Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 4/7

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Chưa xếp loại

सारतम

Tác giả
रत्नाकरशान्ति
Thông tin
GRETIL — Padmanabha S. Jaini: Sāratamā. A Pañjikā on the Aṣṭasāhasrikā Prajñāpāramitā Sūtra by Ratnākaraśānti. Patna : Kashi Prasad Jayaswal Research Institute, 1979. (Tibetan Sanskrit Works Series, 18).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

इति त्रिभिर्यानैरनाभोगतः फलसाक्षात्क्रियात्मकं गतिकारित्रमित्यर्थः /

ग्रामस्य (?) हि गतिः प्राप्तिरेव / यदाभोगेन गमनेन यानत्रयफलस्यापि गतिः प्राप्तिरेव सा तु निराभोगा / न हि पुमान् कायेन चेतसा वा गन्त्वा तत्प्राप्नोति किन्त्वाभोगत एव / तथा ह्याकाशगतिकाः सर्वधर्माः / न ह्याकाशस्य गतिरागतिर्वा / स्वभाव एवास्य गतिः / तस्मादाकाशगतिका इत्याकाशसमाः / कुत इत्याह / यथा हीत्यादि / अकृतमनुत्पादितत्वात् / अविकृतमवस्थान्तरानुत्पादनात् / अनभिसंस्कृतं हेतुप्रत्ययैः सम्भूय तस्याकरणात् / स्थितमुत्पद्य वृत्तेः / संस्थितं समन्ततः स्थितेः / व्यवस्थितं क्वचिदेव स्थितेः / एषां विपर्यासादास्थितमसंस्थितमव्यवस्थितम् / आकाशकल्पत्वादविकल्पा निराभोगाः / धर्मतामात्रत्वाद्धर्माणामिति भावः /

यथा वाकाशगतिका एवं शून्यतादिगतिकाः / तदेवमगतिगतिकाः सर्वधर्मा इति........गतिकारित्रम् //

उक्तं दशविधं कारित्रम् /

..........शास्त्रम्-

[88] क्लेशलिङ्गनिमित्तानां विपक्षप्रतिपक्षयोः / विवेको दुष्करकान्तावुद्देशो ऽनुपलम्भकः // 4-29 //

[89] निषिद्धाभिनिवेशश्च यश्चालम्बनसंज्ञकः / विप्रत्ययो ऽविघाती च सो ऽपदागत्यजातिकः // 4-30 //

[90] तथतानुपलम्भश्च स्वभावः षोडशात्मकः / लक्ष्मीव लक्ष(क्ष्य)ते चेति चतुर्थं लक्षणं मतम् // 4-31 //

यः स्वभावश्चतुर्थं लक्षणमिष्टं स षोडशविधः / सर्वकर्मसाधनं लक्षणम् / लक्ष्यत इति कृत्वा / अत एवाह ऽलक्ष्यते चेतिऽ / लक्षणान्तरमप्याह ऽलक्ष्मीवऽ इति / लक्ष्मयोगाल्लक्ष्मी लक्षणयोगाल्लक्षणमित्यर्थः / कथं ऽषोडशात्मकःऽ? इत्यत आहऽक्लेशलिङ्गे ऽत्यादि / अतो ऽस्य प्रस्तावना सुभूतिराहेत्यादिना भगवानाहेत्यतः प्राक् / चरिताः षट्पारमिता रक्षन्तीति चरिताविनः / कतमे त इत्याह / य इमामित्यादि / किंस्वभावा इत्यनेन पदेन स्वभावप्रश्नः / उत्तरं भगवानाहेत्यादिना / विनयो ऽपनयः / तमर्हन्तीति वैनयिकाः / तैर्विविक्तः स्वभाव एषामिति तथोक्ताः / इयता चत्वारः स्वभावा उक्ताः / क्लेशविवेकः / क्लेशलिङ्गविवेकः / क्लेशनिमित्तविवेकः / विपक्षप्रतिपक्षविवेकश्च / तत्र क्लेशो रागादिः / क्लेशलिङ्गं क्लेशकृतं कायादिदौष्ठुल्यम् / क्लेशनिमित्तमयोनिशो मनसिकारादि / विवक्षप्रतिपक्षौ रागारागौ द्वेषाद्वेषो मोहामोहौ च / सुभूतिराहेत्यादिना सुभूतिराहेत्यतः प्राक् / एतदाह / एष एव स्वभावो गतिः यामभिसम्बुध्य देशयिष्यन्तः सत्त्वानां गतिर्भविष्यन्तीति //

सुभूतिराहेत्यादि बुद्धभूमिर्वेति यावत् / अत्र न रूपादिसम्बद्ध इति न रूपादिस्वभावायै(य) स्वबोधये / न रूपादेरर्थायेति न रूपादिस्वभावानां सत्त्वानामर्थाय / एवं न भूमित्रय स्वभावानां (?) / स्वबोधये / नापि / नापि बोधित्रयस्वभावानां सत्त्वानामर्थाय / तदित्यादिना प्रश्नः / उत्तरं सर्वेत्यादि / न प्रतिकांक्षितव्यानीति न लभ्यत्वेन द्रष्टव्यानि / अत्र त्रीणि न द्रष्टव्यानीत्येकमेव स्थानं द्रष्टव्यमिति भावः / इति दुष्करस्वभावः //

दुष्करसहित एकान्तो ऽदुष्करैकान्तःऽ / एवमुक्त इत्यादि येनायमित्यतः प्राक् / अभिमतो ऽर्थो ऽर्थवशः / तं च स्वयमेव भगवानाह / अस्थानं हीत्यादिना बुद्धभूमिर्वेत्येकान्तः / इत्यैकान्तिकस्वभावः //

येनायं सर्वसत्त्वानां कृतशः सन्नाहः सन्नद्ध इत्युद्देशस्वभावः //

सुभूतिराहेत्यादि कच्चिदित्यतः प्राक् / गम्भीरेति प्रतिज्ञा / चत्वारो हेतवः परे भावनानुपलब्धेः / अध्वत्रयेपि भावकानुपलब्धेः / भाव्यस्य प्रज्ञापारमितावस्तुनो ऽनुपलब्धेः / तदालम्बनानां चानुपलब्धेरिति / असिद्धत्वपरिहाराय तत्कस्येत्यादिना प्रश्नः / न हीत्यादिनोत्तरम् / परिनिष्पन्नो वस्तुभूतः / अतश्चाकाशभावनैषा सर्वधर्मभावना च धर्मतामात्रदर्शनाद्धर्माणां चानुपलब्धेः / अत एवासङ्गभावनैषानन्तभावना च सर्वधर्मेष्वनुपलब्धेरव्याघाताद्धर्माणां (rst_102) चानन्त्यात् / असतो भावनासद्भावना ग्राह्यानुपलम्भात् / अपरिग्रहभावना ग्राहकानुपलम्भात् / उपपरीक्षितव्यो वेदितव्यः / इत्यनुपलम्भकस्वभावः //

कच्चिदित्यादिना सुभूतिराहेत्यतः प्राक् / अनभिनिवेशस्वभावः //

सुभूतिराह / यो भगवन्नित्यादि अथ खलु शक्र इत्यतः प्राक् / व्यवचारितेत्यालम्बिता / निम्नप्राग्भावप्रवणशब्दा आधारार्थाः / तैः सह बहुव्रीहिः / सन्ततिश्चित्तसन्तानः / आकाशनिम्नयेति आकाशोपमत्वात् सर्वज्ञतायाः / इयं सा व्यवचारणेति प्रज्ञापारमिताया इति शेषः / तदित्याकाशोपमत्वं तस्याः कुतः? उत्तरम् / अप्रमेया हीत्यादिना / देशतः कालतश्च प्रमातुमशक्त्यत्वादप्रमेया / तथैव प्रमाणविरहाद् अप्रमाणा / न तद्रूपं यावन्नापि क्वचित्प्रदेशे स्थितमिति / सर्वेषामेषां देशकालव्यापित्वेन प्रमाणाविषयत्वादप्रमेयस्य ताद्रूप्यायोगात् / अपि त्वित्यादि / तदिति वर्तते / केनचिदिति / केनचिद्रूपादिना स्वभावेन / रूपादीनां प्रमाणावत्त्वादिति भावः / तत्कस्येति प्रश्नः / उत्तरं रूपमेव हीत्यादि / रूपादिशब्दैरत्र रूपादिधर्मतोच्यते / तस्मादविरोधः / न च रूपादिभेदेपि धर्मताया भेदो रूपादीनामलीकत्वेनाभेदकत्वात्तदानीमस्तङ्गमाच्चेत्यालम्बनस्वभावः //

अथ खलु शक्र इत्याद्यापरिवर्तसमाप्तेः / गम्भीरा दुरधिमोचत्वात् / दुरवगाहा चिन्तामय्या प्रज्ञया दुर्दृशा लौकिकभावनामय्या / दुरनुबोधा लोकोत्तराया / चिकीर्षितस्याकरणमल्पोत्सुकता / अवनतमावर्जितम् / यत्र न कश्चिदित्यादिना त्रैयध्विकक्रियानिषेधः / आकाशेत्यादिना कर्मनिषेधः / आत्मेत्यादिना कर्तृनिषेधः / सर्वधर्माणां लभ्यानामनागमनतया हेयानामगमनतया च गम्भीरः / विप्रत्यनीको विपरीतः / यतो ऽनुग्रहायाविकल्पनायैष धर्म उद्ग्रहे च लोकश्चरति / लोकविपरीता प्रतीतिर्विप्रत्ययः / इति विप्रत्ययस्वभावः //

देवैः शक्रादिभिरुपलक्षितः परिवर्तो देवपरिवर्तः //

आर्याष्टसाहस्रिकायाः प्रज्ञापारमितायाः सारतमानाम्नि पञ्जिकायां रत्नाकरशान्तिविरचितायां पञ्चदशः परिवर्तः //

16. तथतापरिवर्तो नाम षोडशः /

अथ खल्वित्यादि / नायं क्वचित्प्रतिहन्यत इति सर्वत्रास्य बाधकाभावात् / अतश्च अप्रतिहतलक्षणो ऽप्रतिहतस्वभावः / (rst_103) आकाशसमतयेति / यत आकाशसमं ततस्तद्वदेवाप्रतिघम् / कुतः समतेत्यत आह / सर्वपदानां सर्ववस्तूनां अनुपलब्धितः / अप्रतिमो निरुपमः अद्वितीयत्वादिति सदृशाभावात् / प्रतिबोधकं लक्षणमस्येति प्रतिलक्षणः / तदभावाद् अप्रतिलक्षणः / निष्प्रत्यर्थिकत्वादिति विरोधरहितत्वात् / इत्यप्रतिहतस्वभावः /

पदं प्रतिष्ठा सुगतिदुर्गतिनिर्वाणानि / तदभावाद् अपदः / अनभिनिर्वृत्तत्वादिति / न खल्वनभिनिर्वृत्तस्य क्वचित्प्रतिष्ठा / कुतो ऽनभिनिर्वृत्तः? यतो ऽनुत्पाद उत्पादरहितः / कुतो ऽनुत्पादः? सर्वोत्पत्तीनामनुत्पत्तित्वात् / न हि सतामुत्पत्तिरुत्पत्तिलक्षणायोगात् / नाप्यसताम् / असत्त्वादेव खरविषाणवत् / दुर्गतिपथः सुगतिपथो निर्वाणपथश्चेति पन्थानः / तदभावाद् अपथः / अत एवाह / सर्वपथानुपलब्धित्वात् / इत्यपदस्वभावः //

अथ खल्वित्यादि / अनुजात इति / अनुपूर्वो जनिः सकर्मकः / कर्मास्य जनकः / कर्ता जन्यः / अनुः सादृश्ये / तस्मादिह कर्तरि क्तः / कर्मणि षष्ठि / सम्बन्धविवक्षया भगवतो ऽनुजातः सुभूतिः / तत्कस्येत्यादि तत्तस्यानुजातत्वं? उत्तरं तथा हीत्यादिना / भगवत एष पुत्रः सदृशश्च शून्यतावादित्वादिति भावः / अथ खल्वित्यादि / अजातत्वादित्यनुजातत्वे हेतुमाह / अजातत्वेन पितापुत्रयोः सादृश्यादिति भावः / यद्यजातः तौ कथं पितापुत्रौ? संवृत्येति भावः / अनुपा(जा)त इत्यादिना हेत्वन्तरमाह / अनुपा(जा)तो ऽनुगतस्तथागतस्य तथताम् / ततोप्यनुजातस्तथागतस्य / अनुगम्य जातो ऽनुजात इति भावः / असिद्धो हेतुरिति चेदाह / यथेत्यादि / अनागतेत्यनुत्पन्ना / अगतेत्यविनष्टा / किं पुनः प्राप्ते ऽर्हत्त्वे ऽनुपा(जा)तः किं वा पूर्वमेवेत्यत आह / आदित इत्यादि / अतथतेति / तथताशब्दानाभिधेयत्वात् / एवं हीत्यादिनोपसंहारः / गत्यगती(?) गतिः / तत्प्रतिषेधादगतिस्वभावः //

अनुजातत्वे हेत्वन्तरमाह तथागतस्येत्यादिना / तथता हि धर्माणां स्थितिः / अनतिक्रमणीयत्वात्तथावस्थिता / हेत्वन्तरमाह / यथेत्यादिना / पूर्वस्वभावानुवृत्तेः अविकारा / स्वभावान्तरानुत्पत्तेः निर्विकारा / विकल्पस्वभावाभावाद् अविकल्पा / विकल्पाविषयत्वात् निर्विकल्पा / हेत्वन्तरमाह / यथाचेत्यादिना / न क्वचित्प्रतिहन्यत इति सर्वगतत्वात् / तत्कस्य हेतोरिति / तदप्रतिहतत्वं कुतः? तथा हि यस्य या तथता तत्रैव सास्ति ततो ऽन्यत्र प्रतिहन्यत एव / वस्त्वभावात् / उत्तरं या चेत्यादिना एवं हीत्यतः प्राक् / एकैवैषेति प्रतिज्ञा / तत्किमेकजातीयत्वादेका? नेत्याह / अद्वयेति / द्वयं भेदस्तदभावादद्वयेत्येको (rst_104) शब्दस्यार्थः / एकमपि सम्बन्धिभेदाभ्दिद्यते / तद्यथा पूर्वाकाशमपराकाशमिति / तद्वद्रूपतथता वेदनातथता संज्ञातथतेत्येष भेदो भवतीति चेदाह / अद्वैधीकारेति / अतश्च अद्वयतथता / नित्यं तथैवेति तथता / अद्वया च स्वयमभेदात्तथता च परतोप्यभेदादित्यद्वयतथता / हेतुमाह / न क्वचिदित्यादिना / तत्खलु तस्य भवति यद्यदाधारं तद्धेतुकं वा / तद्यथा कूपोदकं यवाङ्कुर इति / तथता तु न क्वचित् नापि कुतश्चित् / तस्मात्केषुचिदप्रतिबद्धत्वान्न सा कस्यचित् / यतः सा न कस्यचित्ततः साद्वयाद्वैधीकाराद्वयतथता / ततो न क्वचित्प्रतिहन्यते / तस्मादनुजातः सुभूतिस्तथागतस्येति सिद्धम् /

