्नितो राजा तद् विचारे ऽपि नास्मरत् // rm_19.77{76} //

तदान्यस्मिन् दिने तत्र ते वत्साः सर्व आगताः / मातृभिः सह संसक्तास् तृणं भुक्त्वा निषेदिरे // rm_19.78{77!} //

तान् वत्सान् मातृसंसक्तान् सर्वान् आलोक्य स द्विजः / विस्मितः पुनर् आलोक्य पश्यन्न् एवं व्यचिंतयत् // rm_19.79{78} //

अहो वत्सा इमे सर्वे कुत्र गत्वाधुनागताः / सर्वत्रान्विष्यमाना हि कुत्रापि नाभ्यदृश्यते // rm_19.80{79} //

हा ममात्र महत्पापो जायते सांप्रतं कथं / यन् मया सहसा भिक्षोर् असमीक्ष्यापराध्यते // rm_19.81{80} //

यथा भिक्षोर् घटे मान्सं दृष्ट्वैषाम् इति चिन्तयत् / चौरायम् इति तं भिक्षुं पर्यभाषं रुषाभृतं // rm_19.82{81} //

अपराधं विनार्हंतम् अपि भिक्षुं प्रताडयत् / वद्ध्वा तं सहसा राज्ञः पुरो ऽत्र समुपानयं // rm_19.83{82} //

राजापि मम वाक्येन सहसैव निमंत्रयन् / वद्ध्वाशु वंधनागारे प्रस्थापयति सांप्रतं // rm_19.84{83} //

तद् अत्र किं करिष्यामि वत्साः सर्वे इहागताः / अपराधा यतेर् नेति वदेय सांप्रतं कथं // rm_19.85{84} //

यद्य् अवक्ष्यं तथा राजा तदा मे कुपितो नृपः / सर्वस्वम् अपहृत्वापि प्राहरिष्यते माम् इह // rm_19.86{85} //

अथ यदि भयाद् राज्ञो नावदिष्यंस् तथा क्वचित् / नूनं तं यतिम् अर्हन्तम् अपि राजा हनिष्यते // rm_19.87{86} //

तदाहं किं करिष्यामि तद्घोरपातकानलैः / पच्यमानस् सदावीचौ तिष्ठेयम् अतिदुःखितः // rm_19.88{87} //

तद् अत्र किं करिष्यामि यत्रोपायं न विद्यते / सर्वथाहं विनष्टो ऽस्मि व्रजेय शरणं कुह // rm_19.89{88} //

यद् इमं सौगतं भिक्षुम् अर्हन्तं ब्रह्मचारिणं / अनपराधिनं हत्वा कथं पापैर् न लेप्स्यते // rm_19.90{89} //

एतैर् हि पातकैर् घोरैर् अहं राजा जना इमे / सर्वे वत्स्यामहे ऽवीचौ भुक्त्वा दुःखानि सर्वदा // rm_19.91{90} //

हा मे दैवाद् यतेश् चापि निर्जने वसतो ऽपि यत् / घटे ऽभिदृश्यते वत्समान्सीभूतं हि चीवरं // rm_19.92{91} //

अवश्यं भाविनो भावा भवन्त्य् एव न चान्यथा / तद् अत्र किं करिष्यामि भिक्षुर् वा किं करिष्यति // rm_19.93{92} //

तस्यैव कर्मदोषेण मांसीभूतं हि चीवरं / अथ ममैव दैवेन तद् इति मन्यते न हि // rm_19.94{93} //

तद् अत्र किं वदेयाहं दैवं हि सर्वकर्मकृति / इति ममार्हो ऽप्य् अस्य दूषणं नात्र विद्यते // rm_19.95{94} //

तथप्य् एतत् प्रवृत्तिर् न वक्तव्यं कस्य चिद् अपि / न गंतव्यं वहिः क्वापि स्थातव्यं स्वगृहे सदा // rm_19.96{95} //

कदा चित् स्खलिता बुद्धिर् वाणी च विस्मृतस्य मे / एतद् धि पातकं घोरं समाचक्षत कुत्र चित् // rm_19.97{96} //

तदाहं निंद्यमानो ऽत्र सर्वलोकैर् इतस् ततः / भ्रत्स्यमानः कथं लोके चरिष्ये दुष्टजंतुवत् // rm_19.98{97} //

इति ध्यात्वा विनिश्चित्य ब्राह्मणः स विषादितः / कस्याप्य् एतत् प्रवृत्तांतं नोचे दौर्जन्यलज्जया // rm_19.99{98} //

तत् पातकाग्निसंतप्तः स्मृत्वार्हन्तं तम् एव सः / प्रायश्चित्तव्रतं कुर्वन्न् इव तस्थौ गृहाश्रितः // rm_19.100{99} //

एवं द्वादशवर्षाणि नृपेणापि स विस्मृतः / रैवतो वंधनागारे तस्थौ ध्यानसमाहितः // rm_19.101{100} //

अथ द्वादशवर्षान्ते तच् छिष्याः सर्व आगताः / तत् प्रवृत्तिं समाकर्ण्य विस्मितास् ते ऽभवंस् तदा // rm_19.102{1} //

ततः सर्वे ऽपि ते शिष्याः संमील्य नृपतेः पुरः / उपेत्यैतत् प्रवृत्तांतं समाख्याय न्यवेदयन् // rm_19.103{2} //

आरोग्यम् अस्तु ते राजन् लोकान् धर्मेण पालय / यदर्थे वयम् आयामस् तत्र भवान् प्रसीदतु // rm_19.104{3} //

यद् अस्माकं गुरुर् भिक्षुर् अपराधं विना कथं / भवता वंधनागारे स्थापितस् तद् विचारय // rm_19.105{4} //

इति तैर् भिक्षुभिः सर्वैस् तच् छिष्यैः प्रार्थिते तदा / व्योमवाणी तथाख्याय नरेन्द्रं तं व्यबोधयत् // rm_19.106{5} //

तत् खवाणिं समाकर्ण्य नृपः स परिबोधितः / तच् छिष्यैः सारितो भिक्षुं तं मुमोचाशु वंधनात् // rm_19.107{6} //

अहो ग्रावाग्रलिखिता निश्चला कर्मसंततिः / प्राप्तभिज्ञो ऽपि यत् प्राप क्रूरक्लेशदशां तथा // rm_19.108{7} //

तं यतिं निर्गतं दृष्ट्वा स राजाभ्यानुतापितः / निनिन्दा मन्दपुण्यत्वं प्रमादाद् धतम् आत्मनः // rm_19.109{8} //

तदा स नृपति राजा सहसा तस्य पादयोः / सांजलिः प्रणतिं कृत्वा समुत्थायैवम् अब्रवीत् // rm_19.110{9} //

भदन्तो विचार्यैव प्रमदा यद् भवान् मया / स्थापितो वंधने तन् मे ऽपराधं क्षंतुम् अर्हति // rm_19.111{10} //

विस्मृता मे सहायां च परिज्ञाता न केन चित् / दण्डः पतति शुद्धेषु प्राप्तः पापे महीपतौ // rm_19.112{11} //

इत्य् उक्तः क्षितिपालेन क्षान्तिप्रक्षालिताशयः / रैवतः स नरेंद्रं तं समालोक्यैवम् अब्रवीत् // rm_19.113{12} //

राजन् न ते ऽपराधत्वं ममैतत् कर्मजं फलं / तद् अत्र मा कृथाः खेटं सौगत आत्मविद्युतं // rm_19.114{13} //

ततस् तं यतिम् अर्हन्तं स राजा सहसादरात् / चीवरेण समाछाद्य पिंडकेन समार्चयत् // rm_19.115{14} //

तदैतद् वृत्तिम् आकर्ण्य ब्राह्मणः स त्वरान्वितः / आगत्य तत् सभामध्ये दत्ताशीः समुपाचरत् // rm_19.116{15} //

तत्र स समुपासृत्य राज्ञे दत्वा जयाशिषां / तं यतिं साञ्जलिर् नत्वा प्रार्थयन् विनयात् क्षमां // rm_19.117{16} //

भदन्त भवताम् एवम् अपराधम् अकारयन् / तन् मे ऽपराधतां क्षंतुम् अर्हति सर्वथा भवान् // rm_19.118{17} //

इत्य् उक्ते तेन विप्रेण रैवतः स विशुद्धधीः / ब्राह्मणं तं विषण्णास्यं समालोक्यैवम् अब्रवीत् // rm_19.119{18} //

न मन्युर् विद्यते विप्र न त्वयापकृतं मयि / ममैव दैवया केन मांसीभूतं हि चीवरं // rm_19.120{19} //

तत्राहं मौनम् आलम्ब्य स्थितो दैवाभ्यनुस्मरन् / तेनात्र किं वदिष्यामि दैवा हि वलवान् भवे // rm_19.121{20} //

न त्वयापाकृतं किञ्चिद् विपुलक्लेशपातितः / तन् ममोपनतं पाके स्वकर्मसदृशं फलं // rm_19.122{21} //

यत् सौत्कण्ठतयैव सर्वविपदः कुर्वन्ति कण्ठग्रहं सर्वाङ्गप्रसभोपभोगसुभगाः क्लिश्यन्ति यत् संपदः / यत् स्वाछंद्यसुखास्पदं विहरणं दीर्घं च यद् वंधनं तत् पुंसां निजकर्मपाकशवलं संसारवल्लीफलं // rm_19.123{22} //

इति तेनार्हताख्यातं श्रुत्वा नंदः स भूपतिः / विस्मितः कौतुकाच् चैवं दृष्ट्वा तं यतिम् अब्रवीत् // rm_19.124{23} //

तवापि सुमते कस्य फलम् एतत् कुकर्मणः / किं पुरा प्रकृतं कर्मन् तत् समाख्यातुम् अर्हति // rm_19.125{24} //

इति पृष्टे नरेन्द्रेण रैवतः स सुधिर् यतिः / तं नरेंद्रं समालोक्य बोधयितुं तथावदत् // rm_19.126{25} //

साधु शृणु महाराज यन् मया प्रकृतं पुरा / तद् अत्राहं प्रवक्ष्यामि सर्वलोकप्रबोधने // rm_19.127{26} //

वाराणस्यां पुरा क्रूरचरितो ऽभूत् कुथाभिधः / गोचौरः कुत्सिकाचारो गोमांसविहिताशनः // rm_19.128{27} //

कदा चित् स वने गत्वा हत्वा गोवत्सम् आत्मना / तद् वत्समांसम् आदाय सहसा ततो विनिर्ययौ // rm_19.129{28} //

तत्र गोरक्षिणो वत्सनष्टम् अन्विष्य सर्वतः / दृष्ट्वा तं मांसभारार्त्तं कोपात् समभिदुद्रुवुः // rm_19.130{29} //

तत्र स कुथ आलोक्य तान् सर्वान् समुपद्रुतान् / सहसोपद्रुतो ऽरण्ये प्रदुद्राव वनांतरे // rm_19.131{30} //

तत्र प्रत्येकबुद्धस्य ध्यानलीनस्य सो ऽग्रतः / उपनिक्षिप्य तन् मांसं तत्रैकान्ते न्यलीयत // rm_19.132{31} //

ते ऽपि गोरक्षिणः सर्वे सानुचराम् अभिद्रुताः / तत्र प्रत्येकबुद्धं तम् आलोक्य समुपाचरन् // rm_19.133{32} //

तत्र स कुथ आगत्य तेषां गोरक्षिणां पुरः / गोमांसं दर्शयित्वा तं चौरायम् इत्य् अदर्शयत् // rm_19.134{33} //

तत्र ते गोभृतः सर्वे गोमांसं तन् मुनेः पुरः / दृष्ट्वैव सहसा कोपात् तं मुनिम् अभ्यघातयत् // rm_19.135{34} //

वध्यो ऽयम् इति तं वध्वा गोपालास् ते प्रकोपिताः / आक्रुश्य सहसानीत्वा कारागारे न्यवंधयत् // rm_19.136{35} //

ततः स कुथ आकर्ण्य तं यतिं वंधने धृतं / पश्चात्तापाग्निसंतप्तस् तहीत्य् एवं व्यचिंतयत् // rm_19.137{36} //

हा मया पापिनाप्य् एवं साध्यते पातकानि च / अवश्यं वह्निनावीचौ कुंह्भ्यां पक्ष्ये रतंश् चिरं // rm_19.138{37} //

यद् अयं निर्जने ध्यातो प्रत्येकबुद्ध आत्मवित् / चौरायम् इति संदर्श्य वंधने स्थापितोमया // rm_19.139{38} //

एतत्पापविपाके हि सर्वदा नरके स्थितः / तीव्रदुःखाग्निसंतप्त अन्ते मां स्वकृते फलं // rm_19.140{39} //

हा मयैवं महाघोरं पातकं दुर्धिया कृतं / कदा तत् पातकान् मुक्तो व्रजेयं सद्गतिं कथं // rm_19.141{40} //

हा सर्वज्ञ नमस् तुभ्यं पश्य माम् अतिपापिनं / भवान्न् एव जगत्त्राता तन् मे ऽपि त्रातुम् अर्हति // rm_19.142{41} //

मया मूढेन दुष्टेन महापातकम् आचितं / तद् विमुक्त्याम् उपायं मे कृपया दातुम् अर्हति // rm_19.143{42} //

इति कुथः स चाण्डालः स्मृत्वा संबुद्धम् आदरात् / पश्चात्तापाभिसंतप्तस् तस्थौ गेहे प्रमोहितः // rm_19.144{43} //

ततः स चेतनं प्राप्य संबुद्धस्यानुभावतः / सहसा तत उत्थाय तदन्तिके उपाचरत् // rm_19.145{44} //

तत्र स समुपासृत्य तेसां गोरक्षिणं पुरः / कृतांजलिपुटो नत्वा याचित्वाभयम् अब्रवीत् // rm_19.146{45} //

