Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Thí dụ · Bổn sự
रत्नमालावदान
- Thông tin
- GRETIL — Kanga Takahata. Ratnamālāvadāna. A Garland of Precious Gems or a Collection of Edifying Tales, Told in a Metrical Form, Belonging to the Mahāyāna. Tokyo 1954 (Oriental Library Series D, 3). = Rm.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
इति मातः परिज्ञाय तद् अनुज्ञां प्रदेहि मे / विषादं मा कृथा अत्र प्रसादीनी भवेत् प्रभु // rm_10.217{17} //
तथा ते मंगलं नित्यम् इहामुत्रापि संभवेत् / अहं च सौगतं धर्मं धृत्वा निर्वृतिम् आप्नुयां // rm_10.218{18} //
इति पुत्रोदितं श्रुत्वा मातासौ परिबोधिता / तथानुमोदनां कृत्वा तस्थौ तूष्णीव्यवस्थितान् // rm_10.219{19} //
अथ हिरण्यपाणिः सः पित्रोर् मत्वाभिसंमतं / तयोश् च चरणे नत्वा सहसा निर्ययौ गृहात् // rm_10.220{20} //
तत्र ज्ञातिगणांश् चासौ वन्धुमित्रसुहृज्जनान् / कृपणातिथिसंघादिं वांछितार्थैर् अतोषयत् // rm_10.221{21} //
ततो ऽसौ वांधवान् सर्वान् संतर्प्य परिबोधयन् / आशु जेतवनं गत्वा विहारं समुपाविशत् // rm_10.222{22} //
तत्रासौ सुगतं दृष्ट्वा कृतांजलिपुटो मुदा / भगवंतं तम् आनम्य प्रव्रज्यां समयाचत // rm_10.223{23} //
नमस् ते भगवच् छास्त भवतां चरणं व्रजे / तत् प्रव्रज्याव्रतं दत्वा ब्रह्मचर्यं प्रदेहि मे // rm_10.224{24} //
इति तेनार्थिते ऽसौ श्रीभगवान् तम् अभाषत / एहि भिक्षो कुमार त्वं ब्रह्मचर्यं चरेहि स // rm_10.225{25} //
इति प्रोक्तो मुनीन्द्रो ऽसौ पाणिना तच् छिरः स्पृशन् / सम्यक्प्रवाजयित्वाशु स्वसंघे तं समग्रहीत् // rm_10.226{26} //
एहीति प्रोक्तमात्रे ऽपि जिनेन्द्रेण स मुण्डितः / खिक्खिरीपात्रहस्ताभूच् ल्चीवरप्रावृतः सुधीः // rm_10.227{27} //
ततः शिक्षासु शिक्षित्वा प्राप्योपसंपदो ऽपि च / व्यायच्छद् घटमानश् च समाधिषु समाहितः // rm_10.228{28} //
तद् इदं पंचगंदं च भवचक्रं चलाचलं / विदित्वा सर्वसंस्कारगतिश् चापि विघाटिनी // rm_10.229{29} //
भिंदन् सर्वम् अविद्याङ्गं प्राप्य विद्याः शुभंकराः / प्रतिसंविद्गुणप्राप्तो जितक्लेशगणो यतिः // rm_10.230{30} //
साक्षाद् अर्हत्पदं प्राप्य वीतरागो जितेन्द्रियः / समलोष्टसुवर्णश् च वासीचंदनसंनिभः // rm_10.231{31} //
आकाशसमचित्तश् च निर्विकल्पो निरंजनः / संसारभोग्यसत्कारलाभलोभसुनिस्पृहः // rm_10.232{32} //
पंचाभिज्ञपदप्राप्तो चतुर्ब्रह्मविहारिकं / सदेवासुरमर्त्यानां त्रैधातुकनिवासिनां // rm_10.233{33} //
पूज्यो मान्यो ऽभिवंद्यश् च बभूव स हिरण्यभृत् / ततस् ते भिक्षवः सर्वे दृष्ट्वा तं दारकं यतिं // rm_10.234{34} //
विस्मिताः श्रीघनं नत्वा पप्रछुस् तस्य कर्मतां / भगवन् केन धर्मेण हिरण्यपाणिर् अयं सुधीः // rm_10.235{35} //
सर्वार्थिनो हि संतर्प्य साक्षाद् अर्हन् भवत्य् अपि / इति तैर् भिक्षुभिः पृष्टे भगवान् तान् तथाब्रवीत् // rm_10.236{36} //
श्रूयतां भिक्षवः सर्वैर् युष्माभिर् विस्मिताशयैः / अनेन यत् कृतं कर्म तन् मया कथ्यते ऽधुना // rm_10.237{37} //
पुरासीद् भगवान् बुद्धः काश्यपो ऽर्हन् मुनीश्वरः / सर्वविद्याधिपः शास्ता तथागतो विनायकः // rm_10.238{38} //
ससांघिको जिनेन्द्रो ऽसौ वाराणसीम् उपाश्रितः / बोधिचर्यां समादिश्य कृत्वा धर्ममयं जगत् // rm_10.239{39} //
सर्वाणि बुद्धकार्याणि समाप्य निर्वृतिं ययौ / तदा राजा कृकी नाम मत्वा तं निर्वृतिं गतं // rm_10.240{40} //
विधिवद् अग्निसंस्कारं कारयित्वा महार्चनैः / ततस् तद्धातुरत्नानि गर्भ आरोप्य सादरात् // rm_10.241{41} //
हेमरत्नमयं स्तूपं कारयाम् आस स प्रभुः / तत् सुसिद्धं प्रतिष्ठाप्य सद्विधानैर् महोत्सवैः // rm_10.242{42} //
महश् चापि तदा तत्र स्थापयित्वा भजन् नृपः / तस्मिन्न् आरोप्यमानायां यष्ट्यां पूजापरिग्रही // rm_10.243{43} //
किन्तवो कंदरो नाम निदधे रूपकद्वयं / ततः स पादयोर् नत्वा प्रणिधानं व्यधात् तथा // rm_10.244{44} //
यन् मया श्रद्धया भक्त्यारोपितं रूपकद्वयं / यत् पुण्यं च विपाकेन जायेयं सुकुले सदा // rm_10.245{45} //
करोद्भवसुवर्णैः संतर्पयित्वार्थिनो जनान् / एवंविधं च शास्तारम् आरोग्य समुपाश्रितः // rm_10.246{46} //
एतद् धर्मं समासाद्य प्राप्नुयां परमां गतिं / तेन पुण्यविपाकेन प्रणिधानेन भूयसा // rm_10.247{47} //
हिरण्यपाणिर् अयं दाता भवत्य् अर्हं स सांप्रतं / एवं सर्वे ऽपि संसारे भुंजते कर्मजं फलं // rm_10.248{48} //
येनैवं यत् कृतं कर्म तेनैव भुंज्यते फलं / अभुक्तं क्षीयते नैव कर्म क्वापि कदा चन // rm_10.249{49} //
शुभं वाप्य् अशुभं वापि भुक्तं तु क्षीयते खलु / नाग्निभिर् दह्यते कर्म क्लिद्यते नोदकैर् अपि // rm_10.250{50} //
वायुभिः शुष्यते नापि भूमिषु क्षीयते न हि / अन्यथापि भवेन् नैव संसारे कर्मणो गतिः // rm_10.251{51} //
शुभस्य शुभतैव स्यात् कृष्णस्य कृष्णतैव हि / मिश्रस्य मिश्रितैव स्याद् अन्यथा न सदा भवेत् // rm_10.252{52} //
एवं मत्वाथ संसारे चरितव्यं सदा शुभं / न प्रणस्यंति कर्माणि कल्पकोटिशतैर् अपि // rm_10.253{53} //
सामग्रीं प्राप्य कालं च फलन्ति प्राणिनां खलु / इत्य् असौ भगवान् बुद्धः सत्कर्मदेशनामतैः // rm_10.254{54} //
तर्पयन् स कलांल् लोकान् ततो विश्रान्तम् आदधौ / इति शास्त्रोदितं श्रुत्वा सर्वे ते भिक्षुसांघिकाः // rm_10.255{55} //
शुभेष्व् एव सदा नित्यं संप्रचेरुः समाहितः / महाराज त्वयाप्य् एवं चरितव्यं शुभे सदा // rm_10.256{56} //
बोधयित्वा प्रजाञ् चैवं स्थापनीयाः शुभे सदा / ततस् ते मंगलं नित्यं सर्वत्रापि भवेत् खलु / क्रमाद् बोधिचरीं प्राप्य संबोधिपदम् आपुण्याः // rm_10.257{57} //
इति तेन समादिष्टं श्रुत्वा स नृपतीश्वरः / तथेत्य् अभ्यनुमोदित्वा प्राभ्यनंदत् सपार्षदः // rm_10.258{58} //
शृण्वन्ति ये श्रावयन्तीह यश् च हिरण्यपाणेर् अवदानम् एतत् / ते क्लेशमुक्ताः सुगतानुभक्ताः प्रयान्ति नूनं सुगतालयेषु // rm_10.259{59} //
++ इति श्रीरत्नमालयां हिरण्यपाण्यवदानं नाम समाप्तं ++
xi hastakāvadāna अथाशोको महीपालः कृतांजलिपुटो मुदा / उपगुप्तं गुरुं नत्वा भूयो ऽप्य् एवम् अभाषत // rm_11.1{1} //
भदन्त श्रोतुम् इछामि पुनर् अन्यत् सुभाषितं / यथा ते गुरुणाख्यातं तथा मे वक्तुम् अर्हसि // rm_11.2{2} //
इति तेन नरेन्द्रेण पृष्टो ऽसौ सुगतांशजः / उपगुप्तो महाभिज्ञस् तं नृपं प्रत्यभाषत // rm_11.3{3} //
शृणु राजन् महाभाग यथा मे गुरुणोदितं / तथाहं ते प्रवक्ष्यामि तद् अनुमोदनां कुरु // rm_11.4{4} //
पुरैकसमये चैवं श्रीघनो ऽसौ तथागतः / संबुद्धः सुगतः शास्ता सर्वधर्मानुदेशकः // rm_11.5{5} //
श्रावस्त्यां वहिर् उद्याने जेतवने मनोरमे / अनाथपिण्डदोद्याने विहारे सुगताश्रमे // rm_11.6{6} //
भिक्षुभिः श्रावकैः सार्द्धं उपासकैश् च चैलकैः / बोधिसत्वैर् महासत्वैस् तदन्यैश् च महर्षिभिः // rm_11.7{7} //
व्यहरत् सर्वहितार्थाय धर्मामृतं प्रवर्षयन् / तत् सद्धर्मामृतं पातुं प्रययुर् बोधिकामिनः // rm_11.8{8} //
लोकपाला महाराजा स्वस्वसैन्यजनैः सह / ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश् च मंत्रिणो जनाः // rm_11.9{9} //
अमात्याः साधवः पौरा धनिनश् च महाजनाः / वणिजः सार्थवाहाश् च तथान्ये सर्वजातिकाः // rm_11.10{10} //
सर्वदिग्भ्यः समागत्य सर्वे ते समुपागताः / तं बुद्धं सुगतं नाथं पूजयित्वा समंततः // rm_11.11{11} //
परिवृत्य पुरोधाय शख्याविगुणकामिताः / कृतांजलिपुटो तस्थुः सद्धर्मचरणोत्सुकाः // rm_11.12{12} //
अथासौ भगवान् दृष्ट्वा तान् सर्वान् समुपस्थितान् / आदिमध्यान्तकल्याणं दिदेश धर्मम् उत्तमं // rm_11.13{13} //
तत् सद्धर्मामृतं पीत्वा सर्वे लोकाधिपादयः / हर्षितास् ते ऽनुमोदन्तो वभूवुः परिबोधिताः // rm_11.14{14} //
तदैव समये तस्यां श्रावस्त्यां पुरिसंभवः / आसीद् गृहपतिः प्राढ्यः कुवेरवत् समृद्धिमान् // rm_11.15{15} //
श्राद्धो दाता महाभोगी सर्वहितार्थभृत् / त्रिरत्नसेवको धीमान् सुविशालपरिग्रहः // rm_11.16{16} //
संगृही विधिवद् भार्यां स्वकुलधर्मचारिणी / परिणीता यथाकामं संरमे परिचारयन् // rm_11.17{17} //
तस्यासौ रमणी भार्या संवृत्ता गर्भिणी सती / असूत समये पुत्रं प्रासादिकं मनोहरं // rm_11.18{18} //
स च जातिस्मरो वालो जातमात्रः स्वकौ भुजौ / संदृष्ट्वालिंग्य चुंवित्वा परिष्वज्यैवम् अब्रवीत् // rm_11.19{19} //
अहो वताद्य मे हस्तौ सुचिरेण समुद्भवौ / अहो लब्धाव् इमौ हस्तौ सुचिरेण मयाधुना // rm_11.20{20} //
तेनैवं जातमात्रेण दृष्टं कृतं प्रभाषितं / दृष्ट्वा श्रुत्वा च सा माता त्रासिता विस्मिताभवत् // rm_11.21{21} //
किम् एतद् इति संत्रस्ता दृष्ट्वा तं दारकं मुदा / भर्त्तारं सहसाहूय अग्रम् एनम् अदर्शयत् // rm_11.22{22} //
तदासौ दारकश् चापि दृष्ट्वा तं जनकं मुदा / हस्तौ दृष्ट्वा तथालिंग्य चुंवयित्वा चैवम् अब्रवीत् // rm_11.23{23} //
अहो वताद्य मे हस्तौ सुचिरेण समुद्भवौ / अहो लब्धाव् इमौ हस्तौ सुचिरेण मयाधुना // rm_11.24{24} //
इति संदर्शयं हस्ताव् एवं चाप्य् अवदच् छिशुः / दारको ऽसौ पुनः सुप्तो निद्रां भेजे यद् इछया // rm_11.25{25} //
ततो ऽसौ जनको ऽप्य् एतद् दृष्ट्वा श्रुत्वा प्रविस्मितः / किं एतद् इति साशंका ज्ञातिन् आहूय चाब्रवीत् / भवन्तो ऽद्य प्रजातं मे पुत्ररत्नं मनोहरं / तन् निमित्तं निरीक्ष्यैतत् सत्यं मे वक्तुम् अर्हथ / इति तेनोदितं श्रुत्वा सर्वे ते ज्ञातयो मुदा / तत् पुत्रं दारकं द्रष्टुं तत् कोष्ठं समुपादिशत् / तथासौ दारकश् चैवं तान् दृष्ट्वा समुपस्थितान् / भुजौ पश्यन् परिष्वज्य चुंवित्वैवम् अभाषत / अहो वताद्य मे हस्तौ सुचिरेण मयाधुना / भवन्तो ऽर्हत्सु मा चित्तं दूषयत कदा चन / खरां वाचं च मार्हत्सु निश्चारयत सर्वदा / एवं संदर्शयं हस्तौ वचनं संवदं शिशुः / दारको ऽसौ पुनः सुप्तो निद्रां भेजे यद् इछया / एतत् ते ज्ञातयो दृष्ट्वा श्रुत्वा सर्वे ऽपि विस्मिताः / किम् एतद् इति भाषन्तो वभूवुः परिसंकिताः // rm_11.26{26} //
ततस् ते ज्ञातयः सर्वे विज्ञाय तस्य लक्षणं / संमील्य तम् उपामंत्र्य गृहस्थः प्रतिहर्षितः // rm_11.27{27} //
