Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Thí dụ · Bổn sự
रत्नमालावदान
- Thông tin
- GRETIL — Kanga Takahata. Ratnamālāvadāna. A Garland of Precious Gems or a Collection of Edifying Tales, Told in a Metrical Form, Belonging to the Mahāyāna. Tokyo 1954 (Oriental Library Series D, 3). = Rm.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
ये संघे शरणं गत्वा भजन्ति श्रद्धया सदा / न ते गच्छन्ति दुःखत्वं सदा यान्ति सुखावतीं // rm_15.154{53} //
इति मत्वा तथा यूयं सदा नित्यं समाहिताः / त्रिरत्नशरणं कृत्वा भजध्वं श्रद्धयादरात् // rm_15.155{54} //
तेन पुण्यविपाकेन यूयं सर्वे ऽपि सर्वथा / त्रिविधां बोधिम् आसाद्य संबुद्धपदम् आप्स्यथ // rm_15.156{55} //
इति शास्त्रा मुनीन्द्रेण समादिष्टं निशम्यते / सर्वे ऽपि सांघिकाः सर्वे लोकाश् च संप्रमोदिताः // rm_15.157{56} //
तथेति प्रतिसंश्रुत्य त्रिरत्नं शरणं गताः / सत्कृत्य श्रद्धया नित्यं प्रभेजिरे समाहिताः // rm_15.158{57} //
सो ऽपि श्रेष्ठी तथा शास्त्रा समादिष्टं तदात्मनं / व्याकरणं समाकर्ण्य प्राभ्यनन्दत् प्रबोधितः // rm_15.159{58} //
ततः प्रभृति स श्रीमांस् त्रिरत्नं शरणं गतः / सत्कृत्य श्रद्धया नित्यं सदा भेजे प्रमोदितः // rm_15.160{59} //
ततः स भगवाञ् छास्ता ससांघिकः समुत्थितः / तथा सर्वत्र भद्राणि प्रकुर्वन् स्वाश्रमं ययौ // rm_15.161{60} //
इत्य् एवं गुरुणाख्यातं तथा मयात्र कथ्यते / त्वम् अप्य् एवं महाराज श्रुत्वा धर्मं शुभे चर // rm_15.162{61} //
प्रजाश् चापि तथा धर्मं श्रावयित्वा प्रबोधयन् / बोधिमार्गे प्रतिष्ठाप्य शुभे ऽभ्यव सदादरात् // rm_15.163{62} //
तथा ते सर्वदा नित्यं मंगलं निरुपद्रवं / भवेन् नूनं महाराज सत्यम् एतत् प्रबुध्यतां // rm_15.164{63} //
एतत्पुण्यविपाकेन दशपारमिता अपि / परिपूर्य्य क्रमेणैवं संबोधिम् अपि चाप्स्यै // rm_15.165{64} //
एवं सत्यं परिज्ञाय त्रिरत्नं शरणं गतः / सत्कृत्य श्रद्धया नित्यं भज बोधिं यदीछसि // rm_15.166{65} //
इति तेनार्हता शास्त्रा समादिष्टं निशम्य सः / नृपस् तथेति संश्रुत्य प्राभ्यनन्दत् सपार्षदः // rm_15.167{66} //
सूक्ष्मत्वचो ऽवदानं यत् तद् इदं ये नरा मुदा / सत्कृत्य श्रद्धया भक्त्या शृण्वन्ति श्रावयन्ति च // rm_15.168{67} //
ते सर्वे सद्गतिं याता भुक्त्वा सौख्यानि सर्वदा / सद्धर्मं समुपाश्रित्य संप्रयान्ति जिनालयं // rm_15.169{68} //
++ इति रत्नावदानतत्वे सूक्ष्मत्वचोऽवदानं समाप्तः ++
xvi pretikāvadāna अथाशोको महाराजः कृताञ्जलिपुटो मुदा / उपगुप्तं यतिं नत्वा पुनर् एव समब्रवीत् // rm_16.1{1} //
भदन्त श्रोतुम् इछामि पुनर् अन्यत् सुभाषितं / तद्यथा गुरुणादिष्टं तथादेष्टुं च मे ऽर्हसि // rm_16.2{2} //
इति संप्रार्थितं तेन राज्ञा स यतिर् आत्मवित् / तम् अशोकं महीपालं समालोक्यैवम् आदिशत् // rm_16.3{3} //
शृणु राजन् महाभाग यथा मे गुरुणोदितं / तथाहं ते प्रवक्ष्यामि श्रुत्वानुमोदनां कुरु // rm_16.4{4} //
पुरा स भगवान् बुद्धः शाक्यसिंहो जगद्गुरुः / सर्वज्ञः सुगतः शास्ता धर्मराजस् तथागतः // rm_16.5{5} //
भिक्षुबिः श्रावकैः सार्द्धं चैलकैर् भिक्षुणीगणैः / उपासकैर् महाश्राद्धैस् तथा चोपासिकागणैः // rm_16.6{6} //
बोधिसत्वगणैश् चापि सद्धर्मसाधनोद्यतैः / कृतकृत्यैर् महाभिज्ञैश् चतुर्ब्रह्मविहारकैः // rm_16.7{7} //
राजगृहे पुरोपान्ते वेणुवने शुभाङ्किते / करण्डकनिवापाख्ये महोद्याने जिनाश्रमे // rm_16.8{8} //
विहृत्य सर्वसत्वानां हितार्थेन सभाश्रितः / आदिमध्यान्ताकल्याणं धर्मम् आदेष्टुम् आरभत् // rm_16.9{9} //
तदा सर्वे ऽपि देवेन्द्राः सदेवाः कमलासनः / सर्वे लोकाधिपाश् चापि यक्षगंधर्वकिन्नराः // rm_16.10{10} //
सिद्धा विद्याधराः साध्या राक्षसा दानवाधिपाः / नागेंद्रा गरुडाश् चापि सजनपरिवारकाः // rm_16.11{11} //
ऋषयो ब्रह्मणाश् चापि यतयो योगिनो ऽपि च / राजानो राजपुत्राश् च मंत्रिणो ऽपि च // rm_16.12{12} //
अमात्याः सैन्यलोकाश् च सार्थवाहा महाजनाः / वणिजः शिल्पिनश् चापि गृहस्थाः पौरिका जनाः // rm_16.13{13} //
ग्राम्या जानपदाश् चापि कार्पटिकाश् च नैर्गमाः / तथान्ये ऽपि समायाताः सद्धर्मगुणवांछिनः // rm_16.14{14} //
तत्र सर्वे ऽपि ते लोका विहारे समुपागताः / तं मुनीन्द्रं समासीनं दृष्ट्वा नत्वा प्रमोदिताः // rm_16.15{15} //
त्रिधा प्रदक्षिणीकृत्वा समभ्यर्च्य यथाक्रमं / नत्वा साञ्जलयः सर्वे परिवृत्य समंततः // rm_16.16{16} //
तत् सद्धर्मामृतं पातुं सुप्रसन्नमुखाम्बुजं / श्रीघनं तं समालोक्य समातस्थुः समाहिताः // rm_16.17{17} //
तदा स भगवान् दृष्ट्वा तान् सर्वान् समुपस्थितान् / आर्यसत्यं समारभ्य सद्धर्मं समुपादिशत् // rm_16.18{18} //
तत् सद्धर्मामृतं पीत्वा लोकाः सर्वे ऽपि ते मुदा / संबोधिसाधनोत्साहाः प्रचेरिरे प्रमोदिताः // rm_16.19{19} //
तस्मिन्न् अवसरे तत्र राजगृहान्तिके वने / वेणुवनान्तिके पंचप्रेतशतानि चेरिरे // rm_16.20{20} //
नग्नान्य् अतिकृताङ्गानि दग्धस्थूणाकृतीनि वै / रोमवस्त्राणि रुक्षाणि शैलोपमोदराणि च // rm_16.21{21} //
सूचीछिद्रमुखान्य् अस्थियंत्रवद् उच्छृतान्य् अपि / क्षुत्पिपासाभिदग्धानि हीनदीनस्वराण्य् अपि // rm_16.22{22} //
तीव्रदुःखानि तप्तानि प्रलपन्ति विहायसि / विभ्रमन्ति सदा क्वापि किञ्चि स्थितिं न लेभिरे // rm_16.23{23} //
तदैकस्मिन् दिने तत्र मौद्गल्यायन आत्मवित् / आयुष्मान् सौगतो भिक्षुर् महाभिज्ञो दयान्वितः // rm_16.24{24} //
पूर्वाह्ने पात्रम् आदाय काषायचीवरावृतः / राजगृहे पुरे पिण्डं याचितुं समुपाचरन् // rm_16.25{25} //
तत्र यतिः स तां प्रेतां सर्वान् विभ्रमतो ऽम्वरे / दृष्ट्वेने क इति ध्यात्वा पश्यञ् जनैर् उपाचरन् // rm_16.26{26} //
ते सर्वे प्रेतकाश् चापि दृष्ट्वा तं भिक्षुम् आगतं / सहसोपेत्य नत्वाग्रे रुदन्त एतद् अब्रुवन् // rm_16.27{27} //
भदन्त भवतां पादौ वन्दामहे समानताः / तद् अस्माकं हितं कृत्वा कृपया त्रातुम् अर्हति // rm_16.28{28} //
वयं राजगृहे जाताः पौराः पंचशतान्य् अपि / स्वकर्मपरिभुंजानः प्रेतीभूताश् चरामहे // rm_16.29{29} //
तदा वयम् इमे सर्वे गृहस्थाः श्रेष्ठिनो नराः / महाधना महाभोगास् तीर्थिका धर्मसेवकाः // rm_16.30{30} //
यद् वयं मत्साराक्रान्तमानसाः कुटुकुञ्चकाः / आगृहीतपरिष्काराः केवलार्जनसाधकाः // rm_16.31{31} //
नैव किञ् चित् तदा दानम् अदद्महि कदा चन / अर्थिनम् आगतं दृष्ट्वा प्राकुष्यामहि रोषिताः // rm_16.32{32} //
परदत्तान्य् अपि श्रुत्वा दृष्ट्वा चापि प्ररोषिताः / दीयमानेषु विघ्नानि प्राकुर्महि प्रयत्नतः // rm_16.33{33} //
सौगता अपि चार्हन्तः प्रेता इवेयम् आगताः / इत्य् अस्माभिः प्रमोहान्धैः परिभाष्याभिनिन्दिताः // rm_16.34{34} //
तत एते वयं सर्वे कालं कृत्वा च सांप्रतं / एवं प्रेतालयोत्पन्ना दुःखार्दिताश् चरामहे // rm_16.35{35} //
इति भदन्त विज्ञाय गत्वा राजगृहे भवान् / कृपयास्मत्प्रवृत्तांतं ज्ञातीनां पुरतो वदन् // rm_16.36{36} //
छन्दकभिक्षणं कृत्वा बुद्धादिं सर्वसांघिकं / अस्मन्नाम्ना समभ्यर्च्य भोजयितुं समर्हति // rm_16.37{37} //
संबुद्धप्रमुखेभ्यश् च संघेभ्यो भवतादरात् / अस्मन्नाम्ना प्रकर्त्तव्यं प्रणामम् अपि सद्गुरो // rm_16.38{38} //
दक्षिणादेशनाप्य् अस्मन्नाम्ना बुद्धादिसांघिकैः / भवता कारयितव्या इत्य् अस्मासु कृपां कुरु // rm_16.39{39} //
यथास्माकम् इतः प्रेतलोका मुक्तिर् भवेद् ध्रुवं / तथास्मासु भवाम्च् छास्ता कृपया कर्तुम् अर्हाति // rm_16.40{40} //
इति तैः प्रार्थितं सर्वैः स मौद्गल्यायनः सुधीः / श्रुत्वा तथेति संश्रुत्य तूष्णीभूत्वाध्युवास तत् // rm_16.41{41} //
ततस् तान् प्रेतिकान् सर्वान् स मौद्गल्यायनो यतिः / समालोक्य समाश्वास्य पुनर् एतत् समब्रवीत् // rm_16.42{42} //
तत्र यूयं च सर्व श्वः प्रवृत्ते संघभोजने / ससंघं श्रीघनं द्रष्टुं समायात समादरात् // rm_16.43{43} //
इति तेनार्हातादिष्टं श्रुत्वा ते प्रेतका अपि / तथेति हि प्रतिज्ञाय प्रणत्वा तं वने ययुः // rm_16.44{44} //
ततः स सौगतो भिक्षुर् मौद्गल्यो यतिर् आत्मवित् / गत्वा राजगृहे तेषां ज्ञातीनां समुपाचरन् // rm_16.45{45} //
तत्र सर्वत्र तेषां तत् ज्ञातीनां भवनेषु स / गत्वा तेषां प्रवृत्तांतं सर्वम् एवं न्यवेदयत् // rm_16.46{46} //
ततः स तत्र सर्वांस् तां ज्ञातीन् आहूय सादरं / तेषां प्रेतगतेर् मुक्तिहेतोर् एवं समब्रवीत् // rm_16.47{ऽ47} //
शृणुत भो महाभाग्य यूयं सर्वे समाहिताः / युष्माकं ज्ञातिवर्गाणां मुक्तिहेतुं प्रवक्ष्यते // rm_16.48{48} //
यतो युष्मत्सगोत्रास् ते मत्सरिणो दुराशयाः / आगृहीतपरिष्कारा दशाकुशलसंचराः // rm_16.49{49} //
नापि दानं प्रदत्तं तैः कस्मै चि क्वापि किं चन / परदत्तान्य् अपि श्रुत्वा दृष्ट्वा वा पर्यभाष्यत // rm_16.50{50} //
अर्हन्तो भिक्षवो वा तैर् याचकाश् च गृहागताः / परिभाष्याभिसंतर्ज्य निष्कासिता गृहाद् वलात् // rm_16.51{51} //
प्रेता इव सदा भिक्षां याचित्वेमे ऽभिभुंजते / इत्य् अर्हतो यती चापि दृष्ट्वैव ते ऽभ्यनिन्दयन् // rm_16.52{52} //
एतत्कर्मविपाकैस् ते प्रेतीभूता वने ऽधुना / क्षुत्पिपासाहता नित्यं विभ्रम्यन्ते ऽभिदुःखिताः // rm_16.53{53} //
तत् तेसां तन् महत्पापमुक्तिहेतोर् इहाधुना / संबुद्धशासने दानं कर्तुम् इछाम्य् अहं खलु // rm_16.54{54} //
मयैतद् दक्षिणादेशास् तन् नाम्ना कारयिष्यते / तदा तत् पापमुक्तास् ते सर्वे यायुर् दिवं ध्रुवं // rm_16.55{55} //
तद् अत्र श्रद्धया यूयं यथाशक्ति मयार्थिताः / संघभोजनसामग्रिं सर्वे प्रदातुम् अर्हय // rm_16.56{56} //
संघभोज्ये प्रवृत्ते ऽत्र सर्वे ते प्रेतिका अपि / द्रष्टुं समागमिष्यन्ति यूयं चागंतुम् अर्हथ // rm_16.57{57} //
इत्य् उक्त्वा प्रार्थिते तेन मौद्गल्येन दयालुना / श्रुत्वा तज् जातयः सर्वे विस्मयां समुपाययुः // rm_16.58{58} //
ततस् ते विस्मिताः सर्वे तत् प्रेतगतिमुक्तये / तत् भोज्यसामग्रीं श्रद्धया दातुम् इच्छिरे // rm_16.59{59} //