भवन्तो ऽत्र मया पापं कृतं तत् प्रतिदेक्ष्यते / तद् भवंतः समाकर्ण्य क्षंतुम् अर्हंति सर्वथा // rm_19.147{46} //

अस्य प्रत्येकबुद्धस्य ह्य् अपराधो न विद्यते / तत्र मयातिदुष्टेन चौरो ऽयम् इति दर्शितः // rm_19.148{47} //

तद् अत्र मुच्यताम् एष प्रत्येकसुगतो मुनिः / सत्कृत्याभ्यर्च्य पिंडेन माननीयो हि सर्वदा // rm_19.149{48} //

अत्रैतत् पातकं नास्य ममैव मस्तके पचेत् / तद् अहम् एव वध्यो ऽत्र तद् अयं मुच्यतां यतिः // rm_19.150{49} //

इति तेनोदितं श्रुत्वा सर्वे गोरक्षिणो ऽपि ते / रुष्टास् तं सहसा वद्ध्वा पर्य्याख्यायात्यताडयत् // rm_19.151{50} //

तत् ताडनरवं श्रुत्वा स प्रत्येकजिनः सुधीः / गोपालांस् तान् समामंत्र्य पुनर् एवं समादिशत् // rm_19.152{51} //

भवन्तो मुच्यताम् एष मापराधे ऽपि हन्यतां / क्षमा हि परमं धर्मं तत् कुर्वन्तु क्षमाम् इह // rm_19.153{52} //

तन्तासाद्यागनो योगं कर्तुम् अर्हन्ति सर्वथा / किं दैवं निहतं हत्वा युष्माकं सेत्स्यते फलं // rm_19.154{53} //

मयैतद् वंधनं प्राप्तं ममैव दैवयोगतः / तद् अस्याप्य् अपराधो ऽत्र नास्तीत्य् एष विमुच्यतां // rm_19.155{54} //

इति प्रत्येकबुद्धेन तेनादिष्टं निशम्यते / तथेति प्रतिबुद्धित्वा तत् कोपं मुमुचुस् तदा // rm_19.156{55} //

अथ ते गोभृतः सर्वे श्रुत्वा तस्य मुनेर् वचः / सहसा विनतिं कृत्वा वंधनात् तं व्यमुंचयत् // rm_19.157{56} //

ततस् ते गोभृतः सर्वे तं प्रत्येकमुनिं मुदा / चीवरेण समाछाद्य समभ्यर्च्यात्यतोषयन् // rm_19.158{57} //

तत्र तं समुपाश्रित्य कृतांजलिपुटो नताः / तद् अपराधसंतप्ताः प्रार्थयन्न् एवम् आदरात् // rm_19.159{58} //

भगवञ् ज्ञायते ऽस्माभिर् भवतो नापराधता / तेनास्माकं क्षमां कर्तुम् अर्हत्य् अत्र भवान् अपि // rm_19.160{59} //

इति तैः प्रार्थितं श्रुत्वा स प्रत्येकजिनः / तान् सर्वान् गोभृतो दृष्ट्वा समाश्वास्यैवम् अब्रवीत् // rm_19.161{60} //

भवन्तो मा विषीदन्तु दूषणं वा न विद्यते / एतद् वृत्तिं विजानामि सौगता हि भवार्थवित् // rm_19.162{61} //

इत्य् आदिश्य स सर्वज्ञः प्रत्येकबुद्ध उत्थितः / तत आकाश उत्प्लुत्य स्वाश्रमं गते आश्रयन् // rm_19.163{62} //

तद् दृष्ट्वा ते जनाः सर्वे गोपालाः प्रतिविस्मिताः / तम् एव सुगतं स्मृत्वा सद्धर्मे सर्वदाचरन् // rm_19.164{63} //

यो ऽसौ कुथाभिधो गोघ्नः प्रदुष्टो ऽहं तदाभवत् / तत्पापैर् नरकेष्व् एवं चिरं दुःखानि भुक्तवान् // rm_19.165{64} //

अस्मिञ् जन्मन्य् अपि प्राप्तक्लेशद्वादशवार्षिकं / तद् अस्यात्रापराधं न ममैतद् दैवयोगतः // rm_19.166{65} //

इति महाराज शुभाशुभं स्वदैवतः / संसारे ऽत्र सदा पुण्यं कर्त्तव्यं सत्सुखार्थिभिः // rm_19.167{66} //

पुण्यम् एवात्र संसारे सारसर्वार्थसिद्धिदं / पुण्यं विना न सिद्ध्यन्ते कृतकर्माणि सर्वथा // rm_19.168{67} //

पुण्येन जायते स्वर्गे पुण्येन यान्ति सद्गतिं / पुण्येन सर्वदा भद्रं कृत्वा यांति जिनालयं // rm_19.169{68} //

दंडेन मुच्यते वध्यः पुण्यस्यैवानुभावतः / दंडार्हो ऽपि प्रहारेण प्रहारार्हो ऽपि रोषतः // rm_19.170{69} //

रोषार्हा रोमहर्षनेन मुच्यते पुण्यतो नृप / यावन्तः सूखिनः सर्वसंपत्समन्विताः // rm_19.171{70} //

सर्वे ते पुण्यकर्त्तार इति ज्ञेया नराधिप / पुण्येन शुद्ध्यते चित्तं शुद्धाशयो भवेत् सुधीः // rm_19.172{71} //

सुबुद्धिः सर्वदा नित्यं शुभेष्व् एव समाचरेत् / शुभाचारो विशुद्धांगः सत्यवादी जितेन्द्रियः // rm_19.173{72} //

परिशुद्धाशयो धीरो भवेत् सत्वहितार्थभृत् / तथैतत् पुण्ययुक्तात्मा सर्वविद्याकलार्थवित् // rm_19.174{73} //

भवेद् धर्मार्थविज्ञश् च सुगुणश्रीसमन्वितः / ततो माहेश्वरीसंपत्प्राप्तो लोकहितोद्यतः // rm_19.175{74} //

दानं कृत्वा सदा सौख्यं भुक्त्या नित्यं शुभे चरेत् / एतत्पुण्यविपाकेन परिशुद्धस् त्रिमण्डलः // rm_19.176{75} //

शुभ्रशीलो विशुद्धात्मा सदार्यव्रतम् आचरेत् / एतत्पुण्यानुभावेन क्षन्तिधर्मार्थसाधकः // rm_19.177{76} //

स्वपरात्मसमाभावी चरेत् मैत्रीसुखान्वितः / एतत्पुण्यविपाकेन धर्मोत्साहगुणान्वितः // rm_19.178{77} //

सर्वदुष्टगणाञ् जित्वा चरेत् सत्वहिते कृती / एतत्पुण्यप्रभावैश् च सर्वक्लेशान् विनिर्जयन् / समाधिधारणीविज्ञश् चरेद् ध्यानं समाहितः // rm_19.179{78} //

एतत्पुण्यविपाकैश् च सर्वशास्त्राब्धिपारगः / प्रज्ञारत्नं समासाद्य महाभिज्ञपदं लभेत् // rm_19.180{79} //

एतत्पुण्यानुभावैश् चिअ सर्वोपायविधानवित् / सर्वसत्वहितं कृत्वा शुभे नित्यं समाचरेत् // rm_19.181{80} //

एतत्पुण्यानुभावैश् च बोधिप्रणिधिमानसः / सर्वेषां मंगलं कृत्वा भद्रचर्यां समाचरेत् // rm_19.182{81} //

एतत्पुण्यप्रभावैश् च दशबलसमन्वितः / सर्वमारान् विनिर्जित्य चरेद् बोधिव्रतं सदा // rm_19.183{82} //

एतत् पुण्यबलेनैव संबोधिज्ञानम् उत्तमं / महारत्नं समासाद्य भवेत् सर्वविनायकः // rm_19.184{83} //

ततः सर्वत्र लोकेषु कृत्वा भद्राणि सर्वदा / बोधिसत्वो महासत्वः संबुद्धपदम् आप्नुयात् // rm_19.185{84} //

एतत्पुण्यानुभावैश् च सर्वांस् त्रैधातुकास्थितान् / सत्वान् बोधौ प्रतिस्थाप्य कृत्वा धर्ममयं जगत् // rm_19.186{85} //

एतत्पुण्यविपाकेन धर्मराजस् तथागतः / निर्वृत आलयलीनो महाबुद्धो भवेद् ध्रुवं // rm_19.187{86} //

एवं मत्वा महाराज निर्वृतिपदलब्धये / यदीछसि तथा पुण्यम् एव कर्त्तव्यम् आभवैः // rm_19.188{87} //

पुण्यम् एव महारत्नं सर्वत्रापि महानुगं / सर्वार्थसिद्धिदं भद्रं संबुद्धपदसाधनं // rm_19.189{88} //

इति विज्ञाय राजेन्द्र हित्वा पापानुरागतां / पुण्यान्य् एवात्र संसारे कर्त्तव्यानि हि सर्वदा // rm_19.190{89} //

पापेन सर्वदाप्य् एवं दुर्गतीष्व् एव संगताः / मूढा क्लेशाग्निसंतप्ता भ्रमन्ति भवचारके // rm_19.191{90} //

यावंतो दुःखितो दुष्टा संसारे क्लेशतापिताः / सर्वे ते पापकर्त्तार इति बुद्धैः प्रकथ्यते // rm_19.192{91} //

इति मत्वा महाराज सदा भद्रं यदीछसि / हित्वा पापानुरागत्वं सद्धर्मं चिनु सादरं // rm_19.193{92} //

सद्धर्मं सौगतं धर्मं यल् लोकं हितसाधनं / तेनात्र सर्वधर्माणां प्रवरम् अग्रम् उच्यते // rm_19.194{93} //

तद् एतद्धर्मसंप्राप्त्यै त्रिरत्नशरणं गतः / सत्कृत्य श्रद्धया नित्यं भजस्व समुपस्थितः // rm_19.195{94} //

त्रिरत्ने यत् कृतं कर्मं शुभं वाप्य् अशुभं तथा / तत् फलम् अप्रमेयम् असंख्येय महत्तरं // rm_19.196{95} //

एतत्पुण्यानुभावेन सर्वे बुद्धा मुनीश्वराः / जगद् धर्ममयं कृत्वा निःक्लेशा परिनिर्वृताः // rm_19.197{96} //

एवं विज्ञाय भूमीन्द्र हित्वा पापरतिं सदा / त्रिरत्नभजनं कृत्वा चर नित्यं सदा शुभे // rm_19.198{97} //

अभुक्तं क्षीयते नैव क्वापि कर्म शुभाशुभं / येनैव यत् कृतं कर्मं तेनैव भुज्यते फलं // rm_19.199{98} //

नाग्निभिर् दह्यते कर्मं दह्यते देह एव हि / नोदकैः क्लिद्यते कर्मं क्लिद्यते तनुर् एव च // rm_19.200{99} //

नानिलैः शुष्यते कर्मं काय एवाभिशुष्यते / न क्षीतौ क्षीयते कर्मं क्षीयते तनुर् एव हि // rm_19.201{100} //

अन्यथापि भवेन् नैव विपाके कर्मणः फलं / यथैव यत् कृतं येन तेनैव भुज्यते तथा // rm_19.202{1} //

कृष्णस्य कर्मणः पाके दुःखतैव सदा भवे / शुभस्य सुखता नित्यं मिश्रितस्योभयं तथा // rm_19.203{2} //

एवं कर्मविपाकोत्थं शुभाशुभफलं सदा / भुक्त्वा सर्वत्र संसारे भ्रमन्ति सर्वजंतवः // rm_19.204{3} //

एवं मत्वा महाराज कृष्णानि मिश्रितानि च / विहायात्र शोभेष्व् एव चरितव्यं सदा भवे // rm_19.205{4} //

इति तेनार्हतादिष्टं श्रुत्वानंदः स भूपतिः / तथेति प्रतिविज्ञप्य सजनः प्राभ्य नंदतः // rm_19.206{5} //

ततः स नृपतिर् भूयो रैवतं तं महामतिं / सुचीवरैः समाछाद्य सांजलिः प्रणतिं व्यधात् // rm_19.207{6} //

पुनर् उत्थाय भूपालस् तम् अर्हन्तं कृतांजलिः / प्रणत्वा विनयं कुर्वन् क्रमाच् च प्रार्थयत् तथा // rm_19.208{7} //

भदन्तात्र प्रसीदस्व क्षमस्व मे ऽपराधतां / सर्वदा दर्शनं दत्वानुग्रहं कर्तुम् अर्हसि // rm_19.209{8} //

इत्य् उक्ते ऽनेन भूपेन रैवतः स प्रसादितः / हंसराज इवाप्लुत्य भासयन् खे समाययौ // rm_19.210{9} //

तत्राकाशे समासीनः प्रातिहार्यं प्रदर्शयन् / लोकैः संदृश्यमानो ऽसौ ध्यात्वा तस्थौ समुज्वलन् // rm_19.211{10} //

ततस् तैर् भिक्षुभिः शिष्यैः समन्वितः प्रभासयन् / तथाकाशाश् चरं गत्वा स्वाश्रमे समुपाश्रयन् // rm_19.212{11} //

तद् दृष्ट्वा स नृपो लोकैः सहातिविस्मयान्वितः / त्रिरत्नभजनं कुर्वन् प्रचचार सदा मुदा // rm_19.213{12} //

एवं ह्य् अदोषेन विशेषयुक्त्या प्रत्यक्षणक्ष्यीकृतलक्षणेन / अलंकृतः साधुजनः खलेन निघ्नीकृतो ऽपि न विकारम् एति // rm_19.214{13} //