तस्य जातिमहं कृत्वा पुनर् एवम् अवोचत / भदन्तो दारकस्यास्य नामधेयं प्रमाणतः // rm_11.28{28} //
यथायोग्यप्रसिद्धेन कर्त्तुम् अर्हथ सांप्रतं / इति तेनोदितं श्रुत्वा सर्वे ते ज्ञातयस् ततः // rm_11.29{29} //
संमील्य संमतं कृत्वा तं गृहस्थं समब्रुवन् / यद् अयं ते सुतो वालो जातमात्रः स्वकौ भुजौ // rm_11.30{30} //
पश्यन् आलिंग्या चुंवित्व मुदा चैवं प्रभाषते / तद् अयं दारको नाम्ना हस्तक इति विश्रुतः // rm_11.31{31} //
भवतु सर्वलोकेषु सुचिरं चापि जीवतु / तथेति प्रतिनंदित्वा गृहस्थो ऽसौ प्रमोदितः // rm_11.32{32} //
तेन नाम्ना प्रसिद्धेन प्रथयाम् आस तं सुतं / ततो ऽसौ दारकस् तेन पित्रा पुत्राभिनंदितः / उपन्यस्तोपधात्रीषु धारणप्रतिपालने // rm_11.33{33} //
ततस् तासां प्रयत्नैः स पथ्योपचारणैः क्रमात् / दिने दिने प्रवृद्धो ऽभूद् ह्रदस्थम् इव पंकजं // rm_11.34{34} //
एवं स हस्तकस् ताभिः पाल्यमानः प्रवर्द्धितः / कुमारः सखिभिः सार्द्धं क्रीडास्थानं गतो ऽरमत् // rm_11.35{35} //
तत्र तेषां सखीनां च हस्तको ऽसौ पुरःस्थितः / हस्ताव् आलिंग्य संरक्ष्य चुंवित्वैवम् अभाषत // rm_11.36{36} //
अहो वताद्य मे हस्तौ सुचिरेण समुद्भवौ / अहो लब्धाव् इमौ हस्तौ सुचिरेण मयाधुना // rm_11.37{37} //
भवन्तो ऽर्हत्सु मा चित्तं दूषयत कदाचन / खरां वाचं च मार्हत्सु निश्चारयत केषु चित् // rm_11.38{38} //
इति संरक्षितौ हस्तौ तेनैवं च प्रभाषितं / दृष्ट्वा श्रुत्वाभवन् सर्वे सखायातीवविस्मिताः // rm_11.39{39} //
ततश् च जनकेनासौ लिपिशालानिवेशितः / गुरुं सम्यग् उपाश्रित्य विद्यापारं ययौ लघु // rm_11.40{40} //
तत्र तेषां गुरुणां च हस्तको ऽसौ पुरःस्थितः / हस्तौ दृष्ट्वा समालिंग्य चुंवित्वा चैवम् अब्रवीत् // rm_11.41{41} //
अहो वताद्य मे हस्तौ सुचिरेण समुद्भवौ / अहो लब्धव् इमौ हस्तौ सुचिरेण मयाधुना // rm_11.42{42} //
भवन्तो ऽर्हत्सु मा चित्तं दूषयत कदा चन / खरां वाचं च मार्हत्सु निश्चारयत केषु चित् // rm_11.43{43} //
इति दृष्ट्वा च संश्रुत्य सर्वे ते गुरवो ऽपि च / सर्वे शिष्य गणाश् चापि वभूवुर् विस्मयान्विताः / यस्मिंश् च समये तत्र देशे भयौपक्रमे / जनकायः समुद्भ्रान्तो ऽगोपायत् स्वस्वभाण्डकं / तदासौ हस्तको ऽप्य् एवं समुद्भ्रान्तः स्वकौ भुजौ / संभुज्य गोपयित्वैवं जनकायम् अभाषत / अहो वताद्य मे हस्तौ सुचिरेण समुद्भवौ / अहो लब्धाव् इमौ हस्तौ सुचिरेण मयाधुना / भवन्तो ऽर्हत्सु मा चित्तं दूषयत कदा चन / खरां वाचैव मार्हत्सु निश्चारयत केषु चित् / एवं हस्तौ सुसंरक्ष्य तेनैवं च प्रभाषितं / दृष्ट्वा श्रुत्वा च ते सर्वे लोका आसन् सुविस्मिताः // rm_11.44{44} //
ततो ऽसौ हस्तको ऽन्यस्मिं दिवसे सखिभिः सह / जेतवनं महोद्यानं जिनाश्रमे उपाययौ // rm_11.45{45} //
तत्राद्राक्षीत् महाबुद्धं भगवन्तं सभास्थितं / द्वात्रिंशल्लक्षणाशीतिव्यंजनैः परिमंडितं // rm_11.46{46} //
व्यामप्रभासमुद्दीप्तं शतसूर्याधिकप्रभं / शान्तेन्द्रियं सुभद्रांगं सौम्यकान्तं मनोहरं // rm_11.47{47} //
दृष्ट्वासौ सुप्रसन्नात्मा सहसा समुपागतः / पादौ तस्य मुनेर् नत्वा धर्मं श्रोतुं पुरो ऽविशत् // rm_11.48{48} //
ततो ऽसौ भगवान् तस्य दृष्ट्वाशयं विशोधितं / आदिमध्यान्तकल्याणं दिदेश धर्मम् उत्तमं // rm_11.49{49} //
तं सुगतोदितं धर्मं आर्य्यसत्यसमन्वितं / श्रुत्वासौ हस्तको विज्ञः सत्कायदृष्टिपर्वतं // rm_11.50{50} //
संभिद्य ज्ञानवज्रेण विंशतिशिखरोद्गतं / श्रोतापत्तिफलं प्राप्तो दृष्टसत्यो ऽभवत् ततः // rm_11.51{51} // संबुद्धसुगतं नत्वा स्वगेहं सहसा ययौ // rm_11.52{52} // तत्रैतत् सर्ववृत्तांतं पित्रोर् आज्ञाय हर्षितः / प्रव्रज्यासाधने ऽनुज्ञां पितरौ प्रत्ययाचत // rm_11.53{53} //
चित्तं मे रोचते तात प्रव्रज्याव्रतसाधने / तद् अनुज्ञां प्रदत्तं मे हितं मयि यदीछथ // rm_11.54{54} //
इति पुत्रोदितं श्रुत्वात्मजं तं पितावदत् / मा कृथाः सहसा पुत्र प्रव्रज्यासाधने मनः // rm_11.55{55} //
प्रव्रज्या दुष्करं स्थानं तद् अन्यद्व्रतम् आचर / प्रव्रज्याग्रहणं वृद्धे दरिद्रिते सुशोभिते // rm_11.56{56} //
त्वं च पुत्र कुमारो ऽसि दहरो ऽतिसुकोमलः / किंचिद् दुःखे ऽनभिज्ञाय तत् प्रव्रज्यां चरेः कथं // rm_11.57{57} //
तद् यावद् यौवनं देहं यावत् संपच् च ते गृहे / तावद् गेहे सुखं भुक्त्वा गृही धर्मं समाचर // rm_11.58{58} //
यदा वृद्धो दरिद्रो च प्रव्रज्यायां तदा चर / यावद् युवा समृद्धश् च तावत् त्वं प्रव्रजेः कथं // rm_11.59{59} //
संपत्तिक्षणयौवन्यं एतन् मारस्य गोचरं / तद् एतस्मिं कथं पुत्र प्रव्रज्याव्रतम् आचरेः // rm_11.60{60} //
इत्य् एतद् दुष्करं मत्वा प्रव्रज्याचरणे मनः / यत्नेनापि विनिवार्य कुलधर्मे समाश्रय // rm_11.61{61} //
ततस् ते मंगलं नित्यम् इहामुत्रापि सर्वतः / यशोधर्मसुखान्य् एवं सद्गतिं समवाप्नुयाः // rm_11.62{62} //
इति वाक्यं पितुः श्रुत्वा हस्तको ऽसौ विशंकितः / पितरौ बोधयन् धर्मे पुनर् एवम् अभाषत // rm_11.63{63} //
सत्यम् एतत् तथा तात त्वयैवं सत्यम् उच्यते / अत्रापि श्रूयतां तात ममाभिप्रायम् उच्यतां // rm_11.64{64} //
अनित्यं खलु संसारं जीवितं चापि चंचरं / क्षणध्वंसि शरीरं च संपच् चापि घनोपमा // rm_11.65{65} //
एवं दृष्ट्वा ह ताताहं संसारसुखनिःस्पृहः / प्रव्रज्याव्रतम् आधाय प्राप्तुम् इछामि सद्गतिं // rm_11.66{66} //
अपि च जन्म मानुष्यं दुल्लभं भवचारिणां / तत्रापि मरणं नित्यं पुरतः सर्वसंमुखं // rm_11.67{67} //
मानुष्यं लभ्यमाने हि कुतो धर्मानुचारितं / विना धर्मानुचारेण सद्गतिं कथम् आप्नुयां // rm_11.68{68} //
संबुद्धो ऽपि सदा नात्र संस्थाप्यति ससांघिकः / अतो ऽन्यत्रापि यायाद् वा निर्वृतिं चाव्रजेत् खलु // rm_11.69{69} //
संबुद्धे निर्वृतिं याते सद्धर्म लप्स्यते कुतः / सद्धर्मान्तर्गते लोके मारचर्य्या समाचरेत् // rm_11.70{70} //
मारचर्य्यासमाक्रान्ते सर्वत्र भुवनेष्व् अपि / सर्वे सत्वाश् च कामार्त्ता भवेयुः क्लेशभागिनः // rm_11.71{71} //
तदा धर्मानुचारेषु बुद्धिः कस्य कथं चरेत् / प्रव्रज्यासंवरं स्थातुं कः समर्थो भवेत् तदा // rm_11.72{72} //
न च संशुद्ध्यते चित्तं प्रव्रज्यासंवरं विना / अविशोधितचित्ते हि नैव यायाच् छिवां गतिं // rm_11.73{73} //
तच् चित्तपरिशुद्ध्यर्थं निर्वृते च यद् आप्तये / प्रव्रज्याव्रतम् आदातुम् इछामि तात सांप्रतं // rm_11.74{74} //
यद् अत्र यदि मे तात हितं कर्तुं समिछसि / प्रव्रज्यासाधने ऽनुज्ञां दातुं मे प्रार्हसि द्रुतं // rm_11.75{75} //
इति पुत्रवचः श्रुत्व स गृहस्थो ऽनुबोधितः / तथेत्य् अभ्यनुमोदित्वा तद् अनुज्ञां व्यसृजत // rm_11.76{76} //
तच् छ्रुत्वा जननी चासौ दृष्ट्वा तं पुत्रम् आत्मजं / वियोगदुःखसंकार्ता रुन्दन्त्य् एवं न्यवारयत् // rm_11.77{77} //
हा पुत्र कथम् एकान्ते मां विहाय क्व यास्यसि / सहसा पुत्र मा कार्षी प्रव्रज्याचरितं मनः // rm_11.78{78} //
यावज् जीवाम्य् अहं जीव तावन् मा प्रव्रजात्मजे / मृतायां मयि पुत्र त्वं प्रव्रजस्व यथेछया // rm_11.79{79} //
अचिरेण हि मे मृत्युर् भविष्यति न संशयः / तावद् एव गृहे धर्मं कुर्वन् भुक्त्वा सुखं वस // rm_11.80{80} //
इति मातुर् वचः श्रुत्वा पुत्रो ऽसौ परिचोदितः / मातरं तां प्रणत्वैवं बोधयितुम् अभाषत // rm_11.81{81} //
यत् त्वयाम्वे रुदन्त्य् एवं मृत्युनामात्र कीर्त्त्यते / तेन मे प्रेरितं चित्तं प्रव्रज्याव्रतधारणे // rm_11.82{82} //
ध्रुवं जन्मवतां मृत्युः संसारे परिवर्त्तिनः / जातो न म्रियते को हि मृतः कश् च न जायते // rm_11.83{83} //
गृहस्थो धर्मकृच् चापि यात्य् एवं मरणं ध्रुवं / ब्रह्मचारी वनस्थो ऽपि यात्य् एवं मरणं खलु // rm_11.84{84} //
गृहस्थो बहुभिर् यत्नैः प्रकृत्वा द्रव्यसाधनं / कृच्छ्रेण साधयन् धर्मं मृतो याति सुरालयं // rm_11.85{85} //
यावद् धर्मफलं स्वर्गे तावद् भुक्त्वा सुखं वसेत् / ततो धर्मफले हीने स्वर्गाच् च्युतो यतेद् अधः // rm_11.86{86} //
अधोलोकेष्व् अवीच्यादौ नरकेषु भ्रमेच् चिरं / विविधानि च दुःखानि भुक्त्वा जीवं चिरं वसेत् // rm_11.87{87} //
यावन् न जायते तस्य पुण्यानुमोदना मतौ / तावत् कर्मजदुःखानि प्रभुक्त्वा नरके चरेत् // rm_11.88{88} //
यदा तु जायते तस्य त्रिरत्नस्मरणे मतिः / तदा तत्स्मृतिपुण्येन धर्मे ऽनुमोद्यते मतिः // rm_11.89{89} //
यदा पुण्यानुरागेण संबुद्धशरणं व्रजेत् / तदा तं सुगतं दृष्ट्वा धर्माकरैः परिस्पृशेत् // rm_11.90{90} //
सुगते दृक्प्रभास्पृष्टे पापदुःखैर् विमोचितः / नरकेभ्यः समुत्तीर्य प्रयायात् सुगतालयं // rm_11.91{91} //
तत्रापि यदि धर्मेषु चरन् नित्यम् अतंद्रितः / क्रमाद् बोधिचरीं प्राप्य प्रयायात् परमां गतिं // rm_11.92{92} //
एवं मात गृहस्थो हि कृत्वापि धर्मम् आदरात् / सुखदुःखानि संभुक्त्वा संसारे चरते भ्रमन् // rm_11.93{93} //
कथं चित् सुचिरेणैवं सुगतस्य प्रसादतः / भवचारकनिर्मुक्तं प्रयायात् परमां गतिं // rm_11.94{94} //
प्रव्रज्यार्हत्पदं प्राप्य प्राप्तुम् इछामि निर्वृतिं / तन् ममात्र त्वया मात नैव कार्या निवारणा // rm_11.95{95} //
यदि पुण्ये ऽस्ति ते वांछा तद् अनुज्ञाशु दीयतां / यदि न दीयते ऽनुज्ञा तद् अपि नौ वियोगता // rm_11.96{96} //
अकस्मात् मृत्युर् आगत्य भविष्यति पुरापि नौ / तदा ते किं करिष्यामि किं ममापि करिष्यसि // rm_11.97{97} //
सदानुशोचनाम् एव कृत्वा जीवं त्यजेवहि / इति मातर् विदित्वा त्वं तदनुज्ञां प्रदेहि मे // rm_11.98{98} //
विघ्नतां मा कृथा ह्य् अत्र धर्मे भवानुमोदिनी / तथा चेच् छुभता नित्यम् इहामुत्रापि ते भवेत् // rm_11.99{99} //
अहं च सौगतिं चर्यां कृत्वा यास्यामि निर्वृतीं / इति पुत्रोदितं श्रुत्वा मतासौ परिबोधिता // rm_11.100{100} // तथानुमोदनां कृत्वाभवत् तूष्णीव्यवस्थिता // rm_11.101{1} // अथासौ हस्तको विज्ञः पित्रोर् मत्वाभिसंमतं / तयोः पादान् प्रणत्वैवं सहसा निर्ययौ गृहात् // rm_11.102{2} //
ततो ज्ञातिगणान् सर्वान् वन्धुमित्रसुहृज्जनान् / सर्वान् अतिथिवर्गांश् च वांछितार्थैः प्रतोषयन् // rm_11.103{3} //
