Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 5/14

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Thí dụ · Bổn sự

रत्नमालावदान

Thông tin
GRETIL — Kanga Takahata. Ratnamālāvadāna. A Garland of Precious Gems or a Collection of Edifying Tales, Told in a Metrical Form, Belonging to the Mahāyāna. Tokyo 1954 (Oriental Library Series D, 3). = Rm.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

एवं प्रोक्त्वा गृहस्थः स श्रद्धया संप्रमोदितः / भिक्ष्वर्थिब्राह्मणेभ्यश् च ददौ दानं यथेप्सितं // rm_13.40{39} //

कुलेष्टदेवताश् चापि समभ्यर्च्य यथाविधि / तच् छुभं प्रार्थयन् नित्यं तस्थौ पुत्रसमुत्सुकः // rm_13.41{40} //

ततः सा भद्रिका नारी पथ्योपचारभोगिनी / असूत समये पुत्रं सुंदरं लक्षणान्वितं // rm_13.42{41} //

ततः स जनकः श्रुत्वा संप्रजातं सुतं मुदा / सहसा समुपास्रित्य ददर्श तं ससुंदरं // rm_13.43{42} //

दर्शनीयं सुभद्राङ्गं प्रासादिकं मनोहरं / दृष्ट्वापि सुचिरं पश्यन्न् एव तस्थाव् अतृप्तितः // rm_13.44{43} //

ततो जातिमहं कृत्वा तस्य पित्रा प्रसादिना / वडिक इति नाम्ना प्रख्यापितो ऽभूत् स दारकः // rm_13.45{45!} //

ततः स वालको ऽष्टाभ्यो धात्रीभ्यः प्रतिपालने / मानयित्वानुसंभाष्य पित्रा समर्पितो ऽभवत् // rm_13.46{46} //

तथा स वडिको वालो ऽष्टाभिर् धात्रीभिर् आदरात् / पाल्यमानः प्रवृद्धो ऽभूत् ह्रदस्थम् इव पंकजं // rm_13.47{47} //

यदा स दारकः पंचवर्षितो ऽभून् मदान्वितः / तदा विद्योपलब्धार्थी लिपिशालाम् उपाविशत् // rm_13.48{48} //

तत्र स सद्गुरुं नत्वा क्रमाल् लिपीन् मुदाग्रहीत् / गुरुभक्तिप्रसादेन लिपिपारं ययौ लघु // rm_13.49{49} //

ततः स गुरुभिः सम्यच् छिष्यमाणः सुबुद्धिमान् / अधीत्य सर्वशास्त्राणि विद्यापारं ययौ लघु // rm_13.50{50} //

तदा तद् वडिकस्यापि पूर्वकर्मविपाकतः / देहे कस्मात् समुत्पन्नो महाव्याधिः पराक्रमत् // rm_13.51{51} //

तदा स व्याधिना तेन पीड्यमानो ऽभिमूर्छितः / असह्यवेदनाक्रान्तो विरुराव दिवानिशं // rm_13.52{52} //

तथा तं व्याधिनाघ्रातम् असह्यवेदनातुरं / क्रन्दन्तं स पिता दृष्ट्वा कृपयैवं व्यचिंतयत् // rm_13.53{53} //

हा मे दैवविरुद्धेन पुत्रो ऽयं व्याधिमूर्छितः / असह्यवेदनाक्रान्तो भोक्तुम् अपि न वाञ्छति // rm_13.54{54} //

अवश्यं मरणं यायात् कथं जीवेद् अभुक्तवान् / मृते पुत्रे मरिष्ये ऽहं स्नेहदुःखं कथं सहे // rm_13.55{55} //

इति चिन्ताव्यथाक्रान्तो भोग्ये ऽपि विरतोत्सवः / तम् एव स्वात्मजं पश्यंस् तस्थौ स्नेहाभिवन्धितः // rm_13.56{56} //

मातापि तं सुतं दृष्ट्वा स्नेहदुःखाग्नितापिता / मृत्युशंका परित्रस्ता रुदन्ती समुपाचरत् // rm_13.57{57} //

तदा तस्य सुहृन्मित्रवांधवाः समुपागताः / सर्वे ते रोगिणं दृष्ट्वा स्नेहार्त्ता एवम् अब्रुवन् // rm_13.58{58} //

किं भो स्वस्थं न ते देहे भोक्तुं किं वा न वाञ्छसि / भुंक्ष्व यथेप्सितं पथ्यं तिष्ठ धैर्यं समाश्रयन् // rm_13.59{59} //

इति प्रोक्ते ऽपि तैः सर्वैः स वडिको ज्वरान्वितः / दृष्ट्वैव तान् मुहुः पश्यन् नैव किञ्चिद् अभाषत // rm_13.60{60} //

ततः सर्वे ऽपि ते दृष्ट्वा तं वडिकं रुजातुरं / मृत्युशंकाविषादिग्धं पितरं तं तथावदन् // rm_13.61{61} //

साधो ऽस्य वर्द्धते रोगस् तद् रोगव्युपाशान्तये / सहसा वैद्यम् आहूय दर्शयस्व समाहितः // rm_13.62{62} //

उपदिष्टं यथा तेन वैद्येन सुधिया तथा / परिचर्य्यां समाधाय कुरूपचारम् आदरात् // rm_13.63{63} //

तथा पथ्योपचारेण सिद्धौषध्यसहैर् अपि / क्रमाद् अस्य शरीरस्थो रोगः शान्तिं व्रजेद् ध्रुवं // rm_13.64{64} //

ततस् ते ऽयं सुतो भद्रः परिपुष्टतनुःकृती / स्वकुलधर्मम् आधाय सुखं जीवेच् छुभे चरन् // rm_13.65{65} //

इति मत्वा महाभाग मा कृथास् तद् विषादनं / धैर्यम् आलम्व्य देवांश् च स्मृत्वा भुक्त्वा सुखं वस // rm_13.66{66} //

इत्य् एवं समुपादिश्य तद् गृहस्थात् समुत्थिताः / सर्वे ते स्नेहदुःखार्त्ताः स्वस्वगेहम् उपाचरत् // rm_13.67{67} //

ततः स गृहभृत् तस्य पुत्रस्य रोगशांतये / सद्वैद्यं समुपाहूय सादरं समदर्शयत् // rm_13.68{68} //

तस्य रोगनिमित्तं स वैद्यो दृष्ट्वा समीक्ष्य च / पथ्यौषध्युपचारेण समाहित उपाचरत् // rm_13.69{69} //

तथापि तस्य तद्रोगः परिवृद्धो दिने दिने / केनापि ह्य् उपचारेण नैव शान्तिम् उपाययौ // rm_13.70{70} //

तद्रोगं वर्द्धितं दृष्ट्वा जनकः स विषादितः / भूतिकं सहसाहूय रोगहेतुम् अपृच्छत // rm_13.71{71} //

ततः स भूतिको दृष्ट्वा तस्य रोगप्रशान्तये / स भूतदेवताभ्यश् च वलिं प्रादाद् यथाविधि // rm_13.72{72} //

तथापि वृंहितो रोगस् तस्य कर्मविपाकतः / किञ्चिद् अपि विशेषेण नैव शान्तिम् उपाययौ // rm_13.73{73} //

ततः स जनको दृष्ट्वा तद् रोगं परिवर्द्धितं / आयुर्विदम् उपामंत्र्य रोगहेतुम् अपृच्छत // rm_13.74{74} //

स अयुर्विदको दृष्ट्वा तस्य ग्रहदशाफलं / कुदशाव्युपशान्त्यर्थं ग्रहपूजाम् उपादिशत् // rm_13.75{75} //

तथा स जनकस् तस्य रोगिणो ग्रहशान्तये / ब्राह्मणं समुपामन्त्र्य ग्रहपूजाम् अकारयत् // rm_13.76{76} //

तथापि तस्य तद्रोगो वर्द्धितो न शमं ययौ / दैवेन समुपाघ्राते तदुपाये न सिद्ध्यते // rm_13.77{77} //

तथा स जनकस् तस्य पुत्रस्य रोगवृद्धितं / दृष्ट्वा निराशया भिन्नचित्तो मूर्च्छाम् उपाययौ // rm_13.78{78} //

तदा सा सुप्रिया भार्या भर्त्तारं तं विमोहितं / दृष्ट्वैव समुपागृह्य समाश्वास्यैवम् अब्रवीत् // rm_13.79{79} //

स्वामिन् धैर्य्यं समालम्ब्य त्यज चित्ते विमोहतां / किम् अस्माकं प्रयत्नेन दैवस्यात्र प्रमाणिके // rm_13.80{80} //

सर्वथा भाविनो भावाः फलंति सर्वजीविनां / यद् अभावि न तद् भावि भावि चेन् न तद् अन्यथा // rm_13.81{81} //

तस्माद् दैवप्रसादाय स्वकुलेशेष्टदेवताः / अनुस्मृत्य समाराध्य याचस्व पुत्रजीवितं // rm_13.82{82} //

इति भार्योदितं श्रुत्वा स गृहस्थो ऽनुमोदितः / कुलदेवं समभ्यर्च्य प्रार्थयद् एवम् आदरात् // rm_13.83{83} //

प्रसीद मे कुलेश त्वं क्षमस्व ह्य् अपराधतां / तवैव शरणस्थो ऽहं तन् मे पुत्रं प्ररक्षतां // rm_13.84{84} //

एवं तेन गृहस्थेन प्रार्थिते ऽपि दिवानिशं / तस्य रोगो विवृद्धो ऽभून् नैव शाम्यम् उपाक्रमत् // rm_13.85{85} //

तथा ब्रह्मादिदेवांश् च सर्वान् लोकाधिपान् अपि / विहारमण्डपारामक्षेत्रारण्यसमाश्रितान् // rm_13.86{86} //

नदीकूपतडागादिजलाश्रयप्रतिस्थितान् / बलिभोक्तॄन् कलंकस्थान् मार्गशृङ्गाटकाश्रितान् // rm_13.87{87} //

एवम् अन्यत्र सर्वत्र प्रतिस्थितान् समर्चयन् / पुत्रस्यारोग्यकौशल्यं जीवितं स समर्थयन् // rm_13.88{88} //

तथापि तस्य रोगो न शमितो ऽभूत् प्रवर्द्धितः / ततस् तं जनको दृष्ट्वा निराशा मूर्छितो ऽपतत् // rm_13.89{89} //

तदा स वडिको रोगी पितरं तं विमूर्छितं / पृथिव्यां पतितं दृष्ट्वा शनैर् नीचस्वरो ऽवदत् // rm_13.90{90} //

हा हा मे जावते पापं येनायं पतितः पिता / स्नेहदुःखाग्निसंतप्तः पुत्रतो मरणं व्रजेत् // rm_13.91{91} //

हा तातोत्तिष्ठ मां पश्य मा त्यजात्मजं आतुरं / धैर्य्यम् आलम्व्य संधाय रक्ष मां समुपस्थितः // rm_13.92{92} //

इत्य् असौ विलपन् पुत्रः पितरं तं विमूर्छितं / दृष्ट्वा भोजनकेत्य् अश्रु मुञ्चंस् तस्थौ निराश्रितः // rm_13.93{93} //

तदा सा सुप्रिया भार्य्या भर्त्तारं तं विमूर्छितं / दृष्ट्वैव सहसालिंग्य समुत्थाप्यैवम् अब्रवीत् // rm_13.94{94} //

स्वामिन् धैर्यं समालंब्य पश्य मां ते प्रियं सतीं / त्यक्त्वा दैन्यं समाधाय पश्यन् रक्षात्मकं प्रियं // rm_13.95{95} //

इति भार्योदितं श्रुत्वा स गृहस्थो समुत्थितः / दृष्ट्वा तां सुप्रियां भार्यां पुत्रं चैवम् अभाषत // rm_13.96{96} //

हा दैव किं मया पापं प्रकृतं दारुणं पुरा / येनायं सुकृती पुत्रः त्यक्त्वा मां क्व प्रयास्यति // rm_13.97{97} //

हा हा मे संपदश् चैताः समृद्धाः समुपार्जिताः / को नु भोक्ता भवेद् आसां व्यर्थं नक्ष्यन्ति सर्वशः // rm_13.98{98} //

किम् अत्राहं करिष्यामि यास्यामि शरणं च कं / को नु मां सहसा रक्षेद् दत्वा पुत्रस्य जीवितं // rm_13.99{99} //

किम् अत्रास्य रुजः शान्त्यै करिष्यामि प्रतिक्रियां / न जाने परिमूढो ऽस्मि चेतना मे न विद्यते // rm_13.100{100} //

इति चिन्तापरीतात्मा पुत्रस्नेहविमोहितः / कारुणाकुलचित्तो ऽपि पुनर् एवं व्यचिन्तयत् // rm_13.101{101} //

यद् इमे तीर्थिका विज्ञा भगवन्तो विचक्षणाः / सर्वज्ञाः सद्गुणाधाराः शास्तारो मे हितंकराः // rm_13.102{102} //

तत् तान् सर्वान् समामंत्र्य गृहे भोक्ष्यैः समर्चयन् / इमं पुत्रं पुरः स्थाप्य दर्शयेयं शुभाप्तये // rm_13.103{103} //

तत् सुदृष्टिप्रसादेन नूनम् अस्य भवेच् छुवं / ततो हि क्रमशो रोगाः शाम्येयुः सर्वथा लघु // rm_13.104{104} //

तदायम् आत्मजः पुष्टो न रोगी सुतनुः सुखी / कृती शुभरतो भोगी कुलधर्मे समाचरेत् // rm_13.105{105} //

इति निश्चित्य स श्रेष्ठी तत्र तीर्थ्याश्रमे गतः / तान् सर्वांस् तीर्थिकान् नत्वा प्रार्थयेद् एवम् आदरात् // rm_13.106{106} //

नमो वो ब्रह्मविज्ञेभ्यो भवतां शरणं व्रजे / विज्ञप्यते यद् अर्थं तद् अनुग्रहीतुम् अर्हत // rm_13.107{107} //

इति तेनोदितं श्रुत्वा तीर्थिकास् ते ऽभिमानिकाः / सर्वे तं समुपामंत्र्य प्रमोदयितुम् अब्रुवन् // rm_13.108{108} //

साधु वद महासाधो यत् ते कार्यं समीहितं / तत् सर्वं सर्वथास्माभिः कृतम् एवं करिष्यते // rm_13.109{109} //

इति तैस् तीर्थिकैः प्रोक्ते स श्रेष्ठी संप्रसादितः / कृताञ्जलिपुटो नत्वा पुनर् एवम् अभाषत // rm_13.110{110} //

भगवन्तो महाविज्ञा भवन्तो गुरवो मम / तत् सर्वं प्रतिजानीत यद् अर्थं समुपाचरे // rm_13.111{111} //

तथापि चार्थयिष्ये ऽत्र यन् मे कष्टं प्रवर्त्तते / तद् वो विज्ञापनं कर्तुं भवतः शरणं व्रजे // rm_13.112{112} //

यन् मया प्रकृतं पापं तेन मे स्वात्मजाधुना / रोगैः संपीड्यते ऽतीवनिःस्वस्थो मरणं व्रजेत् // rm_13.113{113} //

नानास्वस्तिविधानैर् हि तस्य रोगो न शाम्यति / भिषजां कृतयत्नानि न सिद्ध्यन्ति कथं चन // rm_13.114{114} //

अनेका देवताश् चापि प्राभ्यर्च्य प्रार्थितो मया / तथापि शाम्यते नैव तस्य रोगो विवर्द्धितः // rm_13.115{115} //

यथा यथा रुजाशान्तिस्वस्त्युपायकृतानि हि / तथा तथा न तद्रोगः प्रशाम्यति प्रवर्द्ध्यते // rm_13.116{116} //

