Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Chưa xếp loại
सारतम
- Tác giả
- रत्नाकरशान्ति
- Thông tin
- GRETIL — Padmanabha S. Jaini: Sāratamā. A Pañjikā on the Aṣṭasāhasrikā Prajñāpāramitā Sūtra by Ratnākaraśānti. Patna : Kashi Prasad Jayaswal Research Institute, 1979. (Tibetan Sanskrit Works Series, 18).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
बोधिसत्त्वार्थमधिकृत्याह / पञ्चचक्षुरित्यादि / ते हि परार्थप्रधानाः / तस्य सैव साधनमालम्बनभेदेन पञ्चचक्षुःपरिवारा / अभेदेन सैव चक्षु सर्वधर्मपरमार्थदर्शनात् / व्यापिनो दर्शनस्य त्रयो विबन्धाः / मोहतमरितमिराणि / तत्र मोहो अज्ञानम् / तमोन्धकारम् / तिमिरं चक्षुरोगः / तेषां विकरणी विध्वंसनी / संक्षेपतो वितिमिरकरणी तिमिरसामान्यात् / किमुत्पादयतीत्यत आह / सर्वधर्माणामकरणीति / सर्वधर्माः स्कन्धधात्वायतनानि / तेषां त्रयः स्वभावाः / कल्पितः परतन्त्रः परिनिष्पन्नश्च / तत्र कल्पितं न करोति तस्य यथालक्षणमसत्त्वात् / परतन्त्रो अभूतपरिकल्पः / तत्र करोति तत्प्रतिपक्षत्वात् / परिनिष्पन्नो धर्मधातुः / तमपि न करोत्यनादिनिधनत्वात् / सम्यग्ज्ञानं करोतीति चेत्? न / अनादिनिधनचित्तसन्तानभ्रान्तिनिवृत्यैव सम्यग्ज्ञानसिद्धे / किं तर्हि करोतीत्यत आह / उत्पथेत्यादि / उत्पथो धर्माणां परिकल्पना तेन प्रयातानाम् / मार्गे धर्मनैरात्म्यज्ञाने अवतारणी / कस्य मार्गे? सर्वज्ञतायाः / इयता सर्वज्ञज्ञानपरिनिष्पत्तिरिति यदुक्तं तत्परार्थेपि दर्शितम् / यदुक्तं सर्वज्ञत्वमिति तत्परार्थेप्याह / सर्वज्ञतैवेत्यादिना / यदा हि वासनानुसन्धिप्रहीणता तस्यास्तदासौ सर्वज्ञतेत्यर्थः / सा तर्हि प्रज्ञापारमिता उत्पादिका (rst_67) निरोधिका उत्पन्ना निरुद्धा च / नेत्याह / अनुत्पादिकेत्यादि / अनुत्पादिका सर्वधर्माणामिति वैयवदानिकानाम् / अनिरोधिका सर्वधर्माणामिति सांक्लेशिकानाम् / अनुत्पन्नानिरुद्धेति स्वयम् / परमार्थतो यथाप्रतिभासं चेति भावः / परमार्थो ह्येषां धर्मधातुः / तेनैषामनादिनिधनत्वाद्वालप्रतिभासिना रूपेणात्यन्त- / समत्वान्नैषामुत्पादनिरोधौ / अत एवाह / स्वलक्षणशून्यतायामुपादायेति प्रतीत्यसमुत्पन्नं पुनरेषां तृतीयं स्वभावमुपादायाह / मातेत्यादि / माता जननी / कुतः? सर्वबुद्धधर्मा एव रत्नानि तेषां दात्रीत्वात् / तान्येव हि समग्राणि हेत्ववस्थानि बोधिसत्वानां शरीरम् तत इयं तद्दानात्तेषां जननी / बुद्धग्रहणाब्दुद्धजननीत्वमर्थाद्गम्यते / न पुनस्तावता बुद्धानामतिशयो गम्यते / अतो विशिष्टैर्गुणैः पुनस्तदाह दशबलेत्यादिना /
दश तथागतबलानि / तत्करा / कतमानि दश? "स्थानास्थानज्ञानबलम् / कर्मविपाकज्ञानबलम् / नानाधातुज्ञानबलम् / नानाधिमुक्तिज्ञानबलम् / इन्द्रियपरापरज्ञानबलम् / सर्वत्रगामिनीप्रतिपज्ज्ञानबलम् / ध्यानविमोक्षसमाधिसमापत्तिसंक्लेशव्यवदानव्युत्थानज्ञानबलम् / पूर्वेनिवासानुस्मृतिज्ञानबलम् / च्युतोपपादज्ञानबलम् / आश्रवक्षयज्ञानबलं च" इति / लक्षणमेषां यथोक्तं महत्यो र्भगवत्योः / तत्र सम्भवासम्भवौ स्थानास्थाने / तद्यथा दुश्चरितानामनिष्टो विपाक [:] स्थानमिष्टो ऽस्थानमिति / कर्म च विपाकश्च / नानाधातुः पुण्यापुण्यादिजनको ऽध्याशयः / नानाधिमुक्तिस्तद्यथा रागद्वेषादौ स्थितानां द्वेषरागादौ रुचिः / इन्द्रियाणि श्रद्धावीर्यस्मृतिसमाधिप्रज्ञाः / तेषां परापरत्वं विमात्रता / अयं मृद्विन्द्रियो ऽयं मध्येन्द्रिय इत्यादि / सर्वत्रगामिनीप्रतिपत् / रागस्य प्रतिपक्ष इयं प्रतिपत् / इयं द्वेषस्येत्यादि / चतुर्णा ध्यानानां अष्टानां विमोक्षाणां त्रयाणां समाधीनां सवितर्कसविचारादीनां चतसृणामारूप्यसमापत्तीनां नवानां चानुपूर्वविहारसमापत्तीनाम् संक्लेशादिकम् / तत्र संक्लेश आस्वादनादिना / व्यवदानमनुपलम्भादिना / व्युत्थानं सिंहविजृम्भितेन वा अवस्कन्दकेन वा / पूर्वे निवासः पूर्वजन्म / तस्मिन्ननुस्मृतिः स्मरणम् / च्यु[त्यु]पपादौ सत्त्वानां मरणोत्पत्ती / आश्रवाः क्लेशास्तेषां यः क्षयो येन च मार्गेण क्षयस्तदुभयमाश्रवक्षयः / सत्त्वानाम् / एषां स्थानास्थानादीनां सर्वथा सर्वदा सम्यग्ज्ञानं तदिह स्थानास्थानादिज्ञानम् / तदेव बलमितरैरघृष्यत्वात्, तेषां वाभिभवनात् /
अनवमर्दनीयेत्यभिभवितुमशक्या / कुत इत्याह / चतुर्वैशारद्यकरीत्वादिति / सिंहवदत्यन्तनिःशंको युक्तवादी विशारदः / तस्य भावो वैशारद्यम् / (rst_68) चत्वारि वैशारद्यानि / अभिसंबोधिवैशारद्यम् / आश्रवक्षयवैशारद्यम् / आन्तरायिकध[र्म]वैशारद्यम् / नैर्याणिकधर्मवैशारद्यं च / अभिसम्बोधिस्तथागतस्य ज्ञानसम्पत् / आश्रवक्षयः प्रहाणसम्पत् / तदुभयं स्वार्थः / आन्तरायिका धर्मा निर्वाणस्य विबन्धकाः नैर्याणिका धर्मा निर्वाणस्य प्रापकाः / एतदुभयं परार्थः / परेभ्यस्तदाख्यानात् / तेषु वैशारद्यम् / तत्प्रतिज्ञाप्रतिष्ठापनेष्वित्यर्थः / तत्करा / अनाथाः सत्त्वा अनादौ दुःखसागरे भ्रमतामेषामद्यापि त्रातुरभावात् / तेषां नाथस्त्राता भगवान् बुद्धः / तत्करा / इयता सर्वज्ञज्ञानपरिनिष्पत्तिरेषेति समर्थितः / एषैव सर्वज्ञत्वमिति समर्थयितुमाह / संसारेत्यादि / संसारः साश्रवाः स्कन्धाः / तस्य प्रतिपक्षा हन्त्री / धर्मधातुरेव तस्य हन्तेति चेदाह / अकूटस्थतामुपादायेति / धर्मधातुर्हि कूटस्थो अनादिनिधनैकरूपत्वात् / स चेत्प्रतिपक्षः स्यात् तदा आदित एव संसारो न स्यात् / प्रज्ञापारमिता पुनरादिमती, उत्तरोत्तरगामिनी चेति सैव तस्य प्रतिपक्षः / अनेन प्रहाणसम्पदुक्ता / ज्ञानसम्पदमाह सर्वेत्यादिना / सर्वधर्माणां स्वभावः परमार्थः / तस्य विदर्शनी तत्प्रतिभासत्वात् / स्वस्य परेषाञ्च परार्थमधिकृत्याह / परिपूर्णेत्यादि / परिपूर्णमेकेनाप्यनूनत्वात् / त्रिपरिवर्तद्वादशाकारं च यद्धर्मचक्रम् / धर्मः शासनम् / तदेव चक्रं विनेयसन्तानेषु चंक्रमणात् / तस्य प्रवर्तनो प्रवर्तयित्री / बुद्धानां तथैव तस्य प्रवर्तनात् /
तत्र धर्मचक्रं सत्यचतुष्टयम् / तस्य त्रयः परिवर्ताः / इदं दुःखम् / अयं दुःखसमुदयः / अयं दुःखनिरोधः / इयं दुःखनिरोधगामिनी प्रतिपदिति / सत्यचतुष्टयस्य स्वभावपरिच्छेदः प्रथमः परिवर्तः / तस्यैव यथाक्रमं परिज्ञेयप्रहेयसाक्षात्कर्तव्यभावयितव्यत्वपरिच्छेदो द्वितीयः परिवर्तः / तस्यैवात्मना परिज्ञातप्रहीन(ण)साक्षात्कृतभावितत्वपरिच्छेदस्तृतीयः / तस्मात् त्रिपरिवर्तं तत् / दुःखसत्यस्य दुःखस्वभावः परिज्ञेयत्वं परिज्ञातत्वं चेति त्रय आकाराः / समुदयसत्यस्य तत्स्वभावः प्रहेयत्वं प्रहीणत्वं चेतिं त्रय आकाराः / निरोधसत्यस्य तत् स्वभावः साक्षात्कर्तव्यत्वं साक्षात्कृतत्वं चेति त्रय आकाराः / मार्गसत्यस्य तत् स्वभावो भावयितव्यत्वं भावितत्वं चेति त्रय आकाराः / तस्मात् द्वादशाकारं तत् /
ननु प्रतीत्यसमुत्पन्नेनापि स्वभावेनेयं [न] निरोधिका शां(सां)क्लेशिकानां विनाशहेतूनामकिञ्चित्करत्वात् / नाप्युत्पादिका वैयवदानिकानां मिथ्याज्ञाननिवृत्तौ चित्तमात्रादेव सम्यग्ज्ञानोत्पत्तेः / नैतदस्ति / बन्ध्यक्षणोत्पादनस्यैव सन्ताननिरोधत्वात् / अग्निना शीतनिरोधवत् / प्रज्ञापारमितयैव मिथ्याज्ञाननिरोधे (rst_69) सति भगवतः प्रागभूतस्य सम्यग्ज्ञानस्य तद्धेतुकत्वात् / निरोधस्य चावस्तुनो हेतुत्वायोगात् / चित्तस्यैव च निरुद्धविपक्षस्य सम्यग्ज्ञानत्वात् / अन्यथा हि सर्वभ्रान्तिनिवृत्तिकालेपि व्यापि सम्यग्ज्ञानं न स्यादिति भावनामार्गस्य स्वभावः //
कथमित्यादिना सर्वज्ञतानुप्राप्तय इत्येतदन्तेन श्रेष्ठता / स्थातव्यमिति वर्तितव्यम् / पूजाभिः मनसिकर्तव्या गुणानुस्मरणैः / नमस्कर्तव्या कायवाक्चित्तैः / निदानं प्रस्तावः पृच्छायाः / हेतुस्तु भगवत्याः श्रेष्ठता / प्रज्ञापारमिताया यत्कौशल्यपरिगृहीतस्य बोधिसत्त्वस्यानुमोदनासहगतं पुण्यमौपलम्भिकानां पञ्च पारमितामयात् पुण्याद्विशिष्यत इतीदं निदानमनन्तरोक्तत्वात् / यत इयं तासां परिणायिका ततः श्रेष्ठेति हेतुः / अपरिणायकमिति परिणायकरहितम् / अभव्यमयोग्यम् / जात्यन्धभूतं जात्यन्धसदृशम् / शेषं सुबोधम् / इति श्रेष्ठता //
अथ खल्वायुष्मानित्यादिना अभिनिर्हारो द्वितीयात् एवमुक्तात् प्राक् / प्रज्ञापारमितेति भावनामार्गः / यः पञ्चानां स्कन्धानां यावत्सर्वधर्माणामनभिसंस्कारो ऽनुपलम्भः सो ऽस्य अभिनिर्हारः परिनिष्पादनम् / अवयवार्थः सुबोधः / इत्यभिनिर्हारः //
एवमुक्त इत्यादि यावत संख्यां गच्छतीति / कतमं धर्ममित्यनाश्रवः / न कश्चिद्धर्ममिति / धर्माणामर्पणायाश्चानुपलम्भादित्यर्पणा //
अथ खलु शक्र इत्यादि शारिपुत्रवचनात् प्राक् / यदि न कञ्चिद्धर्ममर्पयति न तर्हि सर्वज्ञतामपीति मत्वा शक्र आह / किमियमित्यादि / अर्पयत्येव केनचित्पर्यायेण / यथा तु नार्पयति तद्भगवानाह न यथेत्यादि / उपलम्भो बालग्राहेण रूपेण / नाम संज्ञा / संस्कारः कल्पना / यथा त्वर्पयति तत्पृच्छति / कथं तर्हीत्यादिना / उत्तरं यथेत्यादिना / यथा नार्पयतीति धर्माणामर्पणायाश्चाविकल्पनात् / तथेति / अविकल्पनया / न कञ्चिदित्यादि / धर्माणामुत्पादादीनां चाविकल्पनादिति भावः / अनुत्पादायानिरोधायेति नोत्पादाय न निरोधायेत्यर्थः / असमर्थसमासत्त्वात् / अतश्च अनुपस्थितेत्यकिञ्चित्करत्वात् / एवमपीति सर्वज्ञतार्पकत्वेनापि / दूरीकरिष्यतीत्यसंमुखीभावात् / रिक्तीकरिष्यतीति संमुखीभूतस्य ज्ञानस्य तल्लक्षणाभावात् / तुच्छीकरिष्यतीति तत् फलाभावात् / न करिष्यतीति नोत्पादयिष्यति / अस्त्येष पर्याय इति यथा त्वयोक्तः / तत्कस्य हेतोरिति तद्दूरीकरणादिकं कुतः? परिदीपितायामिति निर्दिष्टायाम् / न रूपं यावन्न बुद्धत्वमिति न किञ्चिद्धर्म (rst_70) इत्यर्थः / तस्मात् कञ्चिद्धर्म पश्यन् दूरीकरिष्यतीति / यावन्न करिष्यतीमाम् / कतमेन पर्यायेणेति / किं महार्थतयेति भावः //