एवं स्वदैवयोगेन जायते ह्य् अपराधता / तन् नान्यस्यापराधत्वं वक्तव्यं केन चित् क्व चित् // rm_19.215{14} //

इति मे गुरुणाख्यातं तथात्र कथ्यते मया / इति मत्वा महाराज सदा धर्मे समाचर // rm_19.216{15} //

प्रजाश् चापि तथा राजन् बोधयित्वा प्रयत्नतः / बोधिमार्गे प्रतिष्ठाप्य पालयस्व सदादरात् // rm_19.217{16} //

तथा ते मंगलं नित्यं सर्वं चापि भवेत् सदा / क्रमाद् बोधिं समासाद्य संबुद्धपदम् आप्नुयाः // rm_19.218{17} //

इति सत्यं परिज्ञाय त्रिरत्नशरणं गतः / सत्कृत्य श्रद्धया नित्यं भजस्वात्र समाहितः // rm_19.219{18} //

इति तेनार्हतादिष्टं श्रुत्वाशोकः स भूपतिः / तथा हीति प्रतिज्ञप्य प्राभ्यनन्दत् सपार्षदः // rm_19.220{19} //

सत्कृत्येदं नरा ये कलिमतिदरणं रैवतस्यावदनं शृण्वन्ति श्रावयन्ति प्रमुदितमनसो भक्तिश्रद्धाप्रसन्नाः / ते सर्वे ऽप्य् एवम् अत्र विमलसुमनसः सर्वदा सत्सुखानि भुक्त्वा कृत्वा सुभद्रं जिनवरनिलये संप्रयान्ति प्रमोदां // rm_19.221{20} //

++ इति रत्नावदानतत्वे रैवतावदानं समाप्तम् ++

xx mahiṣāvadāna अथ स पार्थिवो ऽसोकः कृताञ्जलिपुटो मुदा / उपगुप्तं गुरुं नत्वा पुनर् एवम् अभाषत // rm_20.1{1} //

भदन्त श्रोतुम् इछामि पुनर् अन्यत् सुभाषितं / तद्यथा गुरुणाख्यातं तथादेष्टुं च मे ऽर्हति // rm_20.2{2} //

इति संप्रार्थितं राज्ञा श्रुत्वा सो ऽर्हन् महामतिः / उपगुप्तो नरेंद्रं तं समालोक्यैवम् आदिशत् // rm_20.3{3} //

साधु शृणु महाराज यथा मे गुरुणोदितं / तथाहं ते प्रवक्ष्यामि सर्वे लोकप्रबोधने // rm_20.4{4} //

तद्यथा भगवान् बुद्धः शाक्यसिंहो मुनीश्वरः / सर्वज्ञः सुगतः शास्ता धर्मराजो विनायकः // rm_20.5{5} //

षडभिज्ञो जगन्नाथो मारजित् तु तथागतः / पुरैकसमये सार्द्धं भिक्षुभिः श्रावकैः सह // rm_20.6{6} //

चैलकैर् भिक्षुणीभिश् चैवम् उपासिकागणैर् अपि / उपासाकैस् तथान्यैश् च सद्धर्मगुणवांछिभिः // rm_20.7{7} //

बोधिसत्वैर् महासत्वैर् ब्रह्मेन्द्रादिसुराधिपैः / सर्वे लोकाधिपैश् चापि दानवेन्द्रैः शुभार्थिभिः // rm_20.8{8} //

नागेन्द्रैर् गरुडेन्द्रैश् च यक्षगंधर्वकिन्नरैः / ग्रहै विद्याधरैश् चापि तथान्यैश् च वृषार्थिभिः // rm_20.9{9} //

स्तूय मानार्च्यमानश् च वंद्यमानो ऽभिनंदितः / सर्वसत्वहितार्थेन जनपदेषु सर्वतः // rm_20.10{10} //

सद्धर्मं समुपादिश्य प्रचचार ससांघिकः / तथा च कोशले राष्ट्रे वरं धर्मम् उपादिशत् // rm_20.11{11} //

ततो ऽन्यत्रापि सद्धर्मम् उपदेष्टुं ततो ऽचरत् / तत्रान्यस्मिन् वने प्राप्तो भगवान् स ससांघिकः // rm_20.12{12} //

सर्वत्र मंगलं कृत्वा प्रचचार शनैः क्रमात् / तत्राराण्ये महान् यूथो महिषीणां समाचरत् // rm_20.13{13} //

तत्रैको महिषश् चण्डो वलवीर्यसमन्वितः / महाशृंगो महाकायः प्रत्यवसन् मदोत्कटः // rm_20.14{14} //

तत्रासन् पंचमात्राणि महिषपालशतानि च / सर्वे तन् महिषीयूथम् अनुरक्ष्याध्युवासत // rm_20.15{15} //

तदैकस्मिन् दिने तत्र भगवान् स ससंघिकः / प्रचरंस् तत्प्रदेशे तं महिषीयुथम् ऐक्षत // rm_20.16{16} //

तदा ते महिषीपाला तं मुनींद्रं ससंघिकं / समुपायातम् आलोक्य दूराद् एवम् अघोषयन् // rm_20.17{17} //

भगवान् मात्र समायाहि पथान्येन व्रजाधुना / अस्त्य् अत्र महिषो दुष्टस् तत् सहसा चरान्यत // rm_20.18{18} //

इति तैः शब्दितं श्रुत्वा भगवान् स मुनीश्वरः / ससंघः समुपाश्रित्य तां दृष्ट्वैवम् अह्हाषत // rm_20.19{19} //

अल्पोत्सुकाभवत्व् अत्र भगवन्तः किं कुतो भयं / कालज्ञो ऽहं जिनेन्द्रो ऽस्मि तदर्थे ऽत्र समाचरे // rm_20.20{20} //

तदा स महिषो दुष्टस् तं मुनीन्द्रं ससांघिकं / दूराद् दृष्ट्वा समुत्थाय प्रदुद्राव तदन्तिके // rm_20.21{21} //

तत्र तद्गंधम् आघ्राय दृष्ट्वा तं रक्तचीवरं / रुषा लांगूलम् उन्नाम्य संमुखः प्राभ्यधावत // rm_20.22{22} //

तत्र तेन जिनेन्द्रेण पञ्चसिंहा महोद्धताः / अभिनिर्माय तत्पृष्ठे स्थापिता भीमरूपिणः // rm_20.23{23} //

तथा निर्माय तत्राग्निस्कंधौ द्वाव् अतिप्रोज्वलौ / उभयोः पार्श्वयोस् तस्य स्थापितो भीमनिस्वनौ // rm_20.24{24} //

तथात्र कूटसंकाशो निर्माय महती शिला / उपरिष्टात् प्रतिष्ठाप्य दर्शिता तस्य भीतये // rm_20.25{25} //

तत्र स महिषो ऽद्राक्षीत् तान् सिंहान् पृष्ठसंस्थितान् / पार्श्वयोर् उभयोर् अग्निस्कंधौर् उपरितां शिलां // rm_20.26{26} //

एवं स महिषो दुष्टो महाभयम् उपस्थितं / समन्ततः समालोक्य प्रविखेटाभिमोहितः // rm_20.27{27} //

तत्र स त्रसितो दृष्ट्वा परायितुं चतुर्दिशः / समन्ततो भयाद् विग्नस् तस्थौ त्राणनिराश्रयः // rm_20.28{28} //

ततः स चकितस् तस्य मुनीन्द्रस्याभिसंमुखं / उपेत्य चरणौ नत्वा शरणं समुपाययौ // rm_20.29{29} //

तत्र तद्भयभिन्नास्यः परिखिन्नाशयो रुदन् / भगवंतं तम् आलोक्य तस्थौ ऽत्राणाश्रयो पुरः // rm_20.30{30} //

तदा स भगवान् दृष्ट्वा महिष्यं तम् उपस्थितं / शरणागतम् आलोक्य धर्मम् एवम् उपादिशत् // rm_20.31{31} //

भद्रमुखेति संस्काराः सर्वे ऽनित्या भवे ध्रुवाः / सर्वधर्मा अनात्मनः शान्तं निर्वाणम् एव हि // rm_20.32{32} //

इति धर्मरवम् श्रुत्वा स तत् पुण्यानुभावतः / पूर्वजन्मप्रवृत्तांतं स्मृत्वा प्ररुरोदानुतापितः // rm_20.33{33} //

एवं तं रुदितं दृष्ट्वा भगवान् स मुनीश्वर / बोधयितुं समाश्वास्य पुनर् गाथे ऽभ्यभाषत // rm_20.34{34} //

इदानीं किं करिष्यामि तिर्यग्योनिगतस्य ते / अक्षणप्रतिपन्नस्य किं रोदिषि निरर्थकं // rm_20.35{25} //

साधु प्रसाद्यतां चित्तं मयि कारुणिके जिने / तिर्यग्योनिं विराग्येह ततः स्वर्गं गमिष्यसि // rm_20.36{26} //

इत्य् आदिष्टं मुनीन्द्रेण श्रुत्वा स महिषस् तदा / सर्वं स्मृत्वा पुरावृत्तं मनसैवं व्यचिंतयत् // rm_20.37{27} //

हा मया दुर्धियाज्ञेन त्यक्त्वा सद्धर्मसंयमं / क्रोधाग्निना स्वयं दग्धा संतापरे ऽपि तापिता // rm_20.38{28} //

येनाहं हा परिभ्रष्टः सद्धर्ममणिना ऽधुना / विषरागाग्निसंतप्तः कृष्णाहिर् इव दुर्मतिः // rm_20.39{29} //

तद् अत्र किं करिष्यामि तिर्यक्जातिर् इहाधुना / किं ममानेन कायेन दुःखे पापानुसाधिना // rm_20.40{30} //

यत्र पुण्यं सुखं नास्ति तत्र किं जीवितेन मे / वरम् एवाद्य मे मृत्युर् न त्व् एवं चिरजीवितं // rm_20.41{31} //

अवश्यं मृत्युम् आप्नुयां सर्वेषां मरणं ध्रुवं / तद् अत्र मे शरीरे का स्नेहता जीविते ऽपि वा // rm_20.42{32} //

धिक् कायं जीवितं चापि येन पुण्यं न साध्यते / पुण्यम् एव भवे सारं सर्वत्र सत्सुखप्रदं // rm_20.43{33} //

पुण्यं विनात्रा संसरे किं श्रीसंपत्सुखान्विते / सर्वं विहाय गंतव्यं पुण्याम् एकं तदानुगः // rm_20.44{34} //

पुण्यम् एव जगन्मित्रं पुण्यम् एव सदानुगः / पुण्यम् एव महत्सारं पुण्यम् एव हितार्थदं // rm_20.45{35} //

तस्मात् पुण्यं प्रयत्नेन साधनीयं भवे सदा / सर्वत्र सुखताहेतु पुण्यम् एवेति कथ्यते // rm_20.46{36} //

तत् पुण्यरत्नसंप्राप्त्यै बुद्धस्य शरणं गतः / सर्वथा स्मरणं कृत्वा भजेयेह समाहितः // rm_20.47{37} //

इत्य् एवं मनसा ध्यात्वा महिषः स प्रबोधितः / तं बुद्धं श्रीघनं नत्वानुस्मृत्वाभजान् मुदा // rm_20.48{38} //

ततः स भगवान्स् तस्य दृष्ट्वाशयविशुद्धतां / सद्धर्मं समुपादिश्य ससंघः स्वाश्रमे ययौ // rm_20.49{39} //

तत्राश्रमे समासीनो भगवान् सससांघिकः / सर्वसत्वहितार्थेन संबोधिधर्मम् आदिशत् // rm_20.50{40} //

तद्धर्मदेशनां श्रोतुं सर्वे लोकाः समागताः / ब्रह्मशक्रादयो देवा लोकपालाश् च दानवाः // rm_20.51{41} //

ग्रहा विद्याधराः सिद्धा यक्षगंधर्वकिन्नराः / गरुडा नागराजाश् च राक्षसाश् च शुभार्थिनः // rm_20.52{42} //

ऋषयो ब्राह्मणाश् चापि नृपा राजकुमारकाः / वैश्याच् च मंत्रिणो ऽमात्या गृहस्थाश् च महाजनाः // rm_20.53{43} //

वणिजः सार्थवाहाश् च शिल्पिनः पौरिका अपि / ग्राम्या जानपदाश् चापि तीर्थ्याः कार्पटिका अपि // rm_20.54{44} //

एवम् अन्ये ऽपि लोकाश् च सद्धर्मगुणवां छिनः / सर्वे ते समुपागत्य तत्राश्रमे समाविशत् // rm_20.55{45} //

तत्र तं श्रीघनं दृष्ट्वा भिक्षुसंघपुरस्कृतं / नत्वा प्रदक्षिणीकृत्वा समानर्चुर् यथाक्रमं // rm_20.56{46} //

ततस् ते प्रणतिं कृत्वा परिवृत्य समंततः / तत् सद्धर्मामृतं पातुम् उपतस्थुः समाहिताः // rm_20.57{47} //

तदा स भगवान् दृष्ट्वा तान् सर्वान् समुपस्थितां / आदिमध्यांतकल्याणं सद्धर्मं समुपादिशत् // rm_20.58{48} //

तत् सद्धर्मामृतं पीत्वा सर्वे ते संप्रबोधिताः / धर्मविशेषम् आज्ञाय त्रिरत्नं सर्वदाभजन् // rm_20.59{49} //

तत्र स महिषः पूर्वजन्मवृत्तिम् अनुस्मरन् / तदा तद्देहम् उत्स्रष्टुं मनसैवं व्यचिंतयत् // rm_20.60{50} //

हा दुष्टेन मया पूर्वम् आचितं घोरपातकं / तेनाहं महिषो दुष्टो भवाम्य् अत्र यथोदितं // rm_20.61{51} //