किम् उपायं करिष्यामि केन शाम्येत तद्गदः / तद् उपायं प्रदातव्यं येनाशु शाम्यते क्रमात् // rm_13.117{117} //

इति विज्ञापनां कर्तुं भवतां शरणं व्रजे / तन् मे ऽनुकम्पयासु नो रोगशान्तिर् विधीयतां // rm_13.118{118} //

भवन्तो मे ऽनुशास्तारः सर्वज्ञा ब्रह्मचारिणः / तन् मे सुकृपया दृष्ट्या परित्रातुं समर्हत // rm_13.119{119} //

इति तेनार्थितं श्रुत्वा सर्वे ते तीर्थिका अपि / श्रेष्ठिनं तं समामंत्र्य पुनर् एवं समब्रुवन् // rm_13.120{120} //

शृणु साधो यद् अस्माभिर् हितार्थं ते प्रचक्ष्यतां / तत् सत्यं नः परिज्ञाय प्रमाणीक्रियतां किल // rm_13.121{121} //

वयं हि सर्वलोकानां शास्तारो हितसाधकाः / तस्माद् अत्र विषादत्वं मा कृथा धैर्यम् आश्रय // rm_13.122{122} //

अद्यैव सहसा गत्वा वयं दृष्ट्वा तवात्मजं / निःपापं नीरुजं स्वास्थ्यं करिष्यामः सुजीवितं // rm_13.123{123} //

अप्य् एतद् वचनं सत्यं श्रुत्वा दृष्ट्वा प्रमाणय / अन्यथा न भवेत् क्वापि ह्य् अस्माकं ब्रह्मचारिणां // rm_13.124{124} //

इति तैस् तीर्थिकैः प्रोक्तं श्रुत्वा स गृहसत्तमः / तथेति प्रतिहर्षित्वा नत्वा तान् स्वगृहं ययौ // rm_13.125{125} //

तत्र स गृह आसाद्य दासिदासजनैः सह / तदर्हभोज्यपूजाङ्गसामग्रीं समसाधयत् // rm_13.126{126} //

तस्मिन्न् एव क्षणे तत्र सर्वे ते तीर्थिका मुदा / सहसा समुपागत्य स्वस्वासने उपाविशत् // rm_13.127{127} //

तथा तान् समुपासीनान् दृष्ट्वा श्रेष्ठी स मोदितः / पूजाङ्गैः क्रमतो ऽभ्यर्च्य भोजनैः समतोषयत् // rm_13.128{128} //

ततश् च भोजनान्ते स वडिकं तं प्रियात्मजं / रोगिणं समुपाहृत्य तेषां पुरो ऽभ्यदर्शयत् // rm_13.129{129} //

ते सर्वे तीर्थिका दृष्ट्वा वडिकं तं रुजान्वितं / तदामयनिमित्तं च निरीक्ष्यैवम् उपादिशत् // rm_13.130{130} //

अहो ह्य् अस्य महारोगं महापातकसंभवं / तत्पातकविमुक्त्यै तु दातव्यं दानम् आदरात् // rm_13.131{131} //

तद्यथा नवरत्नानि हेमलक्षपलानि च / श्रद्धया ब्रह्मचारिभ्यः संप्रदद्यात् समर्चयन् // rm_13.132{132} //

यद्य् एतद् दीयते दानं त्वया गृहपते तथा / भग्नकुष्माण्डदरिनमहिषीशतदक्षिणा // rm_13.133{133} //

पुरा दत्ता नंदराज्ञा अस्माकं ब्रह्मचारिणां / पादस्फोटामयस् तस्य शांतो ऽभूत् तत्प्रभावतः // rm_13.134{134} //

तथास्य सर्वपापानि विनक्ष्यन्ति न संशयः / ततः सर्वे ऽपि रोगाश् च विनक्ष्यन्ति क्रमाद् द्रुतं // rm_13.135{135} //

ततो रोगैर् विमुक्तो ऽयं कुशली स्वास्थ्यम् आप्नुयात् / ततः पुष्टो विशुद्धाङ्गः सुशीलः सुकृती सुधीः / स्वकुलाचारधर्मिष्ठो वंशांश् चापि समुद्धरेत् // rm_13.136{136} //

इति मत्वा त्वया साधो दातव्यं दानम् आदरात् / अन्यथा न भवेत् स्वस्ति तवास्य नंदनस्य च // rm_13.137{167} //

इति तैर् गदितं श्रुत्वा स श्रेष्ठी परिबोधितः / तस्यात्मजस्य त्राणार्थं तथा दातुम् उदाचरत् // rm_13.138{[138]} //

ततः स पुनर् अभ्यर्च्य तान् सर्वान्स् तीर्थिकान् पतीन् / प्रददौ नवरत्नानि स्वर्णलक्षपलानि च // rm_13.139{139} //

ततस् ते तीर्थिकाः सर्वे दृष्ट्वा तानि प्रमोदिताः / सर्वान्य् अपि प्रतिगृह्य तथाशीर्वचनं ददुः // rm_13.140{140} //

स्वस्त्य् अस्तु ते सदा साधो कल्याणम् अस्तु सर्वथा / नीरोगी सुचिरं जीव्या जयो ऽस्तु ते समन्ततः // rm_13.141{141} //

एतद् एव समादिश्य सर्वे ते तीर्थिकास् ततः / तानि सर्वाणि वस्तूनि प्रतिगृह्याश्रमं ययुः // rm_13.142{142} //

तथापि तस्य रोगा न शमिता वर्द्धिताः क्रमात् / स्वदैवफलभोग्यानि भोक्तव्यानि हि सर्वथा // rm_13.143{143} //

ततस् तज् जनको दृष्ट्वा स्वात्मजं तं रुजातुरं / निराशामूर्छितो भूमौ निपतं व्यलपत् तथा // rm_13.144{144} //

हा दैव किं मया पापं दारुणं प्रकृतं पुरा / यतो ऽयं स्वात्मजः पुत्रः पुरो मे मरणं व्रजेत् // rm_13.145{145} //

कृतान्य् उपाययत्नानि दानानि विविधानि च / सर्वाण्य् एतानि मत्पापैर् निस्फलानि भवन्ति हि // rm_13.146{146} //

किं मयात्रापि कर्त्तव्यं को ऽत्र मे हितम् आदिशेत् / सर्वथाहं विनष्टो ऽस्मि को ऽपि त्राता न विद्यते // rm_13.147{147} //

कस्यात्र शरणं यास्ये को नो रक्षेद् दयादृशा / सर्वे वयं विनष्टास्म हा दैव शरणं व्रजे // rm_13.148{148} //

इत्य् एवं विलपंतं तं जनकं वडिको ऽपि सः / दृष्ट्वा शनैः समाहूय पुर एवम् अभाषत // rm_13.149{149} //

भो तात किं त्वयात्रापि कर्त्तव्यं हि मयापि च / सर्वेषाम् अपि जन्तूनां दैवगतिः प्रमाणिका // rm_13.150{150} //

इति मत्वा विषादत्वं हृदये मा कृथास् त्यज / संबुद्धशरणं कृत्वा भज नित्यम् अनुस्मरन् // rm_13.151{151} //

बुद्ध एव जगच्छास्ता त्राता लोकहितंकरः / दुर्गतितारको नाथो भर्त्ता सद्गतिनायकः // rm_13.152{152} //

तद् एवं सुगतं स्मृत्वा सद्धर्मं समुपाश्रयन् / संघानां भजनं कृत्वा चिनु पुण्यं समाहितः // rm_13.153{153} //

त्रिरत्ने साधितं पुण्यं न क्षिणुयात् कदा चन / यदि दैवाद् विपत्तिः स्यात् पुण्यं तु लभते वरं // rm_13.154{154} //

पुण्येन रक्ष्यते लोकः पुण्येन सद्गतिं व्रजेत् / तस्मात् पुण्यं महारत्नं चिनु धैर्यं समाश्रयन् // rm_13.155{155} //

अवश्यमरणे लोके किं विषादेन सिद्ध्यते / इति मत्वापि तं बुद्धं स्मृत्वा भज समाहितः // rm_13.156{156} //

तथाहं वा तम् एवात्र संबुद्धं शरणं व्रजन् / संस्मृत्वा भजनं कुर्वन् व्रजेय मरणं ध्रुवं // rm_13.157{157} //

यदि तस्य जिनेन्द्रस्य कृपास्ति मयि पापिनि / तत्कृपादृक्प्रसादेन जीवेय नीरुजः पुनः // rm_13.158{158} //

यदि दैवबलेनाहं मृते तत्स्मृतिपुण्यतः / सर्वथा दुर्गतिं त्यक्त्वा सद्गतिं पुनर् आप्नुयां // rm_13.159{159} //

एवं ज्ञात्वा त्वया तात मा क्रियतां विषादता / संसारे ऽवश्यं मर्त्तव्यं सर्वेषाम् अपि जन्मिनां // rm_13.160{160} //

इत्य् उक्त्वा स रुजार्त्तो ऽपि वडिको धैर्य्यम् आश्रयन् / संबुद्धं शरणं कृत्वा स्मृत्वा तस्थौ समाहितः // rm_13.161{161} //

तथा स गृहभृच् छ्रेष्ठी श्रुत्वैतद् आत्मजोदितं / सत्यम् एतत् परिज्ञाय बुद्धं स्मृत्वा तथावदत् // rm_13.162{162} //

नमो बुद्धाय धर्माय संघाय च सदा स्मरे / अद्यारभ्य सदा नित्यं भवतां शरणं व्रजे // rm_13.163{163} //

यदि वो ऽस्ति कृपा लोके रक्षन्तु नः सुदुःखिनः / सर्वथा कृपया दृष्ट्या दृष्ट्वाशु त्रातुम् अर्हति // rm_13.164{164} //

यथान्ये त्रिभवे लोका भवद्भिः प्रतिपालिताः / तथास्मान् कृपया दृष्ट्वा त्रातुम् अर्हति सर्वथा // rm_13.165{165} //

रक्षतु भगवन् नाथ जीवयेयं ममात्मजं / कृपयानुग्रहं कृत्वा पुत्ररत्नं प्रयच्छ मे // rm_13.166{166} //

यदि जीवेद् अयं पुत्रो भवद्दृष्टिप्रसादतः / भवतां शरणे स्थित्वा चरतु व्रतम् आदरात् // rm_13.167{167} //

इत्य् एवं स्मरणं कृत्वा संबुद्धशरणं व्रजन् / स श्रेष्ठी तं सुतं दृष्ट्वा तस्थौ मोहविनोदितः // rm_13.168{168} //

तस्मिन्न् एव क्षणे लोकां त्रातुं स भगवान् मुनिः / संपश्यन् कृपया दृष्ट्या प्राद्राक्षीत् तान् सदुःखिनः // rm_13.169{169} //

तथा तान् दुःखिनो दृष्ट्वा भगवान् स जिनेश्वरः / सहसा तान् परित्रातुं बुद्धरस्मिं व्यमुञ्चत // rm_13.170{170} //

ताभिः कनकवर्णाभिः संबुद्धरश्मिभिस् तदा / समन्तात् समतिक्रम्य तद् गृहम् अवभासितं // rm_13.171{171} //

ततो मैत्र्यंशवश् चापि तेन भगवता पुनः / समुत्षृष्टास् तनौ तस्य पर्यस्पृशन् प्रसादिताः // rm_13.172{172} //

ततस् तस्य तनुस् तैः संस्पृष्टमात्रे समंततः / प्रह्लादिता सुखप्राप्ता स्वास्थ्यतां समुपाययौ // rm_13.173{173} //

ततः स वडिकः स्वास्थ्यं प्राप्य निर्मलमानसः / विस्मितः पितरं पश्यन् समामंत्र्यैवम् अब्रवीत् // rm_13.174{174} //

अहो बुद्धस्य माहात्म्यम् अहो धर्मानुभावता / अहो संघप्रभावत्वं पश्य तात मुनेः प्रभां // rm_13.175{175} //

यस्यानुस्मृतिमात्रेण कृपा लोके प्रसार्यते / धन्यो ऽयं भगवान् बुद्धो जयत्व् एवं सदा स्थितः // rm_13.176{176} //

यस्य दयानुभावेन जीवेम नीरुजः सुखी / पापैश् चापि विमुक्तो ऽहम् इति सत्यं प्रमन्यते // rm_13.177{177} //

तस्मात् तम् एव शास्तारं संबुद्धं शरणं व्रजे / यावद्भवम् अनुस्मृत्वा भजेय समुपाश्रितः // rm_13.178{178} //

एवं बुद्धगुणान् स्मृत्वा वडिकः स प्रमोदितः / कृताञ्जलिः स्मरन् भूयः प्रणत्वैवम् अयाचत // rm_13.179{179} //

नमस् ते भगवन् नाथ भवतां शरणं व्रजे / यावद्भवं त्रिरत्नानां भवेयं सेवकः सदा // rm_13.180{180} //

इत्य् एवं सुगतं स्मृत्वा वडिकः सो ऽभिबोधितः / भूयो भूयः स्मरन् नत्वा तस्थौ स्वास्थ्यत्वम् आगतः // rm_13.181{181} //

तदा स भगवान् बुद्धो दृष्ट्वा तं शुद्धमानसं / सद्धर्मं समुपादेष्टुं तद् द्वारे समुपासरत् // rm_13.182{182} //

तद्द्वारसमुपासीनं तं मुनीन्द्रं रविप्रभं / दृष्ट्वैव विस्मितो द्वास्थः सहसा गृहम् आविशत् // rm_13.183{183} //

तत्र गृहपतिं दृष्ट्वा वडिकं तं च सादरं / पुरतः समुपेत्यैव व्यज्ञापयत् ससत्वरः // rm_13.184{184} //

गृहपते मुनीन्द्रो ऽत्र गृहद्वार उपस्थितः / तद् अत्र सहसोपेत्य समामंत्र्य प्रवेशय // rm_13.185{185} //

इति तेनोदितं श्रुत्वा वडिकः स प्रसादितः / उत्थितः सहसोपेत्य तं मुनीन्द्रं मुदानमत् // rm_13.186{186} //

नत्वा तं सुगतं गेहे प्रज्ञप्य स्वासनं मुदा / विज्ञप्य समुपामंत्र्य प्रवेशयंस् तथार्थयन् // rm_13.187{167!} //

स्वागतं भगवन् वांछे भवतां शरणं मुने / प्रविशतु जगन्नाथ विजयस्वासने शुभे // rm_13.188{168} //

इति तेनोदिते बुद्धो भगवान् स समाविशन् / स्वासने समुपासीनो वडिकं तं तथावदत् // rm_13.189{1691} //

किं ते वडिक दुःखत्वं वाधकश् च कथं वद / इति भगवता पृष्टो वडिकः स तथावदत् // rm_13.190{190} //

कायिकं जायते दुःखं चेतसिकं च मे मुने / तद् भवान् कृपया दृष्ट्या शमयेत् तत् प्रबाधनं // rm_13.191{191} //

इति तद् विज्ञापितं श्रुत्वा भगवान् स मुनीश्वरः / तच्चित्तदुःखशान्त्यर्थं मैत्रीधर्मम् उपादिशत् // rm_13.192{192} //

वडिकात्र सदा लोके मैत्रचित्तं समाचर / अनेन ते मनोदाहं प्रशाम्येत सदापि हि // rm_13.193{193} //

इत्य् आदिश्य मुनीन्द्रः स पुनर् एवं व्यचिंतयत् / वतेन्द्रक्षीरिकां नाम महौषधां समानयेत् // rm_13.194{194} //