सन्तर्प्य बोधयित्वा च सहसा संप्रहर्षितः / जेतवनं प्रगत्वा स विहारं समुपाविशत् // rm_11.104{4} //
तत्रस्थं सुगतं दृष्ट्वा सहसा समुपायतः / कृतांजलिपुटो नत्वा प्रव्रज्यां समयाचत // rm_11.105{5} //
नमस् ते भगवन् नाथ भवतां शरणं व्रजे / तत् प्रव्रज्यां व्रतं देहि चरिष्ये ब्रह्मसंवरं // rm_11.106{6} //
इति तेनार्थिते बुद्धो भगवान् तम् अभाषत / एहि भिक्षो कुमारात्र चर ब्रह्मव्रतं वरं // rm_11.107{7} //
इत्य् आदिश्य मुनीन्द्रो ऽसौ पाणिना तच् छिरः स्पृशन् / सम्यक् प्रव्राजयित्वाशु स्वसंघे तं समग्रहीत् // rm_11.108{8} //
एहीत्य् आदिष्टमात्रे ऽपि मुनीन्द्रेण स हस्तकः / मुण्डितः खिष्खिरीपात्रहस्तो ऽभूच् चीवरावृतः // rm_11.109{9} //
क्रमाच् छिक्षा समासाद्य प्राप्योपसंपदो ऽपि च / व्यायच्छ घटमानश् च समाधिषु समाहितः // rm_11.110{10} //
तद् इदं पंचगंडं च भवचक्रं चलाचलं / विदित्वा सर्वसंस्कारगतिश् चापि विघातिनी // rm_11.111{11} //
भिन्दन् सर्वम् अविद्याङ्गं प्राप्य विद्यागणाः शिवाः / प्रतिसंविद्गुणाः प्राप्य जित्वा क्लेशगणां यतिः // rm_11.112{12} //
साक्षाद् अर्हत्पदं प्राप्तः वीतरागो जितेंद्रियः / समलोष्टहिरण्यश् च वासीचंदनसंनिभः // rm_11.113{13} //
आकाशसमचित्तांगो निर्विकल्पो निरंजनः / संसारभोग्यसत्कारलाभलोभपराङ्मुखः // rm_11.114{14} //
पंचाभिज्ञापदप्राप्तश् चतुर्ब्रह्मविहारकः / सदेवासुरमर्त्यानां त्रैधातुकनिवासिनां // rm_11.115{15} //
पूज्यो मान्यो ऽभिवंद्यो ऽभूद् धस्तको ऽर्हं यतिः सुधीः / सहसा क्लेशगणाञ् जित्वा साक्षाद् अर्हन् भवत्य् अपि // rm_11.116{16} //
ततस् ते भिक्षवः सर्वे दृष्ट्वा तं दारकं यतिं / विस्मिताः श्रीघनं नत्वा पप्रछुस् तस्य कर्मतां // rm_11.117{17} //
तद् अद्य भगवच् छास्तः सर्वसत्वानुबोधये / यद् अनेन कृतं कर्म तत् समादेष्टुम् अर्हति // rm_11.118{18} //
इति ते भिक्षुभिः पृष्टे भगवान् स मुनीश्वरः / तान् स्वशिष्यान् यतीन् भिक्षून् समामंत्र्याब्रवीत् तथा // rm_11.119{19} //
शृणुध्वं भिक्षवः सर्वे यूयं हि विस्मयान्विताः / यद् अनेन कृतं कर्म तन् मया वः प्रचक्ष्यतां // rm_11.120{20} //
पुरासीद् भगवान् बुद्धः काश्यपो नाम सर्ववित् / स्सर्वत्रैधातुकाधीशः सर्वविद्याधिपो जिनः // rm_11.121{21} //
धर्मराजो जगच्छास्ता तथागतो विनायकः / सर्वधर्मानुसंभर्त्ता संबोधिसंप्रकाशितः // rm_11.122{22} //
ससांघिको मुनीन्द्रो ऽसौ वाराणसीम् उपाश्रितः / सर्वसत्वहितार्थेन तस्थौ धर्मं समादिशत् // rm_11.123{23} //
तस्य सद्धर्मराजस्य काश्यपस्य जगद्गुरोः / शासने द्वौ यती भिक्षू संशीतिकौ वभूवतुः // rm_11.124{24} //
तयोर् एको महाधीरो विनीतो ऽर्हं वहुश्रुतः / द्वितीयो ऽल्पश्रुतः भिक्षुः पृथग्जनसमानिकः // rm_11.125{25} //
यो ऽसाव् अर्हन् महाविज्ञो वहुश्रुतो विचक्षणः / स ज्ञातो ऽर्हन् महापुण्यः सर्वलोकैः प्रपूजितः // rm_11.126{26} //
यो ऽभूच् चाल्पश्रुतो भिक्षुः संशीतिकः पृथग्जनः / स केन चित् पूजितो नैवं यथा सो ऽर्हं यतिः सुधीः // rm_11.127{27} //
यदा सो ऽर्हन् महाभिज्ञो यत्र यत्र निमंत्रितः / तेनैव सर्वतः पश्चाच्छ्रमनेन सहाचरत् // rm_11.128{28} //
तथान्यस्मिन् दिने सो ऽर्हं दात्रान्येन निमंत्रितः / गन्तुकामस् तदा तत्र पश्चाच्छ्रमणम् ऐच्छत // rm_11.129{29} //
तद् आगमनम् अन्विष्य नैव प्रत्यलभत् क्वचित् / ततस् तद्दर्शनाभावाद् अन्यम् आहूय भिक्षुकं // rm_11.130{30} //
तं पश्चाच्छ्रमणं कृत्वा दातुर् गृहम् उपाचरत् / तदनन्तरम् एवासौ तत्राश्रमे उपागतः // rm_11.131{31} //
तम् अर्हन्तम् अपश्यन् स तस्थौ तूष्णी निराशितः / तथैवं तं निषीदन्तं दृष्ट्वा ते भिक्षवो नराः // rm_11.132{32} //
तस्यौद्धत्यमनः कर्तुम् एवम् ऊचुः परस्परं / भदन्त पश्यताद्यायं तेनाहतो न नीयते // rm_11.133{33} //
अन्यो ऽद्य नीयते पश्चाच्छ्रमणः केन हेतुना / इति तैर् भिक्षुभिः प्रोक्तं श्रुत्वासौ प्रतिभेदितः / तस्यार्हतो ऽन्तिके चित्तं प्रदुष्याभ्यशपत् तथा // rm_11.134{34} //
यद् अद्य मां परित्यज्य समाहूयान्यतो हरात् / गछत भोजनं भोक्तुं तद् अहस्तो भवत्व् असौ // rm_11.135{35} //
तदासौ भोजनं भुक्त्वा तेनैवं भिक्षुणा सह / स्वाश्रमं समुपायातस् तम् अद्राक्षीद् रुषाकुलं // rm_11.136{36} //
इत्य् एवं शपितं वापि मत्वा सो ऽर्हं महामतिः / दृष्ट्वा तं कृपया दृष्ट्या तूष्णीभूत्वा व्यचिंतयत् // rm_11.137{37} //
अहो अयं महामूढ ईदृग् मयि प्रभाषते / एतत् कर्मफलं घोरं कथं भोक्ष्यति नारके // rm_11.138{38} //
यद् अयं मम दोषेण क्रोधेनैवं खलीकृतः / तद् एतत् कर्मवैपाक्यं मयैव परिपाच्यतां // rm_11.139{39} //
इत्य् एवं मनसा ध्यात्वा स महार्हं कृपानिधिः / तत्पापपरिशुद्ध्यर्थं समाधिं विदधे चिरं // rm_11.140{40} //
ततः सो ऽप्य् अयतिर् भिक्षुर् दृष्ट्वा तं ध्यानसंस्थितं / पश्चात्तापाग्निसंतप्तेस् तत्पादप्रणतो ऽवदत् // rm_11.141{41} //
भदन्त यन् मया रौष्यात् क्रोधाभिभूतचेतसा / प्रोचितं पातकं घोरं तद् भवान् क्षन्तुम् अर्हति // rm_11.142{42} //
यन् मया दुष्टचित्तेन भवतो ऽप्य् उपभाष्यते / तदत्ययं भवाञ् छास्तः प्रतिहर्तुं समर्हति // rm_11.143{43} //
अद्याग्रेण सदा चापि भवतां शरणं व्रजे / तन् मे यद् अपराधत्वं तत् सर्वं क्षन्तुम् अर्हति // rm_11.144{43!} //
पुनर् नैतत् करिष्ये ऽहं अकर्त्तव्यं यद्य् अत्र हि / अवक्तव्यं च यत् किं चिन् न तद् वक्ष्यामि सर्वथा // rm_11.145{44} //
अभाव्यं चापि यत् किंचिद् भावयिष्ये न तत् पुनः / यद् एव तं प्रकर्त्तव्यं तद् एव हि करोम्य् अहं // rm_11.146{45} //
वक्तव्यम् एव वक्ष्ये ऽहं भाव्यम् एव प्रभावये / एतत् सर्वं समासेन समादेष्टुं समर्हति // rm_11.147{46} // भवदाज्ञां शिरोधृत्वा सत्यम् एवं चरेत् सदा // rm_11.148{47!} // इति तेनार्थितं श्रुत्वा स समाधेः समुत्थितः / तं भिक्षुं कृपया दृष्ट्वा पश्यन्न् एवं समब्रवीत् // rm_11.149{48} //
शृणु वत्स समाधाय त्वाम् अत्राहं प्रबोधये / यथा मे गदितं श्रुत्वा तथा कुरु समाहितः // rm_11.150{49} //
प्राणिहिंसा न कर्त्तव्या तथादत्तप्रतिग्रहं / स्त्रीणां संगानुरागं च अकर्त्तव्यं कदा चन // rm_11.151{50} //
मृषावादं न वक्तव्यं पैशून्यवचनं तथा / संभिन्नप्रलापं च पारुष्यं च कदा चन // rm_11.152{51} //
मिथ्यादृष्टिर् अभिध्या च व्यापादं च तथा सदा / भिक्षुभिर् मनसा नैव चिंतनीया कदा चन // rm_11.153{52} //
एतानि दशपापानां मूलानि दुःखदानि हि / तस्माद् एवं परिज्ञाय त्यक्तव्यानि सुखार्थिभिः // rm_11.154{53} //
पुनर् अन्यच् छृणुष्वात्र वक्ष्ये दारुणपातकं / सद्धर्माणां प्रतिक्षेपं कर्तव्यं न कदा चन // rm_11.155{54} //
तथा वार्यापवादत्वं वक्तव्यं न कदा चन / पंचानंतर्यपापानि नैव कार्याणि केन चित् // rm_11.156{55} //
यानि श्रुत्वापि दृष्ट्वापि भावयित्वानुमोद्य च / पतन्तो नरकेष्व् एव क्लेशान्धानि च सन्ति हि // rm_11.157{56} //
तस्माद् एतानि कर्माणि मानसापि च मा कृथा / वर्जनीयानि यत्नेन सद्धर्मसुखवांछिभिः // rm_11.158{57} //
कर्त्तव्यं तु सदा नित्यम् आर्यसत्यानुभावितं / आर्याष्टांगिकमार्गे च चरित्वा व्रतम् आदरात् // rm_11.159{58} //
व्रतानाम् अपि सर्वेषाम् आर्याष्टांगम् उपोषधं / प्रवरं व्रतम् आख्यातं सर्वैर् अपि मुनीश्वरैः // rm_11.160{59} //
यस्य पुण्यानुभावेन परिशुद्धत्रिमंडलाः / निःशेषपापनिर्मुक्ताः प्रयान्त्य् अर्हत्पदं द्रुतं // rm_11.161{60} //
एवम् एतत् परिज्ञाय व्रतं कृत्वा समाचरन् / ततस् ते क्रमतः पापं निःशेषं क्षिणुयाद् द्रुतं // rm_11.162{61} //
ततश् च क्रमशः शिक्षाः शिक्षित्वात्र समाहितः / त्रिरत्नशरणं कृत्वा ब्रह्मचर्य्यं समाचर // rm_11.163{62} //
ततस् त्वं क्रमशश् चैवं शोधयित्वा त्रिमंडलं / सर्वक्लेशविनिर्मुक्तः साक्षाद् अर्हन् भविष्यसि // rm_11.164{63} //
इति तेनार्हतादिष्टं श्रुत्वासौ परिबोधितः / तथेति च परिज्ञाय तद्व्रतं कर्तुम् ऐछत // rm_11.165{64} //
तथा तस्यार्हतः शास्तुः सदैवं शरणं गतः / क्रमाच् छिक्षाश् च शिक्षित्वा तद् उपोषधम् आचरत् // rm_11.166{65} //
अधीत्य सकला विद्या त्रिरत्नसमुपाश्रयन् / सर्वक्लेशान् विनिर्जित्य ब्रह्मचर्यं समाचरत् // rm_11.167{66} //
भिक्षवो ज्ञायताम् एष यो ऽसौ भिक्षुः पृथग्जनः / यद् अनेनार्हते शास्त्रे शपितं रुष्टचेतसा // rm_11.168{67} //
तेनाहस्तो वभूवायं पंचजन्मशतान्य् अपि / यच् चानेनार्हतः शस्तुर् गत्वा च शरणं सदा // rm_11.169{68} //
अधीत्य सकला विद्या ब्रह्मचर्यं समाश्रितं / तेनायं शासनेनात्र प्रव्रज्यार्हं भवत्य् अपि // rm_11.170{69} //
इति हि भिक्षवो मत्वा चरितव्यं शुभे सदा / शुभेन सद्गतिं यांति कृष्णेन दुर्गतिं सदा // rm_11.171{70} //
मिश्रितेनापि मिश्रत्वं भुंजते सर्वजंतवः / येनैव यत् कृतं कर्म तस्यैव कर्मणः फलं // rm_11.172{71} //
तेनैव भुज्यते लोके नान्येन स्पृश्यते क्वचित् / अभुक्तं क्षीयते नैव कर्म क्वापि कदा चन // rm_11.173{72} //
भुक्तं तु क्षीयते कर्म शुभं वाप्य् अशुभं तथा / नाग्निभिर् दह्यते केन वायुभिश् च न शुष्यते // rm_11.174{73} //
क्लिद्यते नोदकैश् चापि क्षीयते नैव भूमिषु / न प्रणश्यन्ति कर्माणि कल्पकोटिशतैर् अपि // rm_11.175{74} //
सामग्रीं प्राप्य कालं च फलन्ति प्राणिनां खलु / एवम् एतत् प्रभषित्वा जिनेन्द्रो ऽसौ महामुनिः // rm_11.176{75} //
बोधयन् सकलांल् लोकान् समाधिं विदधे ततः / इति शास्त्रा समादिष्टं श्रुत्वा सर्वे च सांघिकाः // rm_11.177{76} // शुभेष्व् एव सदा रक्ताः प्रचेरिरे समाहिताः // rm_11.178{77} // इत्य् एवं मे समाख्यातं गुरुणा शाणवासिना / तथैवं ते मया ख्यातं श्रुत्वा चैवं शुभे चर // rm_11.179{78} //
प्रजाश् च श्रावयित्वैवं बोधयित्वा प्रयत्नतः / सद्धर्माचरणेष्व् एवं प्रेरणीया नराधिप // rm_11.180{79} //
ततस् ते मंगलं नित्यं सर्वत्रापि भवेद् ध्रुवं / क्रमाद् बोधिपथः प्राप्य संबोधिम् आप्नुयाः खलु // rm_11.181{80} //
इति तेनोपगुप्तेन भाषितं स नरेश्वरः / श्रुत्वा तथेति वंदित्वा प्राभ्यनन्दत् सपार्षदः // rm_11.182{81} //