हेत्वन्तरमाह / एवं हीत्यादिना / एवं हीति एवमपि / तदेवाह / अकृततथतयेति / अकृता चासौ नित्यत्वात्तथता च / न सा कदाचिन्न तथतेति नित्यं तथैव भावात् / ततः साद्वयेति कालभेदेनास्याभेदात् / तथागतमिति कर्मणि द्वितीया /

हेत्वन्तरमाह यथेत्यादिना / सर्वत्रेति सर्वलोकधातुषु / सर्वधर्मष्विति सर्ववस्तुषु / अविकल्पा तेषामविकल्पनात् / निर्विकल्पा तथैव सर्वविकल्पानां प्रहाणाम् / एवमेव चेति सर्वत्राविकल्पनिर्विकल्पतया / अलुप्तमित्यच्छिन्नम् / एवं हीत्यादिनोपसंहारः //

हेत्वन्तरमाह यथेत्यादिना नान्यत्रेति नान्या भेदकत्वानुपलब्धेः / द्वितीयाभावादनन्या चासौ तथता चेति अनन्यतथता / तस्या अनुगमः / तेनोपगतस्तथतां संवृत्या / परमार्थमाह / न चेत्यादिना / अत्रेत्यस्मिन्नुपगमे / न कश्चित्सुभूतिरन्यो वा / न क्वचिदिति तथागते ऽन्यस्मिन् वानुगतिमुपगतः / धर्मपुभ्दलनैरात्म्यदर्शनादिति भावः / एवं हीत्यादिनोपसंहारः /

हेत्वन्तरमाह यथेत्यादिना / एवं हीत्यादिनोपसंहारः / इत्यजातस्वभावः //

तथागततथतयापीत्यादि इयं सेत्यतः प्राक् / अत्र सर्वतथाप्रभेदानामभेदं दर्शयन् भेदं प्रतिषेधतीति सर्वासां रूपादितथतानामनुपलम्भात्तथतानुपललम्भः षोडशः स्वभावः //

अस्यास्तथताया माहात्म्यमाह / इयं सेत्यादिना / गमिर्ज्ञानार्थः तथतागतानेन तस्मात्तथागत इति भावः /

अस्यां देश्यमानायां यदभ्दुतमभूत्तदाह / अस्यामित्यादिना / षडविकारमष्टादशमहानिमित्तं यथा भवति तथा अकम्पत यावत् संप्रागर्जत् / अत्र त्रयो धातवश्चलनार्थाः / त्रयः शब्दार्थाः / मृदुमध्याधिमात्रक्रियाभेदादष्टादशमहानिमित्तानि (rst_105) भवन्ति / तत्र चलनमङ्गतः / कम्पनं साकल्येन / साकल्येनात्यन्तं कम्पनं क्षोभः / वेधः शब्दः / रणितं दण्डाहतकांसीवत् / गर्जनं नवमहामेघवत् / षड्विकारास्तद्यथा- "पृथिव्याः पूर्वा दिगुन्नमति पश्चिमावनमति / पश्चिमा दिगुन्नमति पूर्वावनमति / उत्तरावनमति उत्तरा दिगुन्नमति / दक्षिणावनमति / मध्ये उन्नमति / अन्ते ऽवनमति / अन्ते उन्नमति मध्ये ऽवनमति" इति / किंवदित्याह / तथागतस्य चेत्यादि / एवं हीति / तथागताभिसम्बोधाविवसुभूतेस्तथतानिर्देशे महानिमित्तप्रादुर्भावसमतया /

प्रकारान्तरमप्याह / पुनरपरमित्यादिना जायेरन्नित्येतत्पर्यन्तेन / न संविद्यन्त इति प्रतिज्ञा / नोपलभ्यन्त इति हेतुः / यैरिति स्वधर्मैः / अनुजायेतेति कर्तरि लिङ् / ये चेति ताथागता धर्माः / अनुजायेरन्निति कर्मणि लिङ् / एवं हीत्युपसंहारः / तथता कथं चर्या? तन्मात्रे ऽवस्थानात् / अस्मिन् खलु पुनरित्यादि सुगमम् /

किञ्चापीति यद्यपि त्रयस्त्रिंशत इत्यपादाने तसिः / जात्या पक्षिणः महाकायत्वाच्छकुनेः / अन्तरा चित्तस्येति द्यावापृथिव्योर्मध्यसंज्ञिनः / एवं भवतीति एष वितर्को भवति / शेषं सुबोधं विरहितो भवतीति यावत् ! इह ज्ञानविशेषकारित्रस्वभावलक्षणे उक्ते /

बोधिसत्त्वानां मोक्षभागीयं वक्तव्यम् / तच्च तद्विरहिणां बोधिसत्त्वानामर्हत्त्वप्राप्तिकारणनिर्देशेन सूचितं व्यक्तिकर्तुं शारिपुत्र आह / यथाहं भगवन्नित्यादि / प्रज्ञापारमिता भावयितव्येति सर्वधर्मपरमार्थज्ञानाय / चर्यमाणस्य च दानपारमितादेरनिमित्तीकरणार्थम् / उपायकुशलेनेत्युपाये कुशलेन / तत्रोपायः सर्वाकारज्ञताचित्तस्य नित्यमत्यागः / सर्वपुण्यानां च बोधौ सम्यक्परिणामना / सम्यक्परिणामनानुमोदने च तत्परिवर्तोक्ते अतः शास्त्रोक्तलक्षणमुक्तं भवति /

[91] अनिमित्तप्रदानादिसमुदागमकौशलम् / सर्वाकारावबोधे ऽस्मिन् मोक्षभागीयमिष्यते // 4-32 //

तेस्य पञ्चप्रभेदा महत्योर्भगवत्योः / तथा च शास्त्रम्-

[92] बुद्धाद्यालम्बना श्रद्धा वीर्य दानादिगोचरम् / स्मृतिराशयसम्पत्तिः समाधिरविकल्पना // 4-33 //

[93] धर्मेषु सर्वैराकारैः ज्ञानं प्रज्ञेति पञ्चधा /

एतदेव भगवानाह / एवमुक्त इत्यादिना / अथ शास्त्रम्- तीक्ष्णैः सुबोधा सम्बोधिर्दुर्बोधा मृदुभिर्मता // 4-34 // एतदेव अथ खल्वित्यादिना प्रस्तुवन्ति / कृच्छ्रेण सम्भवो ऽस्या इति दुरभिसम्भवा / एतद्देवैरविशेषेणोक्तम् / अथ खल्वित्यादिना भगवान् पुद्गलविशेषेणाह / दुष्प्रज्ञैरित्यादि / दुष्प्र ज्ञादिपदैः सूचितो विशेषो मृदूनि मोक्षभागीयानि / तीक्ष्णैस्तु मोक्षभागीयैः स्वभिसम्भवा सम्यक्सम्बोधिः / अतस्तानि दर्शयितुकामः सुभूतिराह / यभ्दगवानित्यादि / एवमुक्त इत्यादिना भगवत उत्तरम् / सर्वधर्माणामसत्तया बोधेः स्वभिसम्भवत्वमुक्तं सुभूतिना तदयुक्तम् / यतो यद्येतावत स्वभिसम्भवा स्यात्तदा सर्वसत्त्वानामादित एव तथा स्यात् / तस्मात्प्रतिपत्तितः प्राप्तिः / सा च न तेषामस्ति येषां मृदूनि मोक्षभागीयानि / अतो ऽसम्भवत्वादप्राप्तेर्दुरभिसम्भवेति ब्रूमः / नन्वभिज्ञास्ते श्रुतचिन्तादिबलेन सम्यक्सम्बोधौ तत्तेषां कुतो ऽप्राप्तिरित्यत आह / असद्भूतत्वाददुरभिसम्भवेति / ते हि बालग्राह्यमेवार्थ बोधिं मन्यन्ते / स चासद्भूतत्वादलीकत्वान्न प्राप्यत इति भावः / तथा हि / विकल्पं वा बोधि मन्येरन् / विकल्पनिर्मितं वार्थम् / पक्षद्वयमप्ययुक्तम् / अविकल्पत्वाद्विकल्पाविठपितत्वाच्च बोधेः / एतद्दर्शयितुमाह / अविकल्पत्वादित्यादि /

अथ खल्वित्यादिना स्थविरशारिपुत्रस्योत्तरम् / स हि मन्यते शून्यत्वात्स्वभिसम्भवेत्ययं विरुद्धो हेतुरिति / एवं चेति / आकाशसमतया च / आकाशसमा हीति हेतुः / यत्तत्वं येषां तेनैव तेषामभिसम्बोधादिति भावः / एवं विरुद्धत्वमुक्त्वा अनुमाने बाधां विवक्षुः प्रसङ्गं करोति यदि चेत्यादिना / न त्वेवेति नैव / यस्मादित्यादिना विपर्ययमाह / अथवा परस्य हेतौ दूषिते स्वपक्षसाधनमेवेदम् / एवमुक्त इत्यादिना विस्तरेण सुभूतिः प्रसङ्गं विघटयति / विवर्तितुः सम्बोद्धुः सम्बोद्धव्यस्य च विकल्पने / कतमः स धर्मो यो विवर्तत इत्युक्त्वा अविवर्तनमेव साधयितुमाह यस्तस्यामेवेत्यादि / सर्वधर्मास्थानयोगेनेति / सर्वधर्मष्वस्थानमेव योगो न्यायः / तेन धर्मतायां स्थितः / धर्मतैव शुद्धा बोधिः / सा च प्रकृत्यैव शुद्धेति भावः / एवमुक्त इत्यादि शारिपुत्रस्य वचनम् / धर्मनयजातिः धर्माणां तत्त्वप्रकारः / ये चेत्यादिना विशेषमाह / च शब्दस्तुशब्दस्यार्थे / अथ खल्वित्यादिना पूर्णः सुभूतिं स्मारयति / शेषं सुबोधमासिद्धान्तस्थापनाग्रंथात् अनुत्तरया बोध्यानिर्यास्यत्ययं बोधिसत्त्वो महासत्त्व इत्यस्मात् / अत इयता विस्तरेण (rst_107) समन्वितम् / तीक्ष्णैर्मोक्षभागीयैः स्वभिसम्भवा सम्यक्सम्बोधिरिति / उक्तानि मोक्षभागीयानि //

मोक्षस्य भागो भजनं प्राप्तिः तस्मै हितानि मोक्षभागीयानि तदप्युक्तानि / निर्वेधभागीयानि वक्तव्यानि / निर्वेधः प्रतिवेधो दर्शनमार्गः / तस्य भागः प्राप्तिः / तस्मै हितानि निर्वेधभागीयानि / तानि चत्वारि / ऊष्ममूर्धाक्षान्तिरग्रधर्माश्चेति / तत्राद्यमधिकृत्य शास्त्रम्-

[94] आलम्बनं सर्वसत्त्वा ऊष्मणामिह शस्यते / आकारः समचित्तादिस्तेष्वेव दशधोदितः // 4-35 //

अत आह / अथ खल्वित्यादि यावदहं नाथ इति / स्थातव्यमिति स्पृहणतः / शिक्षितव्यमभ्यासतः / समं स्थातव्यमित्यादिना दशचित्तान्युक्तनि / समचित्तं मैत्रचित्तं निःशाठ्यचित्तं निहतमानचित्तं मातापित्रादिचित्तं पुत्रदुहितादिचित्तं चेति / नाथः सानाथ्यं कर्तुम् / ऊष्मगतम् //

[95] स्वयं पापान्निवृत्तस्य दानाद्येषु स्थितस्य च / तयोनियोजनान्येषां वर्णवादानुकूलते // 4-36 //

[96] मूर्धगं

एतदाह स्वयं चेत्यादिना / पापानि दशकुशलानि / पापेभ्यो निवृत्तौ विरतौ / परिजयो ऽभ्यासः / अविद्याप्रत्ययाः संस्काराः संस्कारप्रत्ययं विज्ञानमित्यादिरनुलोमः प्रतीत्यसमुत्पादः / अविद्यानिरोधात् संस्कारनिरोध इत्यादिः प्रतिलोमः / अन्येषामिति परेषां समादापकः सम्यग्ग्राहकः / वर्णवादी गुणवादी समनुज्ञो ऽनुकूल इति मूर्धगतम् //

स्वपराधरं सत्यज्ञानं क्षमा मता / तथाग्रधर्मा विज्ञेयाः सत्त्वानां पाचनादिभिः // 4-37 //

स्वयं स सत्यानां ज्ञानं परेषां च तस्मिन् समादापनं ऽवर्णवादानुकूलताऽ इति च क्षान्तिगतम् / स्वयं च सत्त्वानां परिपाचनबुद्धक्षेत्रपरिशोधनादि परेषां च तत्समादापनं वर्णवादानुकूल[ते]ति चाग्रधर्मगतम् / एतदुभयमाह / एवं सत्येष्वित्यादिना / सत्येष्विति दुःखादिसत्यविषयेषु यथाक्रमं परिज्ञानप्रहाणसाक्षात्क्रियाभावनासु स्त्रोतआपत्त्यादिपञ्चफलज्ञानसाक्षात्क्रियायां यावद्बोधिसत्त्वन्यामावक्रान्तौ / तथा सत्त्वपरिमाचनादौ च स्थित्वा (rst_108) अन्येषामपि तत्र समादापने तद्वर्णवादिना तत्समनुज्ञेन भवितव्यमिति क्षान्तिगताग्रधर्मगते //

तस्यैवमित्यादिना निर्वेधभागीयानां फलमाह / अनावरणं रूपं वेदना संज्ञा यावत् सद्धर्मस्थितिरनावरणा भविष्यतीति //

तथताप्रधानः परिवर्तस्तथतापरिवर्तः //

आर्याष्टसाहस्रिकायाः प्रज्ञापारमितायाः सारतरा(मा)नाम्नि पञ्जिकायां रत्नाकरशान्तिविरचितायां षोडशः परिवर्तः //

17. अविनिर्वतनीयाकारलिङ्गनिमित्तपरिवर्तो नाम सप्तदशः /

ऽमोक्षनिर्वेधभागीये शैक्षो ऽवैवर्तिको गणः / ऽ इति पूर्वमुद्दिष्टम् / तत्र द्वे उक्ते / तृतीयो वक्तव्यः / अतः शास्त्रम्-

[97] निर्वेधाङ्गान्युपादाय दर्शनाभ्यासमार्गयोः / ये बोधिसत्त्वा वर्तन्ते सो ऽत्रावैवर्तिको गणः // 4-38 //

ऽअत्रऽ इति महायाने / ऽअवैवर्तिकगणःऽ / तल्लक्षणम् / विवर्ताय प्रभवति वैवर्तिकः / न तथेत्यवैवर्क्तिको ऽविनिवर्तनीयः / अथास्य निर्वेधभागीयेषु स्थितस्य कति लिङ्गानीत्यत आह /

[98] रूपादिभ्यो निवृत्याद्यलिङ्गर्विशतिधेरितैः / निर्वेधाङ्गस्थितस्येदमवैवर्तिकललक्षणम् // 4-39 //

अवैवर्तिकत्वपरिज्ञानमित्यर्थः / अथ कतमे रूपादिनिवृत्त्यादयः?