इति चित्तमतं शास्तुः परिज्ञाय सुराधिपः / आदाय क्षीरिकां नाम महौषधीम् उपानयत् // rm_13.195{195} //

तत्र सो सुरराजस् तं भगवन्तं प्रणम्य तां / महौषधीम् उपस्थाप्य पुर एवं समब्रवीत् // rm_13.196{196} //

भगवन् प्रतिगृह्णातु दिव्यौषधीम् इमां भवान् / अनयात्र यथाकार्यं साधयतु सुखाप्तये // rm_13.197{197} //

इत्य् उक्ते तेन शक्रेण दृष्ट्वा तां भगवान् मुनिः / गृहीत्वा वडिकायैवं प्रदत्वा चैवम् आदिशत् // rm_13.198{198} //

गृहाण वडिकेमां ते कायिकदुःखशामिनीं / अनया ते शरीरे संस्क्रियताम् उपचारणैः // rm_13.199{199} //

इत्य् आदिष्टे मुनीन्द्रेण वडिकः सो ऽनुमोदितः / तथेति तां समादाय यथादिष्टम् उपाचरत् // rm_13.200{200} //

ततस् तस्य तनू रोगैर् विमुक्ता परिपुष्टिता / क्रमेण शाम्यसौन्दर्यं प्राप्याभिपर्यशोभत // rm_13.201{201} //

ततः शास्त्रा यथादिष्टं वडिकेन तथा हृदि / मैत्री प्रभाविता लोके स्वात्मजे सुप्रिये यथा // rm_13.202{202} //

तदा तस्य महद्दुःखं चेतसिकं शशाम तत् / महामैत्र्या परिषिक्ते हृदये ऽग्निर् इवाम्बुभिः // rm_13.203{103!} //

ततः स वडिकः स्वस्थः परिशुद्धेन्द्रियः सुधीः / भगवन्तं तम् आनम्य प्रार्थयद् एवम् आदरात् // rm_13.204{104} //

वन्दे ऽहं भवतां पादौ सर्वदा शरणं व्रजे / तथा च सर्वदा नाथ कृपया त्रातुम् अर्हति // rm_13.205{105} //

यद्य् एवं भवतां शास्तः कृपादृष्टिर् न विद्यते / मृतो ऽहं नरके ऽद्यापि गतो दुःखान्य् अवाप्नुयां // rm_13.206{106} //

यद् एवं स्वस्थितो जीवे तत् ते कृपाम्बुभावतः / तथा मे ऽनुग्रहं कर्तुं नित्यम् अर्हति सर्वदा // rm_13.207{107} //

इत्य् एवं प्रार्थनां कृत्वा भूयः स वडिको मुदा / साञ्जलिः प्रणतिं कृत्वा पश्यंस् तस्थौ मुनीश्वरं // rm_13.208{108} //

तथा तज्जनकः श्रेष्ठी सदारः संप्रमोदितः / त्रिरत्ने शरणं कृत्वा संबुद्धं तं समर्चयत् // rm_13.209{109} //

ततः स गृहभृच् छ्रेष्ठी दृष्ट्वा तं सुगतं मुदा / कृताञ्जलिपुटो नत्वा प्रार्थयद् एवम् आदरात् // rm_13.210{210} //

वन्दे ते चरणौ शास्तः सर्वदा शरणं व्रजे / एवं नो ऽनुग्रहं कर्तुंम् अर्हति कृपया सदा // rm_13.211{211} //

ततः स भगवान् बुद्धस् तथास्त्व् इति समादिशत् / ऋद्ध्याकाशं समुत्प्लुत्य स्वम् आश्रमम् उपाययौ // rm_13.212{212} //

तत्र स भगवान् प्राप्तः सभामध्ये समाश्रितः / एतद् वृष्टि समाख्याय तस्थौ धर्मं समादिशत् // rm_13.213{213} //

तदा स वडिको भूयो बुद्धगुणान् अनुस्मरन् / स संघं सुगतं भोज्यैः पूजयितुं समैछत // rm_13.214{214} //

तदा स नृपते राज्ञः प्रसेनजित आनतः / एतत् सर्वं प्रवृत्तांतं निवेद्यैवम् अभाषत // rm_13.215{215} //

राजन्न् अहं महारोगी त्रिरत्नशरणं व्रजे / तत् त्रिरत्नकृपादृष्टेर् जीवे रोगैर् विमोचितः // rm_13.216{216} //

तन् मया स मुनीन्द्रो ऽपि सर्वसंघैः सहाधुना / समामंत्र्य गृहे भोज्यैः पूजयितुं समिच्छ्यते // rm_13.217{217} //

तन् मे ऽनुग्रहणं कृत्वा लोकानां पुण्यवृद्धये / तदधिवासनां कृत्वा समनुज्ञापय प्रभो // rm_13.218{218} //

इति तेनार्थितं श्रुत्वा स राजाभ्यनुमोदितः / वडिकं तैः समालोक्य प्रशंस्यैव समादिशत् // rm_13.219{219} //

वडिक त्वं महासाधुस् तद् बुद्धशरणं गतः / तथानुश्रद्धया नित्यं भज रत्नत्रयं सदा // rm_13.220{220} //

इति राज्ञाभ्यनुज्ञातं श्रुत्वा स वडिको मुदा / नृपतिं तं प्रणत्वैवं स्वगृहं समुपाययौ // rm_13.221{221} //

तत्र गृहे समासाद्य कृत्वानुमतं पितुः / शास्तु निमंत्रणां कर्तुं विहारे समुदाचरन् // rm_13.222{222} //

तत्र स समुपाविष्टो दृष्ट्वा तं श्रीघनं मुदा / कृताञ्जलिपुटो नत्वा प्रार्थयद् एवम् आदरात् // rm_13.223{223} //

भगवंस् तद् विजानीयाद् यदर्थं समुपाव्रजे / तथाप्य् अत्र भवदग्रे प्रार्थये ऽनुग्रहं कुरु // rm_13.224{224} //

यद् अहं रोगनिर्मुक्तः पुन जन्म इवाप्तवान् / तद् भवतां कृपादृष्टेः प्रसादाद् इतिन् मन्यते // rm_13.225{225} //

तद् अहं भवतां सर्वसंघानां भोजनैर् गृहे / पूजयितुं समिछे तद् अनुग्रहीतुम् अर्हति // rm_13.226{226} //

इति संप्रार्थितं तेन श्रुत्वा स भगवान् मुनिः / तथेत्य् अभ्यनुमोदित्वा तूष्णीभूत्वाध्युवास तत् // rm_13.227{227} //

ततः स वडिको मत्वा भगवताधिवासितं / मुदा तस्य मुनेः पादौ नत्वाशु स्वगृहं ययौ // rm_13.228{228} //

तत्र स सहसा गेहे वन्धुमित्रजनैः सह / संघार्हभोज्यपूजाङ्गं सामग्रीं समसाधयत् // rm_13.229{229} //

ततः स सर्वसामग्रीं साधयित्वासनानि च / प्रज्ञप्य शुद्धिते भूमौ मंदयित्वा समन्ततः // rm_13.230{230} //

ततस् तं श्रीघनं बुद्धं ससंघं स्वजनैः सह / आमंत्रितुं विहारे स सहसा समुपाचरत् // rm_13.231{231} //

तत्र स समुपाविष्टो दृष्ट्वा तं श्रीघनं मुदा / ससंघं सांजलिर् नत्वा प्रार्थयद् एवम् आदरात् // rm_13.232{232} //

भगवन् साध्यते साध्यं समयो वर्त्तते ऽधुना / तद् भवां सांघिकैः सार्द्धं विजयितुं समर्हति // rm_13.233{233} //

इति तेनार्थितं श्रुत्वा तथेति स मुनीश्वरः / पात्रचीवरम् आधाय सर्वसंघैः सहाचरत् // rm_13.234{234} //

तत्र मार्गेषु सर्वत्र नगरे च समन्ततः / प्रकाशयन् प्रातिहार्यं तद् गृहं समुपाविशत् // rm_13.235{235} //

तत्र गृहे समासाद्य पादार्घं प्रतिगृह्य सः / स्वासने समुपाविश्य क्रमात् तस्थौ ससांघिकः // rm_13.236{236} //

तदा स वडिको दृष्ट्वा तं बुद्धं स्वासने स्थितं / ससंघं सर्वपूजाङ्गैः सर्वपुष्पैः समर्चयत् // rm_13.237{237} //

ततश् च सुरसैर् भोज्यैः सुप्रणीतैः सुहाधितैः / वर्णगन्धरसोपेतैः सर्वैस् तां समतोषयत् // rm_13.238{268!} //

ततश् च भोजनान्ते स पात्रादीन्य् अपनीय च / मुखादीं शोधयित्वा च पूगौषधीन् प्रढौकयत् // rm_13.239{269} //

ततः स प्राञ्जलिर् नत्वा ससंघं सुगतं मुदा / पुरस्थो मनसा ह्य् एवं प्रणिधानं व्यधात् स्मरन् // rm_13.240{270} //

अनेन कुशलेनाहं लोके ऽन्धे ऽपरिणायके / यथायं भगवान् बुद्धस् तथा भूयासम् आत्मवित् // rm_13.241{271} //

यथानेन मुनीन्द्रेण जगल् लोको ऽभिपालितः / तथाहं सर्वलोकानां पालयेयं समन्ततः // rm_13.242{272} //

अतीर्णांस् तारयिष्यामि मोचयिष्याम्य् अमोचितान् / अनास्वस्तान् समाश्वास्य स्थापयिष्यामि निर्वृतौ // rm_13.243{273} //

इत्य् एवं मनसा तेन प्रणिधानं कृतं मुदा / मत्वा स भगवान् बुद्धो स्मितं प्राविर्व्यधान् मुदा // rm_13.244{274} //

तदा तस्य मुनीन्द्रस्य मुखात् पंच सुरस्मयः / निसृत्य त्रिषु लोकेषु भासयन्तः समासरन् // rm_13.245{275} //

यापि काश् चिद् अधोलोके प्रसृता नरकेषु ताः / उष्णेषु शीतलीभूता शीतलेषु तथोष्णिकाः // rm_13.246{276} //

तदा ताभिः परिस्पृष्टाः सर्वे नैरयिका जनाः / महत्सौख्यं समासाद्य विस्मिताश् चैवम् आलपत् // rm_13.247{277} //

अहो सौख्यं कथं ह्य् एवम् अन्यत्र किं गता वयं / कस्य पुण्यानुभावेन क्वास्माकं जायते सुखं // rm_13.248{278} //

इति चिन्ताभिदग्धानां तेषां चित्तप्रबोधने / भगवान् निर्मितं बुद्धं संप्रेष्य समदर्शयत् // rm_13.249{279} //

तत्र तं निर्मितं बुद्धं दृष्ट्वा सर्वे ऽपि ते मुदा / विस्मिताः सहसंमील्य पुनर् एवं वभाषिरे // rm_13.250{280} //

अहो समन्तभद्रो ऽयं पुरुषो दृश्यते ऽधुना / नूनम् अस्यानुभावेन सौख्यं नो जायते खलु // rm_13.251{281} //

इति संभाष्य ते सर्वे तस्मिन् बुद्धे प्रसादिताः / नमो बुद्धाय धर्माय संघाय चेति प्रावदन् // rm_13.252{282} //

ततः सर्वे ऽपि ते सत्वास् त्रिरत्नस्मृतिपुण्यतः / ते दुर्गतिविनिर्मुक्ताः सद्गतिं समुपाययुः // rm_13.253{283} //

एवं ता रश्मयः सर्वा अवभास्य समंततः / सर्वसत्वान् समुद्धृत्य मुनेः प्रत्याययुः पुनः // rm_13.254{284} //

तथा या रश्मयः काश्चिद् उपरिष्टात् प्रसारिताः / ताः सर्वान् देवलोकानां अवभास्य समन्ततः // rm_13.255{285} //

यावद् भवाग्रपर्यंतं भासयन्तः प्रसारिताः / एवं चापि महाशब्दम् उद्घुष्य समुदाचरन् // rm_13.256{286} //

अनित्यं खलु संसारं दुःखं शून्यम् अनात्मकं / तद् भवे सद्गतिं हित्वा सद्धर्मं भजतादरात् // rm_13.257{287} //

निष्क्रामतारभध्वं च युज्यध्वं बुद्धशासने / धुनीत मृत्युसैन्यं च नडागारम् इव द्विपः // rm_13.258{288} //

यो ऽप्य् अस्मिन् धर्मवैनेये ह्य् अप्रमत्तश् चरेत् सदा / स हित्वा जातिसंसारं दुःखस्यान्तं करिष्यति // rm_13.259{289} //

इत्य् एवं तन् महाशब्दं श्रुत्वा सर्वे ऽपि ते सुराः / तथेत्य् अभ्यनुमोदन्तस् त्रिरत्नशरणं ययुः // rm_13.260{290} //

तथा ता अर्चिषः सर्वा अवभास्य समंततः / पुनः प्रत्यागतास् तस्य मुनेर् अन्तिकम् आययुः // rm_13.261{291} //

ततस् ता अर्चिषः सर्वाः संमील्य समुपास्थिताः / कृत्वा प्रदक्षिणां त्रैधम् उष्णीषे ऽन्तर्दधौ मुनेः // rm_13.262{292} //

अथानंदस् तम् आलोक्य विस्मितः सहसोत्थितः / कृताञ्जलिपुटो नत्वा पप्रछैवं मुनीश्वरं // rm_13.263{293} //

भगवन् भवतो वक्त्रात् पंचवर्णाः सुरश्मयः / विनिसृता दिशः सर्वा भाषयन्ति समन्ततः // rm_13.264{294} //

नाकारणं जिना बुद्धा दर्शयन्ति स्मितं क्वचित् / भवत्स्मितं समालोक्य सर्वे भवन्ति विस्मिताः // rm_13.265{295} //

तद्धेतु श्रोतुम् इछंति सर्वे ऽपीमे सभाश्रिताः / तद् एषां संशयं छेतुं तद्धेतु समुपादिश // rm_13.266{296} //

इति तेनार्थितं श्रुत्वा भगवान् स मुनीश्वरः / तां च सर्वां सभां दृष्ट्वा तथानन्दम् अभाषत // rm_13.267{297} //

पश्यानंद ममानेन वडिकेनानुमोदिना / संघेषु श्रद्धया भक्त्या सत्कृत्य भजनं कृतं // rm_13.268{298} //

एतत्पुण्यविपाकेन वडिको ऽयं सुधीः कृती / क्रमाद् बोधिचरीः पूर्य दशभूमीश्वरो भवन् // rm_13.269{299} //

सर्वमारगणां जित्वा संबोधिं समवाप्तवान् / श्लक्ष्णवाण्यभिधो बुद्धस् तथागतो भविष्यति // rm_13.270{300} //

यद् अनेन त्रिरत्नेषु शरणं संप्रसादिना / प्रणिधानं कृतं तेन संबुद्धो ऽयं भवेद् ध्रुवं // rm_13.271{301} //

एवं मत्वा तथानंद त्रिरत्नशरणं गतः / सत्कृत्य समुपाश्रित्य भज नित्यं समाहितः // rm_13.272{302} //

ये सत्वाः श्रद्धया स्मृत्वा त्रिरत्नशरणं गताः / दुर्गतिं ते न गछन्ति भवन्ति बोधिभागिनः // rm_13.273{303} //

एवं मत्वा त्रिरत्नानां सत्कृत्य श्रद्धया मुदा / संस्मृत्य शरणं गत्वा भक्तव्यं बोधिवांछिभिः // rm_13.274{304} //

इत्य् आदिष्टं मुनीन्द्रेण श्रुत्वानंदः स मोदितः / सांघिकं सह लोकैश् च तथेति प्राभ्यनंदत // rm_13.275{305} //