ये शृण्वन्तीदम् एवं प्रमुदितमनसो हस्तकाख्यावदानं ये चापि श्रावयन्ति प्रतिदिनम् अनिशं बोधिचर्याभिरक्ताः / ते सर्वे क्लेशमुक्ताः सुविमलमनसो बोधिसत्वा गुणाढ्या भुक्त्वा सौख्यं प्रकामं मुनिवरनिलयं संप्रयांति प्रमोदाः // rm_11.183{82} //
++ इति श्रिरत्नमालायां हस्तकावदानं नाम समाप्तम् ++
xii sārthavāhāvadāna अथाशोको महीपालः कृतांजलिपुटो मुदा / उपगुप्तं गुरुं नत्वा पुनर् एवम् अभाषत // rm_12.1{1} //
भदन्त श्रोतुम् इछामि पुनर् अन्यत् सुभाषितं / यथा ते गुरुणादिष्टं तथा मे ख्यातुम् अर्हसि // rm_12.2{2} //
इति तेन नरेन्द्रेण पृष्टे ऽसौ सुगतात्मजः / उपगुप्तो यतिश् चैवं तं नृपं प्रत्यभाषत // rm_12.3{3} //
शृणु राजन् समाधाय यथा मे गुरुणोदितं / तथाहं ते प्रवक्ष्यामि तच् छ्रुत्वा मुदितो भव // rm_12.4{4} //
पुरैकसमये चैवं शाक्यसिंहो जगद्गुरुः / सर्वज्ञः सुगतः शास्ता सर्वधर्मानुदेशकः // rm_12.5{5} //
सर्वविद्याधिपो नाथस् त्रैधातुकविनायकः / धर्मराजो मुनीन्द्रो ऽसौ सर्वसत्वहितंकरः // rm_12.6{6} //
श्रावस्त्यां वहिर् उद्याने जेताह्वये महावने / अनाथपिण्डदारामे विहारे सौगताश्रमे // rm_12.7{7} //
श्रावकैर् भिक्षुभिः सार्द्धम् उपासकैश् च चैलकैः / बोधिसत्वगणैश् चापि तथान्यैश् च महर्षिभिः // rm_12.8{8} //
व्यहरत् सत्वहितार्थेन धर्मामृतैः प्रवर्षयन् / तत् सद्धर्मामृतं पातुं प्राययुर् बोधिवांछिनः // rm_12.9{9} //
लोकपालगणाः सर्वे स्वस्वसैन्यगणैः सह / ब्राह्मणाः क्षत्रियाश् चापि वैश्याः शूद्राश् च मंत्रिणः // rm_12.10{10} //
अमात्या धनिनः पौराः साधवश् च महाजनाः / वणिजः सार्थवाहाश् च तथान्ये सर्वजातिकाः // rm_12.11{11} //
सर्वदिग्भ्यः समागत्य सर्वे ते समुपागताः / संबुद्धं श्रीघनं नत्वा पूजयित्वा समंततः // rm_12.12{12} //
परिवृत्य पुरस्कृत्य सद्धर्मश्रवणार्थिनः / कृतांजलिपुटो दृष्ट्वा संतस्थुः संमुखानताः // rm_12.13{13} //
अथासौ भगवान् दृष्ट्वा तान् सर्वान् समुपाश्रितान् / आदिमध्यांतकल्याणं दिदेश धर्मम् उत्तमं // rm_12.14{14} //
तत् सद्धर्मामृतं पीत्वा सर्वे लोकाधिपादयः / हर्षितास् ते ऽनुमोदन्तो ननन्दुः परिबोधिताः // rm_12.15{15} //
तदैव समये तस्यां श्रावस्त्यां पुरि संस्थितः / आसीत् सांयात्रिकोत्साही सार्थवाहो महोद्यमी // rm_12.16{16} //
स्वकुलधर्मभृद् वीरः स्वकुलवृत्तिमानितः / यशोधर्मार्थकामाप्त्यै समुद्रं गन्तुम् ऐछत // rm_12.17{17} //
ततो ऽसौ स्वां प्रियां भार्यां बोधयित्वा प्रयत्नतः / स्वसहायाश् च तां सर्वां समाहूय समब्रवीत् // rm_12.18{18} //
भवंतो श्रूयतां सर्वे यद् अभिलषितं मम / अत्रास्ति यदि वो वांछा तन् मे स्वागन्तुम् अर्हथ // rm_12.19{19} //
अहं रत्नाकरं गन्तुम् इछे रत्नसमृद्धये / तत् प्रायात मया सार्द्धं यदि संपत्तिम् इछथ // rm_12.20{20} //
इति तेनोदितं श्रुत्वा सर्वे ते रत्नलोभिताः / सहसा गंतुम् इछन्ते रत्नाकरे महोदधौ // rm_12.21{21} //
ततो ऽसौ सार्थभृच् छीघ्रं सर्वे सार्थगणैः सह / स्वस्त्ययनविधिं कृत्वा प्रतस्थे संप्रमोदितः // rm_12.22{22} //
ततः क्रमाद् व्यतिक्रम्य ग्रामारण्यवनानि च / सर्वे ते प्रचरन्तो वै तीरं प्रापुर् महोदधेः // rm_12.23{23} //
ततो भांडानि नौकायाम् आरोप्यारुह्य च स्वयं / कर्णधारप्रयत्नैस् ते जगाहिरे ऽम्बुधिं क्रमात् // rm_12.24{24} //
ततः क्रमात् समुल्लंघ्य बहुद्वीपान्तराणि ते / रत्नाकरं समासाद्य रत्नानि समसाधयन् // rm_12.25{25} //
ततस् ते बहुरत्नानि समासाद्य प्रमोदिताः / ततः प्रत्यागता अब्धेस् तीरान्तिकं समाययुः // rm_12.26{26} //
तत्र तत् कर्मदोषेण कालवातैर् विघट्टितं / भिद्यते वहनं तेषां हृदयैः सा सहाशु तत् // rm_12.27{27} //
तदा ते वणिजः सर्वे निःप्रयत्नप्रतिक्रिया / सर्वभाण्डैः सहागाढे निपेतुर् दुष्करे ऽम्बुधौ // rm_12.28{28} //
केचित् फलकम् आलम्व्य समुत्तीर्णाः स्ववीर्यतः / केचिद् वाहुवलाधानं समुत्तीर्य स्थलं ययुः // rm_12.29{29} //
केचिच् च विलयं प्राप्ता निरालम्व्यनिराश्रयाः / उत्प्रवन्तो निमज्जन्तः खेदिता निधनं ययुः // rm_12.30{30} //
ततस् ते वणिजः सर्वे ये विशिष्टा विषादिताः / ते यशोधनविभ्रष्टाः शून्यहस्ता गृहं ययुः // rm_12.31{31} //
तथासौ सार्थवाहो ऽपि गृहं प्राप्तो विषादितः / एतद् वृत्तं स्वभार्यायाः कथित्वैवं व्यचिन्तयत् // rm_12.32{32} //
हा हा मे मन्दभाग्यत्वाज् जायते मीदृशी विपत् / अत्राहं किं करिष्यामि यतो भाग्यं न विद्यते // rm_12.33{33} //
भाग्यवान् पुरुषो धीरो भाग्यवान् कुशली सुधीः / भाग्येन लभ्यते संपद् यशः सौख्यगुणान्वितः // rm_12.34{34} //
धीः श्रीलक्ष्मीयशोरत्नं वलं संपत् क्षणादयः / एतदाद्या गुणाः सर्वे शोभन्ति भाग्यम् आश्रिताः // rm_12.35{35} //
निहीनभाग्यवृत्तेस् तु पुरुषस्यापि संमते / एतदाद्यादिगुणाः सर्वे न प्रसिद्ध्यंति सर्वतः // rm_12.36{36} //
तद् अत्र किं करिष्ये ऽहं क्व यास्यामि धनाप्तये / धनहीना न शोभन्ते गृहस्थाः साधवो ऽपि हि // rm_12.37{37} //
वरं प्राणपरित्यागं न तु द्रव्यैर् विना गृहे / पशुवन् निरसं भुक्त्वा स्थास्याम्य् एवं निरुत्सवं // rm_12.38{38} //
भाग्येन लभ्यते द्रव्यं भाग्यं धर्मेण लभ्यते / धर्मे हि जायते स्वेष्टदेवतायाः प्रसादतः // rm_12.39{39} //
तद् धर्मभाग्यलब्धार्थं स्वकुलदेवतां प्रति / सम्यग् आराधयित्वैवं यायां रत्नाकरं पुनः // rm_12.40{40} //
मनसीति विनिश्चित्य स सार्थवाहकः पुनः / स्वकुलदेवतां सम्यग् आराध्य समयाचत // rm_12.41{41} //
नमस् ते देवते नित्यं भजे ऽहं शरणं गतः / क्षंतव्यं मे ऽपराधत्वं प्रसीद परमेश्वर // rm_12.42{42} //
इत्थं सा देवता सम्यग् आराध्य संप्रमोदिता / सर्वसार्थान् समाहूय पुनर् एवम् अभाषत // rm_12.43{43} //
भो भवन्तो विजानीध्वं वयं सर्वे वणिग्जनाः / तद् अत्र भवताम् अग्रे कथ्यते मे समीहितं // rm_12.44{44} //
यद् भवन्तो वयं सर्वे सार्थवाहकुलोद्भवाः / तत् तथैव गृहे स्थित्वा नैव शोभां व्रजेमहि // rm_12.45{45} //
तस्मात् स्वकुलवृत्तिस्थैः सर्वैर् अस्माभिर् उद्यतैः / यशोधर्मसुखाप्त्यर्थं कर्त्तव्यं धनसाधनं // rm_12.46{46} //
धनहीना न शोभन्ते गृहस्था हि कुटुंविनः / सार्थवाहो ऽस्तु शोभन्ते वहुरत्नार्जनोद्यताः // rm_12.47{47} //
तद् विषादं परित्यक्त्वा यशोरत्नसुखाप्तये / धैर्य्यम् आलम्व्य सर्वैश् च कर्त्तव्यं धनसाधनं // rm_12.48{48} //
धनवान् पुरुषो लोकैः सर्वत्रापि प्रमान्यते / धनेन साधयेद् धर्मं धर्मेण सद्गतिं व्रजेत् // rm_12.49{49} //
तस्मान् नित्यं महोत्साहैस् ञ्ल्त्यक्त्वालस्यकुशीदता / अर्जनीयं प्रयत्नेन धनं दानाय भुक्तये // rm_12.50{50} //
दानं विभूषणं लोके दानं दुर्गतिनिवारणं / दानं स्वर्गस्य सोपानं दानं शान्तिकरं सदा // rm_12.51{51} //
अस्माद् दानं सदा कर्तुं भोक्तुं सौख्यं यथेछया / भूयो रत्नाकरं गंतुम् अर्हामहे धनार्जने // rm_12.52{52} //
तत्र रत्नानि संगृह्य स्वस्तिप्रत्यागता वयं / यावज् जीवं सुखं भुक्त्वा दानं कृत्वा वसेमहि // rm_12.53{53} //
यदि दैवो विपत्तिः स्यात् समुद्रे पतिता वयं / तीर्थराजे मृताः सर्वे यास्यामः स्वर्गतिं ध्रुवं // rm_12.54{54} //
यदि भाग्याद् अथास्माकं देवानां च प्रसादतः / यात्रासिद्धिर् भवेन् नूनं यावज् जीवं सुखं तदा // rm_12.55{55} //
अस्माद् रत्नाकरे गन्तुं इछे रत्नप्रलब्धये / तत् प्रायात मया सार्द्धं यदि संपत्तिम् इछथ // rm_12.56{56} //
इति तस्योदितं श्रुत्वा ते सर्वे वणिजो मुदा / तथा तेन सहैछान्त गन्तुं रत्नाकरैः पुनः // rm_12.57{57} //
ततो ऽसौ सार्थभृच् छीघ्रं धृत्वा स्वस्त्ययनं मुदा / सर्वे सार्थगणैः सार्द्धं प्रतस्थे स्वपुराद् वहि // rm_12.58{58} //
ततः क्रमाद् व्यतिक्रम्य ग्रामारण्यवनानि च / प्रचरन्तश् च ते सर्वे तीरं प्रापुर् महोदधेः // rm_12.59{59} //
तत्र सर्वे ऽपि ते सार्था भाण्डानि वहने क्रमात् / आरोप्य सहसारूढा जगाहिरे महाम्बुधौ // rm_12.60{60} //
ततः क्रमात् समुल्लंघ्य वहुद्वीपान्तराणि ते / रत्नाकरं समासाद्य रत्नानि समसाधयन् // rm_12.61{61} //
तत्र ते वहुरत्नानि समागृह्य प्रहर्षिताः / ततः प्रत्यागताश् चाब्धेस् तीरान्तिकम् उपाययुः // rm_12.62{62} //
ततस् तद्दैवयोगेन कालिकावातघट्टिता / सा नौका भिद्यते चैवं तेषां वै हृदयैः सह // rm_12.63{63} //
तदा ते वणिजः सर्वे निःप्रयत्नप्रतिक्रिया / सर्वभाण्डैः सहागाढे न्यपतन् दुष्टरे ऽम्बुधौ // rm_12.64{64} //
तत्र ते विलयं प्राप्ता निरालंवा निराश्रयाः / उन्मज्जन्तो निमज्जन्तः प्रेरितास् तीरम् ऊर्मिभिः // rm_12.65{65} //
केचित् फलकम् आश्रित्य समुत्तीर्य्य स्ववीर्य्यतः / केचिद् वाहुवलाधानैः समुत्तीर्य्य स्थलं ययुः // rm_12.66{66} //
केचिन् निहीनवीर्य्याङ्गा हन्यमाना महोर्मिभिः / उत्प्लवन्ता निमज्जन्तः खेदिता निधनं ययुः // rm_12.67{67} //
ततस् तेषां च सार्थानां ये ऽवशिष्टा सुजीविनः / यशोरत्नवियुक्तास् ते शून्यहस्ता गृहं ययुः // rm_12.68{68} //
तथासौ सार्थवाहो ऽपि गृहं गत्वा विषादितः / एतद् वृत्तं स्ववंधूनां कथित्वैवम् अभाषत // rm_12.69{69} //
हा मया किं कृतं पापं येनेद्रिग् जायते विपत् / द्विधापि सिद्ध्यते नैव यतो भाग्यं न विद्यते // rm_12.70{70} //
पापैर् न सिद्ध्यते कर्म अत्र यत्नस्य किं वलैः / धर्मेण सिद्ध्यते कर्म तस्माद् धर्मो वलोत्तमः // rm_12.71{71} //
तस्माद् धर्मं पुरस्कृत्य कर्त्तव्यं द्रव्यसाधनं / द्रव्येन साधयेत् कर्म सद्गतिं समवाप्नुयाः // rm_12.72{72} //
कर्म तु सिद्ध्यते सम्यक् कुलवृत्तिं च चारिणां / कुलवृत्तिं परित्यज्य यो ऽन्यवृत्तौ चरेत् कुधीः // rm_12.73{73} //
स इहापि परिभ्रष्टः परत्र दुर्गतिं व्रजेत् / येनैवं सद्गतिप्राप्तिस् तदैव कर्म्म साधयेत् // rm_12.74{74} //
यतो ऽपि दुर्गतिं प्राप्तिस् तत् कर्म तर्हितं बुधैः / तद् अत्र किं करिष्ये ऽहं क्व यास्याम्य् अर्थम् अर्जितुं / अर्थं विना कथं धर्मं कर्त्तव्यं हि कुटुंविभिः // rm_12.75{75} //
विना धर्मं हि संसारे जन्म जीवं च निस्फलं / किं ते न पौरुषेणापि येन धर्मं न साध्यते // rm_12.76{76} //
धिग् धिग् मे जन्म संसारे जीवितुं न तथोत्सहे / वरं प्राणपरित्यागं न त्व् एवं चिरजीवितं // rm_12.77{77} //