सुभूतिराह नेत्यादि / निःस्वभावेषु सर्वधर्मेषु द्वयाभावादिति भावः / असंक्षिप्ता विक्षिप्तेति / अद्वयत्वात् / एवमपीति महार्थतयापि / किम्पुनः शब्दादतिशयार्थः / एवमित्युक्त्वा / तदेवाह / एवमहमित्यादिना / निःष्यन्द इति तत्पृष्ठभावी निश्चयः / यः सत्त्वोपलम्भ इति सम्बन्धः / सत्त्वः पुद्गलद्रव्यं तद्वद् अस्वभावजातिकास्वभावलक्षणम् / जातिरुत्पत्तिः / ताभ्यां रहिता / अस्यैव निर्देशः सत्त्वास्वभावतयेत्यादिना / परिशेषाद्गम्यते सत्त्वाजातिकतया अजातिकतेति / विविक्तता शून्यता / अचिन्त्यता चित्तानालम्बनता / अभिसंबोधनं साक्षात्क्रिया / तदभावाद् अनभिसंबोधनता / यथाभ / सद्भुतो अर्थः / तस्यानभिसंबोधनमग्रहणं सत्त्वः / तद्वत्प्रज्ञापारमिता / यथा सत्त्वस्य बलसमुदागमनं बलनिष्पादनं न किञ्चित् तथा तथागतस्य प्रज्ञापारमितयेति महार्थता //
अभिनिर्हारस्य पञ्चाङ्गान्युक्तानि / षष्ठसप्तमेपि स्तः / अधिमोक्षहेतुः प्रतिपक्षहेतुश्च / ते ऽधिकृत्य शास्त्रम्-
[56] बुद्धसेवा च दानादिरुपाये यच्च कौशलम् / हेतवो ऽत्राधिमोक्षस्य धर्मव्यसनहेतवः // 2-26 //
[57] माराधिष्ठानगम्भीरधर्मतानधिमुक्तते / स्कन्धाद्यभिनिवेशश्च पापमित्रपरिग्रहः // 2-27 //
अत्राधिमुक्तिहेतवस्त्रय उक्ताः पादत्रयेण / धर्मव्यसनं प्रतिक्षेपः / तस्य चत्वारो हेतव इतरैः पञ्चभिः पादैः / ऽअनधिमुक्तताऽ अनधिमुक्तिः / तत्राधिमोक्षो ऽस्मिन्नेव भावनामार्गे ऽधिमुक्तिः / तमाह / अथ खल्वित्यादिना न धन्धयिष्यतीत्येतदन्तेन / अधिमोक्षयिष्यतीति निश्चिते वस्तुन्येवमेव नान्यथेत्यवधारणमधिमोक्षः / तं करिष्यतीत्यर्थः / तत्करोतीति चुरादौ पाठाण्णिच् / तस्याधिमोक्षस्य लक्षणं त्रिभिः पदैर्गत्यन्तरप्रतिषेधायाह / तत्र कांक्षा बाधा / अबाध्यबाधनस्य कांक्षामात्रत्वात् / विचिकित्सा संशय एव / धन्धायनमप्रतिपत्तिरिति त्रीणि गत्यन्तराणि / धन्धो ऽप्रतिपत्तौ / धन्धो भविष्यतीति धन्धायिष्यति / लोहितादेराकृतिगणत्वात् क्यष् / इत्यधिमोक्षः //
अधिमोक्षस्य त्रयो हेतवः / तत्र द्वौ पृच्छति / कुतश्च्युत्वेहोपन्नः कियच्चिरचरितावी चेति / स इति यो ऽधिमोक्ता / अधिमुक्तो ऽधिमुक्तिकारित्रेण (rst_71) लक्ष्यते / अतस्तदाह / य इत्यादिना / अर्थत इत्यष्टाभिरभिसमयैः / अर्थनयत इति यथास्वं तेषामेव वस्तुभिः / धर्मत इत्येभिरेव नामपदव्यञ्जनैः / धर्मनयत इति समासव्यासादिभिः / अनुगमिष्यंत्यनुसरणात् / अनुभोत्स्यते तथा ज्ञानात् / अनुबोधयिष्यति तथैव परान् /
तत्कस्य हेतोरिति कुतो लिङ्गात् / यः कश्चिदित्यादिना लिङ्गमाह / मे दृष्ट इति मया दृष्टः / सम्बन्धविवक्षायां षष्ठी / तद्यथा सुभाषितस्य शिक्षते, नाग्निस्तृप्यति काष्ठानामिति / अवदधाति सावधानं करोति / सत्कृत्येति भक्तितो रुचितो वा / नोपच्छिनत्ति विच्छेदाकरणात् /
चिरेत्यादिनोपसंहारः / चिरचरिताः पारमिता अवितुं शीलमस्येति चिरचरितावी / बहवो बुद्धाः पर्युपासिता येन स तथोक्तः / इति बुद्धसेवादानादिचर्या //
तृतीयो ऽधिमोक्षहेतुरुपायकौशल्यम् / तदाह / अथ खल्वित्यादिना स्थविरः सुभूतिरित्यतः प्राक् / शक्या पुनरिति कांक्षा प्रश्नः / श्रोतुं शब्दतः / उपलक्षयितुमर्थतः / समन्वाहर्तुं कालान्तरे स्मर्तुम् / उपपादयितुं चिन्ताकाले / उपधारयितुं भावनाकाले चेतसि स्थिरीकरणात् / इयमिति प्रतिभासमाना / इहामुत्र वेति प्रतिभासमाना धारा / अनेनेति प्रतिभासमानेन / आकारेणेति लक्षणेन / तद्यथा गौः सास्नादिमत्वेन / लिङ्गेनेति कृत्रिमेण चिन्हेन / तद्यथा गौर्घण्टादिना / निमित्तेनेति स्वाभाविकेन चिन्हेन / तद्यथा गौःशुक्लत्वादिना / निर्देष्टुं परस्मैः / श्रोतुं परस्मात् /
भगवानाह / उत्तरं नो हीत्यादि / स्कन्धादिश इति स्कन्धादिभिः / रूपस्कन्ध इति वा यावद्धर्मायतनमिति वेत्यर्थः / कुत इत्याह / सर्वधर्मैस्तैरेव विविक्तत्वादस्याः / तदपि कुतः? निःस्वभावत्वात्तेषाम् / परिकल्पितेन धर्मस्वभावेनेति भावः / न चान्यत्रेति / न चान्या तत्परमार्थत्वादिति भावः / अत एव तदित्यादिना प्रश्नः / स्कन्धेत्यादिनोत्तरम् / विज्ञप्तिरूपं स्कन्धादिकमेव / शून्यं परिकल्पितेन स्कन्धादिस्वभावेन / सा तस्य तेन शून्यता विज्ञप्तिमात्रता प्रज्ञापारमिता / तस्मादद्वयमेतद्द्वंवीकारम् / ननु शून्यताया इदं लक्षणं न प्रज्ञापारमिताया इत्यत आह / शून्यत्वादित्यादि / नोपलभ्यते स्कन्धादि यथालक्षणम् / योनुपलम्भः सर्वधर्माणामिति तद्विविक्तप्रकाशमात्रोपलम्भलक्षणः / न तूपलम्भनिवृत्तिमात्रम् / "नाभावः कस्यचित्प्रतिपत्तिः प्रतिपत्तिहेतुर्वा" इति वचनात् / यो ऽनुपलम्भः सा प्रज्ञापारमिता प्रकृष्टज्ञानत्वात् पारगत्वाच्च / तथापि नासौ प्रज्ञापारमिता / स्याद्यदि स्कन्धादिशून्यतामनुभूय (rst_72) स्कन्धाद्यवसीयेत / रजताद्यवसाये शुक्तिदर्शनवत् / एतद्दर्शयितुमाह / यदेत्यादि / यदा तु यथानुभूतनिश्चयं जनयति न स्कन्धा न धातुर्नायतनमिति तदा प्रज्ञापारमितैव / तन्निस्यन्दत्वात् स्कन्धाद्यभावनिश्चयस्य / शुक्तिनिश्चये शुक्तिदर्शनवत् / प्रामाण्यात् / तद्येवं यद्यथास्ति यथा च नास्ति यथा च प्रज्ञापारमिता स्यान्न स्याद्वा तस्य सर्वस्य सम्यग्बोध उपायकौशलं तृतीयो ऽधिमोक्षहेतुः /
धर्मव्यसनं वक्तव्यम् / स च सद्धर्मप्रतिक्षयः / कुतः? धर्मव्यसनहेतुत्वात् / धर्मस्य व्यसनं विपत् / दीर्घदुर्गतिवासेन तस्य श्रवणाद्यभावः / दुर्गतिचिरवासहेतुत्वाद्धर्मव्यसनहेतुत्वम् / तस्माद्धर्मव्यसनम् / तदेव धर्मव्यसनसंवर्तनीयं कर्म / तत्संवर्तते ऽस्मादिति कृत्वा / तदेव प्रस्तौति स्थविर इत्यादिना / प्रज्ञापारमिता / एष एव भावनामार्गः / तस्यां योगापत्तिः समाधानप्राप्तिः /
विभज्येति / कथं विभज्य? केषाञ्चि[च्चि]रचरिताविना(ता) भवति केषाञ्चिन्नेति / तत्कुतः? इन्द्रियाणां श्रद्धादीनां विमात्रतया नानात्वेन / तामाह स्यादित्यादिना / अस्यामगौरवता तेषामभूदिति सम्बन्धः / बुद्धानामन्तिकादिति / अन्तिके दूरान्तिकार्थेभ्य इति पञ्चमी / तत्सन्निधावित्यर्थः / अगौरवता अशु(सु)शूषणता अश्रद्दधानता च / भगवत्यां अपर्युपासनता अपरिपृच्छनता च बुद्धेषु / तत इति श्रद्धावियोगात् / धर्मव्यसनसंवर्तनीयं कर्म सद्धर्मप्रतिक्षेपः / कृतं सकृत्करणात् / सञ्चितं पुनः पुनः करणात् / आचितं परिपूर्णम् / उपचितं विपाकदनशक्तिलाभात् / कायेन सामग्री श्रोतुमागमनम् / चित्तेन निर्विक्षेपता / वाचा अप्रस्तुतानभिधानम् / एवं सामग्रिमददाना इति सम्यगशृण्वन्तः / न जानन्ति ग्रन्थतः / न पश्यन्ति अर्थतः / न बुध्यन्ते स्वभावत्रयभेदेन / ततो न वेदयन्ते विपरीतबोधात् / अश्रद्दधाना इत्यादि तूक्तम् / तस्योपसंहार एवं त इत्यादिना / प्रत्याख्यानं मनसा परित्यागः / प्रतिक्षेपो वाचा / प्रतिक्रोशनं निन्दा / उपहत्येति दूषयित्वा / दग्धेति कुशलमूलदाहात् / छन्दो वशीभावः / विपर्ययाद्विच्छन्दः शिथिलः / अतो विच्छन्दयिष्यन्तीति शिथिलीकरणात् / विवेचयिष्यन्तीति मनसा त्याजनात् / विवर्तयिष्यन्तीति पुनरग्रहणात् / इयता प्रत्याख्यानमुक्तम् //
प्रतिक्षेपमाह नात्रेत्यादिना / प्रतिक्रोषणमाह नैतदित्यादिना / अपक्रान्ताः परिमुक्ताः परिबाह्या इत्येको ऽर्थः / सर्व यथा भवन्ति तथा सर्वेण अङ्गेन / सर्व यथा भवति तथा सर्वः प्रकारः / कर्माभिसंस्कारः कर्म क्रिया / उपस्थापितेनेति कृतेन / समुत्थापितेनेत्युपचितेन / संवर्तनी (rst_73) प्रलयः / आअवीचितलादा च ब्रह्मलोकाद्यस्यामग्निना क्षीयते सा तेजःसंवर्तनी / क्षेप्स्यन्ते अन्तराभवशरीरेण / उपपत्स्यन्ते उपपत्तिभवशरीरेण / समाना सन्तः / बहु वत दुःखं च तद्वेदनीयं यस्मात्तथोक्तम् /
प्रतिवर्णिकादिपदत्रयं समानार्थम् / ऽलाभसत्कारं तेभ्य एव / यदर्थ ते दृश्येरण् (दूष्येरन्) / तत्कस्य हेतोरिति / तत्तेषामदर्शनादिकं कुत इत्यर्थः / कसम्बकं पूतिपूर्णम् / तदत्यक्तमन्यान्यपि पर्णानि नाशयति / जातिर्जातम् / कसम्बकवज्जातमेषामिति कसम्बकजाताः / कृष्णा तृणविशेषः / प्राकृतभाषया कण्डा / सापि क्षेत्रादनपनीता क्षेत्रं नाशयति / निर्जातिर्निष्पत्तिः / कृष्णावन्निर्जातिरेषामिति कृष्णानिर्जातिकाः / कृष्णो हि कृष्णसर्पः सविषः संश्रृ(सृ)ष्टान् दष्टो सविषीकरोति / अनयेनेति तेभ्यः श्रुतश्रद्धादिनामार्गेण / व्यसनं निरयादिदुःखम् / आगाढमाबाधमिति महतीं पीडाम् / निगच्छेत् स्पृशेदिति प्राप्नुयादित्यर्थः / आलोकः प्रकृतस्य कर्मणो विपाकज्ञानम् / शुक्लांशः कुशलभागः / तद्योगात् शुक्लांशिकः / समवधानं योगः / शेषं सुबोधम् / इति धर्मव्यसनम् //
एवमुक्त इत्यादि / अत्र माराधिष्ठित इत्यादिना माराधिष्ठानमुक्तम् / गम्भीरेषु धर्मेष्वनधिमुक्तिस्तेषु श्रद्धाप्रसादाभावेनोक्ता //
पुनरपरमित्यादिना चतुरो हेतूनाह / आत्मोत्कर्षी परपंसको दोषान्तरप्रेक्षीत्येको राशिः / अत एवाह / एभिरपि चतुर्भिरित्यादि / तदत्र धर्मव्यसनहेतवः षडुक्ताः / शास्त्रे तु संक्षेपतश्चत्वारः / शेषाणां स्कन्धाद्यभिनिवेशे ऽन्तर्भावात् / आत्मोत्कर्षणादिनां स्कन्धाद्यभिनिवेशे /
