Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Chưa xếp loại
सारतम
- Tác giả
- रत्नाकरशान्ति
- Thông tin
- GRETIL — Padmanabha S. Jaini: Sāratamā. A Pañjikā on the Aṣṭasāhasrikā Prajñāpāramitā Sūtra by Ratnākaraśānti. Patna : Kashi Prasad Jayaswal Research Institute, 1979. (Tibetan Sanskrit Works Series, 18).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
ऽपरिणामनंऽ ऽदानादीनां च सम्बोधौऽ इति षोडश क्षण / तमाह / न च क्रोधाभिभूत इत्या[र]भ्य स्वाध्यास्यतीत्येतदन्तेन / परिदमयति क्रोधासंशमनात् / परिणामयति उन्नतिलक्षणस्य मानस्य क्षयनयनात् / उपनाहो वैरम् / व्यापादः सत्त्वविद्वेषः / अनुशयो वैरानुबन्धः / स्मृतिर्मैत्री चेति / तयोः स्मृतिमाह / तस्यैवमित्यादिना / तेनेति व्यापादेन / परिभेदो विकारः / धक्ष्यत इति दहेः प्रयोगः / एतेन सपरिवायोर्द्वेषमानयोः प्रहाणमुक्तम् / द्वेषेण हि परेषामनुग्रहं न कुर्वीत / तस्मात्तावुभौ प्रहाय दानादीनामात्मनः कुशलानामनुत्तरायां सम्यक्संबोधौ त्रिभिर्यानैः सर्वसत्त्वपरिनिर्वापणाय परिणामेन परं दर्शनं षोडश क्षण इत्युक्तं भवति / इत्युक्तो बोधिसत्त्वानां दर्शनमार्गः //
लोकोत्तर एव दर्श[न]मार्गो भावनामार्गस्तु द्विधा लौकिको लोकोत्तरश्च / तावुभौ यथाक्रमं पश्चाद्वक्तव्यौ / आदित एव लोकोत्तरस्य भावनामार्गस्य कारित्रं ग्रन्थलाभवादभिधेयम् / तत्र शास्त्रम्-
[47] सर्वतो दमनं नामः सर्वतः क्लेशनिर्णयः / उपक्रमाविषह्यत्वं बोधिराधारपूयता // 2-17 //
नमनं ऽनामःऽ सर्वत इति वर्तते / ऽसर्वतःऽ इति परिशुब्दार्थः / परिदमनं परिणमनं चेत्यर्थः / ते उभे यथाक्रमं द्वेषमानयोः परिक्षयात् / ते द्वे / एवमुक्ते शक्र इत्यादिना महासत्त्वानामित्येतदन्तेनाह / एषु षट्सु कारित्रेषु प्रज्ञापारमिताशब्देन बोधिसत्त्वानां भावनामार्ग उच्यते / यथेयमित्यर्थः / इति परिदमनपरिणामनकारित्रे /
ऽसर्वतः क्लेशनिर्जयःऽ इति / स्वपरक्लेशानामत्यन्तजयात् / तमाह भगवानित्यादिना नैतत् स्थानं विद्यत इत्येतदन्तेन / जीवितान्तरायो वेति / तत्रैव शस्त्रसम्पाते परोपक्रमेण वेति / मृगयादिमध्यगतोपि परस्यैष उपक्रमः / परेषां तेन / स्वपरक्लेशार्जनया भगवत्या तेन निर्जितास्तस्यैष निष्यन्द इति भावः / इति क्लेशनिर्जयाकारित्रम् //
जीवितान्तरायाय कृताः परैरुपक्रमास्तस्मिन्न प्रभवन्तीति ऽउपक्रमाविषह्यत्वम्" / तदाह / सचेदित्यादिना नोभयव्याबाधाय चेतयत इत्येतदन्तेन / तत्रेति शरीरे / तत्कस्य हेतोरिति तदपतनं कुतः? उत्तरं महाविद्येत्यादिना / सर्वकालं सर्वत्र देशे सर्वविपक्षेषु वाप्रतिहतप्रभावत्वाद्यथाक्रमं महती / अप्रमाणा अपरिमाणा च / ततो ऽधिकाभावाद् अनुत्तरा / समाभावाद् असमा / समेन समः समसमः / किञ्चिदूनजाती[य]त्वात् समसमा / तस्या अप्यभावाद् असमसमा / आत्मनो आबाधः / उपघातः / एवं परेषामुभयस्य च तदर्थ न चेतयते / न चित्तं व्यापारयति / तस्मात्परोपक्रमैरविषह्यत्वमस्याः कर्मेति / उपक्रमाविषह्यत्वकारित्रम् //
ऽबोधिःऽ इति / अनुत्तरा सम्यक्संबोधिः / पञ्चमं कारित्रम् / तदाह / अचैतन्येषु सर्वज्ञज्ञानेन / व्यवलोकयिष्यतीति / विनयनाद्यर्थम् / तत्कस्य हेतोरिति तत् सर्वज्ञज्ञानं कुतः? न तक्तिञ्चिदस्ति यन्न प्राप्तमिति / सर्वे हि बुद्धधर्माः प्राप्तव्याः / ते च प्रत्यात्मवेद्याः / ततो यद्यनेन प्राप्ता न स्युर्नायं सर्वविभ्दवेत् / तस्मान्न तत्किञ्चिदस्ति यदस्य न प्राप्तं स्यात् / ततः प्राप्यमितरच्च सर्वं जानातीति न तत्किञ्चिदस्ति यदस्य न ज्ञातं स्यात् / प्रकर्षगतं च साक्षात्कारिज्ञानमिह गृह्यते / तत आह / न (rst_37) किञ्चिदस्ति यदसाक्षात्कृतं स्यात्? इति वाशब्दाः परस्परापेक्षया विकल्पार्थाः / तस्मादसौ सर्वज्ञः / तस्य ज्ञानं सर्वज्ञज्ञानम् / सैव सम्यक्सम्बोधिः / तथा हि सम्यग्ज्ञानं सम्बोधिः / सम्यगिति साक्षात् / सैव बोधिविवक्षातः सर्वोत्कर्षगतः सम्यक्सम्बोधिः सर्वज्ञानं चेति / व्यवहारतो भेदो न वस्तुतः / अभिसंभोत्स्यत इति प्रतिलप्स्यते / इति सम्बोधिकारित्रम् //
ऽआधारपूज्यताऽ इति / द्विविध आधारः / एक पुस्तकगतायाः तस्या अपर उद्गृह्यमानाया यावदुद्दिश्यमानायाः तस्य पूज्यता तद्वदेव द्विविधा / तत्र गतानां सत्त्वानां परैरविहेठनीयता / ते द्वे यथाक्रमं पुनरपरबाह्यद्वयेन परिगृण्हातीत्येतदन्तेनाह / अन्तश इति परमापचये / न सत्करिष्यत इति स्थापनादूर्ध्वम् / अवतारो रन्ध्रमवकाशः / स्थापयित्वेति बहिष्कृत्य / पूर्वजन्मनो ऽपरपर्यायवेदनीयं नियतविपाकमकुशलं पूर्वकर्म / तस्य विपाको ऽनिष्टफलम् / इममिति यथोक्तम् / तद्यथेत्यादिना दृष्टान्तः / एवमेवेत्यादिना दार्ष्टान्तिकः / बोधिमण्डगत इति / मण्डः सारः / बोध्यर्थे मण्डो बोधिमण्डः / तस्मिन्निषध बोधेरधिगमात् / कस्य सारः? काञ्चनमय्याः पृथिव्याः / तथाहि विवर्ति(र्त) स्यादौ / काञ्चनमय्यां पृथिव्यामभिनिर्वृत्तायां चतुरत्नमये मेरौ सप्तसु काञ्चनपर्वतेषु सप्तसु सितासु बाह्यमहोदधौ, अयमेव चक्रवाते(व्ठे) अभिनिर्वृत्ते, काञ्चनमय्याः पृथिव्याः सारो वज्रमयः समभ्युद्गतः / यो मृन्म (ण्म)येषु चतुर्षु द्वीपेष्वष्टासु चान्तरद्वीपेष्वभिनिर्वृत्तेषु जम्बूद्वीपस्य नाभिः संवृत्तः स च वज्रमयत्वाद्वोधासनत्वाच्च वज्रासनमित्युच्यते / स बोधिमण्डः / तं गताः प्राप्ताः / समन्ते भवः सामन्तः / वेष्टनपरिसामन्तः परिवेष्टः / अभ्यन्तरं मध्यम् / बोधाय वृक्षो बोधिवृक्षः / तन्मूले निषध बोधेरधिगमात् / तस्य मूलं मूलाभिनिवेशपरिच्छिन्नः प्रदेशः / तद्गतः / वाशब्दाः परस्परापेक्षया विकल्पार्थाः / विहेठयितुमिति विहिंसितुम् / व्यापादयितुमिति निहंतुम् / आवेशयितुमिति भूतपिशाचादिप्रवेशनात् / भयादिप्रतिपक्षत्वात् /
अभयमवैरमनुत्त्रासं महामैत्रीनामेकमप्रमाणम् / प्रभावयन्तीति निष्पादयन्ति प्रकाशयन्तीति ससैन्यस्य मारस्य विघ्नतोपि क्रमणात् / चैत्यभूत इति / चायृ पूजायाम् / चाय्यते देवता अस्मिन्निति चैत्यम् / कृत्यल्युटो बहुलमित्यधिकरणे ण्यत् / आय एद्भावश्च स्तूप इत्यर्थः / तद्भूतस्तत्तादृशः / निर्माल्यादेरकर्षार्हत्वात् / अपचायनीयः / यतश्चैत्यभूतस्तमन्ये न हिंसन्ति / यतः शरणादिस्ततस्तत्रगता अवध्या भवन्ति / तत्र सन्निहितं त्रायत इति त्राणम् / अभ्युपगच्छतो भयं शृणातीति शरणम् / अभया लीयन्ते अस्मिन्निति लयनम् / परमयनं परायणं परा गतिः / इति षष्ठमाधारपूज्यताकारित्रम //
लौकिको भावनामार्गः / आदौ वक्तव्य आद्यत्वात् / स च त्रिविधः / अधिमुक्तिमनस्कारः परिणामनामनस्कारो ऽनुमोदनामनस्कारश्च / तत्राधिमुक्तिमनस्कारमधिकृत्य शास्त्रम्-
[48] अधिमुक्तिस्त्रिधा ज्ञेया स्वार्था च स्वपरार्थिका / परार्थिकैवेति
स्वस्यैव स्वपरयोः परस्यैव चार्थः प्रधानमाशयतो यस्यां सा यथाक्रमं ऽस्वार्थाऽ ऽस्वपरार्थाऽ परार्थैवऽ च / ततः शास्त्रम्- एषा च प्रत्येकं त्रिविधेष्यते // 2-28 // [49] मृद्वी मध्याधिमात्रा च
ऽएषाऽ इति स्वार्थादिः / ऽत्रिविधाऽ मृद्वयादिभेदेन / ततः शास्त्रम्-
मृदुमध्यादि भेदतः / सा पुनस्त्रिविधा
मृद्वयादीनां प्रत्येकं मृद्वयादिभेदात् / तद्यथा स्वार्थादिमृदुमृद्वी मृदुमध्यामृद्वधिमात्रा / मध्यमृद्वी मध्यमध्या मध्याधिमात्रा / अधिमात्रमृद्वी अधिमात्रमध्या अधिमात्राधिमात्रा च / एवं स्वपरार्था / एवं परार्था च / तत शास्त्रम्- इत्येवं सप्तविंशतिधा मता // 2-29 // ऽइत्येवंऽ त्रीणि वाराणि त्रिभिर्भेदात् ऽसप्तविंशतिधाऽ इष्यते /