अवश्यं जन्तुभिर् मृत्युर् गन्तव्यं एकधा ध्रुवं / ततो ऽत्र मर्तुम् इछामि न त्व् एवम् उषितुं गृहे // rm_12.78{(78)} //
एवंजीवो न शोभे ऽहं धिग् प्रवादाग्निदग्धितः / कथं मे शाम्यते दुःखं येनाहं परिखेदितः // rm_12.79{(78)} //
किं कर्त्तव्यं क्व गन्तव्यं यत्नं चात्र न विद्यते / सर्वथाहं विनष्टो ऽस्मि को मे ऽस्ति रक्षको जनः // rm_12.80{79} //
यशोधर्मपरिभ्रष्टो व्रजेयं दुर्गतिं खलु / तदाहं किं करिष्यामि धर्मयशःसुखान्वितः // rm_12.81{80} //
मानुष्ये लभ्यमाने हि कुतो धर्मानुसाधनं / विना धर्म्मं यशोद्रव्यः किं सौख्यं गृहवासिनां // rm_12.82{81} //
विना धर्मयशोद्रव्यैर् यो गृहस्थः पशुः खलु / धर्मेण साधयेद् द्रव्यं यशोभाग्यसुखाप्तये // rm_12.83{82} //
धर्माद् धि जायते पुण्यं दानशीलक्षमादिभिः / पुण्येनैव प्रलभ्यन्ते चतुर्वर्गा अपि ध्रुवं // rm_12.84{83} //
तद् एतेषां ममैको ऽपि न विद्यते कथं चन / हा हतो ऽस्मि स्वदैवेन किं करोमि विखेदितः // rm_12.85{84} //
सर्वथाहं विनष्टो ऽस्मि नमो दैवाय कर्मणे / एवं तेषां स्ववंधूनां विलपीत्वा स सार्थपः // rm_12.86{85} //
तस्थौ चिन्ताकुलीभूतो धनार्जननिराश्रया / एवं व्यवस्थितं दृष्ट्वा तं ते सर्वे ऽपि वांधवाः // rm_12.87{86} //
दत्वाश्वासं विनोदाय बोधयन्ते ध्रुवं तथा / साधो सार्थपते सत्यं तत् सर्वं यत् त्वयोच्यते // rm_12.88{87} //
तद् एवं धैर्य्यम् आलंव्य प्रोद्यमस्व गृहे वसन् / साधो कुत्रापि मा धाव निर्माणसदृशं फलं // rm_12.89{88} //
यावद् एवाम्भसा कुम्भः सिंधाव् अन्धौ ऽवपूर्यते / यद् अभावि न तद् भावि भावि नैव तद् अन्यथा // rm_12.90{89} //
अवश्यं भाविनो भावा भवंति सर्वदेहिनां / अवश्यं भाविनो भावा न भवेयुस् तथा यदि // rm_12.91{90} //
पित्रा त्यक्तः कथं रामो राज्यभ्रष्टो वनं ययौ / तत्रापि वसतस् तस्य भार्या शीता पतिव्रता // rm_12.92{91} //
आहृत्य रक्षसा नीता कथं लंकापुरे ऽवसत् / ततो रामेण वीर्येण हत्वासौ रावणस् ततः // rm_12.93{92} //
प्रत्यानीय पुनः शीता त्यक्ता भर्त्त्रा स्वयं कथं / पुनर् ऋषेः समानीय सभामध्ये परिक्षिता // rm_12.94{93} //
ततः पृथ्या स्वयं गृह्य सीतानीता रसातलं / ततस् तद्विरहार्त्तासौ रामः संसारनिस्पृहः // rm_12.95{94} //
नद्यां प्राणस्वयं त्यक्त्वा जनं सार्द्धं दिवं ययौ / एवम् अन्ये ऽपि राजानो युधिष्ठिरा नृपादयः / राज्यभ्रष्टा वने गत्वा विभ्रमुस् ते ऽपि दैवतः // rm_12.96{95} //
एवम् अन्ये ऽपि लोकाश् च सर्वत्रैधातुकभवाः / उत्तमा अधमा मध्या संति ते ऽपि स्वदैवतः // rm_12.97{96} //
केचिद् गृहे मृताः केचिज् जायमाना मृता अपि / केचिद् वाल्ये मृताः केचित् कौमारत्वे मृतास् तथा // rm_12.98{97} //
यौवने ऽपि मृताः केचिन् मृता वृद्धे वदन्ति मे / सर्वे ऽप्य् एवं मृता लोकाः स्वस्वदैवप्रमाणतः // rm_12.99{98} //
एवं देवादयो लोकाः सुखदुःखानुयोगिनः / स्वस्वदैवानुभावेन षड्गतिषु चरन्ति ते // rm_12.100{99} //
केचिद् वाल्ये सुखं भुक्त्वा यौवने दुःखभागिनः / केचिच् च यौवने सौख्यं भुक्त्वा वृद्धे सुदुःखिताः // rm_12.101{100} //
केचिच् च दुःखिता वाल्ये यौवने सौख्यभागिनः / वृद्धत्वस्य सुखीभूता भवंति ते ऽपि हि दैवतः // rm_12.102{1} //
सर्वे ऽपि सुखम् इछन्ति दुःखं नेछति कश् चन / तथा सुखानि संप्राप्तुं यत्नं कुर्वन्त्य् अनेकशः // rm_12.103{2} //
केषां चित् सिद्ध्यते यत्नं केषां चिद् वा न सिद्ध्यति / केषां चिद् विघ्नतां याति तत् सर्वं दैवयोगतः // rm_12.104{3} //
तथा च रोगिणां रोगा वैद्योपचारणैर् अपि / वर्द्ध्यन्ते नैव शाम्यन्ते तद् अपि दैवयोगतः // rm_12.105{4} //
केषां चिद् रोगिणां रोगा विना वैद्योपचारणे / शाम्यंते यत्नतो चापि तद् अपि दैवयोगतः // rm_12.106{5} //
तथा चल्द् मंत्रिणां मंत्राः सिद्ध्यन्ते यत्नतो लघुः / केषां चिद् विघ्नतां यान्ति तद् अपि दैवकारणात् // rm_12.107{6} //
तथैवं वणिजां लाभोः सिद्ध्यन्ते यत्नतो ऽपि च / केषां चिन् नैव यत्नेन तद् अपि दैवयोगतः // rm_12.108{7} //
तथा वीरा रणे शत्रुं विना यत्नं जयंत्य् अपि / केचित् तु रिपुना युद्धे हन्यमाना मृताः परे // rm_12.109{8} //
केचित् कृत्वा महायुद्धं हन्यमानाः परस्परं / त्यक्त्वा देहं गताः स्वर्गं तद् अपि दैवयोगतः // rm_12.110{9} //
एवं सांयात्रिका रत्नं प्राप्तुं रत्नाकरं गताः / केचिद् रत्नानि संगृह्य स्वस्ति प्रत्यागता गृहं // rm_12.111{10} //
केचिद् रत्नम् अलब्धं वै शून्यहस्ता गृहागताः / केचिच् च निधनं यातास् तत्रैव मकरालये // rm_12.112{11} //
केचिद् यत्नात् समुत्तीर्य जीवन्तो गृहम् आगताः / केचिच् च जांगले चौरैर् निहता मरणं गताः // rm_12.113{12} //
केचिच् च जंतुभिर् मार्गे हिंस्यमाने मृता वने / केषां चित् सिद्ध्यते यात्रा महल्लाभसमन्विताः // rm_12.114{13} //
केषां चिद् विघ्नतां यान्ति तथापि दैवयोगतः / कैश् चिद् गृहे निधिः प्राप्तः कैश् चिद् देशान्तरे वने // rm_12.115{14} //
कैश् चिद् दूरे भ्रमद्भिश् च नैव किं चित् क्व चिद् धनं / केषां चिद् वर्द्धते संपद् यत्नायासं विना लघु // rm_12.116{15} //
केषां चिद् धीयते संपद् रक्षितापि प्रयत्नतः / केषां चित् सुस्थिरा संपत् केषां चिद् वल अस्थिरा // rm_12.117{16} //
केषां चिज् जायते नैव नानोपायार्जनैर् अपि / एवं नानाप्रकारैश् च सत्वास् त्रैधातुकोद्भवाः // rm_12.118{17} //
भुंजते सुखदुःखानि स्वस्वदैवानुसारिणाः / सुखस्यान्ते हि दुःखानि दुःखस्यान्ते सुखानि च // rm_12.119{18} //
भुंजन्ते जंतवः सर्वे भ्रमन्ते षड्गतिष्व् अपि / तथा भवन्ति मित्राणि द्विषो ऽपि हितकारिणः // rm_12.120{19} //
मित्राण्य् अपि द्विषो दुष्टा भवंति दैवयोगतः / तथामृतं विषीभूतं विषं चाप्य् अमृती भवेत् // rm_12.121{20} // तद् अपि दैवयोगेन तस्माद् दैवं महद् वरं // rm_12.122{21} // तथा च ब्रह्मणः शीर्षं निकृत्तं शूलपाणिना / तद् अपि दैवयोगेन तस्माद् दैवं महावली // rm_12.123{22} //
तथा चक्री सुवीरो ऽपि व्याधेषु निहतो मृतः / तद् अपि दैवयोगेन तस्माद् दैवं महद् वलं // rm_12.124{23} //
यश् च भूताधिपश् चेशः सो ऽप्य् उमत्तो दिगंवरः / तद् अपि दैवयोगेन तस्माद् दैवं महेश्वरः // rm_12.125{24} //
चंद्रो ऽपि च कलंकाङ्को मासे मासे ऽपि हीयते / तद् अपि दैवयोगेन तस्माद् दैवं महद्वलं // rm_12.126{25} //
एवं चन्द्रदिनेशौ च ग्रहेणापि निपीडितौ / तद् अपि दैवयोगेन तस्माद् दैवं महावली // rm_12.127{26} //
रामो रक्षोविजेतापि पुत्रेण निहतो रणे / तद् अपि दैवयोगेन तस्माद् दैवं महावली // rm_12.128{27} //
तथार्ज्जुनः सुधीरो ऽपि पुत्रेणापि हतो रणे / तद् अपि दैवयोगेन तस्माद् दैवं महावलं // rm_12.129{28} //
तथा च पर्शुरामेण मातापि निहता क्रुधा / तद् अपि दैवयोगेन तस्माद् दैवं महावलः // rm_12.130{29} //
बिंबिसारो नृपेन्द्रो ऽपि पुत्रेणाजातशत्रुणा / वंधने मारितं चैवं तद् अपि दैवयोगतः // rm_12.131{30} //
तस्माच् च ब्रह्मदत्तेन धर्मपालो स नन्दनः / मारितः प्रमदातुष्ट्यै तद् अपि दैवयोगतः // rm_12.132{31} //
राज्ञी च दुर्पती माता स्वात्मजस्यापि रोहितं / पीत्वैव निर्दया तुष्टा तद् अपि दैवयोगतः // rm_12.133{32} //
क्षान्तिवादी मुनिश् चापि राज्ञा निर्दयचेतसा / असिना घातितो ऽरण्ये तद् अपि दैवयोगतः // rm_12.134{33} //
प्रसेनजिन् नृपेशो ऽपि पुत्रेणापि स्वराज्यतः / निर्वासितो वने भ्रान्तस् तद् अपि दैवयोगतः // rm_12.135{34} //
एवम् अन्ये ऽपि राजानो हत्वा ज्ञाती स्ववांधवान् / भुंजते प्राप्य राज्यानि तद् अपि दैवयोगतः // rm_12.136{35} //
एवं पित्रा सुतास् त्यक्त्वा मात्रा च स्वात्मजा अपि / वंधुमित्रादिभिस् त्यक्त्वा केचिद् दैवानुयोगतः // rm_12.137{36} //
भार्यापि स्वामिना त्यक्त्वा भर्त्तापि भार्य्यया तथा / तद् अपि दैवयोगेन तस्माद् दैवं महत्तरं // rm_12.138{37} //
पुत्रेणापि पिता त्यक्तं मातापि जननी तथा / धात्री चापि परित्यक्तास् तथा पौत्रपितामहः // rm_12.139{38} //
तथा पितामहस् त्यक्तः पुत्रैश् चाप्य् अतिनिर्दयैः / तद् अपि दैवयोगेन तस्माद् दैवं महत्तरं // rm_12.140{39} //
तथा राज्ञा स्वभृत्याश् च सेवका अपि सज्जनाः / अपराधं विना त्यक्तास् तद् अपि दैवयोगतः // rm_12.141{40} //
तथा सखिसहायां च वंधुमित्रसुहृज्जनान् / परित्यक्त्वा निहंत्य् अन्ते तद् अपि दैवयोगतः // rm_12.142{40*} //
तथा शिष्यान् गुरुर् हन्ति शिष्यो हन्ति गुरुम् अपि / तद् अपि दैवयोगेन तस्माद् दैवं महत्तरं // rm_12.143{41} //
तथापि घ्नन्ति भर्त्तारं स्वामिनं सेवकान्न् अपि / तद् अपि दैवयोगेन तस्माद् दैवं महत्तरं // rm_12.144{42} //
तथा च स्वयम् आत्मानं घ्नन्ति केचिद् रुषान्विताः / तद् अपि दैवयोगेन तस्माद् दैवं महत्तमः // rm_12.145{43} //
केचिच् छस्त्रैः स्वयं हत्वा केचिद् भुक्त्वा विषादिकं / केचिद् अग्नौ जले स्वभ्रे प्रपातात् पतिता मृताः // rm_12.146{44} //
केचित् पाशैः स्वयं बध्य मृताः केचिच् च वंधने / केचित् पानाशनादींश् च त्यक्त्वा यांति यमालयं // rm_12.147{45} //
एवं कृत्वापि यान्त्य् एव केचिद् वापि सुरालयं / केचिच् च नरके यान्ति तत् सर्वं दैवयोगतः // rm_12.148{46} //
तथा मृद्दारुपाषाणे नानाधातुप्रतिष्ठिताः / देवताश् च ददन्त्य् एवं फलं दैवनियोगतः // rm_12.149{47} //
परे ऽपि स्वजना इष्टाः सहजा अपि च द्विषः / भवन्ति तत् क्षणाद् एव तद् अपि दैवयोगतः // rm_12.150{48} //
एवं त्रैधातुकोत्पन्नाः सर्वे सत्वाश् च जंतवः / षड्गतिषु भ्रमन्तस् ते चरन्ति दैवयोगतः // rm_12.151{49} //
केचिद् वीरा गुणाढ्याश् च सुंदरा भाग्यमानिनः / सर्वसंपत्समृद्धाश् च चक्रवर्त्तिनृपादयः // rm_12.152{50} //
केचिच् च निर्गुणाः प्राढ्याः केचिन् निर्गुणिनः शठाः / केचिच् च विकलांगाश् च गुणसंपत्तिभागिनः // rm_12.153{51} //
केचिच् च सुंदरा मूर्खा निर्धना निर्गुणाः शठाः / केचिच् च गुणिनः प्राढ्या नीचकर्मानुचारिणः // rm_12.154{52} //
केचिन् नीचकुलोत्पन्नाः गुणाढ्याः साधुवृत्तयः / दातारो धनिनो वीराः सर्वसत्वानुपालकाः // rm_12.155{53} //
केचिद् उच्चकुलोत्पन्ना निर्गुणा दुष्टवृत्तयः / कृपणा विकलांगाश् च निर्दयाश् च दुराशयाः // rm_12.156{54} //
