Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 5/7

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Chưa xếp loại

सारतम

Tác giả
रत्नाकरशान्ति
Thông tin
GRETIL — Padmanabha S. Jaini: Sāratamā. A Pañjikā on the Aṣṭasāhasrikā Prajñāpāramitā Sūtra by Ratnākaraśānti. Patna : Kashi Prasad Jayaswal Research Institute, 1979. (Tibetan Sanskrit Works Series, 18).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

बुद्धभूमौ शिक्षत इत्यनेन फलमाह / अमृतधातुर्मोक्षधातुः / नाथकामा इति नाथत्वकामाः / अभ्युद्गततेत्युत्कृष्टता / शकुनीन् ध्नन्ति शाकुनिकाः / निषादा मृतपा(? मृगयवः) / धीवराः कैवर्ताः / उरभ्रा मेषाः / तान् ध्नन्तीति औरभ्रिकाः / अन्धो ऽचक्षुः / बधिरो ऽश्रोत्रः / काण एकाक्षः / कुण्ठो वक्रबाहुः / कुब्जो भग्नपृष्ठः / कुणिः करविकलः / लड्गः संहतजानुः / खञ्जो विकलगतिः / जडो निष्प्रतिभः / लोलो ऽस्थिरपदः / लल्लो ऽकर्मण्यजिव्हः / कल्ल उच्चैः शब्दश्रावी / हीनाङ्गो निन्दिताङ्गः / विकलाङ्ग ऊनाङ्गः / विकृताङ्गो मनुष्यविसदृशाङ्गः / निगच्छतीति निष्पादयति / तामनुप्राप्नोतीति बलादिपरिशुद्धिम् / जानमिष्यामः पश्ययिष्याम इति / शत्रन्तात्करोत्यर्थे णिच् / टिलोपः / शेषं सुबोधं यावत् पारं गच्छन्ति / इति नवमी विवृद्धिः //

तद्यथापीत्यादि पुनरपरात्प्राक् / सुवर्णजातरूपादयः गोबलीवर्दन्यायेन / ऊषराः सक्षारमृत्तिकाः / उज्जङ्गला उच्च(?)निर्जलाः / तृणं वीरणादि / खाण्डः सु(शु)ष्कतरुकीलकः / कण्टकाधानः कण्टकीमदनादिर्विविधास्ते येषु / शेषं सुबोधम् / इति दशमी //

पुनरपरादि पुनरपरात्प्राक् / चक्रवर्तिराज्यं संवर्तते ऽस्मादिति तत् संवर्तनीयम् / इत्येकादशी //

पुनरपरादि पुनरपरात्प्राक् / शक्रः संवर्तते ऽस्मादिति तत्संवर्तनीयम् / इति द्वादशी //

पुनरपरादि पुनरपरात्प्राक् / ब्रह्मा संवर्तते ऽस्मादिति तत्संवर्तनीयम् / इति त्रयोदशी //

पुनरपरादि जीवितेन्द्रियवाक्यात्प्राक् / कुशलसस्यप्ररोहविरोधिनो रागद्वेषमोहाः खिलाः / विचिकित्सा सत्यरत्नेषु विमतिः / ईर्ष्या परसम्पत्तौ व्यारोषः / शेषाः षट् पारमिताविपक्षाः / शेषं सुबोधम् / इति चतुर्दशी //

तद्यथापीत्यादि स चेत्पुनरित्यतः प्राक् / अज्ञान इति प्रज्ञापारमिताविपक्षे / पुण्याग्रः पुण्यैरग्रः / तदेव दर्शयितुमाह तत्किमित्यादि / बुद्धविषयो बुद्धधर्मसाकल्यम् / वशवर्ती वृषभिः / तभ्दावस्तत्ता / विक्रीडितं ऋद्धिप्रातिहार्येण / सिंहनादनदनमनुशासनीप्रातिहार्येण / बुद्धानां सम्पत्तिरुभयार्यसंघैश्चर्यम् / व्यवचारयति परिज्ञानात् / न च प्रतिवहति तेष्वनवस्थानात् / शेषं सुबोधम् / इति पञ्चदशी //

स चेत्पुनरित्याद्यापरिवर्तान्तात् / अथ तामपि न सञ्जानीते / कथमित्याह इयं सेत्यादि वाशब्दान्तम् / एवमपीत्येभिरेव त्रिभिराकारैः / स चेदेवं चरतीति तथैवासंजानन्नसमनुपश्यन् / इति षोडशी विवृद्धिः //

शिक्षाया वाचकः परिवर्तः शिक्षापरिवर्तः //

आर्याष्टसाहस्रिकायाः प्रज्ञापारमितायाः सारतमानाम्नि पञ्जिकायां रत्नाकरशान्तिविरचितायां पञ्चशिंतितमः परिवर्तः //

26. मायोपमपरिवर्तो नाम षड्विंशतितमः /

उक्ता विवृद्धिः / निरूढिर्वक्तव्या / अतः शास्त्रम्-

[128] त्रिसर्वज्ञत्वधर्माणां परिपूरिरनुत्तरा / अपरित्यक्त्वसत्त्वार्था निरूढिरभिधीयते // 5-3 //

त्रिभिः सर्वज्ञत्वैः संगृहीता धर्माः ऽत्रिसर्वज्ञत्वधर्माःऽ / तारणमोचनाश्वासनपरिनिर्वापणानि ऽसत्त्वार्थाःऽ / अतः सूत्रे ऽथ खल्वित्यादि विहरन्तीति यावत् / चरन्नपीति क्व चरन्? विवृद्धौ / किं चरन्? दानादीन् / चित्तं क्रामतीति गच्छतीति प्रसीदतीत्यर्थः / चित्तमुत्पादितमित्यहो बताहमेनामधिगच्छेयमिति / उह्यमानानिति ह्रियमानान् / समे युक्ते निर्दोषे / पारिमे तीर इति निर्वाणे / समृध्यन्तां तेषामिति चित्तोत्पादा इति परेण सम्बन्धः / अभीप्सिताः प्रीतिकरत्वात् / परिचिन्तिताः पुनःपुनरुत्पादनात् / परिगृहीता अपरित्यागयोगेन / बुद्धधर्माणामिति बुद्धः सर्वज्ञः / तस्य धर्माणामित्ययमुद्देशः /

तस्य निर्देशस्त्रिभिः सर्वज्ञत्वैः सर्वज्ञभावैः यतः स सर्वज्ञो भवति सर्वज्ञता च स्वयम्भूंत्वं च, असंहार्यता च / तत्र सर्वाकारसर्वधर्मसम्यग्ज्ञानमिह सर्वज्ञता / स्वयमेव चित्तादेव भवन्त्यस्य धर्मा इति स्वयंभूः / सर्वधर्मवशवर्तीत्यर्थः / तस्य धर्माः स्वयंभूत्वेन ये संगृहीताः / नास्य संहारमस्तीति असंहार्यः / (rst_137) सवासनसर्वावरणनिर्मुक्त इत्यर्थः / तस्य धर्मा ये ऽसंहार्यत्वेन संगृहीतास्तेषां सर्वेषां परिपूरणाय भवन्त्विति इयता परिपूरिरुक्ता //

सत्त्वार्थापरित्यागमाह / न मे भगवन्नित्यादिना / इमैरिति सौत्रो निर्देशः / अतो भिस ऐस् भवति / इदो ऽनादेशश्च न भवति / इमैरित्युक्तम् / कतमैरित्याह / किमितीत्यादि / किमितिशब्दस्य कथं नामेत्यर्थः इति निरूढिः //

चित्तस्य संस्थितिः / सा वक्तव्या / समाधिरित्यर्थः / अतः शास्त्रम्-

[129] चतुर्द्वीपकसाहस्रद्वित्रिसाहस्रकोपमाः / कृत्वा पुण्यबहुत्वेन समाधिः परिकीर्तितः // 5-4 //

सूत्रे पुण्यबहुत्वेन समाधिरुक्तो न साक्षात् / कथम्? चतुर्द्विपकश्च लोकधातुः साहस्रश्च द्विसाहस्रकश्च त्रिसाहस्रकश्च तैरुपमाः कृत्वा / कतमेन ग्रन्थेन? यस्तेषां भगवन्नित्यादिना अभिनिर्हृतानि भगवन्तीत्येतदन्तेन / तेषामिति सर्वेषाम् / तानिति प्रतिरूपान् / धर्मता धर्मसमूहः स्वभावो वा / पलाग्रेणेति पलप्रमाणेन प्रमाणं ग्रहीतुं इयन्ति पलानीति / अथ किं कस्यात्रोपमानम्? पुण्यपरिमाणस्य जम्बूद्वीपादिपरिमाणम् / शास्त्र उपचारः कृतः / नन्वनुमोदनामात्रस्यैतत्पुण्यपरिमाणं न समाधेः? अनुमोदनापुण्यानुमोदनेन पुण्यबहुत्वेनेत्यभिप्रायाददोषः /

अनुमोदनायाः परिपूरणार्थं तामकुर्वतां च निन्दार्थमाह / एवमित्यादि / माराधिष्ठिता इति मारेण महापापेन निरुत्साहीकृताः / न शृण्वन्ति शब्दतः / न जानन्त्यर्थतः / न पश्यन्त्यादरतः / न समन्वाहरन्तीति नाभिमुखीकुर्वन्ति / मारपक्षे भवाः मारपाक्षिकाः / तद्वदेव महतः सत्त्वार्थस्य विघातकरणात् / मारभवनेभ्यश्च्युता इति / मारा एव अत्यन्तं तत्साधर्म्यात् / अभिनिर्हृता इति निष्पादिताः / कैरित्याह / यैरित्यादि / येषामित्यादि च /

एवमुक्त इत्यादिना अनुमोदितव्यान्तेन शक्रप्रशंसा /

यरित्यादिना यैरपीत्यतः प्राक् / महायानप्रस्थितानां अनुमोदनानुशंसाः /

यैरपीत्यादिना प्रथमचित्तोत्पादिकानामपि न केवलमनुमोदितानि स्वसन्ताने चावरोपितान्यभिनिर्हृतानि च भवन्ति / अनुमोद्य चावश्यं परिणामना कर्तव्या / यथा च ते कर्तव्ये तथानुमोदनापरिणामनापरिवर्ताद्वेदितव्यम् / यथोक्तं महत्योभगवत्योः- ऽतानि कुशलमूलानि अनुमोद्यानुत्तरायां (rst_138) सम्यक्सम्बोधौ परिणामयितव्यानि / तथा च परिणामयितव्यानि यथा न चित्तं चित्ते चरति न चान्यत्र चित्तात्" इत्यादि / तदेवमनुमोदनासहगतं कुशलमूलमस्य समाधेरालम्बनं सम्यक्सम्बोधौ परिणामनमाकारः / चित्तसंस्थितिः स्वभावः / क्व संस्थितिः? न चित्ते ग्राहकलक्षणेन न वान्यत्रेति न सर्वधर्मेषु / किं तर्हि? सर्वधर्मतथतायामद्वयायामिति चित्तसंस्थितिः //

दर्शनहेया विकल्पाः सप्रतिपक्षा वक्तव्याः / तानधिकृत्य शास्त्रम्-

[130] प्रवत्तौ च निवृत्तौ च प्रत्येकं तौ नवात्मकौ / ग्राह्यौ विकल्पौ विज्ञेयावयथाविषयात्मकौ // 5-5 //

द्वौ तावद्विकल्पौ ऽग्राह्यौऽ ग्राह्यस्य विकल्पनात् / कथं ऽविकल्पौऽ? यतस्तयोरात्मा न यथाविषयं वितथः कल्पो विकल्प इति कृत्वा / तौ पुनः कस्मिन्विषये? प्रवृत्तिपक्षे च / ऽप्रत्येकंऽ इत्युभयोरपि पक्षयोः / ऽनवात्मकौऽ नवप्रभेदौ //

[131] द्रव्यप्रज्ञप्तिसत्सत्त्वविकल्पौ ग्राहकौ मतौ / पृथग्जनार्यभेदेन प्रत्येक तौ नवात्मकौ // 5-6 //

अपरौ द्वौ ऽविकल्पौ ग्राहकौऽ ग्राहकस्य विकल्पनात् / कथं द्वौ? यथाक्रमं द्रव्यसतः प्रज्ञप्तिसतश्च सत्त्वस्य विकल्पनात् / तत्र प्रथमं पृथग्जनानां द्वितीयमार्याणाम् / तावपि ऽप्रत्येकं नवात्मकौऽ / कथं तौ ग्राहकविकल्पौ? असत एव ग्राहकस्य कल्पनात् / वितथो हि कल्पो विकल्पः / एतदेवाह-

[132] ग्राह्यौ चेन्न तथा स्तो ऽर्थौ कस्य तौ ग्राहकौ मतौ / इति ग्राहकभावेन शून्यता लक्षणं तयोः // 5-7 //

ऽग्राहकभावेनऽ इति ग्राहकसत्त्वरूपेण / ऽतयोःऽ इति ग्राहकविकल्पयोः //

चत्वारोप्यमी विकल्पा विषयभेदेन प्रत्येकं नवविधाः / अत आद्यमधिकृत्य शास्त्रम्-

[133] एष स्वभावे गोत्रे च प्रतिपत्समुदागमे / ज्ञानस्यालम्बनाभ्रान्तौ प्रतिपक्षविपक्षयोः // 5-8 //

[134] स्वस्मिन्नधिगमे कर्ततत्कारित्रक्रियाफले / प्रवृत्तिपक्षाधिष्ठानो विकल्पो नवधा मतः // 5-9 //

ऽकर्तृतत्कारित्रक्रियाफले ऽ इति कर्तरि तत्कारित्रक्रियाफले चेत्यर्थः / स्वभावादिनवकं प्रवृत्तिपक्षः / बोधिसत्त्वोपादेयत्वात् / तदधिष्ठान एष विकल्पः / तस्मात्प्रथमः / अतः प्रथमं विकल्पमधिकृत्य सूत्रे नववाक्यानि /

तत्राद्यमधिकृत्य सूत्रम् / सुभुतिराह / कथं च भगवन् मायोपममित्यादि तद्यथापित्यतः प्राक् / मायाकारनिर्मितं गजादिकं माया / तद्वदन्यदपि यत् ख्याति नेहास्ति तत् मायोपमम् / त था च चित्तम् / ग्राहकलक्षणत्वात् ग्राहकस्य चासत्त्वात् / न ह्यसति ग्राह्ये ग्राहकं युक्तम् / ग्राह्याभावः कथमिति चेत् / यदि ज्ञानेनार्थः प्रकाश्येत स्याद्ग्राह्यत्वम् / न च प्रकाश्येत / अप्रकाशस्य प्रकाश्यविरोधात् / अथार्थः प्रकाशात्मैव / किं तस्य ज्ञानेन? तस्मान्मायोपमं चित्तं तदसत् कथमभिसंबुध्यत इति प्रश्नः / उत्तरं तत्किमित्यादिना / नो हीदं नो दीदमित्यसत्त्वादिति भावः / अन्यत्रेत्यन्यम् / तं धर्ममित्यात्मानम् / नो हीदमिति तस्यात्यन्तमसत्त्वादिति भावः /