तद् अत्र किं प्रकुर्वीय पशुस् तत् पापशोधणं / तत् त्रिरत्नम् अनुस्मृत्वा चरेयाहम् उपोषधं // rm_20.62{52} //

दत्वात्राहम् इमं कायं सत्वेभ्यः श्रद्धया ऽधुना / मनसा सुगतं ध्यात्वा मर्तुं तिष्ठेय सांप्रतं // rm_20.63{53} //

तद् इमं देहम् उत्कृत्य त्वग्मान्सरुधिरादिकं / अस्थिमज्जादि सर्वं च भुजन्तु प्राणिनो मुदा // rm_20.64{54} //

ये ये सत्वा इमं देहं भुजन्ति सुरसं मुदा / ते ते सर्वे सदा धर्मं कृत्वा यान्तु सुरालायं // rm_20.65{55} //

तथैतत् पुण्यपाकेन मुक्त्वास्मान् पापकाश्रयात् / आसाद्य सद्गतौ जन्म भजेयं सुगतं सदा // rm_20.66{56} //

इति ध्यात्वा विनिश्चित्य महिषः स प्रसन्नधीः / त्यक्त्वाहारं तपश्वीव बुद्धं स्मृत्वाचरत् तपः // rm_20.67{57} //

तथा स महिषो ध्यात्वा त्रिरत्नं चाभ्यनुस्मरन् / देहं त्यक्त्वा विशुद्धात्मा सुरालयं समाययौ // rm_20.68{58} //

तत्र स्वर्गे स उत्पन्नो महासुखसमन्वितः / विस्मिताभिप्रसन्नात्मा तदैवं समचिंतयत् // rm_20.69{59} //

अहो हि जायते सौख्यं कुतश् च्युत्वा कुहाचरे / कस्य पुण्यविपाकेन ममैवं जायते शुभं // rm_20.70{60} //

इति चिंतयतस् तस्य महिषपूर्विणस् तथा / विस्मयाक्रांतचित्तस्य समुत्पन्नाभवन् मतिः // rm_20.71{61} //

अहो तिर्यग्गतेश् च्युत्वा देवलोक इहासरे / संबुद्धस्मृतिपुण्येन देवो भवामि सांप्रतं // rm_20.72{62} //

तद् अहं तस्य मुनीन्द्रस्य द्रष्टुं गछेय सांप्रतं / श्रद्धया समुपाश्रित्य सद्धर्मं शृणुयां पुनः // rm_20.73{63} //

इति महिषपूर्वी स देवपुत्रः प्रमोदितः / तत्र तस्य मुनीन्द्रस्य दर्शने गंतुम् ऐछत // rm_20.74{64} //

ततः स मुदितः स्नात्वा शुद्धदिव्यांवरावृतः / दिव्यगंधानुलिप्तांगो दिव्यालंकारभूषितः // rm_20.75{65} //

दिव्यपूजोपहाराणि गृहीत्वा देवगणैः सह / तस्यां रात्रौ मुनीन्द्रस्य भासयन्न् आश्रमे ययौ // rm_20.76{66} //

तत्र तं श्रीघनं दृष्ट्वा मुदितः समुपासरन् / नत्वा प्रदक्षिणीकृत्य समानर्च्च यथाविधिः // rm_20.77{67} //

ततस् तस्य मुनीन्द्रस्य सांजलिः स प्रणम्य च / सद्धर्मदेशनां श्रोतुं पुरतः समुपाश्रयत् // rm_20.78{68} //

तथा ते तत् सहायाश् च देवपुत्राः प्रसादिताः / भगवंतं सांजलयः उपाश्रयन् // rm_20.79{69} //

ततः स भगवान् दृष्ट्वा सर्वान्स् तान् समुपस्थितान् / आर्य्यसत्यसमारभ्य सद्धर्मं समुपादिशत् // rm_20.80{70} //

तत्सद्धर्मामृतं पीत्वा सह देवैः प्रमोदितः / देवो महिषपूर्वि स धर्मविशेषम् आप्तवान् // rm_20.81{71} //

सत्कायदुष्टिभूमीन्ध्रं विंशतिशिखरोद्गतं / निर्भिद्य ज्ञानवज्रेण श्रोतआपत्तिम् आययौ // rm_20.82{72} //

तातः स दृष्टसत्यस् तं भगवन्तं मुनीश्वरं / कृतांजलिः पुटो नत्वा त्रिर् उदानम् उदानयत् // rm_20.83{73} //

भगवन्न् इदम् अस्माकं कृतं न जनकेन हि / न मात्रा न च राज्ञापि नान्येन केन चित् खलु // rm_20.84{74} //

भवतैव यद् अस्माकं कृतपापविशोधनं / तेनाभिशोषिताशेषरुधिराश्रुसारित्परिः // rm_20.85{75} //

लंघिता अस्थिशैलाश् च पिहिता पापपद्धतिः / विवृताः स्वर्गमार्गाश् च मोक्षमार्गश् च दर्शितः // rm_20.86{76} //

मयाप्तं विमलं चक्षुः शान्तम् आर्यपदं तथा / दुःखार्णवः समुत्तीर्णो बोधिमार्गो ऽपि दृश्यते // rm_20.87{77} //

तद् भवतां कृपादृष्टेः प्रसादान् मम सांप्रतं / संसारजन्म साफल्यं बुद्धपुत्रास्म्य् अहं यतः // rm_20.88{78} //

अद्यारभ्य सदा नित्यं भवतां शरणं गतः / बोधौ चित्तं समाधाय चरिष्यामि शुभां चरिं // rm_20.89{79} //

तद् अत्रानुग्रहं कृत्वा भवाञ् छास्ता जगगुरुः / कृपया सर्वदा पश्यन्न् एवं मां त्रातुम् अर्हति // rm_20.90{80} //

इति संप्रार्थितं तेन सुपर्वणा निशम्य सः / शास्ता तस्याशयं शुद्धं समलोक्यैवम् आदिशत् // rm_20.91{81} //

सधो शृणु हितं वक्ष्ये सदा भद्रं यदीछसि / त्रिरत्नं शरणं गत्वा भज नित्यं समादरात् // rm_20.92{82} //

ये बुद्धशरणं कृत्वा भजंति श्रद्धया सदा / मारचर्याभिमुक्तास् ते संप्रयांति जिनालयं // rm_20.93{83} //

ये धर्मं सौगतं नित्यं शृण्वन्ति श्रद्धया मुदा / सर्वपापाभिमुक्तास् ते संप्रयान्ति सुखावतीं // rm_20.94{84} //

ये च संघे प्रकुर्वन्ति सत्कारं श्रद्धयादरात् / ते सर्वे दुर्गतेर् मुक्त्वा संप्रयान्ति सुरालयं // rm_20.95{85} //

त्रिरत्नशरणं कृत्वा ये भजन्ति सदादरात् / दुर्गतिं ते न गछंति सदा गछंति सद्गतिं // rm_20.96{86} //

सद्गतौ ते सदा स्थित्वा त्रिरत्नं शरणं गताः / कृत्वा लोकहितं सौख्यं भुक्त्वा रमन्ति सर्वदा // rm_20.97{87} //

ततः पारमिताः सर्वाः परिपूर्य यथाक्रमं / त्रिविधां बोधिम् आसद्य निर्वृतिं समवाप्नुयुः // rm_20.98{88} //

इति निर्वाणसत्सौख्यः प्राप्तुं यदि समिछसि / त्रिरत्नं शरणं कृत्वा भज नित्यं समाहितः // rm_20.99{89} //

एतत्पुण्यानुभावेन परिशुद्धस् त्रिमंडलः / क्रमाद् बोधिं समासाद्य संबुद्धपदम् आप्नुयाः // rm_20.100{90} //

इत्य् आदिष्टं मुनीन्द्रेण श्रुत्वा स परिबोधिताः / तथेत्य् अभ्यनुमोदित्वा पुनर् एवम् अभाषत // rm_20.101{91} //

अद्य मे सफलं संपूरितं मनोरथं / बोधिरत्नाभिसंपन्नो बुद्धपुत्रो ऽस्मि सांप्रतं // rm_20.102{92} //

सर्वदा भवताम् एव शरणे ऽहं समास्थितः / त्रिरत्नभजनं कुर्वञ् चरिष्ये बोधिसंवरं // rm_20.103{93} //

इति संप्रार्थनां कृत्वा देवपुत्रः स मोदितः / श्रीघनं तैः पुनर् नत्वा ससहायो दिवं ययौ // rm_20.104{94} //

तत्र स्वर्गे स संप्राप्तो देवैः सह समाश्रितः / त्रिरत्नस्मरणं कुर्वन् सौख्यं भुक्त्वा समाचरत् // rm_20.105{95} //

तस्यां रात्रौ महत्कान्तिं प्रभां दृष्ट्वा सविस्मयाः / सर्वे ते महिषीपाला वभूवुः शंकिताशयाः // rm_20.106{96} //

ततः प्रातः समुत्थाय सर्वे ते कौतुकान्विताः / संमील्य सहसा तत्र बुद्धाश्रमे उपाचरन् // rm_20.107{97} //

तत्र तं श्रीघनं दृष्ट्वा सर्वे ते प्रतिमोदिताः / कृतांजलिपुटो नत्वा समुपतस्थुर् आदरात् // rm_20.108{98} //

तदा स भगावान् दृष्ट्वा तान् सर्वान् समुपस्थितान् / आदिमध्यांतकल्याणं दिदेश धर्मम् उत्तमं // rm_20.109{9!} //

तत् सद्धर्मामृतं पीत्वा सर्वे ते प्रतिबोधिताः / भगवंतं पुनर् नत्वा पप्रछुर् एवम् आदरात् // rm_20.110{100} //

भगवन्न् अद्य रात्रौ क इहाश्रमे प्रभासयन् / भवतां समुपायातस् तत् समादेष्टुम् अर्हति // rm_20.111{1} //

इति तैर् महिषीपालैः परिपृष्टे स सर्ववित् / भगवांस् तान् समालोक्य पुरावृत्तिम् उपादिशत् // rm_20.112{2} //

यो ऽत्रासौ महिषो दुष्टो दृष्ट्वास्मान् समुपद्रुतः / समन्ततो भयं दृष्ट्वा त्रस्तो मे शरणं गतः // rm_20.113{3} //

तदा मद्धर्मम् आकर्ण्य पूर्वजातिम् अनुस्मरन् / मयि चित्तं प्रसाद्यैव त्यक्त्वाहारा त्यजन् तनुं // rm_20.114{4} //

ततो ऽस्मत्स्मृतिपुण्येन पापमुक्तो विशुद्धधीः / स्वर्गलोके समुत्पन्नो देवो भवति सांप्रतं // rm_20.115{5} //

स एष देवपुत्रो ऽद्य निशायाम् अत्र भासयन् / देवलोकैः सहायातो दर्शनाय ममालाये // rm_20.116{6} //

मत्सद्धर्मं समाकर्ण्य दृष्टसत्यः स हर्षितः / देवसंघैः सह स्वर्गे स्वालये प्रगतस् तथा // rm_20.117{7} //

इत्य् आदिष्टं मुनीन्द्रेण श्रुत्वातिविस्मयोद्धताः / सर्वे ते महिषीपाला मिथ एवं समब्रुवन् // rm_20.118{8} //

अहो चित्र हि यन् नाम तिर्य्यग्योनिगतो ऽपि सः / बुद्धं सद्गुरुम् आसाद्य धर्मं श्रुत्वाभवत् सुधीः // rm_20.119{9} //

सद्गुरौ सुगते चित्तं प्रसाद्य विरताशनः / त्रिरात्नस्मरणं कृत्वा प्राणं त्यक्त्वा दिवं ययौ // rm_20.120{10} //

ततो ऽपीह समागत्य संबुद्धं शरणं गतः / अभ्यर्च्य धर्मम् आकर्ण्य दृष्टसत्यो दिवं ययौ // rm_20.121{11} //

स्वर्गे ऽपि तत् तथा नित्यं सद्गुरोः शरणं गतः / श्रद्धया भजनं कुर्वं छुभे ऽचरत् समाहितः // rm_20.122{12} //

धन्यो ऽयं सुगतः शास्ता सर्वसत्वशुभंकरः / यत्र चित्तं प्रसाद्यैव पशुर् अपि दिवं गतः // rm_20.123{13} //

वयं तु मानवाः सर्वे कथम् एनं मुनीश्वरं / सद्गुरुं समुपासाद्य श्रद्धया न भजेमहि // rm_20.124{14} //

तथा सद्धर्मम् आकर्ण्य प्रसादाद् अस्य सद्गुरोः / अत्कृत्य सर्वदा भद्रं न लाभेम कथं वयं // rm_20.125{15} //

विशेषधर्मम् आज्ञाय दृष्टसत्याः समाहिताः / त्रिरत्नभजनं कृत्वा नूनं गछेम सद्गतिं // rm_20.126{16} //

तद् अत्र सद्गुरोर् अस्य मुनीन्द्रस्याधुना वयं / सर्वे ऽपि श्रद्धयाभ्यर्च्य भजेमहि समादरात् // rm_20.127{17} //

तत् साद्धर्मं समाकर्ण्य श्रद्धया समुपस्थिताः / त्रिरत्नभजनं कृत्वा चरेमहि शुभे सदा // rm_20.128{18} //

तदादौ सुगतस्यास्य ससंघस्या ऽधुना वयं / यथार्हभोजनेनात्र पूजयेम प्रपुष्टये // rm_20.129{18!} //

इति संभाषणां कृत्वा सर्वे ते प्रतिमोदिताः / तथेति संमतं कृत्वा तत्र बुद्धाश्रमे ययुः // rm_20.130{19} //

तत्र तं श्रीघनं दृष्ट्वा ससंघं तं प्रमोदिताः / सर्वसांजलयो नत्वा प्रार्थयन्न् एवम् आदरात् // rm_20.131{20} //