केचिद् वीरा ह्य् अलाभिज्ञाः कुलीनाः साधवो ऽपि ये / ते ऽपि जातिनिहीने ऽपि भजंति शरणं गताः // rm_12.157{55} //
केचिच् च गुणवन्तो ऽपि कुचेलाः कृशगात्रिकाः / प्रेतवद् भुज्यमानाश् च चरंति भिक्षुका भुवि // rm_12.158{56} //
केचिच् च निर्गुणा वापि वंचका दुष्टमानसाः / मान्यन्ते साधुवल् लोके तद् अपि दैवयोगतः // rm_12.159{57} //
एवं नानाविधा लोकाः षड्गतिषु समुद्भवाः / सुखदुःखानि भुंजन्ते भ्रमंति दैवयोगतः // rm_12.160{58} //
तस्माद् दैवं महावीरं सर्वत्रैधातुकेष्व् अपि / केनापि शक्यते नैव वशे नेतुं कथं चन // rm_12.161{59} //
तेन दैवं महानाथः सर्वकर्माधिपः प्रभुः / स्रष्टा भर्त्ता च हर्त्ता च त्रैधातुवासिनाम् अपि // rm_12.162{60} //
तस्याप्य् अधिपतिब्रह्मा सर्वलोकेश्वरो विधिः / तत् तस्य शरणं गत्वा भक्त्या नित्यं समर्चय // rm_12.163{61} //
तस्मिं तुष्टे विधौ देवैः परितुष्टं भवेद् ध्रुवं / ततो दैवप्रसादेन सर्वत्र मंगलं भवेत् // rm_12.164{62} //
दैवे तुष्टे सुसिद्ध्यन्ते सर्वकर्माणि यत्नतः / विरुद्धे तु न सिद्ध्यन्ते यत्नैः संसाधितान्य् अपि // rm_12.165{63} //
तस्माद् दैवाधिपं देवं ब्रह्माणं चतुराननं / भज दैवप्रसन्नाय सर्वकार्यप्रसिद्धये // rm_12.166{64} //
दैवं ब्रह्मप्रसादेन शुभदं संमुखी भवेत् / ततस् ते मंगलं नित्यं सर्वकार्य्येषु संभवेत् // rm_12.167{65} //
एवं सार्थपते नत्वा विधानं कार्य्यसाधनं / विधिनाराध्य सद्भक्त्या कुरुष्व कर्मसाधनं // rm_12.168{66} //
तथा चेत् सर्वथा नित्यं यात्रायं मंगलं भवेत् / अन्यद् वा चिन्तितं कार्यं सर्वाप्य् एवं प्रसत्स्यते // rm_12.169{67} //
यदि वांछास्ति ते भूयो गन्तुं रत्नाकरं प्रति / तथाभ्यर्च्य विधातारं गछेत् स्वस्ति भवेत् खलु // rm_12.170{68} //
इति तेनोदितं श्रुत्वा सार्थवाहस् तथेति सः / प्रतिज्ञाय समभ्यर्च्य ब्रह्माणं प्रार्थयत् तदा // rm_12.171{69} //
नमस् ते भगवन् ब्रह्मं यात्रासिद्धिं कुरुष्व मे / एवं विधिं समाराध्य स सार्थाधिपतिस् ततः // rm_12.172{70} //
रत्नं प्राप्त्यै पुनः सार्थान् समाहूयाब्रवीत् तथा / भवन्तः श्रूयतां वाक्यं यन् मया समुदीरितं // rm_12.173{71} //
अत्रास्ति यदि वो वांछा तथा कर्तुं समुद्यतां / अहं रत्नाकरं भूयो गन्तुं इछामि सांप्रतं // rm_12.174{72} //
तद् यदीछथ रत्नानि तथा यात मया सह / किं चाप्य् अत्र वयं सर्वे सार्थवाहकुलोद्भवाः // rm_12.175{73} //
तद् गृहे पशुवद् भुक्त्वा कथं शोभी व्रजेमहि / संसारे सर्वजंतूनां एकधा मरणं ध्रुवं // rm_12.176{74} //
तत् किं नो मरणे भीत्या मृत्युं केन निवार्य्यते / यदि दैवाद् विपत्तिः स्याद् अस्माकं कर्म्मदोषतः // rm_12.177{75} //
सर्वतीर्थजलाधारे मृताः स्वर्गं व्रजेमहि / यदि भाग्याच् च नो यात्रा सिद्धा स्वस्तिमती भवेत् / तदा जीवं सुखं दानं कृत्वा स्वर्गं व्रजेमहि / तद् विषादं परित्यज्य यशोधर्म्मसुखाप्तये // rm_12.178{76} //
वीर्योत्साहं समाधाय समायात मया सह / इति तस्य वचः श्रुत्वा सर्वे ते वणिजो मुदा // rm_12.179{77} //
तथेति च समुत्साहं कृत्वा गंतुं समुद्यताः / ततः सर्वे ऽपि ते सार्था धृत्वा स्वस्त्ययनं विधिं // rm_12.180{78} //
पण्यम् आदाय तेनैव सह सार्थभृता ययुः / ततस् ते प्रस्थिताः सर्वे ग्रामारण्यवनस्थलीः // rm_12.181{79} //
समुत्तीर्य्य क्रमाद् यातास् तीरं प्रापुर् महोदधेः / तत्र नावि समारूढा कर्णधारप्रयत्नतः // rm_12.182{80} //
मरुतांते ऽनुकूलेन जगाहिरे महोदधिं / ततस् तेषां च सर्वेषां दैवयोगानुयोगतः // rm_12.183{81} //
सा नौका कालिकावातसंक्षुब्धाभूद् विभेदिता / तदा सर्वे ऽपि ते सार्था दृष्ट्वा नौकां विभेदितां // rm_12.184{82} //
त्रसिताः सहसा तस्मात् प्रत्याययुः प्रयत्नतः / ततस् ते वणिजः सर्वे विपंनाशा विषादिताः // rm_12.185{83} //
रात्रौ स्वस्वगृहे गत्वा विभग्नासा विषेदिरे / तथासौ सार्थवाहो ऽपि लज्जितः खण्डिताशयः // rm_12.186{84} //
खेदितात्मा गृहे तस्थौ मूकवद् धि नतोत्सवः / ततो भार्य्या सती भद्रा पतिखेदविभेदितं / दृष्ट्वा तं विकलीभूतं समुपेत्याब्रवीत् पुनः // rm_12.187{85} //
मा विषादं कृथाः स्वामिन्न् अत्र धैर्य्यं समाश्रयः / धर्मिष्ठे शरणं गत्वा कुरुष्व धर्मसाधनं // rm_12.188{86} //
धर्म्मेण जीयते पापं निष्पापो निर्मलाशयः / शुद्धचित्तो विशुद्धात्मा पुण्यात्मा भाग्यम् आप्नुयात् // rm_12.189{87} //
ततो भाग्यवतः पुंसो यद् यत् कर्मणि साधितं / तत् तत् सर्वं प्रसिद्ध्येत तस्माद् धर्मं चरोत्तमं // rm_12.190{88} //
धर्मम् एव सुहृद् मित्रम् इहामुत्र सहानुगः / धर्म्मेण पाल्यते सर्वं तस्माद् धर्मो जगत्सुहृत् // rm_12.191{89} //
धर्मा नानाविधा लोके कुलचर्य्यानुसरतः / सर्वेषाम् अपि धर्माणां दया धर्मे विशिष्यते // rm_12.192{90} //
दयालुः सुगतो बुद्धो धर्मराजस् तथागतः / समन्तभद्र आत्मज्ञः सर्वसत्वहितंकरः // rm_12.193{91} //
सर्वज्ञो मारजिच् छास्ता जगन्नाथः शुभार्थदः / षडभिज्ञो जगद्भर्त्ता सर्वलोकाधिपेश्वरः // rm_12.194{92} //
तस्मात् तस्य मुनीन्द्रस्य सद्भक्त्या शरणं व्रजन् / सद्धर्मशरणं कृत्वा भज नित्यम् उपासकः // rm_12.195{93} //
ततस् ते नश्यते पापं मंगलं च भवेद् ध्रुवं / तदैव सर्वकार्याणि समेत्स्यंते न संशयः // rm_12.196{94} //
इति भार्योदितं श्रुत्वा स सार्थाधिपतिर् मुदा / तथेति संप्रतिज्ञाय संबुद्धशरणं ययौ // rm_12.197{95} //
नमस् ते भगवन् नाथ पापिस्थो ऽहं सुदुर्भगः / भवतां शरणं गछे तन् मां दृष्ट्वाशु रक्षतां // rm_12.198{96} //
यन् मया प्रकृतं पापं कारितं वानुमोदितः / तत् सर्वं देशयिष्यामि तन् मे देहि शुभां गतिं // rm_12.199{97} //
भवतां सर्वदा नाथ शरणं याम्य् उपासकः / अन्यो मे शरणं नास्ति तन् मां रक्ष सदा भजे // rm_12.200{98} //
त्रिधापि मे जगन्नाथ यात्रा भग्ना स्वदैवतः / गृहस्थः सार्थवाहो ऽहं तन् मे देहि सुसंपदः // rm_12.201{99} //
यन्व् अहं सांप्रतं नाथ भवतं शरणं व्रजन् / भूयो रत्नाकरं गन्तुं इछामि रत्नलब्धये // rm_12.202{100} //
यदि यात्रा भवेत् सिद्धि यावल् लाभं च लप्स्यते / तदुपायेन संबुद्धं पूजयेयं ससांघिकं // rm_12.203{1} //
इत्य् एवं निश्चयं कृत्वा संबुद्धं संस्मरन् मुहुः / तां भार्य्यां भद्रिकां दृष्ट्वा पुनर् एवम् अभाषत // rm_12.204{2} //
भद्रे त्वया यद् आदिष्टं तथा कर्तुं समुत्सहे / अद्याग्रेण जगन्नाथं शरणं यास्याम्य् उपासकः // rm_12.205{3} //
भद्रे नाम्ना जिनेन्द्रस्य यास्ये रत्नाकरे पुनः / यदि यात्रा भवेत् सिद्धि यावल् लाभं च लप्स्यते // rm_12.206{4} //
तदुपार्द्धेन रत्नेन ससंघं सुगतं तदा / यथार्हं पूजयिष्ये ऽहम् इति संकल्पितं मया // rm_12.207{5} //
यदि दैवाद् विपत्तिः स्यात् संबुद्धनाम संस्मरन् / सर्वतीर्थजलाधाने मृतो यायां सुखावतीं // rm_12.208{6} //
तद् अत्र यदि मे कार्य्यं शुभं कर्तुं समिछसि / तद् विषादं परित्यज्य धैर्य्यं कृत्वा सुखं वस // rm_12.209{7} //
इति भर्त्त्रोदितं श्रुत्वा सा भार्य्या भद्रिका सती / तथेति प्रतिसंमोद्य स्वामिनं तं समब्रवीत् // rm_12.210{8} //
यद्य् एवं ते समीहास्ति कृत्व् एतं निश्चयं प्रभो / संबुद्धस्मरणं धृत्वा गछ स्वस्तिं समाचर // rm_12.211{9} //
यदि बुद्धकृपादृष्टिः सत्वेषु विद्यते किल / तथावश्यं स संबुद्धः पश्यन् त्वां चाप्य् अचेत् खलु // rm_12.212{10} //
तदा ते मङ्गलं नित्यं यात्रा स्वस्तिमती भवेत् / ततस् ते जन्म संसारे साफल्यं च भवेत् खलु // rm_12.213{11} //
तेन स्वामिं जिनेंद्रस्य नामस्वस्त्ययनं दधत् / गछ यात्रा सुसिद्धास्तु स्वस्ति प्रत्यागताशु च // rm_12.214{12} //
इति भार्योदितं श्रुत्वा स सार्थाधिपतिर् मुदा / भूयः सार्थगणान् सर्वान् समाहूयाब्रवीत् तथा // rm_12.215{13} //
भवन्त श्रूयतां वाक्यं यन् मयात्र समीहितं / अहं रत्नाकरं भूयो गन्तुम् इछामि सांप्रतं // rm_12.216{14} //
तद् अस्ति यदि वो वांछा यशःसंपत्सुखाप्तये / समायात मया सार्द्धं रत्नाकरं व्रजेमहि // rm_12.217{15} //
यदि भाग्याद् धि नो यात्रा सिद्धा स्वस्तिमतिर् भवेत् / यावजीवं सुखं धर्मं कृत्वा स्वर्गं व्रजेमहि / अथ वा स्याद् विपत्तिर् नः सर्वतीर्थजलाश्रये / मृताः स्वर्गं गमिष्यामो ह्य् अवश्यं मरणे सति // rm_12.218{16} //
पशुवत् किं गृहे स्थित्वा सुखं वा किं यशो विना / यशोन्विता मृता ये हि तत्पुमांसो नरोत्तमाः // rm_12.219{17} //
यद् अर्थम् एव जीवामस् तद् अर्थं यन् न विद्यते / किं तेन जीवितेनापि केवलं दुःखभागिनः // rm_12.220{18} //
वरम् एवाद्य मे मृत्युर् न व्यर्थं चिरजीवितं / यस्माच् चिरम् अपि स्थित्वा मृत्युर् केन निवार्य्यते // rm_12.221{19} //
इति मृत्युभयं दृष्ट्वा सर्वत्राप्य् अनिवारणं / त्यक्त्वा विषादकौशीद्यं प्रोद्यमह्यं यशोर्जने // rm_12.222{20} //
एवं नानाप्रकारेण तेन सार्थभृतापि ते / बोध्यमाना वणिक्संघाः किं चिन् नैव समूचिरे // rm_12.223{21} //
अभद्रो ऽयं पुमां चापि यतो यात्रा न सिद्ध्यति / इति तेन महांभोधौ नैको ऽपि गन्तुम् ऐछत // rm_12.224{22} //
अथ सार्थपतिर् दृष्ट्वा तान् सर्वान् विरतोत्सवान् / एको ऽपि वा स्वयं गन्तुम् ऐछद् रत्नाकरं प्रति // rm_12.225{23} //
ततो भार्यां समामंत्र्य परिबोध्य प्रसन्नधीः / स्वस्त्ययनविधिं कृत्वा प्रतस्थे भारकैः सह // rm_12.226{24} //
ततः पण्यं समादाय भारवाहजनैः सह / पुराद् वहि विनिर्गत्य क्रमाद् देशांतरं ययौ // rm_12.227{25} //
क्रमाच् चंचूर्य्यमानो ऽसौ ग्रामारण्यवनस्थलीः / परिक्रमन् समुल्लंघ्य प्रापुस् तीरं महोदधेः // rm_12.228{26} //
तत्रासौ सार्थभृद् दृष्ट्वा तं समुद्रं महाम्बुधिं / कृतांजलिपुटो नत्वा प्रार्थयच् छरणं गतः // rm_12.229{27} //
नमस् ते जीवम् आधार सर्वसत्वार्थसंपदे / त्वदासया समायामि तद् आशां मे प्रपूरय // rm_12.230{28} //
ततो ऽसौ कर्णधारं च तोषयित्वा प्रबोधयन् / कृतांजलिपुटो नत्वा संधृत्वा समयाचत // rm_12.231{29} //
कर्णधार महावाहो तवाहं शरणं व्रजे / तत् स्वस्ति चारयन् नौकां यात्रासिद्धिं प्रसाधय // rm_12.232{30} //
तथासौ वहनं कृत्वा दृढीतं गाढवंधितं / कृतांजलिपुटो नत्वा संधृत्वा समयाचत // rm_12.233{31} //