एतदेव स्फुटीकर्तुमाह / नाहमित्यादि / अस्तीति नास्तीति वा निर्देशं नोपैति / असतो ऽविज्ञातरूपस्य विधिप्रतिषेधाभ्यामसम्बन्धादिति भावः / योपि धर्म इत्यादि सुगमम् / तस्मात्तर्हीत्यादि / तर्हिशब्दो ऽक्षमायाम् / तस्मादिति ग्राहकलक्षणत्वात् / ग्राहकत्वस्य वायोगात् / अत्यन्तग्रहणेन चैतदाह / यथेयं स्वेन लक्षणेन ग्राहकत्वेन शून्य तथा सर्वैः संप्रयोगिभिः, तेषामपि ग्राहकलक्षणत्वात् / आलम्बनभूतैश्च सर्वधर्मैः, आलम्बनस्य ग्राह्यलक्षणत्वात् / धर्माणां च यथायोगं ग्राह्यग्राहकलक्षणत्वात् / कथं पुनर्ग्राहकौ न स्तः? अभेदे ग्राह्यग्राहकत्वायोगात्, अङ्गुल्यग्रवत् / भेदे जडस्य परतोपि प्रकाशायोगात् / अजडस्य स्वयमेव प्रकाशात् / नासौ भावयितव्यः / न पुनःपुनर्बुद्धौ निवेश्यः खरविषाणवत् / नाप्यसावित्यादि / कस्यचिद्धर्मस्येति सम्यक्सम्बोध्यादेः / आवाहक आहारकः / निर्वाहको निष्पादकः / असतो ऽकिञ्चित्करत्वात् / प्रतीत्यसमुत्पाद एष एनं प्राप्य बोधिसत्त्वः संबुध्यत इति चेदाह / कथं चेत्यादि / न ह्यसत् प्राप्यत इति भावः / अनुत्तरापीत्यादि / अत्यन्तविविक्ता प्रज्ञापारमितावत् / कथं भवतीति नैव भवति / अत्यन्तासतोः साध्यसाधनत्वायोगादिति भावः /

एवमुक्त इत्यादि / यत एव अत एवेति / हेत्वनुरूपत्वात्फलस्येत्यर्थः / स चेदित्यादिना हेतुं परिपूरयति / यदि हि संजानीते तदा विकल्पः स्यात् न प्रज्ञापारमिता / एवमित्यादिनोपसंहारः / नाप्यभिसंबुध्यत इत्यभिसंबोधेरविकल्पनादिति भावः / अभिसबुध्यते चेत्यादि / परिकल्पितेन हि रूपेण त्रयमिदं नास्ति तच्छून्येन तु विज्ञप्तिरूपेणास्तीति भावः / तथापि संवृत्तिरेषां यथा (rst_140) प्रतिभाससमत्वात् / शून्यता तु परमार्थः / गम्भीरे ऽर्थे चरतीति यतो ऽस्मिन्नर्थे न शक्यते ऽन्यैश्चरितुम् / दुष्करकारक इति / यतः स भगवान् साक्षात्कर्तुं शक्तोपि न साक्षात्करोति सत्त्वावेक्षया / भाषितस्यार्थमिति आभिप्रायिकमर्थम् / दुष्करमन्येषां सुकरं बोधिसत्त्वस्येति भावः / कुतः सुकरम्? उपायकुशलत्वात् / स चोपायः प्रज्ञापारमितैव / अतस्तमेवाह तथाहीत्यादिना / य इति बोधिसत्त्वः / य इति गम्भीरो ऽर्थः / येनेति प्रज्ञापारमिताख्येन / अथास्यां प्रज्ञापारमितायां चरतः सा चर्या कियता भवतीत्यत आह / स चेदित्यादि / न संसीदतीति न भज्यते / अयमुद्देशः / अस्य निर्देशः षोढा / नावलीयत इति नास्यां मध्यप्रेमा / न संलीयत इति नास्यां मृदुप्रेमा / न विपृष्ठीभवतीति नाप्रेमा / नोत्त्रस्यतीति नैनां त्यक्तुकामः / न संत्रस्यतीति न त्यजति / न संत्रासमापद्यत इति न प्रबन्धेन त्यजति / तदेवं षड्विधभङ्गप्रतिषेधादेतद्गम्यते योस्यामभिमुखीभूतायामत्यन्तं प्रीयते सो ऽस्यां चरतीति / अपरमाह स चेदित्यादिना / अपरमाह / आसन्नेत्यादिना / अपरमाह दूरीकृतेत्यादिना / इह स्वभावादयो नवार्थाः / प्रवृत्तिपक्षे बोधिसत्त्वैरुपादेयत्वात् / तेषु विकल्पः सम्मोहो ऽसम्यग्ज्ञानम् / तत्राद्यः स्वभावविकल्पः / स्वभावः स्वाभिप्रायः / अहमनुत्तरां सम्यक्सम्बोधिमधिगच्छेयं तन्मार्गेणेति / बोधिचित्तमित्यर्थः / तस्मिन् विकल्पः / आकारो बोधेः प्रज्ञापारमितायाश्च शून्यतायां यदज्ञानमसमाहितज्ञानं च / समाहितज्ञाने च तिस्रो मन्यना / अहं चरामि आसन्ना मे महाबोधिरहं वा दूरे हीनबोधेः स्यामिति / अस्य प्रतिपक्षः कथं भगवन्मायोपमं चित्तमित्यत आरभ्य तद्यथापीत्यतः प्राक् / इति स्वभावविकल्पः //

तद्यथापीत्यादि / आसन्ना मे महाबोधिर्दूरे हीनबोधी यतोहं बुद्धगोत्र इति सम्मोहः / अस्य प्रतिपक्षः / आकाशसमत्वाद्गोत्रस्य तद्वदविकल्पा प्रज्ञापारमितेति गोत्रविकल्पः //

तद्यथापीत्यादि / अस्ति मे प्रतिपत्तिसमुदागमः / तत आसन्ना मे महाबोधिर्दूरे हीनबोधी इति संमोहः / तस्य प्रतिपक्षः समुदागमस्य मायापुरुषोपमत्वादविकल्पा प्रज्ञापारमितेति प्रतिपत्समुदागमविकल्पः //

तद्यथापीत्यादि / प्रतिभासः प्रतिबिम्बः / ज्ञानप्रतिभासस्य प्रतिभासत्वेनैव यद् ज्ञानं न त्वालम्बनस्य च / सेह ज्ञानस्यालम्बना भ्रान्तिः / सा मम जाता / तत आसन्ना मे महाबोधिर्दूरे हीनबोधी इति संमोहः / तस्य प्रतिपक्षः प्रतिबिम्बवदविकल्पा प्रज्ञापारमितेति आलम्बनाभ्रान्तिविकल्पः //

तद्यथापीत्यादि / प्रतिपक्षो हन्ता विपक्षो हन्तव्य इति संमोहः / अस्य प्रतिपक्षो यथा तथागतस्य प्रियाप्रियौ न स्तस्तद्वदविकल्पायां प्रज्ञापारमितायां चरतोपीति प्रतिपक्षविपक्षविकल्पः //

यथैव हीत्यादि अभूतकल्पनात् कल्पः / तस्य विगमकल्पनाद्विकल्पः / तौ प्रहीणौ यथा तथागतस्य तद्वदविकल्पायां प्रज्ञापारमितायां चरतोपि / तत्र कल्पविगमो विकल्पः स्वाधिगमसंमोहः / तस्य प्रतिपक्षः कल्पविकल्पप्रहीणा प्रज्ञापारमितेति स्वाधिगमविकल्पः //

तद्यथापीत्यादि / प्रज्ञापारमितामहं भावयामि / तत आसन्ना मे महाबोधिर्दूरे हीनबोधी इति कर्तरि सम्मोहः / तस्य प्रतिपक्षः / कर्तुस्तथागतनिर्मितोपमतत्तद्वदेव कर्तरि निर्विकल्पा प्रज्ञापारमितेति कर्तरि विकल्पः //

तद्यथापीत्यादि / स च तथागतनिर्मितो यदर्थं निर्मितस्तच्च कृत्यं करोति / न च तां क्रियां विकल्पयति / तद्वद्बोधिसत्त्वः प्रज्ञापारमितां भावयति न च विकल्पयतीति प्रतिपक्षः / बोधिविकल्पनं क्रियाफलविकल्पः //

तद्यथापीत्यादि [आ परिवर्ता]न्तात् / शिल्पिना यदर्थ दारुयन्त्रमयः पुमान्कृतः स तदर्थ करोति न विकल्पयति / तद्वद्बोधिसत्त्वो बोधये, न (तां) बोधिं प्राप्स्यति न च तां विकल्पयतीति प्रतिपक्षः / बोधिविकल्पनं क्रियाफलविकल्पः //

मायोपमचित्तोपलक्षितः परिवर्तो मायोपमपरिवर्तः //

आर्याष्टसाहस्रिकायाः प्रज्ञापारमितायाः सारतमानाम्नि पञ्जिकायां रत्नाकरशान्तिविरचितायां षडिंवशतितमः परिवर्तः //

27. सारपरिवर्तो नाम सप्तविंशतितमः /

मायोपमपरिवर्तस्यान्ते प्रथमो ग्राह्यविकल्प उक्तः / इतरे त्रयो विकल्पा इह सारपरिवर्ते वक्तव्याः / तत्र द्वितीयं ग्राह्यविकल्पमधिकृत्य शास्त्रम् /

[135] भवशान्तिप्रपातित्वान्न्यूनत्वे ऽधिगमस्य च / परिग्रहस्याभावे च वैकल्ये प्रतिपद्गते // 5-10 //

[136] परप्रत्ययगामित्वे समुद्देशनिवर्तने / प्रादेशिकत्वे नानात्वे स्थानप्रस्थानमोहयोः // 5-11 //

[137] पृष्ठतो गमने चेति विकल्पो ऽयं नवात्मकः / निवृत्तिपक्षाधिष्ठानः श्रावकादिमनोभवः // 5-12 //

अधिगमन्यूनतादौ दोषे बोधिसत्त्वप्रहेये[ऽ]भावान्निवृत्तिपक्षाधिष्ठानो नवविधश्च श्रावकादीनां मनोभवस्तैरहेयत्वात् / एतानाह अथ खल्वित्यादिनाथ खलु भगवानित्यतः प्राक् / तत्र शारिपुत्र एकमाह / ततः सुभूतिरेकं ततो देवपुत्रास्त्रीन् / पुनः सुभूतिश्चतुरः / इहापि प्रतिपक्षाः पठ्यन्ते / तद्विपर्ययेण विकल्पा गम्यन्ते / सारे बतायमिति बतशब्दो हर्षे / उत्कृष्टं फलं सम्यक्संबोधिः / सो ऽनुसारः / तन्निमित्तं बोधिसत्त्वश्चरति / कतम इत्याह / य इत्यादि / प्रज्ञापारमिता चात्र उभयनैरात्म्यज्ञानमुच्यते / तस्यां चरतः संसारे नात्यन्तमुद्वेगो निर्वाणे नात्यन्तमुत्कण्ठा / उभयोरनुपलम्भत्वात् / ततोयमनुत्तरां सम्यक्सम्बोधिमधिगच्छेदिति प्रतिपक्षः / अन्यथा तु संसारे वा पतेत्पञ्चभिः पारमिताभिः / निर्वाणे वा पुद्गलनैरात्म्यज्ञानात् / अत एव च विना प्रज्ञापारमितया बोधिसत्त्वो बोधिसत्त्वाख्यां न लभते / तद्यथा सम्यगभिषिक्तोपि चक्रवर्तिनः पुत्रश्चक्रवर्तिशब्दं विना सप्तभी रत्नैरित्यधिगमन्यूनताविकल्पः //

सरणं सारः / कर्म धर्मः / गम्यता सुधर्षणतेत्यर्थः / विपर्ययादसारो दुर्द्धर्षणता / अतः पारमितानां दुर्द्धर्षणत्वे स चरति यश्चरति प्रज्ञापारमितायाम् / सा हि तासां परिग्रहसमर्था / तद्यथा स्त्रीणां सधूर्तके नगरमार्गे शस्रपाणिपुरुष इति प्रतिपक्षः / अन्यथा सुधर्षणाः स्युरिति परिग्रहाभावविकल्पः //

एतदभवदिति नमस्कर्तव्या इत्याद्यथ खल्वित्यतः प्राक् / नमस्कर्तव्यास्त इति कुतः? प्रतिपत्तिसाकल्यादपराधीनत्वादुद्देशानिवृत्तेश्च / अत एवाहुः यैरित्यादि / सर्वमभिनिर्हृतानीति प्रतिपत्तितः पञ्चभिः पारमिताभिः / इहेत्युभयनैरात्म्यवेदिन्याम् / अत एव गम्भीरायामिति प्रतिपक्षः / तस्यामचरतां प्रतिपत्तिवैकल्यं स्यात् / ततस्ते मारादिभिः सुयोधनाः स्युः / अक्षतकवचा इव योधाः प्रतियोधैरिति प्रतिपत्तिवैकल्यविकल्पः //

तथेत्यादि / ये चेति वर्तते / तथेति प्रज्ञापारमिताप्रधानासु पारमितासु चरन्त इति हेतौ शतृप्रत्ययः / तथा चरणादित्यर्थः / ततः किमित्याह / भूतकोटिरित्यादि / यथा हि चक्रवर्ती प्रधानं महाप्रभावत्वात्, कोद्रारातीः (? कोट्टराजानः) (rst_143) तदनुवर्तिनस्तथैव प्रज्ञापारमिता प्रधानं तया संसारनिर्वाणयोरनुपलम्भात् / यथा ते पारमिताभिः संसारे न पात्यन्ते तथा पुद्गलनैरात्म्यज्ञानवशेन भूतकोटिं न साक्षात्कुर्वन्ति / यदि तु प्रज्ञापारमिता प्रधानं न स्यात् तदा हीनबोधिं भूतकोटिं साक्षात्कुर्युरेवेति परप्रत्ययगामित्वविकल्पः //

अनेनापीत्यादि / अनेनेति वक्ष्यमाणेन / तमेवाहुर्य इत्यादिना न साक्षात्कुर्वन्तीति / कुतः? उद्देशः सम्यक्संबोधौ लित्सा / कुतस्तस्मादनिवृत्तिः? यतो न तावत्प्रज्ञापारमिता ततो निवर्तते तदर्थमेव तस्यां चरणात् / नापीतराः / तदनुप्रविष्टानां तासामप्यनिवृत्तेः / तद्यथा सर्वाः कुनद्यो महानदीमनुप्रविश्य समुद्रमेव गच्छन्ति न निवर्तत इत्युद्देशनिवृत्तिकल्पः //