के चित् तस्मै सुवर्णानि के चिद् रत्नानि संददुः / के चिद् रोप्यादि धातूंश् च द्रव्यानि विविधानि चा // rm_16.60{60} //
तण्डुलानि ददुः के चिद् ददुर् धान्यानि के चन / के चिद् ददुः कलायांश् च गोधूमांश् च यवान् अपि // rm_16.61{61} //
कुल्माषान् मसुरांश् चापि माषचनकसर्षपान् / मुद्गांश् चापि तथान्यांश् च सर्वान् व्रीहिन् ददुः परे // rm_16.62{62} //
तिलप्रियंगुसिद्धार्थान् भंगाश् च राजिका अपि / मूलशाककदम्वांश् च पत्रपुष्पांकुराणि च // rm_16.63{63} //
शृङ्गवेरातिपक्वानि फलानि विविधानि च / सुरसानि सुपथ्यानि प्रददुश् चापरे मुदा // rm_16.64{64} //
तिक्ताम्ललवणादीनि रसानि विविधानि च / शुन्ठीश् च पिप्पिरीश् चापि मरिचानि ददुर् मुदा // rm_16.65{65} //
हिङ्गुं च जीरकांश् चान्ये विडर्कसैंधवादि च / अन्ये घृतानि तैलानि प्रददुः श्रद्धया मुदा // rm_16.66{66} //
शक्तूंश् च पिष्टकांश् चान्यमोदकांश् च ददुर् मुदा / तथा दधीनि दुग्धानि मधुनि च गुडानि च // rm_16.67{67} //
तथान्ये सर्कराश् चापि प्रददुः श्रद्धया मुदा / तथौषधानि पथ्यानि पाचकानि ददुः परे // rm_16.68{68} //
लाङ्गलीपूगताम्बूलरवंगादीनि संददुः / सर्वपेयानि भोज्यानि विविधान्य् अपि / सर्वे ते ज्ञातयस् तेषां संघभोक्ष्याय संददुः // rm_16.69{69} //
एवं ते सर्ववस्तूनि दत्वा सर्वे प्रमोदिताः / सांजलयः प्रणत्वा तं मौद्गल्यं यतिम् ऊचिरे // rm_16.70{70} //
भदन्तो ऽनुग्रहं कृत्वा संबुद्धप्रमुखं भवान् / सर्वसंघं समभ्यर्च्य भोजयतु प्रतोषयन् // rm_16.71{71} //
वयम् अप्य् आगमिष्यामः प्रवृत्ते संघभोजने / तान् प्रेतान् समुपायातान् सर्वान् द्रष्टुं सबान्धवाः // rm_16.72{72} //
इति तैः प्रार्थितं श्रुत्वा तथेति स प्रबोधयन् / तानि द्रव्यानि सर्वाणि गृहीत्वा स्वाश्रमे ययौ // rm_16.73{73} //
ततः स भिक्षुर् आयुष्मान् विहारे समुपाचरन् / दृष्ट्वा तं श्रीघनं नत्वा साञ्जलिः समुपाश्रयन् // rm_16.74{73} //
तत्र स भगवान् दृष्ट्वा तं मौद्गल्यम् उपस्थितं / प्रहसन् सुप्रसन्नास्यः समामंत्र्यैतद् अब्रवीत् // rm_16.75{74} //
कं चित् ते कुशलं वत्स कुतो ऽत्रासि समागतः / लोकेषु किं प्रवृत्तांतं तन् प्रचक्ष्व महामते // rm_16.76{75} //
इत्य् आदिष्टे मुनीन्द्रेण स मौद्गल्यायनः सुधीः / भगवन्तं तम् आनत्वा साञ्जलिर् एतद् अब्रवीत् // rm_16.77{76} //
भगवन् कृपया शास्तः सर्वत्र कौशलं मम / राजगृहे पुरे पिंडं याचितुं समुपाचरन् // rm_16.78{77} //
तत्र मार्गे वनोपान्ते पंच प्रेतशतान्य् अपि / दृष्ट्वा मां समुपसृत्य प्रणत्वैतद् वदन्ति वै // rm_16.79{78} //
भदन्त तद् विजानीया यद् वयं प्रेतिका इमे / सर्वे राजगृहे जाता गृहस्थाः पौरिकाः खलु // rm_16.80{79} //
तदा वयं स्वयं नष्टा दशाकुशलचारिणः / एते स्वदैवयोगेन प्रेतीभूताश् चरामहे // rm_16.81{80} //
तद् भवान् कृपयास्माकं प्रेतगतिविमुक्तये / ज्ञातीनाम् अपि सर्वेषां कर्मप्लोतिं निवेद्य हि // rm_16.82{81} //
छन्दकभिक्षणं कृत्वाप्य् अस्मन्नाम्ना ससांघिकं / भगवन्तं समभ्यर्च्य भोजयितुं समर्हति // rm_16.83{82} //
अस्मन्नाम्नाय संबुद्धं ससंघं नमतां भवान् / दक्षिणादेशनाश् चास्मन्नाम्ना देशयतुम् अर्हसि // rm_16.84{83} //
ततो नूनं वयं सर्वे प्रेतगतिविमोचिताः / निर्मुक्तपापकाः शुद्धाः प्राप्नुयाम सुरालयं // rm_16.85{84} //
इत्य् अस्मत्प्रार्थनां कृत्वा कृपयास्मान् समुद्धरन् / बोधिमार्गे प्रतिस्थाप्य पातुम् अर्हति सर्वदा // rm_16.86{85} //
इति तेषां वचः श्रुत्वा तथा राजगृहे गतः / तद् ज्ञातीनां पुरस् तेषां प्रवृत्तांतं निवेद्य च // rm_16.87{86} //
छन्दकभिक्षणं तेभ्यो याचित्वाहम् इहाचरे / तथार्चयितुम् इछामि भगवन्तं ससांघिकं // rm_16.88{87} //
इति मे प्रार्थनां कृत्वा भवां छास्ता जगद्गुरुः / तद् अधिवासनां कृत्वा कृपया तान् समुद्धर // rm_16.89{88} //
इति संप्रार्थितं तेन भगवान् स मुनीश्वरः / तथेति संप्रतिश्रुत्य तूष्णीभूत्वाध्युवास तत् // rm_16.90{89} //
ततो मत्वा स मौद्गल्यो भगवतो ऽधिवासितं / सहसा भोज्यसामग्रीं सपौरैः समसाधयत् // rm_16.91{90} //
ततो ऽन्ये द्युः प्रभातायां सर्वसाधितसिद्धिते / साञ्जलिस् तं मुनीन्द्रं च प्रणत्वैतत् समब्रवीत् // rm_16.92{91} //
भगवन् सर्वसामग्रीं संसाधितं सुसिद्ध्यते / तत् सर्वसांघिकैः सार्द्धं सहसागंतुम् अर्हति // rm_16.93{92} //
इति संप्रार्थिते तेन भगवां स मुनीश्वरः / भिक्षुं प्राह समाहूय गण्डीम् आकोट्यताम् इति // rm_16.94{93} //
तदादिष्टं मुनीन्द्रेण श्रुत्वा भिक्षुस् तथेति सः / आश्रुत्य सहसादाय गण्डीम् आकोटयत् तदा // rm_16.95{94} //
तद् गण्डीशब्दम् आकर्ण्य सर्वे ते सांघिका अपि / विहारे सहसागत्य भगवन्तं प्रणेमिरे // rm_16.96{95} //
ततः स भगवांस् तत्र स्वासने समुपाविशत् / सर्वे ते सांघिकाश् चापि क्रमात् स्वस्वासने ऽविशन् // rm_16.97{96} //
ततस् तद् ज्ञातयः सर्वे तत्रान्ये पौरिका अपि / तान् प्रेतान् द्रष्टुम् आयाता उपतस्थुः सकौतुकाः // rm_16.98{97} //
तदा ते प्रेतिकाः सर्वे प्रक्षिप्ताः कर्मवायुभिः / बहुलोकान्तरे दुरे यातास् तस्थुर् विमोहिताः // rm_16.99{98} //
तदा स यतिर् आलोक्य सर्वसंघान् समास्थितान् / तद्ज्ञातिबन्धुवर्गांश् च प्रेतान् द्रष्टुं समाचरत् // rm_16.100{99} //
तत्र प्रेतान् अदृष्ट्वा स मौद्गल्यो विस्मिताशयः / किं ते ऽत्र नागता वेति समन्ततो व्यलोकयत् // rm_16.101{100} //
विलोकयन् स सर्वत्र नाद्रक्षीत् तां समंततः / स संदिग्धः पुनस् तत्र सम्यग्दृष्ट्या व्यलोकयत् // rm_16.102{1} //
सर्वत्रापि स तां प्रेतान् अदृष्ट्वा विस्मयान्वितः / सर्वत्र मगधे ऽपश्यत् सम्यग्दृशा समाहितः // rm_16.103{2} //
तत्रापि च स सर्वत्र नैव कं चिद् अपश्यते / ततो ऽतिविस्मितो ऽन्यत्र दिव्यदृशाभ्यलोकयत् // rm_16.104{3} //
अंगवंगकलिंगेषु सौराष्ट्रमगधेषु च / तत्रापि तान् अदृष्ट्वा स नरकेषु समन्ततः / दिव्येन चक्षुषा पश्यन् न च तत्राप्य् अपश्यत // rm_16.105{4} //
ततश् चतुर्महाराजभुवनेषु समन्ततः / स दिव्यचक्षुषा पश्यंस् तत्रापि नाभ्यपश्यत // rm_16.106{5} //
तत्रापि तान् अदृष्ट्वा स मौद्गल्यो विस्मयान्वितः / देवालयेषु सर्वत्र क्रमेण समलोकयत् // rm_16.107{6} //
तत्रापि तां समन्तेषु स मौद्गल्यो ऽतिविस्मितः / तान् अदृष्ट्वातिसंदिग्धो भगवतान्तिके ऽचरत् // rm_16.108{7} //
तत्र स पुरतो गत्वा शास्तारं तं मुनीश्वरं / कृताञ्जलिपुटो नत्वा पप्रछैतत् प्रवृत्तितां // rm_16.109{8} //
भगवन् सर्वलोकेषु पश्यता दिव्यचक्षुसा / मया न दृश्यते कश् चित् ते प्रेताः क्वाधुना गताः // rm_16.110{9} //
तेषां नाम्ना भवत्पूजां कर्त्तुम् एतत् प्रसाधितं / यद् अत्र नागताः केचित् तत् ते प्रेता गताः कुह // rm_16.111{10} //
दृश्यन्ते न मया क्वापि सर्वत्रापि समीक्ष्यते / एको ऽपि नागतो ह्य् अत्र क्व गतास् ते ऽधुना खलु // rm_16.112{11} //
तन् मे चित्तं प्रसंदिग्धं दृष्ट्वा शास्ता भवान् सुदृक् / तेषां गतिं समाख्याय संबोधयितुम् अर्हति // rm_16.113{12} //
इति संप्रार्थिते तेन मौद्गल्येन स सर्ववित् / भगवांस् तं समालोक्य मौद्गल्यम् एतद् अब्रवीत् // rm_16.114{13} //
मौद्गल्य मा कृथा यत्नं खेदम् एवाभिपत्स्यसे / गतास् ते प्रेतिकाः सर्वे सुदूरभुवने ऽधुना // rm_16.115{14} //
सर्वे ते यतिदेवर्षिप्रत्येकसुगतैर् अपि / अदृश्ये विषये याताः प्रेरिताः कर्मवायुभिः // rm_16.116{15} //
यदि सर्वां च तां द्रष्टुं वांछसि त्वम् इहाश्रितः / सर्वांस् तां दर्शयिष्यामि पश्य बुद्धानुभावतां // rm_16.117{16} //
तद् अत्र त्वं समादाय गण्डीम् आकोटय द्रुतं / ओं नमो भगवते अपरिमितायुर्ज्ञानसुविनिश्चिततेजोराजाय तथागतायार्हते सम्यकम्बुद्धाय // तद्यथा //
ओं पुण्ये पुण्ये महापुण्ये अपरिमितपुण्ये अपरिमितपुण्यज्ञानसंभारोपचिते / ओं सर्वसंस्कारपरिशुद्धे धर्मते गगणसमुद्गते स्वभावविशुद्धे महानयपरिवारे स्वाहा / अष्टोत्तरशताक्षर्य्यानयासंलब्धचेतनाः // rm_16.118{17} //
सर्वे ते ऽत्रागमिष्यन्ति गण्डीशब्दाभिनादिताः / इति शास्त्रा समादिष्टं श्रुत्वा स प्रतिबोधितः // rm_16.119{18} //
सहसा तत् सभामध्ये गण्डीम् आकोटयत् तथा / तद् गण्डीशब्दम् आकर्ण्य सर्वे ते प्रेतिका अपि / परिशुद्धाशया द्रष्टुं विहारे समुपाचरन् // rm_16.120{19} //
तत्र सर्वे ऽपि ते प्रेता दृष्ट्वा तं श्रीघनं मुदा / त्रिधा प्रदक्षिणीकृत्य साञ्जलयः प्रणेमिरे // rm_16.121{20} //
क्रमात् तां सर्वसंघांश् च प्रणत्वा ते प्रमोदिताः / सर्वे ऽप्य् एकान्तम् आश्रित्य पश्यन्त उपतस्थिरे // rm_16.122{21} //
तत्र तद् ज्ञातयः सर्वे पौरिकाश् चापरे ऽपि च / तान् प्रेतान् समुपासीनान् दृष्ट्वा तस्थुः सकौतुकाः // rm_16.123{22} //
एवं सर्वे ऽपि ते प्रेताः स्वस्वज्ञातीन् उपस्थितान् / भात्रादीन् बन्धुवर्गांश् च दृष्ट्वैवम् उपतस्थिरे // rm_16.124{23} //
ततः सो ऽर्हन् महाभिज्ञो मौद्गल्यस् तान् उपस्थितान् / प्रेतान् सर्वान् समालोक्य नत्वाहैवं मुनीश्वरं // rm_16.125{24} //
भगवन् नाथ सर्वज्ञ ते प्रेताः सर्व आगताः / तद् एषां भगवां च्छास्तानुग्रहं कर्त्तुम् अर्हति // rm_16.126{25} //
निवेद्येति स मौद्गल्यः संबुद्धप्रमुखं क्रमात् / सर्वं संघं समभ्यर्च्य भोजयन् समतोषयत् // rm_16.127{26} //
ततः स सर्वसंघं तं दृष्ट्वा संतृप्तिकं मुदा / अपनीयाशु पात्राणि हस्तादीन् समशोधयत् // rm_16.128{27} //
ततः खपुरसूक्ष्मैलाताम्बूलादि रसायनं / दत्वा क्षमार्थनां कृत्वा प्रार्थयत् स मुनीश्वरं // rm_16.129{28} //
भगवन् नाथ सर्वज्ञ भवां छास्ता ससांघिकः / दक्षिणादेशनाम् एभ्यः प्रेतेभ्यः कर्तुम् अर्हति // rm_16.130{29} //
इति संप्रार्थितं श्रुत्वा सर्वे ते प्रेतिका मुदा / ससंघं तं मुनिं नत्वा सादरम् उपतस्थिरे // rm_16.131{30} //
ततः स भगवान् दृष्ट्वा ससंघस् तान् उपस्थितान् / दक्षिणादेशनां तेभ्यः सर्वेभ्यो विदधे शुभां // rm_16.132{31} //
इतो दानाद् धि यत् पुण्यं तत् प्रेतान् अनुगछतु / उत्तिष्ठन्तः प्रयान्त्य् एते सर्वे प्रेताः सुरालयं // rm_16.133{21} //