[99] रूपादिभ्यो निवृत्तिश्च विचिकित्साक्षणक्षयौ / आत्मानः कुशलस्थस्य परेषां तन्नियोजनम् // 4-40 //

[100] पराधारं च दानादि गम्भीरे ऽर्थेप्यकाङ्क्षणम् / मैत्रं कायाद्यसंवासः पञ्चधावरणेन च // 4-41 //

[101] सर्वानुशयहानं च स्मृतिसम्प्रज्ञता शुचि / चीवरादिशरीरे च कृमीणामसमुद्भवः // 4-42 //

[102] चित्ताकौटिल्यमादानं धुतस्यामत्सरादिता / धर्मतायुक्तगामित्वं लोकार्थं नरकैषणा // 4-43 //

[103] परैरनेयता मारस्यान्यमार्गोपदेशिनः / मार इत्यवबोधश्च चर्या बुद्धानुमोदिता // 4-44 //

[104] ऊष्ममूर्धसु स क्षान्तिष्वग्रधर्मेष्ववस्थितः / लिङ्गैरमीभिर्विशत्या सम्बोधेर्न विवर्तते // 4-45 //

अत आह / अथ खल्वित्यादि / आक्रियन्ते व्यज्यन्त एभिरिति आकाराः / लिङ्ग्यन्ते गम्यन्त एभिरिति लिङ्गानि / निमीयन्ते निरूप्यन्त एभिरिति निमित्तानि / एकार्थत्वेपि त्रयाणामुपादान(नं) सत्त्वान्तरशङ्काया व्यवच्छेदार्थम् / पर्यायस्कन्धं (वचनं) अथवा अपरः पर्यायः / कथमित्यादि / अत एव वाशब्दः / कथं वे ति केन प्रकारेण जानीयाम इति सम्बन्धः /

अतिबहूनि लिङ्गानि तत्राद्यं तावदाह या चेत्यादिना / चतुर्धा भूमिः / पृथग्जनश्रावकप्रत्येकबुद्धबुद्धसम्बन्धात् / इयं चतुर्विधापि तथताभूमिरित्युच्यते / कुत इत्याह / सर्वाश्च इत्यादि / चशब्दो हेतौ / यस्मात्सर्वा एतास्तथतयाद्वयाः / रूपादीनां सर्वधर्माणां यथालक्षणमसत्त्वात् तथतैवैताः / तथता चैकैव न द्वे न बहव्यः / तस्मात्तथतयाद्वया अभिन्नाः अद्वैधीकारादच्छिन्नाः विकल्पस्वभावविरहात् अविकल्पाः / विकल्पागोचरत्वात् निर्विक्रल्पाः / इतीति / एवं लक्षणा या तथता तां तथतां धर्मतामवतरति / कथमवतरतीत्याह तथतायामित्यादि / स्थितस्तन्मात्रदर्शनात् / न कल्पयति सम्यक् न विकल्पयति वितथम् / एवमवतरतीत्येवं सत्यवतरति / ..........त्याह / एवमवतीर्ण इत्यादि / उक्तेन क्रमेणावतीर्णः सन् / यथेति यया मात्रया श्रुत्वापीति श्रवणानन्तरमपि / ततोपि वातिक्रम्येति तत उत्तरकालमपि / न काङ्क्षतीति न बाधते / नैवमितीति सम्बन्धः / विविधा मतिः विमतिः / तन्न करोति एवं वा न वेति / अत एवाह न विचिकित्सतोति / न धन्धायतीत्यप्रतिपत्तेः प्रतिषेधः / किं तर्हि करोतीत्याह / अपि त्वित्यादि / तथतैव सर्वं न सन्ति रूपादय इत्यधिमुञ्चति श्रद्धया / अवगाहते प्रज्ञया / एतदेव ज्ञानं मुख्यं लिङ्गम् / अस्य परिच्छेदमाह / न चेत्यादिना / (rst_110) परिच्छेदापेक्षया बहुवचनं एभिर्लिङ्गैरिति / तथतैव सर्वमिति ज्ञानात् ऽरूपादिभ्यो निवृत्तिःऽ निर्वेधाङ्गेष्ववैवर्तिकलिङ्गं प्रथमम् //

पुनरपरमित्यादि / अन्येषामिति / इतो धर्माद्वाह्यानाम् / श्रमणानामिति प्रव्रजितानाम् / मुखमुल्लोकयति प्रणतः पश्यति / किमितीत्याह / इमे इत्यादि / जानन्ति लौकिकेन ज्ञानेन / पश्यन्ति लोकोत्तरेण / दातव्यमिति भक्तितो देयम् / व्यपाश्रयत इति सेवते शरणं वा गच्छति / सत्येषु रत्नेषु च विमतिर्विचिकित्सा / तस्याः क्षये सति सर्वमेतन्न करोतीति ऽविकित्साक्षयो ऽ द्वितीयं तेषु तल्लिङ्गम् //

स खल्वित्यादि / अपाया नरकप्रेततिर्यञ्चः / स्वीभावः स्त्रीत्वम् / स चावशिष्टानामक्षणानामुपलक्षणमिति ऽअक्षणक्षयःऽ तृतीयं तेषु तल्लिङ्गम् //

पुनरपरमित्यादि / दशसु कुशलेषु स्वयं स्थित्वा ऽपरेषांऽ तेषु ऽसमादापनंऽ दृढीकरणं चेति चतुर्थं तेषु तल्लिङ्गम् //

पुनरपरमित्यादि / यं यं धर्ममिति सूत्रगेयादिकम् / ददाति च परस्मै हिताय सुखाय चष भवत्विति तेषामेव हितसुखाय / इति अनेनाकारेण साधारणं करोति / यथा च धर्मदानं तथान्यदपि दानशीलादिकमिति ऽपराधारं दानादिऽ पञ्चमं तेषु तल्लिङ्गम् //

पुनरपरमित्यादिना न धन्धायतीत्येतदन्तेन ऽगम्भीरे ऽर्थेप्यकाङ्क्षणंऽ षष्ठं तेष्वेव तल्लिङ्गम् //

ऽमैत्रं कायादिऽ इति कायादि कर्म / तदाह हितवचनश्चेत्यादिना / उपलक्षणत्वादिति ऽमैत्रं कायादिऽ सप्तमं तेषु तल्लिङ्गम् //

ऽअसंवासः पञ्चधावरणेन वाऽ इति / पञ्च निवरणानि / कामच्छन्दो व्यापादस्त्यानमिद्धमौद्धत्यकौकृत्यं विचिकित्सा चेति / एभिरसंवासो ऽसमन्वागमः / तमाह / अल्पस्त्यानमिद्धश्च भवतीत्युपलक्षणत्वात् / इति पञ्चभिर्निवरणैसंवासो ऽष्टमं तेषु तल्लिङ्गम् //

सर्व यथा भवति तथानुशयस्य द्वेषानुबन्धस्य हानं ऽसर्वानुशयहाअनम्ऽ / तदाह निरनुशयश्च भवतीति / नवमं तेषु तल्लिङ्गम् //

ऽस्मृतिसंप्रज्ञताऽ इतिस्मृतिसहितं संप्रजन्यम् / तदाह सोभिक्रामन्वेत्यादिना / अभिक्रमो गमनम् / अप्रतिक्रम आगमनम् / भ्रान्तं विक्षिप्तम् / न विलम्बितमिति विलम्बे विक्षेपात् / सहसेति असमीक्ष्य भूमिम् / उपलक्षणं चैतच्चंक्रमस्थाननिषद्याशयनेषु विक्षेपस्येति स्मृतिसंप्रजन्यं दशमं तेषु तल्लिङ्गम् //

तस्य खल्वित्यादि यानीत्यतः प्राक् / यूकायोगाद् यूकिलः / पिच्छादित्वादिलच् / चौक्षः शुचिः / आबाधः पीडा / आदीनव उपद्रव इति ऽशुचिचीवरादिताऽ एकादशं तेषु तल्लिङ्गम् //

यानीत्यादि सुभूतिराहेत्यतः प्राक् / सम्भवन्ति जायन्ते कायस्य भक्षणाय / अभ्युद्गतानीति प्रतिविशिष्टानि / इति ऽशरीरे क्रि(कृ)मीणामसमुभ्दवो ऽ द्वादशं तेषु तल्लिङ्गम् //

सुभूतिराहेत्यादि पुनरपरात् प्राक् / चित्ताल्पकृत्यता अल्पत्वादविक्षेपाच्च / चित्तस्य कौटिल्यं कुटिलता / यत्तु स्वदोषप्रच्छादनोपायस्तच्छाठ्यम् यत्परवञ्चनाय स वङ्कः / परवञ्चनार्थमभूतस्वगुणसंदर्शनं माया / एभिर्विरहाद्यथाक्रमं चित्ताकौटिल्यं चित्ताशाठ्यता चित्तावङ्कता चित्तामायाविता च / शेषं सुबोधम् / इति ऽचित्तकौटिल्यंऽ त्रयोदशं तेषु तल्लिङ्गम् //

पुनरपरमित्यादि / अत्र लाभादिगुरूकताप्रतिषेधेन धुतग्रहोत्प्युपलभ्यते / इति ऽधुतगुणसमादनंऽ चतुर्दशं तेषु तल्लिङ्गम् //

नेर्ष्यामात्मसर्यबहुलो भवतीति मात्सर्यग्रहणेन षट्पारमिताविपक्षा उपलक्ष्यन्ते / इति ऽअमत्सरादिताऽ पञ्चदशं तेषु तल्लिङ्गम् //

न च गम्भीरेष्वित्यादि पुनरपरात् प्राक् / संस्यन्दनं संयोजनम् / धर्मतया युक्तं सर्वमवगच्छतीति ऽधर्मतायुक्तगामित्वंऽ षोडशं तेषु तल्लिङ्गम् //

पुनरपरमित्यादि धारयितव्यान्तरम् / प्रतिदेशयेत्येअयमत्ययतो देशय / प्रतिनिःसजेति प्रतिनियमेनात्यन्तिकत्वेन परित्यज / एवमिति बोधिचित्तत्यागे सति / एवमपीति / ईदृशेपि मायेणोक्तै / शेषं सुबोधम् / इति लोकानामर्थो ऽस्मादिति ऽलोकार्थं नरकैषणाऽ नरकस्वीकारः / सप्तदशं तेषु तल्लिङ्गम् //

पुनरपरादि धारयितव्यान्तम् / यच्छ्रुतं प्रज्ञापारमितादि तत्प्रतिदेशय प्रत्याचक्ष्व / यद् गृहीतं बधिचित्तपारमिताचर्यादि तत्परित्यज / अभूतविचित्रवादी कविः / तस्य कर्म काव्यम् / अविनिवर्तनीयस्य धातुः प्रकृतिः / अप्रत्युदावर्तनीयधर्मेति परेण सम्बध्यते / शेषं सुबोधम् / इति ऽपरैरनेयताऽ ऽष्टादशं तेषु तल्लिङ्गम् //

पुनरपरादि धारयितव्यान्तम् / संसारे चारिकेत्यादिना बोधिसत्त्वमार्गं दूषयति / इहैव त्वमित्यादिना श्रावकादिमार्गं ग्राहयति / अभिनिर्वृत्त इति क्षीणायुः / वाशब्दो विकल्पे / इहैवेत्यादिकं वा वक्ष्यति / (rst_112) अहो वतेत्यादिकं वा / चित्तं न कुप्यति न चलतीति मारभाषितस्य हीनमार्गस्य मारभाषितत्वेन ज्ञानात् / अत इदं मारस्यान्यमार्गोपदेशिनो ऽमार इत्यवबोधःऽ ऊनविंशतितमं तेषु तल्लिङ्गम् //

सा चेदित्यादि धारयितव्यान्तम् / विवेको महायानत्यागः / तदर्थानि वचनानि विवेकपदानि / तानि परतो मारादितः श्रुत्वा चित्तं न परिहीयते इति सम्बन्धः / न चलतीत्यर्थः / कुत इत्याह / धर्मताया इति धर्म एव धर्मता महायानचर्या ततः / न प्रत्युदावर्तत इति न विमुखीभवति / नान्यथाभाव इति न विपर्ययः / न हीनयाने बहुमान इत्यर्थः / तानीति विवेकपदानि / चशब्दो हेतौ / यस्मान्मारकर्माणि जानाति / अस्थानमिति परेण सम्बध्यते / तथेति यथा बुद्धानुवर्णितम् / शेषं सुबोधम् / इति ऽचर्याबुद्धानुमोदिताऽ विंशतितम तेषु तल्लिङ्गम् //

ऊष्मामूर्धसु स क्षान्तिष्वग्रधर्मेष्ववस्थितः / लिङ्गैरमीभिर्विशत्या सम्बोधेर्न विवर्तते //

अयमुपसंहारः / ऊष्मादिषु निर्वेधभागीयेषु स्थिते य एभिर्विशत्या लिङ्गैर्लक्षितः स सम्बोधेर्न निवर्तते / सो ऽविनिवर्तनीय इत्यर्थः //

दर्शनमार्गे स्थितमधिकृत्य शास्त्रम्-

[105] क्षान्तिज्ञानक्षणाः षट् च पञ्च पञ्च च दृक्पथे / बोधिसत्त्वस्य विज्ञेयमवैवर्तिकलक्षणम् // 4-46 //

दर्शनमार्गे स्थितस्य बोधिसत्त्वस्यावैवर्तिकं लिङ्गं वेदितव्यम् / किं तत्? ऽक्षान्तिज्ञानलक्षणाःऽ क्षान्तिक्षणाः ज्ञानक्षणाश्च / ऽषट् च पञ्च पञ्च चऽ इति षोडशेत्यर्थः / कतमे षोडश?