ततः स भगवांस् तस्मै वडिकाय सुभागिने / दत्वाशीर्वचनं भूयः समामंत्र्य तम् अब्रवीत् // rm_13.276{306} //

वडिक त्वं महाभाग त्रिरत्नं शरणं गतः / बोधिचर्य्यां चरन् नित्यं संबोधिं समवाप्नुयाः // rm_13.277{307} //

इति सत्यं परिज्ञाय सर्वसत्वहितार्थभृत् / तथा रत्नत्रयं स्मृत्वा भज नित्यं समाहितः // rm_13.278{308} //

इत्य् आदिश्य मुनीन्द्रः स संघैः सार्द्धं समुत्थितः / वडिकं तं समामंत्र्य स्वविहारं ययौ तथा // rm_13.279{309} //

तथा स वडिको नित्यं त्रिरत्नशरणं गतः / सदा लोकहितं कृत्वा बोधिचर्यां समाचरत् // rm_13.280{310} //

एतन् मे गुरुणादिष्टं श्रुतं मया नराधिप / तथा ते कथ्यते राजं श्रुत्वा चैवं प्रकाशय // rm_13.281{311} //

तथा त्वयापि राजेन्द्र सत्वानां हितसाधने / त्रिरत्नशरणैः कृत्वा कर्त्तव्या बोधिचारिकाः // rm_13.282{312} //

तथा ते सर्वदा नित्यं सर्वत्र मंगलं भवेत् / क्रमाद् बोधिचरीं पूर्य संबोधिम् अपि चाप्नुयाः // rm_13.283{313} //

इति मत्वा महाराज प्रजाश् चापि प्रबोधयन् / सद्धर्मे संप्रतिस्थाप्य सर्वथा त्रातुम् अर्हसि // rm_13.284{314} //

इति तेनोपगुप्तेन समादिष्टं निशम्य सः / राजा तथेति विज्ञप्य प्राभ्यनन्दत् सपार्षदः // rm_13.285{315} //

श्रुत्वावदानं वडिकस्य साधोर् इदं नरा ये ऽभ्यनुमोदयन्ति / सर्वे ऽपि ते लोकहितानुरक्ता भवन्ति बोधिगुणलाभिका हि // rm_13.286{316} //

++ इति रत्नावदानतत्वे वडिकावदानं समाप्तम् ++

xiv gāndharvikāvadāna अथाशोको महीपालः श्रोतुम् अन्यत् सुभाषितं / उपगुप्तं यतिं नत्वा प्रार्थयद् एवम् आदरात् // rm_14.1{1} //

भदन्त श्रोतुम् इच्छामि पुनर् अन्यत् सुभाषितं / तद् यथा गुरुणाख्यातं तथादेष्टुं च मे ऽर्हति // rm_14.2{2} //

इति तेन नरेन्द्रेण प्रार्थितं स जिनात्मजः / श्रुत्वा तं नृपतिं दृष्ट्वा पुनर् एवं समादिशत् // rm_14.3{3} //

शृणु राजन् मयाख्यातं यथा मे गुरुणोदितं / तथा श्रूत्वानुमोदित्वा शुभे चरितुम् अर्हसि // rm_14.4{4} //

पुरा स भगवान् बुद्धः श्रावस्त्यां बहिर् आश्रमे / जेतारण्ये महोद्याने विहारे मणिमण्डिते // rm_14.5{5} //

भिक्षुभिः श्रावकैः सार्द्धं चैलकैर् व्रतिभिस् तथा / भिक्षुणीभिस् तथान्यैश् चा महासात्वैर् उपासकैः // rm_14.6{6} //

विहृत्य सर्वसत्वानां समितिस्थितः / संबोधिसाधानं धर्मम् उपादेष्टुं समारभत् // rm_14.7{7} //

तदा तस्य मुनीन्द्रस्य वक्त्रपद्माद् विनिसृतं / तत् सद्धर्मामृतं पातुं सर्वे सत्वा उपगताः // rm_14.8{8} //

ब्रह्मशक्रादि देवेन्द्राः सर्वे लोकाधिपा अपि / दैत्येन्द्राः सगणा यक्षाः सिद्धगंधर्वराक्षसाः // rm_14.9{9} //

विद्याधरगणाश् चपि नागेंद्राश् च महोरगाः / गरुडाः किन्नरेन्द्राश् च तथान्ये ऽपि समागताः // rm_14.10{10} //

ब्राह्मणा ऋषयश् चापि तापसा ब्रह्मचारिणः / यतयो योगिनो विज्ञास् तथान्ये तीर्थिका अपि // rm_14.11{11} //

रजानः क्षत्रियाश् चापि वीरा राजकुमारकाः / अमात्या मंत्रिणश् चापि वैश्याश् चापि प्रजाधिपाः // rm_14.12{12} //

श्रेष्ठिनो वणिजश् चापि सार्थवाहा महाजनाः / पौरा जानपदा ग्राम्यास् तथा कार्पटिका अपि // rm_14.13{13} //

एवं अन्ये ऽपि सत्वाश् च सर्वे लोकाः समागताः / तत् सद्धर्मामृतं पातुं तद् विहारे उपाविशत् // rm_14.14{14} //

तत्र तं श्रीघनं दृष्ट्वा समभ्यर्च्य प्रणम्य च / सत्कृत्य समुपाश्रित्य परिवृत्य सामान्ततः // rm_14.15{15} //

तं मुणीन्द्रं समालोक्य श्रोतुं तद् धर्मदेशनां / साञ्जलयः प्रसन्नास्या उपतस्थुः समाहिताः // rm_14.16{16} //

तथा तान् समुपासीनान् दृष्ट्वा स भगवाञ् जिनः / आर्यसत्यं समारभ्य सद्धर्मं समुपादिशत् // rm_14.17{17} //

तत् सद्धर्मामृतं पीत्वा सर्वे सत्वाः प्रमोदिताः / त्रिरत्नभजनं कृत्वा वभूवुर् बोधिचारिणः // rm_14.18{18} //

तदापि पंचमात्राणि गांधर्विकशतानि च / श्रावस्त्यां पुरि जातानि समदानि प्रचेरिरे // rm_14.19{19} //

तदा तां समदान् दृष्ट्वा गंधर्वाधिपतेः सुतः / सुप्रियो नाम तन् मादम् ईर्ष्यया हन्तुम् उद्ययौ // rm_14.20{20} //

ततः स सुप्रियः सर्वगान्धर्विकसुकौशलः / दिव्यवीणां समादाय तत्रैव समुपाचरत् // rm_14.21{21} //

सप्तस्वरान् एकतंत्र्याम् एकविंशतिमूर्छनाः / समुद्घोषयमानः च स्वमतिं दर्शयन् ययौ // rm_14.22{22} //

षण्महानगरेष्व् एवं पट्टनेषु समन्ततः / समुद्घोषयमानश् च श्रावस्तीं स उपाविशत् // rm_14.23{23} //

तत्र तं समुपाविष्टं दृष्ट्वा सर्वे ऽपि पौरिकाः / श्रुत्वा तद् अद्भुतं नादं विस्मिताः समुपाचरन् // rm_14.24{24} //

तानि च पंचमात्राणि गांधर्विकशतान्य् अपि / श्रुत्वा दृष्ट्वा च सर्वाणि विस्मयं समुपाययुः // rm_14.25{25} //

तद तानि च सर्वाणि दृष्ट्वा पंचशतान्य् अपि / स्वस्वमदाभिमानत्वां प्रविहाय विषेदिरे // rm_14.26{26} //

ततः सर्वे ऽपि ते तेन सहवादे भयान्विताः / नृपतेर् अन्तिकं गत्वा तत् प्रवृत्तिं न्यवेदयन् // rm_14.27{27} //

जय प्रभो विजानीयाद् यद् वयं समुपागताः / तद् अत्र नो भयत्रस्तां त्रातुम् अर्हति सर्वथा // rm_14.28{28} //

अत्रासौ सुप्रियो नाम गन्धर्वाधिपतेः सुतः / नूनं नो मदघाताय विजेतुं समुपागतः // rm_14.29{29} //

तत् तस्याप्य् अभिमानत्वां निहंतुं सत्प्रतिक्रियां / क्रियतां सहसास्माकम् इति विज्ञापनां शृणु // rm_14.30{30} //

इति विज्ञापितं सर्वैस् तैः श्रुत्वा स नराधिपः / सर्वान्स् तान् समुपामंत्र्य पुर एवं समादिशत् // rm_14.31{31} //

अल्पोत्सुका भवन्तो ऽत्र भवते मा विषीदत / भविष्यामो ऽत्र कालज्ञाश् चरतु स यथेछया // rm_14.32{32} //

इति राज्ञा समादिष्टं श्रुत्वा ते ऽभ्यनुमोदिताः / तद् विवादभयातंकं त्यक्त्वा सर्वे प्रसेदिरे // rm_14.33{33} //

तदा स सुप्रियस् तत्र दृष्ट्वा तान् अभिमानिकान् / तेषां मानविघातार्थं मनसैवं व्यचिन्तयत् // rm_14.34{34} //

अयं राजपि गांधर्वविद्याभिमानिको भवेत् / तद् अनेन सहात्राहं वादं कुर्यां सभाश्रये // rm_14.35{35} //

इत्य् एवं निश्चयं कृत्वा सुप्रियः सो ऽभिमानिकः / नृपतिं तम् उपालब्धुं तत् सभां समुपाचरत् // rm_14.36{36} //

तत्र स नृपतिर् दृष्ट्वा सुप्रियं तम् उपागतं / प्रज्ञप्यासनम् आमंत्र्य प्रणत्वैवम् अभाषत // rm_14.37{37} //

स्वागतं ते भवन्न् अत्र तिष्ठासने प्रसीद मे / किम् अर्थे ऽत्र समायासि तद् आदेष्टुं हि मे ऽर्हसि // rm_14.38{38} //

इति तेनोदितं श्रुत्वा सुप्रियः स सभास्थितः / नृपतिं तं समालोक्य पुर एवम् अभाषत // rm_14.39{39} //

शृणु राजन् मयाख्यातं श्रुतं यत् ते यशो महत् / तद् गुणान् भवतो द्रष्टुम् इहाहं समुपाचरे // rm_14.40{40} //

तन् मे दर्शय राजेन्द्र गान्धर्वगुणाम् आत्मनः / कस् ते सास्ता गुरुर् वास्ति तं चापि मे प्रदर्शय // rm_14.41{41} //

इति तेनोदितं श्रुत्वा स राजा प्रतिभाणवान् / सुप्रियं तं समालोक्य तथेत्य् एवम् अभाषत // rm_14.42{42} //

साधु पश्य महाभाग दर्शयिस्यामि तं गुरुं / यो मे शास्ता महाभिज्ञः सर्वविद्यागुणाधिपः // rm_14.43{43} //

स मे शास्ताधुनेहैव सर्वसत्वहितार्थतः / जेतारण्ये महोद्याने निवशति वृषं दिशन् // rm_14.44{44} //

साधु पश्य महाभाग तं गुरुं मे हितार्थदं / तद् एहि सह यास्याम शास्तारं दर्शयामि तं // rm_14.45{45} //

इति तेन नरेन्द्रेण समाख्यातं स सुप्रियः / श्रुत्वा तथेति प्रमोद्य गन्तुम् अभाषत // rm_14.46{46} //

साधु राजन् समिछामि शास्तारं तत् प्रदर्शय / तेन सह विवादानि कुर्यां तत्र नयाशु मां // rm_14.47{47} //

इति तेनोदितं श्रुत्वा नृपतिः स तथेति हि / सुप्रियं तं समादाय विहारे गन्तुम् ऐछत // rm_14.48{48} //

ततः स नृपतिस् तेन सुप्रियेणाभिमानिना / तैश् च पंचशतैर् अन्यैर् गान्धर्विकैः सहाचरत् // rm_14.49{49} //

तस्मिन्न् अवसरे बुद्धो भगवान् स मुनीश्वरः / लोके सत्वान् समुद्धर्तुं कृपया समपश्यत // rm_14.50{50} //

तदा तेन नरेशेन सार्द्धम् एवम् उपागतं / सुप्रियं तं स आलोक्य मनसैव व्यचिन्तयत् // rm_14.51{51} //

अहो वत सुधीर् या सा गन्धर्वाधिपनन्दनः / पञ्चशिखो ऽभिधो वीणाम् आदायेहोपसंक्रमेत् // rm_14.52{52} //

इति तेन मुनीन्द्रेण मनसा परिचिन्तितं / मत्वा पञ्चशिखः सो ऽपि तथागन्तुं समैछत // rm_14.53{53} //

ततः स सप्तगंधर्वसहस्रेण सहान्वितः / वैडूर्यदण्डवीणां संप्रादाय सहसाचरन् // rm_14.54{54} //

तथा स संक्रमंस् तत्र विहारे समुपाविशन् / दृष्ट्वा तं श्रीघनं नत्वा तां वीणां समुपानयत् // rm_14.55{55} //

ततः स सुगतं भक्त्या समभ्यर्च्य प्रसन्नधीः / तत् सद्धर्मामृतं पातुं तत् सभायाम् उपाश्रयत् // rm_14.56{56} //

तदा स सुप्रियो ऽप्य् एनं दृष्ट्वा मानाभिगर्वितः / तां वीणां क्वनयन्न् अग्रे ऽनुश्रावितुं समारभत् // rm_14.57{57} //

तत्प्रक्वाणात् स्वरा सप्त एकै विंशति मूर्छनाः / समुत्थिताः सर्वलोकचेतान्सि पर्यमोहयन् // rm_14.58{58} //

तदा सर्वे ऽपि ते लोकाः श्रुत्वा तत् प्रक्वणान् मुदा / नृपतिप्रमुखाश् चापि परं विस्मयम् आयजुः // rm_14.59{59} //

ततः स भगवांश् चापि तस्य मानाभिघातने / वैडूर्यदण्डवीणां ताम् अनुश्रावितुम् आरभत् // rm_14.60{60} //

एकैकस्यां हि तत् तंत्र्या नैकस्वरविशेषिताः / मूर्छनाश् च तथा नानाविधा निश्चारितास् तथा // rm_14.61{61} //

ततः शब्दात् समुच्चेरुर् गाथा एवं प्रचोदिनाः / तद्यथेह भवे सर्वं दुःखं शून्यं ह्य् अनात्मकं // rm_14.62{62} //

इदं कायं च वीणावद् इन्द्रियाणि स्वरानी च / मूर्छना इव चित्तानि ज्ञात्वा बोधौ समाचर // rm_14.63{63} //

एतद्गाथाम् अनुश्रुत्वा सर्वे लोका नृपादयः / सत्यम् एतद् इति ज्ञात्वा बोधिचित्तं प्रलेहिरे // rm_14.64{64} //

तदा स सुप्रियो ऽप्य् एवं श्रुत्वा मत्वानुमोदितः / परितत्याज गांधर्वविद्यामदाभिमानतां // rm_14.65{65} //

ततो निर्यात्य वीणां स गन्धकुट्यां विरागितः / भगवच्छासने तत्र प्रव्रजितुं समैछत // rm_14.66{66} //

तदा तं श्रीघनं नत्वा सुप्रियः सो ऽनुमोदितः / कृताञ्जलिः पुरः स्थित्वा प्रव्रज्यां समयाचत // rm_14.67{67} //

वंदे ते चरणौ शास्त भवतां शरणं व्रजे / तन् मे ऽत्रानुग्रहं कृत्वा प्रव्रज्यां दातुम् अर्हति // rm_14.68{68} //

इति तेनार्थितं श्रुत्वा भगवान् स मुनीश्वरः / दृष्ट्वा तद् आशयं शुद्धं गंधर्वं तं तथावदत् // rm_14.69{69} //