इत्य् आदिश्य पुनस् तत्र भगवां स मुनीश्वरः / आर्य्यसत्यं समारभ्यापरिमितायुषस् तदा // rm_16.134{22} // धारण्या गुणमाहात्म्यं सद्धर्मं समुपादिशत् // rm_16.135{23} // संसारे मानुषे जन्म दुर्लभं भवचारिणां / मानुष्ये लभ्यमाने ऽपि क्षणसंपत् सुदुर्लभा // rm_16.136{24} //
मानुष्ये ऽलभ्यमाने हि जन्तूनां सुखता कुतः / दुःखान्य् एव भवे नित्यं पुण्ये मतिः कथं चरेत् // rm_16.137{25} //
विना पुण्यमतिं जन्तुः सद्धर्मे कथम् आचरेत् / विना सद्धर्मभावेन सद्गतिं कथम् आप्नुयात् // rm_16.138{26} //
प्रेतेषु सर्वदा नित्यं क्षुत्पिपासाविदाहितः / तिर्यक्षु नरकेष्व् एव भ्रमन् दुःखान्य् अवाप्नुयात् // rm_16.139{27} //
तद् अत्र मानुषे जन्मप्राप्तैर् यत्नेन मानवैः / सत्कृत्य श्रद्धया नित्यं श्रोतव्यं सद्वृषं मुदा // rm_16.140{28} //
सद्धर्मश्रुतमात्रेण महत्पुण्यम् अवाप्नुयात् / एतत् पुण्यविपाकेन सद्गुरौ सर्वदा भजेत् // rm_16.141{29} //
सद्गुरोर् उपदेशेन सद्धर्मेष्व् एव सदाचरेत् / एतत्पुण्यविपाकेन सद्गतिं सर्वदा व्रजेत् // rm_16.142{30} // तत्र सुखानि संभुक्त्वा संचरेत शुभे सदा // rm_16.143{31} // एतद् धर्मानुभावेन महत्समृद्धिम् आप्नुयात् / महत्समृद्धिसंपत्सु कर्त्तव्यं दानम् अर्थिषु // rm_16.144{32} //
दानेन वर्द्ध्यते लक्ष्मीर् लक्ष्मीमां च्छोभते पुमान् / सद्बुद्धिः सद्गुणाधारो यशोभाग्यसुखान्वितः // rm_16.145{33} //
ततः सौगतधर्माणि श्रुत्वा नित्यं प्रबोधितः / त्रिरत्नशरणं कृत्वा भजेद् भक्त्या सदादरात् // rm_16.146{34} //
एतत्पुण्यानुभावेन बोधिचित्तं समाप्नुयात् / बोधिचित्ते हि लब्धे हि बोधिसत्वो भवेत् कृती // rm_16.147{35} //
ततः स बोधिचित्तेन दशपारमिताः क्रमात् / परिपूर्य महासत्वस् त्रिविधां बोधिम् आप्नुयात् // rm_16.148{36} //
ततो मारगणां जित्वा परिशुद्धस् त्रिमण्डलः / qsākṣād arhatpadaṃ prāpya nirvṛtipadam āpnuyāt // rm_16.149{37} //
एवं विज्ञाय मर्त्येन कर्त्तव्यं दानम् अर्थिने / दानेन सद्गतिं यायाद् अदाता दुर्गतिं व्रजेत् // rm_16.150{38} //
दुर्गतिषु सदा भुक्त्वा दुःखानि विविधां स / सर्वदा दुःखसंक्लिष्टः पापेष्व् एवारतश् चरेत् // rm_16.151{39} //
एतत्पापविपाकेन दशस्व् अकुशलेष्व् अपि / निरतो ह्य् अविशंकेन संचरेत प्रमादतः // rm_16.152{40} //
ततः सो ह्य् अतिपापिष्ठः सद्धर्मनिन्दकः कुधीः / स्वयं नष्टः परांश् चापि नाशयेन् नास्तिकः शठः // rm_16.153{41} //
ततो ऽतिपापसंक्लिष्टः प्रतिक्षिप्य जिनान् अपि / घोरेषु नरकेष्व् एव गत्वा भ्रमन् सदा वसेत् // rm_16.154{42} //
सदापि नरकेष्व् एवं भ्रमतस् तस्य दुःखिनः / कश्चिन् नैव समुद्धर्तुं शक्नुयात् सौगताद् ऋते // rm_16.155{43} //
यावन् न स्मरते बुद्धं तावत् स नरके वसेत् / यद् एव स्मरते बुद्धं तदा स्याच् छुद्धिताशयः // rm_16.156{44} //
तदा तं कृपया बुद्धो दृष्ट्वा बौद्धेन चक्षुषा / पुण्यकरेण संस्पृष्ट्वा समुद्धरेद् अरं ततः // rm_16.157{45} //
ततस् तं पापिनं बौद्धा धर्माम्बुभिर् विशोध्य च / क्रमेण बोधिमार्गेषु नियोजयेत् प्रबोधयन् // rm_16.158{46} //
ततः स परिशुद्धात्मा संबुद्धशासने रतः / त्रिरत्नशरणं कृत्वा सद्धर्म एव प्राचरेत् // rm_16.159{47} //
ततः सत्वहितार्थे स बोधिचर्यासमुद्यतः / क्रमात् पारमिताः सर्वा पूरयितुं समुद्यमेत् // rm_16.160{48} //
ततः पारमिताः सर्वाः पूरयित्वा समाहितः / बोधिसत्वो महासत्वो बुद्धात्मजो भवेद् अपि // rm_16.161{49} //
ततः क्लेशगणाञ् जित्वा परिशुद्धत्रिमंडलः / त्रिविधां बोधिम् आसाद्य निर्वृतिपदम् आप्नुयात् // rm_16.162{50} //
एवं मत्वा सदा नित्यं त्रिरत्नशरणं गताः / सद्धर्मं समुपाश्रित्य चरध्वं मानवा मुदा // rm_16.163{51} //
इत्य् आदिष्टं मुनीन्द्रेण श्रुत्वा ते ब्राह्मणादयः / सर्वे लोका परिज्ञाय दृष्टसत्यास् तथाचरन् // rm_16.164{52} //
तथा सर्वे ऽपि ते प्रेताः श्रुत्वा तद् धर्मदेशनां / मुदा तं श्रीघनं नत्वा शुद्धात्मानस् ततो ऽचरन् // rm_16.165{53} //
ततस् तद् ज्ञातयः सर्वे दृष्ट्वा श्रुत्वा सकौतुकाः / ससंघं तं मुनिं नत्वा स्वस्वालयं ययुर् मुदा // rm_16.166{54} //
ततः स भगवान् बुद्धः समुत्थाय सषांघिकः / ध्यानालयं समाश्रित्य तस्थौ ध्यानसमाहितः // rm_16.167{55} //
स मौद्गल्यायनश् चापि कृतकृत्यः प्रमोदितः / शास्तारं तं प्रणत्वैवं स्वम् आश्रमं समाश्रयत् // rm_16.168{56} //
तदा सर्वे ऽपि ते प्रेताः संबुद्धे ऽभिप्रसादिताः / त्रिरत्नस्मरणं कृत्वा ततश् च्युता दिवं ययुः // rm_16.169{57} //
तत्रोत्पन्ना हि ते सर्वे महत्सौख्यसमन्विताः / परिशुद्धसुभद्राङ्गा विस्मिता एतद् अब्रुवन् // rm_16.170{58} //
अहो ऽस्माकं महत्सौख्यं किम् एवं जायते ऽधुना / कुतश् च्युताः कुहायामः कर्मणा केन वा वयं // rm_16.171{59} //
अथ बुद्धानुभावेन सर्वे ते प्रेतपूर्वकाः / देवपुत्रा अनुस्मृत्वा प्रबोधिताः समब्रुवन् // rm_16.172{60} //
भवन्तो यद् वयं सर्वे प्रेता बुद्धानुभावतः / मौद्गल्यस्यार्हतो भिक्षोः कृपादृष्टिप्रयत्नतः // rm_16.173{61} //
संबुद्धदर्शनप्राप्तास् त्रिरत्नशरणं गताः / एतत् पुण्यपरिस्पृष्टाः परिशुद्धत्रिकायिकाः // rm_16.174{62} //
ततः प्रेतगतेश् च्युत्वा स्वर्गलोके समागताः / महद्दिव्यसुखान्य् एवम् अत्र लभामहे ऽधुना // rm_16.175{63} //
एतत् सत्यं परिज्ञाय तस्य शास्तुर् जगद्गुरोः / पुनः सर्वे वयं गत्वा सत्कृत्य प्रभजेमहि // rm_16.176{64} //
इति संभाषणं कृत्वा सर्वे ते प्रेतपूर्वकाः / देवपुत्राः शुभाम्भोभिः स्नात्वा दिव्याम्वरावृताः // rm_16.177{65} //
दिव्यसुगंधलिप्ताङ्गा दिव्यालंकारभूषिताः / दिव्यपूजोपचाराणि गृहीत्वा महदुत्सवैः / सर्वं वेणुवनं भाभिर् अवभास्य समन्ततः // rm_16.178{66} //
विहारे समुपासृत्य दृष्ट्वा तं श्रीघनं मुदा / नत्वा प्रदक्षिणीकृत्वा प्रहर्षिता उपाचरन् // rm_16.179{67} //
तत्र दिव्योपचारैस् तैः पूजांगैस् तं मुनीश्वरं / सर्वे ऽपि ते समभ्यर्च्य सत्कृत्य श्रद्धयाभजन् // rm_16.180{68} //
तत्र चैकान्तम् आश्रित्य सद्धर्म्मश्रवणोत्सुकाः / कृताञ्जलिपुटाः सर्वे उपतस्थुः समाहिताः // rm_16.181{69} //
अथ स भगवान् दृष्ट्वा तान् सर्वान् समुपस्थितान् / आर्यसत्यं समारभः सद्धर्मं समुपादिशत् // rm_16.182{70} //
तत् सद्धर्मामृतं पीत्वा सर्वे ते प्रेतपूर्वकाः / देवपुत्राश् च धर्माणां विशेषत्वं प्रलेभिरे // rm_16.183{71} //
ततस् ते मुदिताः सर्वे संबोधिपदवांछिनः / शास्तारं तं पुनर् नत्वा समालोक्यैतद् अब्रुवन् // rm_16.184{72} //
भगवन् यद् वयं सर्वे विमुक्तकर्मबंधनाः / प्रेतलोकात् परिच्युत्वा स्वर्गे याताः स्म सांप्रतं // rm_16.185{73} //
दिव्यसुखानि साम्भुक्त्वा देवैः सह प्रमोदिताः / सद्धर्मगुणम् आकर्ण्य चरामहे सदाधुना // rm_16.186{74} //
तत् कृपालो यतस् तस्य मौद्गल्यस्य महामतेः / कृपदृष्टिप्रसादेन नूनं मन्यामहे वयं // rm_16.187{75} //
तद् भवद्दर्शनं प्राप्य पीत्वा धर्मामृतान्य् अपि / मुदिताः श्रद्धया भक्त्या त्रिरत्नं संभजामहे // rm_16.188{76} //
एतत्पुण्यैः परीताङ्गाः परिशुद्धाशया मुदा / भवतां दर्शनं कर्तुं भूयः प्रायामहे वयं // rm_16.189{77} //
तथा च भवतां शास्तः कृपादृष्टिप्रसादतः / आर्यधर्मामृतं पीत्वा संतुष्टिं न लभामहे // rm_16.190{78} //
तद् वयं भवताम् एवं सर्वदा शरणं गताः / सत्कृत्य समुपासृत्य भक्तुम् इछामहे पुनः // rm_16.191{79} //
तद् भवान् कृपयास्मा कं कृत्वानुग्रहम् आभवं / सद्धर्मं समुपादिश्य सर्वदा त्रातुम् अर्हति // rm_16.192{80} //
भवतां कृपयास्माभि दुःखाब्धिः परिलंघितः / सत्कायदृष्टिशैलं च ज्ञानवज्रेण भिद्यते // rm_16.193{81} //
ज्ञानचक्षुश् च संप्राप्तं दृष्टं मायामयं भवं / आर्यमार्गश् च संप्राप्तः प्राप्ता च निर्वृतिश्रुतिः // rm_16.194{82} //
धन्या इमे वयं सर्वे यद् भवच्छरणं गताः / आर्यधर्मामृतं पीत्वा महानन्दं लभामहे // rm_16.195{83} //
धन्यास् ते पुरुषाः सर्वे ये बुद्धशरणं गताः / सदा धर्मामृतं पीत्वा कारां कुर्वन्ति शासने // rm_16.196{84} //
एवं भवां जगच्छास्ता सर्वसत्वानुकम्पया / सद्धर्मं समुपादिश्य तिष्ठतु सर्वदा सुखं // rm_16.197{85} //
इति प्रभाख्य सर्वे ते देवपुत्राः प्रमोदिताः / तं मुनीन्द्रं प्रणत्वा च सुप्रसन्ना दिवं ययुः // rm_16.198{86} //
तत्र सर्वे ऽपि ते देवास् त्रिरत्नशरणं गताः / प्रभेजिरे सदा स्मृत्वा संबोधिपदवांछिनः // rm_16.199{87} //
ततः प्रातः समुत्थाय भगवान् सो ऽनुमोदितः / तं मौद्गल्यायनं शिष्यं समामंत्र्यैवम् अब्रवीत् // rm_16.200{88} //
साधु मौद्गल्य संवृत्तं सफलं ते कृपामते / यत् त्वया प्रकृतं कायं वैयावृत्तं सुशोभितं // rm_16.201{89} //
यन्नाम्ना भिक्षणं कृत्वा बुद्धपूजा कृता त्वया / ते सर्वे देवलोकेषु समुत्पन्नाः प्रतिस्थिताः // rm_16.202{90} //
ते सर्वे ऽद्य निशायां मत्सकाशं समुपगताः / तेषां भद्राशयं दृष्ट्वा सद्धर्मो देशितो मया // rm_16.203{91} //
तत् सद्धर्मामृतं पीत्वा ते सर्वे ऽपि प्रमोदिताः / दृष्टसत्याः प्रक्रान्ताश् च गछन्ति त्रिदशालये // rm_16.204{92} //
तत्र स्वर्गे ऽपि ते सर्वे त्रिरत्नशरणं गताः / प्रभजन्ति सदा नित्यं संबोधिगुणवांछिनः // rm_16.205{93} //
यन्नाम्ना यत् कृतं कर्म तत् फलं ते प्रभुंजते / एवं लोकहितं कर्तुं कर्त्तव्यं पुण्यसाधनं // rm_16.206{94} //
एवं लोकहितं कृत्वा प्रकुर्वन्ति शुभानि ये / ते पुमांसो महासत्वा बोधिसत्वा जिनात्मजाः // rm_16.207{95} //
एवं विज्ञाय लोकानां हितं कर्तुं समुद्यतः / सद्धर्मसाधनेष्व् एव चरितव्यं समाहितः // rm_16.208{96} //
इति शास्त्रा समादिष्टं श्रुत्वा सो ऽर्हं महामतिः / सत्यम् इति प्रतिज्ञाय प्राभ्यनन्दत् प्रबोधितः // rm_16.209{97} //
ततः सो ऽर्हन् महाभिज्ञस् तच् छास्त्रादिष्टम् आदरात् / तद् ज्ञातीनां पुरोगत्वा सर्वम् एवं न्यवेदयत् // rm_16.210{98} //
ते ऽपि च ज्ञातयः सर्वे तेनार्हता निवेदितं / श्रुत्वा सत्यम् इति ज्ञात्वा प्रामोद्यं प्रतिलेभिरे // rm_16.211{99} //
ततस् ते ज्ञातयः सर्वे त्रिरत्नशरणं गताः / सत्कृत्य श्रद्धया नित्यं प्रभेजिरे समादरात् // rm_16.212{100} //