अधिमुक्तिः श्रद्धाछन्दौ संप्रत्ययाभिलाषलक्षणौ क्वाधिमुक्ति? सूत्रसूत्रार्थरूपायां भगवत्यां तच्चर्यायां च लेखनादिकायां तत्पूजायां च पुष्पादिभिर्बहुविधात्ताभिः / चर्यापूजोभ्दवे च पुण्ये यथा सूत्रम् / तत्र प्रथमा / एवमुक्ते शक्र इत्यादिना यः प्रज्ञापारमितायै पूजां करिष्यतीत्येतदन्तेन / लिखित्वेति स्वयम् / पुस्तकगतां वा कृत्वेति परेण / दिव्याभिरिति विशिष्टाभिः / जवान्क(?)पुष्पादिवर्जनात् / पुष्पाणि मुक्तकुसुमानि / माल्यानि स्रजः / गन्धा गन्धदारूणि / विलेपनानि स (त)माल भवानि / चूर्णा अगरुचन्दनादीनाम् / चीवराणि वस्त्राणि / पूजाभिरिति निवेद्यादिभिः / बहुविधाभिरिति भक्ष्यलेह्यादिभेदात् / पुष्पादिभिः सत्कुर्यादिति सम्बन्धः / पूजयेदित्यर्थः / गुरुकुर्यादिति गौरवेण / मानयेदिति (rst_39) प्रेम्ना(म्णा) / पूजयेदिति प्रणामाञ्जलिस्तुत्यादिभिः / अर्चयेदिति दक्षिणावर्तैः / अपचायेदिति निर्माल्याद्यपनयनैः / शरीराणीति धातून / स्तूपेष्विति चेत्येषु प्रतिष्ठापयेदवस्थापयेत् / परिगृण्हीयात् करण्डादीन् कृत्वा / धारयेद्वा करण्डादिवहनात् / तांश्चेति स्तूपकरण्डादीन् / योयं सर्वज्ञतात्मभाव इति सर्वज्ञतैवात्मभावः / स निर्वर्तितः / कतमस्यां प्रतिपदि शिक्षमाणेन यावत्सम्यक्सम्बुद्धेन / का पुनः सर्वज्ञतेत्याह / अनुत्तरासम्यक्सम्बोधिः सर्वज्ञतेति / अभिनिर्वर्तितार्थः / क इत्याह / अस्याप्यर्थमाह / प्रतिलब्धेति / इहैवेति अस्यामेव / आत्मभावश्चासौ आत्मप्रज्ञप्तेः शरीरं च रूपकायस्तथागतो गच्छति / किं गच्छति तथागत इति / संख्यां गणनाम् / प्रज्ञापारमिता च उपायकौशल्यं च ताभ्यां निर्जातः सन् / प्रभावनान्ताश्चत्वारो निर्देशाः / लोके प्रतीतिः प्रभावना / अयमेवैति भगवतीपूजकः / तत्र इति तथागतशरीरपूजकात् / शेषं सुबोधम् / इति स्वार्थाधिमुक्तिः मृदुमृद्वी //
एवमुक्ते शक्र इत्यादिना हीनप्रज्ञैरित्येतदन्तेन द्वीतिया / लिखिष्यन्ति यावत्पर्यवाप्स्यन्तीति स्वार्थः / तत ऊर्ध्व परार्थः / तत्र प्रवर्तयिष्यन्तीत्युद्देशः / त्रिभिर्निर्देशः / देशयिष्यन्तीत्यर्थतः / उपदेक्ष्यन्तीतित्यवदिष्यन्ति / उद्देक्ष्यन्तीति ग्रन्थतः / स्वाध्यास्यन्तीति स्वाध्यान(य)म(मि)त्यभ्यासः / महार्थिका महाफला / सा कृता सती एवं भविष्यतीति महाफलैव भविष्यतीति / न ज्ञास्यन्तीति न श्रोष्यन्ति शब्दतः / न वेत्स्यन्तीति पुस्तकं न लप्स्यन्ते / न वेदयिष्यन्तीति / वेदनं वेदः अर्थज्ञानम् / तत्करोतीतिणिच् / अर्थं न ज्ञास्यन्तीत्यर्थः / उतेति प्रकारान्तरम् / अवेत्येति लोकोत्तरेण ज्ञानेन सत्यान् ज्ञात्वा / प्रसादः चित्तगतो धर्मः / येन चित्तमत्यन्तमकलुषीक्रियते / उदकमिव दकप्रसादेन मणिना / श्रोतस आपत्तिः सैव फलम् / सकृदागामिनो ऽनागामिनश्च फलम् / अर्हतो भावो ऽर्हत्वं चतुर्थफलम् / आत्मानमेकं प्रति बोधिः प्रत्येकबोधिः / उपवृंहयित्वेति ल्यप् कस्मान्न भवति? उपबृहंनमुपबृंहः तं कृत्वेत्येके / तथापि प्राप्नोति / चुरादौ संग्रामयतिपाठस्य नियमार्थत्वात्ऽ संग्रामयतेरेव सोपसर्गात् नान्यस्मादिति / तस्मात् प्रादिप्रतिरूपको यन्न प्रादिः प्रदत्तादिवत् / अविनिवर्तनाय हिता अविनिवर्तनीया / दुरभिसम्भेवेति दुर्लभा / वीर्यं कुशले कर्मण्युत्साहः / कुत्सितकर्मणि सक्तः कुसीदः / सीदतेः सप्रत्ययो ऽरविन्दवत् / सत्त्वं धैर्यः / चित्तं समाधिः / संज्ञा स्मृतिः / अधिमुक्तिः श्रद्धा / तत्त्वप्रविचयः प्रज्ञा / श्रद्धादिन्द्रियाणां दौर्बल्यं हीनवीर्यादिपदैरुच्यते / तत्र हीनवीर्यः कुसीदैरिति विर्येन्द्रियस्य हीनसत्त्वैः / हीनचित्तैरिति समाधीन्द्रियस्य / हीनसंज्ञैरिति स्मृतीन्द्रियस्य / हीनाधिमुक्तिकैरिति (rst_40) श्रद्धेन्द्रियस्य / हीनप्रज्ञैरिति प्रज्ञेन्द्रियस्य / भगवत्या दुरभिसम्भवत्वज्ञानं सोपत्तिकं चर्यातिरेकः / पुण्यातिरेक ऊह्यः / शेषं पूर्ववत् / इति स्वार्थाधिमुक्तिर्मृदुमध्या //
तस्मात्तर्हीत्यादिना प्रतिसर्तव्यान्तेन तृतीया / अभीक्ष्णं श्रवणादि परिप्रश्नश्च संशयच्द्देदार्थः / प्रतिसर्तव्यतायाश्च सोपत्तिकं ज्ञानमन्ते चर्यातिरेक ऊह्यः / शेषं पूर्ववत् / इति स्वार्थाधिमुक्तिर्मृद्वधिमात्रा //
तस्मात्तर्हीत्यादिना द्वितीयप्रसवतिपर्यन्तेन चतुर्थी / सप्तरत्नानि तद्यथा सुवर्ण रूप्यं वैडूर्य मुसारगल्वं / अश्मगर्भः लोहितिका मुक्ता कर्केतनं च / तन्निदानमिति तद्धेतुकम् भगवत्यां श्रद्धधिमोक्षप्रसादाः / चित्तोत्पादो ऽध्याशयतः / श्रवणादिकं अर्थविवरणं मनसा अन्ववेक्षा परिमीमांसा च / पुस्तकगतां वा कृत्वा सद्धर्मचिरस्थिति हेतोर्नेत्र्य वैकल्याय च / अवस्थापनं चर्यातिरेकः पुण्यातिरेकः / यथापाठं शेष पुर्ववत् / इति स्वार्थधिमक्तिर्मध्यमृद्वी //
तिष्ठन्तु खल्वित्यादिना द्वितीय प्रसवतिपर्यन्तेन पञ्चमी / एष एव द्वितीयो मूरजफलेन महता जम्बुवृक्षेण लक्षितत्वात् जम्बूद्वीपः / ततो निदानमुत्पत्तिरस्येति तथोक्तम् / शेषं सुबोधम् / इतः प्रभृति यत्रानुशंसः पठ्यते न चर्यातिरेकस्तत्र यद्यथोक्तानुशंस श्रद्धादिकं स चर्यातिरेकः / इति स्वार्थाधिमुक्तिर्मध्यमध्या //
तिष्ठन्त्वित्यादिना द्वितीयप्रसवत्यन्तेन षष्ठी / चत्वारो महाद्वीपा आस्मिन्निति चातुर्महाद्वीपः / स्वार्थे अण / लोकधारणात् लोकधातौ / शेषं तथैव / इति स्वार्थाधिमुक्तिर्मध्याधिमात्रा //
तिष्ठन्त्वित्यादि द्वितीयप्रसवतिपर्यन्ता सप्तमी / चतुर्द्वीपकानां सहस्रं परिमाणमस्येति साहस्रः / स एव परिपुर्णत्वेन चूडायोगात् चूडिकः / इति स्वार्थाधिमुक्तिरधिमात्रमृद्वी //
तथोभयान्ता अष्टमी / द्वीःसाहस्रं परिमाणमस्येति द्विसाहस्रः साहस्रसहस्रमित्यर्थः / स च मध्यमः साहस्रमहासाहस्रयोर्मध्यत्वात् / इति स्वार्थधिमुक्तिरधिमात्रमध्या //
तथैवान्तौ नवम्याम् / त्रिःसहस्रं परिमाणमस्येति त्रिसाहस्रम् / (rst_41) द्वि(त्रि)साहस्राणां सहस्रमित्यर्थः / स एव महासाहस्रः / इति स्वार्थाधिमुक्तिरधिमात्राधिमात्रा //
तिष्ठन्त्वादिर्भवतिपर्यन्ता दशमी / त्रिसाहस्र एव लोकधातुः / किन्तु तस्मिन् सर्वसत्त्वा मनुष्या भवेयुः / न पूर्वं न चरममस्मिन्नित्यपूर्वाचरमम् सहेत्यर्थः / अतो ज्ञायत इह सत्त्वा एव सत्त्वाः पूर्वत्र मनुष्या एवेति / परिकल्पः कल्पना / यावज्जीवं चैत्यपूजा सर्वासु / इह तु कल्पं वा कल्पावशेषं वा / अस्यां च सर्वगीतवाद्यैः सर्वपुष्पादिभिश्चैत्यपूजातिरेकः / भगवतीपूजापुण्यातिरेकोपपत्तिज्ञानमन्ते / सो ऽस्यां चर्यापूजातिरेक / इति परार्थधिमुक्तिर्मृदुमृद्वी //
तिष्ठन्त्वित्यादिना प्रज्ञापारमिता महासमुद्रादित्येतदन्तेनैकादशी / गङ्गानदीवालिकोपमेषु त्रिसाहस्रेष्विति स्तुपसत्कारे विशेषः / शेषं दशमीवत् / भगवतीचर्यापूजासु सोपपत्तिकमनुशंसविस्तर परिज्ञानमतिरेकः / इदृशत्वेन चित्तातिक्रमाद् अचिन्त्या सदृशाभावाद् अतुल्यम् / पुण्याभिसंस्कारः पुण्यकर्म / शततमीमपीत्यादि / आदावन्ते च कलां नोपैतीति वचनं मध्येपि सम्बन्धार्थम् / अत्र च भागः कला / नोपैतीति नार्घति / न लभत इत्यर्थः / न केवलं कलां नोपैति तुलनार्थम् / किं तर्हि संख्यामपि कलामपि गणनामपि / अपिशब्दैः परस्परापेक्षया समुच्चयः / उक्तं यथा कलां नोपैति / कथं संख्या? संख्याभिरेकै [र] प्यतुलनात् / पूर्वकस्य पुण्यस्य शतमपि सहस्रमपि यावत्कोटीशतसहस्रमपि पश्चिमस्य पुण्यस्य तुलनाय न क्षमत इति / गणना गणितं प्रत्युत्पन्नादिः / तां कथं नोपैति? तदतिरेकेप्यतुलनात् / पूर्वकस्य पुण्यस्य पञ्चगुणापि विंशतिर्दशगुणमपि स (श)तं यावल्लक्षगुणापि कोटी पश्चिमस्य पुण्यस्य तुलनाय न क्षमत इति / उपमामप्यौपम्यपि उपनिशामपि न क्षम [त] इति परेण सम्बन्धः / उपमितिरूपमा / सैव औपम्यम् / ऽस्वार्थे प्यञ् / उपनिशानमुपनिशा / तत्राभिन्नमुपमानमुपमा संख्यातमुपमानमौपम्यम् / गणितमुपमानमुपनिशा / तदपि त्रयं तुलनाय न क्षमते / तद्यथा कलाप्रसृतोपमेनापि पूर्वकेण न शक्यमुत्तरं तुलयितुम् / दशप्रसृतोपमेनापीति / उपनिषदमपि न क्षमत इति / एवमत्यन्ततुलनाभावात् तुलनार्थया उपनिषत् समीपनिषदनं पार्श्वतो ऽवस्थितिः, तामपि नार्हतीत्यर्थः / मार्षेति आमन्त्रणम् / आर्येत्यर्थः /