भगवन् नाथ सर्वज्ञ भगवंतं ससंघिकं / पूजयितुं समिछामस् तन्न् अत्रानुग्रहं कुरु // rm_20.132{21} //

इति तैः प्रार्थितं श्रुत्वा भगवान् स मुनीश्वरः / तेषां पुण्याभिसंवृद्ध्यै तूष्णीभूत्वाध्युवास तत् // rm_20.133{22} //

तथाध्युवासितं मत्वा सर्वे ते परिहर्षिताः / पादौ तस्य मुनीन्द्रस्य नत्वा निजालयं ययुः // rm_20.134{23} //

तत्र ते मुदिताः सर्वे दधिक्षीरोदनादिकं / यथार्हभोज्यसामग्रिं सहसा समसाधयन् // rm_20.135{24} //

ततस् ते समये गत्वा तत्र बुद्धाश्रमे मुदा / ससांघिकं मुनीन्द्रं तं प्रणत्वैवं न्यवेदयन् // rm_20.136{25} //

भगवन् नाथ सर्वज्ञ समयो वर्त्तते ऽधुना / तत् संघ भगवान् पूजां प्रतिग्रहितुम् अर्हति // rm_20.137{26} //

इति तैः प्रार्थिते सर्वे भगवान् सससांघिकः / उत्थाय भोजनक्षेत्रे उपाचरान् प्रभासयन् // rm_20.138{27} //

तत्र पाद्यं समादाय संबुद्धप्रमुखाः क्रमात् / सर्वे ते सांघिकास् तत्र स्वस्वासने समाश्रयन् // rm_20.139{28} //

तां बुद्धप्रमुखान् सर्वान् सांघिकान् स्वासनाश्रितान् / दृष्ट्वा ते मुदिता सर्वे सामानर्चुर् यथाक्रमं // rm_20.140{29} //

ततस् ते सुरसैर् भोज्यैः क्षीरोदनैः सव्यंजनैः / प्रणीतैर् भगवंतं तं ससंघं समतोषयन् // rm_20.141{30} //

ततस् तं सुगतं तृप्तं ससांघिकं समीक्ष्य ते / तत् पात्राण्य् अपनीयाशु तद् धस्तादि समशोधयन् // rm_20.142{31} //

ततः सपूगताम्बुरामहौषधरसायनं / संबुद्धप्रमुखेभ्यस् ते संघेभ्यः प्रददुर् मुदा // rm_20.143{32} //

ततस् ते महिषीपालाः कृतांजलिपूटा मुदा / श्रीघनं तं ससंघं च नत्वा समुपतस्थिरे // rm_20.144{33} //

तथा तन् समुपासीनान् सर्वान् दृष्ट्वा स सर्ववित् / आर्यधर्मं समादिश्य बोधिमार्गे ऽभ्ययोजयत् // rm_20.145{34} //

तत् सद्धर्मामृतं पीत्वा सर्वे ते ऽभ्यनुमोदिताः / संबुद्धशासने तत्र प्रव्रजितुं समीक्षिरे // rm_20.146{35} //

ततास् ते महिषीपालाः सर्वे कृत्वाभिसंमतं / कृतांजलिपुटा नत्वा प्रार्थयन् तं मुनीश्वरं // rm_20.147{36} //

भागवं नाथ सर्वज्ञ भवतां शासने वयं / प्रव्रजितुं समिछामस् तन् नो ऽन्वाहर्तुम् अर्हति // rm_20.148{37} //

इति तैः प्रार्थितं श्रुत्वा भगवान् स मुनीश्वरः / तान् विशुद्धाशयान् सर्वान् समालोक्यैवम् आदिशत् // rm_20.149{38} //

मातापित्रोर् विनानुज्ञां प्रव्रज्यां न ददाम्य् अहं / तद् अनुज्ञां समादाय प्रेत दास्यामि वस् तदा // rm_20.150{39} //

इत्य् आदिष्टे मुनीन्द्रेण सर्वे ते प्रतिनंदिताः / तं मुनीन्द्रं प्रणत्वाशु स्वस्वगेहं ययुर् मुदा // rm_20.151{40} //

तत्र ते सहसा गत्वा समातापितृवांधवान् / परिबोध्य प्रयत्नेन प्राप्यानुज्ञां समाचरं // rm_20.152{41} //

तत्र ते सहसा गत्वा भगवत उपासृताः / पादौ सांजलयोर् नत्वा प्रार्थयन्न् एवम् आदरात् // rm_20.153{42} //

भगवन् सर्ववित् पितृप्राप्तानुज्ञाः समागताः / तत्रानुग्रहम् आधाय प्रव्रज्यां दातुम् अर्हति // rm_20.154{43} //

इति तैः प्रार्थिते शास्ता भगवान् सव्यपाणिना / तेषां शिरस् सुसंस्पृष्ट्वा समालोक्यैवम् आदिशत् // rm_20.155{44} //

समेत भिक्षवः सर्वे यूयं श्रद्धासमंगिताः / प्रव्रज्याव्रतम् आधाय चरत ब्रह्मचारिकां // rm_20.156{45} //

इत्य् आदिष्टे मुनीन्द्रेण सर्वे ते मुण्डिता वभुः / खिक्खिरीपात्रधर्त्तारः काखायचीवरावृताः // rm_20.157{46} //

ततः शस्तुः प्रसादेन सर्वे ते विमलाशयाः / प्रलब्धबोधिसच्चित्ताः शुद्धशीला जितेंद्रियाः // rm_20.158{47} //

भित्वाविद्यागुणाः सम्यक् प्राप्तविद्याविशारदाः / प्रतिसंवित्सुसंप्राप्ताः सत्यमार्गसमन्विताः // rm_20.159{48} //

समाधिधारणीविद्या घटमानाः समाहिताः / क्षमान्विताः शुभात्मानो योगिनो भिक्षवो ऽभवन् // rm_20.160{49} //

ततस् ते सर्वसंसारं मत्वानित्यं चालाचलं / दृष्ट्वा च सर्वसंस्कारगतीर् अहिविघातिनीः // rm_20.161{50} //

सर्वक्लेशगणान् हित्वा जित्वा मारगणान् अपि / साक्षाद् अर्हत्वम् आसाद्य प्रचेरुर् ब्रह्मचारिकाः // rm_20.162{51} //

ततस् ते भिक्षवः सर्वे परिशुद्धत्रिमंडलाः / वीतसंगा महाभिज्ञा निर्विकल्पा निरंजनाः // rm_20.163{52} //

समलोष्टकसौवर्णाः सत्कारलाभनिस्पृहाः / अकाशसमचित्ताङ्गा भवे लाभपराङ्मुखाः // rm_20.164{53} //

देवासुरादि लोकानां त्रैधातुकनिवासिनां / पूज्या मान्याश् च वंद्याश् च बभूवुर् बोधिचारिणः // rm_20.165{54} //

तद् दृष्ट्वा भिक्षवः सर्वे विस्मयोद्धतमानसाः / भगवंतं मुनिं नत्वा पप्रच्बुस् तत् पुराकृतं // rm_20.166{55} //

भगवन् कानि कर्माणि तेन महिषपूर्विणा / कृतानि देवपुत्रेण यैर् असौ महिषो ऽभवत् // rm_20.167{56} //

एभिश् च महिषीपालैः किं कर्म प्रकृतैः पुरा / येनार्हत्वं समासाद्य भवंति ब्रह्मचारिणः // rm_20.168{57} //

एतत् सर्वं समादिश्य भवाञ् छास्तात्र सांप्रतं / अस्माकं अपि चेतांसि प्रबोधयितुम् अर्हति // rm_20.169{58} //

इति तैर् भिक्षुभिः पृष्टे भगवान् स मुनीश्वरः / तान् सर्वान् सांघिकान् भिक्षून् समालोक्यैवम् आदिशत् // rm_20.170{59} //

शृणुत भिक्षवः सर्वे तेन महिषपूर्विणा / पुरा कृतानि कर्माणि तानि वक्ष्यामि सांप्रतं // rm_20.171{60} //

एभिश् च महिषिपालैः पुरा यानि कृतान्य् अपि / तानि सर्वाणि कर्माणि वक्ष्यामि च तथा ऽधुना // rm_20.172{61} //

तद्यथाभूत् पुरा बुद्धः काश्यपो ऽर्हन्स् तथागतः / सर्वज्ञः सुगतः शास्ता धर्मराजो विनायाकः // rm_20.173{62} //

भगवान् स तदा पूर्य्यां वराणस्या उपाश्रमे / मृगदावे समाश्रित्य विजहार ससांघिकः // rm_20.174{63} //

तदा तस्य मुनीन्द्रस्य शासने त्रिपिटो यतिः / भिक्षुर् एको महाविज्ञो निश्चयार्थविशारदः // rm_20.175{64} //

तदैकसमये भिक्षुपंचशतैः पुरस्कृतः / स सभायां समासीनः सद्धर्मं समुपादिशत् // rm_20.176{65} //

तस्य ते भिक्षवः शिक्षाः शैक्षाश् च संश्चयान्विताः / त्रिपिटार्थं परिज्ञातुं पप्रछुस् तं गुरुं मुहुः // rm_20.177{66} //

एवं तैर् भिक्षुभिः पृष्टे स गुरुः प्रतिरोषितः / तान् सर्वाञ् छ्रावकाञ् छिष्याञ् छैक्षांश् च पर्यभाषत // rm_20.178{67} //

ततस् ते श्रावकाः सर्वे दृष्ट्वा तं रुषितं गुरुं / प्रणत्वा विनयं कृत्वा पुनर् एवम् अभासिरे // rm_20.179{68} //

भवन्त मा कृथा रोषं प्रसीदस्व कृपानिधे / व्याख्यातं भवता सम्यक् तद् अस्माभि न बुध्यते // rm_20.180{69} //

तद् भूयो ऽपि भवान् एतदर्थं सम्यक् सुविस्तरं / अस्मच् चेतं प्रबोधार्थं समुपादेष्टुम् अर्हति // rm_20.181{70} //

इति तैः प्रार्थिते भूयस् त्रिपिटः सो ऽतिरोषितः / तथा ताञ् छ्रावकान् सर्वान् परिभाष्यैवम् अब्रवीत् // rm_20.182{71} //

अरे रे महिषा यूयं तत् किं जानीथ मद्वचः / तद् भूयः किं प्रवक्ष्यामि यच् छ्रुत्वापि न बुध्यते // rm_20.183{72} //

इति तेनोदितं श्रुत्वा सर्वे ते परिरोषिताः / तं गुरुं यतिम् अर्हन्तम् अपि प्रत्यवदस् तथा // rm_20.184{73} //

यद् वयं महिषाः सर्वे तद् भवान् महिषाधिपः / यद् अस्माकं यथा शास्त तथा भवतु पालकः // rm_20.185{74} //

इति तैः श्रावकैः सर्वैः शिक्षैः शैक्षं च रोषितैः / सद्गुरोर् अन्तिके कोपाद् यत् खलं प्रतिभाषितं // rm_20.186{75} //

एतत् पापाभिशंकार्त्ताः पश्चात्तापाभितापिनः / तम् अर्हन्तं गुरुं नत्वा पुनर् एवं वभाषिरे // rm_20.187{76} //

अहो मूढा वयं सर्वे यत् कोपात् सद्गुरोर् अपि / प्रत्याख्याय वयो ऽस्माभिः प्रत्युत्तरं प्रदीयते // rm_20.188{77} //

तद् एतत् पातकं घोरं कथं वयं शहेमहि / तद् भवान् कृपयास्माकं क्षंतुम् अर्हति सर्वथा // rm_20.189{78} //

तथा जन्मांतरे चापि भवन्तम् एव सद्गुरुं / कल्याणमित्रम् आसाद्य प्राप्नुयाम सुसंवरं // rm_20.190{79} //

इति संप्रार्थनां कृत्वा सर्वे ते भिक्षवस् तथा / तस्य गुरोर् उपाश्रित्य धर्मं श्रुत्वाभजन् सदा // rm_20.191{80} //

ततस् ते समये सर्वे श्रावकास् त्रिपिटो ऽपि सः / कालं गताः पुनर् जन्म लेहिरे दुर्गतौ ततः // rm_20.192{81} //

खलवाक्कर्मपाकेन पंचजन्मशतान्य् अपि / स त्रिपिटपतिः शास्ता महिषो ऽयं सभाभवत् // rm_20.193{82} //

सर्वे ते श्रावकाश् चापि यथा वाक्कर्मदोषतः / तथेमे महिषीपला वभूवुः सर्वदा भवे // rm_20.194{83} //

अत्रापि महिषो दुष्टस् त्रिपिटो ऽसौ भवत्य् अपि / इमे ऽपि महिषीपाला भवन्ति भिक्षवो ऽपि ते // rm_20.195{84} //

यच् चायं महिषो ऽप्य् अत्र काश्यपकृतपुण्यतः / दृष्ट्वा मां सुप्रसन्नात्मा नत्वा मे शरणं गतः // rm_20.196{85} //

एतत्पुण्यविपाकेन देवपुत्रो भवत्य् अयं / आर्यसत्यं समासाद्य दृष्टसत्यो सुधीर् अपि // rm_20.197{86} //

इमे ऽपि महिषीपालाः काश्यपपुण्यपाकातः / प्रव्रज्यार्हत्वम् आसाद्य भवन्ति ब्रह्मचारिणः // rm_20.198{87} //

एवं कर्मविपाकैर् हि सर्वे ऽपि जन्तवो भवे / सुखदुःखानि भुंजाना भ्रमन्ति भवचारके // rm_20.199{88} //