इति मे गुरुणादिष्टं श्रुतं मया नराधिप / लोकप्रबोधनार्थेन तव प्रीत्या प्रकथ्यते // rm_16.213{1} //
एवं विज्ञाय राजेन्द्र प्रेतानां शुभसाधनं / त्रिरत्नभजनं लोकैः कारयितुं त्वम् अर्हसि // rm_16.214{2} //
तथा ते मंगलं नित्यं भवेन् नूनं समंततः / सर्वसत्वहितोद्भुतं महत्पुण्यं हि सत्फलं // rm_16.215{3} //
इति मत्वा महाराज लोकान् सर्वान् प्रबोधयन् / प्रतिष्ठाप्य शुभे धर्मे पालयस्व समाहितः // rm_16.216{4} //
इति शास्त्रा समादिष्टं श्रुत्वाशोकः स भूपतिः / तथेति प्रतिमोदित्वा प्राभ्यनन्दत् सपार्षदः // rm_16.217{5} //
प्रेतावदानं मनुजा इदं ये शृण्वन्ति ये चापि निशामयन्ति / ते सर्व एवं प्रतिलब्धपुण्या भुक्त्वा सुखानि प्रचरन्ति लोके // rm_16.218{6} //
++ इति रत्नाव दानतत्वे प्रेतिकावदानं समाप्तम् ++
xvii kacaṃgalāvadāna अथाशोको महाराजः प्रमोदितः / उपगुप्तं यतिं नत्वा पुनर् एवं अभाषत // rm_17.1{1} //
भदन्त श्रोतुम् इच्छामि पुनर् अन्यत् सुभाषितं / तद्यथा गुरुणादिष्टं तथादेष्टुं च मे ऽर्हति // rm_17.2{2} //
इति संप्रार्थितं राज्ञा श्रुत्वा सो ऽर्हन् यतिः सुधीः / उपगुप्तो नरेंद्रां तं समलोक्यैवम् आदिशत् // rm_17.3{3} //
साधु शृणु महाराज यथा मे गुरुणोदितं / तथाहं ते प्रवक्ष्यामि श्रुत्वा चाप्य् अनुमोदय // rm_17.4{4} //
पुरैकसमये बुद्धः साक्यसिंहो मुनीश्वरः / सर्वज्ञः सुगतः सास्ता धर्मराजो विनायकः // rm_17.5{5} //
श्रावस्त्या निकटे ऽरण्ये जेताश्रमे शुभालये / विहारे श्रावकैः सार्द्धं भिक्षुभिश् चैलकैर् अपि // rm_17.6{6} //
भिक्षुणीभिः सुशिलाभिर् उपासिकागणैर् अपि / उपासकैस् तथान्यैश् च त्रिरत्नशरणागतैः // rm_17.7{7} //
बोधिसत्वगणैश् चापि सत्वोद्धरणतत्परैः / विजहार जगल्लोकं धर्मांशुभिः प्रभासयन् // rm_17.8{8} //
तत् सद्धर्मामृतं पातुं सर्वे लोकाः समागताः / शक्रादयः सुपर्वाणब्रह्मादि लोकपालकाः // rm_17.9{9} //
दैत्या नागाश् च गंधर्वा यक्षकिन्नरराक्षसाः / गरुडा विद्याधराश् चापि सर्वे ते संप्रचेरिरे // rm_17.10{10} //
ततः सर्वे ऽपि ते तत्र पुरस्कृत्य समन्ततः / परिवृत्य ससंघं तम् उपतस्थुः समाहिताः // rm_17.11{11} //
तदा स भगवान् दृष्ट्वा तान् सर्वान् समुपस्थितान् / आदिमध्यान्तकल्याणं दिदेश धर्मम् उत्तमं // rm_17.12{12} //
तत् सद्धर्मामृतं पीत्वा सर्वे ते संप्रमोदिताः / धर्मविशेषम् आज्ञाय प्राभ्यनन्दञ् छूभाशयाः // rm_17.13{13} //
तस्मिन्न् अवसरे तत्र वृद्धारामोदकार्थिनी / कचङ्गलाभिधा कुम्भं धृत्वा कूपान्तिके ऽचरत् // rm_17.14{14} //
तत्र तां भगवान् दृष्ट्वा मत्वा जन्मान्तरप्रसूं / आनंदं समुपामंत्र्य पुर एवम् अभाषत // rm_17.15{15} //
गछानंद त्वम् एतस्यां वृद्धायां प्रार्थयामृतं / भगवांस् तृषितो मातस् तद् अम्बु दीयताम् इति // rm_17.16{16} //
एतद् भगवतादिष्टं श्रुत्वानंदस् तथेति सः / सहसा समुपाश्रित्य तां वृद्धाम् एवम् अब्रवीत् // rm_17.17{17} //
मातर् मे भगवाञ् छास्ता तृषितो ऽयम् इहाधुना / तत् पानीयं प्रदत्वा मे महद्धर्मम् अवाप्नुहि // rm_17.18{18} //
इति संप्रार्थितं तेन श्रुत्वा सा स्थविरा सती / तम् आनन्दं समालोक्य मुदितैवम् अभाषत // rm_17.19{19} //
भदन्त साधु तत्राहम् अमृतपूरितं घटं / स्वयम् एव समानीय दास्यामि व्रजतां भवान् // rm_17.20{20} //
इति तयोदितं श्रुत्वा स आनंदः प्रबोधितः / उपेत्यैवं समाख्याय शास्तुः पुर उपाश्रयत् // rm_17.21{21} //
तदा सा सहसा कृत्वा घटं शुद्धाम्बुपूरितं / स्वयम् एव समादाय तत्राभिसंमुखाचरत् // rm_17.22{22} //
तत्र सा समुपाश्रित्य प्राद्राक्षीत् तं मुनीश्वरं / द्वात्रिंशल्लक्षणाशीतिव्यंजनप्रतिमण्डितं // rm_17.23{23} //
व्यामप्रभाभिभास्वंतं शतसूर्याधिकप्रभं / जंगमम् इव रत्नाभं सौम्यं समन्तभद्रकं // rm_17.24{24} //
सह तद्दर्शणात् तत्र पुत्रस्नेहसमुद्भवाः / स्तनाभ्यां प्रश्रुतास् तस्याः क्षीरधारा निरंतरं // rm_17.25{25} //
ततो धर्मानुभावेन स्मृत्वा पूर्वभवात्मजं / पुत्र पुत्रेति सोक्त्वा तं परिष्वेक्तुम् उपाचरत् // rm_17.26{26} //
तदा ते भिक्षवः सर्वे एवं तां समुपद्रुतां / दृष्ट्वैव सहसोत्थाय प्रधारयितुम् आरभन् // rm_17.27{27} //
तद् दृष्ट्वा भगवां छस्ता सर्वांस् तां सांघिकान् अपि / सहसा समुपामंत्र्य पुनर् एवं समादिशत् // rm_17.28{28} //
मा भिक्षव इमां वृद्धां धारायतात्र मुञ्चत / पंचजन्मशतान्य् एषा माता मे भूयतः पुरा // rm_17.29{29} //
तत्पूर्वजन्ममातेयं पुत्रस्नेहानुभाविनी / समालिंगतुम् ईछन्ती मम गात्रे प्रधावति // rm_17.30{30} //
यद्य् अत्रैषा निवार्य्येते गात्र मे श्लेष्मणाद् अपि / इदानीं रुधिरं ह्य् उष्णं कम्ठाद् अस्याः क्षरेत् क्षणात् // rm_17.31{31} //
कृतज्ञताम् अनुस्मृत्वा दृष्ट्वेमां पुत्रलालसां / कारुण्याद् गात्रसंश्लेषं ददाम्य् अत्रानुकंपया // rm_17.32{32} //
इति शास्त्रा समादिष्टं श्रुत्वा ते सर्वसांघिकाः / तां शास्तुः पूर्वप्रसूं मत्वा व्यवतस्थुः सविस्मयाः // rm_17.33{33} //
तत्क्षणाद् उर्द्धवाहुः सा समीक्ष्य तं मुनीश्वरं / सहसा संप्रधावित्वा समालिंग्य नमच् चिरं // rm_17.34{34} //
ततश् चिरात् समुत्थाय सा वृद्धा साञ्जलिर् मुदा / श्रीघनं तं समालोक्य पुरस् तस्थौ समाहिता // rm_17.35{35} //
तदा स भगवान् दृष्ट्वा तां पुरः समुपास्थितां / आर्य्यसत्यं समारभ्य सद्धर्मं समुपादिशत् // rm_17.36{36} //
तत् सद्धर्मामृतं पीत्वा स वृद्धापि कचंगला / परिशुद्धाशया भद्रा बोधिचर्या प्रबोधिता // rm_17.37{37} //
सत्कायदृष्टिभूमीध्रं विंशतिशिखरोद्गतं / निर्भिद्य ज्ञानवज्रेण दृष्टसत्यप्रबोधिता // rm_17.38{38} //
संप्राप्य श्रोतआपत्तिफलं साक्षत् कृतोद्यमा / सांजलिस् तं मुनिं नत्वा गाथा इमा अभाषत // rm_17.39{39} //
यत् कर्त्तव्यं स्वपुत्रेण मातुर् दुष्करकारिणा / तत् कृतं भवता मे ऽत्र चित्तं मोक्षपरायणं // rm_17.40{40} //
दुर्गतिभ्यः समुद्धृत्य स्वर्गे मोक्षं च सांप्रतं / स्थापितो ऽहं प्रयत्नेन विशेषसंप्रबोधने // rm_17.41{41} //
तथा मे ऽनुग्रहं कृत्वा संबोधिपदसाधनं / प्रव्रज्यासंवरं दातुम् अर्हति सांप्रतं भवान् // rm_17.42{42} //
भवतां शरणं कृत्वा त्रिरत्नभजनोद्यता / प्रव्रज्यासंवरं धृत्वा चरिष्ये ब्रह्मचारिकां // rm_17.43{43} //
इत्य् अर्थितं तया श्रुत्वा भगवान् स मुनीश्वरः / तस्याश् चित्तविशुद्धत्वं मत्वैवं समुपादिशत् // rm_17.44{43!} //
यदि श्रद्धास्ति ते मातः प्रव्रज्यासधने खलु / भर्त्तुर् अनुज्ञां समासाद्य प्रागछ चर संवरं // rm_17.45{44} //
इत्य् आदिष्टं मुनीन्द्रेण श्रुत्वा सा संप्रमोदिता / तथा हीति प्रतिज्ञाय मुनिं नत्वा ततो ऽचरत् // rm_17.46{45} //
तत्र सा सहसा गेहे गत्वा तं स्वामिनं मुदा / कृतांजलिपुटो नत्वा पुरः स्थित्वैवम् अब्रवीत् // rm_17.47{46} //
स्वामि च्छृण्व् अद्भुतं वक्ष्ये यद् अद्याहं जलार्थिनी / घटं धृत्वा वहिर् देशे कूपान्तिकम् उपाचरे // rm_17.48{47} //
तत्र मां समुपायातां दृष्ट्वानन्दो महायतिः / सहसा समुपाश्रित्य भगवते ऽम्बु याचते // rm_17.49{48} //
ततो ऽहं सहसा शुद्धैः पूरयित्वा जलैर् घटं / धृत्वा स्वयं प्रदातुं तत् सभायाम् उपसंचरे // rm_17.50{49} //
तत्र तम् श्रीघनं दृष्ट्वा चित्तं मे स्नेहमोहितं / क्षारधारा स्तनाभ्यां च संप्रश्रुता निरंतरं // rm_17.51{50} //
तत्राहं स्नेहरागांधा स्वात्मजम् इव तं मुनिं / ऊर्द्धवाहुः परिष्वक्तुं प्रधावामि भवान्तरे // rm_17.52{51} //
एवं माम् अभिधावन्तीं दृष्ट्वा ते सांघिका अपि / सर्वे प्रधातुम् इछन्तः प्रधावन्ति समुत्थिताः // rm_17.53{52} //
तदा स भगवान् दृष्ट्वा तान् सर्वान् एवम् उत्थितान् / सहसा समुपामंत्र्य पुर एवं समादिशत् // rm_17.54{53} //
मा इमां सर्वथा यूयं निवारयितुम् अर्हथ / यन् ममेयं पुण्यं च शतजन्मप्रसू किल // rm_17.55{54} //
तद् अत्र मां समालोक्य स्वात्मजस्नेहरागिणी / परिष्वक्तुं समीछन्ती प्रधावतीयम् उन्मुखी // rm_17.56{55} //
यद्य् अत्रेषात्र धार्य्येत पुरतो मे विमूर्छिता / उष्णं रुधिरम् उत्सृज्य मृत्युं यायान् न संशयः // rm_17.57{56} //
एतच् छास्त्रा समादिष्टं श्रुत्वा ते सांघिकास् तथा / प्रबोधिताः प्रणत्वा मां स्वस्वासने समाश्रिताः // rm_17.58{57} //
एवं तेन मुनीन्द्रेण समाख्यातं निशम्य तत् / सर्वं प्रबुध्यमानाहं पुरावृत्तं स्मरामि हि // rm_17.59{58} //
ततो ऽहं विस्मयाक्रांतहृदयात्यभिनंदिता / तत् सद्धर्मामृतं पातुम् उपतिष्ठामि सादरं // rm_17.60{59} //
तत्र स भगवान् दृष्ट्वा माम् एवं समुपस्थितां / आर्यसत्यं समारभ्य समादिशति सद्वृषं // rm_17.61{60} //
तत् सद्धर्मामृतं पीत्वा मनो मे ऽतिप्रमोदिते / भूयो ऽपि तद् रसास्वादतृषितं पातुम् इछते // rm_17.62{61} //
सर्वे ते सांघिकास् तत्र सद्धर्मामृततृप्तिताः / शुद्धात्मानः सुभद्रांगाः परिशुद्धास् त्रिमंडलाः // rm_17.63{62} //
शुद्धशीलाः शुभाचारा दयाकारुण्यभाविनः / सर्वसत्त्वहिताधानाः संसारलाभनिस्पृहाः // rm_17.64{63} //
समाधिधारणीविद्या घटमानाः समाहिताः / साक्षाद् अर्हत्पदप्राप्ता निर्विकल्पा निरंजनाः // rm_17.65{64} //
संबुद्धशरणं कृत्वा संबोधिसाधनोद्यताः / विहारे समुपासीनाः प्रदृश्यन्ते मया प्रभो // rm_17.66{65} //
तत् सभागं चरिं प्राप्तुं प्रव्रज्याव्रतम् इछ्यते / तद् अत्र कृपया भर्त्तस् तद् अनुज्ञां प्रदेहि मे // rm_17.67{66} //
इति भार्यासमाख्यातं श्रुत्वा सो ऽतिदरिद्रितः / साश्चर्यस्तम्भितस् तस्थौ पश्यंस् ताम् एव निश्चलः // rm_17.68{67} //
ततः स सुचिरं भार्यां ताम् एवम् अभिलोकयन् / वियोगशंकया त्रस्तः शनैर् एवम् अभाषत // rm_17.69{68} //
अरे नारि प्रमूधासि किम् एवं त्वं प्रभाषसे / कथम् एवं त्वयाख्यातं को ऽत्र सत्यं प्रतीष्यति // rm_17.70{69} //
यद् असौ भगवान् बुद्धश् चक्रवर्त्तिनृपात्मजः / सर्वत्रैधातुकाधीशो धर्मराजो विनायकः // rm_17.71{70} //
जगच्छास्ता जगन्नाथः सर्वज्ञः सुगतो जिनः / मुनीन्द्रो मारजिद् अर्हन् षडभिज्ञस् तथागतः // rm_17.72{71} //
बोधिसत्वो महासत्वः समंतभद्ररूपकः / दशबलो महेशाख्यो ब्रह्मचारी जितेन्द्रियः // rm_17.73{72} //