समुदाचारा अभिप्रायाः / समन्वाहारः स्मरणम् / (rst_42) स्वाध्यायो मनो जापः / महाविद्यादिपद त्रयं व्याख्यातम / अतो ऽधिकाया विद्याया अभावान्निरुत्तरा / अतोधिकस्य धर्मस्याभावादनुत्तरा / तुल्यविद्यान्तराभावा दसमा / असमैस्तथागतैः समत्वादसमसमा / प्रभाव्यन्त इति प्रकाशन्ते / सप्तभिर्बोध्यङ्गैः सम्प्रयुक्तानि तं निश्रयत्वात् / तैः परिगृहीता अधिष्ठिताः / बुद्धानां ज्ञानं स्वयं भावात् स्वयम्भू / चित्तातिक्रमादचिन्त्यम् / पूर्वश्रुतेनेति पूर्वश्रुतोभ्दवेन / औषधीतार इति औषध्यश्च ताराश्च / अवभासयन्तीत्यवभासं कुर्वन्ति / धर्मो निर्वाणं सर्वधर्मोत्कृष्टत्वात् / स एव समः यानत्रयस्य धारणत्वात् / स एव स (श)मः क्लेशदुःखोपसमत्वात् / तस्मै चर्या / कुशलं सुचरितं तस्य चर्या / विषमो मृत्युहेतुः / तस्यापरिहारो विषमापरिहारः / अयमुद्देशः / शेषो निर्देशः / दण्ड उपवासनादिः / परिगृहीतत्वं प्रत्युपस्थितेति / तत्स्वभावेन तथाभावात् / व्याडाः चण्डमृगाः / सरीसृपाः सर्पाः कुटिलं गमनात् / तेषां कान्तारः / स्थापयित्वेत्यादि यत्पूर्वकर्मविपाकेन तं बहिष्कृत्य / समन्वाहारो मनसिकरणम् / प्रतिहतचित्ता इति सद्वेषचिताः / विचक्षुः विमनाः / बलकायो बलसमूहः / तस्य चत्वार्यङ्गानि गजवाजिपत्तिरथाः / व्यूहः सन्निपातः / बिम्बिसारो मगधाधिपः / प्रसेनजित् स्रावस्तीपतिः / शाक्याः शाक्यकुलजाः क्षत्रियाः / लिच्छवयो वैशालकाः / प्रत्यु[दा]वृत्तो निवृत्तः / विहायसान्तरीक्षगता इति आकाशेनाकाशङ्गताः / चिरस्येति चिरेण / उपावृत्तेति पुनरायाता / अवरकेणेति अल्पकेन / यथा प्रज्ञापारमिता तथाभावं तथात्वम् /
प्रज्ञापारमितैव महासमुद्रः / इति स्वपरार्थाधिमुक्तिः मृदुमध्या //
अथ खल्वित्यादिना द्वितीय परिणायिकान्तेन द्वादशी / षट्पारमितानायिकत्वादिज्ञानं सोपत्तिकश्चर्यातिरेकः पुण्यातिरेक उक्तः / शेषं पूर्ववत् / वर्णः स्तोत्रं गुणा वा / पूर्वङ्गमेति अग्रेश्वरी / नायिकेति संग्राहिका / परिणायिकेति संवर्धिका / प्रज्ञापारमिता हि स्वयेमेव परमत्वात् पारमिता / इतरास्तयैव सर्वज्ञतायां परिणामितत्वेन / शेषं सुबोधम् / इति स्वपरार्थधिमुक्तिर्मृद्वधिमात्रा /
अथ खल्वित्यादिना गुणान् वदामीत्येतदन्तेन त्रयोदशी / योप्येनां पुस्तकगतां सद्धर्मचिरस्थितिहेतोः स्थापयित्वा पूजयेत् / तस्यापि सर्व एते ऽनुशंसा इति ज्ञानमत्र चर्यधिक्यम् / इति स्वपरार्थाधिमुक्तिर्मध्यमृद्वी /
एवमुक्त इत्यादिर्द्वितीयपुनरपरात् प्राक् चतुर्दशी / र्यातिरेको यथाभूतम् / इति स्वपरार्थाधिमुक्तिर्मध्यमध्या /
पुनरपरमित्यादिना यत्र खलु पुनरित्यतः प्राक् पञ्चदशी / प्रत्यनुयोगः प्रश्नः / इति स्वपरार्थाधिमुक्तिर्मध्याधिमात्रा //
यत्र खल्वित्यादिना एवमुक्त इत्यतः प्राक् षोडशी / सर्वदेवोपसंक्रमणश्रद्धा तेभ्यश्च धर्मदानचर्यातिरेकः / इति स्वपरार्थाधिमुक्तिरधिमात्रमृद्वी //
एवमुक्त इत्यादिना दृष्टधार्मिकान् गुणान् परिगृण्हातीत्येतदन्तेन सप्तदशी / देवाद्यागमनार्चनज्ञानात् प्रहर्षो भगवतीप्रभावेन श्रद्धादिकं चर्यातिरेकः / संजानीत इति संलक्षयति / निष्ठेति निश्चयः / गन्तव्येति कर्तव्या / अमानुषं सत्त्वमिति मनुष्येषु भवो मानुषः / न तथा अमानुषः / अशुच्यभावात् चौक्षः / पुष्पादियोगात् शुचिः / अपक्रमणमपमरणम् / क्लमथः पीडा / उदारो महान् / प्रतिभोत्स्यत इति बुध्यतेः प्रयोगः / गृद्धिः अभिलाषः / संज्ञा स्मृति / इति स्वपरार्थाधिमुक्तिरधिमात्रमध्या //
पुनरपरमित्यादिना आपरिवर्तसमाप्तेरष्टादशी / चर्यातिरेको यथासूत्रम् / इति स्वपरार्थाधिमुक्तिरधिमात्राधिमात्रा //
अप्रमेयेत्यादि / अत्र स्तूपश्चैत्यम् / पारमिता प्रज्ञापारमिता / धारणं द्विविधम् / पुस्तकगतां कृत्वा यदस्याः सद्धर्मचिरस्थितये बहिःस्थापनम् / यच्चोद्ग्रहणधारणादिभिरध्यात्ममेव स्थापनम् //
अप्रमेयगुणधारणं यस्याः सा तथोक्ता / तथोक्ता च सा परामिता च सा च स्तूपश्चेति द्वन्द्वः / तयोः सत्कारः पुष्पादिभिः पूजा / तदभिधायी परिवर्तो ऽप्रमेयगुणधारणस्तूपसत्कारपरिवर्तः //
आर्याष्टसाहस्रिकायाः प्रज्ञापारमितायाः सारतमानाम्नि पञ्जिकायां रत्नाकरशान्तिविरचितायां तृतीयः परिवर्तः //
4. गुणपरिकीर्तनपरिवर्तो नाम चतुर्थः /
अधिमुक्तयो ऽधिकृताः / तत्र नव स्वार्था नवैव च स्वपरार्था उक्ताः / अस्मिंस्तु परिवर्ते नवैव परार्था वक्तव्याः / तत्रादौ तथागतशरीरेष्वित्येतदन्तेन ऊनविंशतितमी / प्रज्ञापारमितैव धर्मकायत्वादत्यन्तपूज्या / तथा रूपकायः सत्यकायत्वादित्येतस्मिन्नर्थे यौ श्रद्धाप्रसादौ सामर्थ्यगम्यश्च मात्रातिरेकः स इह चर्यातिरेकः / तथागतानां शरीराणि धातवः / करणे षष्ठी / तैः परिपूर्णः / किं व्याप्तिमात्रेण? नेत्याह / चूडिकाबद्ध इति / दीयेत इति उपन्यस्येत / एकतरेण प्रवार्यमाण इति / अनयोरेकं गृहाणेति निमन्त्र्यमानः / चित्रीकारो गौरवातिशयः / गुरुतरा हि भगवती तेभ्यः / एतद्धि शरीरमिति / या प्रज्ञापारमिता / भूतार्थस्तथ्यार्थः / तद्योगात् भूतार्थिकम् / सीदतीति सत् / अनित्यः / सच्चासौ कायश्चेति सत्कायो रूपकायः / धर्मकायपरिनिष्पत्तित इति / अत्रार्यमार्गो धर्मः / स च प्रकर्ष गतः प्रज्ञापारमितैव / नानित्यः प्रवाहनित्यत्वात् / भूतकोटिप्रभावित इति / भूतानि तत्त्वानि तेषां कोटिरग्रम् / ततो ऽधिकस्य तत्त्वस्याभावात् / तस्यामेव प्रभावितो व्यहृतस्तादात्म्यात् / कतमः काय इत्याह / यदुतेत्यादि / तथतामात्रपरमार्थं तद्दर्शनी प्रज्ञापारमिता न ततो भिद्यत इति भावः / तत्किं तथागतधातुष्वगौरवमेव? नेत्याह / न खल्वित्यादि सुबोधम् / इति परार्थाधिमुक्तिर्मृदुमृद्वी //
अपि त्वित्यादिना तिष्ठतु खल्वित्यतः प्राग्विंशतितमी / अपितुशब्दो विशेषार्थः / यद्यपि तेषु मे गौरवं तथापीत्यर्थः / पुनःशब्दस्तु पूर्वमपि विशेषयोक्तत्वात् / निर्जातानीति विशेषणत्वेपि हेतुत्वं गम्यते निर्जातत्वादित्यर्थः / तद्यथापीत्यादिना दृष्टान्तः देवसभाधिकरणत्वात् देवसभा महती शाला यस्यां शक्रस्त्रयस्त्रिंशेभ्यो धर्म देशयति / अत एव सा सुधर्मेत्युच्यते / [अ] स्य च सुदर्शनस्य देवनगरस्य दक्षिणपश्चिमदिग्भाग इति / ईषो (शो) महापुरुषः / तस्याख्या प्रतिभासो रूचिः / महती शाखा अस्येति महेशाख्यः / महान्मना इत्यर्थः / स चेह ज्ञानात्मा सम्यक्संबुद्धः / तस्य हेतुप्रत्ययभूतो हेतुस्वभावो प्रत्ययस्वभावो च / अत एवाह / तथागतस्येत्यादि / तत्र सर्वज्ञज्ञानं शक्रवत् / तथागतधातवो नास्य हेतुप्रत्ययभूताः / (rst_45) शक्रस्य तदासनवत् / पूर्वत्र कायस्याधारभूतो रूपकाय एवोक्तः / इह तु महेशाख्यस्य ज्ञानकायस्यासनस्थानीयः / इत्यस्मिन्नर्थे यौ श्रद्धाप्रसादौ स चर्यातिरेकः / इति परार्थाधिमुक्तिर्मृदुमध्या //
तिष्ठत्वित्यादिना तथागतशरीरेष्वित्येतदन्तेन एकविंशतितमी / इहोक्तभगवतीमाहात्म्ये यौ श्रद्धाप्रसादौ स एव चर्यातिरेकः / इति परार्थाधिमुक्तिर्मृद्ववधिमात्रा //
अपि त्वादि तथागतशरीरान्तात् द्वाविंशतितमी / तथागतो हि सर्वलोका (के) भ्युद्गतत्वात् पूज्यतरः पूज्यतमः स च सर्वज्ञज्ञानम् / ततो यदि धातवस्तदाधारत्वात् पूज्यास्तदा तज्जननी ततोपि पूज्यतमा का कथा धातूनामित्यस्मिन्नर्थे श्रद्धादिकं चर्यातिरेकः / इति परार्थाधिमुक्तिर्मध्यमृद्वी //
अपि त्वित्यादिना भाजनभूतान्यभूवन्नित्येतदन्तेन त्रयोविंशतितमी / प्रज्ञापारमितायाः सर्वज्ञज्ञानस्य च गुणा इहोक्तमणिरत्नानुसारेण वेदितव्याः / यथा चोद्धृतेपि तस्मिं मणिरत्नकरण्डकः स्पृहणीयो भवति / एवं बुद्धस्तन्मात्रो गुणैः परिनिर्वृतेपि भगवति धातवः पूज्या भवन्तीत्यस्मिन्नर्थे श्रद्धादिकं चर्यातिरेकः / इति परार्थाधिमुक्तिर्मध्यमध्या //
यथा च भगवा(व)नित्यादिना तथागतशरीरेष्वित्येतदन्तेन चतुर्विशतितमी / यथा प्रज्ञापारमितानिर्जातत्वाद्देशनाधर्मः परैरपि निर्देश्यमानः पूज्यो भवति / राजपुरुषश्च राजानुभावादकुतोभयः सर्वत्र पूज्यः / एवं प्रज्ञापारमितानिर्जातत्वात्तदनुभावाच्च धातवः पूज्या इत्यस्मिन्नर्थे पुण्यातिरेके च श्रद्धादिकं चर्यातिरेकः / इति परार्थाधिमुक्तिर्मध्याधिमात्रा //
अपि त्वित्यादिना पूजा कृता भवतीत्येतदन्तेन पञ्चविंशतितमी / भगवतीपूजया त्रैयध्विकतथागताः पूजिता भवन्तीत्यस्मिन्नर्थे श्रद्धादिकं चर्यातिरेकः / इति परार्थाधिमुक्तिरधिमात्रमृद्वी //