नाग्निभिर् दह्यते कर्मं वायुभिर् वा न शुष्यते / क्लिद्यते नोदकैश् चापि क्षीयते नापि भूमिषु // rm_20.200{89} //

अभुक्तं क्षीयते नैव कर्मं क्वापि कथं चन / सर्वत्रापि भवेन् नैव कर्मणो गतिर् अन्यथा // rm_20.201{90} //

शुभस्य कर्मणः पाके शुभतैव सदा भवे / तथा कृष्णस्य पाके च दुःखतैव सदा भवे // rm_20.202{91} //

मिश्रितानां तथा पाके मिश्रितानि फलान्य् अपि / एवं मत्वा शुभेष्व् एव चरितव्यं सदा भवे // rm_20.203{92} //

येनैव यत् कृतं कर्मं तेनैव भुज्यते फलं / अवश्यं परिबोक्तव्यं संसारे कर्मणः फलं // rm_20.204{93} //

न नस्यंति हि कर्माणि कल्पकोटिशतैर् अपि / सामग्रीं प्राप्य कालं च फलन्ति प्राणिनां खलु // rm_20.205{94} //

इति मत्वात्र संसारे त्रिरत्नं शरणं गताः / सत्कृत्य श्रद्धया नित्यं भजध्वं सर्वथादरात् // rm_20.206{95} //

ये भजंति सदा नित्यं त्रिरत्नं शरणं गताः / दुर्गतिं ते न गछंति यान्त्य् एव सद्गतिं सदा // rm_20.207{96} //

इत्य् आदिष्टैः मुनीन्द्रेण श्रुत्वा ते संघिका मुदा / सर्वे लोकाश् च सत्कृत्य त्रिरत्नं सर्वदाभजं // rm_20.208{97} //

एतन् मे गुरुणाख्यातं तथा मयोच्यते ऽधुना / त्वयाप्य् एवं महाराज चरितव्यं सदा शुभे // rm_20.209{98} //

प्रजाश् चापि सदा धार्मं श्रावायित्वा प्रबोधयन् / बोधिमार्गे प्रतिस्थाप्य पालयस्व समाहितः // rm_20.210{99} //

तथा ते मंगलम् नित्यं सर्वत्रापि भवेद् ध्रुवं / क्रमाद् बोधिं समासाद्य संबुद्धपदम् आप्नुयाः // rm_20.211{100} //

इति तेनार्हतादिष्टं श्रुत्वाशोकः स भूपतिः / तथेति ऽभ्यनुमोदित्वा प्राभ्यनन्दत् सपार्षदः // rm_20.212{1} // इदं नरा ये महिषावादानं शृण्वंति ये चपि निशामयंति सुखानि भुक्त्वा खलु ते ऽत्र सर्वे सम्यांति नूनं सुगतालयं ते // rm_20.213{2} // ++ इत्य् अवदानतत्वे महिषावदानं समाप्तम् ++

xxi nāvikāvadāna अथाशोको महिनाथ उपगुप्तं यतिं गुरुं / कृतांजलिपुटो नत्वा पुनर् एवम् अभाषत // rm_21.1{1} //

भदंत श्रोतुम् इछामि पुनर् अन्यत् सुभाषितं / तद् यथा गुरुणाख्यातं तथादेष्टुं च मे ऽर्हति // rm_21.2{2} //

संप्रार्थिते राज्ञा श्रुत्वा सो ऽर्हन् सुधीर् यतिः / उपगुप्तो नरेंद्रं तं समालोक्यैयम् अब्रवीत् // rm_21.3{3} //

साधु शृणु महाराज यथा मे गुरुणोदितं / तथाहं ते प्रवक्ष्यामि श्रुत्वानुमोदनां कुरु // rm_21.4{4} //

पुरैकसमये बुद्धो भगवान् स मुनीश्वरः / सर्वज्ञः सुगतः शस्ता धर्मराजो विनायकः // rm_21.5{5} //

ससंघो हासयन् तत्र मगधे चारिकां चरन् / सर्वत्र भद्रतां कृत्वा गंगातीरम् उपाश्रयन् // rm_21.6{6} //

तत्र स भगवान् सर्वै भिक्षुसंघैः पुरस्कृतः / सभामध्यासनासीनो धर्मम् आदेष्टुम् ऐछत // rm_21.7{7} //

तत् सद्धर्मामृतं पातुं सर्वलोकास् तदागताः / ब्रह्मशक्रादयो देवा लोकपाला गणादयः // rm_21.8{8} //

दैत्येंद्रो गरुडा नागा यक्षगंधर्वकिंनराः / सिद्धा विद्याधराश् चापि राक्षसाश् च महर्द्धिकाः // rm_21.9{9} //

ऋषयो ब्राह्मणाश् चापि योगिनो यतयो ऽपि च / राजानः क्षत्रिया भूपा राजपुत्राश् च तीर्थिकः // rm_21.10{10} //

वैश्याश् चा मंत्रिणो ऽमात्याः श्रेष्ठिनः पौरिकाः प्रजाः / गृहस्थाः साधवो भद्राः सार्थवाहमहाजनाः // rm_21.11{11} //

वणिजाः शिल्पिनश् चापि ग्राम्या जानपदा अपि / तथान्ये ऽपि समायाताः सद्धर्मश्रवणार्थिनः // rm_21.12{12} //

तत्र ते समुपायाता दृष्ट्वा तं श्रीघनं मुदा / नत्वा प्रदक्षिणीकृत्य समानर्चुर् यथाक्रमं // rm_21.13{13} //

ततः सर्वे ऽपि ते लोकाः परिवृत्य समंततः / समाहिताः समुद्वीक्ष्य धर्मं श्रोतुं समाश्रयन् // rm_21.14{14} //

तदा स भगवान् दृष्ट्वा सर्वान्स् तान् समुपस्थितान् / बोधिचर्यां समारभ्य सद्धर्मं समुपादिशत् // rm_21.15{15} //

तत् सद्धर्मामृतं पीत्वा सर्वे लोकाः प्रमोदिताः / धर्माविशेषम् आज्ञाय त्रिरत्नं प्राभजन् सदा // rm_21.16{16} //

ततः स भगवान् दृष्ट्वा सर्वाल् लोकाञ् छुभाश्रितान् / तथान्यत्र शुभं कर्तुं गंगातीरम् उपाचरत् // rm_21.17{17} //

ससंघो भगावंस् तत्र गंगातीर उपासृतः / नविकान् समुपाहूय समालोक्यैवम् अब्रवीत् // rm_21.18{18} //

नाविका गन्तुम् इछामि गंगापारम् इतो ऽधुना / तन् माम् इमां नदीं गंगां समुत्तारयत द्रुतं // rm_21.19{19} // इति तत् प्रार्थितं श्रुत्वा सर्वे ते नाविका अपि // rm_21.20{20} // ससांघिकं मुनीन्द्रं तन् अनादृत्यैवम् अब्रुवन् / तरपण्यं विनास्माभिः कश्चि दिशा न तारितः // rm_21.21{21} //

यदीछति भवान्स् तर्त्तुं तरपण्यं प्रयछतु / इति तैर् भाषितं श्रुत्वा भगवान् स मुनीश्वरः // rm_21.22{22} //

तान् सर्वान् नाविकान् दृष्ट्वा पुनर् एवम् अभाषत / अहम् अपि भवंतो ऽत्र नाविको ऽस्मि ति मन्यतां // rm_21.23{23} //

मया हि तारितो नंदो महारागनदीकृतः पुरा / द्वेषाब्धिपतितो दुष्टो ऽङ्गुलिमालो ऽपि तारितः // rm_21.24{24} //

मानवो मानकूपारपतितस् तारितो मया / मोहोदधिनिमग्नश् चोरुविल्वीकाश्यपस् तथा // rm_21.25{25} //

एवम् अन्ये ऽपि लोकाश् च क्लेशाब्धे तारिता मया / कस्य चिद् अपि सत्वस्य तरपण्यं न किं चन // rm_21.26{26} //

गृह्यते याच्यते नापि मया क्वापि कदा चन / तथा यूयम् अपीहास्मान् सर्वान् भिक्षून् निमांदकी // rm_21.27{27} //

अगाढां सहसा तार्य पारे नयतुम् अर्हथ / एवं तेन मुनीन्द्रेण प्रार्थिते ऽपि न के चन // rm_21.28{28} //

नाविकास् ते मुनीन्द्रं तं तारयितुं समीछिरे / अत्र कश्चित् सुधीः साधुर् नाविकस् तं मुनीश्वरं // rm_21.29{29} //

महाभिज्ञं परिज्ञाय नत्वोवाच कृतांजलिः / भगवन् नाथ सर्वज्ञ भवन्तं सर्वसांघिकान् // rm_21.30{30} //

अप्य् अहं तारयिष्यामि तत् प्रसीदतु मे सदा / इति तेनोदितं श्रुत्वा भगवान् स मुनीश्वरः // rm_21.31{31} //

सर्वान्स् तान् सांघिकान् भिक्षून् समालोक्यैवम् आदिशत् / भिक्षवो नावम् आरुह्य यूयं सर्वे समाहिताः // rm_21.32{32} //

इमां गंगां समुत्तीर्य तिष्ठत तीरम् आश्रिताः / इत्य् आदिष्टे मुनीन्द्रेण सर्वे ते भिक्षुसंघिकाः // rm_21.33{33} //

सहसा नावम् आरुह्य संनिषेदुः समाहिताः / तदा स नाविको दृष्ट्वा सर्वान् नौकासमाश्रितान् // rm_21.34{34} //

तां नावं सहसा गंगामध्ये संप्रापयन् क्रमात् / तदा स भगवान्न् ऋद्ध्या विहायसा स्वयं चरन् // rm_21.35{35} //

तद् अग्रतः समुत्तीर्य तीरभूमौ समाश्रयन् / तद् दृष्ट्वा नाविका सर्वे ते सलोकाः सविस्मयाः / पश्चात्तापाग्निसंतप्ताः पश्यन्त एव तस्थिरे // rm_21.36{36} //

सो ऽपि च नावीको दृष्ट्वा तं मुनीन्द्रं विहायसा / सहसा तीरम् आसद्य स्थितं पश्यन् न्यषीदत् // rm_21.37{37} //

ततः सा निश्चरा नौका स्तम्भितैव जलाश्रिता / तद् दृष्ट्वा नाविकः सो ऽतिविस्मयाकुलतो ऽभवत् // rm_21.38{38} //

ततस् तैः श्रीघनं तीरसमासीनं स नाविकः / दृष्ट्वा तत् स्मृतिम् आधाय प्रणनाम कृतांजलिः // rm_21.39{39} //

ततः सासंचरा नौका वायुसंप्रेरिता द्रुतं / सहसा तीरम् आसाद्य तस्थौ तत्र सुनिश्चरा // rm_21.40{40} //

ततस् ते भिक्षवः सर्वे समुत्तीर्य वहित्रतः / सहसा तीरम् आगत्य संबुद्धान्तिकम् आययुः // rm_21.41{41} //

तत्र स भगवान् दृष्ट्वा सर्वांस् तान् समुपागतान् / सद्धर्मं समुपादेष्टुं तस्थौ सभासनाश्रितः // rm_21.42{42} //

ततः स नाविकश् चापि दृष्ट्वा तं श्रीघनं मुनिं / भिक्षुसंघसभासीनं प्रणतुं समुपाचरन् // rm_21.43{43} //

तत्र स साञ्जलिर् नत्वा सर्वान् तन् सांघिकान् क्रमात् / पादाम्बुजौ मुनीन्द्रस्य प्रणनाम प्रमोदितः // rm_21.44{44} //

तत्र ते नाविकाश् चापि सर्वे ते विस्मयान्विताः / तद् धर्मदेशनां श्रोतुं मुदिताः समुपाचरन् // rm_21.45{45} //

तत्र तं श्रीघनं दृष्ट्वा ससंघं संप्रमोदिताः / नत्वा प्रदक्षिणीकृत्य समुपतस्थुर् आदरात् // rm_21.46{46} //

ततः स भगवान् दृष्ट्वा सर्वान्स् तान् समुपस्थितान् / आर्य्यसत्यसमारभ्य सद्धर्मं समुपादिशत् // rm_21.47{47} //

तत् अद्धर्मामृतं पीत्वा नाविकः संप्रमोदितः / विज्ञाय धर्मवैशेष्यं सद्धर्माभिरतो भवेत् // rm_21.48{48} //

ततः सत्कायभूमीन्ध्रं विंशतिशिखरोद्गतं / निर्भिद्य ज्ञानवज्रेण धर्मदृष्टि समाप्तवान् // rm_21.49{49} //

ततः स श्रोतआपत्तिफलप्राप्तः प्रसन्नधीः / तं मुनीन्द्रं समालोक्य त्रिर् उदानम् उदानयत् // rm_21.50{50} //

भगवन् यत् मया प्राप्तं धर्मचक्षुः सुनिर्मलं / शान्तं पदम् आर्यकान्तं तीर्णश् चापि भवार्णवः // rm_21.51{51} //

सत्कायदृष्टिशैलाश् च लंघिताः सांप्रतं मया / पिहितो पापमार्गो मे स्वर्गमार्गः प्रकाशितः // rm_21.52{52} //

मोक्षमार्गो ऽपि संप्राप्तो भवतां कृपया ऽधुना / तथा भवान् सदा नित्यं मां परित्रातुम् अर्हति // rm_21.53{53} //

एवं हि न कृतं मात्रा नापि पित्रा कृतं मम / न सुहृदिष्टमित्रैश् च वांधवैः स्वजनैर् अपि // rm_21.54{54} //

श्रमणैर् ब्राह्मणैश् चापि गुरुभिश् च न वा नृपैः / तथान्यैश् च महाविज्ञैर् न कृतम् आर्यदेशनां // rm_21.55{55} //