सुब्रह्मामरदैत्यादिलोकानां सर्वदेहिनां / शरण्यो माननीयो हि वन्द्यः पूज्यो भवत्य् अपि // rm_17.74{73} //
त्वम् एवं दुर्भगा नारी दरिद्रतातिदुःखिनी / दासी परवती प्रेष्या कृपणा दुःकृताकृतिः // rm_17.75{74} //
कथम् एवंविधायास् ते गर्भे जातो ऽप्य् असौ महान् / बोधिचित्तं समासाद्य प्राचरद् बोधिचारिकां // rm_17.76{75} //
यतः पुण्यविपाकेन पूर्य पारमिताः क्रमात् / अधुना बोधिम् आसाद्य संबुद्धो ऽयं भवत्य् अपि // rm_17.77{76} //
एतत्पुण्यविभागेन कथं ते ईदृशी गतिः / अद्यापीदृगवस्था हि किं चित् सौख्यं न विद्यते // rm_17.78{77} //
तद् अत्र मा वदैवं च तथोक्त्वा नैव शोभसे / कस् तवैतद् वचः श्रुत्वा सुप्रतीतः प्रमाणयेत् // rm_17.79{78} //
धिक् प्रवादाग्निदग्धाङ्गा महत्कष्टाभिखेदीता / वमित्वा रुधिरं ह्य् उष्णं त्वं नूनं मरणं व्रजेः // rm_17.80{79} //
मिथ्यावादाभिसंकल्पाद् अपि हि नरके व्रजेत् / त्वम् अपि च तथा नूनं नरके न व्रजेः कथं // rm_17.81{80} //
नरकेषु सदा नित्यं दुःखानि विविधानि वै / भुक्त्वातिवेदनाक्रान्ता सुचिरं स्थास्यसे ध्रुवं // rm_17.82{81} //
इति भर्त्त्रोदितं श्रुत्वा सा वृद्धा स्त्री कचंगला / विभिन्नहृदया तस्थौ तन् निराशाभिमोहिता // rm_17.83{82} //
तदा सा सुचिरेणैव संप्राप्य चेतनां ततः / भर्त्तारं तं पुनर् दृष्ट्वा बोधयितुम् अभाषत // rm_17.84{83} //
स्वामिन्न् अत्र प्रसीद त्वं माम् एवं वद सर्वथा / सत्यम् एतन् मया प्रोक्तं न मिथ्येति प्रकल्पय // rm_17.85{84} //
यदि मिथ्यावचः स्यान् मे तेनाहं नरके व्रजे / अथ मे वचनं सत्यम् अत्राहं सद्गतिं व्रजे // rm_17.86{85} //
तेनात्रोभयथाप्य् एव वियोगं नौ भवेत् खलु / सर्वेषाम् अपि जंतूनाम् अवश्यं मरणं भवे // rm_17.87{86} //
किम् एवं जीवितेनापि केवलं दुःखभागिना / यत्र न विद्यते धर्म्मं तत्र किं सुखतापि च // rm_17.88{87} //
धर्मार्थम् एव संसारे जन्मदेहार्थसाधनं / धर्मं विना किम् एतैर् नः केवलं दुःखताप्तये // rm_17.89{88} //
इति मत्वा महान्तो ऽपि श्रीमन्तो ऽपि विचक्षणाः / सर्वान् परिग्रहान् त्यक्त्वा प्रव्रजन्ति जिनाश्रमे // rm_17.90{89} //
तथात्राहं परिज्ञाय संबुद्धशरणं गता / सद्धर्मसाधनं कर्त्तुम् इछामि सांप्रतं प्रभो // rm_17.91{90} //
तत् प्रव्रज्याव्रतानुज्ञां प्रदातुं मे समर्हसि / एतत्पुण्यविभागेन त्वं चापि सद्गतिं व्रजेः // rm_17.92{91} //
यदि न दीयते ऽनुज्ञा प्रव्रज्याव्रतसाधने / अकस्मात् मृत्युनाघ्राते तदा कथं निवारये // rm_17.93{92} //
कियत् कालं च जीवेयं वृद्धाहं जिर्णितेन्द्रिया / इति मत्वात्र मां नैवं निवारयितुम् अर्हसि // rm_17.94{93} //
किं चाहं जरती वृद्धा तत् ते किं स्नेहता मयि / वृद्धया दुर्बलाङ्गात्र कार्ये किं नु प्रयोजनं // rm_17.95{94} //
त्वं चापि जरयाक्रान्तो वृद्धो ऽसि दुर्बलेन्द्रियः / तत् किं ते स्नेहरागेण वृद्धाया मयि सांप्रतं // rm_17.96{95} //
अद्यापि किं सुखाशा नौ जराक्रान्तशरीरयोः / अवश्यं मृत्युर् अत्रावां समाक्रम्य ग्रसिष्यति // rm_17.97{96} //
तदाहं किं करिष्यामि त्वं चापि किं करिष्यसि / शोचित्वेव निषत्स्यामि त्वम् अप्य् एवं निषत्स्यसि // rm_17.98{97} //
अवश्यम् अत्र संसारे भावि भावा फलन्त्य् अपि / कस्यापि भूयते नात्र भावि भावान्यथा क्वचित् // rm_17.99{98} //
स्वकृतकर्म एवात्र गृहीत्वा सर्वजंतवः / याता यान्ति च यास्यंति देहं त्यक्त्वा यमालयं // rm_17.100{99} //
तत्र यमाज्ञया सर्वे स्वकृतकर्मभागिनः / धर्मिणः सद्गतिं याताः पापिनो दुर्गतिं गताः // rm_17.101{100} //
एवं सर्वे इमे सत्वाः स्वदैवफलभोगिनः / ससुखानि च दुःखानि भुक्त्वा भ्रमन्ति सर्वदा // rm_17.102{1} //
एवं स्वामिन् परिज्ञाय सर्वदा सुखवांछिभिः / धर्मम् एवात्र संसारे कर्त्तव्यं यत्नतः सदा // rm_17.103{2} //
धर्मन् तु प्रवरं श्रेष्ठं सौगतसंवरोद्भवं / इति बुद्धैः समाख्यातं त्वयाप्य् एतच् छ्रुतं न किं // rm_17.104{3} //
तस्माद् अहं मुनीन्द्रस्य शासने शरणं गतः / प्रव्रज्यासंवरं धर्त्तुम् इछामि सांप्रतं प्रभो // rm_17.105{4} //
एतत्पुण्यविपाकेन परिशुद्धास् त्रिमण्डलाः / साक्षाद् अर्हत्पदं प्राप्य निर्वृतिपदम् आप्नुयां // rm_17.106{5} //
एतद् धर्मविभागेन त्वं चापि सद्गतिं व्रजेः / इति मत्वा तथा स्वामिंस् तद् अनुज्ञां ददातु मे // rm_17.107{6} //
त्वम् अत्र स्वगृहे स्थित्वा त्रिरत्नशरणं गतः / यावज् जीवं सुखं भुक्त्वा शुभे चर सदादरात् // rm_17.108{7} //
एतत्पुण्यविपाकेन त्वं चाप्य् एवं सुधीर् भवेः / ततस् ते सौगते धर्मे वांछा जायेत चेतसि // rm_17.109{8} //
ततस् त्वं श्रद्धया गत्वा संबुद्धशासने स्वयं / प्रव्रज्यासंवरं प्राप्य साक्षाद् अर्हत्वम् आप्नुयाः // rm_17.110{9} //
इति मत्वा भवान् स्वामिन् सद्धर्मं यदि वाञ्छति / तत् प्रव्रज्याव्रतानुज्ञां मह्यं प्रदातुम् अर्हति // rm_17.111{10} //
इति तयोदितं श्रुत्वा स दरिद्रः प्रबोधितः / तां भार्यां सुचिरं दृष्ट्वा शनैर् एवम् अभाषत // rm_17.112{11} //
हा प्रिये कथम् एव त्वं मां विहातुं समिछसि / किम् अत्राहं वदिष्यामि त्वयैवं प्रतिभाषते // rm_17.113{12} //
यदि ते ऽस्ति मनो धैर्य्यं कृत्वा श्रद्धान्विताश्रया / प्रव्रज संवरं धृत्वा चर सत्यसमाहिता // rm_17.114{13} //
इति भर्त्रोदितं श्रुत्वा सा वृद्धापि कचंगला / भर्त्तारं तं प्रणत्वैवं ततो ऽचरत् प्रमोदिता // rm_17.115{14} //
ततः सा सहसा गत्वा तत्राश्रमे उपागता / श्रीघनं तं समालोक्य पुरतः समुपाचरत् // rm_17.116{15} //
तत्र तत् पुरतो गत्वा साञ्जलिः सा प्रमोदिता / मुनीन्द्रं तं प्रणत्वैवं प्रव्रज्यां समयाचत // rm_17.117{16} //
भगवन् नाथ सर्वज्ञ भवतां शरणं व्रजे / तद् भवां कृत्वा कृपया मह्यं प्रव्रज्यां दातुम् अर्हति // rm_17.118{17} //
तयेति प्रार्थितं श्रुत्वा भगवान् स मुनीश्वरः / सव्येन पाणिना तस्या वृद्धायाः शिरसि स्पृशन् // rm_17.119{18} //
एहि मतश् चर ब्रह्मचारिकां त्वं समाहिता / इत्य् उक्त्वा तां समागृह्य सांघिके पुनर् अब्रवीत् // rm_17.120{19} //
गछ मात प्रजापत्या गौतम्याः शरणं व्रज / सार्हन्ती भिक्षुणीमाता प्रव्रज्यां ते प्रदास्यति // rm_17.121{20} //
इत्य् आदिष्टं मुनीन्द्रेण श्रुत्वा सा प्रतिनंदिता / तथेत्य् आश्रुत्य शास्तारं तं प्रणत्वा ततो ऽचरत् // rm_17.122{21} //
तत्र सा समुपासृत्य दृष्ट्वा तां गौतमीं मुदा / उपेत्य सांजलिर् नत्वा प्रव्रज्यां समयाचत // rm_17.123{22} //
मातर् अत्र समायामि भवत्याः शरणं मुदा / तद् भवन्ती जगन्माता प्रव्रज्यां प्रददातु मे // rm_17.124{23} //
तयेति प्रार्थितं श्रुत्वा गौतमी सानुमोदिता / हस्तेन शिरसि स्पृष्ट्वा सांघिकतां समग्रहीत् // rm_17.125{24} //
तत्र साशु प्रजापत्यां प्रव्रजिता यथाविधिः / मुण्डिता खिक्खिरीपात्रहस्ता काखायचीवरा // rm_17.126{25} //
सौम्येन्द्रिया सुभद्रंगा वृद्धापि सा कचंगला / भिक्षुणीगणमध्यस्था शान्तरूपात्यशोभत // rm_17.127{26} //
ततः सा भिक्षुणी शास्तु गौतम्याश् च प्रसादतः / समाधिधारणीविद्याध्ययनाभिसमुद्यता // rm_17.128{27} //
हित्वाविद्यागणं प्राप्तविद्याभिज्ञाविशारदा / प्रतिसंविद्गुणाद्यागु परिशुद्धाकृतिर् वभौ // rm_17.129{30!} //
अथ सा परिविज्ञाय भवचक्रं चलाचलं / विदित्वा संस्कारगतीश् चाभिविघातिनीस् ततः // rm_17.130{31} //
सर्वक्लेशगणां जित्वा परिशुद्धस् त्रिमण्डला / साक्षाद् अर्हत्पदं प्राप्य वभूव ब्रह्मचारिणी // rm_17.131{32} //
तदा सा निर्जितक्लेशा निर्विकल्पा निरंजना / चंदनकल्पसौरभ्या समलोष्ठसुवर्णिका // rm_17.132{33} //
संसारभोगसत्कारनिष्पृहाकाशसन्निभा / सर्वसत्वहिताधाना सर्वसूत्रांतपारगा // rm_17.133{34} //
सदेवासुरलोकानां त्रिधातुकनिवासिनां / वंद्या पूज्याभिमान्या च वभूव सा सुभाषिणी // rm_17.134{35} //
यदा स भगवञ् छास्ता भिक्षुणीनां सुभाषितं / संक्षेपेण समुद्दिश्य ध्यानागारे समाश्रयत् // rm_17.135{36} //
तदा सा भिक्षुणी तत्र कचंगला सुभाषिणी / भिक्षुणीनां सभामध्ये सुत्रान्तं समुपादिशत् // rm_17.136{37} //
तच् छ्रुत्वा भगवांस् तत्र तया सूत्रांतदेशिते / सर्वान्स् तान् सांघिकान् भिक्षून् समामंत्र्यैवम् आदिशत् // rm_17.137{38} //
एषो ऽग्रा भिक्षवो माता भिक्षुणीनां ममाश्रमे / सूत्रान्तभागकर्तॄणां यद् उतेयं कचंगला // rm_17.138{39} //
इत्य् आदिष्टं मुनीन्द्रेण श्रुत्वा सर्वे ऽपि सांघिकाः / सविस्मया मुनीन्द्रं तं पप्रछुस् तत् पुराकृतं // rm_17.139{40} //
भगवन्न् अनया कर्मं किं प्रकृतं पुराकृतं / इमान् सर्वान् सभासीनान् प्रबोधयितुम् अर्हति // rm_17.140{41} //
येनेयम् शासने बौद्धे वृद्धा प्रव्रजिताधुना / साक्षाद् अर्हत्वम् आसाद्य भवति ब्रह्मचारिणी // rm_17.141{42} //
किं वानया पुराकर्म कृतं कुत्र कदा कथं / सूत्रान्तभागकर्तॄणां येनाग्रेयं भवत्य् अपि // rm_17.142{43} //
किंचापि प्रकृतं कर्मं पुरानया कदा कथं / येनात्र पश्चिमे गर्भावासे न धारितो भवान् // rm_17.143{44} //
एतत् सर्वैः परिज्ञाय भगवान्न् अस्याः पुराकृतं / इमान् सर्वान् सभासीनान् प्रबोधयितुम् अर्हति // rm_17.144{45} //
इति तैर् भिक्षुभिः सर्वैः प्रार्थिते स मुनीश्वरः / सर्वांस् तान् सांघिकान् दृष्ट्वा समामंत्र्यैवम् आदिशत् // rm_17.145{46} //
शृणुत भिक्षवः सर्वे यद् यत् कृतं पुरानया / तत् तत् सर्वं प्रवक्ष्यामि युष्माकं चित्तबोधने // rm_17.146{47} //
पुरा मे बोधिसत्वस्य बोधिचर्यानुचारिणः / पंचजन्मशतान्य् एषा जनन्य् आसीन् निरंतरं // rm_17.147{48} //
तदा मे ददतो दानम् अन्तरायः कृतो ऽनया / तेनाद्यापि दरिद्रेयं दुर्भगा च भवत्य् अपि // rm_17.148{49} //
प्रव्रज्यायै तदै चैषा वहुधा प्रार्थिता मया / नैवानुज्ञां ददौ मह्यं विघ्नम् एव व्यधाद् धठात् // rm_17.149{50} //
एतत्कर्मविपाकेन वृद्धैषा दुःखिनी सती / प्रव्रज्यासंवरं प्राप्ता चरति मम शासने // rm_17.150{51} //
यदि नैषा तदा दानं विघ्ना ममाकरिष्यति / नैषाधुना दरिद्रात्र भवति हि कदा चन // rm_17.151{52} //
प्रव्रज्यायां च मे विघ्नं यदि नैषाकरिष्यत / अचरिष्यद् व्रतं वाल्ये न तु वृद्धात्र सांप्रतं // rm_17.152{53} //