निर्हारपरिवर्तो ऽयं सप्ताङ्गस्य निर्हारस्य द्योतनात् / तथापि निरयग्रन्थस्य बहुत्वान्निरयपरिवर्त इत्युच्यते //
आर्याष्टसाहस्रिकायाः प्रज्ञापारमितायाः सारतमानाम्नि पञ्जिकायां रत्नाकरशान्तिविरचितायां सप्तमः परिवर्तः //
8. विशुद्धिपरिवर्तो नामाष्टमः /
लोकोत्तरस्य भावनामार्गस्य निर्हारः सप्तमपरिवर्तेनोक्तः / शुद्धिरष्टमस्यादौ वक्तव्या / तस्याः शुद्धेर्दुरधिमोचतां तावदाह / अथ खल्वित्यादिना / अनर्थिकेनेति मन्दच्छन्देन / उपस्तब्धो विस्मितः / अशुश्रूषणा-अपरिपच्छकजातीयेनेति कल्याणमित्रेषु सुभूतेः प्रश्नः / कियदगम्भीरेत्यादि / कियता गम्भीरा यतो दुरधिमोचेत्यर्थः / भगवत उत्तरं रूपं सुभूत इत्यादिना / रूपादयो रूपादीनां च पूर्वापरमध्यान्ता अबद्धा अमुक्ताः स्वभावेनाध्वत्रयेण च निःस्वभावत्वादित्यर्थः / परमदुरधिमोचेति परमगम्भीरत्वादिति भावः / प्राक्प्रवृत्तो हि बन्धः प्रागशुद्धिः पश्चात्तन्निवृत्तिलक्षणो मोक्षः शुद्धिरिति प्रसिद्धम् / इह तु बन्धमोक्षयोरत्यन्ताभावः शुद्धिरिति परमगम्भीरं विशुद्धिलक्षणं शास्त्रे-
[58] फलशुद्धिश्च रूपादिशुद्धिरेव तयोर्द्वयोः / अभिन्नाच्छिन्नता यस्मादिति शुद्धिरुदिरिता // [2-26] //
ऽफलशुद्धिःऽ साध्या / सा च ऽरूपादिशुद्धिरेवऽ / यस्मात् ऽतयोःऽ ऽअभिन्नाच्छिन्नताऽ ऽइति शुद्धिरुदीरिताऽ / शुद्धेर्लक्षणमुक्तं सुत्रे / कतमस्याः शुद्धेः? यस्यादुरधिमोचत्वमुक्तम् / तत्कस्य हेतोरित्यादि / तदस्या दुरधिमोचत्वं कुत इत्यर्थः / उत्तरं येत्यादिना / यत इदं तस्या लक्षणमिति भावः / अद्वयं तादात्म्यात् / अद्वैधीकारमव्यभिचारात् / अनयोरेव निर्देशो अभिन्नमच्छिन्नमिति / येत्यनुवादः सेति विधिः / अनूद्यमानश्च धर्मो विधीयमाने नियत इति ख्यापितः / अतः सामान्याधिकरणादभिन्नमुभयम् / अन्योन्यनियमादन्योन्याव्यभिचारः / तस्मादच्छिन्नमुभयम् / तदेवं यैव स्कन्धानामेकशो विशुद्धिः सैव फलविशुद्धिः / यैव फलविशुद्धिः सैवेतरा / अन्योन्याव्यभिचारात् / अन्योन्यलिङ्गता / स चाव्यभिचारस्तादात्म्यात् / अत आह / फलविशुद्धित इत्यादि पुनरपरमित्यतः प्राक् इति विशुद्धिलक्षणम् /
विशुद्धिभेदाश्वत्वारो महत्योर्भगवत्योरुक्ताः सर्वसंग्रहार्थम् / अस्यां तु नोक्ता बोधिसत्त्वमार्गाधिकारात् / मार्गस्य विशुद्धिरुच्यते / स च भूमौ भूमौ नवविधो मृदुमृद्वादिभेदादधिमात्राधिमात्रादिभेदात् / नवविधस्यैव दोषस्य प्रतिपक्षेण (rst_75) भूमयस्तु शुद्धेस्ताश्चैव नव / कामधातुरष्टौ च रूपारूप्याः / अतः शास्त्रम्-
[59] मृदुमृद्वादिको मार्गः शुद्धिर्नवसु भूमिषु / अभिमात्राधिमात्रदेर्मलस्य प्रतिपक्षतः // 2-30 //
अतो नवविधं मार्गमाह / पुनरपरमित्यादिना अत्यन्तानुपपत्तिरित्यतः प्राक् / सर्वज्ञतेति सर्वाकारज्ञता / तस्या विशुद्धिर्द्विविधा / या स्कन्धानामेकशो विशुद्धिः पारमितानां च सा सर्वाकारज्ञताविशुद्धिः / या च तस्याः सा तेषामित्येका सर्वाकारज्ञताविशुद्धिः / अध्यात्मशून्यतादीनां स्कन्धादीनां च यावदावेणिकबुद्धधर्माणमेकशो या विशुद्धिर्या च प्रज्ञापारमिताया या च सर्वाकारज्ञतायाः सर्वमेतदभिन्नमच्छिन्नमिति द्वितीया सर्वाकारज्ञताविशुद्धिः / तदस्यां न पठ्यते उपलक्षणत्वात्तद्ग्राह्यम् / इति मृदुमृदुमार्गो मृदुमध्यश्च //
अथ खल्वित्यादि / इतः प्रभृति प्रज्ञापारमितेति प्रज्ञापारमिताविशुद्धिरित्यर्थः / सा गम्भीरा दुरवगाहा सर्वधर्माणां विशुद्धत्वादत्यन्तशून्यत्वादिति मृद्वधिमार्गः //
सावभासकरी तमोपहा विशुद्धत्वात्सर्वधर्माणामिति मध्यमृदुमार्गः //
सा आलोको दर्शनं विशुद्धत्वादिति मध्यमध्यो मार्गः //
सा अप्रतिसन्धिरसंक्रान्तिर्भवान्तरे विशुद्धत्वादिति मध्याधिमात्रो मार्गः //
सा असंक्लेशो विशुद्धित्वात् प्रकृत्यसंक्लिष्टत्वात्सर्वधर्माणामित्यधिमात्रमृदुमार्गः //
सा अप्राप्तिरनभिसमयो विशुद्धत्वात् सर्वधर्माणामप्राप्तेरनभिसमयाच्चेत्यधिमात्रमध्यो मार्गः //
सा अनभिनिर्वृत्तिर्विशुद्धत्वात् अनभिनिर्वृत्तत्वात् सर्वधर्माणामित्यधिमात्राधिमात्रो मार्गः //
आह / अत्यन्तानुपपत्तिरित्यादिकमामार्गज्ञतापरिसमाप्तेः / अतः शास्त्रम्-
[61] त्रिधातुप्रतिपक्षत्वं समता मानमेययोः / मार्गः स चेष्यते तस्य चोद्यस्य परिहारतः // 2-31 //
तस्यां ऽत्रिधातुप्रतिपक्षत्वंऽ यदाह / अत्यन्तानुपपत्तिः प्रज्ञापारमिता / कामधात्वादिषु विशुद्धत्वात् / कामधात्वादिष्वभावानुपपत्तेः इति त्रिधातुप्रतिपक्षत्वम् /
अत्र च ऽसमता मानमेययोःऽ / यदाह / आहेत्यादि / न जान तीति न गृण्हाति / न संजानीत इति न विकल्पयति / स्फुटीकर्तु प्रश्नः किं पुनरित्यादि / उत्तरं रूपमित्यादि / विशुद्धत्यादित्यत्यन्तसमत्वात् / तदेवं यथा स्याज्ज्ञेयं ग्राह्यं न भवति तथैषापि तस्य ग्राहिका न भवतीति ज्ञेयमानसमता /
योयं विशुद्धिलक्षणो भावनामार्ग उक्तो न स युक्तः / यतो ऽस्मिन्नष्टौ दोषा इत्यत आह / ऽमार्गः स चेष्यते तस्य चोद्यस्य परिहारतः / ऽ चकारो ऽवधारणे / भिन्नक्रमश्च / चोद्यस्येति जातावेकवचनम् / भावनामार्ग एव स इष्यते तदीयचोद्यानामित ऊर्ध्वं परिहारादित्यर्थः / अत्र च सिद्धान्त एव काक्वा कुत एतदिति हेतुसापेक्षाश्चोद्यसूचनाद्यानि / सिद्धान्तहेतवः परिहाराः / तत्र द्वे चोद्ये शारिपुत्रस्य षट् सुभूतेः /
नापकारं करोति न चोपकारमिति सिद्धान्तः / स कुतः? यदि ह्यकिंचित्करी कथं सा मार्ग इति चोद्यम् / विशुद्धित्वादिति परिहारः / सर्वज्ञता हि धर्मधातुविशुद्धिः स च विशुद्धः प्रकृतिशुद्धः / ततः सा अस्याकिञ्चित्करी / केवलमागन्तुकावरणक्षयं [प्रति] व्याप्रियते / न गृण्हाति न त्यजतीति सिद्धान्तः / स कुतः? यदि ह्यसौ गृण्हाति विकल्पः स्यात् / अथ न गॄण्हाति प्रज्ञैव न स्यादिति चोद्यम् / विशुद्धत्वादि परिहारः / यथा हि यत एवासौ धर्मान् धर्मलक्षणैर्न पश्यत्यत एव धर्मतया पश्यति / अत एव विशुद्धः / विशुद्धत्वात् न गृण्हाति न च त्यजतीति / स्कन्धविशुद्धितः फलविशुद्धिः सर्वज्ञताविशुद्धिश्चोक्ता / सा च तेषां विशुद्धिरात्मविशुद्ध्या / यथा ह्यात्मनो विशुद्धिरत्यन्तमसत्ता तथा तेषामपीति सिद्धान्तः / स कुतः? यदि हि स्कन्धफलसर्वज्ञतानामत्यन्तमसत्ता तदैता(ते)न किञ्चिदिति चोद्यम् / अत्यन्तविशुद्धित्वादिति परिहारः / अत्यन्तमसन्त एव धर्माः स्वलक्षणैः / अत एव तच्छून्यतालक्षणया धर्मतया सन्तीत्यर्थः / आत्मविशुद्धितो न प्राप्तिर्नाभिसमय इति सिद्धान्तः / चोद्यं पुर्ववत् / अत्यन्तविशुद्धत्वादिति परिहारः / यत एव धर्मलक्षणैर्धर्मा अत्यन्तमसन्तः तत एव धर्मतया सन्तः / सा च प्रकृत्यैव शुद्धा तच्छुद्धिरेव च सर्वज्ञतेति न तस्याः प्राप्तिर्नाभिसमय इत्यर्थः / आत्मापर्यन्ततया रूपवेदना दीनामपर्यन्ततेति सिद्धान्तः / स कुतः / दृश्यते (rst_77) हि स्कन्धादीनां पर्यन्तस्तत्कथमपर्यन्ता इति चोद्यम् / अत्यन्तविशुद्धत्वादिति परिहारः / यथा ह्यात्मनो ऽत्यन्तमसत्ता तथा रूपादीनामपि स्वलक्षणैः / ततो ऽसतां तेषां कः पर्यन्तः? धर्मतया सन्तीति चेत् .............पर्यन्तः / सर्वधर्मसामान्यलक्षणत्वात् रूपादिकस्य / न, भेदस्यापरमार्थत्वात् / तस्माद्यैव रूपादिविशुद्धिः सैव फलविशुद्धिः सर्वज्ञताविशुद्धिः प्रज्ञापारमिताविशुद्धिश्चेत्यर्थः //
य एवमत्यन्तासत्तया सर्वधर्माणां अवबोधः स प्रज्ञापारमितेति सिद्धान्तः / स कुतः?....................बोधो न तर्हि सात्यन्तविशुद्धिरिति चोद्यम् / अत्यन्तविशुद्धित्वादिति परिहारः /
एवं समाप्ता अष्टावत्यन्तभावनामार्गमार्गज्ञताधिकाराः //
प्रथमपरिवर्तेन सर्वाकारज्ञतोक्ता / इतो ऽर्धसप्तमैः परिवर्तैर्मार्ज्ञता / अष्टमनवमयोः परिवर्तयोरर्धाभ्यां सर्वज्ञता वक्तव्या / तस्य अष्टौ वस्तूनि / यथोक्तं प्राक्
[61] प्रज्ञया न भवे स्थानं कृपया न शमे स्थितिः / अनुपायेन दूरत्वमुपायेनाविदूरता // 1-10 //
[62] विपक्षप्रतिपक्षौ च प्रयोगः समतास्य च / दृङ्मार्गः श्रावकादीनामिति सर्वज्ञतेष्यते // 1-11 //
इति / अत्र शास्त्रम्-
[63] नापरे न परे तीरे नान्तराले तयोः स्थिता / अध्वनां समतायोगात्प्रज्ञापारमिता मता // 3-1 //
ऽप्रज्ञापारमिताऽ इति सर्वज्ञता / ऽनापरे तीरे ऽ इति संसारे / ऽन परे तीरे ऽ इति निर्वाणे / नापि तयोरन्तराले स्थिताऽ / त्रयं नोपलभ्यत इत्यर्थः / कुत इत्याह / ऽअध्वानां समतायोगाद्ऽ इति / धर्मतयाप्यध्वसमत्वात् / धर्माणां च यथालक्षणमनुपलम्भत् / एतदाह / आयुष्मान् इत्यादिना / सेति समाधानं पूर्वमुक्तत्वात् / इयमिति सर्वज्ञताख्येन विशेषेण वक्तव्यत्वात् / अत एवाह / विप्रकृतेति / विशेषेण प्रकृतत्वात् वर्तमानत्वाद्वा / अथवा कुतो न स्थिता? यतो विप्रकृता त्रयानुपलम्भेन बाधिता / भगवान् हेतुमाह / अत्यन्तविशुद्धत्वादिति / स्वैर्लक्षणैरसतां धर्माणां धर्मतालक्षणेन नित्यविशुद्धत्वादित्यर्थः / श्रावकास्तु (rst_78) स्वदुःखक्षयमात्रैषिणः संसारं परिकल्प्य तेनात्यन्तमुद्विग्ना निर्वाणं परिकल्प्य तस्मिन्नतीवोत्कण्ठिता लघु लध्वेव परिनिर्वान्ति / नैवं बोधिसत्वाः, सर्वसत्त्वार्थं निरुत्तरबोधिकामा इति संसारनिर्वाणाप्रतिष्ठता //
शास्त्रम्-
[64] अनुपायेन दूरं सा सनिमित्तोपलम्भतः /