पुनरपरमित्यादिना द्वितीयं पश्यतिपर्यन्तेन षड्विंशतितमी / त्रैयध्विकतथागतानां धर्मतया दर्शयित्री भगवत्येवेत्यस्मिन्नर्थे श्रद्धादिकं चर्यातिरेकः / धर्मता धर्मकायः स च प्रज्ञापारमितैवेति भावः / अपरिसमाप्ते एव शक्रवाक्ये भगवानाह एवमेतदित्यादि / अहमप्यभिसंबुद्ध इति यावत् / आगम्येति प्राप्य हेतुंकृत्य / इयतापि भगवत्याः सम्यक्संबोधिकारणत्वमुक्तं न तु धर्मकायत्वम् / तदुपसूचनाय पुनः शक्र (rst_46) आह / महापारमितेत्यादि / सम्यक्प्रजानातीति निष्प्रपञ्चेन ज्ञानेन वेत्तीत्यर्थः / संपश्यतीति सर्वाकारं पश्यतीत्यर्थः / स्फुटीकर्त्तु भगवानाह / एवमेतदित्यादि / इति परार्थाधिमुक्तिरधिमात्रमध्या //
अथ खलु शक्र इत्यादिना आपरिवर्तसमाप्तेः सप्तविंशतितमी / सर्व महायानं पारमिताभिः संगृहीतम् / तासु भगवती प्रधानं पूर्वङ्गमत्वात् संग्राहकत्वाच्चेत्यस्मिन्नर्थे श्रद्धादिकं चर्यातिरेकः / उपायकौशल्येन परिगृहीतानामित्युद्देशः / प्रज्ञापारमितया सर्वाकारज्ञतायां परिणामितानामिति निर्देशः / तत्र प्रकृतिपारमितानां दृष्टान्ता नानापुष्पादिका वृक्षाः / एकरसा तु छाया तेषामुपायकौशल्यपरिगृहीतानां दृष्टान्तः / इति परार्थाधिमुक्तिरधिमात्राधिमात्रा //
प्रकृतत्वात्प्रज्ञापारमितायाः ये गुणास्तेषां परिकीर्तनः परिवर्तस्तथोक्तः /
आर्याष्टसाहस्त्रिकायाः प्रज्ञापारमितायाः सारतमानाम्नि पञ्जिकायां रत्नाकारशान्तिविरचितायां चतुर्थः परिवर्तः //
5. पुण्यपर्यायपरिवर्तो नाम पञ्चमः /
उक्तं ऽकारित्रमधिमुक्तिश्चऽ / ऽस्तुतिस्तोभितशंसिताःऽ वक्तव्याः ऽस्तुतंऽ सुतिः / ऽस्तोभितंऽ स्तोत्रः / सुब्धातोर्भावे क्तः / शंसनं शंसः / सो ऽस्यास्तीति शंसी / तभ्दावः ऽशंसिताऽ प्रशंसेत्यर्थः / अतः शास्त्रम्-
[50] स्तुतिः स्तोभः प्रशंसा च प्रज्ञापारमितां प्रति / अधिमोक्षस्य मात्राणां नवकैस्त्रिभिरिष्यते // 2-20 //
प्रज्ञापारमिताया यो ऽधिमोक्षः पूर्वमुक्तः स्वार्थोभयार्थपरार्थभेदेन त्रयोधिमुक्तिनवका इत्यर्थः / तस्य गुणोभ्दावनं ऽमात्राणांऽ प्रभेदानां ऽत्रिभिर्नवकैःऽ यथाक्रमम् / ऽस्तुतिः स्तोभः प्रशंसा चऽ ऽइष्यतऽ इत्येकवचनं स्तुत्यादिभिः प्रत्येकमभिसम्बन्धात् / तत्र गुणोभ्दावनस्य मृदुमध्याधिमात्रभेदाः (rst_47) स्तुतिस्तोभप्रशंसाः / तासामपि मृदुमृद्वादयो ऽधिमात्राधिमात्रपर्यन्ताः प्रभेदास्त्रयो नवका इत्यर्थः / तासां द्वौ हेतू बोधिसत्त्वस्य परार्थकरणशक्तिः परार्थप्रधानता च /
तत्रादौ पुनरपरमित्यतः प्राक् प्रथमा / अस्यां परार्थकरणशक्तिस्त्रिषु वस्तुष्वधिमोक्षो दृढतरः / कर्तव्योपदेशे भगवतीगुणे स्वयं च तस्याः कर्तव्यतयादौ शक्र आह / य इत्यादिना अधिमुञ्चेदित्येतदन्तेन / यो भगवन् कुलपुत्रो वा कुलदुहिता वाधिमुञ्चेदिति सम्बन्धः / किमधिमुञ्चेदित्याह / इमामित्यादि सर्वम् / इमां प्रज्ञापारमितामध्याशयतः शृणुयादुद्गृण्हीयात् / यावन्नेत्र्यवैकल्येनेति / कथमित्याह / बोधाय बोधये चित्तमुत्पाद्य / कीदृशः प्रसन्नचित्तो ऽस्यामेव / कथम्? अधिमुच्य / इमामविपरीतत्वेनात्यन्तमवधार्य / तच्च श्रद्धयेति दर्शयितुमाह / अभिश्रद्दधदवकल्पयन् / इमामेव / हेतौ शतृप्रत्ययः / अस्यामेव श्रद्धयेत्यर्थः / आसे(शे)रते कुशला धर्मा अस्मिन्नित्याशयः / जलाशयवत् / स पुनः श्रद्धाच्छन्दौ / अधिकः प्रकष्ट आशयो अध्याशयः / तेन शृणुयाद् ग्रन्थतो ऽर्थतश्च / उद्गृण्हीयाद् आवर्तयेत् / धारयेदिति हृदये स्थापयेत् / वाचयेत् पाठयेत् / पर्यवाप्नुयादिति सर्वथा अवगच्छेत / इयता स्वार्थो उक्तः /
प्रवर्तयेदिति परेषु सञ्चारयेत् / अयमुद्देशः / परो निर्देशः / देशयेद्ग्रन्थतो भाषणात् / उपदिशेद् अर्थतः / उद्दिशेदित्यववदेत् / इयतो परार्थः /
स्वाध्यायेदिति सुतरामभ्यसेत् / पुनः पुनः स्वार्थकरणात् / परेभ्यश्च सम्प्रकाशयेदिति सन्ततं प्रकाशयेद्ग्रन्थतः / विस्तरेणेति बहुभ्यः प्रकाशनात् / विवृणुयादिति विस्तरेणेति वर्तते / मनसान्ववेक्षेतेति चित्तेनानुबुध्य संयोज्य पश्येत् / स(श)मथोत्पादनात् / परिमीमांसामिति विचाराणां विपश्यनोत्पादनात् / इयता चर्योक्ता /
अस्या अभावे पक्षान्तरमाह / पुस्तकेत्यादिना / अत एव अन्तशःशब्दः / पुस्तकगतामिति / इमामेव धारयेदिति / अविनश्वरी कुर्यात् / स्थापयेदिति स्वगृहादौ / तिसृभिराशंसाभिः / सन्त आर्याः / तेषां धर्ममार्ग इति सद्धर्मः / तस्य चिरस्थितिः / तद्धेतोः तदर्थम् / इयं हि साधारणः / सद्धर्म इति प्रथमेयमाशंसा सर्वार्यानधिकृत्य / बुद्धाश्च लोकगुरवस्तेषां च कृतज्ञैरस्माभिर्भवितव्यम् / तेषामियं नेत्री बोधेः प्रापिका प्रज्ञा / तैस्त्रिकल्पासंख्येया परिश्रमेणोत्पाद्य सम्यगनागतजनतार्थाय स्ववंशे ऽवस्थापिता / (rst_48) यावदस्मानुपगता / ततो मा बुद्धनेत्री समुच्छेदोभूद् इत्यपीमां स्थापयेत् / इति द्वितीयेयमाशंसा बुद्धानधिकृत्य / बोधिसत्त्वानां चानुग्रहोपसंहारः करणीयः / स च कृतो भविष्यति / अनया स्थायितया नेत्र्यवैकल्येन / इत्यपीमां स्थापयेदिति तृतीयेयमाशंसा बोधिसत्त्वानधिकृत्य / इति शब्दः पूर्वत्रापि सम्बध्यते मा भूदिति / इयता द्विविधः कर्तव्योपदेश उक्तः /
इमं निर्देशमिति कर्तव्योपदेशम् / एवं महार्थिकेत्यादि / महान् अर्थकार्यमस्या इति महार्थिका / अयमुद्देशः / परो निर्देशः / महानुशंसा यथोक्तरैणु(नु)शंसः / महाफला स्त्रोतआपन्नत्वेन, सकृदागामित्वेन, अनागामित्वेन, अर्हत्त्वेन, प्रत्येकबोध्या, सम्यक्सम्बोध्या च / महाविपाका सर्वाभिश्चर्याविभूतिभिः / बहुमहागुणसमन्वागतेत्युपसंहारः / इयता भगवतीगुण उक्तः /
अपरित्यजनीया परिग्रहादनुत्सर्गाच्च / रक्षितव्या अग्निमूषिकादिभ्यः / गोपायितव्या चौरादिभ्यः / यस्मात् परमदुर्लभा / इयता स्वयं कर्तव्यमुक्तम् /
इतीति / एतद्वस्तुत्रयमधिमुञ्चेत् / एवमेवेत्यवधारयेत् / असत्यां च प्रवृत्तौ नाधिमोक्षो दृढः स्यात् / तत इयता परार्थकरणशक्तिरुक्ता / तस्यां सत्यां यः परार्थ स्वल्पमपि न करोति स्वल्पं वा करोति सो ऽल्पपुण्यः / इतरस्तस्मात् बहुतरपुण्यः / तस्यैता स्तुतिस्तोत्रप्रशंसाः / अतः स्वयमेव चेत्यादिना द्वितीयप्रसवतिपर्यन्तेन स्तुतिः प्रथमा //
स्वयमेव चेति चकारो य इत्यस्यानुकर्षणार्थः / न तु परां(रैः) पूजाः(जां) कारयतीत्येवकारार्थः / संपूज्येति सर्वपूजाः कृत्वा / अर्थनमर्थः / पूजायामिच्छा तद्योगादर्थिकाय / अतिशयेन तद्योगाच्छन्दिकाय / याचमानायेति पूजयितुं भगवतीं प्रार्थयमानाय / दद्यादित्यभ्युपगच्छेत् / उपनामयेत् सन्निपातयेत् / निर्यातयेत् ग्राहयेत् / परित्यजेद् अविप्रतिसारात् / अन्तशः इति यावदित्यर्थः / पुस्तकगतामपि कृत्वेति स्वयं लिखित्वा तेन वा लिखित्वा तन्मूल्येन वा स्वमूल्येन वा लेखयित्वा परित्यागो दानं तस्मै बुद्धिरिच्छा अस्येति तद्बुद्धिः / संप्रकाशयेदिति गुणतः स्वरूपतश्च / दद्यात् पूजनाय / संविभजेदिति स्फरतामधिकानां वा दानात् / विस्तारो वैपुल्यम् / तेन चरतीति वैस्तारिकी / प्रत्यात्ममित्यात्मनैव / शेषं सुबोधम् / इति मृदुमृद्वी स्तुतिः /
पुनरपरादिः प्राक् पुनरपरात् द्वितीया / तत् इति प्रथमस्तुतात् / इति मृदुमध्या स्तुतिः //
पुनरपरादि तिष्ठन्तुशब्दात् प्राक् तृतीया / समादापयेदिति सम्यक् ग्राहयेत् / प्रतिष्ठायेत् अनतिक्रमात् / अभिश्रद्दधदिति भगवतीगुणान् / अन्यथा न सम्यक् दाता स्यात् / अभिश्रद्दधत इति / अन्यथा न स दानपात्रं स्यात् / एवमुत्तरेष्वपि वेदितव्यम् / किलासिता कुसीदः / अकिलासिता वीर्यम् / तया सम्पादयेद् यथोक्तं कार्यम् / उद्युक्तो ऽभियुक्तः सन्नमुं बोधिसत्त्वं भगवतीं ग्राहयेत् / बोधिसाधनत्वेन प्रतिपादयेद्वाचा / तथैव सन्दर्शयेद् युक्तिभिः / ततः समादापयेद् वाचनार्चनादिषु प्रवृत्तेः / प्रवृत्तं समुत्तेजयेद् उत्साहयेत् / वीर्यकौसीद्ययोर्गुणदोषाख्यानात् / आरब्धवीर्य स्तुतिभिः संप्रहर्षयेत् / विपर्यस्तो लोकस्ततो नेदं शक्यमिति चेदाह / वाचेत्यादि / त्रिविधो लोकः श्राद्धो विमुख उदासीनश्च / तत्र श्राद्धं वाचैव नेष्यति / स हि संभावितस्य वाचैव गच्छति / विमुखं विनेश्यति / कुदृष्टीनां युक्तिभिर्बाधनात् उदासीनमनुनेष्यति / अनुरञ्जयिष्यति भगवत्या तद्गुणाख्यानात् / एवं पात्रीकृतो य अर्थमस्या अस्मै संप्रकाशयिष्यति / एवं चेति प्रकाशिते वार्थे ऽस्यचित्तं शोधयिष्यति / कुद्दष्टीनां बाधनात् / तथापि संशयिनं निर्विचिकित्सं करिष्यति युक्त्यन्तरैः / शिक्षस्वतिसृभिः शिक्षाभिः / अत्र हीत्यादिना त एवाह / शिक्षमाणः चिन्तया / चरण(न) समर्थेन (शमथेन) व्यायच्छमानो विपश्यमानया / सत्त्वधातुः सत्त्वराशिः / आत्यन्तिकत्वाद् अनुत्तरे / उपधयः स्कन्धाः सास्रवाः सास्रवानास्रवा वा / तेषां संक्षयः समस्तक्षयः / तन्निमित्तम् / अभिविनेश्यसि सर्वावरणक्षयात् / भूतकोटिप्रभावनता तन्मात्रशेषता / परित्यागबुद्ध्येति सर्वाकारया त्यागबुद्धया / तत इति द्वीतीयायां स्तुतात् दशकुशलप्रतिष्ठापकाच्च / इति मृद्धधिमात्रा स्तुतिः //