यन् ममैवं कृतं विघ्नं दाने व्रते तदानया / तेनाधुना दरिद्रैषा वृद्धा व्रतं चरत्य् अपि // rm_17.153{54} //
यत् तदा सुकृतं किं चित् प्रकृतं नानया पुरा / तेनाहं पश्चिमे गर्भावासे ऽधुना न धारितः // rm_17.154{55} //
यत् सा माया महादेवी महापुण्यार्थसाधिनी / तेनाहं पश्चिमे गर्भावासे तयात्र धारितः // rm_17.155{56} //
भूयो ऽप्य् एषा पुरा तत्र वारणस्यां द्विजात्मजाः / क्लेशाग्निपरिदग्धांगा दरिद्रा कृपणाभवत् // rm_17.156{57} //
तदा तत्र मुनीन्द्रस्य काश्यपस्य जगद्गुरोः / शासने शरणं गत्वा प्रव्रजिताचरद् व्रतं // rm_17.157{58} //
तत्र स सर्वशास्त्रार्थकोविदातिविचक्षणा / सर्वसूत्रान्तसद्धर्मं भिक्षुणीनाम् उपादिशत् // rm_17.158{59} //
तदा सा भिक्षुणी तत्र किञ्चित् कार्यार्थरोषिताः / सर्वास् ता भिक्षुणीर् दासीवादेन पर्यभाषत // rm_17.159{60} //
एतत्कर्मविपाकेन सैषाधुनातिदुःखिता / परसेवाकरा दासी भवति दुर्भगाकृतिः // rm_17.160{61} //
यच् चानया तदा तत्र विद्याभ्यासीकृतं मुदा / तेनैषा सहसार्हन्ती भवति ब्रह्मचारिणी // rm_17.161{62} //
यच् चाप्य् एसा तदा तत्र सूत्रान्तं समुपादिशत् / तेन सूत्रान्तवक्तानाम् अग्रा भवति सांप्रतं // rm_17.162{63} //
एवं हि भिक्षवः सर्वे मन्यध्वं कर्मसंभवं / सुखं दुःखं च संसारे भ्रमतां सर्वदेहिनां // rm_17.163{64} //
येनैव यत् कृतं कर्मं तेनैवं भुज्यते फलं / अभुक्तं क्षीयते नैव कर्मं क्वापि कदा चन // rm_17.164{65} //
नाग्निभिर् दह्यते कर्मं क्लिद्यते नोदकैर् अपि / वायुभिः शुष्यते नैव क्षीयते न च भूमिषु // rm_17.165{66} //
अह्यथापि भवेन् नैव विपाके कर्मणः फलं / यद् उप्तं भूतले बीजं तद् एव सूयते फलं // rm_17.166{67} //
अन्यथा न भवेत् क्वापि कृतं कर्मं फलं भवे / शुभस्य कर्मणः पाके शुभतैव सदा भवे // rm_17.167{68} //
कृष्णस्य कृष्णतैव स्या मिश्रितस्यापि मिश्रितं / एवं विज्ञाय कृष्णानि विहाय मिश्रितानि च // rm_17.168{69} //
शुभ एव सदाप्य् अत्र चरितव्यं शुभार्थिभिः / शुभेन सद्गतिं यायात् कृष्णेन दुर्गतिं सदा // rm_17.169{70} //
मिश्रितेन तथोहे च गतीर् यायाद् भवेद् ध्रुवं / इति मत्वात्र संसारे सर्वदा शुभवाञ्छिभिः / त्रिरत्नभजनं कृत्वा चरितव्यं शुभे सदा // rm_17.170{71} //
ये भजन्ति सदा बुद्धं न ते गच्छन्ति दुर्गतिं / सर्वदा सद्गतौ भद्रं कृत्वा यान्ति जिनालयं // rm_17.171{72} //
ये शृण्वन्ति सदा धर्म्मं न यान्ति ते ऽपि दुर्गतिं / सर्वदा भद्रसौख्यानि भुक्त्वा यान्ति सुखावतीं // rm_17.172{73} //
दानं ददन्ति ये संघे ते ऽपि न यान्ति दुर्गतिं / सर्वदा शुभसौख्यानि भुक्त्वा यान्ति जिनाश्रयं // rm_17.173{74} //
एवं मत्वात्र संसारे त्रिरत्नं शरणं गताः / सत्कृत्य श्रद्धया नित्यं भजध्वं समुपास्थिताः // rm_17.174{75} //
त्रिरत्नेषु कृतं कर्मं तद्विपाके महत्फलं / अप्रमेयम् असंख्येयं संबोधिपदसाधनं // rm_17.175{76} //
एतत्पुण्यानुभावेन बोधिसत्वाः सदा भवे / सर्वसत्वहितं कृत्वा प्रचरन्ति यथेछया // rm_17.176{77} //
नानारूपधराः सर्वे सत्वार्थसाधनोद्यताः / सद्धर्मं समुपादिश्य पालयन्ति जगत्त्रयं // rm_17.177{78} //
क्रमात् पारमिताः सर्वाः परिपूर्य शुभान्विताः / सर्वक्लेशगणाञ् जित्वा परिशुद्धास् त्रिमण्डलाः // rm_17.178{79} //
जित्वा मारगणाञ् चापि प्राप्य संबोधिम् उत्तमां / सर्वत्र धर्मसोत्कृत्वा ततो निर्वृतिम् आययुः // rm_17.179{80} //
ये ऽतीता जिनास् ते ऽपि त्रिरत्नभजनोद्यमात् / क्रमाद् बोधिं समासाद्य निर्वृतिपदम् आगताः // rm_17.180{81} //
वर्त्तमाना जिनास् ते ऽपि त्रिरत्नभजनोद्भवैः / पुण्यैर् बोधिं समासाद्य गछेयुर् निर्वृतिं तथा // rm_17.181{82} //
अनागता जिनास् ते ऽपि त्रिरत्नभजनोद्भवैः / पुण्यैर् एवं क्रमाद् बोधिं प्राप्य यास्यन्ति निर्वृतिं // rm_17.182{83} //
अहं चापि तथा नूनं त्रिरत्नभजनोद्यमी / एतत्पुण्यानुभावेन बोधिं प्राप्नोमि सांप्रतं // rm_17.183{84} //
तथाहम् अपि सर्वत्र कृत्वा धर्ममयं जगत् / सर्वान् बोधौ नियोज्यैवं यास्यामि निर्वृतिं ध्रुवं // rm_17.184{85} //
एवं ये ये भजन्त्य् अत्र त्रिरत्नशरणं गताः / ते ते सर्वे ऽपि संबोधिं प्राप्य निर्वृतिम् आययुः // rm_17.185{86} //
इति मत्वात्र संसारे निर्वृतिपदवांछिनः / त्रिरत्नभजनं कृत्वा प्रचरध्वं शुभे सदा // rm_17.186{87} //
तथा कृत्वात्र सद्धर्मंभुक्त्वैव सत्सुखान्य् अपि / क्रमाद् बोधिं समासाद्य निर्वृतिं समवाप्स्यथ // rm_17.187{88} //
इत्य् आदिष्टं मुनीन्द्रेण श्रुत्वा सर्वे ऽपि ते जनाः / सांघिकाश् च तथेत्य् उक्त्वा प्राभ्यनंदत् प्रबोधिताः // rm_17.188{89} //
तदा तत्र जनाः सर्वे त्रिरत्नशरणं गताः / सत्कृत्य श्रद्धया नित्यं प्रभेजिरे ऽनुमोदिताः // rm_17.189{90} //
एतत्पुण्यानुभावैस् तु तदा समंततः / सर्वदा मंगलोत्साहं बभुव निरुपद्रवं // rm_17.190{91} //
इति मे गुरुणाख्यातं श्रुतं मया तथोच्यते / श्रुत्वा राजन्स् त्वम् अप्य् एवं त्रिरत्नं भज सर्वदा // rm_17.191{92} //
प्रजाश् चापि तथा धर्मं श्रावयित्वा प्रबोधयन् / त्रिरत्नभजनं नित्यं कारयितुं सदार्हसि // rm_17.192{93} //
तथा ते मंगलं नित्यं सर्वत्रापि भवेद् ध्रुवं / क्रमात् पारमिता पूर्य बोधिं चापि समाप्स्यसि // rm_17.193{94} //
इति तेनार्हतादिष्टं श्रुत्वाशोकः स भूपतिः / तथा हीति प्रतिज्ञाय प्राभ्यनन्दन् सपार्षदः // rm_17.194{95} //
कचंगलाया अवदानम् एतच् छृण्वन्ति ये श्रावयतीह यश् च / विहाय पापं खलु ते ऽपि सर्वे भुक्त्वा सुखान्य् एव सुगतिं व्रजन्ति // rm_17.195{96} //
++ इति रत्नमालायाम् अवदानतत्वे कचंगलावदानं समाप्तम् ++
xviii dhanikāvadāna अथाशोको महीपालः कृतांजलिपुटो मुदा / उपगुप्तं गुरुं नत्वा पुनर् एवं समब्रवीत् // rm_18.1{1} //
भदन्त श्रोतुम् इच्छामि पुनर् अन्यत् सुभाषितं / तद्यथा गुरुणादिष्टं तथादेष्टुं च मे ऽर्हति // rm_18.2{2} //
इति संप्रार्थितं राज्ञा श्रुत्वा सो ऽर्हन् सुधीर् यतिः / उपगुप्तो नरेन्द्रं तं समालोक्यैवम् अब्रवीत् // rm_18.3{3} //
शृणु राजन् समाधाय यथा मे गुरुणोदितं / तथाहं संप्रवक्ष्यामि तव पुण्यप्रवृद्धये // rm_18.4{4} //
पुरैकसमये स श्रीशाक्यसिंहो मुनीश्वरः / सर्वज्ञः सुगतः शास्ता धर्मराजो विनायकः // rm_18.5{5} //
भिक्षुभिः श्रावकैः सार्द्धं भिक्षुणीभिश् च चैलकैः / उपासकै महाश्राद्धैर् उपासिकागणैर् अपि // rm_18.6{6} //
बोधिसत्वगणैश् चापि महासत्वैः शुभार्थिभिः / सर्वसत्वहितार्थाय बोधिचर्यां प्रकाशिभिः // rm_18.7{7} //
वृजिषु पुरि वैशाल्यां मर्कटाख्यह्रदान्तिके / कूटागारगुहावासे विजहार प्रभासयन् // rm_18.8{8} //
तत् सद्धर्मामृतं पातुं तत्र सर्वे समागताः / ब्रह्मशक्रादिदेवेन्द्रा लोकपाला दिगास्थिताः // rm_18.9{9} //
ग्रहाः सिद्धगणाः साध्या यक्षगंधर्वकिन्नराः / गरुडा नागराजाश् च विद्याधराश् च दानवाः // rm_18.10{10} //
राक्षसाः सगणाश् चैव ऋषयो ब्रह्मचारिणः / ब्रह्मणाः क्षत्रिया भूपा राजानो ऽपि नराधिपाः // rm_18.11{11} //
तथा राजकुमाराश् च वैश्या मंत्रिजना अपि / गृहस्थाः श्रेष्ठिनः पौराः सार्थवाहा महाजनाः // rm_18.12{12} //
वणिजः शिल्पिनश् चापि तथान्ये ऽपि शुभार्थिनः / ग्राम्या जानपदाश् चापि तथा कार्पटिका अपि // rm_18.13{13} //
एवम् अन्ये ऽपि लोकाश् च सद्धर्मामृतवांछिनः / सर्वे ते समुपायातास् तत्राद्राक्षुस् तम् ईश्वरं // rm_18.14{14} //
सभामध्यासनासीनं सर्वसंघपुरस्कृतं / श्रीघनं तं समालोक्य सर्वे ते समुपाश्रिताः // rm_18.15{15} //
नत्वा प्रदक्षिणीकृत्य समभ्यर्च्य यथाक्रमं / पुनः साञ्जलयो नत्वा परिवृत्य समंततः / तत् सद्धर्मामृतं पातुम् उपतस्थुः समाहिताः // rm_18.16{16} //
तदा स भगवान् दृष्ट्वा तान् सर्वान् समुपस्थितान् / आदिमध्यान्तकल्याणीं बोधिचर्यां समादिशत् // rm_18.17{17} //
तदार्यधर्मम् आकर्ण्य सर्वे लोकाः प्रमोदिताः / तदा ते धर्मवैशेष्यं मत्वा प्रतिननंदिरे // rm_18.18{18} //
तदा तत्र महापूर्य्यां वैशाल्यां पौरिको महान् / गृहस्थो धनिको नाम श्रीमान् सर्वगुणी सुधीः // rm_18.19{19} //
श्राद्धो भद्राशयो दाता शुद्धशीलो विचक्षणः / सर्वसत्वहिताधानाद् आसीत् सत्पुरुषोत्तमः // rm_18.20{20} //
पत्नी धर्मसखी तस्य शीलवत्यभिधाभवत् / तनयश् च वंदान्याख्यः सत्यवत्यभिधा स्नुषा // rm_18.21{21} //
तदा तत्र द्विजा सर्वे भक्तिमन्तो जगद्गुरोः / पूजानिमंत्रणे चक्रुः समयं संमतास् तथा // rm_18.22{22} //
भवन्तो यन् मुनीन्द्रो ऽयम् अत्रास्माकं हितेछया / सद्धर्मं समुपादेष्टुं ससंघः समुपागतः // rm_18.23{23} //
तद् अस्माभिर् मुनीन्द्रो ऽयं पूजनीयं समादरात् / अतो निमंत्रणीयो ऽत्र सर्वैः संभूय नान्यथा // rm_18.24{24} //
एकश् चेत् कुरुते द्रव्यमदाद् अस्य निमंत्रणं / सर्वैर् निर्वासनीयो ऽसौ यतो ऽन्यधर्मविघ्नकृत् // rm_18.25{25} //
तदा स धनिको ऽज्ञात्वा समयं तैस् तथा कृतं / स्वयम् एव मुनीन्द्रं तं पूजयितुं समिछत // rm_18.26{26} //
ततः स धनिकः श्रीमान् दिव्यसंपत्समृद्धिमान् / स्वयं निमंत्रणं कर्त्तुं ससंघस्य मुनेर् ययौ // rm_18.27{27} //
तत्र स समुपासृत्य नत्वा तं श्रीघनं मुदा / ससंघं तत् पुरः स्थित्वा प्रार्थयद् एव सांजलिः // rm_18.28{28} //
भगवन् नाथ सर्वज्ञ भगवंतं ससांघिकं / पूजयितुं समिछामि पश्यन् मे ऽनुग्रहं कुरु // rm_18.29{29} //
इति संप्रार्थितं तेन भगवान् स मुनीश्वरः / तथा हीति प्रतिश्रुत्वा तूष्णीभूत्वाध्युवास तत् // rm_18.30{30} //
तदा ते ब्राह्मणाः सर्वे संभूय समुपागताः / भगवतश् चरणौ नत्वा चक्रुर् भोज्यनिमंत्रणं // rm_18.31{31} //
तच् छ्रुत्वा भगवान् प्राह तान् दृष्ट्वा भक्तिमानसान् / पूर्वम् एव ससंघाहम् अनेनोद्य निमंत्रितः // rm_18.32{32} //
एतद् आकर्ण्य सर्वे ते ब्राह्मणा भेदिताशयाः / परं प्रतीक्ष्यमानाश् च शनैः स्वस्वगृहं ययुः // rm_18.33{33} //
ततः स धनिको मत्वा मुनीन्द्रेणाध्युवासितं / मुदितस् तं मुनिं नत्वा सहसा स्वगृहं ययौ // rm_18.34{34} //
तत्र स स्वगृहे गत्वा वांधवेष्टजनैस् सह / तदर्हभोज्यसामग्रीं सहसा समसाध्ययत् // rm_18.35{35} //