भवतैव कृतं नाथ सत्यमार्गोपदेशनां / तदार्यसत्यसंप्राप्त आर्यमार्गं लभाम्य् अहं // rm_21.56{56} //

अद्य मे सफलं जन्म बुद्धपुत्रो ऽस्मि सांप्रतं / इत्य् उक्त्वा स मुनीन्द्रं तं प्रणत्वा प्राभ्यनंदत // rm_21.57{57} //

ततः स नाविकस् तत्र त्रिरत्नं शरणं गतः / सत्कृत्य समुपाश्रित्य प्राभजन् सर्वदा मुदा // rm_21.58{58} //

तत् समीक्ष्य परश् चापि नाविको ऽत्यनुतापितः / तत्र तस्य मुनीन्द्रस्य सत्कारं कर्तुम् ऐछत // rm_21.59{59} //

ततः स नाविकस् तत्र समुत्थायानुमोदितः / भगवंतं प्रणत्वैव संप्रबोधयत् कृतांजलिः // rm_21.60{60} //

भगवन् यन् मया लोभप्रलुप्तधर्मचेतसा / तरपण्यं विना गंगां तारितो न भवान् अपि // rm_21.61{61} //

तन् महान् अपराधो मे भवत्य् अत्राहि जायते / तत् क्षमतां जगन्नाथ क्षमारत्नाकरो भवान् // rm_21.62{62} //

यच् चात्र भवतां पूजां कर्तुम् इछामि सांप्रतं / तान् ममानुग्रहं कृत्वा प्रतिग्रहीतुम् अर्हति // rm_21.63{63} //

इति संप्रार्थितं तेन श्रुत्वा स भगवान् मुनिः / तथेति प्रतिमोदित्वा तूष्णीभूत्वाध्युवास तत् // rm_21.64{64} //

तथाधिवाशितं शास्त्रा नाविकः संप्रमोदितः / स पूजाभोज्यसामाग्रीम् सहसा समसाधय // rm_21.65{65} //

ततः स भगवंतं तं ससांघिकं यथाक्रमं / अभ्यर्च्य सुरसैः शुद्धैर् भोजनैः समतोषयत् // rm_21.66{66} //

ततस् ते सांघिकाः सर्वे संबुद्धप्रमुखा अपि / तद् भोज्यं सुरसं भुक्त्वा समातृप्तिं समाययुः // rm_21.67{67} //

ततः स नाविको दृष्ट्वा तृप्तं मुनिं ससांघिकं / अपनीयाशु पात्राणि तद् धस्तादि व्यशोधयत् // rm_21.68{68} //

ततः पूगादि तांबूलमहौषधरसायनं / दत्वा स नाविकस् तत्र सांजलिः प्रार्थयत् क्षमां // rm_21.69{69} //

ततः स सांजलिर् नत्वा ससंघं तं मुनीश्वरं / बोधिचित्तं समालम्व्य तत् पुरः समुपाश्रयत् // rm_21.70{70} //

ततः स भगवांस् तस्य नाविकस्य मनोगतं / बोध्यभिलाषम् आलोक्य तदा स्मितं व्यमुंचत // rm_21.71{71} //

ततस् तस्य मुनींद्रस्य नानावर्णा मरीचयः / मुखपद्माद् विनिर्याताः प्रसेरुर् भुवनत्रये // rm_21.72{72} //

या अधस्ताद् गतास् तत्र नरकेषु समंततः / ताः सौम्या रश्मयः सर्वाः प्रसृत्य समहासयन् // rm_21.73{73} //

तत्र ताभिः परिस्पृष्टाः सर्वे ते नरकाश्रिताः / महत् सौख्यं समासाद्य विस्मिता एवम् अब्रुवन् // rm_21.74{74} //

अहो चित्रं महत् सौख्यम् अधुना जायते कथं / कुतश् चेयं प्रभा जाता कस्य चेह समागताः // rm_21.75{75} //

यत् प्रभाभिः परिस्पृष्टा वयं सौख्यसमन्विताः / सर्वे दुःखाभिनिर्मुक्तास् तद् इदं महद् अद्भुतं // rm_21.76{76} //

किं नु च्युता इतो ऽहो स्विद् अन्यत्रोपगता वयं / यन् नो दुःखानि शांयंते जायंते ससुखान्य् अपि // rm_21.77{77} //

इति चिंतासमाक्रान्तहृदयास् ते सविस्मयाः / षर्वे ऽप्य् एकत्र संमील्य भाषंत उपतस्थिरे // rm_21.78{78} //

एवं सर्वे ऽपि ते सत्वाः सर्वत्र नरकेष्व् अपि / निर्दुःखा सुखसंपन्ना उपतस्थुः सविस्मयाः // rm_21.79{79} //

तदा तेषां प्रबोधार्थं निर्माय भगवान् मुनिं / प्रत्येकं नराकेष्व् एवं सर्वत्रापि व्यसर्जयत् // rm_21.80{80} //

तं बुद्धं निर्मितं दृष्ट्वा सार्वे ते नरकाश्रिताः / भूयो ऽतिविस्मयाक्रांतहृदयाश् चैवं अब्रुवन् // rm_21.81{81} //

न ह्य् एवेतच् च्युतास् सर्वे नाप्य् आन्यत्र गता वयं / इहैव नरके स्थाने स्थिताः सर्वे वयं खलु // rm_21.82{82} //

यद् इहायं समायातः पुरुषो पूर्वदर्शनः / नूनं अस्य प्रभाकान्तिर् इयम् अत्राभिप्रसृता // rm_21.83{83} //

तद् अस्माकं हि दुःखानि प्रशान्तां समंततः / महत्सौख्यानि जयन्ते नूनम् अस्यानूभावतः // rm_21.84{84} //

अयं हि सुगतो बुद्धः सर्वसत्वानुकंपकः / सर्वान् नो दुःखितान् दृष्ट्वा समुद्धर्तुम् इहागतः // rm_21.85{85} //

तद् अस्य शरणं गत्वा वयं सर्वे समादरात् / सत्कृत्य श्रद्धया नत्वा यथाशक्ति भजेमहि // rm_21.86{86} //

इति संभाष्य ते सर्वे नारकीयास् तथा मुदा / सहसा तं पुरोगत्वा प्रणत्वैवं वभाषिरे // rm_21.87{87} //

नमस् ते भगवन् नाथ शरणं ते व्रजामहे / एवम् अस्मान् सदा दृष्ट्वा कृपया त्रातुम् अर्हसि // rm_21.88{88} //

इति संप्रार्थनां कृत्वा सर्वे ते प्रतिमोदिताः / तस्यैव शरणं कृत्वा प्रभेजिरे समाहिताः // rm_21.89{89} //

एतत्पुण्यपरीतास् ते सर्वे विमुक्तपापकाः / नरकेभ्यः समुत्थाय सहसा सद्गतिं ययुः // rm_21.90{90} //

एवं ता रस्मयः सर्वा नरकेभ्यः समंततः / सर्वान् सत्वान् संउद्धृत्य प्रत्याययुर् मुनेः पुरः // rm_21.91{91} //

याश् चाप्य् उर्द्धगताभासप्रसृताः ताः समंततः / अवभास्य दिशः सर्वान् समहाराजिकालयाः // rm_21.92{92} //

सर्वान् देवालयान् यावद् अकनिष्ठं भवालयं / अवभास्यमरान् सर्वान् गाथाभिः समचोदयत् // rm_21.93{93} //

अनित्यं खलु संसारे सर्वं शून्यम् अनात्मकं / इति मत्वात्र संसारे चरत सर्वदा शुभे // rm_21.94{94} //

निष्क्रामतारभध्वं तद् युज्यध्वं बुद्धशासने / धुनीत मृत्युसैन्यानि नडागारम् इव द्विपः // rm_21.95{95} //

यो ह्य् अस्मिन् सौगते धर्मे चरिष्यति समाहितः / स हित्वा जन्म संसारे दुःखस्यान्तं करिष्यति // rm_21.96{96} //

इति तच् छब्दम् आकर्ण्य सर्वे देवाः प्रबोधिताः / त्रिरत्नशरणं कृत्वा प्रभेजिरे समाहिताः // rm_21.97{97} //

एवं ता रस्मयः सर्वाः सर्वान् देवान् समंततः / चोदयित्वा ततस् तत्र प्रत्याययुर् मुनेः पुरः // rm_21.98{98} //

तत्र ता रस्मयः सर्वा एकीभूता सुपिण्डिताः / मुनेः प्रदक्षिणीकृत्य भ्रुमध्ये ऽन्तर्हितो ऽभवत् // rm_21.99{99} //

तद् दृष्ट्वा ते सांघिकाः सर्वे लोकाश् चान्ये ऽपि विस्मिताः / शास्ता किम् आदिशेद् धार्मम् इति ध्यात्वा निषेदिरे // rm_21.100{100} //

तदानंदः समुत्थाय शास्तारं तं मुनीश्वरं / कृतांजलिपुटो नत्वा पप्रछैवं पुरः स्थितः // rm_21.101{1} //

भगवन् नाथ सर्वज्ञ भवद्वक्त्रात् सुधाकरात् / नाना वर्णाः प्रभाः कांता विनिःसृत्य प्रसारिताः // rm_21.102{2} //

सर्वांस् त्रैधातुकान्न् अवभास्य समंततः / पुनः प्रत्यागाताः सर्वा एकीभूता सुपिंडिता // rm_21.103{3} //

तव प्रदक्षिणीकृत्य भ्रुमध्ये प्रविसंति ताः / नाहेतुप्रत्यये बुद्धा दर्शयन्ति स्मितं क्वचित् // rm_21.104{4} //

तद् भवान् हेतुना केन स्मितं मुंचसि सांप्रतं / यद् दृष्ट्वा सांघिकः सर्वे इमे लोकाश् च विस्मिताः // rm_21.105{5} //

शास्ता किम् आदिशेद् धर्मम् इति संदिग्धमानसाः / कुतूहलसमाक्रांतहृदयाः सद्गुणार्थिनः // rm_21.106{6} //

त्वत्सद्धर्मामृतं पातुम् इछन्ति तृषिता इव / यदर्थे ऽत्र भवान् स्मितं दर्शयति सरस्मिकं // rm_21.107{7} //

तदर्थं समुपादिश्य सर्वाल् लोकान् प्रबोधय / इत्य् आनंदवच श्रुत्वा भगवान् स मुनीश्वरः / तम् आनंदं सभां चापि समालोक्यैवम् आदिशत् // rm_21.108{8} //

एवम् एतत् तथानंद नाहेतुप्रत्ययं क्वचित् / संबुद्धाः सुगताः सर्वे प्रविकुर्वन्ति संस्मितं // rm_21.109{9} //

यदर्थे ऽहम् इहानंद स्मितं मुंचामि सांप्रतं / तदर्थं समुपाख्यामि शृणुत यूयम् आदरात् // rm_21.110{10} //

यद् अनेन सतानंद नाविकेन प्रसादिना / ससंघो ऽहं समभ्यर्च्य वंदितो बोधिचेतासा // rm_21.111{11} //

अनेन कुशलेनायं नाविको ऽपि भविष्यति / संसारोत्तरणो नाम प्रत्येकबुद्ध आत्मवित् // rm_21.112{12} //

एवं मत्वा महत्पुण्यं त्रिरत्नं सत्कृतोद्भवं / सत्कृत्य श्रद्धया नित्यं त्रिरत्नं भजतादरात् // rm_21.113{13} //

त्रिरत्नेषु कृतं पुण्यं न क्षिणोति कदा चन / व्रतपुण्यविपाकेन संबुद्धपदम् आप्नुयात् // rm_21.114{14} //

इत्य् आदिष्टं मुनीन्द्रेण श्रुत्वानंदः ससांघिकः / तथेत्य् अभ्यनुमोदित्वा त्रिरत्नं सर्वदाभजेत् // rm_21.115{15} //

एवं शास्त्रा मुनीन्द्रेण व्याकृतम् आत्मनस् तदा / श्रुत्वा स नाविको बुद्धः प्राभ्यनंदत् प्रसादितः // rm_21.116{16} //

तदारभ्य सदा नित्यं नाविकः संप्रमोदितः / त्रिरत्नशरणं कृत्वा सत्कृत्य श्रद्धयाभजत् // rm_21.117{17} //

सर्वे लोकाश् च तद् दृष्ट्वा सद्धर्मगुणवांछिनः / सत्कृत्य श्रद्धया नित्यं त्रिरत्नं प्राभजन् मुदा // rm_21.118{18} //

ततश् च स जगच्छास्ता भगवान् सह सांघिकैः / तथान्यत्र शुभं कर्तुं प्रतस्थे सांप्रभासयन् // rm_21.119{19} //

इति मे गुरुणादिष्टं मया प्रचक्ष्यते तव / तथात्र त्वं महाराज त्रिरत्नं सर्वदा भज // rm_21.120{20} //

प्रजाश् चापि तथा धर्मे बोधयित्वा प्रसादयन् / बोधिमार्गे प्रतिस्थाप्य पालयस्व समाहितः // rm_21.121{21} //

तथा ते मंगलं नित्यं सर्वत्रापि भवेद् ध्रुवं / क्रमाद् बोधिं समासाद्य संबुद्धपदम् आप्नुयाः // rm_21.122{22} //

इति तेनार्हतादिष्टं श्रुत्वाशोकः स भूपतिः / तथेत्य् अभ्यनुमोदित्वा प्राभ्यनंदत् सपार्षदः // rm_21.123{23} //

यच् छास्त्राख्यातं तथेदं यतिवरकथितं नाविकस्यावदानं शृण्वन्ति श्रावयन्ति प्रमुदितमनसः श्रद्धया ये प्रसन्नाः / ते सर्वे शुद्धभावा जिनगुणरूचनो बोधिचर्या चरन्ते / भुक्त्वा सौख्यानि नित्यं मुनिवरनिलये संप्रयान्ति प्रमोदं // rm_21.124{24} //