इत ऊर्ध्व पञ्चानां स्तुतीनां तिष्ठन्त्वादिः प्रतिष्ठापयेदन्तः पूर्वो भागः / तत ऊर्ध्व तत्किं मन्यस इत्यादि पुनपरात् प्राक् पश्चिमो भागः / आसु च सूत्रोक्ते पुण्यातिरेकैः श्रद्धादिकं सामर्थ्यगम्यश्च मात्रातिरेकश्चर्यातिरेकः / एतेन पर्यायेणेति प्रकारेण वस्तुत्रयाधिमोक्षे स्थित्वेत्यर्थः / इति यथाक्रमं मध्यमृद्धी मध्यमध्या मध्याधिमात्रा अधिमात्रमृद्वी अधिमात्रमध्या च स्तुतिः //
पुनरपरादि पुनरपरात्प्राक् पञ्च तिष्ठन्तुका नवमी / एकस्या एव नवम्याः क्रमेणाभिधानात् / तथाप्यष्टमीतो महदन्तरमिति चेत् / नायं दोषः / एकलोकधातुकातो गंगावालुकोपमात् लोकधातुवत् / सूत्रोक्तपुण्यातिरेकैः श्रद्धादिकं चर्यातिरेकः / ऊनपाठाः पूर्वापरैः पूरणियाः /
चतुर्षु ध्यानेष्विति / अत्र सूत्रम्- ऽविविक्तं कामैर्विविक्तं पापकरैकुशलैर्धर्मैः सवितर्कं सविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानमुपसम्पद्य विहरति / स वितर्कविचारणां व्युपशमादध्यात्मं संप्रसादाच्चेतस एकोतीभावादवितर्कमविचारं समाधिजं प्रीतिसुखं द्वितीयं ध्यानमुपसम्पद्य विहरति / स प्रीते विरागादुपेक्षको विहरति स्मृतिमान् संप्रजानन् सुखं च कायेन प्रतिसंवेदयते / यत्तदार्या आचक्षते उपेक्षकः स्मृतिमान् सुखविहारीति निष्प्रीतिकं तृतीयं ध्यानमुपसम्पद्य विहरति / स सुखस्य च प्रहाणात् दुःखस्य च पूर्वमेव प्रहाणात् सौमनस्यदौर्मनस्ययोरस्तङ्गमाददुःखासुखमुपेक्षास्मृतिपरिशुद्धं चतुर्थं ध्यानमुपसम्पद्य विहरति" इति //
विविक्तं कामैरिति / क्लेशकामस्यासंप्रयोगात् / वस्तुकामानामनालम्बनात् / विविक्तं पापकैरकुशलैर्धमैरिति / क्लेशकामहेतुकैः कामवाङ्मनोदुश्चरितैः / सवितर्क सविचारमिति / कामप्रतिपक्षाभ्यां वितकविचाराभ्यां संप्रयोगात् / विवेकजमिति / कामविवेकाज्जातम् / प्रीतिसुखमिति / ईप्सितार्थसिद्धितः कायचित्तप्रश्रब्धितश्च प्रीतिसुखसहगतम् / प्रथमं ध्यानमुपसंपद्येति समापद्य / विहरतीति प्रत्यनुभवति / स इति / स एव योगी / वितर्कविचारेषु चित्तक्षोभकरत्वदोषदर्शनात्तेभ्यश्चित्तं व्यावर्त्य समादधानः / वितर्कविचाराणां व्युपशमादिति समाधिबलेन / चेतस एकोतीभावादिति वितर्कविचाराणां निरन्तरमप्रवृत्तेः / अवितर्कमविचारमिति तेषां सर्वेण सर्व प्रहाणात् / प्रीतेर्विरागादिति / औदारिकात्तस्याः / उपेक्षक इति / वितर्कविचारप्रीतिनामुपेक्षणात् / स्मृतिमान् संप्रजानन्निति / प्रीतेरनकवकाशदानाय प्रज्ञाबहुलीकारात् / सुखमिति / वेदितसुखं प्रश्रब्धिसुखं च / कायेनेति / रूपकायेन मनःकायेन च / आर्या इति / श्रावका बुद्धाश्च / यावत्सुखविहारीति / एष एवासौ ध्यायीति शेषः /
तत्र सुखस्य प्रहाणं चतुर्थेन ध्यानेन / दुःखस्य प्रथमेन / अत एवाह / पूर्वमेवेति / सौमनस्यस्य तृतीयेन / दौर्मनस्यस्य द्वितीयेन / पूर्वमेवेत्यनुवृत्तेः / उपेक्षैवात्र वेदना / तत आह / अदुःखासुखमिति / तयोरिहात्यन्तं विशुद्धिलाभात् //
तत्र प्रथमस्य ध्यानस्य पञ्चाङ्गानि / वितर्कविचारौ प्रतिपक्षाङ्गः(ङ्गम्) / प्रीतिसुखे अनुशंसाङ्गः(ङ्गम्) / चितैकाग्रता तदुभयसन्निश्रयाङ्गः(ङ्गम्) // द्वितीयस्य चत्वार्यङ्गानि / अध्यात्मं संप्रसादः प्रतिपक्षाङ्गम् / शेषे अङ्गेपूर्ववत् // तृतीयस्य पञ्चाङ्गानि / उपेक्षास्मृतिः संप्रजन्यं च प्रतिपक्षाङ्गम् / (rst_51) सखमनुशंसाङ्गम् / निश्रयाङ्गः(ङ्गं) पूर्ववत् // चतुर्थस्य चत्वार्यङ्गानि / उपेक्षापरिशुद्धिः प्रतिपक्षाङ्गः(ङ्गम्) / अदुःखासुखा वेदना अनुशंसाङ्गः(ङ्गम्) / निश्रयाङ्गः(ङ्गं) पूर्ववत् //
एतेषु चतुर्षु ध्यानेषु प्रतिष्ठापयेत् / शेषं पूर्ववत् / इत्यधिमात्राधिमात्रा स्तुतिः //
पुनरपरादिः प्रभवनतान्तः प्रथमः स्तोभः / ऊनपूरणं पूर्ववत् / चतुर्षु ध्यानेषु चतुर्ष्वप्रमाणेषु चतुर्ष्वारूप्यसमापत्तिषु पञ्चस्वभिज्ञासु यावत्समस्तासु ध्यानाप्रमाणारूप्यसमापत्यभिज्ञासु प्रतिष्ठापयेदिति /
उक्तानि ध्यानानि / मैत्र्यादयः कामावचराः सत्त्वालम्बनाश्चत्वारो ब्रह्मविहाराः / अप्रमाणसत्त्वालम्बनाश्चत्वार्यप्रमाणानि / मैत्री करूणा मुदिता उपेक्षा च / अहो वत सर्वसत्त्वाः सुखेन युज्येरन् दुःखेन वियुज्येरन् सुखेन मा वियुज्येरन् संक्लेशान्मुञ्चेरन्नित्येभिराकारैः सुखसंयोगाशयो दुःखवियोगाशयः सुखावियोगाशयो ऽसंक्लेशाशयश्च / अधिमुक्तिचर्याभूमौ चतस्त्रोपि सत्त्वालम्बनाः / प्रमुदितासु सप्तसु तथतालम्बनाः / अचलादिष्वनालम्बनाः /
अप्रमाणेषु सूत्रम्- "मैत्रीसहगतेन चित्तेन विपुलेन महद्गतेनाद्वयेनाप्रमाणेनावैरेणासम्पन्नेनानावरणेनाव्याबाधेन सर्वत्रानुगतेन सुभावितेन धर्मधातुपरमे लोके आकाशधातुपर्यवसाने सर्वावन्तं लोकमेकं दिशं स्फरित्वोपसंपद्य विहरति / यावद्दशदिशः स्फरित्वोपसंपद्य विहरति / एवं करुणासहगतेन / एवं मुदितासहगतेन / एवमुपेक्षसहगतेन" इति //
तत्र मैत्रीसहगतेन चित्तेनेति गुणिनो निर्देशः / शेषेण गुणानाम् / विपुलेनेत्याशयतो महत्त्वम् / महद्गतेनेति वर्धनतः / अप्रमाणेनेत्यालम्बनतः / अद्वयेनेति एकात्मकेन निर्विकल्पत्वात् / अवैरेणेति विपक्षप्रहाणात् / तत्र मैत्र्यादीनां विपक्षो यथाक्रमं / व्यापादो विहिंसा अरतिः, अनुनयप्रतिघौ च / असंपन्नेनेति स्त्यानमिद्धोपशमात् / अनावरणेनेत्यौद्धत्यकौकृत्योपशमात् / अव्याबाधेनेत्येभिरेव त्रिभिश्चेतसो अकालुष्यात् / सर्वत्रानुगतेनेति मित्रोदासीनशत्रुषु त्रिष्वपि प्रवृत्तत्वात् / सुभावितेनेति त्रिष्वपि समप्रवृत्तत्वात् / उक्तेन प्रकारेण स्फरित्वेति व्याप्य / लोकमिति सत्त्वलोकम् / सर्वावन्तमिति देवनागयक्षादिभेदैः सर्वैर्युक्तम् / एकं दिशमिति एकदिग्गतम् / क्वेत्याह / लोक इति भाजनलोके धर्मधातुपरम इति / धर्मधातुवदनन्ते (rst_52) आकाशधातोरिव पर्यवसानमस्येति तथोक्ते / उपसंपद्य विहरतीति चित्तं समाधाय विहरत्यार्यविहारेण / दशदिश इति दशदिग्गतान् / शेषं सुबोधम् //
आरूप्यसमापत्तयश्चत्वार आरूप्याः / तेषु सूत्रम् "सर्वशो रूपसंज्ञानां समतिक्रमात्प्रतिघसंज्ञानामस्तङ्गमात् नानात्वसंज्ञानाममनसिकारात् अनन्तमाकाशमिति आकाशानन्त्यायतनं उपसम्पद्य विहरति / स सर्वश आकाशानन्त्यायतनसंज्ञासमतिक्रमादनन्तं विज्ञानमिति विज्ञानानन्त्यायतनमुपसंपद्य विहरति / स सर्वश विज्ञानानन्त्यायतनसंज्ञासम्तिक्रमात् नास्ति किञ्चिदित्याकिञ्चन्यायतनमुपसंपद्य विहरति / स सर्वश आकिञ्चन्यायतनसंज्ञासमतिक्रमात् नैवसंज्ञा नासंज्ञायतनमुपसम्पद्य विहरति" इति //
रूपसंज्ञा नीलपीतादिसंज्ञाः / तासु विरक्तस्य सर्वत्राकाशसंज्ञा भावनात् / तासामतिक्रमात् अप्रतिभासात् / प्रतिघसंज्ञानामिति भित्तिप्राकाराद्यावरणसंज्ञानाम् / नानात्वसंज्ञानामिति प्रासादोद्यानगिरिसरिच्चन्द्रसूर्यादिसंज्ञानाम् / अनन्तमाकाशमित्येवमाकाशानन्त्यायतनमालम्वनमस्येति तथोक्तम् / कथमाकाशानन्त्यायतनसमतिक्रमः? स येन ज्ञानेनाकाशानन्त्यायतनमधिमुक्तवांस्तदेवानन्तमधिमुच्य सर्वत्राकाशसंज्ञाव्यावर्तनात् / विज्ञानानन्त्यायतनसमतिक्रमादिति / स तस्मादुच्चलितो न किञ्चिदालम्बनं पश्यति नार्थं न विज्ञानम् / सो ऽकिञ्चनतामेवालम्बनीकृत्य समापद्यते / आकिञ्चन्यायतनसमतिक्रमादिति / स आकिञ्चन्यसंज्ञायामपि विरक्तस्तामपि व्यावर्तयति / किञ्चनसंज्ञा तु प्रागेव निवृत्ता / ततो नैव संज्ञा / सूक्ष्मा तु संज्ञा प्रवर्तत एव ततो नासंज्ञा / नैव संज्ञा नासंज्ञा यस्मिन्नायतने समाधाने तत्तथोक्तम् /