ततो भोज्यस्थलं तत्र शोधयित्वा समन्ततः / रत्नध्वजैर् वितानैश् च स पताकैर् अमण्डयत् // rm_18.36{36} //
ततो यथाक्रमं तत्र दिव्यरत्नमयानि च / स्वासनानि समास्तीर्य्य सुगंधीः समधूपयत् // rm_18.37{37} //
ततः स प्रातर् उत्थाय स्नात्वा शुद्धाम्वरावृतः / पूजापाद्यार्घसामग्रीं प्रतिष्ठाप्य प्रमोदितः // rm_18.38{38} //
सवांधवेष्टजनस् तत्र कूटागारे समाचरत् / साञ्जलिस् तं मुनिं नत्वा प्रार्थयद् एवम् आदरात् // rm_18.39{39} //
भगवन् नाथ सर्वज्ञ समयो वर्त्तते ऽधुना / तत् ससंघो ममावासे विजयितुं समर्हसि // rm_18.40{40} //
इति संप्रार्थिते तेन भगवान् स ससांघिकः / खिक्खिरीपात्रम् आदाय प्रतस्थे चीवरावृतः // rm_18.41{41} //
तत्र स भगवान् मार्गे कृत्वा भद्रं समन्ततः / प्रभासयन् क्रमेणैवं वैशाल्यां समुपविशत् // rm_18.42{42} //
तथायातं मुनीन्द्रं तं श्रीघनं सांघिकान्वितं / दृष्ट्वा वैशालिकाः लोकाः सर्वे ऽपि समपूजयन् // rm_18.43{43} //
एवम् अभ्यर्च्यमानो ऽभिवंद्यमानो ऽभिनंदितः / भासयन् भद्रतां कृत्वा संघैः सह समाचरत् // rm_18.44{44} //
तत्र तस्य गृहे गत्वा ससंघः स मुनीश्वरः / तद् दत्तं पाद्यम् आदाय स्वासने समुपाश्रयत् // rm_18.45{45} //
ततस् ते सांघिकाश् चापि सर्वे तत्र यथाक्रमं / तद् दत्तं पाद्यम् आदाय स्वस्वासने समाश्रयन् // rm_18.46{46} //
ततः स धनिको दृष्ट्वा ससंघं तं मुनीश्वरं / स्वस्वासने समासीनं पूजाङ्गैः समपूजयत् // rm_18.47{47} //
ततो दिव्योपचारैस् तं भगवन्तं ससांघिकं / सुप्रणीतै रसोपेतैर् भोजनैः समतोषयत् // rm_18.48{48} //
तद्भोज्यं सुरसं भुक्त्वा भगवान् स ससांघिकः / अमृतैर् इव संतुष्टस् तृप्तिं ययौ प्रमोदितः // rm_18.49{49} //
असंघैः तं मुनिं तृप्तं दृष्ट्वा स धनिको मुदा / ततो ऽपनीय पात्राणि तद्धस्तादीन्य् अशोधयत् // rm_18.50{50} //
ततः शुद्धौषधीपूगताम्वूलादि रसायनं / बुद्धप्रमुखसंघेभ्यो मुदितः स स्वयं ददौ // rm_18.51{51} //
ततः स हर्षितो नत्वा तं मुनीन्द्रं ससांघिकं / पुरतः साञ्जलिः स्थित्वा प्रार्थयद् एवम् आदरात् // rm_18.52{52} //
भगवन् नाथ सर्वज्ञ भवतां शरणं गतः / भक्त्यैव भजनं कुर्वे तत् क्षमस्वापराधतां // rm_18.53{53} //
सदैवं कृपया दृष्ट्य पश्यन् भवान् ससांघिकः / ममानुग्रहम् आधाय त्रातुम् अर्हति सर्वथा // rm_18.54{54} //
ततः स भगवाञ् छास्ता ससांघिको ऽनुमोदितः / धनिकं तं समालोक्य नंदयन्न् एवम् आदिशत् // rm_18.55{55} //
गृहपते सदा नित्यम् आरोग्यम् अस्तु वो ध्रुवं / बोधिप्रणिधिसिद्धिश् च भूयाद् भद्रं च सर्वदा // rm_18.56{56} //
ततस् तस्य प्रिया भार्या शीलवत्य् अनुमोदिता / साञ्जलिः प्रणतिं कृत्वा प्रार्थयत् तं मुनीश्वरं // rm_18.57{57} //
भगवन् नाथ सर्वज्ञ श्वश् चात्र भवताम् अहं / पूजां कर्तुं समिच्छे तद् अनुग्रहीतुम् अर्हति // rm_18.58{58} //
तयेति प्रार्थिते दृष्ट्वा भगवान् स तद् आशयं / श्रद्धान्वितं प्रतिज्ञाय तुष्णीभूत्वाध्युवास तत् // rm_18.59{59} //
ततः स भगवाञ् छास्ता समुत्थाय ससांघिकः / भासयं भद्रतां कृत्वा स्वाश्रमे च समाश्रयत् // rm_18.60{60} //
ततः परदिने प्रातः स्नात्वा शुद्धांवरावृता / साधित्वा सर्वसामग्रीं सा दूतं प्रेषयन् मुनौ // rm_18.61{61} //
स दूतः सहसा गत्वा विहरे तं मुनीश्वरं / ससंघं सांजलिर् नत्वा पुनर् एवं न्यवेदयत् // rm_18.62{62} //
भगवन् नाथ सर्वज्ञ समयो वर्त्तते ऽधुना / तत् ससंघो भवांस् तत्र सहसागन्तुम् अर्हति // rm_18.63{63} //
ततः स भगवान्न् एवं भद्रं कृत्वा ससांघिकः / धनिकस्य गृहे गत्वा पाद्यं गृह्यासने ऽविशत् // rm_18.64{64} //
तत्रासने समासीनं ससंघं तं मुनीश्वरं / दृष्ट्वा शीलवती साथ यथाविधि समर्चयत् // rm_18.65{65} //
ततश् च सा मुदिता सर्वं संघं बुद्धादिकं तथा / दिव्योपचारसंयुक्तैर् भोजनैः समतोषयत् // rm_18.66{66} //
ततः संतर्प्पितं दृष्ट्वा शोधयित्वा करादिकं / दत्वा ताम्वुरपूगादिं नत्वा सा समुपाश्रयत् // rm_18.67{67} //
ततः स भगवान् तस्मै दत्वाशिषं ससांघिकः / समुत्थाय ततश् चैवं स्वविहारे समाश्रयत् // rm_18.68{68} //
तथा सर्वे तदान्यो ऽपि धनिकस्यात्मजः सुधीः / तत् परेद्यु विहारं तं गत्वा नत्वा न्यमंत्रयत् // rm_18.69{69} //
भगवान्न् अपि तस्यैवं दृष्ट्वा श्रद्धान्वितं मनः / तथेति प्रतिमोदित्वा तूष्णीभूत्वाध्युवास च // rm_18.70{70} //
ततः सस् तं मुनिं नत्वा स्वगृहं सहसागतः / बांधवैः सर्वसामग्रीं मुदितः समसाधयत् // rm_18.71{71} //
ततः प्रातः समुत्थाय स्नात्वा शुद्धाम्वारावृतः / विहारे समुपासृत्य नत्वैवं मुनिम् अब्रवीत् // rm_18.72{72} //
भगवन् नाथ सर्वज्ञ समयो वर्त्तते ऽधुना / तत् संघो भवान् गेहे ममागन्तुं समर्हति // rm_18.73{73} //
ततः ससंघ उत्थाय भगवान् स तथाचरत् / तद्गृहे पाद्यम् आदाय तत्रासने समाश्रयत् // rm_18.74{74} //
ततः स मुदितो बुद्धप्रमुक्बं सर्वसांघिकं / समभ्यर्च्य तथा दिव्यभोजनैः समतोषयत् // rm_18.75{75} //
ततो ऽपनीय पात्राणि शोधयित्वा करादिकं / दत्वा पूगादिकं नत्वा पुरतः समुपाश्रयत् // rm_18.76{76} //
पुनः स सांजलिर् नत्वा प्रकृत्वा च क्षमार्थनां / ससंघं तं मुनीन्द्रं तम् संदृष्ट्वैवं समुपाश्रयत् // rm_18.77{77} //
तदा तस्य स्नुषा चापि सत्यवती प्रमोदिता / भगवंतं ससंघं तं प्रणत्वैवं न्यमंत्रयत् // rm_18.78{78} //
भगवान्न् अपि तस्याश् च दृष्ट्व श्रद्धान्वितं मनः / तथेति प्रतिमोदित्वा तुष्णीभूत्वा रधां व्यधात् // rm_18.79{79} //
ततः स भगवांस् तस्मै दत्वाशिषं ससांघिकः / तथा कृत्वा शुभं लोके गत्वाश्रमे समाश्रयत् // rm_18.80{80} //
ततः सापि तथा प्रातः स्नात्वा शुद्धाम्वरावृता / दूतेनापि मुनीन्द्रं तं ससंघं समचोदयत् // rm_18.81{81} //
तथा स भगवांश् चापि ससांघिकः समुत्थितः / प्रचरन् भद्रतां कृत्वा तस्या गेहे समाविशत् // rm_18.82{82} //
तत्र पाद्यार्घम् आदाय भगवान् स ससांघिकः / शुभासने समासीनस् तस्थौ तत्र प्रभासयन् // rm_18.83{83} //
तथास्थितं मुनीन्द्रं तं दृष्ट्वा संप्रमोदिता / यथाविधि समभ्यर्च्य तथा भोज्यैर् अतोषयत् // rm_18.84{84} //
तातस् तं सुगतं तृप्तं ससांघिकं समीक्ष्य सा / तत्रापनीय पात्राणि हस्तादीं पर्यशोधयत् // rm_18.85{85} //
ततः पूगादिकं दत्वा प्रार्थयित्वा क्षमां तथा / ससंघं तं मुनिं नत्वा सा साञ्जलिर् उपाश्रयत् // rm_18.86{86} //
तथा स भगवांस् तस्यै दत्वाशीषं ससांघिकः / ततो विहायसा गत्वा स्वाश्रमे च समाश्रयत् // rm_18.87{87} //
तथा स धनिको भक्त्या भगवन्तं ससांघिकं / दिव्याद्भुतर्द्धिसंभारैः पुनर् एवं न्यमंत्रयत् // rm_18.88{89!} //
तत्पुत्रेण तृतीये ऽह्नि चतुर्थे स्नुषया तथा / ससंघो भगवान्न् एवं दिव्यभोगैर् निमंत्रितः // rm_18.89{90} //
तच् छ्रुत्वा तद् द्विजाः सर्वे वैशालिकाः प्रजा अपि / अलब्धावसराः शास्तुः पूजायां प्रतिचुक्रुशुः // rm_18.90{91} //
ततस् ते संमतं कृत्वा सर्वे विप्राः सपौरिकाः / धनिकाय पुरं क्रुद्धाश् चक्रुर् निकासनोद्यमं // rm_18.91{92} //
एवं तत् समतं ज्ञात्वा भगवान् स मुनीश्वरः / धनिकं तं समाहूय पुर एवम् उपादिशत् // rm_18.92{93} //
साधो गृहपते सर्वे इमे वैशालिका द्विजाः / क्रुद्धास् ते संघभोज्ये ऽत्र ह्य् अलब्धावसरा मम // rm_18.93{94} //
तद् अत्र त्वं क्षमां कृत्वा द्विजान् सर्वान् प्रबोधय / कृत्वात्र विनयं धर्मे प्रसादयितुम् अर्हसि // rm_18.94{95} //
इत्य् आदिष्टं मुनीन्द्रेण श्रुत्वा स धनिकस् तथा / इत्य् आश्रुत्य द्विजान् सर्वान् समुपेत्यैवम् अब्रवीत् // rm_18.95{96} //
भवन्तो न मया ज्ञातं भवतां कोपकारणं / तद् अत्र मे समाख्यात यद् अर्थे कुप्यते ऽधुना // rm_18.96{97} //
इति तेनोदितं श्रुत्वा सर्वे ते ब्राह्मणा / कोपाग्निपरिदग्धास्या धनिकं तं निनिन्दिरे // rm_18.97{98} //
तत्रैको ब्राह्मणः साधुर् दयालुः सुकृतार्थवित् / धनिकं तं समामंत्र्य बोधयितुं समब्रवीत् // rm_18.98{99} //
साधो गृहपते ऽस्माभिर् यथात्र समतं कृतं / तथा तत् ते प्रवक्ष्यामि श्रुत्वा तत् प्रतिबुध्यतां // rm_18.99{100} //
भवन्तो यन् मुनीन्द्रो ऽयम् अत्रास्माकं हितेछया / सद्धर्मं समुपादेष्टुं ससांघिकः समागतः // rm_18.100{1} //
तद् अस्माभिर् मुनीन्द्रो ऽयं पूजनीयः समादरैः / अतो निमंत्रणीयो ऽत्र सर्वैः संभूय नान्यथा // rm_18.101{2} //
एकश् चेत् कुरुते वित्तमदाद् अस्य निमंत्रणं / सर्वैर् निर्वासनीयो ऽसौ यतो ऽन्यधर्मविघ्नकृत् // rm_18.102{3} //
इत्य् अस्माभिः कृतं साधो समयं सर्वसंमतं / तद् विलंघ्य त्वयैकेन शास्तुः पूजा कृता सदा // rm_18.103{4} //
एतद् धेतो इमे सार्वे ब्राह्मणा रुषितास् तथा / निष्कासयितुम् इछन्ति त्वाम् अन्यधर्मवाधकं // rm_18.104{5} //
किं चापि भगवान् अत्र सर्वदा स्थास्यते न हि / तत् सर्वे भगवत्पूजां कर्तुं वांछन्ति सांप्रतं // rm_18.105{6} //
यच् चायं भगवाञ् छास्ता धर्मराजो मुनीश्वरः / सर्वसत्वहितार्थाय समुत्पन्न इहा ऽधुना // rm_18.106{7} //
तथात्र सर्वसत्वानं हितं कर्तुम् उपाचरन् / सद्धर्मं समुपादिश्य चरत्य् अयं समंततः // rm_18.107{8} //
तथात्रापि हितं कर्तुम् अस्माकं समुपागतः / सद्धर्मं समुपादिश्य विजयते ससांघिकः // rm_18.108{9} //
तद् अत्र सर्वलोकानां त्रिरत्नभजनोत्सवं / दातुम् अर्हसि सर्वेषाम् अपि पुण्यप्रवृद्धये // rm_18.109{10} //
एक एव त्वं एवं तु मा कृथा भजनं सदा / सर्वैः संभूय ते सास्तुः कर्त्तव्यं भजनं सदा // rm_18.110{11} //
इति तेनोदितम् श्रुत्वा धनिकः स विवोधितः / ब्राह्मणं तं समालोक्य प्रणत्वैवम् अभाषत // rm_18.111{12} //
मया न ज्ञायते ह्य् एवं भवद्भिः समयं कृतं / तद् अत्र मे ऽपराधत्वं क्षन्तुम् अर्हन्ति सर्वथा // rm_18.112{13} //
यदि वो विद्यते श्रद्धा त्रिरत्नभजने सदा / कुरुध्वं सर्वदाप्य् अत्र संबुद्धभजनं खलु // rm_18.113{14} //
यदा न विद्यते पूजा संबुद्धे ऽस्मिन् ससांघिके / तदैवाहं करिष्यामि संबुद्धभजनं खलु // rm_18.114{15} //
इति तेन समाख्यातं श्रुत्वा सर्वे ऽपि ते द्विजाः / सत्यम् इति परिज्ञाय वभूवुस् तत् प्रसादिताः // rm_18.115{16} //
ततस् ते ब्राह्मणाः सर्वे संभूय सह पौरिकैः / भगवतः ससंघस्य निमंत्रितुम् उपासरन् // rm_18.116{17} //