++ इत्य् अवदानतत्वे नाविकावदानं समप्तम् ++

xxii gandhamādanāvadāna अथाशोको महीपालः कृतांजलिपुटो मुदा / उपगुप्तं गुरुं नत्वा प्रार्थयच् चैवम् आदरात् // rm_22.1{1} //

भदंत श्रोतुम् इछामि पुनर् अन्यत् सुभाषितं / तद्यथा गुरुणादिष्टं तथादेष्टुं च मे ऽर्हति // rm_22.2{2} //

इति संप्रार्थिते राज्ञा श्रुत्वा सो ऽर्हन् सुधीर् यतिः / तम् अशोकम् महीपालं समालोक्यैवम् आदिशत् // rm_22.3{3} //

साधु शृणु महाराज यथा मे गुरुभाषितं / तथाहं संप्रवक्ष्यामि तव पुण्यविवृद्धये // rm_22.4{4} //

पुरैकस्मिन् दिने तत्र राजगृहे ससांघिकः / भगवान् स जगन्नाथः पिण्डार्थं समुपाविशत् // rm_22.5{5} //

तदा राजगृहे तत्र गृहपतेः सुतो महान् / तस्यैका दासिका भद्रा सत्यधर्मानुचारिणी // rm_22.6{6} //

सा स्वाम्यङ्गानुलेपार्थं लोहितचंदनं तदा / सुरभिगणसंयुक्तं पिपेष प्रस्तरे मुदा // rm_22.7{7} //

तस्मिन्न् एव क्षणे तत्र स संबुद्धः ससांघिकः / भासयं मंगलं कृत्वा तद् गृहं निकषाचरत् // rm_22.8{8} //

तथायातं मुनीन्द्रं तं श्रुत्वा सा दारिका मुदा / सहसा निर्गता गेहात् तत्र द्रष्टुम् उपाचरन् // rm_22.9{9} //

तत्र सा समुपागत्य प्राद्राक्षीत् तं मुनीश्वरं / द्वात्रिंशल्लक्षणाशीतिव्यंजनपरिभूषितं // rm_22.10{10} //

शतसूर्याधिकाभासं शतचंद्रामृतप्रभं / व्यामप्रभासमुज्वालं रत्नांगम् इव जंगमं // rm_22.11{11} //

दृष्ट्वा सा दासिका तत्र मुदिता विस्मयान्विता / सुचिरं तं समालोक्य तस्थौ निश्चलमानसी // rm_22.12{12} //

तत्र सा सुचिरं दृष्ट्वा दासिकाभिप्रमोदिता / सत्कारं कर्त्तुम् इछन्ती शास्तुर् एवं व्यचिंतयत् // rm_22.13{13} //

अहो भाग्यं मुनीन्द्रो ऽयं दृश्यते यन् मयाधुना / तद् अस्य किं भजिष्यामि दरिद्रा प्रेषिका ह्य् अहं // rm_22.14{14} //

कुत्र वा द्रक्ष्यते भूयो मुनीन्द्रो ऽयं जगद्गुरुः / धिग् मे जन्मापि येनात्र किं चित् पुण्यं न साध्यते // rm_22.15{15} //

किं ममानेन देहेन येनेदृशं मुनीश्वरं / प्राप्य किं चित् प्रदत्वापि पुण्यं प्राप्तुं न शक्यते // rm_22.16{16} //

अनेन जीवितेनापि किं ममात्र प्रयोजनं / येन दुःखानि भुक्त्वैव किं चित् पुण्यं न साध्यते // rm_22.17{17} //

पुण्यं विनात्र संसारे सौख्यं प्राप्तुं कथं कुह / तत् पुण्यं प्राप्यते केन विना दानव्रतः क्वचित् // rm_22.18{18} //

किं चात्र दास्यते दानं किं चिद् द्रव्यं न मे गृहे / व्रतं वा किं करिष्यामि पराधीना हि दासिका // rm_22.19{19} //

तद् अत्र किं सुखं लप्स्ये किं चिद् दानं व्रतं विना / सर्वथाहं विनष्टा स्यां को मां रक्षेद् भवान्तरे // rm_22.20{20} //

पुण्येन सद्गतिं यायां पापेन दुर्गतिं सदा / इति हेतोः प्रकर्त्तव्यं दानं किं चिद् अपि व्रतं // rm_22.21{21} //

तर्ह्य् एतद् विद्यते हस्ते लोहितचंदनं मम / एतेनापि मुनीन्द्रस्य भजेयं चरणाम्बुजौ // rm_22.22{22} //

इति ध्यात्वा विनिश्चित्य दरिका सा प्रसादिता / सहसा स्वगृहं गत्वा तच् चंदनं समाग्रहीत् // rm_22.23{23} //

तच् चंदनं समादाय दासिका सा व्यचिन्तयत् / यद् इदं स्वामिनो द्रव्यं तद् अनुज्ञां विना कथं // rm_22.24{24} //

यदि स्वामि विजानाति तदा मे कुपितो रुषा / निर्भत्स्य ताडयित्वा मां गृहान् निष्कासयेद् अप्ल् // rm_22.25{25} //

तदात्र किं चरिष्यामि दासिकाहम् निराश्रया / अवश्यं भाविनो भावा भवन्ति महताम् अपि // rm_22.26{26} //

यदि मे कुपितः स्वामी परत्र किं करिष्यति / प्रसन्नो यदि वा स्वामी कल्याणं स्याद् इहापि मे // rm_22.27{27} //

कुपितो व प्रसन्नो वा भवत्व् अत्रैव मे प्रभुः / स्वामी भर्त्तानुशास्तैव परत्र किं करिष्यति // rm_22.28{28} //

बुद्धस् तु जगतां स्वामी भर्त्ता नाथो ऽनुकंपकः / प्रभु धर्मानुशास्ता मे परत्रेहाप्य् अवेत् सदा // rm_22.29{29} //

तद् अत्र किं ममानेन स्वामिनापि करिष्यते / तद् एतच् चंदनेनापि भजेयं तं मुनीश्वरं // rm_22.30{30} //

इति ध्यात्वा विनिश्चित्य दासिका सा प्रमोदिता / लोहितचंदनेनोभौ पाणौ प्रलिप्य सेत्वया // rm_22.31{31} //

गृहाद् वहिर् विनिर्गत्वा भगवते ऽन्त उपागता / पादयोर् उभयोस् तेन चंदनेन लिलेप सा // rm_22.32{32} //

ततः सा दारिका नारी कृतांजलिपुटो मुदा / पादौ तस्य मुनेर् नत्वा पुरतः समुपाश्रयत् // rm_22.33{33} //

तत्र स भगवान् दृष्ट्वा तस्या भक्तिरतं मनः / तच् चंदनसौरभ्यैस् तत् पुरं समपूरयत् // rm_22.34{34} //

ततस् तद् गंधम् आघ्राय सर्वे पौराः सविस्मयाः / कस्येदं गंधम् आयातम् इति प्रोक्त्वा प्रचेरिरे // rm_22.35{35} //

ततस् तद् वृत्तिम् आज्ञाय सर्वे लोकाः प्रमोदिताः / तद् द्रष्टुं सहसा तत्र भगवतो ऽन्तिकम् उपाययुः // rm_22.36{36} //

तत्र सर्वे ऽपि ते लोका दृष्ट्वा तं श्रीघनं मुनिं / नत्वा प्रदक्षिणीकृत्वा समुपतस्थुर् आदरात् // rm_22.37{37} //

तदा स भगवान् दृष्ट्वा सर्वान्स् तान् समुपस्थितान् / आर्य्यसत्यं समारभ्य दिदेश धर्मम् उत्तमं // rm_22.38{38} //

तद् धार्मदेशनां श्रुत्वा सर्वे लोकाः प्रबोधितः / त्रिरत्नशरणं कृत्वा सदा भजितुम् ईछिरे // rm_22.39{39} //

तत् सद्धर्मामृतं पीत्वा दासिका सा प्रबोधिता / सांजलिस् तं मुनिं नत्वा प्रणिधानं व्यधात् तथा // rm_22.40{40} //

एतत्पुण्यविपाकेन संसारे ऽत्र पुनर्भवे / प्रत्येकां बोधिम् आसाद्य निर्वाणपदम् आप्नुयां // rm_22.41{41} //

एवं बुद्धपदं प्राप्त्यै प्रणिधानं कृतं तया / दृष्ट्वा स भगवांस् तत्र स्मितं प्रादुर्व्यधात् तदा // rm_22.42{42} //

ततस् तस्य मुनेर् वक्त्रान् नानावर्णाः सुरस्मयः / विनिर्गता दिशः सर्वा भासयन्तः प्रसेरिरे // rm_22.43{43} //

या अधस्ताद् गताभासाः सर्वत्र नरकेष्व् अपि / अवभास्य शुभं कृत्वा सर्वत्र संप्रसंसिरे // rm_22.44{44} //

तत्र सत्वान् परिस्पृश्य कृत्वा सर्वान् सुखान्वितान् / संबुद्धदर्शनं दत्वा संप्रेषयन् सुरालायं // rm_22.45{45} //

याश् चाप्य् उर्द्धं गताभासताः सर्वांश् च सुरालयन् / अवभास्यामरान् सर्वान् समुद्घुष्याभ्यचोदयन् // rm_22.46{46} //

अनित्यं खलु संसारं सर्वं शून्यं निरात्मकं / इति मत्वात्र कर्त्तव्यं संबुद्धभजनं सदा // rm_22.47{47} //

निष्क्रामत रभध्वं तत् सद्धर्मं बुद्धशासने / मारचर्यां परित्यज्य चरत भद्रचारिकां // rm_22.48{48} //

यो ऽप्रमत्तश् चरत्य् अत्र संबुद्धशासने व्रतं / स विहाय पुनर्जातिं दुःखस्यांतं करिष्यति // rm_22.49{49} //

इति मत्वात्र संसारे परिशुद्धत्रिमण्डलाः / त्रिरत्नं शरणं कृत्वा भजध्वं श्रद्धया सदा // rm_22.50{50} //

एतद् घोषं समाकर्ण्य सर्वे देवाः प्रमोदिताः / त्रिरत्नस्मरणं कृत्वा प्राचरन् सर्वदा शुभे // rm_22.51{51} //

ततस् ते रश्मयः सर्वे भासयन्तः समंततः / प्रत्यागता मुनीन्द्रस्य पुरतः समुपाश्रयन् // rm_22.52{52} //

तत्र ते रश्मयः सर्वे ऽप्य् एकीभूताः सुपिण्डिताः / शास्तुः प्रदक्षिणीकृत्य भ्रुवो ऽन्तरे तिरोदधौ // rm_22.53{53} //

तद् दृष्ट्वा ते सभासीनाः सर्वे लोकाः सविस्मयाः / शास्ता किम् आदिशेद् धर्मम् इति ध्यात्वा समाश्रयन् // rm_22.54{54} //

तत्रानंदः समालोक्य सर्वांल् लोकान् सविस्मयान् / सांजलिस् तं जगन्नाथं प्रणत्वैवं समब्रवीत् // rm_22.55{55} //

भगवन् हेतुना केन स्मितं मुंचति सांप्रतं / नाहेतुप्रत्ययं बुद्धाः स्मितं मुंचंति सर्वदा // rm_22.56{56} //

यद् भवतः स्मिते वक्त्रान् नानावर्णाः सुरश्मयः / निर्गताः सर्वलोकेषु प्रसृता अवभास्यत // rm_22.57{57} //

इमे सर्वत्र भद्राणि कृत्वा सत्वांश् च भद्रितान् / प्रत्यागता भवदुर्णामध्ये चान्तर्दधन्ति हि // rm_22.58{58} //

एतद् अद्भुतम् आलोक्य सर्वे लोका इमे ऽधुना / शास्ता किम् आदिशेद् धर्मम् इति ध्यात्वा समास्थिताः // rm_22.59{59} //

भवद्धर्मामृतं पातुं सर्वे सद्धर्मवांछिनः / भवन्तम् एव संवीक्ष्य संतिष्ठन्ते समाहिताः // rm_22.60{60} //

भगवंस् तद् यद् अर्थे त्वं स्मितं मुंचसि सांप्रतं / तद् अर्थं समुपादिश्य सर्वाल् लोकान् प्रबोधय // rm_22.61{61} //

इति संप्रार्थिते तेन भगवान् स मुनीश्चरः / तम् आनंदं सभां चापि समालोक्यैवम् आदिशत् // rm_22.62{62} //

एवम् एतन् महानंद सर्वे ऽपि सुगता जिनाः / नाहेतुप्रत्ययं क्वापि स्मितं मुंचंति सर्वदा // rm_22.63{63} //

यदर्थे ऽहम् इहानंद स्मितं मुंचामि सांप्रतं / तदर्थं संप्रवक्ष्यामि सर्वे शृण्वंतु सादरं // rm_22.64{64} //

पश्यानंदानया नार्य्या दारिकया मम पदोः / लोहितचंदनेनैवं प्रलिप्य सत्कृतिः कृता // rm_22.65{65} //

एतत्पुण्यविपाकेन दारिकेयं भविष्यति / प्रत्येकसुगतो गन्धमादनो नाम सर्ववित् // rm_22.66{66} //

यथेयं मयि संबुद्धचित्तं प्रसाद्य मोदिता / प्रणिधानं करोत्य् एवं प्रत्येकबोधिम् आप्स्यति // rm_22.67{67} //

एवं मत्वा महत्पुण्यं संबुद्धभजनोद्भवं / सत्कृत्य श्रद्धया नित्यं त्रिरत्नं भजम् आदरात् // rm_22.68{68} //

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.