नवाप्येते विकल्पा महत्योर्भगवत्यो स्वार्थसम्पत्तिमधिकृत्य योजिताः / अतः प्रादेशिकत्वनानात्वविकल्पौ यथा तयोरुक्तौ तथा तावद् ब्रूमः / पारमितापञ्चकं वामहस्तवत् / षष्ठी दक्षिणहस्तवत् / उभाभ्यां सर्वकृत्येषु व्यापारसिद्धेरिति प्रतिपक्षः / यदि तु दक्षिणहस्तप्राया षष्ठी न स्यात्तदा प्रादेशिकः स्याद्व्यापार इति प्रादेशिकविकल्पः //

यथा हि नानारसाः कुनदीमहानद्यो महासमुद्रमनुप्रविश्यैकरसा भवन्ति तथा नानारसाः पञ्च पारमिताः षष्ठीमनुप्रविश्यैकरसा भवन्तीति प्रतिपक्षः / नानारसाः तथैव ताः सम्यक्सम्बोधावपीति नानात्वविकल्पः / अस्यां तु भगवत्यां परार्थसन्नाहमधिकृत्य द्वाविमौ विकल्पौ सुभूतिराहेत्यादिना / अथ खल्वित्यादिना तत्र सन्नह्यन्त इत्यनेन दुष्करत्वं दर्शितमनन्तानां सत्त्वानामर्थस्य कर्तुमशक्यत्वात् / तथाप्येवमेव सन्नाहः कर्तव्य ईदृशीं महाशयतामन्तरेण स्वपरार्थयोः कर्तुमशक्यत्वादिति प्रतिपक्षः / सर्वसत्त्वानामर्थस्य केनचिदकरणादात्मविनेयानामर्थाय सन्नाहः कर्तव्य इति प्रादेशिकत्वविकल्पः //

नानात्वविकल्पप्रतिपक्षः समता / तामेव विवक्षुः परमदुष्करत्वमाह ते चेत्यादिना / वैनयिका इति विनयार्हाः सत्त्वाः / तथापि कस्य दुष्करतेत्यत आह / एवं चेत्यादि / दृष्टान्तेन दृढीकर्तुमाह / आकाशमित्यादि / तत्कस्य हेतोरिति कुतः साधर्म्यादित्यर्थः / अत उत्तरं आकाशेत्यादि / अनेनेत्युपसंहारः / पुनद्र्दृढीकर्तुमाह / आकाशेनेत्यादि / आकाशोपमैः सत्त्वैरित्यर्थः / कुतो विवाद इत्याह / अयं चेत्यादि वेदितव्यान्तम् / चशब्दो हेतौ / विवादः कलहः / सत्त्वानयं विनेतुकामस्ते चासत्त्वात्परिहरन्तीति कलहः / वैनयिकेत्यादि / यथा च विनेया न सन्ति तथा विनयितापि / तत उभयासत्तया सुतरां परमदुष्करता / एवमियं बोधिसत्त्वेन सर्वसत्त्वात्मसमता द्रष्टव्या यतः शक्नुयात् (rst_144) स्वपरार्थौ कर्तुम् / स पुनरस्यां चरन् कथं ज्ञेय इत्याह / स चेदित्यादि / न संसीदतीति न खिद्यते सुतरां प्रीयत इत्यर्थः / तत्कस्य हेतोरिति / मत्तस्य प्रज्ञापारमितायां चरणं कस्य हेतोर्नैव कस्यचित् / धर्मनैरात्म्यादर्शनादिति भावः / अत उत्तरं सत्त्वविविक्ततयेत्यादि / एवमित्यादिना द्रष्टव्यान्तेनोपसंहारः / विविक्तता हि सर्वधर्माणां समतेति विस्तरेण प्रतिपक्षः / नाना सत्त्वा नाना धर्मास्ततो नास्त्येकरसा प्रज्ञापारमितेति नानात्वविकल्पः //

एवं देवपुत्रा इत्यादि / एव भाष्यमाणायामिति / एवमिदानीं मया देश्यमानायां सर्वधर्मविविक्ततायामिति चर्याकाले देश्यमानायां बोधिसत्त्वो न संसीदतीति सम्बन्धः / न संसीदतीति स्थानप्रस्थानयोर्न मुह्यति / केन गन्तव्यं क्व वा स्थातव्यमिति / तयैव सर्वधर्मसमतासंवेदिन्या प्रज्ञापारमितयोरसंमोहात् / तथाहि / येन बोधिस्तेन गन्तव्यं बोधौ स्थातव्यम् / ते च गतिस्थिती तस्या एव स्वाधी ने हेतुफलावस्थे / ततो येन सा गच्छति यत्र वा तिष्ठति तत्परिणामिता अपि पञ्च पारमितास्तेनैव गच्छन्ति तत्रैव तिष्ठन्ति / तद्यथा चक्रवर्तिनश्चक्ररत्नं येन गच्छति यत्र वा तिष्ठति सर्वो बलकायस्तेनैव गच्छति तत्रैव तिष्ठतीति प्रतिपक्षः / अविज्ञाः पञ्चपारमिताः षष्ठी निराभासा / ततः स्थानप्रस्थानयोरनिश्चयः स्थानप्रस्थानं(न)सम्मोहविकल्पः //

यत इत्यादि न संसीदतीति प्रसादितमेतत् / यतश्च न संसीदति ततो गम्यते चरति प्रज्ञापारमितायां पूर्वमेवेति शेषः / अन्यथा कुतो न संसीदेत् / तद्यथा चक्रवर्तिनश्चक्ररत्नमग्रतो गच्छति पश्चाद्बलकाय इति प्रतिपक्षः / उदारविषयत्वात्पञ्चपारमिताः प्राक् प्रवर्तन्ते / सूक्ष्मविषयत्वात् पृष्ठतः षष्ठीति पृष्ठतो गमनविकल्पः //

इत्युक्तो द्वितीयो ग्राह्यविकल्पो नवविधः //

प्रथमं ग्राहकविकल्पमधिकृत्य शास्त्रम्-

[138] ग्राहकः प्रथमो ज्ञेयो ग्रहणप्रतिमोक्षण / मनस्क्रियायां धातूनामुपश्लेषे त्रयस्य च // 5-13 //

[139] स्थाने चाभिनिवेशे च प्रज्ञप्तौ धर्मवस्तुनः / श(स)क्तौ च प्रतिपक्षे च यथेच्छं च गतिक्षतौ // 5-14 //

द्रव्यसन्नात्मा ऽप्रथमो ग्राहकःऽ / स चास्ति प्रज्ञापारमितावत् / सा हि किञ्चिद्गृण्हाति किञ्चिन्मुञ्चतीति ग्रहणमोक्षणविकल्पः / सापि न गृण्हाति न मुञ्चतीति प्रतिपक्षः //

गृह्यन्त एव धर्मास्तेषां मनसिकारादिति मनसिकारविकल्पः / न स धर्मान्मनसिकरोतीति प्रतिपक्षः //

मनसिकरोत्येव धर्मास्त्रैधातुके श्लेषादिति त्रैधातुकश्लेषविकल्पः / नासौ त्रैधातुके श्लिष्यतीति प्रतिपक्षः //

त्रैधातुके स्थितः कथं तत्र न श्लिष्यतीति स्थानविकल्पः / नासौ क्वचित्तिष्ठतीति प्रतिपक्षः //

सत्यभिनिवेशे कथं न तिष्ठतीति अभिनिवेशविकल्पः / नासौ किञ्चिदभिनिविशत इति प्रतिपक्षः //

अस्ति बोधिसत्त्वस्य धर्मवस्तूनां प्रज्ञप्तिः / दानपारमिता शीलपारमिता यावत् सर्वाकारज्ञतेति सर्ववस्तुप्रज्ञप्तिविकल्पः / साप्यस्य नास्तीति प्रतिपक्षः //

श(स)क्त एव सम्यक्सम्बोधौ तामभिसम्बुध्यते / अन्यथा वैमुख्यादिति श(स)क्तिविकल्पः / अश(स)क्ताः सर्वधर्मा अपरिगृहीताः / न चाश(स)क्तः किञ्चिदभिसम्बुध्यते / स चेदेवं चरति चरति प्रज्ञापारमितायामिति प्रतिपक्षः //

दानपारमिताशून्या शीलपारमिताशून्येत्येवमादि प्रतिपक्षविकल्पः / सोपि बोधिसत्त्वस्य नास्तीति प्रतिपक्षः //

सर्वाकारैः सर्वधर्माणामनुपलम्भे यथेच्छगमनं तस्य क्षतिः / सा बोधिसत्त्वस्यास्तीति यथेच्छगमनव्याघातविकल्पः / सोपि तस्य नास्तीति प्रतिपक्षः /

अमी नव प्रभेदा महत्योर्भगवत्योरुक्ताः / अस्यां तु सामान्येन द्रव्यसद्ग्राहकविकल्पं सप्रतिपक्षमाह / अथ खल्वित्यादिना नापीत्यतः प्राक् / जानन्नेवेति न हि भगवतः किञ्चिदज्ञातमस्ति / बोधिसत्त्वो महासत्त्व इति लोकप्रसिद्धितो द्रव्यसत्पुद्गलरूपः स केन कारणेन न संसीदतीति द्रव्यसद्ग्राहकविकल्पः / तस्य प्रतिपक्षो ऽनुपलम्भः / तमेवाह / विविक्तत्वादित्यादिना / असत्त्वादित्यर्थः / स हि स्वयमसत् कुतः संसीदतीति /

द्वितीयं ग्राहकविकल्पमधिकृत्य शास्त्रम्-

[140] यथोद्देशमनिर्याणे मार्गामार्गावधारणे / सनिरोधे समुत्पादे वस्तुयोगवियोगयोः // 4-15 //

[141] स्थाने गोत्रस्य नाशे च प्रार्थनाहेत्वभावयोः / प्रत्यर्थिकोपलम्भे च विकल्पो ग्राहको ऽपरः // 4-16 //

एते नव विकल्पाः पृथग्जनानां प्रथमस्यैव भावान्न तेषां धर्माः / तैरप्रहेयत्वात् / तेषां प्रतिपक्षः षष्ठी यथा सूत्रम् / यथा सारथिरश्वानां सन्मार्गेण यथोद्देशं नेता तथा षष्ठी पञ्चानामिति प्रतिपक्षः / षष्ठ्यभावान्नियन्तुरभावाद्यथोद्देशानिर्याणविकल्पः /

सर्वाकारज्ञतामार्गो बोधिसत्त्वानां मार्गः / हीनबोधिमार्गस्तेषाममार्गः / तयोरवधारणं षष्ठ्यैवेति सैव प्रतिपक्षः / तदभावे मार्गामार्गावधारणविकल्पः /

नैषा कस्यचिद्धर्मस्योत्पादिका निरोधिका वा धर्मतां प्रमाणीकृत्येति प्रतिपक्षः / उत्पादिका बुद्धधर्माणां निरोधिका तदावरणानामित्युत्पादनिरोधविकल्पः /

सर्वधर्मा न संयुक्ता न विसंयुक्त इति प्रतिपक्षः / संयुक्ता विसंयुक्ता वेति संयोगवियोगविकल्पः /

रुपादौ यावत्सर्वाकारज्ञतायां न स्थास्यतीति योगः करणीयः / सर्वधर्माणां क्वचिदप्यस्थितत्वादिति प्रतिपक्षः / रूपे यावत्सर्वाकारज्ञतायां स्थास्यतीति स्थानविकल्पः //

यथा हि फलकामो बीजमवरोप्य सम्यक् सवर्ध्य यावत्फलानि परिपाच्य भक्षयति / एवं महाबोधिकामः पारमितासु शिक्षित्वा ताभिः सत्त्वाननुगृह्य संसारान्मोचयतीति प्रतिपक्षः / बोधौ चित्तमुत्पाद्य सत्त्वानुपेक्षत इति गोत्रविप्रणाशविकल्पः //

प्रार्थितो ऽर्थः प्रार्थना / सर्वधर्मवशवर्तितामनुप्राप्तुकामेन षष्ठ्यां शिक्षितव्यमिति प्रतिपक्षः / तच्च शिक्षमाणे सा न स्यादिति प्रार्थनाभावविकल्पः //

षष्ठी हेतुः सर्वधर्माणां समुद्र इव सर्वरत्नानां तया परिभाविता हि शुक्लधर्मा बुद्धधर्मा भवन्तीति प्रतिपक्षः / षष्ठ्यभावे हेतुर्न स्यादिति हेत्वभावविकल्पः //

प्रज्ञापारमितायां चरन्तं त्रैयध्विका बुद्धाः समन्वाहरन्ति / न च रूपादितो यावन्न सर्वाकारज्ञतातः / अपि तु यत्र न रूपादि यावद्यत्र न सर्वाकारज्ञता तथा समन्वाहरन्तीति प्रतिपक्षः / रूपादितो यावत्सर्वाकारज्ञतातः समन्वाहरन्तीति प्रत्यर्थिकधर्मोपलम्भविकल्पः //

एतेपि न व प्रभेदाः महत्योर्भगवत्योरुक्ताः / अस्यां तु सामान्येनैव प्रज्ञप्तिसंग्राहकविकल्पं सप्रतिपक्षमाह / नापीत्यादिना अपि तु खल्वित्यतः प्राक् / कश्चिद्धर्म इति आत्मप्रज्ञप्तिविषयः स्कन्धादिः / न संसीदतीति स्वयमसत्त्वात् / अत एवाह / तत्कस्येत्यादि / कश्चिद्धर्म इति स्कन्धादि चित्तं वा / (rst_147) सोपीत्यादि / येन धर्मेणेति चित्तेन यो धर्म इति बोधिसत्त्वः / एवमेतदित्यादिरभ्युपगमः / इयता प्रतिपक्ष उक्तः /

मा भूद् द्रव्यसत्सत्त्वः / अहंकारविषयः स्कन्धादिश्वत्तं वा बोधिसत्त्व इति प्रज्ञप्तिसंग्राहकविकल्पश्चतुर्थः //