यथा माता च गर्भस्थं वालकं संप्ररक्षते / तथा माम् एव गर्भस्थे नौके मातः प्ररक्षतां // rm_12.234{32} //
ततश् च सुगतं स्मृत्वा त्रिरत्नशरणं गतः / कृतांजलिपुटो भूत्वा प्रणम्यैवम् अयाचत // rm_12.235{33} //
नमस् ते भगवन् नाथ यथा त्रासि जगत्त्रयं / तथा मां कृपया दृष्ट्वा पाहि व्रजे रत्नाकरे // rm_12.236{34} //
इत्य् एवं सार्थवाहो ऽसौ प्रणत्वा सुगतं स्मरन् / भाण्डान्य् आरोप्य नौकायं समारोहज् जनं सह // rm_12.237{35} //
ततो ऽसौ नौक्रमेणैव कर्णधारप्रयत्नतः / मरुतां चानुकूलेन संजगाह महाम्बुधौ // rm_12.238{36} //
यत् तत्र सार्थवाहो ऽसौ संस्मरन् सुगतं मुहुः / तेन पुण्यबलेनैव सा नौका स्वस्तिम् आचरन् // rm_12.239{37} //
तथा क्रमाच् चरन्त्य् एवं द्वीपलोकान्तराणि च / व्यतिक्रम्य सुशिघ्रेण रत्नाकरं समाययौ // rm_12.240{38} //
तत्र रत्नाकरे प्राप्य रत्नानि समसाधयन् / ततो रत्नानि संगृह्य प्रतस्थे वहनास्थितः // rm_12.241{39} //
ततः क्रमाद् व्यतिक्रम्य द्वीपलोकान्तराणि च / तीरं प्रापुः सुशीघ्रेण बुद्धदृष्टिप्रसादतः // rm_12.242{40} //
ततः स्थलं समासाद्य शैलारण्यवनस्थलीः / ग्रामां देशां परिक्रम्य श्रावस्त्यां पुरम् आययौ // rm_12.243{41} //
ततो गृहे प्रविष्टो ऽसौ भर्य्यया सह मोदितः / सुहृन्मित्रजनैश् चापि कृत्वालापं न्यषीदत // rm_12.244{42} //
ततः सद्यर् गृहस्थो ऽसौ भार्य्यया सह नंदितः / भाण्डम् उद्घाट्य रत्नानि प्रत्यवेक्षितुम् आरभत् // rm_12.245{43} //
तत्र दिव्यविचित्राणि रत्नानि विविधानि च / दृष्ट्वा हर्षं समासाद्य पुनर् एवं वभाषते // rm_12.246{44} //
ममैतानि सुरत्नानि दिव्यान्य् एतादृशानि हि / तत्र दिव्यविचित्राणि नानारत्नकुलानि च // rm_12.247{45} //
लब्धानि तज् जिनेन्द्रस्य कृपादृष्टिप्रसादतः / तस्माद् यथाप्रतिज्ञातं श्रद्धया सांप्रतं मया // rm_12.248{46} //
यद् उपार्द्धं प्रदातव्यैः श्रवणायार्हते ऽपि नः / तद् उपार्द्धं कथं चानुदातव्यं मुनये ऽर्हते // rm_12.249{47} //
यदि राजा विजानीयाद् एतद् अर्द्धं हरे मम / रत्नलुब्धो नरेशो यं दण्डं वा प्रणयं मयि // rm_12.250{48} //
तदा मे स्याद् विपत्तिश् च तत् कथं क्रियते मया / अहो दैवाद् विपत्तिर् माम् अद्यापि च न मुंचति / तत् कथं वा प्रतिज्ञातं पूरयितुं न मन्यते / नमस् ते भगवन् नाथ सर्वज्ञो ऽसि मुनीश्वरः // rm_12.251{49} //
रक्ष मां पापिनं मूढनिमग्नं दुःखसागरे / इत्य् असौ सुगतं स्मृत्वा तच्चिन्ताव्यथिताशयः // rm_12.252{50} //
कपोलं स्वकरे धृत्वा तस्थौ कोष्ठे निरुत्सवः / तथैवं स्थितम् आलोक्य स्वामि नं तं विषादितं // rm_12.253{51} //
सा भार्या भद्रिकोपेत्य पुरः स्थित्वाब्रवीत् तथा / स्वामिं भर्त्तः किम् एव त्वं स्थितो ऽसि दुःखितो यथा // rm_12.254{52} // किं वा ते जायते दुःखं तद् वच चेत् प्रियास्मि ते // rm_12.255{53} // इति भार्योदितं श्रुत्वा स सार्थाधिपतिः पुनः / तां भार्य्यां समुपामंत्र्य पुनश् चैवम् अभाषत // rm_12.256{54} //
भद्रे यज् जायते दुःखं तत् प्रवक्ष्ये शृणु प्रिये / यथा मया प्रतिज्ञातं पूरयितुं कथं तथा // rm_12.257{55} //
यद्य् उपार्द्धं प्रदास्यामि श्रवणायार्हते ऽपि नु / एतद् अर्द्धं हरेद् राजा लोभान् मे दण्डयेद् अपि // rm_12.258{56} //
इत्य् एवं तद्विषादेन व्यथितो ऽहं निरुत्सवः / तन् मे नात्र प्रतीकारो कथं कर्तुं न मन्यते // rm_12.259{57} //
इति भर्त्त्रोदितं श्रुत्वा सा भार्या पुनर् अब्रवीत् / विषादं मा कृथाः स्वामिं शृणु यन् मे समीहितैः // rm_12.260{58} //
तावद् इमानि संकल्पः पश्चात् तत् समयागते / पूजया सह भोजैश् च ससंघायार्हते ऽर्चयेत् // rm_12.261{59} //
एवं कृते तथा स्वामिन् प्रतिज्ञा तेन सेत्स्यते / भीतिश् चापि न विद्येत तस्माद् एवं कुरु प्रभो // rm_12.262{60} //
इति भार्यावचः श्रुत्वा स सार्थाधिपतिर् मुदा / तथेति प्रतिसंश्रुत्य पुनर् एवम् अभाषत // rm_12.263{61} //
तावद् इमानि सर्वाणि रत्नानि ते समर्प्पये / पश्चात् काले ससंघं तं पूजयिष्ये मुनीश्वरं // rm_12.264{62} //
इदानीं सुगंधधूपेन पूजयेयं मुनीश्वरं / इत्य् उक्त्वा सर्वरत्नानि भार्यायां स न्यधापयेत् // rm_12.265{63} //
ततो ऽसौ चागुरुं क्रीत्वा कार्षापणद्वयेन वा / गत्वा जेतवने विहारे तत्र द्वारे स्थितो गुरुम् अधूपयेत् // rm_12.266{64} //
तत्रापत्रमानो ऽसौ संबुद्धशरणं गतः / कृतांजलिपुटो नत्वा संस्मरन् प्रार्थयत् तथा // rm_12.267{65} //
भगवच् छास्तासि सर्वज्ञो विजानीया ममाशयं / तद्यथा मे प्रतिज्ञातैः पूरयितुं समर्हसि // rm_12.268{66} //
अथासौ भगवान् तस्य मत्वाशयविशुद्धतां / महद् ऋध्यभिसंस्कारं चकार तत्प्रसादतः // rm_12.269{67} //
येन स धूप आकाशे प्राभ्युद्गम्य पुरीं च तां / स्फुरित्वा खे पुनर् अभ्रकूटीभूत्वाभ्यशोभयत् // rm_12.270{68} //
तत्रासौ सार्थभृद् दृष्ट्वा प्रातिहार्यं तद् अद्भुतं / महानंदप्रसंनात्मा पुनर् एवं व्यचिंतयत् // rm_12.271{69} //
नैतन् मे प्रतिरूपं स्याद् यद् अयं सुगतो जिनः / मया नाभ्यर्चितो रत्नैर् धिग् मे चित्तभयाद् द्रुतं // rm_12.272{70} //
यन्व् अहं सांप्रतं नाथं प्रार्थयित्वा ससांघिकं / सरत्नैः पूजयिष्यामि भोजनैश् च स्वके गृहे // rm_12.273{71} //
इत्य् असौ निश्चयं कृत्वा कृतांजलिपुटो मुदा / संबुद्धसंमुखं गत्वा प्रणत्वैवं व्यजिज्ञपत् // rm_12.274{72} //
भगवन् नाथ सर्वज्ञ क्षमस्व मे ऽपराधतां / भवतां पूजनां कर्तुम् इछामि मे प्रसीदतु // rm_12.275{73} //
इत्य् एवं प्रार्थिते तेन स संबुद्धो मुनीश्वरः / तथेति प्रतिसंमोद्य तूष्णीभूत्वा व्यवस्थितः // rm_12.276{74} //
ततो ऽसौ सार्थभृन् मत्वा सुगतेनाधिवासितं / प्रणत्वा च मुनेः पादौ सहसा स्वगृहं ययौ // rm_12.277{75} //
तत्र स भार्य्यया सार्द्धं वंधुमित्र जनैर् अपि / प्रणीतं भोज्यपूजांगं साधयाम् आस सत्वरं // rm_12.278{76} //
ततो भोज्यार्चनांगानि सज्जीकृत्य प्रमोदितः / विहारे सहसा गत्वा नत्वा तं प्रार्थयन् मुनिं // rm_12.279{77} //
भगवन् नाथ संबुद्ध समयो ऽयं प्रवर्त्तते / तद् भवान् सांघिकैः सार्द्धं समागन्तुं समर्हति // rm_12.280{78} //
इत्य् एवं प्रार्थिते तेन स संबुद्धः ससांघिकः / प्रतस्थे सूर्य्यवन् मार्गे प्रातिहार्यं प्रदर्शयन् // rm_12.281{79} //
ततः क्रमात् पुरीं प्राप्य तद् गृहं समुपाविशत् / तद् दत्ते पाद्यं आदाय शुद्धासने न्यषीदत // rm_12.282{80} //
ततस् तान् सांघिकान् सर्वान् संबुद्धप्रमुखान् क्रमात् / स्वस्वासनसमासीनान् दृष्ट्वा सम्यक् समर्चयत् // rm_12.283{81} //
यथार्हं भोजनैर् वापि वर्णगन्धरसान्वितैः / संबुद्धप्रमुखान् संघान् संतर्प्य पर्यतोषयत् // rm_12.284{82} //
ततश् च भोजनान्ते स शोधयित्वा भुजादिकं / अपनीय च पात्राणि ताम्बूलादीन् अढौकयत् // rm_12.285{83} //
ततो यानि सुरत्नानि पूर्वसंकल्पतानि हि / एतैः सर्वं सुरत्नैस् तं संबुद्धैः समवाकिरन् // rm_12.286{84} //
तानि रत्नानि सर्वाणि संबुद्धस्यानुभावतः / मुनेर् उपरि खे गत्वा छत्रीभूत्वा स्थिता वभौ // rm_12.287{85} //
ततस् तं स गृही दृष्ट्वा द्विगुणसंप्रमोदितः / पादौ तस्य मुनेर् नत्वा प्रणिधानं व्यधात् तथा // rm_12.288{86} //
अनेन दानधर्मेण पुण्येन कुशलेन च / भवेयं सुगतो बुद्धो लोके ऽन्धे ऽपरिणायके // rm_12.289{87} //
अमुक्तो मोचयिष्यामि तारयिष्याम्य् अतारितान् / भीतान् आश्वास्य संबोधौ स्थापयिष्यामि निर्वृतौ // rm_12.290{88} //
तथासौ भगवान् बुद्धस् तथाशयविशोधितं / संबोधौ निहितं चित्तं ज्ञात्वा स्मितं व्यधात् तथा // rm_12.291{89} //
तदा तस्य मुनीन्द्रस्य मुखपद्माद् विनिर्गताः / पंचवर्णा विभासन्तो विनिश्चेरुः सुभानवः // rm_12.292{90} //
ततस् ते भास्वराः सर्वे प्रविसृताः समंततः / केचिद् ऊर्द्धं गताः केचिन् मध्यं केचिद् रसातले // rm_12.293{91} //
केचिद् अधो गता यास् ते सर्वे ते नरकेषु च / निपतंतो विभासन्तो प्रविसस्रुः समंततः // rm_12.294{92} //
ये उष्णनरकास् तेषु शितीभूता विचेरिरे / ये शीतनरकास् तेषु न्यपतद् उष्णिकाश् च ते // rm_12.295{93} //
ये ये तैः किरणैः स्पृष्टास् ते ते सर्वे सुखान्विताः / यदा ते सुखसंप्राप्तास् तदा ते विस्मयान्विताः // rm_12.296{94} //
अहो नः सुखम् अद्यैवं कथम् एतद् व्यचिन्तयन् / किं नु वयम् इतश् च्युत्वा कुत्र यातास्म सांप्रतं // rm_12.297{95} //
आहोस्विद् उपपन्नाः स्युर् अन्यत्र भुवनेष्व् अपि / इति संदेहिनां तेषां सत्वानां परिबोधने // rm_12.298{96} //
भगवान् निर्मिते बुद्धं प्रेषयन् नरकान् प्रति / दृष्ट्वा तं निर्मितं मुनिं विस्मिता हर्षिताश् च वै // rm_12.299{97} //
ते सर्वे नरका लोकाः संमील्य संवभाषिरे / न भवन्त इतश् च्युत्वा गतास्मान्यत्र भूमिषु // rm_12.300{98} //
किंस् त्व् अयं नु महासत्वः ह्य् अपूर्वदर्शनः पुमान् / नूनम् अस्यानुभावेन दुःखानि समितानि च // rm_12.301{99} //
तद् वयम् एनम् आनम्य वंदे मया प्रमुक्तये / इति संभाष्य ते सर्वे नत्वा तच् छरणं गताः // rm_12.302{100} //
नमो बुद्धाय धर्माय संघायेति ववन्दिरे / इति ते निर्मिते तस्मिन् प्रसाद्य चित्तम् आरताः // rm_12.303{1} //
सर्वपापविनिर्मुक्ता मर्त्यदेवालयं ययुः / एवं ते भानवः सर्वे सर्वत्र नरकेष्व् अपि // rm_12.304{2} //
प्रोद्यन्ते नारकान् सर्वान् प्रत्याययुर् मुनेः पुरः / तथा तद् भानवश् चैवम् उपरिष्टां गता अपि // rm_12.305{3} //
ते ऽपि सर्वे चतुर्लोकपालानां भुवनानि च / अवभास्य क्रमात् सर्वान् देवलोकान् अभासयन् // rm_12.306{4} //
तथाकनिष्ठपर्यन्तं त्रैधातुकान् अभासयन् / एवं सर्वाश् च तान् सर्वान् अवभास्य समंततः // rm_12.307{5} //
गाथाः प्रोद्घोषयन्तश् च प्रलयं सौगते वृषे / अनित्यं खलु संसारं दुःखशून्यं ह्य् अनात्मकं // rm_12.308{6} //
तस्मात् मारं परित्यज्य गछध्वं शरणं मुनेः / निष्क्रामतारभध्वं कं युज्यध्वं बुद्धशासने // rm_12.309{7} //
मृत्युसैन्यं धुनीताशु नडागारं करी यथा / यो ऽप्य् अस्मिन् धर्मविनये ह्य् अप्रमत्तश् चरिष्यति // rm_12.310{8} // त्यक्त्वा जातिससंसारे दुःखस्यान्तं करिष्यति // rm_12.311{9!} // अथ ते भानवः सर्वे त्रैधातुभुवनेष्व् अपि / सर्वान् सत्वान् समुद्धृत्य पुनः प्रत्याययुर् मुनेः // rm_12.312{10} //