तत्र ते ब्राह्मणाः सर्वे समेत्य सह पौरिकैः / साञ्जलयो मुनीन्द्रं तं नत्वैवं प्रार्थयन् मुदा // rm_18.117{18} //
भगवन् नाथ सर्वज्ञ त्रिमास्यं भवतां सदा / सत्कारं कर्तुम् इछाम त्वदनुज्ञां ददातु नः // rm_18.118{19} //
इति तैः प्रार्थिते सर्वैर् दृष्ट्वा स भगवान् मुनिः / तेषाम् आशयशुद्धत्वं तूष्णीभूत्वाध्युवास तत् // rm_18.119{20} //
ततस् ते ब्राह्मणाः सर्वे भगवताधिवासितं / मत्वा सपौरिका नत्वा तं मुणिं स्वपुरे ऽचरन् // rm_18.120{21} //
तत्र ते पौरिका विप्राः शोधयित्वा समम्टतः / भोज्यक्षत्रे ध्वजैर् उच्चैर् वितानैः पर्यशोभयन् // rm_18.121{22} //
तत्रासनानि प्रज्ञप्य सर्वसामग्रसाधनं / कृत्वा सर्वे ऽपि ते लोका महोत्साहं प्रचक्रिरे // rm_18.122{23} //
ततस् ते ब्राह्मणाः प्रातः स्नात्वा शुद्धाम्वरावृताः / तत्राश्रमे समेत्यैवं नत्वा तं प्रार्थयन् मुनिं // rm_18.123{24} //
भगवन् नाथ सर्वज्ञ समयो वर्त्तते ऽधुना / तत् ससंघो भवांस् तत्र पुरे आगन्तुम् अर्हति // rm_18.124{25} //
ततः स भगवान् बुद्धः ससंघश् चीवरावृतः / खिक्खिरिपात्रम् आदाय संप्रतस्थे प्रभासयन् // rm_18.125{26} //
तत्र मार्गेषु सर्वत्र भगवान् स ससांघिकः / भासयं भद्रतां कृत्वा प्रचरंस् तत्पुरे ऽविशत् // rm_18.126{27} //
तत्र स भगवान् क्षेत्रे सुशोधिते ससांघिकः / तद् दत्तं पाद्यम् आदाय स्वासने समुपाश्रयत् // rm_18.127{28} //
संबुद्धप्रमुखं सर्वं संघं ते समतोषयत् / ततस् तं सुगतं तृप्तं संघं चापि विलोक्यते // rm_18.128{29} //
तत् पात्राण्य् उपनीत्वा तद् धस्तादीकं व्यशोधयत् / ततः स पूगताम्बूरमहौषध्यरसाय नं // rm_18.129{30} //
दत्वा क्षमार्थनं कृत्वा तं ससंघं प्रणेमिरे / ततस् ते ब्राह्मणाः सर्वे पौराश् चापि प्रमोदिताः / तत् सद्धर्मामृतं पातिम् उपातस्थुः समाहिताः // rm_18.130{31} //
तत्र स भगवान् दृष्ट्वा सर्वांस् तान् समुपस्थितान् / आर्य्यसत्यं समारभ्य सद्धर्मं समुपादिशत् // rm_18.131{32} //
ततो भद्राशिषं दत्वा भगवान् सह संघिकैः / भासयं भद्रतां कुर्वन् गत्वा स्वाश्रमम् आश्रयत् // rm_18.132{33} //
एवं वैशालिका लोकास् ते त्रैमास्यं निरंतरं / यथार्हभोजनैः शास्तुः ससंघस्य प्रभेजिरे // rm_18.133{34} //
ततो ऽन्ते धनिकश् चापि पत्नी पुत्रः स्नुषापि च / संबुद्धप्रमुखं संघं दिव्यभोग्यैः समार्चयत् // rm_18.134{35} //
भगवान्न् अपि तथा तेभ्यो दत्वा शुभाशिषं ततः / समुत्थाय ससंघश् च गत्वाश्रमे समाश्रयत् // rm_18.135{36} //
ततः स धनिकः पत्नीपुत्रस्नुषासमन्वितः / दृष्टसत्यः सदा रत्नत्रयसेवारतो ऽभवत् // rm_18.136{37} //
एतत्पुण्यानुभावेन भूयो ऽतिश्रीसमृद्धिमान् / सर्वलोकहितं कृत्वा प्रचचार शुभे सदा // rm_18.137{38} //
तद् दृष्ट्वा विस्मिताः सर्वे भिक्षवः समुपाश्रिताः / भगवन्तं प्रणत्वैवं पप्रछुस् तत् पुराकृतं // rm_18.138{39} //
भगवन् किं पुरानेन धनिकेन वृषं कृतं / कुत्र कथं कदैतन् नः सर्वम् आख्यातुम् अर्हति // rm_18.139{40} //
इति तैर् भिक्षुभिः पृष्टे भगवान् स मुनीश्वरः / सर्वान्स् तां संघिकान् दृष्ट्वा तदैवं समुपादिशत् // rm_18.140{41} //
शृणुत भिक्षवः सर्वे यद् अनेन वृषं कृतं / तत् पत्न्या च पुत्रेण स्नुषया च तद् उच्यते // rm_18.141{42} //
वराणस्याम् अभूत् पूर्वं मालिकः कमलाभिधः / दुर्भिक्षक्षपिते काले परां दुर्गतिम् आगतः // rm_18.142{43} //
पत्नी पत्नविका नाम पुत्रः कुवलियाभिधः / पाटलोख्या स्नुषा चेति वभूवुस् तस्य संमताः // rm_18.143{44} //
तदैकस्मिन् दिने तस्य गृहान्तिके प्रपुष्पिते / उद्याने सायम् आगत्य प्रत्येकबुद्ध आश्रयेत् // rm_18.144{45} //
ते सर्वे एकवस्त्रा हि पर्य्यायेन नृपालये / दत्वा पुष्पाणि प्रायाताः स्वभवने निषीदिरे // rm_18.145{46} //
तदा स च गृहस्थास् ते तत्रोदाने ज्वलत् प्रभां / दृष्ट्वा किं महोज्वालम् उद्याने इति विस्मिताः // rm_18.146{47} //
सहसा ते समुत्थाय तत्रोद्याने निरीक्षितुं / सर्वगताः समीक्षन्तः ददृशुस् तं प्रभासयं // rm_18.147{48} //
तत्र ते समुपाश्रित्य दृष्ट्वा तं ध्यानसंस्थितं / साञ्जलयः प्रणत्वैव मुदिता स्वगृहं ययुः // rm_18.148{49} //
तत्र ते स्वगृहासीनाः प्रातस् तत्पूजनोत्सुकाः / निर्द्धनास् तद् व्यथां प्रापु लूनपक्षाः खगा इव // rm_18.149{50} //
तदा स मालिकस् तस्मै पूजां कर्तुं समुत्सुकः / तद् द्रव्यं स्वगृहे सम्यग् अन्विष्य समलोकयत् // rm_18.150{51} //
तत्र गृहे स सर्वत्र समन्विष्य समंततः / कञ्चि मात्रम् अपि द्रव्यम् अलब्धैवं व्यचिंतयत् // rm_18.151{52} //
अहो मया पुरा पापं प्रकृतं किं यतो ऽधुना / अकिंचन्यो दरिद्रो ऽस्मि किम् अत्र जीवितेन मे // rm_18.152{53} //
यतो न विद्यते द्रव्यं किं चिद् अपि गृहे मम / तत् केन करिष्यामि पूजाम् अस्य महात्मनः // rm_18.153{54} //
अत्रायं स्वयम् आगत्य ममोद्याने समाश्रितः / प्रत्येकबुद्ध आत्मजो ध्यात्वा तिष्ठति भासयन् // rm_18.154{55} //
तद् अस्य सुगतस्यात्र कर्त्तव्या सत्कृतिर् मया / कदायं पुरि रम्यत्र समागछेत् स्वयं पुनः // rm_18.155{56} //
तत् प्रातः शून्यपात्रेण गछेद् इतो ममात्मवित् / तन् ममात्र भवे शून्यम् इव जन्मापि निस्फलं // rm_18.156{57} //
यतो मान्यो ऽभिपूज्यो यं पूज्यते न कथं चन / तत्र किं जायते भद्रं पुण्यं वास्य कथं कुतः // rm_18.157{58} //
पुण्यं विनात्र संसारे किं सारं जन्म निस्फलं / भुक्त्वापि किं सुखान्य् अत्र सुचिरं जीविते ननु // rm_18.158{59} //
पुण्यार्थे जीवितं जन्म तद् अत्र यदि नश्यति / किम् एव जीवितेनापि जन्मना पापसाधिना // rm_18.159{60} //
तन् मृत्युर् मे वरं ह्य् अत्र न मिथ्याचिरजीवितं / अवश्यम् एव संसारे सर्वत्र मरणं ध्रुवं // rm_18.160{61} //
किम् एवं देहपुष्टेन भुक्त्वा दुःखां सर्वदा / तत् केनापि प्रदानेन पूजयेयम् इमं जिनं // rm_18.161{62} //
पुण्येन सद्गतिं यायां पापेन दुर्गतिं सदा / तत् पापं परित्यक्तुं पुण्यं प्राप्तु यतेय हि // rm_18.162{63} //
यद्य् अत्र पूज्यते नायं द्रक्ष्यते च कदा कुह / बुद्धपूजां विना भद्रे पुण्यं च लप्स्यते कुतः // rm_18.163{64} //
यावन् न प्राप्यते पुण्यं तावद् दुर्गतिचारणं / तस्मात् पुण्यं प्रयत्नेन कर्त्तव्यं सुखताप्तये // rm_18.164{65} //
तद् अत्र श्रद्धया किंचिन् मात्रेणापि स्ववस्तुना / सत्कृत्यैनं महाभिज्ञं भजेयं समुपस्थितः // rm_18.165{66} //
इति ध्यात्वा विनिश्चित्य मालिकः संप्रमोदितः / भार्यां पुत्रं स्नुषां चापि समामंत्र्यैवम् अब्रवीत् // rm_18.166{67} //
अये प्रिये स्नुषे पुत्र यूयं शृणुत मद्वचः / यद् अत्र कर्तुम् इछामि तत्र यूयं प्रसादतः // rm_18.167{68} //
यद् अत्रायं महाभिज्ञः स्वयम् एव समागतः / अस्माकं गृहे द्रव्यं किञ्चित् मात्रं न विद्यते // rm_18.168{69} // तत् केनात्र करिष्यामः पूजाम् अस्य महात्मनः // rm_18.169{69!} // यदि न पूज्यते ऽस्माभिः सुगतो ऽयं मुनिर् यतिः / तदा पुण्यं वयं कुत्र लप्स्यामहे कदा कथं // rm_18.170{70} //
पुण्यं विनात्र संसारे निस्फलं जन्म जीवितं / तद् वयं पुण्यतो प्राप्तुं यतेम सर्वथा वयं // rm_18.171{71} //
पुण्येन सद्गतिं प्राप्य पापेन दुर्गतिं सदा / तत् सद्गतिसुखप्राप्त्यै पुण्यं कुर्वीमहि ध्रुवं // rm_18.172{72} //
चतुर्णां विद्यते ऽस्माकम् एकं सर्वस्वम् अम्वरं / अनेनाप्य् एनम् आछाद्य प्रभजमहि सांप्रतं // rm_18.173{73} //
नाद्यराजकुले नग्ना गछामः किं भविष्यति / एतत् मे वचनं श्रुत्वाभ्यनुमोदितुम् अर्हथ // rm_18.174{74} //
इति तेनोदितं श्रुत्वा पत्नी पुत्रः स्नुषापि ते / सर्वे ऽप्य् अभ्यनुमोदित्वा तथा कुर्व् इति प्रोचिरे // rm_18.175{76!} //
इत्य् एतत् समयं कृत्वा सर्वे ते श्रद्धयान्विताः / गत्वा तेनैकवस्त्रेण तं प्राछाद्य समार्चयन् // rm_18.176{77} //
ततस् ते मुदिताः सर्वे कृताञ्जलिपुटा मुनेः / तस्य पादौ प्रणत्वैवं प्रणिधानं प्रचक्रिरे // rm_18.177{78} //
अनेन वस्त्रदानेन वयं सर्वे शुभाशयाः / भवेयं सद्गतिं याता दिव्यसंपत्तिहानिनः // rm_18.178{79} //
शास्तारं सुगतं बुद्धं समाराध्य सदा भवे / त्रिरत्नभजनं कृत्वा भवेम बोधिचारिणः // rm_18.179{80} //
इति तैर् मुदितैः सर्वैः प्रणिधानं कृतं तथा / विदित्वा स महाविज्ञस् तथास्त्व् इति समादिशत् // rm_18.180{81} //
ततस् तेसां मनोहर्षं कृत्वा स सुगतो मुनिः / तत उड्डीय पक्षीव भासयन् स्वाश्रमे ययौ // rm_18.181{82} //
तद् दृष्ट्वा ते नन्दिताः सर्वे बुद्धधर्मानुशंसिनः / त्रिरत्नस्मरणं कृत्वा प्रचेरिरे सुखं सदा // rm_18.182{83} //
तत्पुण्यप्रणिधानेन धनिको ऽयं स मालिकः / जातो दिव्यप्रभावर्द्धिः पत्नीपुत्रस्नुषान्वितः // rm_18.183{84} //
मनःशुद्धिविधानेन दानेनातिग्लघीयसा / भवन्त्य् अलघ्व्याः संकल्पैः संपदः सत्वशालिनां // rm_18.184{85} //
बुद्धक्षेत्रेषु यत् कर्म सुकृतं दुःकृतं तथा / महत्तरत्वम् आसाद्य फलत्य् एव सदा भवे // rm_18.185{86} //
इति मत्वात्र संसारे कर्त्तव्यं सुकृतं सदा / बौद्धे सत्कृतपुण्येन लभन्ति बोधिसंपदः // rm_18.186{87} //
इति शास्त्रा समादिष्टं श्रुत्वा सर्वे ऽपि सांघिकाः / मेनिरे चित्तवैमल्यमूलं दानफलश्रियं // rm_18.187{88} //
तच् छ्रुत्वा ब्राह्मणास् ते ऽपि तत्पुण्यविस्मिता मुदा / भगवंतं सदा स्मृत्वा प्रभेजिरे ऽनुमोदिताः // rm_18.188{89} //
तथा ते ब्राह्मणाश् चापि सर्वे ऽपि पौरिकास् तथा / तत्पुण्यपरिशुद्धांशा वभुवुः कुशलोद्यताः // rm_18.189{90} //
हेलार्पितं रत्नधनं तृणाग्रं श्रद्धावतीर्णं तृणम् अप्य् अनर्घं / अनेकशोभानुभवं हि चित्तं चित्तं निमित्तं शुभसंभवानां // rm_18.190{91} //
इति मे गुरुणादिष्टं श्रुतं मया तथोच्यते / श्रुत्वाप्य् एवं महाराज कर्त्तव्यं सुकृतं सदा // rm_18.191{92} //
प्रजाश् चापि महाराज बोधयित्वा प्रयत्नतः / क्रमाद् बोधिं समासाद्य संबुद्धपदम् आप्नुयाः // rm_18.192{94} //
इति तेनार्हताख्यातं श्रुत्वाशोकः स भूपतिः / तथा हीति प्रतिज्ञाय प्राभ्यनन्दत् सपार्षदः // rm_18.193{95} //
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