पञ्चाभिज्ञाः / ऋद्धिविधिज्ञानम् / दिव्यश्रोत्रम् / परचित्तज्ञानम् / पूर्वेनिवासानुस्मृतिज्ञानम् / दिव्यचक्षुश्चेति / अत्र सूत्रम्- "सो ऽनेकविधमृद्धिविधं प्रत्यनुभवति / पृथिवीमपि कम्पयति / एको भूत्वा बहुधा भवति / बहुधापि भूत्वा एको भवति / आविर्भात्रं तिरोभावमपि प्रत्यनुभवति / तिरः कुड्यं तिरः प्राकारं तिरःपर्वतमप्यसक्तो गच्छति / आकाशमपि क्रामति / पृथिव्यामपि उन्मज्जननिमज्जनं करोति / उदकेपि पृथिव्यामिव गच्छति / धूमायत्यपि प्रज्वलत्यपि" इति विस्तारः // "स दिव्येन श्रोत्रधातुना अतिक्रान्तमानुष्यकेन शब्दान् शृणोति दिव्यान् मानुषकांश्च / स परसत्त्वानामपि परपुद्गलानां चेतसैव चित्तं यथाभूतं प्रजानाति / एवं [सरागं] विगतरागं सदोषं वीतदोषं समोहं वीतमोहं चित्तमिति यथाभूतं (rst_53) प्रजानाति यावदनुत्तरं चित्तमिति यथाभूतं प्रजानाति / स एकां जातिमनु स्मरति / द्वे तिश्रो (स्रो) यावज्जातिकोटीनियुतशतसहस्राण्यप्यनुस्मरति / एकं दिवसं द्वे त्रीणि यावत्कल्पकोटीनियुतशतसहस्राण्यप्यनुस्मरति / अमुत्राह मासमेवं नामा एवं गोत्र एवं जातिरेवमाहार एवं चिरस्थितिक एवमायुष्यपर्यन्तः / सोहं ततश्च्युतः सन्नमुत्रोपपन्नो यावत्ततश्च्युत इहोपपन्न इति यावत् साकारं सोद्देशं सनिमित्तमनेकविधं पूर्वेनिवासमनुस्मरति // स दिव्येन चक्षुषा विशुद्धेनातिक्रान्तमानुष्यकेन सत्त्वान् पश्यति / च्यवमानानुपपन्नानपि सुवर्णान् दुर्वर्णान् हीनान् प्रणीतान् सुगतौ दुर्गतौ यथाकर्मोपगान् सत्त्वान् प्रजानाति / अमी भवन्तः सत्त्वाः कायसुचरितेन वाक्सुचरितेन मनःसुचरितेन समन्वागता आर्याणामनपवादकाः सम्यग्दृष्टयः / तेन कायवाङ्मनःसुचरितहेतुना कायस्य भेदात् सुगतौ स्वर्गलोके देवेषूपपद्यन्ते / इमे पुनर्भवन्तः सत्त्वाः कायदुश्चरितेन वाग्दुश्चरितेन मनोदुश्चरितेन समन्वागता आर्याणामपवादका मिथ्यादृष्टयश्च मिथ्यादृष्टिकर्मसमादानहेतोः कायस्य भेदात्परंमरणादपायदुर्गतिविनिपातं नरकेषूपपद्यन्ते / इउति हि दिव्येन चक्षुषा अतिक्रान्तमानुष्यकेन दशदिशि लोके सर्वलोकधातुषु धर्मधातुपरमे आकाशधातुपर्यवसाने षङ्गतिकानां सत्वानां च्युतोपपादं यथाभूतं प्रजानाति" इति //
एतासु ध्यानाप्रमाणारूप्यसमापत्त्यभिज्ञासु व्यस्तसमस्तासु प्रतिष्ठापयेदिति सम्बन्धः / शेषं सुबोधमिति प्रथमः स्तोभः //
इत ऊर्धं तिष्ठत्वादयः प्रतिष्ठापयेदन्ताः प्रत्येकं परेण तत्किं मन्यस इत्यादिना प्रभावनतान्तेन सहिता यथाक्रमं द्वितीयतृतीयचतुर्थ पञ्चमषष्ठः स्तोभः /
इति मृदुमध्यो मृद्वधिमात्रः मध्यमृदु मध्यमध्यो मध्याधिमात्रश्च स्तोभः //
पुनरपरादि पुनरपरात् प्राक् सप्तमः / भगवत्योः परेभ्यो दानं पूर्वकेष्वप्यस्ति / इह तु स्वयं च वाचनं परेभ्यश्च लिखित्वा दानं चर्यातिरेक इत्यधिमात्रमृदुस्तोभः //
पुनरपरादि पुनरपरात् प्रागष्टमः / अर्थमस्या विवृणुयादिति यत्पूर्वमुक्तं तत्पारमितादीनामौदारिकं रूपं प्रतिहतानां प्रसादकरमभिप्रेत्य / इह तु कोटित्रयानुपालम्भादिकं परमार्थमभिप्रेत्याह / अर्थकुशलादित्यादि / तत्रार्थकुशलस्य वाचनं तमेवार्थं मनसिकृत्य वाचनात् / सार्थामिति तेनैवार्थेन (rst_54) सहिताम् / सव्यञ्जनामिति तस्यैवार्थस्य वाचका व्यञ्जना / उपदिशेत् तस्यार्थस्य सूत्रेण संस्यन्दनात् / परिदीनीपयेद् युक्तिभिः / अयमष्टमे चर्यातिरेकः / अयं इत्यष्टमे वर्तमानः / तत इति सप्तमे वृत्तात् / इयमप्युपदेष्टव्येति काक्वा शिरःकायेन वा प्रश्नः / नैवोपदेष्टव्या परिस्फुटादिति भावः / अबुध्यमानस्येति जडधियः / तस्य युक्त्यागमाभ्यां सम्यग्ग्राहितस्य परवाचा चलनात् / कः पुनरेनं चालयिष्यतीति / एतदाह तत्कस्य हेतोरिति / अत्रोत्तरम् / उत्पत्स्यते हित्यादि / भगवतीदेशकेनैव या तस्या विपरीतार्थवर्णना सा तस्याः प्रतिवर्णिका / तयैव जडस्य श्रद्धालोर्वञ्चनात् / उत्पत्तौ ण्वुच् पर्यायार्हर्णोत्पत्तिषु ण्वुजिति वचनात् / तत्रेति तथा सति / मा प्रणंक्षीदिति संबोधिमार्गात् प्रणष्टो भ्रष्टो मा भूदित्यर्थः / णस (श) अदर्शने रधादिः / पुषादिश्च / तस्मा [त].......अयं प्रयोगः / तथाप्यङ्वृद्धी न भवतः / परस्मैपदेषु तयोर्विधानात् / संज्ञापूर्वकस्य च विधेरनित्यत्वात् / यथा चास्याः प्रतिवर्णिका भवति यथा च न भवति तदुभयं महत्योर्भगवत्योर्विस्तरेणोक्तं- "यो रूपं वेदनां यावत्सर्वाकारज्ञतामनित्यदुःखनात्मशून्याशुभाकारैर्निमित्तयोगेन उपलम्भयोगेन भावयति स प्रज्ञापारमितां भावयति / स प्रथमां
बोधिसत्त्वभूमिं यावद्दशमीं यावदनुत्तरां सम्यक्सम्बोधिमधिगमिष्यतीति / य एवमुपदेक्ष्यति स प्रतिवर्णिकामुपदेक्ष्यति //
कथं नोपदेक्ष्यति? रूपं स्वभावेन शून्यम् / यश्च रूपस्य स्वभावः सो ऽभावः / यश्चाभावः सा प्रज्ञापारमिता / तस्यां रूपमेव नास्ति कुतो नित्यमनित्यं वा भविष्यतीत्येवमादि / य एवमुपदेक्ष्यति नासौ प्रतिवर्णिकामुपदेक्ष्यति" इति // अत इहापि कथं भगवन्नित्यादिना प्रतिवर्णिकापरिज्ञानाय शक्रस्य प्रश्नः / भविष्यन्ति कौशिकेत्यादिना भगवत उत्तरम् / रूपीणी पञ्चेन्द्रियाणि कायसंगृहीतत्वात् परमाणुसञ्चयत्वाद्वा कायाः / ते अभाविता अनभ्यस्तसंवरत्वाद्येषां ते तथोक्ताः / असंवृतेन्द्रियत्वात् अभावितशिलाः / ततो ऽभावितचित्ता अनभ्यस्तसमाधयः / ततो अभावितप्रज्ञाः समाहितचित्तस्यैव यथाभूतप्रज्ञानात् / ततो दुष्प्रज्ञा विपरीतदृष्टयः / तत एडमूकाः सूक्तीनामश्रवणात् / ......प्रज्ञापरिहीणाः सम्यग्दृष्टिभङ्गात् रूपानित्यतेत्युपलक्षणम् / दुःखतादयोपि द्रष्टव्याः / नित्यं न भवतीत्यनित्यता महायाने / तद्व्यवच्छेदार्थ विनाशग्रहणम् / विनाशलक्षणा अनित्यतेत्यर्थः / न हि सतां विनाशो नाप्यनुप(त्प)न्नानाम् / तस्माद्विनाशदर्शी तान्वस्तुधर्मानुपलभेत / सत्ता(ता)मुत्पादविनाशौ च / तदेवं (rst_55) नित्यतादिचतुर्विपर्यासप्रतिपक्षेण हिनयानसंगृहीतायाः सम्यग्दृष्टेः प्रज्ञापारमितात्वेन या देशना सा तस्याः प्रतिवर्णिकेत्युक्तं भवति /
अथैषां रूपादीनामनित्यतादुःखादिभावना बोधिसत्त्वेन भावयितव्या न चेत्यत आह / न खलु पुनरित्यादि / द्रष्टव्येति भावयितव्येत्यर्थः / यदि भावयेत्को दोषः स्यादत आह / स चेदित्यादि / प्रतिवर्णिकायामिति हीनयान इत्यर्थः / एवमस्यां भगवत्यां समासतः प्रतिवर्णिकां दर्शयित्वा तस्या चर्या प्रतिषिद्धा / यथा तु प्रतिवर्णिका न भवति तत्प्रथमत एव सूचितं अर्थकुशलो वाचयेदित्यादिना / यः पुनः शून्यतानिःस्वभावतादिपदेषु माहायानिकम्मन्यानां विपर्यासस्तत्प्रतिपक्षेण धर्मकायकारित्रप्रकरणे ऽविपर्यासकारित्रं महत्योर्भगवत्योरुक्तम् / अस्यामपि भगवत्या मध्ये ऽविपर्यासः प्राप्तिनिर्वाणे सर्वाकारज्ञतानिर्याणे ऽष्टविधे च गाम्भीर्ये परिस्फुटमुक्तः / तस्मात्तत एवावधारणीयः // इत्यधिमात्रमध्यस्तोभः //
पुनरपरादिः पुनरपरात्प्राक् पञ्चतिष्ठतुर्नवमः / स्त्रोतआपत्तिफल एवं प्रभाव्यत इति तावत्सत्त्वेषु निष्पाद्यते / इत्यधिमात्रस्तोभः /
पुनरपरादिः पुनरपरात् प्राक् पञ्चतिष्ठतुः प्रथमा / सकृदागामिनः फलम् / इति मृदुमृद्वी प्रशंसा //
पुनरपरादिः पुनरपरात् प्राक् पञ्चतिष्ठतुद्वितीया / अनागामिनः फलम / इति मृदुमध्या प्रशंसा //
पुनरपरादिः पुनरपरात् प्राक् पञ्चतिष्ठतुस्तृतीया / अर्हत्वमर्हतो भावः / इति मृद्धधिमात्रा प्रशंसा //
पुनरपरादिस्तिष्ठतोः प्राक् चतुर्थी / स्वयमभिसंबोधाब्दुद्धः, एकमात्मानं प्रतिबुद्धः प्रत्येकबुद्धः / इतिमध्यमृद्वी प्रशंसा //
तिष्ठत्वादिपञ्चकेन पञ्चमी / इति मध्यमध्या प्रशंसा //
पुनरपरादिस्तिष्ठतोः प्राक् षष्ठी / कश्चिदेवेति प्रथमः / यश्चेति द्वितीयः / यो वेति तृतीयः / उपनामयेदिति दद्यात् / केनाशयनेत्याह / अत्रैवेत्यादि / वृद्ध्यादिकं गतः प्राप्तः / अयमिति तृतीयः / तस्मादिति प्रथमाद् द्वितीयाच्च / इति मध्याधिमात्रा प्रशंसा //
तिष्ठत्वादिपञ्चमेन सप्तमी / इत्यधिमात्रमृद्धी प्रशंसा //