ऽसनिमित्तं उपलम्भो ऽनुपायःऽ / तेन सा दूरीभवति / तदाह / आयुष्मानित्यादि / एवमपीति नामतोपि निमित्ततोपि / रिञ्चिष्यति त्यक्ष्यति नामतः / दूरीकरिष्यति निमित्ततः / इति दूरीभावः / उपायकौशलेनास्याः सम्यगासन्नतोदिता // 3-2 // निःसङ्गा वृत्तिः सम्यगुपायकौशलम् / तेनासन्नीभवति / तदाह / एवमुक्त इत्यादिना / सङ्गः सक्तिरभूतपरिकल्पः / सा नामतो स्यान्निमित्ततोपि / तयोरपि भूते ऽर्थे ऽभावात् / आख्याता षोडशभिर्दृष्टिमार्गलक्षणैः / सुनिर्दिष्टा द्वादशभिः प्रयोगैः / सुपरिनिष्ठिता संसारनिर्वाणयोरप्रतिष्ठानात् / सुपरिशुद्धा सङ्गकोटीनां विवर्जनात् / यत्र हीति वाक्यालङ्कारे / नामेत्याश्चर्ये / इमेपि सङ्गा इति सङ्गापि वक्ष्यमाणाः / अतः सङ्गवर्जनमुपायकौशलमित्या सन्नीभावता /
ते पुनः सङ्गाः सामान्येनोक्ताः / विशेषतो वक्तव्याः / अतः शास्त्रम्-
[65] रूपादिस्कन्धशून्यत्वे धर्मेषु त्र्यध्वगेषु च / दानादौ बोधिपक्षेषु चर्या संज्ञा विपक्षता // 3-3 //
रूपादीनां सर्वधर्माणां स्कन्धो राशिः / तस्य शून्यतायां त्रैयध्विके परधर्मेसु पारमिता बोधिपक्ष्यविषयायां च चर्यायां या ऽसंज्ञाऽ नामतो निमित्ततो वा सा ऽविपक्षताऽ / स्वार्थे तल् देवतावत् / स विपक्षः स सङ्ग इत्यर्थः /
एतदाह / अथ खल्वित्यादिना / अस्यां भगवत्यां ऽचर्यासंज्ञाऽ न पठ्यते / सा पठितानामुपलक्षणत्वान्नोच्यते / दानपारमितां यावत्प्रज्ञापारमितां स्मृत्युपस्थानानि यावदार्याष्टङ्गमार्ग चरामीति सञ्जानीते सङ्ग इति / अस्यामधिकसङ्गमाह / इयन्तमित्यादिना / ये सङ्गास्त उक्ताः / यथा ते सङ्गास्तन्नोक्तम् / ततः शक्रस्य प्रश्नो ऽथ खल्वित्यादिना / पर्यायेणेति प्रकारेण / इदं तु प्रथमं बोधिचित्तमिति / एष विकल्पः प्रथमः सङ्गः / बोधौ परिणामयामीति / (rst_79) एवं विकल्प्य परिणामना द्वितीयः / कथमिमौ सङ्गौ? तस्य चित्तस्यातीतत्वेनासत्त्वात् / बोधेश्चानागतत्वेन / चित्तप्रकृतिः सदास्तीति चेदाह / न चेत्यादि / न शक्या इति नित्यस्य परिणामायोगात् / तस्मादुभौ विकल्पौ / अभूतकल्पनात् / शेषास्तु यथा सङ्गास्तथा पुर्वमेवोक्तम् /
सङ्गाः तेषां वर्जनमर्वागुक्तं भवति / अतः शास्त्रम्-
[66] दानादिष्वनहङ्कारः परेषां तन्नियोजनम् / सङ्गः कोटी निषेधो ऽयं
ऽदानादिष्वनहंकारःऽ सामर्थ्यात् / पूर्वमुक्तः / ऽपरेषां तन्नियोजनंऽ आह तस्मात्तर्हीत्यादिना / तस्मादिति स्वयं सङ्गविवर्जनात् कारणात् / तर्हीति परेषां सन्दर्शनादिकाले / सन्दर्शयतेति पूर्वमश्रुतवतः रोचयता / समादापयतेति / अनुष्ठानाय सम्यग् ग्राहयता / सम्प्रहषयतेति मन्थरान् प्रोत्साहयता / सम्प्रहर्षयतेति / आरब्धवीर्यान् साधुकारैः / भुतानुगमः सङ्गत्यागात् / एवं समादाय तेष्वपराद्धं (?) दर्शयितुमाह / एवमित्यादि / न क्षिणोतीति बुद्धेष्वपराद्धं न करोति / स्वयम्भूतानुगमे ऽनुशंसमाह / इमाश्चेत्यादिना / तदेवं यन्न ऽदानादिष्वनहङ्कारो ऽ यन्नऽपरेषां तत्र नियोजनंऽ, एष द्विविधः सङ्गकोटीनां स्थूलानां निषेधः /
शास्त्रम् / सूक्ष्मः सङ्गो जीनादिषु // 3-4 // बुद्धादौ यः सङ्गः स सूक्ष्मः / तमाह अथ खलु भगवानित्यादिना / न सा शक्या परिणामयितुमिति त्र्यध्वप्रसङ्गात् / न निमित्तीकर्तुं नारम्बणीकर्तुमिति / अपूर्वत्वेनाकारणत्वात् / दुर्बोधत्वाच्च / यतो न सा दृष्टश्रुतमतविज्ञात चक्षुषा श्रोत्रेण घ्राणजिव्हाकायैर्मनसा वाप्रतीतत्वात् यथा क्रमम् / गम्भीरा प्रज्ञापारमिता विविक्तत्वात् / प्रकृतिगम्भीरा प्रकृतिविविक्तत्वात् / अतश्च नमस्करणिया / सर्वधर्मा अपि प्रकृतिविविक्ताः / या तेषां प्रकृतिविविक्तता सा प्रज्ञापारमिता / यतो ऽकृतास्ते भगवताभिसम्बुद्धाः / यतस्ते प्रकृत्यैव न किञ्चित् / या चैषां प्रकृतिः साभावः / यश्चाभावः सैषां प्रकृतिः / एकलक्षणत्वात् यदुतालक्षणत्वात् / एवमशेषाः सङ्गकोटयो विविर्जिता भवन्ति / अचिन्त्या चिन्तातीतत्वात् / नहि सा रूपं न वेदना यावन्न बुद्धधर्माः / शेषं सुबोधम् /
नापि सा दृष्टश्रुतमतविज्ञातेत्यादिना यदुक्तं / अत्र शास्त्रम्
[67] तद्गाम्भीर्य प्रकृत्यैव विवेकाद्धर्मपद्धतेः / एकप्रकृतिकं ज्ञानं धर्माणां सङ्गवर्जनम् // 3-5 //
[68] दृष्टादिप्रतिषेधेन तस्या दुर्बोधतोदिता / रूपादिभिरविज्ञानात्तदचिन्त्यत्वमिष्यते // 3-6 //
ऽविवेकाद्ऽ इति विविक्तत्वात् / ऽधर्मपद्धतिःऽ धर्मराशिः / धर्माणां ज्ञानमिति सम्बन्धः / एका तेषां प्रकृतिः ख्यातिर्यस्मिंस्तथोक्तम् / तन्न विपक्षप्रतिपक्षौ वक्तव्यौ / सङ्गासङ्गौ कस्मादुक्तौ? अतः शास्त्रम्-
[69] एवं कृत्वा यथोक्तो वै ज्ञेयः सर्वज्ञतानये / अयं विभागो निःशेषो विपक्षप्रतिपक्षयोः // 3-7 //
ऽएवं कृत्वाऽ इति सङ्गासङ्गव्यपदेशं कृत्वा / ऽयथोक्तंऽ इति / यथोक्तो विभागः ऽसर्वज्ञतानये ऽ / सर्वो ऽयं ऽविपक्षप्रतिपक्षयोःऽ वेदितव्यः / तथा हि / सङ्ग उपलम्भो विकल्पः / असङ्गो ऽनुपलम्भः प्रज्ञापारमिता / तस्मात्सङ्गो विपक्षो ऽसङ्गः प्रतिपक्षः इति विपक्षप्रतिपक्षौ //
प्रयोगस्तत्समता च वक्तव्या / अतः शास्त्रम्-
[70] रूपादौ तदनित्यादौ तदपूरिप्रपूरयोः / तदसङ्गत्वे चर्यायाः प्रयोगः प्रतिषेधतः // 3-8 //
[71] अविकारो न कर्ता च प्रयोगो दुष्करस्त्रिधा / यथाभव्यं फलप्राप्तेरबन्ध्यो ऽभिमतश्च सः // 3-9 //
[72] अपरप्रत्ययो यश्च सप्तधा ख्यातिवेदकः /
ऽतदनित्यादौऽ इति / रूपादेरनित्यत्वनित्यत्वादौ / इट् रधादिभ्य इति इञ्चापरिपुरिः / परिप्रपूरेः भाव इति परिप्रपूरः असङ्गः / विवक्षावशात् तच्छब्देन सङ्गो गृह्यते / समाहारद्वन्द्वः / सङ्गासङ्गत्वयोरित्यर्थः / एकशेषस्तु न भवत्यन(?)भिधानात् / ऽरूपादौऽ रूपादेरनित्यत्वनित्यत्वादौ / रूपादेरपरिपूर्णत्वपरिपूर्णत्वयोः / रूपादेः सङ्गासङ्गयोश्च / या ऽचर्याऽ चरणं तत्प्रतिषेधेन प्रज्ञापारमितायां चरणं ऽप्रयोगो ऽ रूपाद्यादिषु / अमी च चत्वारः / उत्तरे चाष्टौ / ऽअविकारो ऽकर्ताऽ / [उद्देश] दुष्करः कारित्रदुष्करो ऽबन्ध्यो ऽपरप्रत्ययः सप्तधाख्यातिवेदकश्चेति द्वादशविधः प्रयोगः / अतस्तं पृच्छति / आह / तेन हीत्यादिना कथं चरितव्यमिति / कथं प्रयोगः कर्तव्यः? अत्र रूपादयः सर्वधर्माः / स्कन्धास्तूपलक्षणम् / रूपे यावद्विज्ञाने न चरतीति रूपादीन्न सञ्जानीत इत्यर्थः / तदा चरति प्रज्ञापारमितायामिति रूपादिप्रयोगः //
स चेद्रूपमनित्यं यावद्विज्ञानमनित्यमिति न चरति / तथा नित्यमिति सुखमिति शून्यमित्यशून्यमिति आत्मेति अनात्मेति शुभमिति अशुभमिति न चरति तदा चरति प्रज्ञपारमितायामिति रूपाद्यनित्यत्वादिप्रयोगः //
स चेद्रूपं यावद्विज्ञानं अपरिपूर्ण परिपूर्ण वा / तदेव रूपादेरपरिपूर्णत्वं परिपूर्णत्वं तदेव रूपादि इति न चरति / तदा चरत्यस्यामित्यपरिपुरिपरिपूरिप्रयोगः //
एवमुक्त इत्यादिना चतुर्थं प्रस्तौति / भगवांस्तमाह / रूपं ससङ्गमित्यादिना चरितव्यान्तेन / अत्रैव एवं चरन्नित्यादिनानुशंसमाह / असक्तेत्यादि / सर्वसङ्गाभावादसक्ता / ततो न बद्धा क्लेशैस्त्रैधातुके / ततो न मुक्ता क्लेशैः / न समतिक्रान्ता त्रैधातुकम् / एवं हीत्यादिनोपसंहारः / इति रूपादिसङ्गासङ्गप्रयोगः //
सुभूतिराहेत्यादिना परिहाणिर्भवेदित्येदन्तेन पञ्चमः / हानिवृद्धयोरभावादविकारता / आकाशवत् / वर्णो गुणः / इत्यविकारप्रयोगः //
तद्यथापीत्यादिना स्थविरशब्दात् प्राक् षष्ठः / संक्लिश्यते शब्दस्यार्थः प्रतिहन्यत(?) इति / द्वितीयस्यानुनीयत इति / देशनया हानिवृद्धयोरकरणादकर्तृप्रयोगः //
स्थविर इत्यादिनाभिसम्बोद्धकामान्तेन सप्तमः / त्रिविधां दुष्करतां वक्तुं भगवती भावनादुष्करतामनुषङ्गादाह / तस्यामेव स्थितानामुद्देशादेर्दुष्करत्वात् / चरन्निति शमथेन / न संसीदति लयेन / नोत्प्लवते औद्धत्येन / न प्रत्युदावर्तते निवर्तते / आकाशभावना / एकलक्षणताप्रतिभासात् / अयं सन्नाह इति यः सर्वसत्त्वार्थाय सम्यक्सम्बोधौ / आकाशेनेति / आकाशनिभेन योगेन तदत्यागात् / ततो दुष्करता सत्त्वानामनुपलम्भादनन्ताच्च / विश्वार्थमुद्दिश्य बोधेः / स चोद्देशः सन्नाह इत्युद्देशदुष्करताप्रयोगः //
आकाशमित्यादिना सन्नह्यत इत्येतदन्तेनाष्टमः / उच्चैर्गतिर्विबन्धपातनं(?) परिमोचनम् / उच्चैर्नयनमुत्क्षेपः / एतावान्सत्त्वार्थाय प्रयोगः / स च दुष्करः / आकाशवत्सत्त्वराशेरनन्तत्वादरूपित्वादद्रव्यत्र्वाच्चेति प्रयोगदुष्करताप्रयोगः //
अथ खल्वित्यादिनाथ खल्वित्यतः प्राङ्नवमः / प्रयोगस्य फलं कारित्रम् / सांक्लेशिकधर्मप्रहाणं वैयवदानिकधर्मोत्पादनं च / तदुभयं दुष्करं भगवत्या तयोरकरणादिति कारित्रदुष्करताप्रयोगः //
अथ खल्वित्यादिनाथ खल्वित्यतः प्राग्दशमः / य एवं योगमापत्स्यत इति हेत्ववस्थायाम् / क्व स इति फलावस्थायाम् / आकाश इति आकाशं तारापथम् / इह तु तत्साधर्म्यादनुत्तरा बोधिः / अभ्यवकाशं भूमेरूपरिष्ठादच्छन्नमरूपिष्ठानम् / इह तु तत्साधर्म्याद्धीनबोधिः / तदुभयं फलम् / तस्य यथाभव्यं प्राप्तेरवन्ध्यप्रयोगः //
अथ खल्वित्यादिना अवतारमित्येतदन्तमेकादशः / शक्रस्तस्य बोधिसत्त्वस्य रक्षावरणगुप्तिं कर्तुकामः / रक्षावरणाभ्यां सहिता गुप्तिस्तथोक्ता / तं सुभूतिराह / किमेनं प्राप्स्यसीति / स आह नेति / ततः किमित्याह एवमित्यादि / एवमिति / सर्वधर्मानुपलम्भेन / शेषं सुगमम् / एवमन्वयव्यतिरेकाभ्यां प्रज्ञापारमिताधीनैव तस्य रक्षा न पराधीनेत्यपरप्रत्ययप्रयोगः //