[106] रूपादिसंज्ञाव्यावत्तिर्दाढ्र्य चित्तस्य हीनयोः / यानयोर्विनिवृत्तिश्च ध्यानाद्यङ्गपरिक्षयः // 4-47 //

[107] कायचेतोलघुत्वं च कामसेवाभ्युपायिकी / सदैव ब्रह्मचारित्वमाजीवस्य विशुद्धता // 4-48 //

[108] स्कन्धादावन्तरायेषु सम्भारे सेन्द्रियादिके / समरे मत्सरादौ च नेति योगानुयोगयोः // 4-49 //

[109] विहारे प्रतिषेधश्च धर्मस्याणोरलब्धता / निश्चितत्त्वं स्वभूमौ च भूमित्रितयसंस्थितिः // 4-50 //

[110] धर्मार्थं जीवितत्याग इत्यमी षोडश क्षणाः / अवैवर्तिकलिङ्गानि दृङ्मार्गस्थस्य धीमतः // 4-51 //

तत्राद्यमाह / पुनरपरमित्यादिना धारयितव्यान्तेन / अभिसंस्करोतीति उत्पादयतीत्यर्थः / तमपि धर्ममिति रूपादिकं नोपलभत इत्यादि / अत्र उपलम्भ एवाभिसंस्कारः / स एवोत्पादनम् / अनुत्पादज्ञाने क्षान्तिरस्येति बहुव्रीहिः / इति ऽरूपादिसंज्ञाव्यावृत्तिःऽ दुःखे धर्मज्ञानक्षान्तिः / सा दृङ्मार्गे प्रथमं तल्लिङ्गम् //

पुनरपरमित्यादि धारयितव्यान्तम् / विच्छन्क्यिस्यतीति विगतच्छन्दं करिष्यति / आज्ञास्यति लोकोत्तरेण ज्ञानेन / विहन्यसे क्लिष्यसे / विवेचनता बोधिचित्तत्याजनम् / तत्रेति सम्यक्सम्बोधौ / दृढचित्तेन इति सम्यक्सम्बोधौ ऽचित्तदार्ढ्ययऽ दुःखे धर्मज्ञानम् / तद् दृङ्मार्गे द्वितीयं तल्लिङ्गम् //

पुनरपरादि भवत्यन्तम् / इति ऽहीनयानविनिवृत्तिःऽ दुःखे ऽन्वयज्ञानक्षान्ति / सा दृङ्मार्गे तृतीयं लिङ्गम् //

स आकाङ्क्षन्नित्यादि वेदितव्यान्तम् / इति ऽध्यानादीनामङ्गपरिक्षयःऽ कामोत्पत्तिविबन्धे दौर्बल्यं दुःखे ऽन्वयज्ञानम् / तद् दृङ्मार्गे चतुर्थं तल्लिङ्गम् //

पुनरपरादि स चेदित्यतः प्राक् / अत्र न नामगुरुक इत्यादिकं ऽचेतोलघुत्वम्ऽ / सो ऽभिक्रामन्वेत्यादिकं ऽकायलघुत्वम्ऽ / तदुभयं समुदये धर्मज्ञानक्षान्तिः / सा दृङ्मार्गे पञ्चमं तल्लिङ्गम् //

स चेदित्यादि प्रागनर्थिकात् / यथोक्तैव संज्ञाभ्युपायः तेन निर्वृत्ता ऽकामसेवाभ्युपायिकीऽ / सा समुदये धर्मज्ञानम् / तद् दृङ्मार्गे षष्ठं तल्लीङ्गम् //

अनर्थिका एव चेत्यादि धारयितव्यान्तम् / अत्यर्थं सौमनस्यजननात् प्रियरूपैः / अत्यर्थं सुखजननात् सातरूपैः / प्रशंसायां रूपप् वा / अनर्थिका एवेति नित्यमनर्थिकाः / न समविषमेणेति न युक्तायुक्तेन / कथमित्याह / धर्मेणैवेत्यादि / अपमर्दनं पीडा / पञ्चभिर्मोक्षभागीयैश्चतुर्भिर्निर्वेधभागीयैः सप्तभिश्च दर्शनक्षणैर्योगात् सत्पुरुषैरित्यादिनि षोडशपदानि / इति ऽसदैव ब्रह्मचारित्वं समुदये ऽन्वयज्ञानक्षान्तिः / सा दृङ्मार्गे सप्तमं तल्लिङ्गम् //

पुनरपरादि धारयितव्यान्तम् / मन्त्रजातिर्मन्त्राविशेषः ग्रहदेवतायाः / औषधिः पा(फ)लपाकान्ता / स्त्रीदेवताया मन्त्रो विद्या / (rst_114) भैषज्यमौषधम् / आदिशब्देन यन्त्रमन्त्रादिपरिग्रहः / विग्रहः कायेन कलहो विवादस्तु वाचा / इति ऽआजीवपरिशुद्धिःऽ समुदये ऽन्वयज्ञानम् / दृङ्मार्गे ऽष्टमं तालिङ्गम् //

नवमात् प्रभृति पञ्चक्षणानधिकृत्य शास्त्रम्-

ऽस्कन्धादावन्तरायेषु सम्भारे सेन्द्रियादिके / समरे मत्सरादौ च नेति योगानुयोगयोः //

विहारे प्रतिषेधश्चऽ

इति / ऽयोगःऽ साभिनिवेशा वृत्तिः / ऽअनुयोगो ऽ निरभिनिवेशा वृत्तिः / ताभ्यां विहारस्तयोर्विहारस्तद्वान्समाधिः / तस्य ऽप्रतिषेधःऽ / ऽनेतिऽ इति नञो सम्बन्धादित्यर्थः / स पुनर्विहारः ऽस्कन्धादौऽ प्रथमः / ऽअन्तरायेषुऽ द्वितीयः / ऽसम्भारे ऽ तृतीयः / ऽसेन्द्रियादिके समरे ऽ चतुर्थः / ऽमत्सरादौऽ पञ्चमः / तत्र चतुरं तावदाह पुनरपरमित्यादिना न च ते कलहेत्यतः प्राक् / न ते स्कन्धायतनेत्यादि / योगाश्चानुयोगश्च योगानुयोगं तदनुइयुक्तास्तेन सह युक्ताः / सहार्थे ऽनुशब्दः / न विहरन्तीति सम्बन्धः / अत्रोपपत्तिर्महत्योभंगवत्योरुक्ता- "तथा हि स शून्यतायां स्थितो न कस्यचिद्धर्मस्य हीनत्वं वा उत्कृष्टत्वं वा समनुपश्यति" इति / एनामस्यां वाक्यद्वयेनाह / संक्लेशपक्षो निःसारत्वेन सङ्गणिकारामताविषयत्वात् सङ्गणिकारामता / सैवासत्त्वेन कथामात्रत्वात् कथा / शेषं पूर्ववत् / उत्कृष्टत्वाद्राजसंक्लेशनिरोधः / स एव कथा असाक्षात्कृतत्वेन कथामात्रत्वात् कथा / एतावेव कथे द्वे / यथायोगमुत्तरत्रापीति स्कन्धादियोगानुयोगविहारविरहो निरोधे धर्मज्ञानक्षान्तिः / सा दृङ्मार्गे नवमं तल्लिङ्गम् //

पञ्च निवरणानि चौराः कुशलद्रव्यहरत्वात् / शेषं पूर्ववत् / इति निरोधे धर्मज्ञानम् / तद् दृङ्मार्गे दशमं तल्लिङ्गम् //

कुशलधर्मसम्भारः सेना / शेषं पूर्ववत् / इति निरोधे ऽन्वयज्ञानक्षान्तिः / सा दृङ्मार्गे एकादशं तल्लिङ्गम् //

तया सेनया विपक्षाणां बाधनं युद्धम् / शेषं पूर्ववत् / युद्धे सति निरोधः प्राप्यते / निरोधो निर्वाणं विमुक्तिः / कश्चासौ? देहप्रतिष्ठाबोगप्रतिभासानां विज्ञप्तीनां परावृत्तिः / तस्माद्देहादीनामविकल्पनात् न ग्रामनगरनिगमजनपदराष्ट्रराजधानीकथायोगानुयोगमनुयुक्ता विहरन्ति / तत्र चक्षुरादि पञ्चकं (rst_115) देहः / स हि ग्राम इन्द्रियग्रामत्वात् / देहानामाधारत्वात् प्रतिष्ठा नगरम् / नियतेन्द्रियगम्यत्वात् निगमो भोगः पञ्चविषयाः / जनपदादयः प्रतिष्ठाविशेषाः / आत्मात्मीयविकल्पक्षये सति मोक्षः / तत आत्मविकल्पानधिकृत्याह / नात्मकथेत्यादि / आत्मीयविकल्पानधिकृत्याह / नामात्येत्यादि / इत उर्ध्वरूपाः कथास्ते यथायोगमात्मीयविकल्पा भोगविकल्पाः प्रतिष्ठाविकल्पा वा वेदितव्याः / यदि तथा तथा न विहरन्ति कथं तर्हि विहरन्तीत्याह / अपि न्वित्यादि / प्रज्ञापारमितैव कथ प्रत्यवेक्षा / शेषं पुर्ववत् / सर्वत्र धर्मतया समतायोगानुयोगमनुयुक्ता एव विहरन्तीत्यर्थः / सर्वज्ञताप्रतिसंयुक्तैरिति बोधिचित्तप्रतिसंयुक्तैः / युद्धेन्द्रियादिकथायोगानुयोगविहारविरहो निरोधे ऽन्वयज्ञानम् / तद् दृङ्मार्गे द्वादशं तल्लिङ्गम् //

ऽमत्सरादौ चऽ इति शास्त्रम् / यदाह महत्योः / "स दानपारमितायां चरन्न मात्सर्यकथायोगमनुयुक्तो विहरति यावत् प्रज्ञापारमितायां चरन्न दौष्ठुल्यकथायोगमनुयुक्तो विहरति" इति / तदस्यामाह / न च ते कलहभण्डनविग्रहविवादकथायोगानुयोगमनुयुक्ता विहरन्तीति / विपक्षत्वात्कलहा मात्सर्यादयः / प्रतिपक्षत्वात्कलहा मात्सर्यादयः / प्रतिपक्षत्वाभ्दण्डनादयः / यदोभयेषां चेतसि चारस्तुल्यबलता च तदा विग्रहः / यदा तु प्रतिपक्षैर्विपक्षा दुर्बलीक्रियन्ते तदा विवादः / तावेव विग्रहविवादौ कथा विकल्पत्वात् / तस्यां योगानुयोगमनुयुक्ता न विहरन्ति / अभेदः समताज्ञानम् / भेदो नानात्वविकल्पः / मित्रकामाश्चेत्यादि धारयितव्यान्तं सुगमम् / इति मार्गे धर्मज्ञानक्षान्तिः / सा दृङ्मार्गे त्रयोदशं तल्लिङ्गम् //

पुनरपरादि स चेदित्यतः प्राक् / अनेतैतदाह /

ऽधर्मस्याणोरलब्धता / निश्चितत्वं स्वभूमौ चऽ इति / सो ऽणुमपि धर्म न समनुपश्यति यो विवर्ते, भवान् वा विवर्तेन / तथापि स्वस्यामविनिवर्तनीयभूमौ निःसंशयो भवति / विचिकित्सा संशयः / संसीदनं मन्दोत्साहता / आनन्तर्यचित्तेनेति / अनन्तर्यपश्चात्तापेन / प्रतिविनोदनं सर्वथात्यागः / विष्कम्भणं मन्दाकरणम् / अविनिवर्तनीयचित्तमात्मनो ऽविनिवर्तनीयत्वनिश्चयः / असंहार्यमप्रत्यानेयम् / इत्यवैवर्तिकभूमौ ऽस्थिरनिश्चयत्वऽ मार्गे धर्मज्ञानम् / तद् दृङ्मार्गे चतुर्दशं तल्लिङ्गम् //

ऽभूमित्रितयसंस्थितिः / ऽ मारकर्म तथागतभाषितस्यान्यथात्वं भाविनी चात्मनः सम्यक्सम्बोधिरिति त्रीणि स्थानानि ऽभूमित्रितयम्ऽ / तस्मिन् ऽसंस्थितिःऽ (rst_116) आत्यन्तिको निश्चयः / तामाह / स चेत्खल्वित्यादिना धारयितव्यान्तेन / इहैवेत्यस्मिन्नेव जन्मनि / नायं तथागत इत्यस्मात्पूर्व इति शब्दः परो द्रष्टव्यः / तथा तन्नान्यथेत्युक्ते ऽर्थाद्गम्यते भविष्यत्येव मे ऽनुत्तरा सम्यक्सम्बोधिरिति / बुद्धाधिष्ठानं बुद्धनिर्माणम् / अद्धेति तत्त्वत इत्यर्थः / इति भूमित्रयसंस्थितिमार्गे ऽन्वयज्ञानक्षान्तिः / सा दृङ्मार्गे पञ्चदशं तल्लिङ्गम् //

पुनरपरमित्यादि आपरिवर्तान्तात् / आत्मनः परित्यागो विक्रयादि / जीवितस्य परित्यागो मरणम् / बुद्धैर्भगवभ्दिर्देशितो धर्मः सर्वधर्माः शून्या इति / तमेव मोहपुरुषाः प्रतिक्षिपन्ति / तस्य स्वयं परैश्च परिग्रहाय जीवितमपि त्यजति / स हि बुद्धेषु यत्प्रेमगौरवं तद्धर्मे करोति / धर्मकायास्तथागता इति ज्ञानात् / आत्मनश्च भाविबुद्धत्वदर्शनात् / श्रावकस्यापीत्युपलक्षणम् / बोधिसत्त्वस्यापि देवादेरपि / शेषं सुबोधमिति / ऽधर्मार्थं जीवितत्यागःऽ मार्गे ऽन्वयज्ञानम् / तद् दृङ्मार्गे षोडशं तल्लिङ्गम् //

ऽइत्यमी षोडश क्षणाः / अवैवर्तिकलिङ्गानि दृङ्मार्गस्थस्य धीमतःऽ // इत्युपसंहारः //

अविनिवर्तनीयस्य यान्याकारलिङ्गनिमित्तानि तद्द्योतकः परिवर्तस्तत्परिवर्तः //

आर्याष्टसाहस्रिकायाः प्रज्ञापारमितायाः सारतमानाम्नि पञ्जिकायां रत्नाकरशान्तिविरचितायां सप्तदशः परिवर्तः //

18. शून्यतापरिवर्तो नामाष्टादशः /

निर्वेधाङ्गदृङ्मार्गयोरवैवर्तिकलिङ्गानि संख्यया विशेषतश्चोक्तनि / भावनामार्गस्तु गम्भीरः / ततो तान्युभयथापि वक्तुमशक्यानि / अतः शास्त्रम्-