एवं भगवता चतुर्विधाविकल्पप्रतिपक्षभूता भगवती विस्तरेण देशिता / बोधिसत्त्वस्तु तस्यां चरन् यथा ज्ञेयस्तदाह / अपि तु खल्वित्यादि / भाष्यमाणे ग्रन्थतः / देश्यमाने अर्थतः / निर्देश्यमाने निर्विशेषं कथनात् / उपदिश्यमाने रहस्यकथनात् / न संसीदति न मन्दीभवति / न विषीदति खेदात् / न विषादमापद्यते सन्ततखेदात् / नावलीयते चित्तनमनात् / न संलीयते सन्ततं तन्नमनात् / विपृष्ठं वैमुख्यात् / भग्नपृष्ठं पुनरसांमुख्यात् / नोत्त्रस्यति त्रासोन्मुखत्वात् / न संत्रस्यति सम्यक् त्रासात् / नैनमापद्यते सातत्येन / तदा वेदितव्यं चरत्यस्यां प्रज्ञापारमितायामिति / अस्यामचरतः संसीदनादीनामवश्यंभावात् /

सुभूतिराहेत्यादिना पारमितान्तेन सुभूतेरभ्युपगमः / एवमित्यादिना / अस्यां चरतो ऽनुशंसातिशयानाह / अनुगृण्हन्ति विशेषाधानतः / समन्वाहरन्ति स्मरणतः / तेपि तस्य बुद्धा भगवन्तो धर्म देशयन्तीति सम्बन्धः / कीदृशा इत्याह / भिक्षुसंघेत्यादि / कीदृशस्येत्याह / प्रज्ञापारमितायां चरत इत्यादि / नाम चेत्यादि / नाम संज्ञा / गोत्रं गार्ग्यादि / बलं कायबलं बुद्धिबलं च / वर्णः परिशिष्टा गुणाः / रूपं वर्णसंस्थाने / एतानि परिकीर्तयमानाः प्रकर्षेण प्रकर्षरूपम् / उदानमिति गुणहर्षोभ्दवां गाथां उदानयन्त्युदाहरन्ति / कस्य गुणा इत्याह तस्येत्यादि / तद्यथापीत्यादिना दृष्टान्तमाह / एवमेवेत्यादिना दार्ष्टान्तिकम् / किं सर्वेषामित्यादिना प्रश्नः / उत्तरं नो हीदमित्यादिना / सर्वसंगाः सर्वे ऽभूतोपलम्भाः / सन्ति भगवन्नित्यादिना पुनः प्रश्नः / उत्तरं सन्तीत्यादिना / इमे त इत्यादिनोपसंहारः / अपरानप्याह येपीत्यादिना / इमेपीत्यादिनोपसंहारः /

पुनरपरमित्यादिना अविनिवर्तनीयानां वशिता तस्याः प्राप्तिः / तामवक्रान्ताः प्रविष्टाः / बुद्धैर्नामादिपरिकीर्तनस्यानुशंसमाह / येषां खल्वित्यादिना पुनरपरमित्यादि / कथमधिमोक्ष्यन्तीत्याह / एवमेतदित्यादि / तेषां चेति न केवलमक्षोभ्यस्य केषामित्याह / ये चेत्यादि तेषां चेति / अक्षोभ्य-तब्दोधिसत्त्वानाम् / एवमित्यादिना श्रवणानुशंसमुपसंहृत्य तथात्वप्रतिपत्त्यादीनामनुशंसोत्कर्षमाह / एवमनुशंसातिशयेषूक्तेषु प्रकृतायाः प्रज्ञापारमिताया विशेषनिर्देश आपरिवर्तान्ताभ्दविष्यति / तं (rst_148) प्रस्तोतुं सुभूतिराह यदा भगवन्नित्यादि / तथताविनिर्मुक्त इति / तथतामात्रस्येव प्रख्यानात् / परिकल्पितस्य नानाविधस्याप्रतिभासनात् / न कश्चिद्धर्म उपलभ्यते / तदा कोयमित्यादि सुगमम् / तथतैव तावन्नोपलभ्यत इति तस्या अग्राह्यत्वात् / यः स्थास्यतीति बोधिसत्त्वः /

सज्जतीति विहन्यत इत्यर्थः / आरभ्येति अधिकृत्य / धर्मवादीति युक्तिवादी / धर्मस्येति बुद्धनिर्वाणस्य / अनुधर्ममनुकूलं मार्गः / व्याकुर्वन् आचक्षाणः / व्याकरोम्याचक्षे / सर्वधर्माणां विविक्तं विवेकः शून्यता / तस्मिन्विहारः समाधिः सर्वधर्माणां अनुपलम्भः / तस्मिन्विहारः यः खलु पुनरित्यादिना सुभूतेर्विहाराद्वोधिसत्त्वविहारस्योर्त्ष दर्शयति / उपपत्तिमाह / तथागतविहारं हीत्यादिना / चरतः समाधिनिष्पत्तये / विहरतो निष्पन्नेन समाधिना / शेषं सुबोधम् / दुर्बोधं तु प्रागेव व्याख्यातम् //

सारादिः परिवर्तः सारपरिवर्त्तः /

आर्याष्टसाहस्रिकायाः प्रज्ञापारमितायाः सारतमानाम्नि पञ्जिकायां रत्नाकरशान्तिविरचितायां सप्तविंशतितमः परिवर्तः //

28. अवकीर्णकुसुमपरिवर्तो नामाष्टाविंशतितमः /

मायोपमसारपरिवर्ताभ्यां दर्शनहेया विकल्पा उक्ताः / दर्शनमार्गादेश्च प्रज्ञापारमिताविहारस्यावश्यकं बोधिप्रापकत्वमुक्तम् / ततस्तस्य तथाभावे कारणत्रयमनेन परिवर्तेन प्रथमं वक्ष्यति पश्चाद्वोधिलक्षणम् / अतः कारणत्रयमधिकृत्य शास्त्रम्-

[142] बोधौ संदर्शनान्येषां तद्धेतोश्च परीन्दना / तत्प्राप्त्यनन्तरो हेतुः पुण्यबाहुल्यलक्षणः // 5-17 //

तस्या बोधेर्यथोक्तात् प्रज्ञापारमिताविहारादवश्यं प्राप्तिः ऽतत्प्राप्तिःऽ / तस्या ऽअनन्तरो ऽ ऽविनाभावी ऽहेतुःऽ ज्ञापकस्त्रिविध उक्तः सूत्रे / ऽबोधौ सन्दर्शनाऽ व्याकरणं यद् ऽअन्येषांऽ स प्रथमो हेतुः / भाविनां बोधिहेतोरार्यानन्दाय ऽपरीन्दनाऽ द्वीतीयो हेतुः / ऽपुण्याबाहुल्यलक्षणःऽ तृतीयः / अतः सूत्रम् // अथ खल्वित्यादि अवकीर्णकुसुमनामानो व्याकर्तव्याः / ततो देवैः पुष्पमानीतं व्याकर्तव्यैरवकीर्णं ततो रश्मीनां निश्चारप्रवेशौ / आनन्दपृष्टेन (rst_149) भगवता तेषां व्याकरणम् / तत्तेषां व्याकरणमन्यस्मिन्विशिष्टे लोकधातावितिलक्ष्यते लोकधातोरनिर्देशात् / आयुःसद्धर्मशितिकालयोश्चयतत्वात् / तदनु तस्मात्तर्हीत्यादिना उपसंहारो विहर्तव्यान्तः / इति प्रकृतेन विहारेण बोधिप्राप्तेः प्रथमं कारणम् //

ततो ये हीत्यादिना सम्यक्सम्बुद्धानामित्येतदन्तेन प्रज्ञापारमिताचारिणां गुणानाह / ततो ये चैनामित्यादिना वेदितव्यान्तेन येप्येनां श्रुत्वा न प्रतिक्षिपन्ति तेषां गुणमाह / अत्र प्रतिक्रोशणं मानसी निन्दा / प्रतिवहनं मनसा त्यागः / प्रतिकोपनं तस्मै कोपः / प्रतिसंहरणं गुप्तौ स्थापनम् / प्रतिषेधनं निःसारताख्यापनम् / प्रतिक्षेपो ऽसभ्दूतबाधकाभिधानम् / तदव्यवसायः सप्तमः / ततः किञ्चापीत्यादिना चरितवतेत्येतदन्तेन हीनयानापतने कारणद्वयमाह / प्रणिधानादिनाविसंवादितां कृतज्ञतां चेति / तदेवं ये हि केचिदित्यादिना विस्तरेणोपोद्घातं कृत्वा तस्मात्तर्हीत्यादिना परीन्दनामाह / परीन्दना समर्पणा सैवानुबन्धिनी अनुपरीन्दना / अक्षरसन्निपातादिति / अक्षरसन्निपातो व्यञ्जनकायः / तमधिकृत्येति ल्यप् लोपे पञ्चमी / किमर्थमित्याह / उद्ग्रहणायेत्यादि / कथं परीन्दनेत्यत आह / यथेयं नान्तर्द्धीयेतेति / यथेयमन्तर्हिता न स्यात्तथा त्वया करणीयमित्यर्थः / अत ऊर्ध्वं स चेदित्यादिना आहारिकेत्येतदन्तेन द्वितीयमुपोद्घातं कृत्वा तस्मात्तर्हीत्यादिना द्वितीया परीन्दना / अत्र पुनरेवेति पश्चात् / नाशयेरिति हारयेः / शीघ्रमननुश(स)रणात् उत्सृजे / स्मर्तुमशक्यत्वात् विस्मरेः / अपराद्धः कृतापराधः / आराधनमारागणं च तोषणम् / माता बीजधा[र]ना(णा)त् / जननी बीजपृष्टेः / जनयित्री उत्पादनात् / तत उर्ध्वं उद्ग्रहीतव्येयमित्यादिना तादृशी प्रज्ञापारमिता सदेवकस्य लोकस्य शास्तेत्येतदन्तेनोपोद्धातं कृत्वा तस्मात्तर्हीत्यादिनानुशा नीत्येतदन्तेन तृतीया परीन्दना /

अत्र सुनिरुक्ता सुपठिता धर्मकायतेति प्रज्ञापारमितैव धर्मः काय एषां तत्तदिति वक्ष्यमाणेन कर्तव्यादिना सम्बध्यते / तत्र कर्तव्यमुपस्थानादि दातव्यं पुष्पादि समन्वाहर्तव्यं देशनादि / कल्याणत इति पुण्यकामतया / स्पर्शविहारत इति तेनैव सुखीभावात् / गुणवत्तयेति कल्याणादिना / भाषेये(यमि)ति वदेयम् / कल्पं वा यावत्ततो वा उपरि यदि विस्तर इष्टः स्यात् / किन्तर्हि संक्षेपेणानन्द भाषये(भाषे) / यादृश इत्यादि / ततो योपि कश्चिदित्यादिना सम्यक्सम्बोधिरित्येतदन्तेनोपोद्घातं कृत्वा चतुर्थी परिन्दनामाह / तमात्तर्हीत्यादिना नान्तर्धीयेत्येतदन्तेन / (rst_150) चतुर्थकमिति वक्तव्ये द्वितीयकमित्युक्तम् / उ(अनु)क्तानामुक्तसामान्येनैकीकरणात् / परिददामि परिन्दामि समर्पयामीत्येको ऽर्थः / एवं चतुराकारा परिन्दना द्वितीयं कारणम् //

तत एषा ह्यानन्देत्यादिनोपाद्घातं कृत्वा स चेत् त्वमित्यादि नैतत्स्थानं विद्यत इति यावत् / अत्र अध्वपर्यन्तः क्षणः / विंशं क्षणशतं तत्क्षणः / तत्क्षणाः षष्टिर्लवः / लवास्त्रिंशन्मुहूर्तः / नालिका घटिका / इति पुण्यबहुत्वं तृतीयं कारणम् //

ततो ऽथ खलु भगवानित्यादिना अक्षोभ्यस्य भगवतः सबुद्धक्षेत्रस्य सपरिषदः सन्दर्शनमन्तर्धायनं च दृष्टान्तः / अत्र सागरोपमत्वमतिविस्तीर्णत्वात् / गम्भीरत्वं ध्यानसम्पदा / अक्षोभ्यत्वं प्रज्ञासम्पदा / दार्ष्टान्तिके योजयितुमाह / एवमानन्द सर्वधर्मा इत्यादि / सर्वधर्मा हीत्यादिना युक्तिमाह / न कार्यसमर्था इति प्रतिज्ञान्तरम् / निरीहका हीत्यादिना युक्तिमाह / एवं चरन्त इत्यादिनानुशंसामाह / महाबोधिशब्दात् प्राक् / असङ्गतामिति निरुपल[म्भ]ताम् / अप्रतिहतज्ञानतां वा / प्रमाणं वैपुल्यनियमः / क्षयः कालनियमः / पर्यन्तः संख्यानियमः / प्रमाणबद्धेति प्रमाणपरिच्छिन्ना / अप्रमेयत्वादित्यनुपलम्भात् / क्षयो ऽपचयः / परिक्षयो ऽभावः / आकाशाक्षयत्वादिति आकाशवदक्षयत्वात् / कुत इत्याह सर्वधर्मानुत्पादत इति / अनुत्पन्ना सर्वधर्माः / अतस्तेषामनुपलम्भलक्षणा प्रज्ञापारमिताप्याकाशवदक्षयेति / अभिनिर्हर्तव्येति प्रत्यक्षीकर्तव्या / रूपादीनामक्षयत्वेनेति तेषामनुत्पादतः / एवमविद्यादीनाम् / इयं सेति या स्कन्धादीनामविद्यादीनां चाक्षयत्वेन / अन्तद्वयमुत्पत्तिविनाशौ मध्यमुत्पन्नस्य स्थितिः / आवेणिको ऽन्यैरसाधारणः / न च किञ्चिद्धर्ममिति स्कन्धैः संगृहीतम् / कुतः? प्रतीत्योत्पाददर्शनात् / नित्यमित्यनादिनिधनम् / ध्रुवमिति स्थिरम् / शाश्वतमित्यनिधनम् / कारकं वेदकं वेति / ईहतुर्गृहीतुश्चाभावात् / इत उत्तरो ग्रन्थः सुबोधः सम्यक्सम्बोधरिति यावत् / इयता क्षयानुत्पादज्ञानलक्षणा बोधिरुच्यते / अत्र शास्त्रम्-

[143] क्षयानुत्पादयोर्ज्ञाने मलानां बोधिरुच्यते / क्षयाभावादनुत्पादात्ते हि ज्ञेये यथाक्रमम् // 5-18 //

मलाः क्लेशविकल्पाः / तेषां ऽक्षयानुत्पादयोःऽ ये ऽज्ञाने ऽ सा बोधिः / ऽते ऽ च ज्ञाने तेषां ऽक्षयाभावादनुत्पादाच्च यथाक्रमंऽ वेदितव्ये / क्षयस्यात्यन्तमसत्तया ज्ञानं क्षयज्ञानम् / अनुत्पादस्यो(स्यानु)त्पत्तिकत्वेन ज्ञानमनुत्पादज्ञानमिति भावः / (rst_151) अथ बोधेर्लक्षणान्तरसम्भवेपि किमर्थमिदं लक्षणमुक्तम्? दर्शनमार्गेण क्षीणानां विकल्पानामक्षयतो ऽनुत्पादतश्च व्यवलोकनार्थम् / तदेवाह-