अपि चेत्यादिना परिजानातीत्येतदन्तेन द्वादशः / महत्योर्भगवत्योः सप्तधा ख्यातिः पठ्यते / "मायामरीचिस्वप्नप्रतिश्रुत्काप्रतिभासप्रतिबिम्बगन्धर्वनगरोपमाः सर्वधर्माः" इति / या च सप्तधा ख्यातिः सा सर्वाप्यन्वाख्यातिः / द्वयशून्येन स्थितानां सर्वधार्माणां परतन्त्रस्वभावानां द्वयेन ख्यातिः / सा एकेनापि दृष्टान्तेन शक्या दर्शयितुम् / यथा हि शब्दे ऽसति प्रतिशब्दो ऽसम्प्रख्याति / तथा सति द्वयशून्ये स्वभावे धर्मा असता द्वयरूपेण प्रख्यान्तीति / तस्मादस्यां भगवत्यां प्रतिश्रुत्कोपमतैव पठ्यते / अत एनां प्रति शास्त्रपाठो ऽन्यथा कर्तव्यः / ऽयो ऽपरो ख्यातिवेदकःऽ इति / द्विविधा प्रज्ञापारमिता लोकोत्तरा शुद्धा लौकिकी च / यथोक्तं द्रुमविकल्पप्रवेशायां धारण्याम अविकल्पधातुप्रतिष्ठितो बोधिसत्त्वो ज्ञेयनिर्विशिष्टेन ज्ञानेन आकाशसमतलान्सर्वधर्मान् पश्यति / तत्पृष्ठलब्धेन मायामरीचिस्वप्नप्रतिभासप्रतिश्रुत्काप्रतिबिम्बोदकचन्द्रनिर्मितसमान्सर्वधर्मान्पश्यति" इति / अतो लोकोत्तरमधिकृत्याह / आकाशस्येत्यादि /
शुद्धलौकिकीमधिकृत्याह / तत्किमित्यादि / परिजानातीति / ततः किं तस्य रक्षणीयं प्रतिभासानामलीकत्वादिति भावः / इत्यन्यथाख्यातिवेदकप्रयोगः //
उक्ताः प्रयोगाः / प्रयोगसमता वक्तव्या / तामधिकृत्य शास्त्रम्- चतुर्धामनना तस्य रूपादौ समता मता // 3-10 // रूपाद्यधिष्ठानं चतुर्विधममननं प्रयोगसमतेत्यर्थः / यथोक्तं महत्योः / "रूपं न मन्यते / रूपेण न मन्यते / रूपं ममेति न मन्यते / रूपेपि न मन्यते / एवं वेदनादिषु" इति / इमां तु भगवतीं प्रति शास्त्रपाठो ऽन्यथा कर्तव्यः-
अष्टधामननं तस्य रूपादौ समता मत /
चतुर्धा ग्राहकस्य चतुर्धा च ग्राह्यस्याकल्पनं प्रयोगसमतेत्यर्थः / तदाह अतश्चेत्यादिना अथ खल्वित्यतः प्राक् / अतश्चेति यतः प्रतिश्रुत्कोपमाः सर्वधर्माः / अतश्च तानिति सर्वधर्मान् न मन्यते भावाभिनिवेशेन / न समनुपश्यति दृष्ट्या / न जानाति ग्रहणेन / न सञ्जानीते कल्पनया / इति चतुर्विधं ग्राहककल्पनम् / तथैव ग्राह्यविकल्पनमाह ते चेत्यादिना / न वेद्यन्त इति सत्त्वेन न मन्यन्ते / न संदृश्यन्त इति न दृश्यन्ते / न संविद्यन्त इति न गृह्यन्ते / नोपलभ्यन्त इति न विकल्प्यन्ते / इत्येवमष्टधा ग्राह्यग्राहकयोरकल्पनेन विहरतीति सर्वधर्मेषु चरति / ततः किं स्यादित्याह स चेदित्यादि सुबोधम् / इति प्रयोगसमता /
प्रयोगसमतानुसङ्गाद्देशनासमतायामप्यस्यां देशनायामभिसम्प्रत्ययार्थमाह / अथ खल्वित्यादिना आपरिवर्तसमाप्तेः / लोकधाताविति.......... /
[विशुद्धिपरिवर्तो नामाष्टमः परिवर्तः //]
9. स्तुतिपरिवर्तो नाम नवमः /
[73] आकाराः सप्रयोगाश्च गुणा दोषाः सलक्षणाः / मोक्षनिर्वेधभागीये शैक्षो ऽवैवर्तिको गणः // 1-12 //
समता [74] भवशान्त्योश्च क्षेत्रशुद्धिरनुत्तरा / सर्वाकारभिसम्बोध एष सोपायकौशलः // 1-13 //
आकाराः, प्रयोगाः, गुणाः, दोषाः, लक्षणानि, मोक्षभागीयं, निर्वेधभागीय, अवैवर्तिकसंघः, संसारनिर्वाणसमता, बुद्धक्षेत्रपरिशुद्धिः, उपायकौशलं चेत्येकादशवस्तूनि सर्वाकाराभिसम्बोधः / यथोद्देशं निर्देशात् प्रथमत आकाराणां निर्देशः /
[75] वस्तुज्ञानप्रकाराणामाकारा इति लक्षणम् / सर्वज्ञतानां त्रैविध्यात् त्रिविधा एव ते मताः // 4-1 //
ऽवस्तुऽ आलम्बनं चतुःसत्यादि / तस्य ऽज्ञानम्ऽ / तस्य ऽप्रकाराःऽ / यैः प्रकारैस्तत्परिक्षेपः तेषां ऽआकाराऽ इति लक्षणत्वात् / ऽसर्वज्ञतानांऽ इति जातौ वहुवचनम् / सर्वज्ञताया इत्यर्थः / कथं तस्यास्त्रैविध्यम्? सर्वज्ञता मार्गज्ञता सर्वाकारज्ञता चेति / तत्रादौ सर्वज्ञताकाराः सप्तविंशतिः / शास्त्रम्-
[76] असदाकारमारभ्य यावन्निश्चलताकृतिः / चत्वारः प्रति सत्यं ते मार्गे पञ्चदश स्मृताः // 4-2 //
असत्पारमितेयमिति असदाकारामारभ्य यावदचलपारमितेयमित्यचलाकाराः / तेषु चत्वारश्चत्वारो दुःखसमुदयनिरोधसत्येषु परिविष्टाः / पञ्चदश मार्गसत्ये / असदाकारपारमिता / असत्पारमिता / एवमुत्तरा अपि सर्वाः / तत्र दुःखे चत्वारःअसत्समताविविक्त-अनवमृद्य /
आकाशसमतामिति / आकाशवद्रूपादेरसत्ताम् / यथा ह्याकाशस्य रूपिद्रव्याभावो लक्षणं तथा रूपादीनां स्वलक्षणाभावः / सर्वधर्मानुपलब्धिसमतामिति / सर्वधर्मानुपलब्धिरेव सुखदुःखयोः समता / अत्यन्तशून्यतामिति / पुद्गलेन स्वभावेन च शून्यतामित्यर्थः / बाधकं दुःखं बाध्यत्वादवमृद्य आत्मा / अनवमृद्यानात्मा / तदाकारत्वात् अनवमृद्यपारमिता / सर्वधर्माणां बाध्यबाधकानामनुपलब्धितां निरूपलम्भतां [उपादाय] /
समुदये चत्वारः / तथा हि- पदं हेतुः प्राक्तनाः स्कन्धाः / स्वभाव आत्मनो भावः / कायकर्म / वचनं वाक्कर्म / नाम मनस्कर्म क्लेशाश्च / एषामभावो यथाक्रमं.....अस्वभावः / ......तदाकारत्वात्तत्पारमिता / अनामाशरोरतामिति / नाम अरूपिणः स्कन्धाः / शरीरं रूपस्कन्धः / तयोरभावो ऽनामशरीरता / गत्यागती कायकर्म / तदभावो ऽनागतिरगतिश्च / वाचां हेतुर्विकल्पः / तदभावो ऽविकल्पता /
निरोधे चत्वारः / तथा ह्यसौ गमनं वा स्यात् ग्राह्यं वा क्षयो वा उत्पत्तिर्वा / एषामभावो यथाक्रमं अगमनं, असंहार्यं, अक्षयः, अनुपपत्तिः / तदाकारत्वात्तत्पारमिता / सर्वधर्माणामगमनता गत्यभावः / सर्वधर्माणामग्राह्यता / न हि धर्मो धर्मं गृण्हातीति / क्षय एव धर्मः / तेन योगः / तदभावादक्षयधर्मयोगता / अभिनिर्वृत्तिरुत्पत्तिः / तदभावादनिर्वृत्तिता /
मार्गे पञ्चदश- अकारक-अजानक-अपश्यक-असंक्रान्त्i-avinaya-svapna-pratiश्रुत्क-प्रतिभास-मरीचि-माया-असंक्लेश-अव्यवदान-अनुपलेप-अप्रपञ्च अमनना-अचला / अकारकाद्याकारत्वात्तत्पारमिता / अकारको मार्गस्तेन कारकानुपलब्धेः / अजानकापश्यको मार्गस्तेन जानकपश्यकानुपलब्धेः / असंक्रान्तिर्मार्गस्तेन च्युत्युपपत्त्योरयोगदर्शनात् / अविनयो मार्गस्तेन त्र्यध्वसमाया धर्मप्रकृतेरविनयात् / स्वप्नादितुल्यत्वात् स्वप्नो मार्गः विनैव द्रष्टारमन्धःकारात् (?) / प्रतिश्रुत्को मार्गः / असति शब्दे शब्दोपलम्भात् / प्रतिभासः प्रतिबिम्बं स मार्गः / असत्यर्थे ऽर्थदर्शनात् / मरीचिर्मार्गः / तज्जलस्कन्धवदसतो लोकधातोः प्रतिभासात् / माया मार्गो निमित्ताप्रतिभासात् / अनुत्पादविज्ञापनतामिति / यतः पञ्चभिरप्येभिरनुत्पादो मार्ग आदीप्यते / प्रतिभासहेतुमन्तरेण तथा तथा प्रतिभासात् / असंक्लेशो मार्गस्तेन रागाद्यनुपलब्धेः / अव्यवदानं मार्गस्तेन क्लिष्टसत्त्वानुपलब्धेः / अनुपलेपो मार्गः / आकाशवन्निरुपलेपस्य धर्मधातोस्तेन दर्शनात् / अप्रपञ्चो मार्गः प्रपञ्चप्रतिपक्षत्वात् / अमनना मार्गः / सर्वमननासमुद्धातित्वात् / अचलो मार्गः / धर्मधातुशरीरत्वेन शाश्वतत्वात् / इति सर्वज्ञताकाराः //
अथ मार्गज्ञताकाराः षट्त्रिंशत् /
[77] हेतौ मार्ग च दुःखे च निरोधे च यथाक्रमम् / अष्टौ ते सप्त पञ्चेति षोडशेति च कीर्तिताः // 4-3 //
हेतुः समुदयः / अतः समुदयमार्गौ प्रथमत उक्तौ फलोपायत्वात् / दुःखनिरोधौ पश्चादुक्तौ फलत्वात् तेष्वाकारा यथाक्रमम् / ऽअष्टौ सप्त पञ्च षोडशेति च कीर्तीताःऽ सूत्रे तत्र समुदये ऽष्टौ-विराग-असमुत्थान-शान्तनिर्दोष-निष्क्लेश-निःसत्त्व / कथं तदष्टौ? यतो निर्दोषे त्रितयः-अराग-अद्वेष-अमोह / प्राक्तना हि पञ्चस्कन्धाः समुदयः / रज्यन्ते ऽस्मिन्निति रागः / परिकल्पितः स्वभावो धर्माणाम् / विगतो रागो ऽस्मादिति विरागः समुदयः / सर्वधर्माणामवितथतामिति / वितथेन कल्पितेन स्वभावेन शून्यताम् / समुत्थानं क्लेशहेतुर्विकल्पः / तस्यास्मिन्नभावादसमुत्थानः समुदयः / सर्वधर्माणां निर्विकल्पतामिति / अग्राहकत्वात् / शान्तः समुदयः / निरोध इत्यर्थः / तत्कुतः? सर्वेषां (rst_86) धर्मनिमित्तानां धर्मप्रतिभासानां परमार्थप्रतिभासे ऽनुपलब्धेः / अत एव अरागपारमिता अदोषपारमिता अमोहपारमिता च / गुणपारमितामिति रागदोषमोहक्षयपारमिताम् / सर्वक्लेशाभावान्निष्क्लेशः समुदयः / परिकल्पासत्तामिति ग्राहकासत्ताम् / अपि च सर्वत्र क्लिष्टः स्याद् दुःखी च (?) / तदभावान्निःसत्त्वः समुदयः / भूतकोटितामिति धर्मपुद्गलशून्यताम् /
मार्गे सप्तेति- अप्रमाण-अन्तद्वयाननुगम-असम्भिन्न-अपरमृष्ट-अविकल्प-अप्रमेय-असङ्ग / अप्रमाणो मार्गः / सर्वधर्माणां समुत्थानस्यासमुत्थानतामलोकत्वमुपादाय / अन्तद्वयाननुगमो मार्गः / सर्वधर्मेष्वनभिनिवेशतामिति / यथाप्रतिभासं भावस्य तच्छून्यतया वा भावस्याननुगमः / असम्भिन्नो मार्गः / असम्भेदनतामिति भेदानुपलब्धिम् / अपरामृष्टो मार्गस्तेन हीनयानास्पृहणात् / अविकल्पो मार्गः / विकल्पसमतामिति विकल्पानामनुपलब्धिम् / अप्रमेयो मार्गः / अप्रमाणधर्मतामुपादायेति / अप्रमाणधर्मतालम्बनत्वात् / असङ्गो मार्गः / सर्वधर्मेष्वसङ्गतामिति निरुपलम्भताम् /
दुःखे पञ्च- अनित्य-दुःख शून्य-अनात्म-लक्षण / सास्रवाः पञ्चस्कन्धा दुःखम् / तदत्रानित्यं भवत्येवेति (?) / सर्वधर्माणामसंस्कृततामिति यथाप्रतिभासमनुत्पन्नताम् / दुःखं दुःखं सुखविलक्षणत्वादाकाशवत् / शून्यं दुःखं सर्वधर्मानुपलब्धेः / अनात्मा दुःखं यथाप्रतिभासं सर्वधर्मेष्वभिनिवेशायोगात् / त्रीणि संस्कृतलक्षणानि / जातिर्जरानित्यता च / तदभावादलक्षणं दुःखम् / अनभिनिवृत्तितामिति यथाप्रतिभासं यथा परमार्थं चासंस्कृतताम् //
निरोधे षोडश / तथा हि निरोधः शून्यतैव विशुद्धा / न च शून्यता भिद्यते भेदकानामनुपलब्धेः / तस्मादाकाशवदनन्तापर्यन्तो निरोधः / अनुक्रमेण विस्तारेण वा परिच्छेदाद्यथाक्रमं ततः षोडश शून्यताः सन्त्येकरसाः / अत आह / सर्वशून्यतापारमितेयमनन्तापर्यन्ततामुपादायेति / अध्यात्मशून्यतापारमितेयं बहिर्धाशून्यतापारमितेयं यावदभावस्वभावशून्यतापारमितेत्यादि / अतश्च निरोधसत्ये षोडशाकाराः / इति मार्गज्ञताकाराः /
सर्वाकारज्ञताकाराः दशोत्तरं शतम् / यतः शास्त्रम्-