[111] गम्भीरो भावनामार्गः

एतदाह / अथ खल्वित्यादिना प्रत्येकबुद्धैरित्येतदन्तेन / आश्चर्यं भगवन्नित्येकं चोद्यम् / किमाश्चर्यमित्यत आह / महागुणेत्यादि / (rst_117) महान् गुणसम्भारः परमगम्भीरतया कल्पासंख्येयद्वयनिरन्तरप्रयत्नलभ्यतया च / अत एव विशेषतो ज्ञातुमशक्यत्वादप्रमाणाः संख्यातुमशक्यत्वादपरिमिताः / बोधिसत्त्वो महासत्त्व इति भावनामार्गस्थो ऽवैवर्तिकः / अविनिवर्तनीयेनेति भावनामार्गस्थेन / संख्यातिक्रमाद् अनन्तम् / परमोदारत्वाद् अपर्यन्तम् / असंहार्य सम्यगग्राद्यं सम्यग्ज्ञातुमशक्यं श्रावकप्रत्येकबुद्धैरपीति भावनामार्गस्य गाम्भीर्यम् //

सुभूतिराहेत्यादि प्रतिबलः शक्तो निर्देष्टुम् / किन्तु सत्त्वा(र्वा)र्थो न स्यादिति भावः / ततः किमित्याह / अत एवेत्यादि / एवकारो भिन्नक्रमः / स्थानानीत्यतः परेण द्रष्टव्यः / सर्वाणि गम्भीराणीति वीप्सार्थः / स्थानानीति भावनामार्गालम्बनानि / प्रज्ञापारमितायां प्रतिसंयुक्तानि तदाधारणीत्यर्थः / सूचयितव्यानीति सूच्यन्तामित्यर्थः / इति सुभूतेरध्येषणा //

एवमुक्त इत्यादि / आरभ्येति / आदौ निर्दिश्य / निगमयितुकाम इति भावनार्गे योजयितुकामः / इति भगवतो ऽभ्युपगमः /

अथ शास्त्रम्-

गाम्भीर्यं शून्यतादिकम् / समारोपापवादान्तमुक्तता सा गभीरता // 4-52 //

ऽगम्भीरो भावनामार्गःऽ इत्युक्तम् / तस्य ऽगाम्भीर्यंऽ गम्भीरभावः / यतः स गम्भीरो भवति तच्च शून्यतानिमित्तादिकम् / मार्गस्य गम्भीर्यमालम्बनगाम्भीर्यादिति भावः / तच्चालम्बनं ऽशून्यतादिऽ / शून्यतादेरपि का गाम्भीर्यता? यास्य समारोपान्तेनापवादान्तेन चारहितता / भगवानभ्युपगतं सूचयितुमाह / गम्भीरमितीत्यादि / सर्वधर्माणां यथाप्रतिभासभावो यथातत्त्वं च भावः शून्यता / सैवानिमित्तंतद्वेदने निमित्तनिरोधात् / सैवाप्रणिहितं तद्विदां त्रैधातुके ऽप्रणिधानात् / सैवानभिसंस्कारस्तेषां पुनर्भवाय कर्माकरणात् / सैवानुत्पादस्तेषां तेन कर्मणानुत्पादात् / सैवाजातिस्तेषां प्रकृत्यजातताज्ञानात् / सैवाभावो ऽद्रव्यत्वात् / सैव विरागशुद्धिः क्लेशानुशयसमुद्घातात् / सैव निरोधस्तेषां पुनर्भववि(नि)रोधात् / सैव निर्वाणं तेषां वासनासमुद्घातात् / सैव विगमस्तेषां साश्रवस्कन्धोपरमात् // इति शून्यतादिकम् //

सुभूतिराहेति काक्वा पृच्छतीत्यर्थः / धर्माणामिति शून्यतादिनाम् / सर्वधर्माणामिति स्कन्धधात्वादीनाम् / बालग्राह्या रूपादयस्ते कथं गम्भीराः? अतः स्वयमेव पृच्छति कथं चेत्यादि / उत्तरं यथा तथतेत्यादि / (rst_118) कस्य तथतेति चेदाह तत्रेत्यादि / स्फुटीकर्तुमाह यथेत्यादि / यत्रेति यस्यां रूपादितथतायां वेद्यमानायां कल्पितं रूपादि न प्रख्याति इयं रूपादीनां गम्भीरता / परमार्थसता रूपेण तेषां प्रख्यानात् / सम्यग्देशनया तोषितः सुभूतिराह / आश्चर्यमित्यादि / सूक्ष्मेणेति निपुन(ण)वेद्येन / निर्वाणं च सूचितम् / भावनामार्गस्थस्यावैवर्तिकस्य सर्वेषां परिकल्पितानामप्रख्यानात् / रूपादिभ्यश्च निवारितः / तेषां परमार्थस्य प्रख्यानात् / तत्र निर्वाणेन रूपादिसमारोपान्तमुत्कता / इति शून्यतादिगम्भीरता //

अथ शास्त्रम्-

[112] चिन्तातुलननिध्यानान्यभीक्ष्णं भावनापथः / निर्वे आङ्गेषु दृङ्मार्गे भावनामार्ग एव च // 4-53 //

ऽअभीक्ष्णंऽ इति प्रबन्धेन / अतः प्राबन्धिकानि ऽचिन्तातुलननिध्यानानिऽ स्वभावो भावनामार्गस्य अलम्बनं शून्यतादि / शून्यतादेराधारो निर्वेधभागीयदृङ्मार्गभावनामार्गाः(र्गः) कथं भावनामार्गस्या(श्चा)स्यैव विषय इति चेदाह-

[113] प्राबन्धिकत्वादिष्टो ऽसौ

ऽप्राबन्धिको ऽ हि भावनामार्गः / ततः प्राकृतो विषयः पश्चात्तमो विषयीति नास्ति विरोधः / अत्र सूत्रं भगवानाहेत्यादि / इमानीति यथोक्तानि शून्यतादीनि / प्रज्ञापारमिताप्रतिसंयुक्तानीति / विकल्पपारमित्तैव प्रज्ञा प्रज्ञापारमिता दर्शनमार्गो भावनामार्गश्च / निर्वेधभागीयानि तु तादर्थ्यात्प्रज्ञापारमिता / तस्यां त्रिविधायां प्रतिसंयुक्तानि सम्बद्धानि तदाधाराणीत्यर्थः / य इमानिओ चिन्तयिष्यति तुलयिष्यति उपनिधास्यतीति सम्बन्धः / कथमित्यत आह / एवं मयेत्यादि / स्थातव्यमिति चिन्तयैकान्तनिश्चयात् / शिक्षितव्यमिति तुलनेन शमथोत्पादनात् / प्रतिपत्तव्यमित्युपनिध्यानेन विपश्यनोत्पादनात् / आज्ञप्तं ग्रन्थश्रवणात् / आख्यातमर्थज्ञापनात् / उपदिष्टं रहस्यकीर्तनात् चतस्रो युक्तयः / अपेक्षायुक्तिः सर्वहेतूनपेक्ष्य कार्योत्पत्तेः / कार्यकारणयुक्तिः तेभ्यः प्रत्येकं कार्यविशेषोत्पत्तेः / उपपत्तिः साधनयुक्तिः / येन प्रमाणेन यो ऽर्थः सिध्यति / धर्मतायुक्तिः स्वभावनियमोधर्माणाम् / अग्नि एव दहत्याप एव क्लेदयन्तीत्यादि / आभिः समाध्यालम्बनस्य रहसि पर्यङ्कमारुह्य सत्कृत्य सातत्येन निरूपणं चिन्ता / तत्रैव नवाकारेण शमथेन चेतसः समीकरणं तुलनम् / धर्मान्विचिनोति प्रविचिनोति परिवितर्कयति परिमीमांसामापद्यत इति चतुराकारा विपश्यना उपनिध्यानम् // तत्र यथावभ्दाविकताज्ञानं विचयः / (rst_119) पञ्चैव स्कन्धा इत्यादि यथावभ्दाविकताज्ञानं प्रविचयः / सर्व एते शून्या इत्यादि निर्विकल्पेन मनसा प्रज्ञासहगतेन निमित्तीकरणं परिवितर्कः / सन्तीरणं परिमीमांसा / इति भावनामार्गस्य स्वभावः //

नवधा च प्रकारतः /

स भावनामार्गः प्रकारभेदेन नवधा भवति / चकाराद्विपक्षो नवधा / कथमित्याह- मृदुमध्याधिमात्राणां पुनर्मृद्वादिभेदतः // 4-54 // मृदुमृदुः / मृदुमध्यः / मृद्वधिमात्रः / मध्यमृदुः / मध्यमध्यः / मध्यधिमात्रः / अधिमात्रमृदुः / अधिमात्रमध्यः / अधिमात्राधिमात्रश्चेति / विपक्षाणामप्येत एव नव प्रकाराः / तत्रैते मार्गस्य प्रकारा अनुलोममुत्पद्यन्ते / तैः प्रतिलोमं विपक्षप्रकाराः क्षीयन्ते / अधिमात्राधिमात्रो ऽधिमात्रमध्यो यावन्मृदुमृदुः / स च विपक्षो भावनाहेयः क्लेशविकल्पा यथायोगाम् / औदारिको हि मलश्चेलात्पुर्व निष्पीड्यते पश्चासूक्ष्मः / तद्वच्चित्तादपि /

तत्राद्यः तथेत्यादिना / द्वितीय एवमित्यादिना / ततः यथा पुनरपरादिभीः प्रसवत्यन्तैः ततः द्वावेकेन पुनरपरादिना सुभूतिराहेत्यतः प्राक् / तथेत्यादि / तथेति यथोक्तेन क्रमेण सम्पादयमानः शमथेन / उपनिध्यायन विपश्यनया / उपपरीक्षमाण उभाभ्याम् / प्रयुज्यमानः शमथवीर्येण / घटमानो विपश्यनावीर्येण / व्यायच्छमान उभयवीर्येण / स्वयमेव भगवान् पृच्छति कियत्कर्म करोतीति / उत्तरं स्वयमेवाह तद्यथापीत्यादिना / प्रसादा प्रभवन्तीति प्रासादिका गुणाः / मत्वर्थीयो ऽच् / परपरिगृहीतेति परकीया न वशयेन् न शक्नुयात् / संसारादित्यागामिनो जन्मप्रबन्धात् / छोरयतीति त्यजति / विपृष्ठीकरोति / आगामिनो ऽनागमनात् / व्यन्तीकरोतीत्यपरान्ततः पूर्वान्तनयनात् / यथाज्ञप्तमित्यादि पूर्ववत् / यथोद्दिष्टं यथा निर्दिष्टमित्युद्देशनात् / तिष्ठति चिन्तया संशयच्छेदात् / शिक्षते शमथेन / प्रतिपद्यते विपश्यनया / उपनिध्यायतीत्युभाभ्याम् / एवं योगं भावनामापद्यते / इयता एकं कर्मोक्तम् /

द्वितीयमाह तांश्चेत्यादिना सम्यक्सम्बोधेरित्येतदन्तेन / इति भावनामार्गो मृदुमृदुः //

एवमित्यादि एवमित्यनन्तरोक्तवत् / तावत्कर्मेति बहुतरकल्पव्यन्तीकरणम् / सम्यक्सम्बोधिविनिवर्तकदोषविवर्जनं च / अधिकमाह (rst_120) यथेत्यादिना प्राक् पुनरपरात् / तत इति दायकात् / अयमेव विशिष्यते बहुतरपुण्यतया प्रकृष्यते / इत्यत आह / योयमित्यादि / इति भावनामार्गो मृदुमध्यः //

पुनरित्यादि / दद्यादर्पणतः / प्रतिष्ठापयेदविप्रतिसारतः / इति भावनामार्गो मृद्धधिमात्रः //

पुनरित्यादि / मनसिकारो विहारः / इति भावनामार्गो मध्यमृदुः //

पुनरित्यादिना भावनामार्गो मध्यमध्यः //

पुनरित्यादि / व्युत्थाय धर्म देशयेत् तच्च बोधौ परिणामयेदिति भावनामार्गो मध्याधिमात्रः //

पुनरपरेत्यादि / तच्च धर्मदानं / प्रज्ञापारमितोक्तेन परिणामेन परिणामयेदिति भावनामार्गो ऽधिमात्रमृदुः //

पुनरित्यादि / तद्धर्मदानं प्रज्ञापारमितोक्तपरिणामेन परिणमय्य पुनः प्रतिसंलयने योगमापद्यते / इति भावनामार्गो ऽधिमात्रमध्यः //

यः पुनस्तत् प्रतिसंलयनमविरहितं करोति प्रज्ञापारमितया स तस्य भावनामार्गो ऽधिमात्राधिमात्रः //

सुभूतिराहेत्यादि / इह बहुतरं पुण्यं प्रसवतीति बाहुल्येनोक्तम् / अतः सुभूतेश्चोद्यम् / अभिसंस्कारो विकल्पः / तद्वत्पुण्याभिसंस्कारोपि / तस्माद्वहुतरं पुण्यमिति बहुतरो विकल्प उक्तः स्यादिति / उत्तरं भगवानाह सोपीत्यादिना प्रसवत्यन्तेन / इदानीमिति भावनामार्गकाले / यथालक्षणमसत्त्वाच्छून्यः / अज्ञातार्थे कप्रत्ययः / बालैरज्ञातः शून्यक इत्येव / एवमेव आख्याति प्रख्यातीति आख्यः / अनाख्ये आख्या भवति आख्यायते लोहितादेराकृतिगणत्वात् क्यष् / प्रख्यातीत्यर्थः / एवमुत्तरेष्वपि द्रष्टव्यम् / अस्वामिकत्वाद् रिक्तः / अग्राह्यत्वात् तुच्छः / ग्राहकाभावत्वाद् असरः / एवमिति शून्यतादिभिः / शेषं सुबोधम् / इति बहुतरंपुण्यंप्रसवचोद्यपरिहारौ //

सुभूतिराहेत्यादि / उत्कर्षोपि विशेषः / छेदोपि नानाकरणम् / तयोर्व्यवच्छेदार्थमुभयोरुपादानम् / प्रमाणानीत्यौदार्यपरिच्छेदाः / संख्ययापीति गणनयापि न क्षपयितुं क्षयं नेतुम् / स्याभ्दगवन्नित्यादि सुगमम् / अधिकं वचनं अधिवचनं मुख्यं वाचकमित्यर्थः / अक्षया अपीति (rst_121) आकाशवत् / अप्रमेयातापीत्याकाशस्येव / अक्षयाप्रमेयशून्यतानिमित्तादीनां अभिलापाः शब्दाः / ननु शब्दा अपि विचत्राः कथमेकार्थे व्यवच्छेद्यभेद्यलेशादिति भावः / अत एवाह देशनाभिनिर्हार एष इति / देश्यते ऽनयेति देशना करुणा तस्याभिनिर्हारो निःष्यन्दः स चासौ निर्देशश्च / अत्र शास्त्रम्-

[114] असंख्येयादिनिर्देशाः परमार्थेन न क्षमाः / कृपानिष्यन्दभूतास्ते संवृत्याभिमता मुने // 4-55 //