[144] प्रकृतावनिरुद्धायां दर्शनाख्येन वर्त्मना / विकल्पजातं किं क्षीणं किं वानुत्पत्तिमागतम् // 5-19 //

विकल्पानां प्रकृतिस्तथता / न कदाचित्तस्याः क्षय उत्पादो वा / जातिरेव ऽजातंऽ प्रकारः / ततो न कश्चिद्विकल्पप्रकारो दर्शनमार्गेण क्षीण उत्पादं वा त्याजित इति //

अन्ये त्वाहुः-

"क्षयज्ञानं तु सत्येषु परिज्ञातादिनिश्चयः / न पुनर्ज्ञेयमित्यादिरनुत्पादगतिर्मता" // इति //

ते हि शस्यन्ते- सन्ति स्कन्धाः सन्ति चत्वारि सत्यानि / तत्र संक्षेपतः क्लेशदुःखयोः क्षयः पुनरनुत्पादश्च प्राप्यते / ततोः प्राप्तयोर्ये ज्ञाने ते क्षयानुत्पादज्ञाने / प्राधान्येन तथागतानां तु ज्ञेयावरणमपि क्षीयते तेषामक्लिष्टस्याप्यज्ञानस्य क्षयादिति / तन्निरासाय शास्त्रम्-

[145] सत्ता च नाम धर्माणां ज्ञेये चावरणक्षयः / कथ्यते यत्परैः शास्तुरत्र विस्मीयते मया // 5-20 //

[146] नापनेयमतः किञ्चित् प्रक्षेप्तव्यं न किञ्चन / द्रष्टव्यं भूततो भूतं भूतदर्शी विमुच्यते // 5-21 //

ऽनामऽ शब्दो ऽमर्षे / ऽअत्र विस्मीयते मयाऽ इति विपक्षप्रतिपक्षयोरयोगादिति भावः / ऽअतःऽ कारणात् ऽनापनेयं किञ्चित्ऽ पुद्गलस्य धर्माणां च स्वयमभावात् / ऽप्रक्षेप्तव्यं न किञ्चनंऽ पुद्गलधर्मनैरात्म्ययोरनादिनिधनत्वात् / किं तर्हि? तदुभयं ऽभूतंऽ भूतत्वेन ऽद्रष्टव्यम्ऽ / यतो भूतं पुद्गलनैरात्म्यं दृष्ट्वा क्लेशावरणाद्विमुच्यते / भूतं धर्मनैरात्म्यं दृष्ट्वा ज्ञेयावरणाद् ऽविमुच्यते ऽ / तस्मादभूतानां पुद्गलधर्माणां दृष्टिर्विपक्षः / तेषां नैरात्म्यदर्शनं प्रतिपक्षः / उभयोस्तु नैरात्म्ययोर्भूतत्वं महारथैः क्षुण्णम् / तत इह नोच्यते //

तस्मात्तर्हीत्यादि / क्षयानुत्पादलक्षणा बोधिसतस्या अवश्यलभ्यता कारणत्रयं च प्रसङ्गादागतम् / प्राकृतं तु मायोपमसारपरिवर्ते निर्दिष्टं दर्शनहेयानां विकल्पानां प्रहाणम् / अतो यस्माद्दर्शनमार्गेण दर्शनहेयानां विकल्पानां प्रहाणं तस्माद्धेतोः / तर्हीति दर्शनकाले प्रज्ञापारमितायां दर्शनमार्गात्मिकायां चरितव्यम् //

तत्कस्य हेतोरिति / हेतुमुखेन दर्शनमार्गस्य लक्षणप्रश्नः / प्रज्ञापारमितायामिति / अत्रत्ये दर्शनमार्गे ध्यानपारमितेत्यत्र चार्थो गम्यते / तेनानुक्तसमुच्चयः / प्रज्ञापारमिता चेति / कुत इत्याह / प्रज्ञापारमितायां हीत्यादि / भावनापरिपूरिं षट्पारमिता गच्छन्तीति सम्बन्धः / सर्वा इति प्रत्येकं समग्राः सत्यः / एकैकया षण्णामपि संग्रहादिति भावः / अतश्च षडेव पारमिताषट्का दर्शनमार्गः / संक्षिप्ता चेयं भगवती / अतो लक्षणमात्रमस्यामुक्तम् / यथा त्वेकैकया सर्वसंग्रहस्तद्विस्तरेण महत्योर्भगवत्योरुक्तम् / अत्र शास्त्रम्-

[147] एकैकस्यैव दानादौ तेषां यः संग्रहो मिथः / स एकक्षणिकः क्षान्तिसंगृहीतो ऽत्र दृक्पथ // 5-22 //

एकैकमेव एकैकशः स्वार्थ शस् / तस्य भाव एकैकस्य / अव्ययत्वाद्धि लोपः / तेन ऽएकैकस्यैव दानादौऽ इति दानादिषु / ऽतेषांऽ दानादीनां ऽमिथःऽ अन्योन्यं ऽयः सङ्ग्रहःऽ / सो ऽस्मिन् मूर्धाभिसमये दर्शनमार्गः / स च ऽएकक्षणीकःऽ न तु षोडशक्षणाः(णः) / स च क्षान्त्या ऽसंगृहीतःऽ न पुनरष्टाभिः क्षान्तिभिरष्टाभिर्ज्ञानैः / इति मूर्धाभिसमये दर्शनमार्गः //

ततो भावनामार्गः / तमाह / सर्वाणि चेत्यादिना / उपायौ च कौशल्यं चेति उपत्यकौशल्यानि / तत्र निश्रयत्वादुपायौ सिंहविजृम्भितावस्कन्धकौ समाधी / कौशल्यं प्रतीत्यसमुत्पादस्यानुलोमं च व्यवलोकनम्- "अविद्याप्रत्ययाः संस्काराः संस्कारप्रत्ययं विज्ञानं यावज्जातिप्रत्यया जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासाः सम्भवन्तीत्यनुलोमम् / अविद्यानिरोधात्संस्कारनिरोधः / संस्कारनिरोधाद्विज्ञाननिरोधो यावज्जातिनिरोधाज्जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासा निरुध्यन्ते" इति प्रतिलोमम् /

तत्र सिंहविजृम्भितः समाधिः / तद्यथा- "प्रथमं ध्यानं समापद्यते / द्वितीयं तृतीयं चतुर्थम् / आकाशानन्त्यायतनं विज्ञानानन्त्यायतनं आकिञ्चन्यायतनं नैवसंज्ञानासंज्ञायतनं निरोधसमापत्तिं च समापद्यते / निरोधसमापत्तेर्व्युत्थितो नैवसंज्ञानसंज्ञायतनं समापद्यते / तत आकिञ्चन्यायतनं विज्ञानानन्त्यायतनं आकाशानन्त्यायतनं चतुर्थं ध्यानं तृतीयं द्वितीयं प्रथमं ध्यानं समापद्यत" इति /

अवस्कन्दकसमाधिः / तद्यथा- "प्रथमं ध्यानं समापद्यते द्वितीयं तृतीयं चतुर्थम् / आकाशानन्त्यायतनं विज्ञानानन्त्यायतनं आकिञ्चन्यायतनं नैवसंज्ञानासंज्ञायतनं (rst_153) निरोधसमापत्तिं च / ततो व्युत्थाय प्रथमं ध्यानम् / ततो निरोधम् / ततो द्वितियं ध्यानम् / ततो निरोधम् / ततस्तृतीयं ध्यानम् / ततो निरोधम् / ततश्चतुर्थ ध्यानम् / ततो निरोधम् / तत आकाशानन्त्यायतनम् / ततो निरोधम् / ततो विज्ञानानन्त्यायतनम् / ततो निरोधम् / तत आकिञ्चन्यायतनम् / ततो निरोधम् / नैवसंज्ञानासंज्ञायतनम् / ततो निरोधम् / ततो ऽसमाहितचित्ते पतति / ततो निरोधं समापद्यते / ततो ऽसमाहिते चित्ते तिष्ठति / ततो नैवसंज्ञानासंज्ञायतनम् / ततो ऽसमाहिते / तत आकिञ्चन्यायतनम् / ततो ऽसमाहिते / ततो विज्ञानानन्त्यायतनम् / ततो ऽसमाहिते / तत आकाशानन्त्यायतनम् / ततो ऽसमाहिते / ततश्चतुर्थं ध्यानम् / ततो ऽसमाहिते / ततस्तृतीयम् / ततो ऽसमाहिते / ततो द्वितीयम् / ततो ऽसमाहिते / ततः प्रथमम् / ततो ऽसमाहिते चित्ते तिष्ठति" इति /

तत्र प्रथमायां गतौ नव स्थानानि / द्वितीयायां सप्तदश / आगमने ऽष्टादश / अत्र शास्त्रम्-

[148] समाधिं [स] समापद्यः ततः सिंहविजृम्भितम् / अनुलोमं विलोमं च प्रतीत्योत्पादमीक्षते // 5-23 //

[149] कामाप्तमवधीकृत्य विज्ञानमसमाहितम् / सनिरोधाः समापत्तीर्गत्वागम्य न व द्विधा // 5-24 //

[150] एकद्वित्रिचतुष्पञ्चपट्सप्ताष्टव्यतिक्रमात् / अवस्कन्दसमापत्तिरानिरोधमतुल्यगा // 5-25 //

सिंहविजृम्भितो यथा सूत्रमेव / अवस्कन्दस्तु गहनम् / तेन तस्य लक्षणमाह / ऽअवस्कन्दसमापत्तिःऽ भवति / कथमित्याह / ऽनव समापत्तीर्द्विधा गत्वाऽ पश्चाद् ऽआगम्यऽ / आदौ कथं गत्वेत्यत आह ऽआनिरोधम्ऽ इति / निरोधसमापत्तिमन्ते कृत्वा / इतरा अष्टौ क्रमेण प्रागित्यर्थः / पुनः कथं गत्वेत्यत आह ऽएकद्वित्रिचतुष्पञ्चषट्सप्ताष्टव्यतिक्रमात्ऽ / ऽसनिरोधाःऽ कृत्वा / काः? इतरा अष्टौ ऽसमापत्तीःऽ / कामावचरं च ऽअसमाहितंऽ चित्तं ऽअवधीकृत्यऽ / अन्ते गन्तव्यं कृत्वेत्यर्थः / पश्चात् कथमागत्येत्यत आह ऽअतुल्यगाऽ इति / अतुल्यगा सती / असमाहितादसमाहितः / समाहिताच्च समाहितमगच्छन्तीत्यर्थः / इहापि ऽकामाप्तमवधीकृत्य विज्ञानमसमाहितंऽ इति सम्बध्यते / (rst_154) तेनेयसमाहिताच्चित्तात्प्रभृत्यागच्छति / अन्तेप्यसमाहित एव चित्ते गत्वा तिष्ठति / इति मूर्धाभिसमये भावनामार्गः //

सर्वाणि चोपायकौशल्यानि परिपूरिं गच्छन्तीत्युक्तम् / कथं च तेषां भावनापरिपूरिभवेत् / यदि भावनाहेयाश्चत्वारो विकल्पनवकाः क्षीयेरन् / तेषां च प्रतिपक्षा एव महत्योर्भगवत्योः पठ्यन्ते / ते तु सामर्थ्याद्गम्यन्ते / वयमपि तमेव पाठमभिसंक्षिप्य तान् वक्ष्यामः / तत्राद्यं विकल्पनवकमधिकृत्य शास्त्रम्-

[151] संक्षेपे विस्तरे बुद्धैः सानाथ्येनापरिग्रहे / त्रैकालिके गुणाभावे श्रेयसस्त्रिविधे पथि // 5-26 //

[152] एको ग्राह्यविकल्पो ऽयं प्रयोगाकारगोचरः /

ऽएकःऽ इति प्रथमः / ऽप्रयोगाकारगोचरःऽ इति प्रज्ञापारमिताप्रयोगविशेषः विषयः / ऽविस्तरे ऽ ऽसंक्षेपे ऽ चेति पठितव्यम् / वृत्तानुरोधात् त्वन्यथा पठितम् / विस्तरे सम्मोहो विस्तरविकल्पः / तस्य प्रतिपक्षः / बहुषु स्थानेषु बोधिसत्त्वेन शिक्षितव्यं दानादिषु यावद्वलेषु वैशारद्येष्विति //

संक्षेपे सम्मोहः संक्षेपविकल्पः / तस्य प्रतिपक्षः न च क्वचन् शिक्षितव्यमिति / बहुनामपि तेषां न च क्वचनेति शून्यतैकरसत्वात् / सम्बुद्धैःऽसानाथ्येनऽ यः परिग्रहः / तदभावे विकल्पः कल्पना / तस्य प्रतिपक्षः / यः प्रज्ञापारमितायां शिक्षित्वा दानपारमितां यावत्सर्वाकारज्ञतामनुप्राप्स्यति / तेनैवं ज्ञातव्यं- दशदिक्सर्वबुद्धैः सानाथ्येनाहं परिगृहीतः स्वस्यां मातरि तेषां कृतज्ञतयेति //

ऽगुणाभावो ऽ ऽनुशंसाभावः / प्रयोगदर्शनभावानाकालभावितत्वात् ऽत्रैकालिकःऽ / तस्मिंस्त्रयो विकल्पास्त्रिस्रः कल्पनाः / तेषां प्रतिपक्षाः / अनुशंसान् विस्तरेणोक्त्वा यथाह- ऽइतीमे ऽनुशंसाः प्रज्ञापारमितायां चरतः प्रज्ञापारमितामभिनिर्हरतः प्रज्ञापारमितां भावयतः /" इति यथाक्रमं प्रयोगदर्शनभावनामार्गकालिकगुणाभावे त्रयो विकल्पाः /

ऽश्रेयसः पथिऽ इति निर्वाणमार्गे / प्रयोगादिभेदात् त्रिविधा सम्मोहास्त्रयो विकल्पाः / तेषां प्रतिपक्षा यथाक्रमं- "रूपवेदनादीनां शान्तवशिकतुच्छासारकतया तस्यां चरितव्यम् / (rst_155) आकाशशून्यताभिनिर्हारतयाभिनिर्हर्तव्या / आकाशशून्यता भावनयेयं भावयितव्या" इति / इति त्रयः प्रयोगादिबोधिमार्गसंमोहविकल्पाः //

इत्युक्तो नवविधः प्रथमो ग्राह्यविकल्पः //

द्वितीयं विकल्पनवकमधिकृत्य शास्त्रम्- द्वितीयश्चित्तचैत्तानां प्रवृत्तिविषयो मतः // 5-27 // [153] अनुत्पादस्तु चित्तस्य बोधिमण्डामनस्क्रिया / हीनयानमनस्कारौ सम्बोधेरमनस्कृतिः // 5-28 //