[78] स्मृत्युपस्थानमारभ्य बुद्धत्वाकारपश्चिमाः / शिष्याणां बोधिसत्त्वानां बुद्धानां च यथाक्रमम् // 4-4 //
[79] सप्तत्रिंशच्चतुस्त्रिंशत् त्रिंशन्नव च ते मताः / त्रिसर्वज्ञत्वभेदेन मार्गसत्यानुरोधतः // 4-5 //
तानधिकृत्य स्मृत्युपस्थानादीत्यादिकं आपरिवर्तसमाप्तेः / स्मृत्युपस्थानादिबोधिपक्ष्यधर्मपारमितेयमिति / स्मृत्युपस्थानादयः सप्तवर्गा अनेकशो विभक्ताः सप्तत्रिंशब्दोधिपक्ष्या धर्मा भवन्ति / प्रत्येकं तेषामनुपलम्भात्तदाकाराः पारमिताः............ [स्तुतिपरिवर्तो नाम नवमः //]
10. धारणगुणपरिकीर्तनपरिवर्तो नाम दशमः /
......बोधिर्धर्मचक्रप्रवर्तनपर्यन्ता नाहेतुत्वादिति फलरत्नप्रदाताप्रयोगः //
शुद्धराशिरित्यादि प्रगाश्चर्यात् / तेषामेव फलानामाकाशवद्विशुद्धिदर्शनादिति शुद्धकः प्रयोगः //
आश्चर्यमित्यादि / अथ खल्वायुष्मानित्यतः प्राक् / लिख्येतेति लिखितुं शक्यते / लिखितर्व्यैवेति तावतैव कालेन लिखितव्या भवेत् / दृढसमादानस्य विघ्नाभावादिति भावः / तत्कस्य हेतोरिति कुत इदमासं (शं)कितमित्यर्थः / एवं हीत्यादिनोत्तरम् / धर्मतेयमिति भावः /
किञ्चापीति यद्यपि / न प्रसहिष्यत इति न प्रभविष्यति / अच्छिद्रसमादानस्यत्यखण्डसमादानस्य इत्यवधेरण(न)तिक्रमात् सावधिः प्रयोगः //
उक्ताः प्रयोगाः / गुणा वक्तव्याः / तानधिकृत्य शास्त्रम्-
[80] माराणां शक्तिहान्यादिश्चतुर्दशविधो गुणः /
गुणाः प्रयोगानुशंसाः मारशक्तिव्याघातादयश्चतुर्दश / तत्रादौ अथ खल्वित्यादि न हि शारिपुत्रेत्यतः प्राक् / बुद्धानां आनुभावेनेति / तेन मारशक्तिव्याघातादिति भावः / प्रसत्तेः(?)अदर्शनात् पृच्छति / तत्कस्य हेतोरिति / समन्वाहरिष्यन्तीति स्मरिष्यन्ति / परिग्रहीष्यन्तीत्यानुकूल्ये चावस्थानादिति मारशक्तिव्याघातगुणः //
न हि शारिपुत्रेत्यादि / एवमुक्त इत्यतः प्राक् / इति बुद्धसमन्वाहारज्ञानगुणः //
एवमुक्त इत्यादि बुद्धचक्षुषेति यावत् / अनुभावः प्रभावः / अधिष्ठानमधिकशक्त्याधानम् / परिग्रहः स्वीकारः / कुतस्तेषां बुद्धाधिष्ठानं बुद्धपरिग्रहो वेत्यत आह ज्ञातास्त इत्यादि / ज्ञाताः समन्वाहृताः / अधिष्ठिताः स्वीकृताः / दृष्टा मांसचक्षुषा / व्यवलोकिता बुद्धचक्षुषा / इति बुद्धावलोकितत्वगुणः //
ये ते बोधिसत्त्वा इत्यादि येपीत्यतः प्राक् / तथत्वायेति सम्यक्सम्बोध्यासन्नीभावगुणः //
येपीत्यादि / इमे खल्वियतः प्राक् / महार्थिक आयत्यां बोधिसत्त्वभूमिभिः / महानुशंसो बोधिसत्त्वसम्पत्तिभिः / महाफलः पश्चादनुत्तराया बोध्याः / महादिपाकः चरमभवभाविनीभिः कुलगोत्रलक्षणादिसम्पत्तिभिः / परिश्रमः क्लमथः / परिष्प(स्प)न्दो व्यापारः / इति महार्थतादिगुणः //
इमे खल्वित्यादि न सन्त्रासमापद्यन्त इति यावत् / सूत्रान्ता इति प्रज्ञापारमिताप्रभृतयः / अत्ययेनेति परिनिर्वाणेन / वर्तन्यामिति पूर्वदेशे / ननु मध्यदेशे षोडशेषु महानगरेषु भगवता धर्मो देशितः / तस्य कथं ततो ऽन्यत्र प्रचार इत्यत आह / नवमण्ड इत्यादि / नवमण्डो ऽभिनवः सारः / स प्राप्तो विनेयैरस्येति तथोक्ते धर्मविनये / धर्मश्चासौ देशनाधर्मत्वाद्विनयश्च क्लेशविनयादिति धर्मविनयः / भगवति परिनिर्वृते सद्धर्मस्य लोके ऽवस्थानं पञ्चवर्षसहस्राणि ततो ऽन्तर्धानकालः / तत्समये सन्निधाने / ततः किमित्याह / समन्वाहृता इत्यादि / उत्तरस्यां दिशीति दिगन्तराणां व्यवच्छेदः / उत्तरे दिग्भाग इति / तस्या अपि भागान्तराणां विस्तारेण चरतीति वैस्तारिकी / उत्तरापथ इति वचनं दक्षिणापथादेर्व्यवच्छेदाय /
बहव इत्यल्पकपक्ष्यस्य सुबहव इति बहुत्वप्रकर्षाय / किञ्चापीति यद्यपि / शेषं सुबोधम् / अत्र चतुर्भिः कारणैः शासनापचय उक्तः / भगवतो ऽत्ययेन / नवमण्डप्राप्तत्वेन / अन्तर्धानकालसन्निपातेन / प्रवर्तकाल्यत्वेन च / तथापि शासनं तानबलंब्य प्रवर्तिष्यत इति शासनावलम्बत्वगुणः //
चिरयानेत्यादि यावत्सम्बोधिमारभ्येति / प्रश्नः पृच्छा / तत्करणात् परिपृष्टाः परिज्ञातपृच्छाः परिपृच्छाः / तथा करणात् परिपृच्छिताः / (rst_89) परिहतप्रश्नाः कृताः परिपुरिप्रश्नोकृताः / शीलेष्विति बहुवचनमाद्यर्थं शीलादिष्वित्यर्थः / शेषं सुबोधम् / इति शुक्लधर्मपरिपूरणगुणः //
तत्कस्येत्यादि सम्यक्सम्बोधिमारभ्येति यावत् / जातिव्यतिवृत्तानामपीति तां तदुत्तरां च जातिमतिक्रान्तानामपि समुदाचाराः प्रयोगाः / अभिनन्दनमभिलाषः शेषं सुगमम् / इति कथापुरुषतागुणः //
तेषु चेत्यादि यावत्सम्यक्सम्बोधाविति / छन्दतो मन्त्रतो वेति / अभिप्रायेण व्यवचारेण वा / शेषं सुबोधम् / इति अभेद्यतागुणः //
तां चेत्यादिना सम्यक्सम्बोधावित्येतदन्तेन बहुजनकुशलमूलोत्पादनगुणः //
तत्कस्येत्यादि एवं चेत्यतः प्राक् प्रस्थापयिष्याम इति प्रस्थानमात्रेण / सम्प्रभावयिष्याम इति भावनाप्रकर्षसंपादनात् / प्रतिष्ठापयिष्याम इति स्थिरीकरिष्यामः / शेषं सुबोधम् / इति प्रतिज्ञातपरार्थसंपादनगुणः //
एवं चेत्यादि भविष्यन्तीति यावत् / एवं चेति यथोक्ते परार्थसंपादने सति / उदाराधिमुक्तिका भविष्यन्तीति / यथोक्तं महत्योस्तदेव संक्षिप्य ब्रूमः / "ते खलु उदाराधिमुक्तिका भविष्यन्ति / रूपशब्दगन्धरसस्पर्शधर्मेषु त उदाराणि दानानि दत्वा उदाराणि कुशलमूलान्यभिसंस्कृत्य उदारं विपाकं परिगृह्य सत्त्वानामर्थाय विपाकाद्विपाकं परिगृहीष्यन्ति" इति उदारफलपरिग्रहगुणः //
यदित्यादि एवमुक्त इत्यतः प्राक् / यदिति यस्मादुदाराधिमुक्तिकत्वात् / अध्यालम्बितव्यानीति संक्रमितव्यानि / शेषं सुबोधम् / इति वैस्तरिकपरार्थसंपादनगुणः //
एवमुक्त इत्याद्यापरिवर्तसमाप्तेः / पारमितानां कृतश इति तदर्थम् / तासां परिशुद्धये / अर्थायेति हिताय / अन्वेषिष्यन्ते प्रज्ञापारमिता क्वैषा लभ्यतामिति / पर्येषिष्यन्त इतस्ततो गत्वा गवेषिष्यन्ते / इह लप्स्यत इति श्रुत्वा / अभिवदनी (न्ती) ति सम्यग्वदन्ति / उपगमिष्यन्ति सन्निधानतः / उपपत्स्यन्ते प्रयत्ने सति लाभात् / उपनंस्यन्ते अयत्नेनैव लाभात् / शेषं सुबोधम् / इति षट्पारमितानियतलाभगुणः //
इत्युक्तो गुणः //
यथोक्तेषु प्रयोगेषु चेतसः स्थापनं धारणम् / तस्य गुणा अनुशंसाश्चतुर्दश / तेषां परिकीर्तनश्चासौ परिवर्तश्च /
आर्याष्टसाहस्रिकायाः प्रज्ञापारमितायाः सारतमानाम्नि पञ्जिकायां रत्नाकरशान्तिविरचितायां दशमः परिवर्तः //
11. मारकर्मपरिवर्तो नामैकादशमः /
दोषाः प्रयोगान्तरायकराः / ते वक्तव्याः / तमधिकृत्य शास्त्रम्- दोषाश्च षड्विबोद्धव्याश्चतुर्भिर्दशकैः सह // 4-12 // दोषाः षट्चत्वारिंशदित्यर्थः / अत आह / अथ खल्वित्यादि / केचिदिति प्रश्नः / काङ्क्षाकिमर्थगतेः / अथवा चिच्छब्दो न पठितव्यः / बहूनीति सामान्येनोक्ते विशेषजिज्ञासया प्रश्नः / कियद्रूपाणोति / तेषामित्याद्युत्तरम् / वक्ष्यमाणानि षट्चत्वारिंशदिति भावः / भाषमाणादिपदानि सर्वचर्याणामुपलक्षणानि / चिरेण प्रतिभानमुत्पत्स्यत इति चिरेण पारमितानां पूरणम् / ततश्चिरेणैव बोधिः स्यात् / इति चिरप्रतिभानदोषः //
तदपि चेत्यादि / विक्षेप्स्यत इति / उद्धतं भविष्यति / अनुपायकुशलस्य क्षिप्रतरं तदुत्पत्तौ मानोत्पत्तेः / ततो ऽन्यान् बोधिसत्त्वानवमन्यमानस्य नीचकुलेषूत्पत्त्या चिरेणैव बोधिः स्यादित्याशुप्रतिभानदोषः //
जृम्भमाणा इति सदर्पकायप्रसाराः / हसन्त इति अट्टहासान् कुर्वन्तः / उच्चवग्घयन्त इति दर्पादुत्तिष्ठन्तः / इति कायकर्मवैगुण्यम् //
विक्षिप्तचित्ता इत्यसमाहिता / अन्योन्यविज्ञानसमङ्गिन इति परैः स्मरयितव्याः / स्वयं तु स्मृतिं न प्रतिलप्स्यन्ते / भिन्नेष्वपीर्यापथेषूद्देशविस्मरणाद्वेति चित्तवैगुण्यदोषः //
परस्परमित्यादि / उच्चग्घमाना इति परस्परमुच्चग्घयन्तः / विक्षिप्तचक्षुष इतस्ततः / विसामग्रीति यावतामागमने पुस्तकमाकृष्यते तावतामसमग्रतेत्ययोगविहितस्वाध्यायादिता दोषः //
न वयमित्यादि पुनरपरमित्यतः प्राक् / चित्तोत्पादैस्तथा तथेति पूर्वोक्तम् / न निर्जायन्ते न निष्पद्यन्ते / इति वैमुख्यनिमित्तग्राहिता दोषः //
पुनरपरमित्यादि तद्यथापीत्यतः प्राक् / विवर्ज्य चेतसा / उत्सृज्य कायवाग्भ्याम् / निर्याणं शिक्षापर्यन्तगमनम् / इति हेतुभ्रंशदोषः //
तद्यथापीत्यादि तद्यथापीत्यतः प्राक् / पिण्डमाहारः / छोरयित्वा त्यक्त्वा / कवडं ग्रासम् / पत्रः पल्यसम्पत्समूहः / पलाशोपमप्रतिपन्न इति पलाशोपमेषु सूत्रान्तेष्वभियुक्ताः / दमयिष्यामः पञ्चेन्द्रियदमनात् / शमयिष्यामः चेतसो दमनात् / परिनिर्वापयिष्यामः पुनर्भवक्षयात् / कुशलमूलानामभिसंस्कारो निष्पादनानि तदर्थाः प्रयोगव्यापाराः / न च तैर्मन्तव्यमिति / तेषामात्मनश्चानुपलम्भादिति प्रणीतास्वादभ्रंशदोषः //
तद्यथापीत्यादि तद्यथापीत्यतः प्राक् / प्रकाशमिति सालोकम् / उपनिध्यायेदिति पश्येत् / वर्णसंस्थान इति वर्णाकारौ / इत्युत्तमयानभ्रंशदोषः //
तद्यथापीत्यादि तद्यथापीत्यतः प्राक् / केवलमात्मदमशमथमेवेति / संवर्णत इति वर्तते / इत्यपीत्यादि / प्रतिसंलयनं समाधिः / तदपि इत्येवम् / आत्मदमशमथार्थमेव संवर्ण्यते / इत ऊर्ध्वं इतीत्यादि सुगमम् / इति दृष्ट एवेत्यादि / दृष्टे धर्मे प्राप्ते जन्मनि / अनुपादायेति न किञ्चित्परिगह्य / नित्यकालमित्याबोधेः / सततं चैतत् प्रतिजन्मभावात् / समितं च प्रत्यहं भावादिति सततसमितम् / शेषं सुबोधम् / इत्युद्देशभ्रंशदोषः //
इति प्रथमं दशकम् //