गंधर्व सौगते धर्मे प्रव्रजितुं यदीछसि / पित्रोर् आज्ञां समासाद्य प्रेहि दास्यामि ते व्रतं // rm_14.70{70} //

इत्य् आदिष्टं मुनीन्द्रेण श्रुत्वा स सुप्रियो मुदा / तथेति तं मुनिं नत्वा सहसर्द्ध्या गृहं ययौ // rm_14.71{71} //

तत्र स सहसा प्राप्तो नत्वा तौ पितरौ मुदा / साञ्जलिः पुरतः स्थित्वा प्रार्थयद् एवम् आदरात् // rm_14.72{72} //

शृणु मे वाञ्छितं तात यदि ते कृपया मयि / तन् ममानुग्रहं कृत्वा सद्धर्मे मां नियोजय // rm_14.73{73} //

अहं हि सौगतं धर्मं दृष्ट्वा वाञ्छामि तद् व्रतं / तत् प्रव्रज्यां समासाद्य प्राप्तुम् इछामि निर्वृतिं // rm_14.74{74} //

अनित्यं खलु संसारं तद् अत्रापि न मे रतिः / अवश्यं हि भवेन् मृत्युः सर्वेषां प्राणिनाम् अपि // rm_14.75{75} //

एवं दृष्ट्वात्र संसारे भोग्यं नेछामि निःस्पृहः / तत् प्रव्रज्याव्रतं धृत्वा प्राप्तुम् इछे सुनिर्वृतिं // rm_14.76{76} //

अपि चासौ मुनीन्द्रो हि सदात्रैव न तिष्ठति / बुद्धकार्यं समाप्यैव निर्वृतिं सर्वथा व्रजेत् // rm_14.77{77} //

किं चात्र सर्वदा नैवम् उत्पत्स्यते मुनीश्वरः / कदा चिद् एवम् उत्पन्नो लोके बोधिं समादिशेत् // rm_14.78{78} //

तथा च दुर्लभं जन्म सद्गतौ च क्षणं तथा / तत्क्षणे ऽलभ्यमाने ऽत्र कथं धर्मानुलप्स्यते // rm_14.79{79} //

धर्मं विनात्र संसारे किं सारं सुखिनो ऽपि हि / क्षणध्वन्सि शरीरं हि जीवितं च तृणाम्बुवत् // rm_14.80{80} //

धर्मेण सद्गतिं यायात् संबोधिम् अपि प्राप्नुयात् / तत् प्रव्रज्याचरिं धृत्वा प्राप्तुम् इछे ऽत्र निर्वृतिं // rm_14.81{81} //

तद् आत्र यदि वां तात कृपास्ति स्वात्मजे मयि / सर्वथानुग्रहं कृत्वा तद् अनुज्ञां प्रदेहि मे // rm_14.82{82} //

इति तेनार्थितं श्रुत्वा स गन्धर्वाधिपः सुधीः / सुचिरं तं सुतं दृष्ट्वा स्नेहाद् एवम् अभषत // rm_14.83{83} //

सत्यम् एवं सुताख्यातं तथापि मे वचः शृणु / प्रव्रज्या दुष्करीचर्य्या तत् कथं त्वं समाचरेः // rm_14.84{84} //

त्वं हि युवा प्रमत्तो ऽसि मदनाक्रांतमानसः / कामभोग्यसुखारक्तस् तत् कथं तद् व्रतं चरेः // rm_14.85{85} //

प्रव्रजितो विरक्तात्मा संसारभोग्यनिस्पृहः / सर्वान् परिग्रहान्स् त्यक्त्वा सदैकान्ती वने वसे // rm_14.86{86} //

सुकुले दुःकुले चापि याचित्वा विरशासनं / भुंजीथास् तत् कथं भुक्त्वा समाधिं संप्रधास्यसि // rm_14.87{87} //

इत्य् एवं दुष्करं ज्ञत्वा प्रव्रज्याव्रतसाधने / सहसा मा कृथाश् चित्तं निवारय समाहितः // rm_14.88{88} //

यद्य् अतिवांछसे पुत्र प्रव्रज्याग्रहणे तथा / वृद्धत्वे समुपाश्रित्य त्रिरत्नं तद् व्रतं चर // rm_14.89{89} //

तत् त्वं यावद् युवा गेहे सौख्यं भुक्त्वा यथेप्सितं / वृद्धत्वे तद् व्रतं धृत्वा त्रिरत्नानि सदा भज // rm_14.90{90} //

तथा चेत् ते भवेज् जन्म साफल्यं भवचारणे / सुखं भुक्त्वा व्रतं धृत्वा निर्वृतिं वा समाप्नुयाः // rm_14.91{91} //

इति मे वचनं श्रुत्वा मत्वैवं तत् प्रबोधितः / तावद् गृहे सुखं भुक्त्वा स्मृत्वा रत्नत्रयं वस // rm_14.92{92} //

इति पित्रोदितं श्रुत्वा सुप्रियः सो ऽभिशंकितः / पुनस् तं पितरं दृष्ट्वा बोधयन्न् एवम् अब्रवीत् // rm_14.93{93} //

सत्यम् एवं भवे तात तथापि वक्ष्यते मया / तच् छ्रुत्वापि त्वया परिज्ञाय विबुध्यतां // rm_14.94{94} //

सत्कुले दुर्लभं जन्म तत्रापि दुर्लभं क्षणं / दुर्लभं सुगतोत्पादं दुर्लभं तद्व्रतं भवे // rm_14.95{95} //

इति मत्वात्र संसारे क्लेशमानमदाकुले / अवश्यं मरणं दृष्ट्वा प्राप्तुम् इछे ऽत्र निर्वृतिं // rm_14.96{96} //

तद् अत्र कृपया मह्यम् अनुज्ञां दातुम् अर्हसि / यूयं चापि हि तद् धर्मभाणैः सद्गतिम् आप्स्यथ // rm_14.97{97} //

इति हेतोः पित तत्र विलम्बंम कृथा चिरं / सहसानुग्रहं कृत्वा तद् अनुज्ञां प्रदेहि मे // rm_14.98{98} //

इति तेनार्थितं श्रुत्वा स गंधर्वाधिपश् चिरात् / स्नेहदुःखाग्निसंतप्तो गलदश्रुमुखो ऽवदत् // rm_14.99{99} //

अयि सुप्रिय पुत्र त्वं स्नेहान् मया निवार्यस / यद्य् अतिवांछसे प्राप्तुं निर्वृतिं तन् समाचर // rm_14.100{100} //

संबुद्धशरणं कृत्वा प्रव्रज्य संवरं दधत् / त्रिरत्नभजनं कृत्वा चर नित्यं समाहितः // rm_14.101{1} //

इति पित्रोदितं श्रुत्वा सुप्रियः सो ऽभिमोदितः / पित्रोः पादान् प्रणत्वैव सहसा निर्ययौ गृहात् // rm_14.102{2} //

ततः स सहसा गत्वा विहारं समुपाचरत् / तत्र प्राप्तो मुनीन्द्रं तं दृष्ट्वैव समुपाविशत् // rm_14.103{3} //

तत्र तं श्रीघनं नात्वा प्राञ्जलिः पुर आश्रयन् / सुप्रसन्नमुखांभोजः प्रार्थयद् एवम् आदरात् // rm_14.104{4} //

सर्वज्ञ भगवाञ् छास्तर् आदिष्टं भवतायथा / तथानुज्ञां पितुः प्राप्य प्रागताहम् इहाधुना // rm_14.105{5} //

तद् अत्र भवतां शास्तः शरणं समुपागतः / ब्रह्मचर्यं चरिष्यामि तत् प्रव्रज्यां प्रदेहि मे // rm_14.106{6} //

इति तेनार्थितं श्रुत्वा भगवान् स जगद्गुरुः / दृष्ट्वा तस्याशयं शुद्धं पुनर् एव समादिशत् // rm_14.107{7} //

एहि सुप्रिय भिक्षो ऽत्र चर ब्रह्मचरिं शिवां / त्रिरत्नं शरणं कृत्वा समाधिं समुपाश्रयत् // rm_14.108{8} //

ततो दृष्ट्वा च संसारं क्लेशसंघसमाकुलं / पंचगंडमयं देहं जीवितं च त्रिनाम्वुवत् // rm_14.109{9} //

समाधिसंवरं धृत्वा संबोधिसाधनोद्यतः / सर्वक्लेशरिपुञ् जित्वा साक्षाद् अर्हत्पदं ययौ // rm_14.110{10} //

ततः सुप्रियो भिक्षुः प्राप्ताभिज्ञः कृती सुधीः / भिन्दन् सर्वम् अविद्याङ्गं निर्विकल्पो ऽभवद् यतिः // rm_14.111{11} //

समलोष्टसुवर्णश् च परिशुद्धत्रिमंडलः / वासीचंदनकल्पो ऽभूद् आकाशसममानसः // rm_14.112{12} //

संसारभोग्यसत्कारमान्यलाभपराङ्मुखः / निःक्लेशः परिषुद्धात्मा ब्रह्मचारी निरंजनः // rm_14.113{13} //

सदेवासुरलोकानां सर्वभुवनवासिनां / वंद्यः पूज्यो ऽभिनंद्यश् च माननीयो भवन् बभौ // rm_14.114{14} //

तदैवंभूतम् अर्हन्तं सुप्रियं तम् शुभेन्द्रियं / प्रालोक्य विस्मिताः सर्वे तत्सभास्थाः प्रसेदिरे // rm_14.115{15} //

तदा सर्वे ऽपि ते लोका देवा दैत्याश् च किन्नराः / यक्षाः सिद्धाश् च गंधर्वा नागाश् च राक्षसा अपि // rm_14.116{16} //

गरुडाश् च तथान्ये ऽपि विद्याधराश् च साप्सराः / सर्वे लोकाधिपाश् चापि त्रिरत्नशरणं गताः // rm_14.117{17} //

संबुद्धशासने तत्र सांघिकानां समन्ततः / रक्षावरणसंगुप्तिं कृत्वाभजन् समुद्यताः // rm_14.118{18} //

तद् दृष्ट्वा तानि पञ्चापि गांधर्विकशतानि च / अनुमोद्य प्रसन्नानि संमील्यैवं वभाषिरे // rm_14.119{19} //

एते सर्वे वयं नीचे कर्मणि परिवर्त्तिकाः / सुखानभिज्ञदुःखार्त्ताः क्लेशिनः कृछ्रवृत्तयः // rm_14.120{20} //

यद् अस्माभिः पुरा पुण्यं किं चिद् वापि न साधितं / तेनास्यात्र वयं सर्वे दुःखिनो नीचवृत्तयः // rm_14.121{21} //

तद् अस्माभिर् अयम् शास्ता मुनीश्वरः ससांघिकः / सत्कृत्य भोजनैर् वापि पूजनीयो यथाविधिः // rm_14.122{22} //

नूनम् एतद्विपाकेन भवेमहि सुभागिनः / ततः पुण्यानुसारेण बोधिमार्गे चरेमहि // rm_14.123{23} //

ततः क्रमेण संप्राप्य बोधिचर्य्यां शुभां चरीं / चरन्तस् तद्विपाकैश् च निर्वृतिं संलभेमहि // rm_14.124{24} //

इति मत्वा वयं सर्वे विज्ञप्य नृपतिं तथा / ससंघं सुगतं भोज्यैर् अर्हामहे समर्चितुं // rm_14.125{25} //

तथेति संमतं कृत्वा सर्वे ते ऽभ्यनुमोदिताः / नृपतेर् विज्ञापनां कर्तुं सहसा समुपाचरन् // rm_14.126{26} //

तत्र ते समुपासृत्य दृष्ट्वा तं नृपतिं मुदा / कृताञ्जलिपुटो नत्वा प्रार्थयन्न् एवम् आदरात् // rm_14.127{27} //

जय देव महाराज लोकान् धर्मेण पालय / किञ्चिद् विज्ञापनां कर्त्तुं वयम् उपागताः // rm_14.128{28} //

विजानीयाद् भवान् ह्य् एतत् तथापि प्रार्थयामहे / श्रुत्वा नो ऽनुग्रहं कृत्वा कृपया तत् प्रसीदतु // rm_14.129{29} //

यद् वयं देव सर्वे ऽत्र नीचकर्मानुचारिणः / तत् ससंघं मुनिं भोज्यैः समिछामः समर्चितुं // rm_14.130{30} //

तद् अनुज्ञां प्रदत्वा नः कृपयोद्धर्तुम् अर्हसि / एतद् विज्ञापनां कुर्मस् तत् प्रसीद नृपाधिप // rm_14.131{31} //

इति तैः प्रार्थितं श्रुत्वा नृपतिः सो ऽनुमोदितः / तान् सर्वान् समुपामंत्र्य पुनर् एवं समादिशत् // rm_14.132{32} //

साधु भवतु सर्वेषां युष्माकं सत्समीहितं / तत् तथा क्रियतां बुद्धे सत्कारं श्रद्धयादरात् // rm_14.133{33} //

संबुद्धे यत् कृतं कर्म तत् फलं क्षिणुयान् न हि / क्रमाद् बोधिचरिं पूर्य निर्वृतिं समवाप्नुयात् // rm_14.134{34} //

तद् अत्र सर्वथा यूयं ससंघं श्रीघनं मुनिं / यथार्हभोजनं भक्त्या पूजयध्वं समादरात् // rm_14.135{35} //

इत्य् आदिष्टम् ः - न्द्रेण श्रुत्वा सर्वे ऽपि ते मुदा / तथेति प्रतिनंदित्वा नृपं नत्वा ततो ऽचरन् // rm_14.136{36} //

ततस् ते संमतं कृत्वा विहारे सहसा गताः / दृष्ट्वा तं श्रीघनं नत्वा प्रार्थयन्न् एवम् आदरात् // rm_14.137{37} //

भगवंस् तद् विजानीयाद् यद् अर्थं समुपागताः / तथापि प्रार्थयेयैवम् अनुग्रहीतुम् अर्हति // rm_14.138{38} //

यद् वयं भवतां सर्वसांघिकानां यथाविधिं / पूजयितुं समिछामो सत्कर्तुं भोजनैर् अपि // rm_14.139{39} //

तद् भवां कृपया दृष्ट्वा कृत्वास्माकं अनुग्रहं / पुरे श्वः सांघिकैः सार्द्धं विजयितुं समर्हसि // rm_14.140{40} //

इति तैः प्रार्थिते सर्वैर् भगवान् स मुनीश्वरः / तेषां धर्मप्रवृद्ध्यर्थं तूष्णीभूत्वाध्युवास तत् // rm_14.141{41} //

ततस् सर्वे ऽपि ते मत्वा भगवताधिवासितं / भूयस् तं श्रीघनं नत्वा स्वं पुरं सहसा ययुः // rm_14.142{42} //

तत्र सर्वे ऽपि ते भूमिं शोधयित्वा समन्ततः / प्रज्ञप्य स्वासनान्य् एवं सामग्रिं समसाधयन् // rm_14.143{43} //

ततः पूजोपहाराणि भोज्याङ्गानि रसानि च / पेयानि सुप्रणीतानि साधयित्वा प्रमोदिताः // rm_14.144{44} //

तत्र तं सुगतं सर्वं संघं चामंत्रितुं ययुः / विहारे समुपसृत्य श्रीघनं संप्रणेमिरे // rm_14.145{45} //

कृताञ्जलिपुटो नत्वा सर्वे ते समुपस्थिताः / संबुद्धप्रमुखं संघं प्रार्थयन्न् एवम् आदरात् // rm_14.146{46} //