अथ ते भानवः सर्वे भगवन्तं मुनीश्वरं / प्रदक्षिणत्रयं कृत्वा मूर्द्ध्नि चान्तर्दधुर् मुनेः // rm_12.313{11} //
अथैतत् सभासीना लोकाः सर्वे ससांघिकाः / तत् तदद्भुतम् आलोक्य वभूवुर् विस्मयोद्धताः // rm_12.314{12} //
अथानंदः समुत्थाय कृतांजलिपुटो मुदा / भगवन्तं गुरुं नत्वा पप्रछ स्मितकारणं // rm_12.315{12!} //
भगवन् भवतो वक्त्रात् पंचवर्णाः सुभांसवः / विनिर्गता दिशः सर्वान् अवभास्य शता पुनः // rm_12.316{13} //
भवान् हि सुगतो शास्ता संबुद्धो भगवञ् जिनः / निर्मदो निरहंकारः मानमात्सर्य्यवर्जितः // rm_12.317{14} //
तद् भव भगवं कस्मात् स्मितैः करोति सांप्रतं / दृष्ट्वैवं तं स्मितं सर्वे इमे लोकाः प्रविस्मिताः // rm_12.318{15} //
नाहेतुः सुगता बुद्धा अर्हन्तो विगतोद्धवाः / दर्शयन्ति स्मितं केचित् तत् केन भवतः स्मृतं // rm_12.319{16} //
तद् एतद् धेतुम् इछन्ति श्रोतुं सर्वे इमे जनाः / तद् एतत् कारणं शास्तः समादेष्टुं समर्हति // rm_12.320{17} //
इत्य् एवं प्रार्थिते तेन शिष्येणानंदयोगिना / तथेति प्रतिसंमोद्य तम् आनंदं वभाषत // rm_12.321{18} //
एवम् एतत् तथानंद यथैव भाषसि त्वया / तत् स्मितं यदर्थं मे तद् वक्ष्ये शृणुतादरात् // rm_12.322{19} //
पश्यानंद ममानेन सार्थवाहेन साधुना / एभी रत्नैश् च सत्कृत्य कृता पूजा स्वभक्तितः // rm_12.323{20} //
अनेन कुशलेनैव सार्थवाहो महासुधीः / क्रमाद् बोधिचरीं प्राप्य पूर्य्य पारमिता दश // rm_12.324{21} //
संबोधिपाक्षिकान् धर्मान् प्राप्य ब्रह्मविहारिकः / संबोधिं समवाप्यैवं जित्वा मारगणान् अपि // rm_12.325{22} //
बुद्धो रत्नोत्तमो नाम सर्वज्ञो ऽर्हं तथागतः / धर्मराजो जगंनाथो लोके शास्ता भविष्यति // rm_12.326{23} //
तद् अनुमोदनां कृत्वा सद्धर्मं भजतादरात् / धर्मेणैव जगज् जित्वा मारचर्याविनिर्गतः // rm_12.327{24} //
भद्रचरी समासाद्य संबोधिपदम् आप्नुयात् / धर्निओ हि जगतां मित्रम् इहामुत्र समन्ततः // rm_12.328{25} //
हितकारी सुहृद् इष्टः सर्वदापि सहानुगः / तस्माद् धर्मं समाधाय संचरध्वं समाहितः // rm_12.329{26} // तेन वा मंगलं नित्यं सर्वभावी भवेद् ध्रुवं // rm_12.330{27} // इति शास्त्रा समादिष्टं श्रुत्वानंदः सपार्षदः / तथेति मोदितस् तं च गुरुं नत्वा स नंदतः // rm_12.331{28} //
सो ऽपि सार्थपतिश् चैव स्वकं व्याकरणं किल / मुनीन्द्रेण समादिष्टं श्रुत्वातीवाभ्यनंदतत् // rm_12.332{29} //
ततश् चाभिप्रसन्नात्मा समुत्थाय कृतांजलिः / भगवंतं ससंघं तं प्रणत्वैवं व्यतिज्ञपत् // rm_12.333{30} //
नमस् ते भगवन् नाथ सर्वधर्माधिपेश्वरः / भवतां शरणं कृत्वा भवाम्य् अहम् उपासकः // rm_12.334{31} //
यन् मया प्रकृतं पापं कारितं चानुमोदितं / तत् सर्वं देशयिष्यामि तन् मे देहि शुभां चरिं // rm_12.335{32} //
बोधौ चित्तं समाधाय त्रिरत्नं समुपाश्रये / क्षमस्व मे ऽपराधत्वं तन् मां रक्ष मुदा तथा // rm_12.336{33} //
एवं तेनार्थितं श्रुत्वा स संबुद्धो ऽभ्यधात् पुनः / यथा ते ऽभिहितं साधो तथा संसेत्स्यते ध्रुवं // rm_12.337{34} //
तस्माच् चित्तं समाधाय त्रिरत्नशरणं गतः / सर्वसत्वहितं कृत्वा बोधिचर्यां समाचर // rm_12.338{35} //
ततस् त्वं क्रमतो ह्य् एवं पूर्य पारमिता द्रुतं / बोधिसत्वो महासत्वो भवेद् बोधिम् अवाप्नुयात् // rm_12.339{36} //
एतत् सत्यं परिज्ञाय सद्धर्मं संप्रसाधय / तेन ते मंगलं नित्यं सर्वत्रापि भवेद् ध्रुवं // rm_12.340{37} //
जयो ऽस्तु ते सदा बोधौ सिद्ध्यतु प्रणिहितं द्रुतं / चिरं जीवं हितं लोके धर्मं धृत्वा सुखं वस // rm_12.341{38} //
इत्य् असौ भगवान् बुद्धस् तस्मै दत्वाशिषं शुभां / संघैः सह समुत्थाय स्वं विहारं ययौ ततः // rm_12.342{39} //
अथ सार्थपतिश् चासौ सदारः संप्रमोदितः / त्रिरत्नशरणं कृत्वा सद्धर्मेषु सदाचरत् // rm_12.343{40} //
तथा सर्वे ऽपि सत्वाश् च श्रुत्वा तस्य प्रवृत्तितां / बोधिचित्तं समाधाय त्रिरत्नशरणं ययुः // rm_12.344{41} //
एतत् मे गुरुणाख्यातं संश्रुतं यथा मया / तथात्रैवं तव प्रीत्या कथ्यते संप्रबुध्यतां // rm_12.345{42} //
तथा राजन् त्वयाप्य् एवं स्वयं धृत्वा वृषं शुभे / बोधयित्वा प्रजाश् चापि स्थापनीयाः सदा शुभे // rm_12.346{43} //
एवं चेत् ते सदाप्य् एवं सर्वत्रापि सुमंगलं / भवेन् नूनं महाराजन् सत्यम् एतन् न संशयः / धर्मेण निर्जितं पापं धर्मेण जीयते कुधीः / धर्मेण निर्जिता मारा धर्मेण बोधिम् आप्नुयात् / तस्माद् बोधिपदं प्राप्तुं यदीच्छथ नराधिपः / बोधिचित्तं समाधाय सदा रत्नत्रयं भज / तथा तं क्रमणो राज बोधिचर्य्याहिताय च / सर्वमारगणाम् जित्वा संबोधिम् आप्नुया ध्रुवं / एतत् तेनोपगुप्तेन गुरुणादिष्टं समादरात् / श्रुत्वा राजो तथेत्य् एवं प्रत्यनन्दन् सपार्षदः / ये शृण्वन्तीदम् एवं प्रणिहितमनसः सार्थवाहावदानं / ये चापि श्रावयन्ति प्रमुदितमनसः सर्वलोकहितार्थं / ते सर्वे बोधिसत्वा विजितकलिमलो बुद्धधर्मानुरक्ताः / संभुक्त्वा सत्सुखानि प्रथितगुणयुता बुद्धक्षेत्रे प्रयान्ति /
++ इति श्रीरत्नमालावदानकथायां सार्थवाहोऽवदानं नाम द्वादश ++
xiii vaḍikāvadāna ओं नमः श्रीसर्वबुद्धबोधिसत्वेभ्यः / यः श्रीमाञ् छ्रीघनो लोके सद्धर्मैः समुपादिशत् / शासनानि त्रिलोकेषु जयन्तु तस्य सर्वदा // rm_13.1{1} //
अवदानतत्वं वक्ष्यामि नत्वा तं श्रीघनं गुरुं / पुराभूत् पाटलीपुत्रे नगरे स्वर्गसन्निभे // rm_13.2{2} //
अशोको नृपराजेन्द्रस् त्रिरत्नसेवकः कृती / एकस्मिन् समये तत्र स राजा स्वजनैः सह // rm_13.3{3} //
पौरिकैश् च सभां कृत्वा सद्धर्मं श्रोतुम् ऐच्छत / तदा स सौगतो भिक्षुर् उपगुप्तो जिनांशजः // rm_13.4{4} //
लोकान् धर्मोत्सुकान् दृष्ट्वा समाधेः सहसोत्थितः / तत्सभायां समाक्रम्य सिंहासने शुभासने // rm_13.5{5} //
भासयंस् तत्सभालोकांस् तस्थौ पूर्णसुधांशुवत् / अथाशोको महीपालः स मंत्रिपौरिकैः सह // rm_13.6{6} //
पूजाङ्गैः पूजयित्वा तम् उपगुप्तम् अवन्दत / स्थित्वा भूमौ स्वजानुभ्याम् उत्तरासङ्गम् उद्वहन् // rm_13.7{7} //
कृताञ्जलिः पुटो नत्वा पुनर् एवम् अभाषत / भदन्त श्रोतुम् इच्छामि सद्धर्मं सुखसंप्रदं // rm_13.8{8} //
यथोक्तं श्रीमुनीन्द्रेण तथा देष्टुं च मे ऽर्हति / एवं तेन महीन्द्रेण प्रार्थिते स यतीश्वरः // rm_13.9{9} //
उपगुप्तो नरेन्द्रं तं समामन्त्र्यैवम् अब्रवीत् / साधु सुष्ठु महाराज शृणु सद्धर्मम् आदरात् // rm_13.10{10} //
यथा मे गुरुणा ख्यातं तथा वक्ष्यामि ते हिते / पुरा स भगवान् बुद्धः शक्यसिंहो शुभाकरः // rm_13.11{11} //
धर्मराजो जगच्छास्ता सर्वज्ञः सुगतो जिनः / सर्वविद्याकलाविज्ञः षडभिज्ञो मुनीश्वरः // rm_13.12{12} //
मारजिल् लोकविन् नाथो विनायकस् तथागतः / श्रावस्त्यां जेतकारण्ये महोद्याने मनोरमे // rm_13.13{13} //
अनाथपिण्डदाख्यस्य गृहस्थस्य महात्मनः / नानावृक्षसमाकीर्णे नानापुष्पप्रशोभितैः // rm_13.14{14} //
नानाफलभरानम्रैः कल्पवृक्षसमानिकैः / अष्टाङ्गगुणसंपन्नजलैः पद्मोत्पालादिभिः // rm_13.15{15} //
सुपुष्पैः परिपूर्णाभिः पुष्करिणीभिर् आश्रिते / नानाजन्तुगुणैश् चापि मिथः स्नेहानुवन्धितैः // rm_13.16{16} //
नानापक्षिगणैश् चापि संहर्षैर् उपसेविते / तस्मिं दिव्यमनोरम्ये मुनिसंघनिषेविते // rm_13.17{17} //
पुण्यक्षेत्रे जिनावासे विहारे मणिमण्डिते / श्रावकैर् भिक्षुभिः सार्द्धं बोधिसत्वैर् उपासकैः // rm_13.18{18} //
सर्वसत्वहितार्थेन तस्थौ धर्म्मं प्रकाशितुं / एवं तत्र सभासीनं संबुद्धं धर्मभाषिणं // rm_13.19{19} // दृष्ट्वा धर्मामृतं पातुं सर्वलोकाः समाययुः // rm_13.20{19!} // दैवा दैत्याश् च सिद्धाश् च यक्षगंधर्वकिन्नराः / ग्रहा विद्याधराः साध्या नागेंद्रा गरुडा अपि // rm_13.21{20} //
सर्वे ऽपि लोकपालाश् च मुनयश् च महर्षयः / यतयो योगिनश् चापि तीर्थिकाश् च तपश्विनः // rm_13.22{21} //
ब्राह्मणाः क्षत्रियाश् चापि वैश्याः शूद्राश् च मंत्रिणः / अमात्याः कोट्टवाराश् च सार्थवाहा महाजनाः // rm_13.23{22} //
शिल्पिनो वणिजश् चापि गृहस्थाः पौरिका जनाः / तथा जानपदाश् चापि ग्राम्याः कार्पटिका अपि // rm_13.24{23} //
एवम् अन्ये ऽपि सत्वाश् च सर्वजातिसमुद्भवाः / पूजापंचोपहाराणि गृहीत्वा भक्तिमानसा // rm_13.25{24} //
सद्धर्मं श्रद्धया श्रोतुम् अनुमोद्य समाययुः / तत्र सर्वे प्रविष्टास् ते दृष्ट्वा तं सुगतं जिनं // rm_13.26{25} // वन्दित्वानन्दिताः सर्वे पूजां चक्रुर् यथाक्रमं // rm_13.27{26!} // ततो नत्वा समासीनाः परिवृत्य प्रमोदिताः / धर्म्मं श्रोतुं पुरस्कृत्य तस्थुः साञ्जलयो मुदा // rm_13.28{27} //
अथ स भगवान् दृष्ट्वा तांल् लोकान् धर्मवाञ्छिनः / आदिमध्यान्तकल्याणं दिदेश धर्मम् उत्तमं // rm_13.29{28} //
एवं स भगवान् नित्यं सर्वसत्वहितार्थिकः / धर्मं प्रकाशयं लोके तस्थौ दीप्तांशुमान् इव // rm_13.30{29} //
तस्मिन्न् अवसरे तत्र श्रावस्त्यां पुरिसंभवः / आढ्यः श्रेष्ठी महाभोगः सुविस्तीर्णपरिग्रहः // rm_13.31{30} //
श्राद्धो भद्राशयो धीरः सर्वलोकसुहृत्प्रियः / तीर्थिकसेवको मानी वभूव श्रीमदान्वितः // rm_13.32{31} //
तदा स सुन्दरीभार्यां कुलधर्मसमानिकां / आदाय रतिसंरक्तो रेमे नित्यं यथासुखं // rm_13.33{32} //
तस्यैवं रममाणस्य भार्या साभूत् सुगर्भिणी / ततः प्रवृद्धगर्भा सा पाण्डुवर्णा व्यराजत // rm_13.34{33} //
ततः सा गर्भसंजातं पुत्रं तस्याम् उपाश्रितं / पुत्रं मत्वाभिनंदंती भर्त्तारम् एवम् अब्रवीत् // rm_13.35{34} //
स्वामिन् गर्भे प्रजातो मे यत् कुक्षौ दक्षिणाश्रितः / दारको ऽयं भवेत् पुत्रः नूनं तस्मात् प्रमोदय // rm_13.36{35} //
इति भार्योदितं श्रुत्वा स गृहस्थः प्रहर्षितः / गर्भे स व्याश्रितं दृष्ट्वा मुदैवं समुदानयत् // rm_13.37{36} //
वत मे जायते पुत्रस् तद् अहं भाग्यवान् भवे / पुत्रमुखं हि पश्येयं वंशस्थितिर् भवेद् अपि // rm_13.38{37} //
यन् मम विद्यते पुण्यं दानशीलादिसंचितं / तेनानयोर् द्वयोर् अस्तु जननीपुत्रयोः शिवं // rm_13.39{38} //
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