तद्यथापीत्यादि तद्यथापित्यतः प्राक् / पलगण्डः सूत्रधारः / मेरुपृष्ठे सुदर्शनं नाम शक्रस्य सौवर्ण नगरम् / तन्मध्ये शक्रस्य वैजयन्तो नाम प्रासादः / प्रतिपार्श्वं योजनशतद्वयं सार्धम् / एकत्वेन योजनसहस्रम् / सूर्याचन्द्रमसोस्तु मेरोरर्द्धाद्वहिराकाशगामिस्फाटिकं वर्तुलं विमानम् / यथाक्रममेकपञ्चशत्पञ्चाशच्च योजनानि मध्यसूत्रेण / तन्मध्ये यस्तयोः प्रासादो बहुभूमेस्तदिह तयोर्विमानं वक्तव्यम् / तच्च वैजयन्तादतीवाल्पप्रमाणम् / निर्माणं विशेषवती क्रिया / उपनयन्ति प्रापयन्तीत्युपा[य]संमोहदोषः //
तद्यथापीत्यादि / भगवानाह / तद्यथापीत्यतः प्राक् / लोके चक्रस्य प्रवर्तनात् चक्रवर्ती / तत्पुनश्चक्रमपौरुषमाकाशगामि सहस्रारं सनाभिकं सनेमिकं आयसं ताम्रं रौप्यं सौवर्ण वा यथायोगम् / वर्णो जाम्बुनदनिभः / संस्थानं द्वात्रिंशन्महापुरुषलक्षणोपेतम् / तेजः सर्वमभिभूः प्रभावः प्रभामण्डलश्च / ऋद्धिः सम्पत्तिः / विशेषतः सप्तरत्नानि- चक्ररत्नं हस्तिरत्नं (rst_92) अश्वरत्नं परिणायकरत्नं गृहपतिरत्नं मणिरत्नं चेति / धन्धयति मोहयत्यपरिस्फुटत्वादल्पत्वाच्चेति धन्धकः / यस्माद्धेतोर्बोधिसत्त्वः समुदेति स बोधिसत्त्वसमुदागमः / अवाप्य लाभमात्रेण / समासाद्य श्रवणादिभिः / विवर्ज्य त्यक्त्वा / विवर्त्य पराङ्मुखीभूय / इति चक्रवर्तिसाधर्म्यान्निर्माणकायभ्रंशदोषः //
भगवानाह / तद्यथापीत्यादि तद्यथापीत्यतः प्राक् / रसाः षट् / द्रव्यभेदात् परस्परसांकर्याच्च शतं भवति / ततः शतरसं भोजनम् / षष्टिकाः षष्टिरात्रेण पच्यन्ते तेषामोदानः षष्टिकोदनः / शकन्ध्वादिषु दर्शनात्पररूपम् / उत्सृज्य चेतसा / विवर्ज्य कायेन / इति शतरसभोजसाधर्म्यात् सम्भोगकायभ्रंशदोषः //
तद्यथापीत्यादि प्राक् पुनरपरशब्दात् / गम्भीरं परमार्थशेखरत्वात् / प्रभास्वरं परमनिर्मलालोकत्वात् / इत्यनर्ध्यमणिरत्नस्य धर्माद्धर्मकायभ्रंशदोषः //
इत ऊर्ध्वं गद्यद्वयेन भगवत्यां पञ्च विपर्यासाः प्रतिशे(षे)ध्याः (?) / पुनरपरमित्याद्येवमुक्ते इत्यतः प्राक् / बहूनि प्रतिभानानीति रूपादीनां सर्वाकारज्ञतापर्यन्तानां प्रतिभानानि / भगवत्यामसंविद्यमानत्वाच्चित्तविक्षेपकराणीति तत्तभ्दावप्रतिभानदोषः //
एवमुक्त इत्यादि पुनरपरात् प्राक् / ये केचित् प्रज्ञापारमिता लिखितेति, असतीति, अक्षराणीति, अनक्षरेति वा मन्यन्ते सर्वं तन्मारकर्म / तथा हि न सा लिखिता अपगन्धादिविरहात् / नासती परमार्थसत्त्वात् / नाक्षराणि सर्वधर्माणामनक्षरत्वात् / नानक्षरा तन्निष्यन्दत्वादेषामक्षराणाम् / एभिरेव च तस्याः सूचनात् / एतान्येव च तेनार्थेनालम्ब्य तस्या अधिगमात् / तदेवं लिखनाभिनिवेशो ऽसत्त्वाभिनिवेशो ऽक्षराभिनिवेशो ऽनक्षराभिनिवेशश्चेति चत्वारो दोषाः //
पुनरपरमित्यादि / देशो मालवादिः / शतेन सहस्रेण वा संख्यातगृहो ऽनाढ्यानां निवासो ग्रामः / सहस्रेण लक्षेण वा संख्यातगृह आढ्यानां निवासो नगरम् / नगरमेव च वस्तुभूयिष्ठं निगमः / मण्डलं काश्यादि जनपदः / तत्समूहो राष्ट्रम् / राजाध्युषितं नगरं राजधानी / आख्यानं गद्यकाव्यम् / गुल्मो घहाः(ट्टः?) / विशिखा रथ्या / शिविका याप्ययानम् / जीवितार्थाः परिष्काराः जीवितपरिष्काराः / इतिहासः पुरावृत्तम् / शेषं सुबोधम् / इति गन्तव्यादिनानार्थमनसिकारविक्षेपदोषः /
इति द्वितीयं दशकम् //
पुनरपरमित्यादिना द्रष्टव्यराजादिमनसिकारविक्षेपदोषः //
पुनरपरमित्यादिना प्राप्तव्याग्न्यादिमनसिकारविक्षेपदोषः //
पुनरपरमित्यादि प्राक् पुनरपरात् / अन्तराया विघाताः / लाभश्चीवरादिप्राप्तिः / सत्कार आदरः / श्लोको यशः / तैरास्वाद उद्धर्षः / चित्तोत्पीडा चीवरादिविघातैः / इत्युत्पीडास्वाददौषौ //
पुनरपरमित्यादि प्राक् पुनरपरात् / किञ्चापीति यद्यपि / उपायकौशल्यमिति येन हीनबोधौ न पतेदिति / उपायकौशल्यरहितस्य गम्भीरसूत्रान्ते अतन्मार्गणदोषः //
इति ऊर्ध्वं वैधुर्याणि बाहुल्येन वक्तव्यानि / तानि धर्मभाणकेन सह धार्मश्रवणिकानां विसामग्री / धर्मस्य भान(ण)को वक्ता गुरुः / धर्मश्रवणं प्रयोजनमेषामिति धार्मश्रवणिकः शिष्यः / समग्रभावः सामग्री / विपर्यासात् विसामग्री / तत्रादौ पुनरपरवाक्यद्वयम् / किलासं कौसीद्यम् / बहुकृत्यता गृहिणाम् / सपि कौसीद्यमिति च्छन्दकिलासवैधुर्यम् /
ततः पुनरपरवाक्यद्वयम् / अन्तश इत्यधिकमेव लिखितुकामः / गतिमान् शब्दज्ञानात् / मतिमान् अर्थज्ञानात् / स्मृतिमान् उभयोर्धारणात् / क्षेप्स्यत इति कर्मे कर्त्तरिप्रयोगः / गमिष्यतीत्यर्थः / उदघटितज्ञः सामान्योक्ते विशेषज्ञानात् / विपञ्चितज्ञः किञ्चिदप्युक्तौ विशेषपरिज्ञानात् / अनभिज्ञः पदपरमः / स हि यदुच्यते तदेव जानाति नाधिकम् //
इमानि चत्वारि वैधुर्याणि / च्छन्ददेशान्तरगमनवैधुर्यम् / उद्घाटितज्ञतेतरतावैधुर्यम् / अभिज्ञतेतरतावैधुर्यम् //
तृतीयं दशकम् //
पुनरपरमित्यादि आमिषं द्रव्यम् / तद्गुरुकबहुमानादस्येति आमिषगुरुकः / एवं लोभादिगुरुकः / यावता स्वयं वर्तते तावदिच्छतीति अल्पेच्छः / सन्तुष्टो अधिकानिष्टेः / प्रविविक्तो गृहस्थैरसंस्तुतत्वात् / इयता प्रव्रजितस्य दानाशक्तिरुक्ता / अर्थवा न दातुकाम इति सन्तमप्यर्थ गृहीमात्सर्यात् / इत्यामिषार्थितादानानार्थितावैधुर्यम् //
पुनरपरमित्यादि पुनरपरात् प्राक् / श्राद्धो भविष्यति / ततः श्रोतुकामः शब्दतः / अवबोधु(द्ध)कामो ऽर्थतः / अर्थ दातुकामः परित्यक्तुकाम इति निरक्षेपदानात् / धर्मभाणकस्तु न वक्ष्यति / अश्राद्धत्वात्, धनैरण(न)र्थिकत्वात्, (rst_94) धर्ममात्सर्याद्वा / इमानि त्रीणि वैधुर्याणि / श्राद्धेतरतावैधुर्य दानार्थिताग्रहणानर्थितावैधुर्य श्रोतुकामताधर्ममात्सर्यवैधुर्य च //
पुनरपरमित्यादि / तानि सूत्राणीति यानि श्रोतुकामः / धर्मान्तरायो धर्मव्यसनम् / तदस्यास्ति पूर्वजन्मसद्धर्मप्रतिक्षेपादिति धर्मान्तरायिकः / तत्तया तभ्दावेन न सम्भविष्यन्ति न भविष्यन्ति / नावतरिष्यन्ति नान्यत आगमिष्यन्ति / अप्राप्तधर्मभाणिन इत्यप्राप्तधर्मभाणकस्य / प्रतिवाणी प्रत्याख्यानम् / इति सूत्रान्तरा[य]सम्भवतदर्थितावैधुर्यम् //
पुनरपरमित्यादि / न श्रोतुकामो भविष्यतीति धर्मान्तरव्यग्रतया / अत इदं च्छन्दकिलासवैधुर्यादन्यच्छन्दवैधुर्यम् //
ततः पुनरपरवाक्यद्वयेन मिद्धगुरुकच्छन्दिकतावैधुर्यम् //
पुनरपरवाक्येन दुर्गतिदुःखभयाभ्दववैमुख्यदोषः //
पुनरपरवाक्येन सुगतिसुखानामपि दुःखत्वाभ्दववैमुख्यदोषः //
ततः पुनरपरवाक्येन एकाकिता पर्षद्गुरुकतावैधुर्यम् / अनुबन्धुकामता अनवकाशदानवैधुर्यम् / दुर्भिक्षादिदिग्गमनागमनवैधुर्यं च / तत्रैकाकितापर्षद्गुरुकतावैधुर्यान्तं चतुर्थं दशकम् //
एकेन पुनरपरवाक्येन सभयदिग्गमनागमनवैधुर्ये //
पुनरपरमित्यादि कुलावलोकनबहुकृत्यतया धार्मश्रवणिकानां प्रत्याख्यानदोषः //
इति हीत्यादिना मारकर्मणां बाहुल्यं बुद्धाविवर्जनीयतां मारस्य च तेष्वभियोगकारणमाह / पुनरपरमित्यादि / श्रमणवेशागतेन मारेण संशयप्रक्षेपदोषः //
पुनरपरमित्यादि / निर्मितभिक्षुसङ्घेन स्वयं बुद्धवेषेण मारेण गम्भीरधर्मचारिणां हीनबोधिव्याकरणदोषः //
एवं सुभूत इत्यादिना आपरिवर्तान्ताच्चतुरो ऽर्थानाह / मारमर्मणां बाहुल्यं तत्कारणं तेभ्यश्च विना तामल्पबुद्धित्वादिकम् / यथा च मारस्य तेष्वभियोगस्तथा सर्वबुद्धानां बोधिसत्त्वपरिग्रहेष्विति षट्चत्वारिंशदन्तरायाः //
मारकर्माण्यते एवान्तरायाः / तद्द्योतकः परिवर्तस्तत्परिवर्तः //
आर्याष्टसाहस्रिकायाः प्रज्ञापारमितायाः सारतमानाम्नि पञ्चिकायां रत्नाकरशान्तिविरचितायामेकादशः परिवर्तः //
12. लोकसंदर्शनपरिवर्तो नाम द्वादशः /
उक्ता दोषाः / लक्षणं वक्तव्यम् / तदधिकृत्य शास्त्रम्-
[81] लक्ष्यते येन तज्ज्ञेयं लक्षणं त्रिविधं च तत / ज्ञानं विशेषः कारित्रं स्वभावो यश्च लक्ष्यते // 4-13 //
ऽयेन लक्ष्यते ऽ तल्लक्षणमिति ज्ञेयम् / करणे ल्युट् / तच्च विविधं ऽज्ञानं विशेषः कारित्रंऽ चेति / यश्च लक्ष्यते तदपि लक्षणम् / कर्मणि ल्युट् / स च ऽस्वभावऽ एवेति चतुर्विधं लक्षणम् / तत्रादौ ज्ञानं वक्तव्यम् / तत्र सर्वज्ञताकारेण तावत् /
[82] तथागतस्य निर्वृत्तौ लोके चालुज्यनात्मके / सत्त्वानां चित्तचर्यासु तत्संक्षेपे बहिर्गतौ // 1-14 //
[83] अक्षयाकारतायां च सरागादौ प्रविस्तृते / महद्गते ऽप्रमाणे च विज्ञाने चानिदर्शने // 1-15 //
[84] अदृश्यचित्तज्ञानं(ने) च तदुन्मिञ्जादिसंज्ञितम् / पुनस्तथताकारेण तेषां ज्ञानमतः परम् // 1-16 //
[85] तथतायां मुनेर्बोधे तत्पराख्यानमित्ययम् / सर्वज्ञताधिकारेण ज्ञानलक्षणसंग्रहः // 1-17 //
ज्ञानग्रहणं सप्तम्यन्तैः सहः संबध्यते / ऽतथागतस्य निर्वृत्तौऽ इति भगवत्याः सकाशात्तथागतस्य निष्पत्तौ ज्ञानम् तदाह / अथ खल्वित्यादिना अथ खल्वित्यतः प्राक् / तत्रादौ दृष्टान्तः / एवमेवेत्यतः प्राक् / मातुर्ग्लानाया इति मातरि ग्लानायाम् / स्पर्शविहार इति स्पर्शप्रचारः / अमनआप इति अमनोज्ञः दुःखहेतुत्वात् / सुधृता धारयेयुरिति सुपुष्टां पुष्टीयुः / तथा पुष्टीयुः यथा सुपुष्टा स्यात् / गोपायनं रक्षणम् / केलायनं सोधनं व्याधिहरणात् केलाशब्दः / कण्ड्वादिदुःखो वा स्पर्श इति / विषयेन्द्रियविज्ञानसन्निपातजश्चैत[सि]कः स्पर्शः / स च दुःखहेतुर्दुःख / चक्षुष इति पञ्चमी / आपातो ऽमनुष्याणाम् / उत्पातो विद्युदादिः / ममकारेण ममा [ये]युः / समन्वाहरन्तीत्येतत् कुत इत्याह / येपि ते लिखन्तीति तामेव / तथागतस्येति शाक्यमुनेः / (rst_96) येपीति न केवलं शाक्यमुनिः / तिष्ठन्तीति सन्ति / ध्रियन्त इति अवतिष्ठन्ते / यापयन्तीति यावदायुरवतिष्ठन्ते / औत्सुक्यमापद्यन्ते / कथमित्याह / किमितीत्यादि / किदृशी मातेत्यत आह / जनयित्रीति / अस्याः सर्वज्ञतायाः / दर्शयित्रीति प्रापिका / एवमिति जनकत्वेनैव / इति तथागतस्य निर्वृत्तौ ज्ञानं प्रथमम् //