सर्वज्ञ भगवं छास्तः समयो वर्त्तते ऽधुना / तद् भवान् संघिकैः सार्द्धं विजयितुं समर्हति // rm_14.147{47} //

इति तैः प्रार्थिते दृष्ट्वा भगवान् स ससांघिकः / पात्रचीवरम् आदय प्रतस्थे संप्रभासयन् // rm_14.148{48} //

तत्र मार्गेषु सर्वत्र प्रातिहार्यं प्रदर्शयन् / सर्वेषां शुभतां कृत्वा तत् पुरे समुपाविशत् // rm_14.149{49} //

प्रदक्षिणक्रमेणैवं चरंस् तत्र समंततः / भासयं भद्रतां कुर्वन् तत्प्रदेशे समाचरन् // rm_14.150{50} //

तत्र पाद्यार्घम् आदाय क्रमेण सह सांघिकं / स्वासने समुपाविश्य तस्थौ भानुर् इवोज्वलन् // rm_14.151{51} //

तदा तं श्रीघनं सर्वसंघं च स्वासने स्थितं / दृष्ट्वा सर्वे ऽपि ते हर्षात् पूजयितुं समारभन् // rm_14.152{52} //

तथा क्रमेण संपूज्य तं बुद्धप्रमुखं गणं / यथार्हभोजनैः सर्वं संतृप्तं समतोषयन् // rm_14.153{53} //

ततस् ते भोजनांते तत्पात्राणि व्यपनीय च / करादीञ् छोधयित्वा तद् भूमिं च पर्यशोधयन् // rm_14.154{54} //

ततः पूगादिकं दत्वा पुनः सर्वे ऽपि ते मुदा / कृताञ्जलिपुटा नत्वा समुपतस्थिरे पुनः // rm_14.155{55} //

ते च गांधर्विकाः सर्वे त्रिरत्नशरणं गताः / बोधिप्रणिधिम् आधाय प्रभेजिरे समाहिताः // rm_14.156{56} //

वेणुवीणामृदंगादि तूर्यसंगीतिवादनैः / उपस्थित्य ससंघं तं श्रीघनं समतोषयत् // rm_14.157{57} //

तद स भगवां दृष्ट्वा तेषां भक्तिप्रसादिनीं / सर्वेषां शुद्धचित्तानि व्यमुञ्चत् स्मितम् उद्धवात् // rm_14.158{58} //

तत् संस्मितसहोत्पन्नाः पंचवर्णाः शुभांशवः / सर्वत्र भुवने गत्वा प्रचेरुर् अमृतांशुवत् // rm_14.159{59} //

तेषां के चिद् अधोगत्वा नरकेषु समन्ततः / अवभास्य परिस्पृष्ट्वा सर्वत्रापि सुखं ददुः // rm_14.160{60} //

तदा ते नारकीयास् तत् प्रभास्पृष्टाः सुखान्विताः / किम् एतद् इति संदिग्धाः संमील्यैवं वभाषिरे // rm_14.161{61} //

अहो नु जायते सौख्यम् अस्माकं सांप्रतं कथं / वतान्यत्र गताः स्मो ऽद्य कस्य पुण्यानुभावतः // rm_14.162{62} //

इति संदिग्धचित्तानां तेषां मनः प्रबोधने / भगवान् निर्मितं बुद्धं संप्रेषयन् समंततः // rm_14.163{63} //

तत्रा तं सौगतं दृष्ट्वा सर्वे ते नरकस्थिताः / विस्मिताः समुपासृत्य ववन्दिरे प्रसादिताः // rm_14.164{64} //

नमो बुद्धाय धर्माय संघाय च नमस् सदा / इति प्रोक्त्वा प्रणत्वा तच्छरणं समुपाययुः // rm_14.165{65} //

एतत्पुण्यानुभावेन सर्वे ते नरकोत्थिताः / सहसा स्वर्गतिं याताः सद्धर्मे समुदाचरन् // rm_14.166{66} //

एवं तान् सर्वसत्वांश् च समुद्धृत्य समन्ततः / सर्वे ते ऽप्य् अंशवो भूयस् संबुद्धान्तिकम् उपाचरन् // rm_14.167{67} //

के चिद् ऊर्द्ध्वगता यावद् अकनिष्ठं समन्ततः / अवभास्य समुद्घुष्य तत्रैवं समचोदयन् // rm_14.168{68} //

अनित्यं खलु संसारं शून्यं ह्य् अनात्मकं / इति सत्यं परिज्ञाय त्रिरत्नं भजतादरात् // rm_14.169{69} //

निष्क्रामतारभध्वं च यूज्यध्वं बुद्धशासने / धुनीत मारसैन्याश् च नडागारं यथा करी // rm_14.170{70} //

यो ऽप्य् अस्मिन् सौगते धर्मे ह्य् अप्रमत्तश् चरेत् सदा / स त्यक्त्वा जन्म संसारे दुःखस्यान्तं करिष्यति // rm_14.171{71} //

इति संचोदयन्तस् तां सार्वान् देवांश् च सर्वतः / ते सर्वे ऽप्य् अंशवो भायः सुगतान्तिकम् आययुः // rm_14.172{72} //

ततस् ते ऽप्य् अंशवः सर्वे संमील्य संगता मुनेः / प्रदक्षिणत्रयं कृत्वा तस्योर्णायां समाविशन् // rm_14.173{73} //

तद् दृष्ट्वा ते सभालोका विस्मयोद्धतमानसाः / किम् एतद् इति संचिन्त्य सर्वे तस्थुः शकौतुकाः // rm_14.174{74} //

अथानंदः समालोक्य तान् सर्वान् विस्मयोद्धवान् / उत्थाय साञ्जलिर् नत्वा शास्तारं तं समब्रवीत् // rm_14.175{75} //

भगवन्स् ते मुखाद् भासिः पंचवर्णा विनिर्गता / अवभास्य दिशः सर्वा ऊर्णायां च विशन्ति ताः // rm_14.176{76} //

एतद् दृष्ट्वा सभालोकाः सर्वे ऽपीमे सविस्मयाः / तद्धेतुं श्रोतुम् इछन्ति तद् उपादेष्टुम् अर्हति // rm_14.177{77} //

नाहेतु हि स्मितं बुद्धा दर्शयन्ति कदा चन / यद् धेतौ भवता शास्तुर् हसितं तत् समादिश // rm_14.178{78} //

इति संप्रार्थितं शिष्येन स मुनीश्वरः / तम् आनंदैः सभां चापि समालोक्यैवम् आदिशत् // rm_14.179{79} //

पश्यानंद यद् एतैर् हि सर्वै गान्धर्विकैर् अपि / मम ससांघिकस्यैवं सत्कारं प्रकृतं मुदा // rm_14.180{80} //

एतत्पुण्यविपाकेन सर्वे ऽपीमे भवान्तरे / क्रमाद् बोधिचरीं प्राप्ता निःक्लेशा विमलाशयाः // rm_14.181{81} //

मारचर्याविनिर्मुक्ताः परिशुद्धास् त्रिमण्डलाः / वर्णस्वराभिधाः सर्वे प्रत्येकसुगता जिनाः // rm_14.182{82} //

प्रान्ताशय्यासानासीना हीनदीनानुकम्पकाः / दक्षिणीया महासत्वा भविष्यन्ति शुभंकराः // rm_14.183{83} //

एवम् एतात् समालोक्य यूयं यदि समिछथ / तथात्र श्रद्धया नित्यं त्रिरत्नं भजतादरात् // rm_14.184{84} //

ये त्रिरत्नं सदा भक्त्या सत्कृत्यैवं भजन्ति ते / विहाय दुर्गतिं नित्यं सद्गतिं समवाप्नुयुः // rm_14.185{85} //

इति मत्वात्र संसारे येषां वांछा सुखे शिवे / ते सत्कृत्य त्रिरत्नेषु श्रद्धया भजतानिशं // rm_14.186{86} //

इत्य् आदिष्टं मुनीन्द्रेण श्रुत्वा सर्वे च ते जनाः / सत्यम् एवं प्रतिज्ञाय त्रिरत्नं सर्वदाभजन् // rm_14.187{87} //

तद् दृष्ट्वा भिक्षवः सर्वे विस्मयोद्धतमानसाः / कृताञ्जलिपुटा नत्वा पप्रछुस् तं मुनीश्वरं // rm_14.188{88} //

यद् एवं भगवन्न् एभिः सत्कारं प्रकृतं महत् / तत् ते केन सुपुण्येन सम्यग् आदेष्टुम् अर्हति // rm_14.189{89} //

एवं तैर् भिक्षुभिः सर्वैः प्रार्थिते स जिनेश्वरः / सर्वान्स् ताञ् छ्रावकान् भिक्षून् समालोक्यैवम् आदिशत् // rm_14.190{90} //

शृणुध्वं भिक्षवः पुण्यं यन् मया प्रकृतं पुरा / तद् अत्र कथितं श्रुत्वा श्रद्धयाभ्यनुमोदत // rm_14.191{91} //

पुरासीद् भगवान् बुद्धः प्रबोधनाभिधो जिनः / सर्वज्ञः सुगतः शास्ता धर्मराजो मुनीश्वरः // rm_14.192{92} //

सर्वविद्याधिपो नाथस् तथागतो विनायकः / मारजिल् लोकविद् भर्त्ता सुभद्रो ऽर्हन् हितंकरः // rm_14.193{93} //

तदा स भगवान् बुद्धो जनपदेषु चारिकां / चरन्न् अन्यां राजधानीम् अनुप्राप्तः ससांघिकः // rm_14.194{94} //

तत्र तस्य नरेन्द्रस्य क्रीडोद्याने तरोर् अधः / प्रविश्य स्वासनासीनस् तस्थौ वह्निर् इवोज्वलन् // rm_14.195{95} //

तदैकस्मिन् दिने तत्र राजा कान्ताप्रवादिनैः / संगीतैः सह संरक्तो रमितुं समुपाविशत् // rm_14.196{96} //

तत्रस्थं तं समासीनं सुगतं सुप्रभोज्वलं / दृष्ट्वैव सहसोपेत्य नत्वा कृत्वा प्रदक्षिणां // rm_14.197{97} //

समाधिस्थं तम् आलोक्य तष्ठौ चिरम् उपाश्रयन् / ततस् तन्मुखपद्मोत्थसद्धर्मामृतलिप्सया // rm_14.198{98} //

वाद्यमानैः सतैर् वाद्यैर् मुनिं प्राबोधयन् नृपः / ततः स सुगतो बुद्धो समाधेः शीघ्रम् उत्थितः // rm_14.199{99} //

सान्तःपुरं नरेंद्रं तं प्राद्राक्षीत् समुपस्थितं / तदा तं नृपतिं दृष्ट्वा स संबुद्धः प्रबोधनः // rm_14.200{100} //

सद्धर्म्मं समुपादेष्टुं समामंत्र्यैवम् अब्रवीत् / एहि राजन् महावाहो स्वागतं ते महीपते // rm_14.201{1} //

सद्धर्मं समुपाश्रित्य बोधिचर्यां समाचर / सदा दानं प्रदत्वात्र शीलं धृत्वा समाहितः // rm_14.202{2} //

क्षान्त्या प्रसादयल् लोकान् धर्मवीर्यं प्रसाधय / बोधौ चित्तं समाधाय प्रज्ञारत्नम् उपार्जय // rm_14.203{3} //

तद्रत्नानुभावेन संबोधिमार्गम् आप्नुयाः / ततस् ते मङ्गलं नित्यम् इहामुत्रे सदा भवेत् // rm_14.204{4} //

सर्वसत्वहितं कुर्वन् सद्गतिम् एव प्राप्नुयाः / इति मत्वा महाराज सद्धर्मं समुपाश्रयन् // rm_14.205{5} //

त्रिरत्नं शरणं कृत्वा सत्कृत्य भज सर्वदा / त्रिरत्नेषु कृतं पुण्यं न क्षिणोति कदा चन // rm_14.206{6} //

सर्वदा सत्फलान्य् एव सूते बोधिं समर्पयेत् / इति मत्वा महाराज त्रिरत्नशरणं गतः // rm_14.207{7} //

बोधिचर्याव्रतं धृत्वा चर नित्यं समाहितः / तथा ते मंगलं नित्यं सर्वत्रापि भवेद् ध्रुवं // rm_14.208{8} //

क्रमाद् बोधिं समासाद्य संबुद्धपदम् आप्नुयाः / इति तेनार्हतादिष्टं मुनीन्द्रेण स भूपतिः // rm_14.209{9} //

श्रुत्वा तथेति विज्ञप्य प्राभ्यनन्दत् प्रबोधितः / ततः स मुदितो राजा तं मुनीन्द्रं ससांघिकं // rm_14.210{10} //

यथाविधि समभ्यर्च्य भोजनैः समतोषयत् / ततश् च भोजनान्ते स नृपतिः साञ्जलिर् मुदा / तं मुनीन्द्रं प्रणत्वैवं प्रणिधानं हृदो व्यधात् // rm_14.211{11} //

अनेन कुशलेनाहं लोके ऽन्धे ऽपरिणायके / सम्यग् बोधिं समागम्य भवेयं सुगतो जिनः // rm_14.212{12} //

एतत् तेन नरेन्द्रेण प्रणिधानं कृतं मुदा / मत्वा स सुगतस् तस्य तथाशीर्वचनं ददौ // rm_14.213{13} //

जयो ऽस्तु ते सदा राजं धर्मेण पालय प्रजाः / प्रणिधानं यथा बोधौ तथा ते सिद्ध्यतु ध्रुवं // rm_14.214{14} //

इत्य् आदिष्टं मुनीन्द्रेण तेन श्रुत्वा स भूपतिः / मुदितः साञ्जलिर् नत्वा तं मुनीन्द्रं समब्रवीत् // rm_14.215{15} //

अद्यारभ्य सदा शास्तस् त्रिरत्नशरणं गतः / संबोधिसंवरं धृत्वा चरिष्यामि समाहितः // rm_14.216{16} //

तद् भवान् कृपया दृष्ट्या सदा मां द्रष्टुम् अर्हति / सर्वदा भवताम् एव शरणे ऽस्मि समास्थितः // rm_14.217{17} //

इति संप्रार्थनां कृत्वा राजा स सजनो मुदा / भगवंतं तम् आनम्य सानंदः स्वपुरं ययौ // rm_14.218{18} //

ततः स भगवाञ् छास्ता समुत्थाय ससांघिकः / सर्वत्र भद्रतां कृत्वा स्वाश्रमे समुपाययौ // rm_14.219{19} //

मन्यतां भिक्षवो यो ऽसौ राजा संबुद्धसेवकः / अहम् एव तदाभूवन् नान्यो द्रष्टव्य एव सः // rm_14.220{20} //

यन् मया श्रद्धया तस्य प्रबोधनस्य तायिनः / पूजाकारि महोत्साहैस् तूर्यसंगीतिवादनैः // rm_14.221{21} //

तेन पुण्यविपाकेन ममात्रैव महोत्सवैः / एतैर् गान्धर्विकैर् एवं सत्कारः प्रकृताधुना // rm_14.222{22} //

एवं मत्वा महत्पुण्यं संबुद्धभजनोद्भवं / त्रिरत्नं शरणं कृत्वा भजनीयं शुभार्थिभिः // rm_14.223{23} //

यूयं चापि सदा नित्यं शास्तारं सद्गुरुं जिनं / संबुद्धं समुपाश्रित्य विहरध्वं समाहिताः // rm_14.224{24} //

इत्य् आदिष्टं मुनीन्द्रेण श्रुत्वा ते भिक्षवो मुदा / सर्वे तथेति विज्ञप्य त्रिरत्नानि सदाभजन् // rm_14.225{25} //