ऽन क्षमाऽ इति न युक्ताः / इत्यसंख्येयादिनिर्देशे चोद्यपरिहाराः //

सुभूतिहाह / आश्चर्यमित्याद्यपि तु खल्वित्यतः प्राक् / अवाग्गोचरत्वाद् अनभिलाप्याः / पारमितार्थस्येति शून्यतालक्षणस्य / अत्र शास्त्रम्-

[115] हानिवृद्धी न युज्येते निरालापस्य वस्तुनः / भावनाख्येन किं हीनं वर्त्मना किमुदागतम् // 4-56 //

इत्यनभिलाप्यस्य हानिवृद्ध्यभावः //

कथं तर्हि बोधिरित्यत आह / अपि तु खल्वित्याद्यापरिवर्तसमाप्तेः / स दानं ददत्तान्मनसिकारांस्तांश्चित्तोत्पानिति यैर्दानं ददाति / तानि च कुशलमूलानीति यानि तैस्चित्तोत्पादैः संप्रयुक्तानि / यथा बोधिस्था परिणामयतीति / अन्यथा न सा परिणामना बोधये स्यात् / एवमुत्तरास्वपि द्रष्टव्यम् //

यथानुत्तरा सम्यक्सम्बोधिरित्युक्तम् / अतः पृच्छति / अथ खल्वित्यादिना / भगवानाह तथतैषा सुभूते ऽनुत्तरा सम्यक्सम्बोधिरित्यादि / अभीक्ष्णमिति पुनः पुनः / बहुलमिति प्रबन्धने / एवं खल्वित्यादिनोपसंहारः / अत्र शास्त्रम्-

[116] यथा बोधिस्तथैवासाविष्टस्याथैस्य साधकः / तथतालक्षणा बोधिः सोपि तल्लक्षणो मतः // 4-57 // ऽअसौऽ इति ऽसोपिऽ इति भावनामार्गः //

शून्यताप्रधानः परिवर्तः शून्यतापरिवर्तः //

आर्याष्टसाहस्रिकायाः प्रज्ञापारमितायाः सारतमानाम्नि पञ्जिकायां रत्नाकरशान्तिविरचितायामष्टादशः परिवर्तः //

19. गङ्गदेवाभगिनीपरिवर्तो नामेकोनविंशतितमः /

अथ खल्वित्यादि प्रागेवमुक्तात् / न पूर्वेण चित्तेन बोधिर्न च पश्चिमेन तयोरसमवधानादिति चोद्यम् //

एवमुक्त इत्यादि प्रागेवमुक्तात् / इयता दीपदृष्टान्तेन परिहारः / अत्र शास्त्रम्-

[117] पूर्वेण बोधिर्नो युक्ता मनसा पश्चिमेन वा /

इति चोद्यम् /

दीपदृष्टान्तयोगेन

बोधिरिति वर्तते / अनेन परिहारः //

अथ शास्त्रम्- गम्भीरा धर्मताष्टधा // 4-58 // या बोधिरिति वर्तते / केवलाया बोधेस्तथतैव लक्षणमुक्तमष्टादशे / सपरिच्छदायास्तु बोधेर्लक्षणमष्टविधं गाम्भीर्यम् / तत्कथमष्टधा?

[118] उत्पादे च निरोधे च तथतायां गभीरता / ज्ञेये ज्ञाने च चर्यायामद्वयोपायकौशले // 4-59 //

ऽअद्वयं च उपायकौशल्यं च; इति समाहारद्वन्द्वः / अत एवमुक्त इत्यादिना प्रागेवमुक्ताद्गाम्भीर्य सुभूतिः प्रस्तौति / अन्यत्र तेभ्य इति विना तेभ्यः / एवमुक्ते भगवानित्यादिना परिजयं करोतीत्येतदन्तेनाष्टविधं गाम्भीर्यमाह / यच्चित्तमिति भ्रान्तमभूतपरिकल्पात्मकम् / निरुद्धमिति सन्तानक्षयात् क्षीणम् / नो हीति नैवेत्यर्थः / भ्रान्तिकारणस्य द्वयाभिनिवेशस्य क्षयादिति भावः / इत्युत्पादगाम्भीर्यम् //

यच्चित्तमुत्पन्नमिति अभ्रान्तम् / भ्रान्तिक्षयाच्चित्ताधीनत्वाच्च चित्तोत्पत्तेरिति भावः / निरोधधर्मि भगवन्निति प्रतिक्षणमिति भावः / निरोत्स्यत इति सन्ताननिरोधेनेति भावः / नो हीदमिति स्वरसत उत्पत्तेः प्रणिधानादिभिश्च सविशेषमक्षयीकृतत्वादिति भावः / (rst_123) यच्चित्तमनुत्पन्नर्मित्युत्पादगाम्भीर्ये यदुक्तम् यन्न निरोधधर्मीत्यनन्तरमेव यदुक्तं यन्निरोधधर्मीत्यस्मिंस्तेषां पुनरुक्तता स्यात् / यच्चित्तमिति यच्चित्तसन्तानः / अनुत्पादानिरोधधर्मीत्यनादिनिधनम् यो धर्म इति निर्वाणाख्यः / निरोधोनिरुद्धम् / तत्स्वभावो ऽस्येति स्वभावनिरुद्धः / धर्मतेति शून्यता / इति निरोधगाम्भीर्यम् /

तथैव स्थास्यतीति यावदाकाशम् / मा कुटस्था भूदिति तथतावत् / नो हीदमिति प्रवाहनित्यत्वादिति भावः / गम्भीरा तथतेति सम्यग्ज्ञानादपि सूक्ष्मत्वादितयतागाम्भीर्यम् //

तथतायां चित्तमिति तद्वेदित्वात्तस्या आधेयम् / नो हीदमिति ज्ञानाभ्देदे वेद्यत्वायोगात् / चित्तं तथतेत्येकलक्षणादिति भावः / अन्यत्तथताया इलिक्षणभेदादेव / नो हीदमिति लक्षणभेदेपि तादात्म्यात् / तदेवमग्राह्यत्वेपि वेद्या तथतेति ज्ञेयगाम्भीर्यम् //

समनुपश्यसि त्वमिति चित्तरूपम् / नो हीत्यग्राह्यत्वात् / तदेव ग्राह्यमपि चित्तं वेत्तीति ज्ञानगाम्भीर्यम् //

गम्भीरे चरतीति प्रज्ञापारमितार्थे / समुदाचारा आलम्बननिमित्तानि / प्रवर्तन्ते न भवन्ति / न समुदाचरन्ति न प्रख्यान्तीति चर्यागाम्भीर्यम् //

निमित्ते चरतीति द्वयनिमित्ते ऽद्वयनिमित्ते वा / नो हीति न द्वयनिमित्ते नाद्वयनिमित्ते / निमित्तमिति द्वयाद्वयनिमित्तम् / अविभावितमप्रहीणम् / नो हीति नाप्रहीणम् / प्रहीणमेवेत्यर्थः / इत्यद्वयगाम्भीर्यम् //

अपि न्विति किन्नु / निमित्तं विभावितं भवतीत्यप्रतिपूर्णेषु सर्वबुद्धधर्मेषु इति भावः / सुभूतिरुत्तरमाह / न स भगवन्नित्यदिना / इहैवेति / अस्मिन्नेव जन्मनि / कुत इत्याह / स चेदित्यादि / श्रावको भवएदिति न सम्यक्सम्बुद्धः / एतत्तदित्यादिनोपसंहारः / यल्लक्षणं यन्निमित्तमिति यद्धर्मनिमित्तं यच्च धर्मतानिमित्तं तत्सर्वं जानाति / परिजयमभ्यासमात्रं करोति / इत्युपायकौशलगाम्भीर्यम् //

तत्राष्टमं गाम्भीर्यं विप्रकृष्टम् / बोधे शेषाणि सन्निकृष्टानीत्युक्तविधं गाम्भीर्यम् / उक्तश्च ऽशैक्षौऽवैवर्तिको गणःऽ //

ऽसमता भवशान्त्योःऽ वक्तव्या / अतः शास्त्रम्-

[119] स्वप्नोपमत्वाद्धर्माणां भवशान्त्योरकल्पना /

एष संसार एतन्निर्वाणमिति भेदकल्पना / संसारनिर्वाणयोः समताज्ञानं भावनामार्गे / स्वप्नोपमान्सर्वधर्मान् पश्यतस्तयोर्भेदकानुपलम्भात् / नन्वभूतपरिकल्पः संसारः स च भ्रान्तिमात्रं भ्रान्तिक्षयस्तु निर्वाणम् / कदा तयोः समताज्ञानम्? भावनामार्गे संमुखीभूते सर्वधर्मनैरात्म्यसंवेदनादिति चेत् / दर्शनमार्गेप्येतदस्तीति भावनामार्गस्य को ऽतिशयः? तस्मात्ततो व्युत्थितस्य समताज्ञानं ग्राह्यम् / तच्चायुक्तम् / व्युत्थितस्य हि ज्ञानं भ्रान्तं स्वप्नोपमत्वात् स्वप्नः / भावनामार्गस्तु सम्यग्ज्ञानं दिवसोपमत्वाद्दिवसः / तत्र कदा युक्तं स्यात्? यदि दैवसिकादभ्यासातिशयात्, स्वप्नेति प्रज्ञापारमिता विवर्धेत / अतः सूत्रे ऽथ खल्वित्यादिना विवर्धत इत्येतदन्तेन प्रश्नः / सुभूतिराहेत्यादिना भावितव्योन्तेनोत्तरम् / अविकल्प इति / विकल्पो विशेषः / अविकल्पो निर्विशेषः / प्रज्ञापारमिताभ्यासत इति भावनामार्गाभ्यासतः / इति संसारनिर्वाणसमता //

शारिपुत्र आहेत्यादि / इह स्वप्नशब्देन स्वप्न एवोच्यते / क्षयसंज्ञेति क्षयो निर्वाणं तस्य संज्ञा उद्ग्रहः / भुतार्थकल्पनं कल्पः / वितथकल्पनं विकल्पः / एवमेवेति / आकाशवत्तथागतवद्वा / चित्तं चेतना बुद्धिर्विकल्पः इत्येको ऽर्थः / विविक्तानीति निःस्वभावानि / विप्लुता हि बुद्धिरविद्यमानमेव निमित्तीकृत्यारम्बणी करोति / चेतनापीत्यादि सुगमम् / कायसाक्षीति काय आश्रयः / तत्परावृत्त्या कायेन साक्षात्कारी कायसाक्षी एनमर्थमित्येतच्चोद्यं विसर्जयिष्यतीति परिहरिष्यति / अजितो मैत्रेय इति पर्यायौ / यो धर्मो विसर्जयेदिति मैत्रेयः / विसर्जयितव्य इति प्रश्नः / येन धर्मेणेति वाचा / यस्य धर्मस्येति शारिपुत्रस्य / उत्पित्सुः त्रास उत्त्रासः / संभूतस्त्रासः सन्त्रासः / तस्य प्रवाहः सन्त्रासापत्तिः / बलाधानं भावना बलवासना / अत्र शास्त्रम्- कर्माभावादिचोद्यानां परिहारा यथोदिताः // 4-60 // इति संसारनिर्वाणसमतायां चोद्यपरिहाराः //

ऽकृतिशुद्धिरनुत्तराऽ वक्तव्या / अतः शास्त्रम्-

[120] सत्त्वलोकस्य याशुद्धिस्तस्याः शुद्धयुपहारतः / तथा भाजनलोकस्य बुद्धक्षेत्रस्य शुद्धता // 4-61 //

एकदा यत्रैक एव बुद्धो जायते तद्बुद्धक्षेत्रम् / तस्य शुद्धता परिशुद्धिः / सा कुतो भवति? ऽसत्त्वलोकस्यऽ दृश्यते ऽयाशुद्धिःऽ व्याडकान्तारादिता / तस्याः स्वबुद्धक्षेत्रपरिशुद्धादुपसंहारात् / मम बुद्धक्षेत्रे सर्वथैवं मा भूदिति / एषा विस्तरेण महत्योरुक्ता / इह तु संक्षेपतः / पुनरपरमित्यादिना अथ खलु तत्रेत्यतः प्राक् / उत्त्रासादिनिषेध उक्तो वक्तव्यश्च तदपेक्षया पुनरपरशब्दाः / दुर्गता भूमिः कान्तारम् / व्याडैः कान्तारं व्याडकान्तारम् पानीयवर्जितकान्तारं पानीयकान्तारम् / यदिचेच्छब्दो यद्यर्थे / दिव्योपभोगेत्यादि / समबुद्धक्षेत्रसत्त्वा इति वर्तते / रुधिराद्याहारव्युदासाय चैतदुक्तम् / सर्वस्वपरित्याग एव कुशलम् / यदेतेषां लोक इति भाजनलोके सुखसमङ्गिलः / सुखं समर्पितमाहितमेषामिति सुखसमर्पिताः / सर्वत इति सर्वत्र / व्याधिकान्तारं रोगोपसर्गः / इयतीति चित्तक्षणपरिमाणा / अपूर्वेति भाविनी / यदुताकोटीरिति नहि निरंशस्य क्षणस्य कोटिरस्ति / या सेत्यर्था(त्यपूर्वा) भुत् / अपूर्वा कोटीर्यत्राभिसंभोत्स्ये / इति बुद्धक्षेत्रपरिशुद्धिः //

अथ खल्वित्याद्यापरिवर्तान्तात् / अनेन यत्तस्यां देशनायां संवृत्तं तदाह / असक्तानि अलग्नानि / अन्तरिक्षे विहायसीति केवल एवाकाशे / परिनिष्पत्तिरिव परिनिष्पत्तिर्वशीभावः / प्रमाणबद्धः प्रमाणनियतः / असातकान्ताराणि दुष्कान्ताराणि / शेषं सुबोधम् //

गङ्गदेवाभगिन्या लक्षितः परिवर्तस्तत्परिवर्तः //

आर्याष्टसाहस्रिकायाः प्रज्ञापारमितायाः सारतमानाम्नि पञ्जिकायां रत्नाकरशान्तिविरचितायामेकोनविंशतितमः परिवर्तः //

20. उपायकौशल्यमीमांसापरिवर्तो नाम विंशतितमः /

क्षेत्रपरिशुद्धिरुक्ता / उपायकौशलं वक्तव्यम् / अतः शास्त्रम्-

[121] विषयो ऽस्य प्रयोगश्च सा(शा)त्रवाणामतिक्रमः / अप्रतिष्ठो यथावेधमसाधारणलक्षणः // 4-62 //

[122] अश(स)क्तो ऽनुपलम्भश्च निमित्तप्रणिधिकृतौ / तल्लिङ्गं चाप्रमाणं च दशधोपायकौशलम् // 4-63 //