पुनरपरादिस्तिष्ठतो प्रागष्टमी / संख्यापि भगवन्नित्यादि / तत्र संख्या पूर्वकात्पुण्यादुत्तरं पुण्यं शतगुणं सहस्रगुणं इत्यादि / गणना दशगुणितशतगुणमित्यादि / उपमा गङ्गानदीवालुकागुणमित्यादि / औपम्यं दशगङ्गानदीवालुकागुणमित्यादि / उपनिशा दशगुणितशतगङ्गानदीवालुकागुणमित्यादि / परिमाणस्यात्यन्तमसम्भवात्तदर्थ या उपनिषत् समीपे निषदनम् / सापि न सुकरा कर्तुम् / इत्यधिमात्रमध्या प्रशंसा //
तिष्ठत्वादिपञ्चकेन नवमी / यथायथेत्यादिना कौशिकः पुण्यातिरेकोपपत्तिमाह / साधु साध्वित्यादिना तं सुभूतिः सोपपत्तिकं प्रोत्साहयति / इत्यधिमात्राधिमात्रा प्रशंसा //
पुण्यस्य पर्याया भेदास्तद् द्योतकः परिवर्तस्तत्परिवर्तः //
आर्याष्टसाहस्रिकायाः प्रज्ञापारमितायाः सारतमानाम्नि पञ्जिकायां रत्नाकरशान्तिविरचितायां पञ्चमः परिवर्तः //
6. अनुमोदनापरिमाणमनापरिवर्तो नाम षष्ठः /
उक्ताः स्तुतिस्तोभप्रशंसाः / परिणामनामनस्कारो वक्तव्यः / तमधिकृत्य शास्त्रम्-
[51] विशेषपरिणामस्तु तस्य कारित्रमुत्तमम् // नोपलम्भाकृतिश्चासावविपर्यासलक्षणः // 2-21 // [52] विविक्तो बुद्धपुण्यौघस्वभावस्मृतिगोचरः / सोपायश्चानिमित्तश्च बुद्धैरभ्यनुमोदितः // 2-22 //
[53] त्रैधातुकाप्रपन्नश्च परिणामो ऽपरस्त्रिधा / मृदुमध्यो ऽधिमात्रश्च महापुण्योदयात्मकः // 2-23 //
सर्वसत्त्वानां दानशीलभावनामयात् पुण्यौघो विशिष्यते प्रकृष्यते ऽनेनेति ऽविशेषःऽ / स पुनरस्याः सर्वसत्त्वानामग्रतायै सम्यक्संबोधिकरणता / (rst_57) "सर्वसत्त्वसाधारणं कृत्वा अनुत्तरायै सम्यक्संबोधये परिणामयति तच्चानुपलम्भयोगेन" इति महत्योः पाठात् / तेन विशेषेण ऽपरिणामःऽ //
तमाह / अथ खलु मैत्रेय इत्यादिना / बोधिसत्त्वस्येति / उत्पादितबोधिसचित्तस्य / यथोक्तविशेषविशिष्टत्वान्महासत्त्वः, परिणामना व्यवसायो ऽस्येति महासत्त्वस्य / अनुमोदनासहगतं कुशलं अनुमोदना / सा चानुपलम्भपरिणामस्यादौ विस्तरेण वक्ष्यते / तस्याः परिणामना / तया सहगतम् / इदमेव इत्यस्य परेण पुण्यक्रियावस्तुशब्देन सम्बन्धः / तत इति सर्वसत्त्वानां दानादिमयात् पुण्यात् सकाशात् / अग्रमाख्यायते यावद् असमसममाख्यायते / तस्मादग्रादि / अग्रादिफलहेतुत्वात् / तदपि कुतः? यथाक्रमं प्रमुदिताद्येकादशभूमिसंगृहीतस्वपरार्थसंपत्तिहेतुत्वात् / पर्यायत्वेपि सर्वेषामुपादानसामर्थ्यात् / असमाबुद्धास्तेषां साधारणो विशेषो ऽसमसमः / समन्तप्रभासायां भूमौ / कथं धर्ममेघायामसमः? असमसाधर्म्यात् / "दशभूमीश्वरस्तु बोधिसत्त्वो बुद्ध एव द्रष्टव्यो न तु सम्यक्संबुद्धः" इति वचनात् / तदेवमग्रादिपदेभ्यः पूर्वेण ग्रन्थेन विशेषपरिणाम उक्तः / अग्रादिपदैस्तस्यैव ऽकारित्रमुत्तमंऽ इति विशेषपरिणामः सकारित्रः //
एवमुक्त इत्यादिना अनुपलम्भपरिणाममाह / दशदिशो ऽस्मिन्निति दशदिशि लोके, आकाशपरिमाणे भाजनलोके / सर्वत इति तासु सर्वासु दिक्षु / सर्वत्रगतयेति व्यापितया घनतयेत्यर्थः / अप्रमेयादिषु वीप्सा दिग्भिः प्रत्येकमभिसम्बन्धार्थम् / अनन्तापर्यन्तेष्वित्यनन्तानन्तेषु / तदियमर्थतो द्विरुक्तिर्न शब्दतः / तत्र दिग्देश्यानामपरिच्छेदात् अप्रमेयाः / संख्याया अपरिच्छेदात् असंख्येयाः / दिग्वैपुल्येनापरिच्छेदात् अपरिमाणाः / प्रत्येकं चिन्तयितुमशक्यत्वात् अचिन्त्याः / तास्वेव चिन्तास्वन्तगमनात् अनन्ताः / एवं साकल्येन प्रतिदिशमनन्तेषु त्रिसाहस्रेषु प्रतिदिशं य एकैकस्त्रिसाहस्रः / तस्मिन् अप्रमेयाप्रमेयाणां यावत् अनन्तापर्यन्तानां तथागतानामिति सम्बन्धः / इहाप्येकैकेन त्रिसाहस्रेण सम्बन्धार्थ वीप्सा / नन्वेकस्मिंस्त्रिसाहस्रे एक एव तथागतो नाप्रमेयादिरिति चेदाह / अतीते ऽध्वनि इति / एकदा त्रैकस्तथागतो न सर्वदा / अतीतः पुनरध्वा अनादित्वात् अप्रमेयः तत एकस्मिन्नपि लोकधातावतीते ऽध्वनि अप्रमेयास्तथागताः कालदैर्ध्येणापरिच्छेदात् / तावन्तश्च ते संख्यया अपरिच्छेदात् असंख्येयाः / मनसा तिर्यक्संनिवेश्य वैपुल्येनापरिच्छेदात् अपरिमाणाः / एकैकचिन्तया अचिन्त्याः / एकैकचिन्तायामन्तागमनात् अनन्ताः / ईदृशानां तथागतानां परिनिर्वृतानामिति न तु तिष्ठताम् / अरयः क्लेशास्तान् हतवन्त इति अर्हताम् / अविपरीतसर्वधर्मज्ञानात् सम्यक्सम्बुद्धानाम् / अनेन पदद्वयेन प्रहाणज्ञानसम्पदावुक्ते /
भवपथत्वाद्धर्मे अस्मिमाणो(नो) [वर्त्मनिः] / वृतेरनिप्रत्ययः / सरणिधरणिवत् / मुडागमश्च / वर्त्मनिस्तृष्णा भवपदवीत्वात् / यथोक्तं- "अस्मिमानः पिता उक्तो माता तृष्णेति चोच्यते" इति / तयोरून्मूलनात् छिन्नवर्त्मनां छिन्नवर्त्मनीनां च / प्रपञ्चो द्वयकल्पना, भवः संसारः / तयोर्नेत्र्यौ नायिके यथाक्रमं धर्मदृष्टिः पुद्गलदृष्टिश्च / तयोः परिक्षयात् छिन्नप्रपञ्चभवनेत्रीकानां पर्यात्तबाष्पाणामिति / पुनर्भवाभावे न पुनर्बन्धनो न शोको नाश्रु / ततः परिक्षीणबाष्पाणाम् / कण्टकसाधर्म्यात् कण्टकाः कुदृष्टयः / तेषां क्षोदनात् मर्दितकण्टकाः / शेषं निदान एव व्याख्यातम् / प्रथमचित्तोत्पादो यः पृथिवीसमः / तमुपादाय तत आरभ्य / एतस्मिन्नन्तर इत्येतावत्यवकाशे / शीलादिस्कन्धः शीलादिराशिः / बोधिसत्त्वानामपि बलादयः सन्ति / न तु ते पारङ्गताः / ततस्तद्व्यवच्छेदाय पारमिताग्रहणम् / अनाश्रवो मार्गः परिज्ञः / सर्वज्ञज्ञानं सम्यक्सम्बोधिः / पूर्वं बुद्धगुणादिभिः संप्रयुक्तानि / ये चेत्यादिना बुद्धगुणादिनप्याह / सम्यक्सम्बोधिरेव सुखमुपशमसुखत्वात् / सर्वधर्मेषु ऐश्वर्य वशिता / ऋद्धेरभिसंस्कार क्रिया / अनावरणं शुद्धत्वात् / असङ्गमनपेक्षत्वात् / अप्रतिहतं सर्वस्मिन् सर्वाकारज्ञेयप्रवृत्तेः / अनुपम तस्यानुमानाय विशेषदृष्टान्तभावात् / परितो ऽवच्छेदः परिमान(णम्) / अशेषविशेषान्तरायात् रूपग्राहि प्रत्यक्षम् / तस्य तस्मिन् परेषामभावादपरिमेयम् / तथागतानां यथाभूतज्ञानसम्यग्ज्ञानम् / तदेव बलं सर्वाभिभूतत्वात् / यद्बुद्धज्ञानबलमिति / बुद्धज्ञानस्य बलं शक्तिर्निरवधिसर्वाकारविश्वार्थक्रियायै /
बलानां यद्बुद्धैः ज्ञानदर्शनं प्राप्तिसाक्षात्करणम् / चतुर्वैशारद्येन सुपरिपूर्णो ऽधिगमः स्वधर्माणां यश्च धर्माधिगम इति सम्बन्धः / स कथम्? सर्वधर्माणां परमार्थस्य सम्यग्ज्ञानस्याभिनिर्हारेण निष्पादनेन / त्रिपरिवर्त द्वादशाकारं लोकोत्तरं ज्ञानं धर्मः / स एव चक्रं देवमनुष्येषु चंक्रमणात् / तस्य प्रवर्तनं दशसु दिक्षु / अयमुद्देशः / अस्य निर्देशो नवभिरङ्गैः / तस्यैव धर्मस्य द्योतनी वाग् धर्मोक्ता / तस्याः प्रग्रहणं मनसा व्यवस्थापनम् / सैव वाग् धर्मभेरी / तस्याः संप्रताडनं विनेयजयश्रावणम् / सैव वा धर्मशङ्खः / तस्य पूरणं विनेयैरेव ज्ञानम् / तस्य धर्मशङ्खस्य प्रव्याहरणम् / तमेवालम्ब्य तदर्थाकारेण मनसि कुर्वतां चिन्ताभावनयोः परिनिष्पत्तिः / भावानाबलादुत्पन्नं तदेव लोकोत्तरं ज्ञानं धर्मखङ्गः / तेन प्रहरणं क्लेशानां विध्वंसनम् / तस्यैव भूयसि जने प्रवृत्तिः धर्मवृष्टिः / तस्याः प्रवर्षणम् / स एव यज्ञो निरर्गडत्वात् / तस्य यजनम् / तस्य धर्मस्य दानेन सर्वसत्त्वानां सन्तपणं संप्रवारणं च परिवेषनं(णम्) / विनीताः स्मृत्युपस्थानैः (rst_59) सत्येष्ववतारणात् / शिक्षिताः सम्यक्प्रहाणर्द्धिपादैः / अधिमुक्ता इन्द्रियबलैरेकान्तनिश्चयात् / नियता अविनिवृत्तेः / बुद्धानां परिषदामिति व्यधिकरणे षष्ठि / परिनिर्वा[प]यतामिति ओखै शोषणे / बुद्धानामस्येति क्षेत्रीकृत्य मानसो भावनं रञ्जनम् / तस्मै हिता मनोभावनीयाः प्रसादकरा इत्यर्थः / निरवशेषमभिसंक्षिप्य अनवशेषमनुमोदेतेति सम्बन्धः / ऐकध्यमित्यैकराश्येन /
अभिसंक्षिप्येत्यस्य विवरणं पिण्डयित्वेति तुलयित्वेति / समाहितेनेति मनसा निरूप्य / अनुमोदेतेति प्रीत्यालम्बनं कुर्यात् / अनुमोदनयेति प्रीत्योत्पादनया / अग्रयेति प्रकृष्टया / कथं तर्हि एकादशपदानि? एकादशविधेप्यालम्बने तस्याः प्रकर्षात् / तत् कुतः? मध्ये दशसु च दिक्षु ये तथागताः तेषां सपरिच्छदेन यानि कुशलमूलानि तदालम्बनत्वात्तस्याः / कथं परिउणामयतीत्यत आह / बोधेराहारकं आकर्षकं भवत्विति /