लोकस्य सन्दर्शयित्रीत्युक्तम् / अतः पृच्छत्यथ खल्वित्यादिना / एवमुक्त इत्यादि उत्तरम् / लोक इत्याख्याता इति लुजो विनाशे / लुज्यन्ते प्रलुज्यन्ते क्षणिकत्वात् सन्ताननिरोधाच्चेति लोकाः / कर्त्तुर्युच् / नैरुक्तो वर्णव्यत्ययः / कथं लोक इति दर्शिता इति / यदि लुञ्जन्त इति लोकाः / तदास्याः को ऽतिशय इति भावः / विश्वादर्शितमिति(?)लुजत्वादन्यत्(?) / यतो ऽतिशयः स्यादित्यर्थः / न लुज्यन्त इत्यादि / ननु तथापि व्याहतमे[त]त् न लुज्यन्ते न प्रलुज्यन्ते तस्माल्लोक इति? नास्ति व्याघातः / यस्यायमत्र सम्बन्धः / लोक इति पञ्चस्कन्धाः / ते भगवत्या प्रज्ञापार[मि]तया न लुज्यन्ते न प्रलुज्यन्त इति दर्शिताः / तत्कस्य हेतोरित्यादिना प्रश्नः / शून्यतेत्यादिनोत्तरम् / यथा शून्यता एवमनिमित्तादय इत्याह न चेत्यादिना / कथमिति पृष्टम् / अत एवं इत्यादिनोपसंहारः / इति लोकज्ञानं द्वितीयम् //
सत्त्वानां चित्तचर्यास्वित्यनेनाप्रमेयाणां सत्त्वानां चित्तचरितज्ञानं निर्दिष्टम् / तच्च न विनाशत्वाप्रमेयताज्ञानेन / ततः पुनरपरमित्यादिना सत्त्वाप्रमेयताज्ञानमुक्त्वा योपीत्यादिना तच्चित्तचरितज्ञानमाह / तत्र कथं सत्त्वानामप्रमेयताज्ञानम्? यतस्तेषां निःस्वभावतया न प्रमाणं न संख्या / कथं तच्चित्तचरितानां ज्ञानम्? सत्त्वासत्तया तेषामप्यसत्त्वात् / लोकस्य सन्दर्शयित्रीति सत्त्वानामपि लोकत्वात् / इत्यप्रमेयसत्त्वचित्तचरितज्ञानं तृतीयम् //
ऽतत्संक्षेपे बहिर्गतौऽ इति / बहिर्गतिर्विक्षेपः / तस्य चित्तस्य संक्षेपसहिता बहिर्गतिस्तत्संक्षेपबहिर्गतिः / अतश्चित्तस्य संक्षेपविक्षेपज्ञानं पुनरपरगद्यद्वयेनाह / स संक्षेपं क्षयतः क्षयं चाक्षयतो यथाभूतं प्रजानातीति / संक्षेपो हि चित्तस्य प्रकृतौ स्थानम् / तच्चास्य क्षय एव / स चाक्षयश्चित्तप्रकृतेरक्षयत्वात् / तस्मात्स तथागतः संक्षेपं क्षयतः क्षयं चाक्षयतो यथाभूतं प्रजानाति / धर्मतात इत्यादि / ल्यब्लोपे पञ्चमी / चित्तधर्मतामपेक्ष्य तानि विक्षिप्तानि बहिर्मुखत्वात् प्रजानाति / स्वलक्षणापेक्षया कीदृशानीत्याह / अक्षीणानीत्यादि / (rst_97) न क्षीणानि नाप्यंशतः क्षीणानि ततो न संक्षिप्तानि / अविक्षिप्तानीति नापि विक्षिप्तानि / कुत इत्याह / अलक्षणानि हीति / यस्मात्स्वलक्षणैः शून्यानीत्यर्थः / इति चित्तसंक्षेपविक्षेपज्ञानं चतुर्थम् //
ऽअक्षयाकारतायां चऽ इति क्षयपाठो महत्यौ प्रति / इमां तु प्रति ऽअमेयाक्षयतायां चऽ इति पाठः / अस्यां हि पठ्यते अप्रमेयाक्षयानि चित्तानीति / तदाह / पुनरपरमित्यादिना / कथं चेति प्रश्नः / उत्तरं तस्येत्यादिना / अधिष्ठितमिति न कदाचिन्न स्थितमनादिनिधनमित्यर्थः / धर्मतयेति भावः / अत एव संस्कृतलक्षणाभावाद् अनिरोधमनुत्पादमस्थितम् / अनाश्रयं षण्णामपीन्द्रियाणां तस्मिन्नव्यापारात् / प्रमाणाभावाद् अप्रमेयम् / क्षयाभावाद् अक्षयम् / येनेति येनाधिष्ठितत्वादिना / आकाशेत्यादि / यथा आकाशस्याप्रमेयताक्षतया तथा चित्तस्य / एवमित्यादिनोपसंहारः / इति अप्रमेयाक्षयताज्ञानं पञ्चमम् //
अप्रमेयाक्षयतायां चेति चकारो ऽनुक्तसमुच्चयार्थः / तेन संक्लिष्टासंक्लिष्टज्ञानं लीनप्रगृहीतज्ञानं साश्रवानाश्रवज्ञानं च परिगृह्यते / तत्राद्यं पुनरपरगद्यद्वयेनाह / असंक्लेशसंक्लिष्टानीति संक्लिष्टिः संक्लेशः क्लेशोपक्लेशैर्मलिनीकरणम् / न संक्लेशो ऽसंक्लेशः / तेन संक्लिष्टानि / यतो ऽसंकेतानि / कित् निवासे / चित्तधर्मता(त)या न सम्यक्स्थानं तेषामागन्तुकत्वात् / प्रकृतीत्यादि / चित्तधर्मता हि प्रकृत्यैव प्रभास्वरा निर्मला नित्यमसंक्लिष्टेति संक्लिष्टासंक्लिष्टचित्तज्ञानं षष्ठम् //
द्वितीयं पुनरपरगद्यद्वयेनाह / अनालयलीनानीति / अनालयो ऽलयनम् / अलयनेनैव लीनानि / चित्तं हि लीनं न चित्तप्रकृतिः / न हि चित्तप्रकृतिर्न मह्यं न मेति वा / अग्राह्याणि तानि चित्तानि न प्रग्रहीतव्यानीति / अग्रहणं प्रग्रहः / प्रशब्दस्य प्रतिषेधार्थत्वात् / प्रस्थानवत् प्रवासवच्चेति भावः / इति लीनप्रगृहीतचित्तज्ञानं सप्तमम् //
पुनरपरगद्यद्वयेन तृतीयमाह / अस्वभावानीत्यादि / आत्मन्येव भावः स्वभावः / तदभावादस्वभावानि / विसरत्येभिश्चित्तमित्यास्रवा असंकल्पाः / तद्योगात्सास्रवाणि / कुतः? यतो ऽसत्संकल्पानि / असतां कामरूपारूप्यभवानां कल्पनात् / अभावगतिकानीत्यादि / अभावः शून्यता / सा गतिरेषामिति तथोक्तानि / तस्माद् अनाभोगानि कामरूपारूप्यभवेषु विसरणात् / ततो ऽनास्रवाणीत्यर्थः / इति सास्रवानास्रवचित्तज्ञानमष्टमम् //
ऽसरागादौऽ इति / सरागवीतरागज्ञानं सदोषवीतदोषज्ञानं समोहवीतमोहज्ञानं च / तत्रादौ पुनरपरगद्यद्वयेनाह / या चित्तस्य सरागतेत्यादि / चित्तस्य सरागता न चित्तप्रकृतेः / तस्माद्विनैव रागं सरागाणीत्यर्थः / यश्चित्तस्य विगम इत्यादि / विगमः शून्यता / न सा सरागतेति सैव वीतरागतेत्यर्थः / इति सरागवीतरागचित्तज्ञानं नवमम् //
पुनरपरगद्यद्वयेन द्वितीयम् / तत्सुबोधम् / इति सदोषवीतदोषचित्तज्ञानं दशमम् //
ततः पुनरपरगद्यद्वयेन तॄतीयम् / इति समोहवीतमोहचित्तज्ञानमेकादशम् //
"प्रविस्तृते महद्गते ऽप्रमाणे च" इति शास्त्रम् / प्रविस्तृतं विपुलमनन्तं कामधात्वालम्बनं ब्रह्मविहारादि / महद्गतं रूपधात्वालम्बनम् / कामाद्रूपस्य प्रकृष्टत्वादारूप्यधात्वालम्बनम् / त्रिधात्वालम्बनमनालम्बनं चाप्रमाणम् / अतस्त्रीणि ज्ञानानि महत्योः / विपुलचित्तज्ञानं महद्गतचित्तज्ञानमप्रमाणचित्तज्ञानं च / इमां तु भगवतीं प्रति ऽअप्रमाणे चऽ इति चकारो ऽनुक्तसमुच्चयार्थश्चाद्ययोरभिसम्बध्यते / विपुले ऽविपुले च / महद्गते ऽमहद्गते च / अप्रमाणे चेति / तस्मादस्यां त्रीणी ज्ञानानि / अविपुलविपुलज्ञानम्, अमहद्गतमहद्गतज्ञानम्, अप्रमाणज्ञानं चेति / तत्राद्यं पुनरपरगद्यद्वयेनाह / असमुत्थानेत्यादि समुत्थानं विस्तारः / तद्योगप्रतिषेधाद् असमुत्थानयोगानि / अतिप्रसारप्रतिषेधाद् असमुत्थानपर्यापन्नानि धर्मतया / तस्माद् अविपुलानि / न हीयन्त इत्यादि / न हीयन्ते नापचीयन्ते तस्मान्नाविपुलानि / न विवर्धन्ते तस्मान्न विपुलानि न विगच्छन्तीति न विशेषं गच्छन्ति / तस्मान्न विपुलानि नाविपुलानि / अविगमत्वादेवेति निर्विकारत्वादेव चित्तानामिति चित्तधर्मतायाः इति विपुलाविपुलचित्तज्ञानं द्वादशः //
पुनरपरगद्यद्वयेन द्वितीयमाह / अनागतिकानीत्यादि / दूरादन्तिके गतिरागतिः / अन्तिकाद्दूरगतिर्गतिः / परितो गतिः पर्यापन्न
[लोकसन्दर्शनपरिवर्तो नाम द्वादशः //]
[acintyaparivarto nāma trayodaśaḥ //] this chapter is missing in original text
[aupamyaparivarto nāma caturdaśaḥ //] this chapter is missing in original text
15. देवपरिवर्तो नाम पञ्चदशः
...........त्याह / यान्येनमित्यादि / कानि पुनरस्य कल्याणमित्राणीत्यत आह तान्येवेत्यादि / तान्यस्मै कथमर्थमुपदेक्ष्यन्तीत्यत आह एवं चेत्यादि / एवमनेनाकारेण / एहि त्वमित्यादिना कार्षीरित्येतदन्तेन / योगमिति प्रयोगमभियोगं वा / मा परामृक्ष इति तभ्दावेन मा ग्रहीः / अपरामृष्टेति सर्वधर्मैरविकल्पिता / परिजयो ऽभ्यासः / एवं हीत्यादिना उपसंहारः / सम्यक्सम्बोधी सम्यक्परिणामनमनास्वादः / इत्यनास्वादनाविशेषेण मार्गे चतुर्थः क्षणः //
उक्तो विशेषः षोडशविधः / कारित्रं दशविधं वक्तव्यम् / तत्र शास्त्रम्-
[86] हितं सुखं च त्राणं च शरणं लयनं नृणाम् / परायणं च द्वोपं च परिणायकसंज्ञकम् // 4-27 //
[87] अनाभोगं त्रिभिर्यानैः फलासाक्षात्क्रियात्मकम् / पश्चिमं गतिकारित्रमिदं कारित्रलक्षणम् // 4-28 //
एतदाह सुभूतिरित्यादिना / तच्च दुष्करेत्यादिना सुभूतिः प्रस्तौति / एवमेतदित्यादिना भगवानाचष्टे / ये लोकहिताय सम्प्रस्थिता इति बोधिमभिसम्बुध्य पञ्चभ्यो गतिभ्यः सत्त्वान् परिमोच्य तेषामभये निर्वाणे प्रतिष्ठापनादिति हितकारित्रम् //
लोकसुखाय लोकानुकम्पायै सम्प्रस्थिता इति बोधिमभिसम्बुध्य सत्त्वान् दुःखदौर्मनस्योपायासेभ्यः परिमोच्य तेषां सुखे निर्वाणे प्रतिष्ठापनमिति सुखकारित्रम् //
लोकस्य त्राणं भविष्याम इत्यादिना त्राणादिकारित्राणामुद्देशः / इत्येवंरूपं वीर्यमारभन्त इति सम्बन्धः / यथोद्देशमष्टाभिः कथञ्चवाक्यैर्निर्देशः / तत इति तेभ्यो दुःखेभ्यः / एनमिति लोकम् / व्यायच्छन्त इति संरक्षन्ति / वीर्यमिति प्रयोगम् / त्राणं भवन्ति त्राणकरणादिति त्राणकारित्रम् //
इत्यादिरेव........... ..........(rst_100) [अविद्या]ण्डजमस्मिन्निति कृत्वा / स एव पटलं दृष्टिरोधकत्वात् / अविद्यैवाण्डकोशपटलं तेन पर्यवनद्धा अवगुण्ठिताः / तमो मोहः / तेनाभिभूता अन्धीकृताः / अवभासयन्तः आलोकं कुर्वन्तः / विधुन्वन्ति अपनयन्ति / एवमालोककरणादालोका भवन्तीत्यालोककारित्रम् //
अनुत्पादश्चानिरोधश्चेति समाहारद्वन्द्वः / प्रकृतिः सर्वधर्माणां धर्मता / तया तेषामनुत्पादानिरोधाय धर्मदेशनात् परिणायकाः परितो नेतारः परमार्थबोधका इति परिणायककारित्रम् //
अनाभोगं त्रिभिर्यानैः फलसाक्षात्क्रियात्मकम् / पश्चिमं गतिकारित्रं [इदं कारित्रलक्षणम्] //
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