अस्य ह्युपायकौशलस्य ऽविषयःऽ सूत्रे प्रथमं वक्तव्यः / ततःऽप्रयोगःऽ प्रथमाभ्यासः / ततो दश प्रभेदाः सा (शा)त्रवातिक्रमादयः / ऽनिमित्तप्रणिधिकृतौऽ ताभ्यामिति तथोक्तौ निमित्तकृतः प्रणिधिकृतश्च /

अथ खल्वित्यादि / अत्रादौ भूतकोटिमित्येतदन्तेन विषय उक्तः / शून्यतासमाधिनैवानिमित्ताप्रणिहितयोर्बोधिपक्षादीनां चोपलक्षणात् / शून्यतायामिति शून्यतासमाधौ / सन्ततिः प्रवाहः / कथं प्रत्यवेक्षमाण इत्याह रूपं शुन्यमितीति / तामिति शून्यताम् / धर्मतामिति धर्मप्रकृतिम् / धर्मतयेति धर्मसारतया / भूतकोटिरिति शून्यतैव कैवल्यं गता भूतकोटिः / इत्युपायकौशलस्य विषयः //

एवमुक्त इत्यादि तद्यथापीत्यतः प्राक् / असमाहित एवेति साक्षात्कर्तव्यतयानध्यवसित एव / अत्रान्तरा इति यावद्बुद्धधर्मा अस्य न परिपक्वाः / एवमित्युक्तेन क्रमेण / आरूढ उपार्जिताः / शेष सुबोधम् / इत्युपायकौशलस्य प्रयोगः //

तद्यथापीत्यादि तद्यथापीत्यतः प्राक् / शूरो निर्भीः / वीर्यमुत्साहः / प्रतिष्ठानं स्थैर्यम् / प्रतिभानमभ्यूहः / प्रतिपत्तिरनुष्ठानम् / यस्मिन्कालादौ यद्युक्तं तज्ज्ञानात् कालादिज्ञः / गतिः कायवाक्चित्तकर्मण्यता / तां गतः प्राप्तः / प्रहरणावरणं कवचादि / स्मृतिः स्मरणम् / मतिरभ्यूहः / गतिर्ज्ञानम् / धृतिर्धारणम् / नीतिर्नीतिज्ञानम् / विशारदः पण्डितः इति शत्रव एव ऽशात्रवाऽ अन्तरायाः / तेषामतिक्रमश्चतुर्भिरप्रमाणैरिति प्रथममुपायकौशलम् //

तद्यथापीत्यादि तद्यथापीत्यतः प्राक् / चरतीति गच्छति / न च भूमौ पततीति पातप्रतिषेधः स्थितिः / न च कञ्चिन्निश्रित्येति प्रतिष्ठाप्रतिषेधः / निश्रित्येत्यास्पदीकृत्य / विहरतीति तिष्ठति / न च तत्रापीति विहरणेपि निश्रितः / पतत्यपरिपूर्णैरिति / अत्र न पततीति न प्रतितिष्ठतीत्यर्थः / प्रतिष्ठाविरहादप्रतिष्ठ उपायः //

तद्यथापीत्यादि प्रागेवमुक्तात / वारयेदिति / आकाश एव स्थापयेत् / पतनं न दद्यादिति पतितुं न दद्यात् / उद्धर्व क्षिप्तस्य स(श)रस्येव शरान्तरैश्चिरमपाताय य आवेधस्तद्वदाबुद्धधर्मपरिपाकम(कं) साक्षात्करणाय चित्तस्य चित्तान्तरैर्य आवेधः / तदनतिक्रमेण वृत्तिर्यथावेधमुपायः //

एवमुक्त इत्यादि प्राक् पुनरपरात् / चरति शमथेन / विहरति विपश्यनया / समाधिसमापत्तिरुभाभ्याम् / ममेति मया / अभिनिर्हरतीति निष्पादयति / समाधिश्चासौ विमोक्षश्च मुक्तिद्वारत्वात् / चित्तोत्पादश्चित्ताभिनिर्हारः / अनेनायं दुष्करकारकः / एष च सर्वश्रावकप्रत्येकबुद्धैरसाधारणत्वादसाधारण उपायः //

पुनरपरादि प्राक् पुनरपरात् / सत्त्व आत्मा पुरुषः / इन्द्रियाणि पञ्च श्रद्धादीनि / बलान्यपि पञ्चैव / बोध्यङ्गानि सप्त / मार्गो ऽष्टाङ्गः / सत्त्वदृष्टिः सक्तिः / तत्प्रहाणाय सत्त्वानामभिसम्बुद्धः / सत्त्वान् देशयिष्यामीति सञ्चिन्त्य शून्यतादिसमापत्तिरसक्तिः / तद्योगादसक्त उपायः //

पुनरपरादि प्राक्पुनरपरात् / धर्मसंज्ञा स्कन्धधात्वादिसंज्ञा / स उपलम्भः / तत्प्रहाणायेत्यादि पूर्ववत् / एवं शून्यतादिसमापत्तिरनुपलम्भः / तद्योगादनुपलम्भ उपायः //

पुनरपरादि पुनरपरात्प्राक् / स्त्री पुमान् रूपं शब्द इति निमित्तसंज्ञा / तत्प्रहाणायेत्यादि पूर्ववत् / एवमनिमित्तसमापत्तिरानिमित्तम् / तद्योगादानिमित्त उपायः //

पुनरपरादि यो हीत्यतः प्राक् / देवः शक्रश्चक्रवर्त्ती स्यामित्यादिर्भवभोगाभिलाषः प्रणिहितम् / तस्य मूलं विपर्यासाः / तस्माच्चतुर्विपर्यासप्रहाणायेत्यादि पूर्ववत् / एवमप्रणिहितसमाधिरप्रणिहितम् तद्योगादप्रणिहित उपायः //

यो हि कश्चिदित्यादि नैतत् स्थानं विद्यत इति यावत् / अनुपलम्भादीनामुपाया विमोक्षमुखत्रयं विषय उक्तः / सांप्रतमेषामनभिसंस्कारादिकमधिकं विषयममोघतां च ब्रवीति / अनभिसंस्कारे पतेदिति हीनबोधौ / त्रैधातुकेनेति संसारेण //

एवं हीत्यादि सुभूतिराहेत्यतः प्राक् / सम्यक्सम्बोधिकामेन बोधिसत्त्वेन विज्ञो बोधिसत्त्वः प्रष्टव्यः / सम्यक्सम्बोधये किं भावयेयं कथं च भावयेयमिति / स चेदाचक्षीत शून्यतादिकमेव भावय तच्च परिजयं मातुः साक्षात्कार्षीः / तत्रोपायः सर्वसत्त्वापरित्यागचित्तादिरिति / एतत्तस्याख्यातुरवैवर्तिकत्वे लिङ्गम् / तस्मात्तस्य लिङ्गमस्मिन्निति तल्लिङ्ग उपायः //

सुभूतिराहेत्यादि सचेत्पुनरित्यतः प्राक् / बहवो बोधाय चरन्ति तेष्वल्पकास्ते य एवं विसर्जयन्ति / व्याकृतास्ते ऽवैवर्त्तिकत्वे ऽसंहार्याः (rst_128) सदेवमानुषासुरेण लोकेन / यतस्ते ऽल्पका अतो ऽल्पप्रमाणा इत्यप्रमाण उपायः //

तदेवं नवमस्य पश्चार्द्धात् प्रभृति विंशतितमस्य पूर्वार्द्धं यावदेकादशपरिवर्ताः सर्वाकाराभिसंबोधिः //

इत ऊद्धर्वं मूर्द्धाभिसमयो वक्तव्यः / तस्योद्देशः पूर्वमुक्तः श्लोकद्वयेन षडक्षराधिकेन-

[123] लिङ्गं तस्य विवृद्धिश्च निरूढिश्चित्तसंस्थितिः / चतुर्धा च विकल्पस्य प्रतिपक्षश्चतुर्विधः // 1-14 //

[124] प्रत्येकं दर्शनाख्ये च भावनाख्ये च वर्त्मनि / आनन्तर्यसमाधिश्च सह विप्रतिपत्तिभिः // 1-15 //

[125] मूर्धाभिसमयः

तस्याष्टौ वस्तूनि / ऽलिङ्गविवृद्धिः निरूढिश्चित्तसंस्थितिःऽ / दृङ्मार्गे विपक्षप्रतिपक्षाः भावनामार्गे विपक्षप्रतिपक्षा आनन्तर्यसमाधिविप्रतिपत्तयश्चेति /

तत्र लिङ्गमधिकृत्य शास्त्रम्-

[126] स्वप्नान्तरेपि स्वप्नाभा सर्वधर्मेक्षणादिकम् / मूर्द्धप्राप्तस्य योगस्य लिङ्गं द्वादशधा मतम् // 5-1 //

ऽमूर्धप्राप्तस्यऽ इति प्रकर्षप्राप्तस्य / ऽयोगस्यऽ इति त्रिसर्वज्ञताप्रयोगस्य / स चेत्पुनरित्यादि वेदितव्या / स्वप्नान्तरगतोपि स्वप्नोपमान् सर्वधर्मान् पश्यति न च साक्षात्करोतीति प्रथमं लिङ्गम् //

पुनरपरादि वेदितव्यान्तम् / स्वप्नान्तरगतोपि श्रावकभूमौ प्रत्येकबुद्धभूमौ त्रैधातुके च स्पृहां न करोतीति द्वितीयम् //

पुनरपरादि वेदितव्यान्तम् / स्वप्नान्तरगतो महत्यां परिषद्युभयसङ्घपरिवृतं तथागतमात्मानं पश्यतीति तृतीयम् //

पुनरपरादि वेदितव्यान्तरम् / स्वप्नान्तरगतो वैहायसमभ्युद्गम्य सत्त्वेभ्यो धर्म देशयति व्यामगतं चात्मानं संजानीते / भिक्षूंश्च निर्मितीत ये लोकधात्वन्तरेषु बुद्धकृत्यं कुर्वन्तीति चतुर्थम् //

पुनरपरादि वेदितव्यान्तम् / स्वप्नान्तरगतोप्यात्मनः परेषां वा वधबन्धनशिरश्छेदादीन् दृष्ट्वा नोत्त्रस्यति / विबुद्धस्य चैवं भवति स्वप्नोपमं सर्व त्रैधातुकं मया चाभिसंबुध्यैवं धर्मो देशयितव्य इति पञ्चमम् //

पुनरपरादि वेदितव्यान्तम् / स्वप्नान्तरगतस्य नैरयिकादीन् सत्त्वान् दृष्ट्वा एवं भवति / तथा करिष्यामि यथा मे ऽभिसम्बुद्धस्य बुद्धक्षेत्रे त्रयो ऽपायाः सर्वथा न भविष्यन्तीति षष्ठम् //

पुनरपरादि पुनरपरात् प्राक् / स्वप्नान्तरगतो यदि ग्रामदाहादौ वर्तमाने प्रतिविबुद्ध एवं समन्वाहरेत् / यथा मया स्वप्ने ऽवैवर्तिकलिङ्गान्यात्मनि दृष्टानि तेन सत्येनायं ग्रामदाहादिः शाम्यत्विति / स चेच्छाम्यति तत्सप्तमं लिङ्गम् //

पुनरपरादि आपरिवर्तसमाप्तेः / यदि कश्चित्सत्त्वो ऽमनुष्येण गृहीतो ऽधिष्ठितः आविष्टो वा अन्तःप्रवेशात् / तत्र बोधिसत्त्वः सत्याधिष्ठानं कुर्यात् / यद्यहं व्याकृतः पूर्वबुद्धैरनुत्तरायां बोधौ यदि च मे परिशुद्धो ऽध्याशयस्तामभिसम्बोद्धं यथा च नास्ति बुद्धानां किञ्चिदज्ञातम् / अनेन सत्येनायममनुष्यो ऽपक्रामत्विति स चेत्तस्मात् सत्याधिष्ठानात् अपक्रामति तदष्टमं लिङ्गम् //

उपायकौशल्यानां मीमांसा परिज्ञानं तदर्थः परिवर्तः //

आर्याष्टसाहस्रिकायाः प्रज्ञापारमितायाः सारतमानाम्नि पञ्जिकायां रत्नाकरशान्तिविरचितायां विंशतितमः परिवर्तः //

21. मारकर्मपरिवर्तो नामैकविंशतितमः /

तत्र खल्वित्यादि / अयमेकविंशतितमः परिवर्तो मारकर्मणाम् / कस्तेषां प्रस्तावः? नवयानसंप्रस्थितस्य बोधिसत्त्वस्य सत्याधिष्ठानफलसम्पादनादिना मिथ्यामानोत्पादनाय बहुधा माराः / पराक्रमत इत्ययमेषां प्रस्तावः / (rst_130) तत्रेत्यनन्तरोक्ते सत्याधिष्ठाने / औत्सुक्यमिति प्राप्तावसरस्य कर्मणः करणार्थ मुत्साहः / बलमुत्साहशक्तिः / तेजः प्रभावशक्तिः / कथं तेजोवत्तरमिति यावत् / तसौ मत्वर्थ इति भत्वास्पदत्वं नास्तीति भत्वेन न भवितव्यम् / तद्यथा आयुष्मान् सरस्वान् इति / एवं तर्हि दीप्त्यर्था[द्]द्रवतेः शत्रन्तात् तरप् / तेजसा दीप्ततरं तेजोवत्तरमिति / औत्सुक्यमिति / आत्मनि बहुमानम् / आवमंस्यत इत्यादि / अवमानो ऽनादरः / उच्चग्घानमन्तर्हासः / उल्लापनं मनसान्यत्करणम् / कुत्सनं दोषदर्शिता / तंसनं दोषवादिता / सम्बोधावितीति / इतिशब्दो हेतौ / मानं जनयिष्यतीत्यादि / अत्र सशब्दस्य सर्वत्रेत्यर्थः / जननमुत्पादनम् / वधंनं पुरःसरीकरणम् / स्तम्भनं स्थिरीकरणम् / बृंहण परिपुष्टिः / उत्पादनमच्चैर्नयनम् / मानेनेत्यादि / अन्येभ्यो ऽधिकत्वेन चित्तस्योन्नतिः सामान्येन मानः स पूर्वमुक्तः / इह तु तद्विशेषा उच्यन्ते / या तस्य हीनादुन्नतिः स मानः / यादृशादेव सो ऽतिमानः / यो पुनः प्रकृष्टात् स मानातिमानः / अप्राप्ते ऽवैवर्तिकत्वे प्राप्तं मयेति सो ऽभिमानः / या पुनरभूतैरवैवर्तिकगुणैर्गुणवानस्मीति स मिथ्यामानः / तथा रूपानिति महाभूतान् बोधिसत्त्वान् दृष्टवेति परेण सम्बन्धः / शेषं तेषामेव विशेषणम् / भजिष्यत इत्यत्र भजेरिट्प्रतिषेधो भवति संज्ञापूर्वकस्य विधेरनित्यत्वात् / तदेव मारबन्धनमिति मानम् /