[154] भावने ऽभावने चैव तद्विपर्यय एव च / अयथार्थश्च विज्ञेयो विकल्पो भावनापथे // 5-29 //

द्वितीयो ग्राह्यविकल्पश्चित्तचैत्तानां या प्रवृत्तिस्तद्विषयः / कियच्चिरं चरन्नस्यां चीर्णो भवतीति प्रश्नः / उत्तरम् / प्रथमचित्तोत्पादमुपादायेति चित्तोत्पादविकल्पः //

यावब्दोधिमण्डल मनसिकरोति / कथमियं चरितव्याभिनिर्हर्तव्या भावयितव्येति / आबोधिमण्डा मनसिकारविकल्पः //

हीनयानमनसिकाराणां चावकाशं न ददातीति हीनयानयोर्मनसिकारविकल्पौ //

सर्वाकारज्ञता मानसिकाराविप्रणाश एव चास्यां चर्या / तथा चरितव्यं यथा चित्तचैतसिका न प्रवर्तन्त इति संबोध्यमनसिकारविकल्पः //

किं भावयन् सर्वाकारज्ञतामनुप्राप्स्यति नेति भावनाविकल्पः //

अभावयंस्तामनुप्राप्स्यति नेति [अ]भावनाविकल्पः //

नेति भावयन्नाभावयन्ननुप्राप्स्यति / नेति नैव भावनानाभावनाविकल्पः //

तत्कथं तामनुप्राप्स्यति यथा तथता भूतकोटीर्धर्मधातुरित्ययथात्वविकल्पः //

इति द्वितीयो ग्राह्यविकल्पः //

तृतीयं विकल्पनवकमधिकृत्य शास्त्रम्-

[155] ग्राहकः प्रथमो ज्ञेयः सत्त्वप्रज्ञप्तिगोचरः / धर्मप्रज्ञप्त्यशून्यत्वे शक्तिप्रविचयात्मकः // 5-30 //

[156] कृतेन वस्तुनो यानत्रितये च स कीर्तितः / दक्षिणाया अशुद्धौ च चर्यायाश्च विकोपने // 5-31 //

अप्रज्ञपनीयाः सत्त्वाः अनुपलम्भादिति सत्त्वप्रज्ञप्तिविकल्पः //

अप्रज्ञपनीयाः सर्वधर्मा इति धर्मप्रज्ञप्तिविकल्पः //

अलक्षणशून्यान् सर्वधर्मान् पश्यतीत्यशून्यत्वविकल्पः //

धर्माश्च धर्मानुपलम्भश्च यश्चाभ्यां चरति सोपि नोपलभ्यत इति शक्तिविकल्पः //

धर्माणां प्रविचयः कर्तव्यः / स चानुपलम्भयोगेनेति प्रविचयात्मको विकल्पः //

न च वस्तुनः कृते सो ऽस्यां चरति / यतो ऽकृताविकृतानभिसंस्कृता सर्वधर्मा इति वस्तूद्देशविकल्पः //

यद्यप्यकृताविकृतानभिसंस्कृताः सर्वधर्मास्तथापि यथा कश्चित्तथागतनिर्मितो ऽभिसंबुध्य धर्मचक्रं प्रवर्त्य त्रिभिर्यानैः सत्त्वान् परिमोचयति लोकव्यवहारेण न परमार्थेन तथैव च तथागतोपीति यानत्रयविकल्पः //

यद्यपि तथागतो निर्मितान्न विशिष्यते तथापि दक्षिणापरिशुद्धिः / यथा हि तथागते प्रतिष्ठापिता दक्षिणा आनिरुपधिशेषान्निर्वाणान्न क्षीयते तथाः निर्मितेपि / तथा तथागतायाकाशे पुष्पाणि क्षिपतस्तथा नमो बुद्धायेति ब्रुवतो मनसि कुर्वतो वा संज्ञां च प्रमाणीकृत्य या हि धर्मता तथागतस्य सैव विनिर्मितस्यापीति दक्षिणापरिशुद्धिविकल्पः //

चर्या पारमितादिः / तस्या विकोपनं भेदनम् / कुतः? धर्मतातः / दानपारमिताया यावत् प्रज्ञापारमिताया वा / एवं यावत्सर्वधर्माणां धर्मतेति / कथं तर्हि भगवता धर्मा विकोपिताः? नामनिर्मिता हि ते धर्मा निर्दिष्टा धर्माणां सूचनाय / कथं परो ऽवतरेदिति / न तु धर्माणां धर्मता विकोपितेति चर्याविकोपनविकल्पः //

चतुर्थं विकल्पनवकमधिकृत्य शास्त्रम्

[157] सत्त्वप्रज्ञप्तितद्धेतुविषयो नवधापरः / भावनामार्गसम्बद्धो विपक्षस्तद्विघाततः // 5-32 //

[158] सर्वज्ञतानां तिसृणां यथास्वं त्रिविधाबृत्तौ / शान्तिमार्गे तथतादिसम्प्रयोगवियोगयोः // 5-33 //

[159] असमत्वे च दुःखादौ क्लेशानां प्रकृतावपि / द्वयाभावे च सम्मोहे विकल्पः पश्चिमो मतः // 5-34 //

यैराकारैर्लिङ्गैर्निमित्तैर्धर्माः सूच्यन्ते तानि तथागतेनानुबुद्धानि / तेनोच्यते तथागतस्य सर्वाकारज्ञतेति सर्वाकारज्ञतासम्मोहविकल्पः //

यौ च श्रावकप्रत्येकबुद्धमार्गौ ये च बोधिमार्गास्ते सर्वे बोधिसत्त्वेन परिपूरयितव्याः / तैश्च मार्गकरणीयं कर्तव्यम् / न च भूतकोटिः साक्षात्कर्तव्यापरिपूर्य प्रणिधानमपरिमुच्य सत्त्वानपरिशोध्य बुद्धक्षेत्रं तेनोच्यते बोधिसत्त्वस्य मार्गज्ञतेति मार्गज्ञतासम्मोहविकल्पः //

एतावदेव सर्वं यदाध्यात्मिकबाह्या धर्माः / ते च श्रावकप्रत्येकबुद्धानां सर्वज्ञतेति सर्वज्ञतासम्मोहविकल्पः //

सर्वधर्माणां पारं निर्वाणं गता सर्वार्था वा गतानयेति प्रज्ञापारमिता / सर्वधर्माणां वा पारं परमो ऽर्थो ऽभिन्नं तत्त्वं सो ऽस्यां तथागतैर्दुष्टः / अपि चास्यां तथता भूतकोटिर्धर्मधातुरन्तर्गतस्तेनोच्यते प्रज्ञापारमितेति शान्तिमार्गसम्मोहविकल्पः //

नेयं तथतादिभिः संयुक्ता न विसंयुक्ता / तथाहीयमरूपानिदर्शनाप्रतिघा, एकलक्षणा यदुतालक्षणात्वादिति तथतादिसंयोगवियोगविकल्पः //

नेयं कैश्चिदाच्छेत्तुं(?) शक्यते / तस्मादसाधारणीकृत्य समत्वसम्मोहविकल्पः //

अस्यां चरता दुःखसमुदयनिरोधमार्गाद्यर्थेषु चरितव्यमिति दुःखादिसम्मोहविकल्पः //

रागादयो नार्थो नानर्थ इति प्रकृतिसम्मोहविकल्पः //

यथा न द्वयो नाद्वयो धर्म उपलभ्यते तथा नद्वयं नाद्वयं धर्ममनुप्राप्नोतीति द्वयाभावसम्मोहविकल्पः //

इत्युक्ताः षट्त्रिंशभ्दावनाहेयाः विकल्पाः //

एवं तावभ्दवतु दोषाणां क्षयो गुणानां पुनः कथमुदय इत्यत आह-

[160] आसां क्षये सतीतीनां चिरायोच्छ्वसिता इव / सर्वाकारजगत्सौख्यसाधना गुणसम्पदः // 5-35 //

[161] सर्वाः सर्वाभिसारेण निकामफलशालिनम् / भजन्ते तं महासत्त्वं महोदधिमिवापगाः // 5-36 //

प्रकृतिसिद्धा गुणाः केवलमाक्रान्ता [अ]गुणैराशान् चिरेण / दोषक्षयात् प्रशता (? प्रकटा?) इ(ए)व तं बोधिसत्त्वं भजन्ते सर्वदोषप्रहाणशालिनम् / ऽअभिसारःऽ संदोहः / शेषं गतार्थम् //

तस्येत्यादि विवर्जयिष्यतीनि यावत् / इति भावनामार्गस्यानुशंसः //

आनन्तर्यसमाधिर्वक्तव्यः / तमधिकृत्य शास्त्रम्-

[162] त्रिसाहस्रजनं शिष्यखड्गाधिगसम्पदि / बोधिसत्त्वस्य च न्यामे प्रतिष्ठाप्य शुभोपमाः // 5-37 //

[163] कृत्वा पुण्यबहुत्वेन बुद्धत्वाप्तेरनन्तरः / आनन्तर्यसमाधिः स सर्वाकारज्ञता च तत् // 5-38 //

अन्तरयितुं शक्तो ऽन्तर्यः / न तथा अनन्तर्यः स्वार्थऽण् / आनन्तर्यः समाधिः स उक्तः सूत्रे / कथमानन्तर्यः? यथा ऽबुद्धत्वाप्तेरनन्तरःऽ / अव्यवहितौ हेतुः कथमुक्तः? ऽपुण्यबहुत्वेनऽ / तदपि कथमुक्तम्? शुभं पुण्यं तदेवोपमा / तां कृत्वा / कथं तच्छुभम्? त्रिसाहस्रजनं त्रिसाहस्रलोकधातवीर्या(या)न् सत्त्वान् ऽप्रतिष्ठाप्यऽ / क्व? ऽशिष्यखड्गाधिगमसम्पदि बोधिसत्त्वनियामे च / ऽ शिष्याः श्रावकाः खड्गाः प्रत्येकबुद्धास्तेषाम् / अर्थाद्गम्यते बोधिसत्त्वस्य च प्राङ्नियामावक्रान्तेरधिगमसम्पत्तौ बोधिसत्त्वनियामे च / क्व पुनरेवमुक्तं पुण्यबहुत्वम्? महत्योर्भगवत्यो / अस्यां कथमुक्तम्? औपलम्भिकबोधिसत्त्वोयां (त्त्वस्य) गंगानदीवालुकोपमकल्पकृताद्दानमयात्पुण्यादेनं समाधिमन्तशो ऽच्छटासंघातमात्रमपि समापद्यमानस्य बहुतरपुण्यत्वेन / एतत्कारिकायां कथमुक्तम्? विनापि तेन चार्थगतेश्चकारस्यानुक्तसमुच्चयार्थत्वात् / ऽसर्वाकारज्ञता च तत्ऽ इति / तच्च बुद्धत्वं सर्वाकारज्ञतालक्षणम् //

[164] आलम्बनमभावोस्याः (स्य) स्मृतिश्चाधिपतिर्मतः / आकारः शान्तता चा [त्र]

आनन्तर्यसमाधेः ऽआलम्बनमभावःऽ सर्वधर्माणां स्मृतिरधिपतिप्रत्ययः / ऽआकारः शान्तताऽ सर्वधर्माकारास्तगमः / ऽअत्रऽ सर्वाकारज्ञतायाम्- जल्पाजल्पिप्रवादिनाम् // 5-39 // वादिनां जल्पैश्च जल्पैश्च प्रहृत्य युद्धं वृत्तं ऽजल्पाजल्पिऽ / यथा दण्डादण्डि / अतः सूत्रम् / सर्वोपायकौशल्यानि परिग्रहीतुकामेनेत्यादि / (rst_159) उपेयत इत्युपायः सर्वाकारज्ञता / तस्मिं कौशल्यानि विप्रतिपत्तीनामपोहनानि / तानि लब्धुकामेन प्रज्ञापारमितायामिति / आनन्तर्यसमाधिलक्षणायाम् / चरितव्यं प्रयोगतो निर्हारतश्च / निर्हृत्य भावयितव्या / भावितायां तस्यामनन्तरमेव सर्वाकारज्ञतालाभे सर्वविप्रतिपत्तीनां क्षयादिति भावः / अभिनिर्हरतीति यथालम्बनं यथाधिपति यथाकारं च संमुखीकरोति / अभिनिर्हर्तव्या इति स्वरसवाहिनः कर्तव्याः / अत्ययेनेति / अत्ययो ऽवधिः / अभव्यश्चेत्यादिना तथागतसमन्वाहृतस्यानुशंसमाह नन्त्वानन्तर्यसमाधिसमापन्नस्य / न हि तस्य भूयो दुर्गतिः सुगतिर्वा / अनन्तरमेव बोधिप्राप्तैः / शेषं सुगममापरिवर्तसमाप्तेः /

विप्रतिपत्तीरधिकृत्य शास्त्रम्-

[165] आलम्बनोपपत्तौ च तत्स्वभावावधारणे / सर्वाकारज्ञताज्ञाने परमार्थे ससंवृतौ // 5-40 //

[166] प्रयोगे त्रिषु रत्नेषु सोपाये समये मुनेः / विपर्यासे समार्गे च प्रतिपक्षविपक्षयोः // 5-41 //

[167] लक्षणे भावनायां च मता विप्रतिपत्तयः / सर्वाकारज्ञताधाराः षोढा दश च वादिनाम् // 5-42 //

ऽषोढा दशऽ चेति षट्दश च षोडशेत्यर्थः / कुतः षोडश? यतस्ताः षोडशस्वर्थेषु आलम्बनोपपत्त्यादिषु / कथं तर्हि ऽसर्वाकारज्ञताधाराःऽ आलम्बनादिस्तासां विषयः? विषयसम्बन्धात्तु सर्वाकारज्ञतायां विषयत्वोपचारः / तद्यथा राजपुत्रे ऽपराद्धो राजन्यपराद्धो भवति / विप्रतिपत्तयोपि प्रायेण प्रतिपक्षपाठादुन्नेतव्याः /

तत्राद्या विप्रतिपत्तिः / यदि सर्वाकारज्ञताया अभाव आलम्बनं स तर्हि कतमः? यदि धर्माणां परिकल्पितः स्वभावस्तदेवं भ्रान्तिः स्याद्वालविज्ञानवत् / अथ परतन्त्रः स कथमभावः? अत्र परिहारः / यस्य स्वभावो नास्ति सो ऽभावः / नास्ति सांयोगिकः स्वभावो धर्माणां स्वयमभावात् / अपि च तथता स्वभावो धर्माणां सा चाभाव इत्यालम्बनोपपत्तौ विप्रतिपत्तिः //