इति मे गुरुणादिष्टं श्रुतं मया नराधिप / तथाधुना समाख्यातं तव पुण्यप्रवृद्धये // rm_14.226{26} //

एवं राजंस् त्वयाप्य् एवं त्रिरत्नं शरणं गतः / संबुद्धशासनं धृत्वा चर धर्मं समाहितः // rm_14.227{27} //

प्रजाश् चापि तथा राजं बोधयित्वा प्रयत्नतः / संबोधिसाधने धर्मे योजनीयास् त्वयादरात् // rm_14.228{28} //

तथा चेत् ते सदा भद्रं भवेन् नूनं समन्ततः / क्रमाद् बोधिं समासाद्य संबुद्धपदम् आप्नुयाः // rm_14.229{29} //

इति शास्त्रा समादेष्टं श्रुत्वाशोकः स भूपतिः / तथेति प्रतिमोदित्वा प्राभ्यनन्दत् सपार्षदः // rm_14.230{30} //

गांधर्विकानाम् अवदानम् एतच् छ्रुत्वानुमोदन्ति नरा मुदा ये / ते सर्व एनःपरिमुक्तचित्ता भुक्त्वा सुखान्य् एव लभन्ति बोधिं /

++ इति रत्नावदानतत्वे गांधर्विकावादनं समाप्तम् ++

xv sūkṣmatvacovadāna अथाशोको महीपालः कृतांजलिपुटो मुदा / उपगुप्तं गुरुं नत्वा पुनर् एवम् अभाषत // rm_15.1{1} //

भदन्त श्रोतुम् इछामि पुनर् अन्यत् सुभाषितं / तद्यथा गुरुणाख्यातं तथादेष्टुं च मे ऽर्हसि // rm_15.2{2} //

इति संप्रार्थिते राज्ञा स यतिः सुगतात्मजः / अशोकं तं नृपं दृष्ट्वा पुनर् एवम् उपादिशत् // rm_15.3{3} //

शृणु राजन् महाभाग यथा मे गुरुणोदितं / तथाहं ते प्रवक्ष्यामि श्रुत्वाप्य् एवं प्रमोदय // rm_15.4{4} //

पुरा स भगवान् बुद्धः शाक्यसिंहो जगद्गुरुः / विहारे जेतकारण्ये विजहार ससांघिकः // rm_15.5{5} //

तस्मिंश् च समये तत्र सर्वे भिक्षुगणा अपि / श्रावकाश् चैलकाश् चैव सर्व उपासका अपि // rm_15.6{6} //

सर्वे ऽपि भिक्षुणीसंघा उपासिकागणा अपि / बोधिसत्वगणाश् चापि सद्धर्मसाधनोद्यताः // rm_15.7{7} //

सभामध्यासनासीनं श्रीघनं तं जगद्गुरुं / उपतस्थुः पुरस्कृत्य परिवृत्य समंततः // rm_15.8{8} //

तदा तस्य मुनीन्द्रस्य मुखाम्भोजविनिर्गतं / भद्रधर्मामृतं पातुं सर्वे लोकाः समागताः // rm_15.9{9} //

शक्रादयः सुरेन्द्राश् च ब्रह्मादयो महर्द्धिकाः / लोकपाला महावीराः ससैन्यपरिवारकाः // rm_15.10{10} //

योगिनो यतयश् चापि महर्षयस् तपश्विनः / ब्राह्मणाश् च महाविज्ञाः सद्धर्मगुणवांछिनः // rm_15.11{11} //

राजानो राजपुत्राश् च वैश्या मंत्रिजना अपि / अमात्याः श्रेष्ठिनो भट्टाः पौरिकाश् च गृहाधिपाः // rm_15.12{12} //

सैन्याधिपाश् च योधारः सार्थवहा महाजनाः / वणिजः शिल्पिनश् चापि ग्राम्याः कार्पटिका अपि // rm_15.13{13} //

एवम् अन्ये ऽपि लोकाश् च सद्धर्मगुणवाञ्छिनः / सर्वे धर्मामृतं पातुं विहारे समुपागताः // rm_15.14{14} //

तत्र प्राप्ताः सभामध्ये समासीनं मुनीश्वरं / श्रीघनं तं समालोक्य प्रणत्वा समुपाचरन् // rm_15.15{15} //

तत्र ते समुपासृत्य सर्वे तं श्रीघनं मुनिं / त्रिधा प्रदक्षिणीकृत्वा समभ्यर्च्य प्रणेमिरे // rm_15.16{16} //

ततः सर्वे ऽपि ते लोकाः परिवृत्य समन्ततः / साञ्जलयः प्रसन्नास्या उपतस्थुः समाहिताः // rm_15.17{17} //

तदा स भगवान् दृष्ट्वा सर्वांस् तान् समुपस्थितान् / आदिमध्यान्तकल्याणम् आर्यधर्मम् उपादिशत् // rm_15.18{18} //

तत् सद्धर्मामृतं पीत्वा सर्वे ते त्रिदशादयः / लोका धर्मविशेषत्वं विज्ञाय प्राणनन्दिरे // rm_15.19{19} //

तस्मिन्न् अवसरे तत्र श्रावस्त्यां पौरिको गृही / श्रेष्ठी महाजनः श्रिमाञ् छ्राद्धो भद्राशयाभवत् // rm_15.20{20} //

स एकस्मिं दिने स्वस्मिन् भाण्डालकोष्ठके विशन् / स्वसंपन्निचयं दृष्ट्वा मनसैवं व्यचिन्तयत् // rm_15.21{21} //

अहो मे जायते संपद् दीयती संप्रवर्द्धिता / तथापि वर्द्ध्यते तृष्णा यतः सौख्यं न किं चन // rm_15.22{22} //

यद् इमे चंचला भोगा जलचंद्रनिभा मम / अनित्या अस्थिराः पद्मपत्रस्थितजलोपमा // rm_15.23{23} //

तद् अत्र किं मनो ऽद्यापि तृष्णयाकृष्यते मम / येन चराम्य् अहं लोके दुःखी भविकलाशयः // rm_15.24{24} //

तत् किं मे संपदा सारं यतः सौख्यं न विद्यते / धर्मार्थे गोचरं नैव केवलं मदवृद्धये // rm_15.25{25} //

मदेन वर्द्धते मानं मानाल् लोके प्रमादता / प्रमादाद् दीप्यते चेर्ष्या कोपाग्निर् दीप्यते ततः // rm_15.26{26} //

कोपात् क्रूराशयश् चण्डो निर्दयो दुरिताशयः / पापात्मा हिंसको दुष्टो दशाकुशलसाधकः // rm_15.27{27} //

स्वयं नष्टः परांश् चापि नाशयति दुराशयः / ततो ऽतिपापसंरक्तो दुराचरो ऽतिदुर्मनाः // rm_15.28{28} //

ततो ऽतिदुर्मतिर् द्रोही संवृत्तिधर्मनिंदकः / त्रिरत्नानि प्रतिक्षिप्य महापातकम् आचरेत् // rm_15.29{29} //

ततो ऽतिपापसंक्लिष्टाः प्रमूढो नरकं व्रजेत् / नरकेषु भ्रमन् नित्यं दुःखान्य् एव सदाश्नुयात् // rm_15.30{30} //

यद् वात्रापि च संसारे जीवितम् अध्रुवं खलु / क्षणध्वंसि शरीरं च सार्वेषां मरणं ध्रुवं // rm_15.31{31} //

तद् अत्राहम् असारेभ्यो भोगेभ्यः सारम् उत्तमं / सद्धर्मं समुपादातुं यत्नं कुर्यां समादरात् // rm_15.32{32} //

सद्धर्मं सौगतं धर्मम् इत्य् आख्यातं पुराविदैः / तद् अत्र सौगते क्षेत्रे दानं कुर्वीय सांप्रतं // rm_15.33{33} //

बौद्धक्षेत्रे कृतं दानं बोधिवीजं भवेद् ध्रुवं / एतद् एवात्र संसारे साधनीयं शुभाप्तये // rm_15.34{34} //

दानेन शुद्ध्यते चित्तं सुचित्तः सुमतिं लभेत् / सुबुद्धिः सद्गुणारक्तः संवृत्तिशीलभृत् कृती // rm_15.35{35} //

सुशीलः क्षान्तिमान् धीरः परात्मसमभाविकः / सुधीरो वीर्यवान् सर्वसत्वार्थसाधनोद्यतः // rm_15.36{36} //

अप्रधृष्यो महासत्वः क्लेशारिदमको भवेत् / ततः सुपरिशुद्धात्मा समाधिसुस्थितो भवेत् // rm_15.37{37} //

तत् समाधिवलाधानैः प्रज्ञाब्धिपारम् आगतः / बोधिरत्नं समासाद्य बोधिसत्वो ऽधिपो भवेत् // rm_15.38{38} //

एतद् रत्नानुभावेन भद्रंकला समन्ततः / सर्वमारान् विनिर्जित्य संबुद्धपदम् आप्नुयात् // rm_15.39{39} //

इत्य् अर्हद्भिर् महाभिज्ञैः समाख्यातं मया श्रुतं / तत् संबुद्धपदां प्रप्तुं बुद्धं भजेय सांप्रतं // rm_15.40{40} //

नूनं बुद्धानुभावेन भावितं सेत्स्यते ध्रुवं / तद् बुद्धप्रमुखं सर्वसंघं पूजेय सादरं // rm_15.41{41} //

इति निश्चित्य स श्रीमान् गृहस्थः संप्रमोदितः / भगवंतं ससंघन् तं पूजयितुं समैछत // rm_15.42{42} //

ततः स सजनः श्रेष्ठी त्रिरत्नभजनोत्सुकः / विहारे जेतकारण्ये प्रययौ संप्रहर्षितः // rm_15.43{43} //

तत्र तं श्रीघनं दृष्ट्वा स गृहस्थः प्रमोदितः / नत्वा प्रदक्षिणीकृत्य समर्चयद् यथाविधिः // rm_15.44{44} //

ततः स सजनो नत्वा साञ्जलिः संप्रमोदितः / मुनीन्द्रं तं समालोक्य पुरः स्थित्वैवम् अब्रवीत् // rm_15.45{45} //

सर्वज्ञ भगवं छास्तर् भवतां शरणं व्रजे / ततो ऽभिलषिते कार्ये प्रसीदतु जगद्गुरो // rm_15.46{46} //

भगवं भवतः शास्तुः ससंघस्य जगद्गुरोः / पूजयितुं समिछामि तद् अनुज्ञां ददातु मे // rm_15.47{47} //

इति संप्रार्थिते तेन भगवान् स मुनीश्वरः / तथास्त्व् इति प्रतिज्ञाय तूष्णीभूत्वाध्युवास तत् // rm_15.48{48} //

ततः स गृहभृन् मत्वा भगवताध्युवास तं / साञ्जलिस् तं मुनिं नत्वा मुदितः स्वगृहं ययौ // rm_15.49{49} //

तत्र स स्वजनैः स्वस्मिं गृहे मर्गेषु सर्वतः / परिशोध्य सुगंधैश् च परिषिंच्याभ्यशोभयत् // rm_15.50{50} //

तत्रासनानि प्रज्ञप्य वितानानि वितत्य च / मुक्तपुष्पैः समाकीर्य सुरभिं समधूपयत् // rm_15.51{51} //

ततः स भोज्यसामग्रीं साधयित्वा स्ववंधुभिः / तथोपहारसामग्रीं परिशुद्धाम् असाधयत् // rm_15.52{52} //

ततो ऽन्ये द्युर् गृहस्थः स स्नात्वा शुद्धांवरावृतः / संबुद्धामंत्रणं कर्तुं विहारे सजनो ययौ // rm_15.53{53} //

तत्र तं श्रीघनं दृष्ट्वा ससंघं स पुरोगतः / कृताञ्जलिपुटो नत्वा प्रार्थयद् एवम् आदरात् // rm_15.54{54} //

भगवन् नाथ सर्वज्ञ समयो वर्तते ऽधुना / तत् ससंघो ममावासे भावान् आगन्तुम् अर्हति // rm_15.55{55} //

इति संप्रार्थिते तेन भगवान् स ससांघिकः / पात्रचीवरम् आदाय संप्रतस्थे प्रभासयन् // rm_15.56{56} //

तत्र स भगवान् मार्गे कृत्वा भद्रं प्रभासयन् / भिक्षुसंघगणैः सार्द्धं श्रावस्तीं समुपाविशन् // rm_15.57{57} //

तदाभून् नगरे तत्र सर्वत्रापि सुमङ्गलं / उपद्रवाणि सर्वाणि सहसा विलयं ययुः // rm_15.58{58} //

अन्धा रूपाणि पश्यन्तः शृण्वन्तो वधिरा रवान् / हीनेन्द्रियाश् च ये ते ऽपि प्रतिलब्धेन्द्रिया ववुः // rm_15.59{59} //

क्सुत्पिपासाहता ये च ते ऽभवन् परितुष्टिताः / रोगिणो नीरुजा आसन् कुवेला रुचिराम्वराः // rm_15.60{60} //

मूका आसन् प्रवक्तारो जडाश् चापि सुवाग्मिनः / चिरवैराभिसंनद्धास् ते ऽप्य् आसन् मैत्रभाविताः // rm_15.61{61} //

ये च चण्डाशायाः क्रूरास् ते ऽप्य् अभूवन् दयालवः / ये च दुष्टा दुराचारास् ते सन्तस् सम्यमोद्यताः // rm_15.62{62} //

दरिद्रा धनिनः प्रोढ्या दूर्वला वलिनो ऽभवन् / ये शठा वंचकाश् चौरस् ते आर्याः सत्यवादिनः // rm_15.63{63} //

एवं ये दुःखिनः सत्वास् ते सर्वे सुखिनो ऽभवन् / एवं स भगवांस् तत्र कृत्वा भद्रं समन्ततः // rm_15.64{64} //

प्रदक्षिणक्रमेणैवं ससंघं तद्गृहे विशन् / तत्र तस्य मुनीन्द्रस्य स गृहस्थो यथाक्रमं / पाद्यं ददौ ससंघस्य सदाराः शुचिनाम्बुना // rm_15.65{65} //

ततः स सुप्रासन्नात्मा ससंघं तं मुनीश्वरं / प्रज्ञप्ते स्वासने तत्र यथाक्रमं न्यवेशयत् // rm_15.66{66} //

तत्र ते सांघिकाः सर्वे संबुद्धप्रमुखाः क्रमात् / स्वस्वासने समाविश्य समातस्थुः समाहिताः // rm_15.67{67} //

ततः स्वस्वासनासीनान् संबुद्धप्रमुखान् यतीन् / तान् सर्वान् स गृही दृष्ट्वा यथाविधि समर्चयत् // rm_15.68{68} //

ततः स सजनः श्रेष्ठी स्वहस्तेन ससांघिकं / तं मुनीन्द्रं सुधाकल्पैर् भोजनैः समतर्पयेत् // rm_15.69{69} //

ततः संतृप्तितं दृष्ट्वा ससंघं तं मुनीश्वरं / अपनीय स पात्राणि तद् धस्तादीन् व्यशोधयत् // rm_15.70{70} //

ततः स साञ्जलिर् नत्वा तान् बुद्धप्रमुखान् यतीन् / पुरो नीचासनासीनो धर्मं श्रोतुम् उपाश्रयत् // rm_15.71{71} //

ततः स भगवान् दृष्ट्वा तं गृहष्ठं सुभाविनं / आदिमध्यान्तकल्याणं धर्माम् आदेष्टुम् अब्रवीत् // rm_15.72{72} //

आरोग्यम् अस्तु ते नित्यं गृहपते सदा शिवं / बोधौ चित्तं समाधाय चर धर्मं समाहितः // rm_15.73{73} //