पुनरपरमित्यादि / नामापदेशः संज्ञाकथनम् / मृदुको मृद्विन्द्रियः / आरण्यकत्वादयो धुतगुणाः / ग्रामाद्वहिः क्रोशात्परमरण्यम् / तत्रैव स्थानात् आरण्यकः / पिण्डपातस्यैव भोजनात् पिण्डपातिकः / पांसुकूलस्येव प्रावरणात् पांसुकूलिकः / मध्यान्हस्योपान्त एव भोजनात् खलु पश्चाभ्दक्तिकः / एकासन एव भुङ्क्ते एकासनिकः / सकृदास्तीर्णे नित्यं शयनात् याथासंस्तरिकः / त्रिचीवरादधिकत्यागात् त्रैचीवरिकः / श्मशानसमीप एव स्थानात् श्माशानिकः / वृक्षमूल एव स्थानात् वृक्षमूलिकः / निषद्यया रात्रिनयनान् नैषद्यिकः / अच्छन्नो ऽवकाशो ऽभ्यवकाशः / तत्रैव स्थानात् आभ्यवकाशिकः / और्णकशानकादेरेव प्रावरणात् नामन्तिकः / अल्पैषणात् अल्पेच्छः / तावतैव सन्तोषात् सन्तुष्टः / एकाकित्वात् प्रविविक्तः / दृष्टे धर्मे तस्मिन्नेव जन्मनि भवो दृष्टधार्मिकः / तेन आदेक्ष्यति व्यपदेक्ष्यति / कथमित्याह पूर्वमपीत्यादि / यच्छब्दस्तस्मादर्थे / अधिष्ठानमाविष्करणम् / धुतगुणैः संलेखः कर्षणं धनुलेखनवत् / मन्यां करोतीति णिच् / यच् मन्यना मान इत्यर्थः / शेषं सुबोधं धुतगुणाः संविद्यन्त इति यावत् /

तस्य खल्वित्यादि / नामाधिष्ठानेनेति किमत्र नाम? अविनिवर्तनीयशब्दस्तद्गुणशब्दश्च / स्तम्भाभिभूत इति स्तम्भो गुरुष्वगौरवम् / कतमन्नामधेयमित्यत आह / यदेवेत्यादि / तेनेति बोधिसत्त्वेन / अनुवर्तितमित्यनुविचिन्तितम् / अस्यैव निर्देश उत्तराभ्याम् / अनुवितर्कितं किं मे नाम भवेदिति / अनुविचारितमिदं मे नाम भवेदिति / व्याकरिष्यतीत्यायाख्यास्यति मारः / अनुवर्तितमाकाङिक्षतम् / समेतीति संवदति / किं केन संवदतीत्यत आह नाम्ना नामेति / ततः किमित्याह व्याकृत इत्यादि / संधाव्य संसृत्येति तासु तासु दुर्गतिषूत्पद्य / यदि चेति चकारः समुच्चयार्थः सूक्ष्मसूक्ष्माणीति दुर्लक्ष्याणि /

अरण्यं च यथोक्तम् / वनप्रस्थं च गिरिगुहा च श्मशानं च पलालपुञ्जश्चेति द्वन्द्वः / आदिशब्दाद्वृक्षमूलादि / आरण्यकानीत्यरण्ये भवानि / अत एव प्रान्तानि विजनपदानीति विजनस्थानानि / विविक्तानि शून्यानि / विविक्तो रहितः ग्रामस्यान्तः समीपमेकदेशो वा / मनसिकारविवेक इति मनसिकारेभ्यो विवेकः / मृदुना अभिनिवेशेन निश्रितः / मध्येन आलीनः / अधिमात्रेण अध्यवसितः / तेनैवात्मोत्कर्षणात् अध्यवसायमापन्नः / संकीर्णो गृहिप्रव्रजितैः / आकीर्णः प्रव्रजितैरेव बोधिसत्त्वचण्डालः तैरसंवास्यत्वात् / बोधिसत्त्वदूषी स्वदोषेण तेषां दूषणात् / बोधिसत्त्वप्रतिरूपको देहसाम्यात् / बोधिसत्त्वप्रतिवर्णिको नामसाम्यात् / बोधिसत्त्वकारण्डवकः हंसेष्विव तेष्वकृष्णेषु कृष्णत्वात् / चौरः श्रमणवेषेण धर्मग्रहणात् / चौरो बोधिसत्त्वानामसम्मतत्वात् / चौरः सदेवकस्य लोकस्य मिथ्यादक्षिणीयत्वात् / तज्जातीय इत्यादिना तावद्वशस्य सभ्दिरसेव्यतां विस्तरेणाह / स्थाम बलम् / अनार्याः पापाः / उद्विग्नं भीतम् / तत्रापि तावदिति तादृशेपि / मंत्रायमाणेनेत्यादिना मैत्र्यादिचतुष्टयविषयभेदानाह / एवं चेत्यादिना प्रणिधानम् / अयमपीति / यस्य खलु पुनरित्यादिकः सर्वः / अभिज्ञायेति / अत्युत्क[टः] पराक्रमः पुरुषकारः / इदमपीत्यादिना पश्चिममारकर्मोपसंहारः //

मारकर्मणामभिधायकः परिवर्तस्तथोक्तः //

आर्याष्टसाहस्रिकायाः प्रज्ञापारमितायाः सारतमानाम्नि पञ्जिकायां रत्नाकरशान्तिविरचितायामेकविंशतितमः परिवर्तः //

22. कल्याणमित्रपरिवर्तो नाम द्वाविंशतितमः /

अथ खल्वित्यादिना आसु खलु पुनरित्यतः प्राक् / प्रज्ञापारमितैवेति प्राधान्यादवधारणम् / यथा च सैका तया सहिताः षट् / अत आह / सर्वा एव चेत्यादि / कुत इत्याह / षडेवेत्यादि / ता एव निष्ठां गताः शास्ता यः परमं फलम् / ततः पूर्वान्त एव मार्गः / आलोको लोकोत्तरं ज्ञानं प्रमुदितायां सोपि ता एव / उल्का प्रयत्नवाही मार्गो विमलादिभूमिषु षट्सु सोपि ता एव / अवभासो दिवसालोकः / स चायत्नवाही मार्गो ऽचलादिषु भूमिषु सोपि ता एव / अतश्च ता एव त्रीणि रत्नानि / तस्मात्ता एव शरणं यावत् दीपः / पदार्थः पूर्ववत् / ता एव माता धारणात्पोषणाच्च / ता एव पिता बिजाधानात् / ज्ञानायेति दर्शनाय / बोधायेति भावनामार्गाय / तक्तस्य हेतोरिति कुतः प्रज्ञापारमितैव यथोक्तगुणा नेतरा इत्यर्थः / अत्र हीत्यादिना परिहारः / त्रैयध्विकबुद्धानां च सर्वज्ञता तत्प्रसूतैवेत्याख्यातुमाह / येपीत्यादि / निर्जाता निष्पन्ना / अन्तर्गता इति यथायोगमन्तर्भूताः / बुद्धज्ञानादिपदानि पूर्वमेव व्याख्यातानि / सर्वभूतानां उपकारिभूतो भवतीति सम्बन्धः / कदेत्याह यदेत्यादि / इति कल्याणमित्रसेवा नवमं लिङ्गम् //

आसु खल्वित्यादि सुभूतिराहेत्यतः प्राक् / यस्मात् इयमेव प्रणायिका तस्मात् अपरप्रणेयता इत्यादि / तस्मादपरप्रणेयता दशमं लिङ्गम् //

सुभूतिराहेत्यादि / संक्लेशो व्यवदानं च प्रज्ञायत इति यावत् / असङ्गलक्षणेत्यनुपलम्भलक्षणा / सर्वधर्मस्वलक्षणानां तस्यामनुपलम्भात् / तथा रूपादयोपि शून्यत्वाद्विविक्तत्वात् / यदित्यादिना चोद्यं न चोद्यं न हीत्यर्थः / उदग्रहो निमित्तस्य अभिनिवेशो वस्तुत्वेन ग्राहः / तदेवमसङ्गलक्षणा भगवती धर्माश्च / तथाप्यस्ति संक्लेशो ऽस्ति व्यवदानमित्येकादशमं लिङ्गम् //

सुभूतिराहेत्यादि स चेत्पुनरित्यतः प्राक् / अनवमर्दनीय इत्यसंहार्यः / अनेनापीति सर्वधर्मेष्वविविक्तेष्वित्यादिना अनवमर्दनीयत्वलाभो द्वादशं लिङ्गम् // इत्युक्तानि लिङ्गानि //

विवृद्धिर्वक्तव्या / अतः शास्त्रम्-

[127] जम्बूद्वीपजनेयत्ताबुद्धपूजाशुभादिकाः (काम्) / उपमां बहुधा कृत्वा विवृद्धिः षोडशात्मिकां // 5-2 //

षोडशप्रकारा विवृद्धिरुक्ता सूत्रे / किं कृत्वा? ऽउपमां कृत्वाऽ / कीदृशीम्? जम्बूद्वीपे ये जनाः सत्त्वास्तेषामियत्तया सूत्रोक्तेन माहात्म्येन मनुष्यभावचित्तोत्पादलक्षणेन या बुद्धपूजा तया यच्छुभं पुण्यं तदादिर्यस्या उपमायाः, ताम् / आदिशब्दं (ब्दात्?) लब्धर (?)कारि(?)महामणिरत्नादिपरिग्रहः / बुद्धभूमिर्बहुभिः प्रकारैरुक्ता विनाप्युपमाम् //

तत्राद्या स चेत्पुनरित्यादिना तद्यथापीत्यतः प्राक् / यावज्जीवमिति यावदायुः / तद्दानमिति यद्बुद्धेभ्यो सर्वसत्त्वेभ्यः / मनसिकारैः विहरतीति विवृद्धिसंगृहीतैः / स्थापयित्वेति त्यक्त्वा / तत्तेषां स्थापनं कस्य हेतोः? वध्यगतानिवेति वध्यस्थानगतानिवा(व) / विरागयत इत्यप्राप्तवतः / इतिप्रज्ञापारमिताप्रतिसंयुक्तैर्मनसिकारै रात्रिंदिवानां नयनात् प्रथमा विवृद्धिः //

तद्यथापीत्यादि न च परिहीयत इति यावत् / प्रज्ञापारमितेति तावदन्वेष्टव्येति सम्बन्धः / कीदृशेन? अविरहितसर्वज्ञताचित्तेन / अविरहितात्पूर्वं मनसिकारशब्दः क्वचित् पठ्यते / सा वान्या वेति पुस्तकभेदात् / प्रज्ञापारमिताप्रतिसंयुक्तैर्मनसिकारैः क्षणमप्यविरहाद् द्वितीया विवृद्धिः //

सुभूतिराहेत्यादि नेतत्स्थानं विद्यत इति यावत् अनुत्पत्तिकेषु धर्मेषु क्षान्तिप्रतिलम्भाद्व्याकरणलाभ इति तृतीया //

सुभूतिराहेत्याद्या परिवर्तान्तात् / व्याकरणे ऽभिसम्बोधे च निर्मानत्वाच्चतुर्थी //

कल्याणमित्रादिः परिवर्तो कल्याणमित्रपरिवर्तः //

आर्याष्टसाहस्रिकायाः प्रज्ञापारमितायाः सारतमानाम्नि पञ्जिकायां रत्नाकरशान्तिविरचितायां द्वाविंशतितमः परिवर्तः //

23. शक्रपरिवर्तो नाम त्रयोविंशतितमः /

तेन खलु पुनरित्यादि एवं शिक्षमाणं चेत्यतः प्राक् / सदेवमानुषासुरं लोकं सर्वश्रावकप्रत्येकबुद्धयानिकाननुपायकुशलांश्च बोधिसत्त्वो ऽभिभवति / तेषां चानभिभूतो भवतीति पञ्चमी विवृद्धिः //

एवं शिक्षमाणं चेत्यादि आपरिवर्तान्तात् / चत्वारो लोकपालाः शक्रस्तदन्ये च देवास्तमुपसंक्रमिष्यन्तीत्यादिभिरनुशंसैः षष्ठी //

शक्रेणोक्तः परिवर्तः शक्रपरिवर्तः //

आर्याष्टसाहस्रिकायाः प्रज्ञापारमितायाः सारतमानाम्नि पञ्जिकायां रत्नाकरशान्तिविरचितायां त्रयोविंशतितमः परिवर्तः //

24. अभिमानपरिवर्तो नाम चतर्शितितमः /

अथ खल्वित्यादि कथं चानन्देत्यतः प्राक् / आलीनो भवतीति अनुलग्नो भवति / कथमित्याह / एष इत्यादि यावत्परिपूरयिष्यतीति / न ह्येवमित्यादि / यथान्यसूत्रेषु तथागतभाषितं युज्यमानं एवमत्र नास्तीत्यर्थः / गाधः प्रतिष्ठा / आस्वादो रुचिः / नामगोत्रग्रहणं धुतगुणकीर्तनं च पूर्ववत् / उत्सदा उपचिताः काया राशयः इति सप्तमी विवृद्धिः //

कथं चेत्याद्या पविर्तान्तात् सर्वं सुबोधम् / इत्यष्टमी विवृद्धिः //

योयमविनिवर्तनीयो ऽभिमानो बोधिसत्त्वस्य बव्हनर्थहेतुस्तदुपलक्षितः परिवर्तो ऽभिमानपरिवर्तः //

आर्याष्टसाहस्रिकायाः प्रज्ञापारमितायाः सारतमानाम्नि पञ्जिकायां रत्नाकरशान्तिविरचितायां चतुर्विशतितमः परिवर्तः //

25. शिक्षापरिवर्तो नाम पञ्चविंशतितमः /

अथ खल्वित्यादि पारं गच्छतीति यावत् / क्व शिक्षमाणः सर्वज्ञतायां शिक्षत इति प्रश्नः / क्षये ऽनुत्पादे ऽनिरोधे ऽजातौऽभावे (rst_135) विवेके विरागे आकाशे धर्मधातौ निर्वाणे शिक्षमाण इत्युत्तरम् / अत्रोपपत्तिः / या हि तथागतस्य तथता ययासौ तथागतः न सा क्षीयते ऽक्षयत्वात् [अ?] क्षयस्य / न च सा उत्पद्यते व निरुध्यते वा जायते वा भवति वा विभवति वा विविच्यते वा रज्यते वा आकाशीभवति वा धर्मीभवतीति वा निर्वाति वा / एवं शिक्षमाणः प्रज्ञापारमितायां शिक्षत इत्यनेन मार्गमाह //

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.