यद्यभावाः सर्वधर्माः केनोपायकौशल्येनादिकर्मिको दानादिषु चरति? देयदायकदानादीनामभावस्वभावावधारणमेव तस्योपायकौशल्यमिति तत्स्वभावावधारणे विप्रतिपत्तिः //

दृष्टसत्यस्य तर्हि किमुपायकौशल्यम्? स आर्येण चक्षुषा धर्मान् व्यवलोकयन् भावमपि परतन्त्रं स्वभावं नोपलभते / संयोगिकेन स्वभावेन परिकल्पितेन वा तस्याप्यभावात् / किं पुनरभावं परिकल्पितं स्वभावं, तस्यात्यन्तमसत्त्वात् / स दानादौ चरन् देयदायकदानादीन् प्रत्येकमभाव इति संजानीते / भावाभावानुपलम्भे कथमभावं संजानीते? संवृत्या न तु परमार्थेन / इह दानादयः सर्वे मार्गप्रकाराः सर्वाकाराः / तेषु ज्ञाता(तो) भावाभावानुपलम्भः / ततो ज्ञानं कोटिष्वभावसंज्ञेति सर्वाकारज्ञताज्ञाने विप्रतिपत्तिः //

या संवृतिः स एव परमार्थः / एत एकैव तयोस्तथता / अपि तु स्कन्धेषु भावसंज्ञिनां तत्परिहारार्थमभाव इति संवृत्या निर्दिश्यते ऽभावसंज्ञिनां भाव इति / परमार्थतो न भाव उपलभ्यते नाप्यभाव इति सत्यद्वये विप्रतिपत्तिः //

प्रयोगश्चर्या / कथं चर्या? शून्याः सर्वधर्मा इति / सर्वासु च शून्यतासु दानादौ च सर्व त्रकोटित्रयानुपलम्भेनेति प्रयोगे विप्रतिपत्तिः //

बुद्ध इति कर्मणि निष्ठा / ततो ज्ञातः सर्वो बुद्धः स्यात् / अथ बुद्धवानिति बुद्धः केन कर्तरि क्तः? सर्वश्च चेतनो बुद्धः स्यात् / अत्रोत्तरम् / भूतार्थ इति बुद्धः / भूता न्य(य)स्य धर्मा अभिसंबुद्धा इति वा / भूतो अस्यार्थः प्रतिविद्ध इति वा / अभिसंबुद्धा यथावत् सर्वधर्मा अस्येति वा / चतुर्ष्वपि पक्षेषु बहुव्रीहौ कृते नैरुक्तविधिः कर्तव्यः / भूतार्थ इत्यर्थो ज्ञेयः / तत्सम्बन्धाद्वोधः / समासार्थः- भूतमेवार्थो यस्य बोधस्य स बुद्धः / अन्येषामवश्यं क्वचिद्भ्रान्तेः / भूतार्थः कथं बुद्धः? भूतस्य बुभ्दावो अर्थस्य सत्त्वं इति भावः / भूता अस्य धर्मा अभिसम्बुद्धा इति भूताः / भूतैरर्थैः पुरुषस्य सम्बन्धो ज्ञानकृत एव / इह तु प्रकर्षगतेरभिसम्बोधः कृत इति प्रदर्शनार्थमभिसम्बुद्धग्रहणम् / अस्येति समासार्थः / समासस्तु द्वयोरेव पदयोः / तत्र भुतशब्दस्य बुभ्दावो ध्रमस्य द्वितीयाक्षरलोपः / भूतो ऽस्यार्थः प्रतिविद्ध इति / प्रतिविद्धः प्रत्यक्षार्थः / त्रिपदो बहुव्रीहिः / द्धशब्दात्पूर्वस्य शब्दस्य चुरादेशः / अभिसम्बुद्धा यथावत्सर्वधर्मा अस्येति / मतिबुद्धिपूजार्थेभ्यश्चेति वर्तमाने क्तः / क्तस्य च वर्तमान इति (rst_161) कर्तरि षष्ठी / अत्राद्यस्य पदस्य बुशब्दः / अथ द्वितीयस्य तकारः / तृतीयस्य धशब्द इति बुद्धरत्ने विप्रतिपत्तिः //

अथ धर्मरत्नं कतमत्? बोधिः / सर्वधर्मोत्कृष्टत्वात् / तत्र यदि धर्मता धर्मात्पृथगेव गण्यते, ऽद्वयमिदं धर्मधर्मतासंग्रहात्ऽ इति वचनात्, तदा ताथागतं ज्ञानं बोधिः / इणजादिभ्य इति बुधेर्भाव इण / अथ धर्मतापि धर्माधर्मप्रकृतित्वात् / तदास्यैव धर्मरत्नं भूतकोटित्वात् तत्त्वशिखरत्वादित्यर्थः / तदा च कर्मणि बुधेरिण / उभयथापि बुद्धिस्ताथागते ज्ञाने प्रवर्तते प्रकर्षगतेः / तत्र धर्मतापक्षमधिकृत्याह / "बोधिः शून्यता तथता भूतकोटिर्धर्मता धर्मधातुः" इति / तत्र शून्यता लक्षणतः / तथता निर्विकारत्वात् / भूतकोटिस्तत्त्वशिखरत्वात् / धर्मता धर्मप्रकृतित्वात् / धर्मधातुरार्यधर्माणां हेतुत्वात् / पुनराह / "नामधेयमात्रमेतत् बोधिरिति" इति / इतिशब्दो भिन्नक्रमः / नामधेयमात्रमेतदिति यो ऽर्थः सो ऽर्थो बोधिरित्यर्थः / नामधेयानामर्थशून्यता बोधिरिति यावत् / पुनराह / "अभेदार्थो बोध्यर्थः" इति / सर्वज्ञज्ञानतथतामात्रप्रख्यानात् / ज्ञानपक्षमधिकृत्याह / "बोधिस्तथतावितथतानन्यतथतानन्यथाभावो बोधेः" इति / तत्र बोधेस्तथतेति बोधस्य तथता / तथैव बोधरूपेणैव भावो नालीकेन रूपेण / अवितथतेत्यभ्रान्तता / अनन्यतथतेति बोधादन्यो ऽलीकस्तस्य तथता बोधरूपता / असता तेन रूपेण बोधस्यैव प्रख्यानात् / तद्विरहो ऽनन्यतथता / अनन्यथीभाव इति / बोधस्य प्रकृतिः स्वेनात्मना प्रकाशः / तस्यान्यथीभावो ऽलीकेनात्मना प्रकाशः / तद्विरहो ऽनन्यथीभावः / सर्वविभ्रमविवेको ज्ञानस्य बोधिरित्यर्थः / पुनराह / "नामनिमित्तमात्रमेतद्वोधिरिति" इति /

इतिशब्दो भिन्नक्रमः / नामनिमित्तमात्रमेतदिति यो बोधः सा बोधिरित्यर्थः / प्रयोग एष बोधेर्बोधिं सूचयति / न त्वयं बोधिरविकल्पत्वात्तस्याः / तत्र नामेत्यरूपिणः स्कन्धाः / तेषामलीको ऽर्थसदृश आकारो निमित्तम् / पुनराह / "बुद्धानां बोधस्तस्मद्वोधिः" इति / प्रकर्षगतेरिति भावः / पुनराह "बुद्धैरभिसम्बुद्धा तस्माद्वोधिः" इति / अर्थः प्रधानमस्मिन्वचने न शब्दः / बुद्धानामधिगतस्तस्माद्वोधिरित्यर्थः / षष्ठीसमासे कृते पूर्वपदस्य बोभावः / उत्तरपदस्य धिशब्दः शेषः / उमाशब्दवन्नियोग इति धर्मरत्ने विप्रतिपत्तिः //

संहतत्वात् संघः / अभेद्यो ऽच्छेद्य इत्यर्थः / कस्मादभेद्यः / केन वा / सम्यक्सम्बोधेरभेद्यः / सदेवकेन समारकेन लोकेन हीनबोधेराहारकैर्धर्मैरकुशलैश्चेति संघरत्ने विप्रतिपत्तिः //

ऽसोपाये समये मुनेः इति कारिकापाठे उपायकौशलमुपाय उक्तः / विषयेण विषयिणो निर्देशात् / अभिसमयः समयः इत्युक्तः / अयो बोधः / स(सं)शब्दः संमुखार्थः / मिथ्याज्ञानमज्ञानमेवेति भावः / मुनेरिति भावप्रधानम् / बुद्धत्वस्येत्यर्थः / उपायकौशल्यं बोधेरभिसमयं चेति समुदायार्थः / "अविरहितसर्वज्ञताचित्तो दानादिषु चरति कोटीत्रयानुपलम्भेन / न च दानादीनां विपाकमात्मनि स्पृहयति / किन्तु सर्वसत्त्वपरिमोचनाय सम्यक्सम्बोधौ परिणामयति" इत्यादिकमुपायकौशल्यं विस्तरेणेत्युपायकौशल्ये विप्रतिपत्तिः //

अस्त्यभिसमयो निःप्रपञ्चेत्यत्र न भावो नाभाव इत्यभिसमये विप्रतिपत्तिः //

सूत्रे प्रपञ्चशब्दः पठ्यते / शास्त्रे विपर्यासशब्दः / उभयोरेकार्थत्वात् / रूपं नित्यमनित्यं रूपं सुखं दुःखं रूपमात्मानात्मेत्यादयो विपर्यासस्यातिबहवः / संक्षेपतो यावान्विकल्पः स सर्वः प्रपञ्चः / अप्रपञ्चान्न प्रपञ्चयतीति प्रतिपक्षः / अप्रपञ्चो धर्मधातुर्निर्विकल्पत्वात् / तन्न प्रपञ्चयतीति न विकल्पयतीति विपर्यासे विप्रतिपत्तिः //

इह बोधिसत्त्वेन दुर्गतिमार्गा ज्ञातव्याः सहेतुफलैस्तेभ्यश्च सत्त्वा निवारयितव्याः / एवं नरकिनन्नरगरुडगन्धर्वादिमार्गाः / एवं चातुर्महाराजिकानां त्रायस्त्रिंशानां यावन्नैवसंज्ञानासंज्ञायतनानाम् / एवं श्रोतआपन्नमार्गो यावदर्हन्मार्गः प्रत्येकबुद्धमार्गो बोधिसत्त्वमार्गो बुद्धमार्गश्च ज्ञातव्यः सहेतुः सफलः / ये च यस्मिन् पले व्यवस्थापनीयास्तांस्तेषु व्यवस्थापयति यावबुद्द्धत्वे / स्वयं तु हीनयानभूमीः सर्वा (र्व?) ज्ञानेन चातिक्रम्य बोधिसत्त्वयानमवक्रामतीति मार्गे विप्रतिपत्तिः //

इह सर्व एवार्यपुद्गलाः क्लेशोपक्लेशैः कामरूपारूप्यधातुभिर्बोधिपक्षैः पारमितादिभिस्तत्फलैश्च सर्वार्यधर्मेर्न संयुक्त्वा न विसंयुक्त्वा अरूपिणो ऽनिदर्शना एकलक्षणा यदुतालक्षणाः / य एवं न जानन्ति तान् प्रति संवृस्या निर्दिश्यते बोधिपक्षा धर्मा बोधेराहारका बोध्यावरणानामपहारका इति विपक्षप्रतिपक्षयोर्विप्रतिपत्तिः //

विस्तरेण भगवता धर्माणां लक्षणं देशितं सत्त्वानामवतारणाय संवृत्या परमार्थतस्तेन लक्षणे शिक्षितव्यं नालक्षणे / यतः स्थित एवैष नित्यं लक्षणधातुरिति लक्षणे विप्रतिपत्तिः //

यद्यलक्षणाः पारमितादयो धर्माः कथमलक्षणानां तेषां भावना भवति? "नास्ति सुभूते ऽभावस्वभावेषु धर्मेषु भावसंज्ञिनः प्रज्ञापारमिता भावनाविपर्यासात् / अपि तु सर्वासां धर्मसंज्ञानां भावनाविभावने प्रज्ञापारमिता / एवं यावन्नास्ति भावसंज्ञिनो दानपारमिता भावना / एषोहमस्मै इदं ददामीत्येवं संज्ञिनः / " एवं बोधिपक्षादिषु वक्तव्यम् / दृष्टसत्यास्तु धर्माणां केवलमभावस्वभावतां भावयन्ति न भावसंज्ञया नान्यभावसंज्ञया / संज्ञा हि प्रपञ्चः प्रज्ञापारमिता तु निःप्रपञ्चेति भावनायां विप्रतिपत्तिः /

अवकीर्णकुसुमनामानो बोधिसत्त्वा इह परिवर्ते बोधौ व्याकृताः / अतस्तैरुपलक्षितः परिवर्तस्तत्परिवर्तः //

आर्याष्टसाहस्रिकायाः प्रज्ञापारमितायाः सारतमानाम्नि पञ्जिकायां रत्नाकरशान्तिविरचितायामष्टविंशतितमः परिवर्तः //

29. अनुगमपरिवर्तो नामैकोनत्रिंशत्तमः /

अनुपूर्वाभिसमय इदानीं वक्तव्यः / तमधिकृत्य शास्त्रम्-

[168] दानेन प्रज्ञया यावद्बुद्धादौ स्मृतिभिश्च सा / धर्माभावस्वभावेनेत्यनुपूर्वक्रिया मता // 6-1 //

ऽअनुपूर्विक्रियाऽ अनुपूर्वशिक्षा अनुपूर्वप्रतिपद्या पूर्वमुद्दिष्टा संप्रति निर्देष्टव्या / सा ऽमताऽ इष्टा / कथमित्याह / दानेनेत्यादि / ऽदानेनऽ इति दानपारमितया / ऽप्रज्ञया यावद्ऽ इति प्रज्ञापारमितया / यावद्ग्रहणाच्छीलपारमितया क्षान्तिपारमितया वीर्यपारमितया ध्यानपारमितया च / ऽबुद्धादौ स्मृतिभिश्चऽ इति बुद्धादिविषयाभिरनुस्मृतिभिः / चकारो भिन्नक्रमः / ऽधर्माभावस्वभावेनऽ चेति भावप्रधानो निर्देशः / धर्माणामभावस्वभावत्वेन चेत्यर्थः / ऽइतिऽ एवं ऽसा मताऽ /