धर्मेण जीयते पापं निष्पापः सद्गतिं व्रजेत् / सद्गतौ सत्सुखान्य् एव भुक्त्वा संचरते सदा // rm_15.74{74} //

धर्मेण पुरुषो विद्वान् सर्वविद्याकलाधिपः / सुधिरो गुणवान् विज्ञो भवेच् छ्रीमान् महर्द्धिकः // rm_15.75{75} //

धर्मेण सुचिरं जीवेद् आरोग्यं च सदा तनौ / सर्वत्रापि भवेन् नित्यं मंगलं निरुपद्रवं // rm_15.76{76} //

धर्मो न नश्यते क्वपि ह्रियते नापि केन चित् / केनापि नश्यते नैव चालयितुं कदा चन // rm_15.77{77} //

नाग्निभिर् दह्यते धर्मः क्लिद्यते नापि चोदकैः / वायुभिः शुष्यते नैव क्षीयते नापि भूमिषु // rm_15.78{78} //

धर्मेण भूः स्थिरीभूता धर्मेण दीप्यते ऽनलः / धर्मेण चलते वायुर् धर्मेण वहते जलः // rm_15.79{79} //

धर्मेण दीप्यते भानुर् धर्मेणैवं सुधाकरः / मेघा धर्मेण वर्षाणा भूमिः शष्यौषधीभराः // rm_15.80{80} //

धर्मेणैवं तथा सर्वे लोकपाला महर्द्धिकाः / सर्वदुष्टान् विनिर्जित्य पालयन्ति जगत्त्रये // rm_15.81{81} //

धर्मो न शीयते क्वापि धर्मो न परिभूयते / सर्वत्र जयते धर्मो धर्मो हि शोभते सदा // rm_15.82{82} //

धर्महीना न शोभन्ते श्रिमन्तो गुणिनो ऽपि च / धर्म्मिष्ठा एव शोभन्ते दरिद्रा निर्गुणा अपि // rm_15.83{83} //

धर्मेण रक्षिता वीराः संग्रामे विजितारयः / यशोमान्यमहत्संपत्सुखानि ते लभन्ति च // rm_15.84{84} //

तथा वीरा वणिक्सार्था धर्मेणैवाभिरक्षिताः / महाम्बुधिं समुत्तीर्य रत्नान्य् अपि लभन्ति च // rm_15.85{85} //

धर्मवन्तो नरा धीरा बुद्धिमन्तो विचक्षणाः / सर्वविद्याकलाविज्ञा जयन्ते परवादिनः // rm_15.86{86} //

तथा धर्मानुभावेन शिल्पविद्याकलाविदः / यशोमान्यप्रसादश्रीसत्सुखानि लभन्ति च // rm_15.87{87} //

तथा च मंत्रिणो ऽमात्या धर्मवन्तो विचक्षणाः / राज्यकार्याणि सर्वाणि साधयन्तो जयन्त्य् अरीन् // rm_15.88{88} //

राजानः क्षत्रियाश् चैवं धर्मनीतिविचक्षणाः / सर्वदुष्टान् विनिर्जित्य विराजन्ते नाराधिपाः // rm_15.89{89} //

तथा धर्मेण राजेन्द्रश् चक्रवर्त्ती महीश्वरः / सप्तरत्नसमायुक्तः सर्वशास्ता विराजते // rm_15.90{90} //

तथा धर्मधरा एव यतयो योगिनो ऽपि च / सर्वक्लेशगणाञ् जित्वा लभन्ति परमं पदं // rm_15.91{91} //

तथर्षयो महाभिज्ञा धर्मभृतो महर्द्धिकाः / यथाभिलषितां सिद्धिं प्राप्य मोक्षं व्रजन्ति च // rm_15.92{92} //

तथा धर्मानुसारेण मंत्रविद्यार्थसाधकाः / सिद्धिसमृद्धिसंप्राप्ताः साधयन्ति यथेहितं // rm_15.93{93} //

तथा च मानवाः सर्वे लोका धर्मानुसारतः / निहीनमध्यमोत्कृष्टाः प्रभवन्ति महीतले // rm_15.94{94} //

तथा धर्मानुसारेण लोका दैत्यादयो ऽपि च / निहीनमध्यमोत्कृष्टा प्रचरन्ति रसातले // rm_15.95{95} //

तथा स्वर्गेषु देवाश् च स्वस्वधर्मानुभावतः / सुखानि सुचिरं भुक्त्वा प्रवसन्ति प्रमोदिताः // rm_15.96{96} //

एवं सर्वत्र लोकेषु स्वस्वधर्मानुभावतः / सर्वे सत्वाः सुखप्राप्ताः प्रचरन्ति यथेछया // rm_15.97{97} //

एवं त्रैधातुकोत्पन्नाः सत्वाः सर्वे सुरादयः / स्वस्वधर्मानुसारेण भ्रमन्ति षड्गतिष्व् अपि // rm_15.98{98} //

किम् अत्र वहुनोक्तेन धर्म एव जगत्प्रभुः / धर्मेणैव सदा नित्यं रक्षितः प्रचरेच् छुभे // rm_15.99{99} //

षुभेन सिद्ध्यते चित्तं शुद्धचित्तः सुधीर् भवेत् / सुबुद्धिः सद्गुणाधारं सद्गुरुं समुपाश्रयेत् // rm_15.100{100} //

तद्गुरोर् उपदेशेन चरन् नित्यं समाहितः / बोधिचित्तं समाधाय त्रिरत्नानि सदा भजेत् // rm_15.101{1} //

एतत्पुण्यानुभावेन सद्धर्मसाधनोद्यतः / बोधिसत्वो महासत्वो बोधिचर्यां व्रतं चरेत् // rm_15.102{2} //

ततो मारगणाञ् जित्वा पूर्य पारमिताः क्रमात् / त्रिविधां बोधिम् आसाद्य संबुद्धपदम् आप्नुयात् // rm_15.103{3} //

एवं धर्मवरं मत्वा त्रिरत्नशरणं गतः / सद्धर्मं समुपश्रित्य चर बोधिपदाप्तये // rm_15.104{4} //

मृत्युकाले विपत्तौ च धर्म्म एवानुगस् सुहृत् / तदा सर्वे त्यजन्त्य् आशु को ऽपि नैव सहानुगः // rm_15.105{5} //

धर्म एव तदा त्राता सर्वत्राप्य् अनुगः सुहृत् / तस्माद् धर्मो महारत्नं साधनीयं प्रयत्नतः // rm_15.106{6} //

एवं स भगवाञ् छास्ता धर्मस्याभ्यनुभावतां / समादिश्य क्षणं तस्थौ तूष्णीभूत्वा समाहितः // rm_15.107{7} //

ततस् तस्य मुनीन्द्रस्य पादौ स मुदितो गृही / प्रणत्वा मनसा चैवं प्रणिधानं सामदधे // rm_15.108{8} //

अनेन कुशलेनाहं सर्वक्लेशविवर्जितः / प्रत्येकां बोधिम् आसाद्य निर्वृतिं समवाप्नुयात् // rm_15.109{9} //

ततः स सुप्रसन्नास्यो गृहस्थः सजनो मुदा / भगवतं तम् आलोक्य पुरस् तस्थौ समाहितः // rm_15.110{10} //

तदा स भगवांस् तस्य श्रीमतो हृदये स्थितं / प्रणिधानं परिज्ञाय सुसंस्मितं व्यमुञ्चत // rm_15.111{11} //

ततस् तस्य मुनीन्द्रस्य मुखपद्मात् सुरस्मयः / पंचवर्णा विनिर्गत्य सर्वत्र समुदाचरन् // rm_15.112{12} //

तासां या रश्मयो याता अधोलोके समन्ततः / ताः सर्वनरकेष्व् एवम् अवभ्यास्य समासरत् // rm_15.113{13} //

तदा ताभिः परिस्पृष्टाः सर्वे ते नरकस्थिताः / महत्सौख्यं समासाद्य विस्मयं समुपाययुः // rm_15.114{14} //

तत्र सर्वे ऽपि ते सत्वाः परस्परसमागताः / सर्वदुःखविनिर्मुक्ताः संमील्यैवं समब्रुवन् // rm_15.115{15} //

अहो चित्रं किम् अद्यैवं महत् सौख्यं प्रजायते / किं नु वयं भवन्तो ऽस्माच् च्युता अन्यत्र चागताः // rm_15.116{16} //

यद् अस्माकं महद् दुःखं तत् सर्वं शाम्यते ऽधुना / संजायते महासौख्यं तद् अद्भुतं न मन्यते // rm_15.117{17} //

नूनम् अत्राधुना को ऽपि बोधिसत्वः समागतः / यस्माद् इयं महारश्मिर् अवभास्य प्रसर्यति // rm_15.118{18} //

इति चिंताभिदग्धानं तेषां चित्तप्रबोधने / भगवान् निर्मितं बुद्धं सर्वत्र तत्र प्रेषयेत् // rm_15.119{19} //

तदा तं सौगतिं मूर्त्तिं दृष्ट्वा सर्वे ऽपि ते मुदा / अहो चित्रम् इति प्रोक्त्वा विस्मिताश् चैवम् अब्रुवन् // rm_15.120{20} //

नेहैवेतश् च्युताः सर्वे नाप्य् अन्यत्र गता वयं / इहैव संस्थिताः सर्वे नरके प्रवसामहे // rm_15.121{21} //

अपि त्व् अयं महान् सत्वो ऽपूर्वदर्शन आगतः / नूनम् अस्यानुभावेन संजायन्ते सुखानि नः // rm_15.122{22} //

तद् अस्मिं सुगताकरे वयं सर्वे प्रसादिताः / उपेत्य प्रणतिं कृत्वा सर्वथा संभजेमहि // rm_15.123{23} //

इति संभाष्य सर्वे ते नारकीयाः प्रमोदिताः / उपेत्य तं महासत्वं साञ्जलयो ऽभिनेमिरे // rm_15.124{24} //

नमो बुद्धाय धर्माय संघाये च नमः सदा / इत्य् उक्त्वा च त्रिरत्नानां संस्मृत्वा शरणं ययुः // rm_15.125{25} //

इति ते निर्मिते तस्मिं चित्तं प्रसाद्य निर्मलाः / सर्वनिर्मुक्तकर्माणः सहसा सद्गतिं ययुः // rm_15.126{26} //

तथा चोर्द्धगता यास् ताः क्रमाच् चातुर्महाधिपान् / समारभ्य त्रयस्त्रिंशान् सर्वांश् चापि सुरालयात् // rm_15.127{27} // यावद् भवाग्रपर्यन्तम् अवभास्य प्रसारिताः // rm_15.128{27} // तथा चापि समोद्घुष्य सर्वान् देवान् अनोदयन् / अनित्यं खलु संसारं दुःखम् शून्यम् अनात्मकं / इति मत्वा शुभे नित्यं चरितव्यं सदापि च // rm_15.129{28} //

निष्क्रामतारभध्वं तद् युज्यध्वं बुद्धशासने / धुनीत मृत्युसैन्यानि नडागारं करी यथा // rm_15.130{29} //

यो ह्य् अस्मिं धर्मविनये ह्य् अप्रमत्तश् चरिष्यति / त्यक्त्वा जन्मात्र संसारे दुःखस्यान्तं करिष्यति // rm_15.131{30} //

इति मत्वात्र संबोधिपदं यदि समिछथ / तच् छ्रद्धया त्रिरत्नानि भजध्वं सर्वदादरात् // rm_15.132{31} //

एतच् छब्दं समाकर्ण्य सर्वे देवाः प्रबोधिताः / त्रिरत्नं शरणं कृत्वा प्रभेजिरे सदादृताः // rm_15.133{32} //

एवं ता रश्मयः सर्वाः सर्वांल् लोकांच् छुभे वृषे / बोधयित्वा प्रतिस्थाप्य प्रत्याययुर् मुनेः पुरः // rm_15.134{33} //

तत्र ता रश्मयः सर्वाः पिण्डितास् तस्य तायिनः / त्रिधा प्रदक्षिणीकृत्वा सूर्णायां न्यविशत् पुनः // rm_15.135{34} //

तद् दृष्ट्वा विस्मिताः सर्वे लोकास् ते समितिस्थिताः / किं धर्मम् आदिशेद् बुद्ध इति संचिंत्य तस्थिरे // rm_15.136{35} //

अथानन्दो महाभिज्ञः समुत्थाय कृताञ्जलिः / पुरः स्थितो मुनीन्द्रं तं प्रणत्वा प्रार्थयत् तथा // rm_15.137{36} //

भगवान् नानाविधा रश्मिर् भवन्मुखाब्जनिर्गताः / अवभास्य जगल्लोकं भवदूर्णां निवेशिता // rm_15.138{37} //

मारजिन् निर्मलस्वान्तो निर्विकल्पो निरंजनः / नाहेत्वप्रत्ययं बुद्धा निर्दैन्या निर्मदोद्धवाः / स्मितं चंद्रकराहासं दर्शयन्ति कदाचन // rm_15.139{38} //

तद् यद् अर्थं भवान् स्मितं दर्शयति मुनीश्वर / तद् अर्थं श्रोतुम् इच्छंति सर्वे लोका इमे ऽधुना // rm_15.140{39} //

तद् भवां यत् समादेष्टुम् इछति सांप्रतं मुने / तद् धर्मं समुपादिश्य प्रसादयत्व् इमां सभां // rm_15.141{40} //

इति तेन वशिष्येण प्रार्थिते स मुनीश्वरः / तम् आयुष्मन्तम् आनन्दं समामंत्र्यैवम् अब्रवीत् // rm_15.142{41} //

एवम् एतत् सदानंद नाहेत्वप्रत्ययं स्मितं / संबुद्धा अपि ते सर्वे दर्शयन्ति कदा चन // rm_15.143{42} //

यद् अर्थे स्मितम् आनंद दर्शितं सांप्रतं मया / तद् अर्थं संप्रवक्ष्यामि तच् छृणुध्वं समाहिताः // rm_15.144{43} //

पश्यसि त्वं तदानंद श्रेष्ठिनानेन यन् मम / एवंविधं ससंघस्य सत्कारं श्रद्धया कृतं // rm_15.145{44} //

एतत्पुण्यविपाकेन मयि चित्तप्रसादतः / अयं श्रीमान् महासत्वो बोधिसत्वो भवेत् सुधीः // rm_15.146{45} //

ततः क्लेशविमुक्तात्मा परिशुद्धत्रिमंडलः / सूक्ष्मत्वग् इति विख्यातः प्रत्येकबुद्ध आत्मवित् // rm_15.147{46} // भविष्यति महाभिज्ञः संवृतिपरमार्थवित् // rm_15.148{47!} // एवम् एतत् महत्पुण्यवीजम् आराधितं मम / सासने श्रीमतानेन श्रद्धया बोधिचेतसा // rm_15.149{48} //

बुद्धक्षेत्रे कृतं पुण्यं न क्षिणोति कदा चन / संबोधिसत्फलं दद्यान् नान्यद् धर्मफलं खलु // rm_15.150{49} //

एवं महत्तरं पुण्यं बुद्धक्षेत्रेषु सत्कृतं / मत्वा तच्छरणं कृत्वा त्रिरत्नं भजतादरात् // rm_15.151{50} //

ये बुद्दशरणं गत्वा भजन्ति सर्वदादरात् / ते सदा सद्गतिं याताश् चरंति बोधिसंवरं // rm_15.152{51} //

ये धर्मं शरणं कृत्वा श्रुत्वा भजन्ति सादरं / सर्वे ते ऽक्लेशिनो भद्राः संप्रयान्ति जिनालयं // rm_15.153{52} //

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.