अतः सूत्रं पुनरपरमित्यादि / एवमिति वक्ष्यमाणेन वाक्यत्रयेण / प्रज्ञापारमितेत्युनुपूर्वक्रिया / अनुगन्तव्येति वेदितव्या / कथमित्याह / सर्वधर्मासङ्गतः प्रज्ञापारमितानुगन्तव्या / सर्वधर्मासम्भेदतः प्रज्ञापारमितानुगन्तव्या / सर्वधर्मासम्भवतः प्रज्ञापारमितानुगन्तव्येति / तत्रादौ सर्वधर्माः (rst_164) षट्पारमिताः / तासामेव बोधिमार्गत्वात् / धर्मशब्दस्य चेह मार्गवाचित्वात् / सर्वधर्माणामसङ्गता निःसङ्गता निर्विघ्नता / बोधिसत्त्वैरनुक्रमकरणीयेषु प्रथमचित्तोत्पादादिषु सत्त्वपरिमोचनान्तेषु तया(था?)सानुगन्तव्या / तद्यथा- "प्रथमचित्तोत्पादमुपादाय दानपारमितायां चरन्नात्मना च दानं ददाति परांश्च दानपारमितायां प्रतिष्ठापयति दानस्य च वर्ण भाषते / ये चान्ये दानपारमितायां चरन्ति तेषां च वर्णवादी भवति समनुज्ञः / स तेन दानेन महान्तं भोगस्कन्ध प्रतिलभ्य दानं ददाति विगतमत्सरेण चित्तेन अन्नं पानं वस्त्रं विलेपनं शयनमुपाश्रयमन्यद्वा परिष्कारोपकरणं ददाति तदर्थिनाम् / स तेन दानेन सत्त्वान् शीले समाधौ प्रज्ञायां विमुक्तौ विमुक्तिज्ञानदर्शने च प्रतिष्ठापयति / स तैरेव शीलादिस्कन्धैः समन्वागतः श्रावकादिभूमिमतिक्रामति बोधिसत्त्वानियाममवक्रामति बुद्धक्षेत्रं परिशोधयति सत्त्वान् परिपाचयति सर्वाकारज्ञतामनुप्राप्नोति धर्मचक्रं प्रवर्तयति / सत्त्वांस्त्रिषु यानेषु प्रतिष्ठाप्य संसारात्प्रतिमोचयति / एवं खलु दानेनानुपूर्वक्रिया / तां च सर्वान्नोपलभते / तथा ह्यस्याः स्वभावो नास्ति / यस्य च स्वभावो नास्ति सो ऽभाव इति दानपारमितयानुपूर्वक्रिया / एवं शीलादिभिरपि" इति षड्भिः पारमिताभिः षडनुपूर्वक्रियाः //

सर्वधर्मासम्भेदतः प्रज्ञापारमितानुगन्तव्येति / सर्वधर्माः षडनुस्मृतयः / ताः कथं धर्माः? चित्तधारणात् / अपि च पुण्यमपि लोके धर्म उच्यते / ताश्च भावनामयं पुण्यम् / सर्वधर्माणामसंभेदतो ऽभिन्नता समता / अभावस्वभावत्वात् / तयानुगन्तव्येति पूर्ववत् / तथाहि- "बोधिसत्त्वः प्रथमचित्तोत्पादमुपादाय सर्वाकारज्ञताप्रतिसंयुक्तैर्मनसिकारैरभावस्वभावान्सर्वधर्मानधिमुच्य षडनुस्मृतीर्भावयति / ताः स्वयं च भावयति परांश्च तासु प्रतिष्ठापयति तासां च वर्ण भाषते / ये चान्ये तासु चरन्ति तेषां वर्णवादि भवति समनुज्ञः / स तास्तथा भावयन्नभावस्वभावयोगेन सप्तत्रिंशतं(तः) बोधिपक्षान् यावत्सर्वाकारज्ञतां परिपुरयति / सो ऽभावस्वभावेनैव सर्वधर्मानभिसंबुध्य धर्मचक्रं प्रवर्त्य यावत्सर्वसत्त्वान् परिमोचयति / तत्र बुद्धं भगवन्तं न रूपादिस्कन्धैर्न लक्षणानुव्यञ्जनैर्न शीलादिस्कन्धैर्न दशबलवैशारद्यप्रतिसंविभ्दिर्न महाकरुणया न महामैत्र्या नाष्टादशभिरावेणिकैर्नापि प्रतीत्यसमुत्पादतो मानसिकरोति / तत्कुतः? अभावस्वभावत्वात्तेषामित्यनुस्मृतिरमनसिकारो बुद्धानुस्मृतिः /

स प्रज्ञापारमितायां चरन्न कुशला[कु]शलान् धर्मान् मनसिकरोति / तेषामभावस्वभावत्वादित्यमनसिकारो धर्मानुस्मृतिः /

योसौ भगवतः स्रावकसंघश्चत्वारः पुरुषयुगा अष्टौ महापुरुषपुद्गलाः स्वभावस्तस्य नास्ति / यस्य धर्मस्य स्वभावो नास्ति सो ऽभाव इत्यमनसिकारो संघानुस्मृतिः /

तेन प्रज्ञापारमितायां चरताखण्डे ऽच्छिद्रे ऽकल्माषे ऽपरामृष्टे भुजिष्ये विज्ञप्रशस्ते समाधिसंवर्तनीये शीले स्थित्वा तच्छीलमभावस्वभावतो मनसिकर्तव्यमित्यमनसिकारो शीलानुस्मृतिः /

स प्रज्ञापारमितायां चरन्नामिषं वा अङ्गप्रत्यङ्गानि वा त्यजन् सर्वं तदभावस्वभावतो मनसिकरोतीत्यमनसिकारो यो(त्या)गानुस्मृतिः /

ये ते देवाः श्रोतआपन्नाश्चातुर्महाराजकायिकेषु यावत्परनिर्मितवशवर्तिषु देवेषूपपन्नास्ते सर्वे ऽभावस्वभावा इत्यनुस्मृतिरमनसिकारो देवतानुस्मृतिः /"

इति षड्भिरनुस्मृतिभिः षडनुपूर्वक्रियाः //

सर्वधर्मासम्भवतः प्रज्ञापारमितानुगन्तव्येति / स्वलक्षणधारणात् धर्माः / स्कन्धा धातव आयतनानि बोधिपक्षाः पारमिता यावत्सर्वाकारज्ञतेति सर्वधर्माः / तेषामसंभवत इत्यसंभवज्ञानतो ऽनुपूर्वक्रिया वेदितव्या / असंभवो ऽभावस्वभावता / तथा हि- "तेषां नास्ति स्वभावः / यस्य स्वभावो नास्ति सो ऽस्वभावः / स प्रज्ञापारमितायां चरन् प्रथमचित्तोत्पादमुपादाय सर्वधर्माणामभावस्वभावतामधिमुच्य चत्वारि स्मृत्युपस्थानानि चत्वारि सम्यक्प्रहाणानि यावत्सर्वाकारज्ञतां भावयति / सो ऽभावस्वभावान् सर्वधर्मानभिसंबुध्य धर्मचक्रं प्रवर्तयति / त्रिभिश्च यानैः सत्त्वान् संसारात्परिमोचयति" इति धर्माणामभावस्वभावतया त्रयोदश्यानुपूर्वक्रियाः //

इत ऊर्ध्वं चोद्यानि स्वयमूह्यानि परिहारास्तु वक्तव्याः / यद्यभावस्वभावाः पारमिता भाव्यन्ते तदा तभ्दावना निष्फला तुरगविषाणभावनावदिति चोद्यम् / परिहारमाह / सर्वधर्मा निर्विकारसमा इतीत्यादि / निर्विकारो धर्मधातुस्तेन समाः सर्वधर्मा नाभावमात्रेण / धर्मधातुश्चालम्ब्यमान आर्यधर्माणां हेतुर्भवति / अत एव धर्मधातुरितुच्यते / तत्कुतो वैफल्यम्?

ननु प्रत्यात्मवेद्य आत्मा विज्ञप्तिश्च / अतः सति ग्राहके ग्राह्यमप्यस्तीति न युक्तः सर्वधर्माणामभाव इति चोद्यम् / परिहारमाह / सर्वधर्माणाममनात्मविज्ञप्तितः प्रज्ञानुबोधनत इत्यादि / अनात्मविज्ञप्तित इत्यात्मविलक्षणत्वादनात्माकारेण ग्राह्यग्राहकवैधुर्यादविज्ञप्त्याकारेण च / (rst_166) प्रज्ञानुबोधनत इति प्रमाणेन प्रतीतेः / आत्मा हि नित्यैकरूपो ज्ञाता न च स्कन्धादय इथम्भूताः / तस्मादनात्मत्वेन सिद्धाः / ग्राह्यग्राहकवैधुर्याच्च / अत एव च विज्ञप्त्याकारेणापि सिद्धाः / ग्राहकलक्षणत्वात्तस्याः / ग्राहकाभावाद्ग्राह्यमपि नास्तीति सिद्धः सर्वधर्माणामभावः /

रूपादिशब्दैर्येभिलप्यन्ते त एव रूपादयः / अस्ति च लोके तैस्तेषामभिलापः / श्रोतॄणां व्यवहारः संवादश्च / तत्कुतो ऽभावः सर्वधर्माणामिति चोद्यम् / परिहारमाह / नाममात्रेणेत्यादिना / अर्थशून्यं नाम नाममात्रम् / तेन ते सर्वधर्मा अभिलप्यन्ते / न हि बुद्ध्याकार एषामर्थो बाह्यत्वेन प्रति [य]ते, बाह्ये च प्रवृत्तेः / नापि बाह्य एवार्थः, असत्यपि बाह्ये शब्दादर्थगतेः / बुद्धिरेव बाह्यरूपेण शब्दार्थ इति चेत् / न चैतस्या अर्थो रूपं, अत्यन्तभेदात् / अभेदे वा न विसंवादः स्यात् / बुद्धिमन्तश्चार्थवन्ता भवेयुः / तस्मादर्थाभावान्नाममात्रेण व्यवहारमात्रेणाभिलप्यन्ते / व्यवहारस्तावदस्तीति चेदाह / व्यवहारश्चेत्यादि / न क्वचिदित्यर्थाभावत् / न कुतश्चिदिति वाचकाभावात् / नापि कश्चिदिति न वाचिको न च कायिको नापि मानसः / वाच्यवाचकयोरभावात् / सर्वधर्मा इत्यादिनोपसंहारः / अव्यवहारा अव्याहारा इति तेषु तयोरभावात् / अत एव चाव्याहृताः /

ननु रूपादीनां प्रमाणवत्त्वात् तच्छून्यता अपि प्रमाणवत्य इति तदालम्बना प्रज्ञापारमिता प्रमाणवती स्यात् / न चेष्यत इति चोद्यम् / परिहारमाह / सर्वधर्माणां अप्रमाणत इति / अप्रमाणत्वात् / तथा हि सर्वधर्माणां नास्ति प्रमाणमभावलक्षणत्वात् / आकाशस्येव रूपाभावलक्षणस्य, ततस्तच्छून्यतानामपि नास्ति प्रमाणमवच्छेदकाभावात् / ततः प्रज्ञापारमिताया अप्यालम्बनाभेदात् /

यदि तर्हि रूपादयो न सन्ति कैत्य(किमिति) नीलादयः प्रख्यान्ति / धर्मनिमित्तान्येतानि न धर्मवस्तूनि / एकानेकस्वभावविरहात्, अप्रकाशात्मनः प्रकाशायोगाच्च / धर्मनिमित्तानि तु धर्मभ्रान्तीनामाकाराः / ता हि प्रकाशरूपत्वात् प्रकाशमानास्तैरसभ्दिरपि रूपैः प्रख्यान्ति / असत्ख्यातिलक्षणत्वाद भ्रान्तीनाम् / यद्येव, न सिद्धयति प्रज्ञापारमिता / सा खल्वभ्रान्ता साकारा तु बुद्धिर्भ्रान्तैव / न च निराकारा बुद्धिः स्वप्नेप्यनुभूयत इति चोद्यम् / परिहारमाह / सर्वधर्मानिमित्तत इत्यादिना / सर्वधर्मेष्वानिमित्तं निमित्तास्तमयाज्ज्ञानस्य निराभासता निराकारता / ततः प्रज्ञापारमिता वेदितव्या / आकारपरिवर्जनादारूप्यसमापत्तिवदिति भावः /

नन्वयं विकल्पनिमित्तानां परिवर्जनाद्धर्मधातोः सम्यङ्मनसिकारो न पुनः प्रज्ञापारमितेति चोद्यम् / परिहारमाह सर्वधर्मनिर्वेधत इत्यादि / (rst_167) निर्वेधशब्देनात्र प्रतिवेध उक्तः / सर्वधर्माणां परिनिष्पन्नेन रूपेण प्रतिवेधो ज्ञानसाक्षात्क्रिया स तेषां निर्वेधः / तत इति तेन लक्षणेन प्रज्ञापारमिता इत्यर्थः / पूर्वत्र हेतौ तृतीया / तदन्तात्तम् / तथा हि तस्यैव सम्यङ्मनसिकारस्य श्रुतचिन्ताभावनान्वयादनाभोगतो ऽनभिसंस्कारतः सर्वधर्मतथताया निष्प्रपञ्चज्ञानमुत्पद्यते / स तस्याः प्रतिवेधः / अथ को ऽर्थः प्रज्ञापारमिता(त)या शुद्धिः? नैतद्युक्तम् / तथा हि / कस्तया शुद्ध्यति? नात्मा तस्यानिष्टेः, न चित्तं प्रतिक्षणभेदात् / अथ चित्तसन्तानः / सोप्यशुद्धः शुद्धो वा प्रकृत्या भवेत् / पूर्वस्मिन् पक्षे न तस्य शुद्धिरङ्गारस्येव घृष्यमान(ण)स्य / द्वितीयपक्षे वैयर्थ्यम् / अथ चित्तधर्मता तया शुद्ध्यति / तदप्ययुक्तं निर्विकारत्वात्तस्या इति चोद्यम् / परिहारमाह / सर्वधर्मप्रकृतिपरिशुद्धित इत्यादि / सर्वधर्माणां प्रकृतिस्तस्याः परिशुद्धिस्ततस्तेन प्रयोजनेन प्रज्ञापारमितानुगन्तव्या / अनुष्ठातव्येत्यर्थः //

ननूक्तं तदप्ययुक्तं निर्विकारत्वात्तस्या इति / उक्तमेतत्किन्तु न युक्तम् / हेतोरनैकान्तिकत्वात् / सा हि प्रकृत्यैव परिशुद्धा अतन्मयत्वात्, आगन्तुकेनावरणमलैर्मलिनीक्रियते नभ इवात्र तमस्तुहिनादिभिः / पश्चात्प्रज्ञापारमितयैव तेषां निरासाद्धिशुद्धयति पवनादिभिरभ्रादिमोचनादिव नभः /

ननु प्रज्ञापारमितापि भगवतैव देशिता / देशना च सनिमित्तमेव ज्ञानमुत्पादयति / ततः प्रज्ञापारमितापि निर्मिमित्ता न युक्तेति चोद्यम् / परिहारमाह / सर्वधर्मावचनत इत्यादिना / सर्वधर्माणामवचनात् / वाचास्वरूपमप्रकाश्य केवलं सूचनात् / परमार्थदर्शनाय प्रज्ञापारमितानुगन्तव्या /

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.