तदेवमुक्त इत्यादिना विस्तरेण स्थविरसुभूतिर्यथानुमोद्य यथा बोधिसत्त्वः परिणामयति तदुक्तवान् / यथा तु तत्रानुपलम्भयोगः कर्तव्यस्तदुपदर्शनायार्यमैत्रेयं तत्रेत्यादिना पृच्छति / यैर्वस्तुभिरिति दशदिक् तथागतादिभिः / येरालम्बनैरिति तदीयैः कुशलमूलैः / येराकारेरिति शीलसमाधिस्कन्धादिभिः / तच्चित्तमित्यनुमोदनाचित्तम् / अपि त्विति किन्तु / उपलभ्येरन्निति शक्तौ लिङ्ग / उपलब्धुं शक्यत इति प्रश्नः / निमित्तीकरोतीति विकल्पयति / अन्यथा अनुमोदनापरिणामनयोरयोगात् //
आर्यमैत्रेय आह / न तानीत्यादि स्थविर आह / एवन्तर्हि विपर्यासाः स्युरिति / असत एव निमित्तोद्ग्रहात् ग्रहणात् सन्तीरणाच्च यथोक्रमं संज्ञायाश्चित्तस्य दृष्टेश्च विपर्यासः / एषां साधनार्थ रागो दृष्टान्तः अथापीति परमतमाशङ्कते / यादृशो यक्षस्तादृशो बलिरिति भावः / चित्तमिति परिणामनाचित्तम् / सर्वधर्मा इत्युद्देशः / सर्वधातव इति निर्देशः /
यदि चेत्यादिना दोषमाह / कतमैर्वस्त्वादिभिरिति / अनुमोदनाचित्तसम्बन्धिभिः / चित्तमिति परिणामनाचित्तम् / तस्यापि निःस्वभाअवत्वात् / क्वेति कस्याम् / परिणामनैव न स्यादिति भावः //
अत एवार्यमैत्रेय आह / नेदमित्यादि / यदपि हि स्याद् भवेत् / क्व? अनुमोदनापरिणामनादौ / मात्रग्रहणमनुष्ठानव्यवच्छेदार्थम् / श्रद्धा संप्रत्ययः / प्रेम प्रीतिः / प्रसादो मनसः कालुष्यविगमः / गौरवं भक्तिः / (rst_60) उपस्तब्धः स्थिरीकृतः / अवलयश्चित्तस्याव[न]तिः / संलयः सन्नतिः / विषादः खेदः / वि[षा]दापत्तिः खेदप्रवाहः / त्रासोद्यम उत्त्रासः / समग्रस्त्रासः संत्रासः / तत्प्रवाहः संत्रासापत्तिः / एवं चेति / अवलयाद्यभावे / येनेत्यादि / यदित्यनुमोदकं चित्तम् / क्षीणमित्युद्देशः / निरुद्धं विनष्टत्वात् / विगतमस्थितत्वात् / विपरिणतं तदिति न किञ्चिन्निःस्वभावत्वात् /
समवधानं तुल्यकालता / चित्तं निरुद्धं चित्तधर्मता शाश्वती चेदाह / न चेत्यादि / तस्या असंस्कृतत्वेन परिणामायोगात् / सुगृहीतवचनं दुर्गुहीतस्य सुपरिणामितत्वायोगात् / आरभ्येत्यधिकृत्य / कथमित्याह / अधिष्ठानं प्रश्नाधिकरणं कृत्वेति / तत्कथम्? इह मैत्रेयेति वचनात् / आमन्त्रयते स्मेति ब्रूते स्म / इह मैत्रेयेत्यत आरभ्य कथं संज्ञादिविपर्यासो न भवतीति यावत् / एवं आर्यमैत्रेय उत्तरमाह / स चेदित्यादि / येन चित्तेन यत्परिणामयतीति यच्चित्तं परिणामयति / तस्मिन्नित्युभ्यस्मिन् / एवमिति सुगृहीतत्वात् / परिणामितमिति सुपरिणामितम् / स्फुटीकर्त्तुमाह / यथेत्यादि / एवमित्यादिनोपसंहारः / कदा तर्हि विपर्यासः स्यादित्यत आह / अथेत्यादि / इयता विपर्यासप्रसंगे चोद्यं परिहृय प्रकृतानुपलम्भख्यापनायाह / स चेदित्यादि / एवं सञ्जानीत इत्युद्देशः / एवं समन्वाहरतीति निर्देशः / अविपर्यासेन मनसिकरोतीत्यर्थः / तदित्यादि / तत् चित्तमेवं समन्वाह्रियमाणमिति सम्बन्धः / क्षोणमित्यादिभिः पर्यायैर्मनसि करोति / न तच्छक्यमिति / असत्त्वाच्छशविषाणवत् / सव धर्मतेति निःस्वभावतैव / धर्मेष्विति बुद्धधर्मेषु / स चे दित्यादिनोपसंहारः / एवमित्यनुपलम्भेन / सर्वत्र शून्यतैकरसेन मनसिकारेणेत्यर्थः / इतीदमार्यमैत्रेयो ऽतीतान् बुद्धानधिकृत्योक्तवान् / अनागतानधिकृत्याह पुनरपरमित्यादि / प्रत्युत्पन्नानधिकृत्याह पुनरपरमित्यादिभिः / अनुपलम्भपरिणामो द्वितीयः //
पुनरपरमित्यादि / अत्र संक्षेपेण त्र्यैयध्विकबुद्धादीनां पुण्यानुमोदना / अग्रादित्वं पुर्ववत् / अत्राविपर्यासं दर्शयितुमाह / तस्य कथमित्यादि / एवं समन्वाहरतीति समन्वाहारः सम्यग्मनसिकारः / ते धर्मा इति ये परिणामयितव्याः / स च धर्मो ऽक्षय इति / अनुत्तरा सम्यक्सम्बोधिः सुविशुद्धधर्मतालक्षणा / एवं परिणामितं भवतीत्यविपर्यासादिति भावः / न धर्मो धर्म परिणामयतीति निःस्वभावत्वात् सर्वधर्माणाम् / इत्यपीति / एवमपि पूर्ववत् / अत एवाह / एवं भदन्तेत्यादि / स चेदित्यादिना प्रकारान्तरमाह / अयमित्यादिनोपसंहारः / इत्यविपर्यासपरिणामस्तृतीयः //
स चेदित्यादि / पुण्याभिसंस्कारः पुण्यकर्म / संज्ञानमभिनिवेशः / कथं तर्हि परिणामयतीत्याह / स चेदित्यादि / विविक्तः शान्तश्च यथाक्रमं स्वपरैः स्वपरलक्षणैश्च शून्यत्वात् / पुनः स चेदित्यादिनैतदाह / विविक्तशान्तत्वज्ञानेपि यदि तभ्दावाभिनिवेशः स्यात् तदा न सम्यक्परिणामयति / एवमित्यादिनोपसंहारः / प्रज्ञापारमितेति वचनम् / तयैव सम्यक्परिणामनादिति विविक्तपरिणामश्चतुर्थः //
यदपीत्यादिना स्मरणम् / यादृश एवेत्यादिना निरूपणम् / यादृश एव स परिणाम इत्यनुत्तरा सम्यक्संबोधिर्धर्मधतुस्वभावा तादृशमेव तदिति लभ्यते नित्याभिसम्बन्धात् / धर्मधातुस्वभावमेव तदित्यर्थः / तादृशमेव तत्कुशलमूलमिति यदनुमोदनासहगतम् / येनापीति परिणामनाचित्तेन / तदपीति तदप्युभयम् / तज्जातिकमिति सैव जातिः सामान्यं यस्य / तल्लक्षणमिति तदेव सामान्यलक्षणं यस्य / तन्निकायमिति तद्रासि(शि)कम् / तत्स्वभावमिति तत्प्रकृतिकम् / स चेदेवं संजानीत इति / यद्यनेनापि तादृशत्वादिना तत्त्वेनाभिनिविशते तदा न सम्यक्परिणामयति /
यच्चातीतमित्यादिना अपरं तत्त्वविकल्पमाह / असंप्राप्तमनुत्पन्नम् / स्थितिर्नास्तीति प्रकृत्यैव नश्वरत्वात् / तस्मात् त्रयमपि नोपलभ्यते ततो ऽसत् / ततो नैव निमित्तमकारणत्वात् / नाकारणं विषयः / स चेदित्यादि / एवमिति क्षीणत्वादिना तत्त्वेन / निमित्तीकरोतीत्युपलभते / तदा न समन्वाहरति न सम्यग्मनसिकरोति / तदा न सम्यक् परिणामयति /
यदा तर्ह्यनवबोधादस्मरणाद्वा न निमित्तीकरोति तदा सम्यक्परिणामः स्यादिति चेदाह / अथेत्यादि / एवमपीति / एवमनिमित्तीकरणेपि न परिणामयति / परिणामनामात्रस्याप्यभावादिति भावः / कदा तर्हि सम्यक्परिणामितं भवत्यत आह / अथेत्यादि / य(अ)थशब्दो यद्यर्थः / तदिति तादृशत्वादिकम् / अनिमित्तं सविषयत्वञ्च / निमित्तमिति सम्यग्ज्ञानालम्बनम् / समन्वाहरतीति सम्यग्मनसिकरोति / न च निमित्तीकरोतीति न सञ्जानाति नाभिनिविशते / एवमत्रेत्यादिनोपसंहारः / एवं बौद्धपुण्यौघस्य यः स्वभावो धर्मता तया अनुस्मरणम् / अनुमोद्यादीनामिति बौद्धपुण्यौघस्वभावानुस्मृतिपरिणामः पञ्चमः //
इदं तदित्यादि / इवमिति यदेनदुभ[यं] तत्त्वस्य मनसिकारो न च निमित्तीकरणम् / तच्छब्दः प्रसिद्धौ / उपायकौशलं यत्प्रसिद्धमिदं तत् / य इत्यादिना अनुशंसमाह / अथास्मिन् उपायकौशले क उपाय इत्यत (rst_62) आह / अत्र चेत्यादि / इयमेवेति / सूत्रात्मिकैव / अश्रुतवतेति इमामस्यां वेति शेषः / प्रज्ञापारमिताया या परिणामना सैव पुण्यक्रिया / सेयं प्रवेष्टुमवगाहितुं न हि शक्येति सम्बन्धः / तत्रेति तथा सति / स मैवं वोचदिति स्याद्वचनीय / कोसावित्याह / य इत्यादि / इति सोपायपरिणामः षष्ठः //
तत्कस्येत्यादि / इदं तदिति यदुक्तं तत्कुत इत्यर्थः / आत्मभावाः कायाः / संस्कारः कुशलमूलानि / अतश्च ते शान्ता विविक्ताः निःस्वभावा इत्यर्थः / अतश्च विरहिता उपलब्ध्या नोपलभ्यन्त इत्यर्थः /
अपि त्विति / यद्यपि नोपलभ्यन्ते तथापि यथाभूतमविपरीतं निरुद्धत्वादिकम् / निमित्तीकृत्येत्युद्ग्रहतः / विकल्प्य चेत्यभिनिवेशतः / अयथाभूते विकल्पप्रतिभासे यथाभूतनिरुद्धादिसंज्ञी / उपलम्भं आत्मीयं अनुपलम्भे सम्यक्संबोधौ परिणामयेत् / ततः किमित्याह / तस्येत्यादि / परिनिर्वाणमपीति / अपिशब्दो ऽतिशयार्थः / तस्यात्यन्तं निमित्तीकरणाद्ययोगात् / सविषः सशल्यश्च ताद्धर्म्यात् / इत्यनिमित्तपरिणामः सप्तमः //
तद्यथापीत्यादि / प्रणीतं वर्णादिप्रकर्षात् / किं चापीति यद्यपीत्यर्थः / अपि त्विति तथापीत्यर्थः / खलु पुनरिति वाक्यालंकारो मन्येतेति वर्णादिलाभात् / स्वादनं स्वादः परिभोगः / परिणामे चेति अवसाने च / विपाकफलम् / दुर्गहीतेनेति मिथ्याश्रुतेन / दुरुप [ल]क्षितेनेति दुर्वितर्कितेन / दुःस्वाध्यातेनेति दुरभ्यासेन / सुभाषितम् / इति करणसमाप्त्यर्थः / एवं स इति योयमुक्तः / सविषत्वादिति / अनर्थकरणशक्तिरत्र विषम् / तस्माद् इत्युपसंहारः /
कथमित्यादिना प्रश्नाः / इहेत्यादिकमुत्तरम् / अभ्याख्यानं निन्दा / अभूतवादितया ख्यापनात् / परिग्रहीतव्यादिपदेषु परिग्रहेणानुमोदना लक्ष्यते / नान्तरीयकत्वात् / बुद्धज्ञानेन ज्ञा(जा)नन्ति बुद्धचक्षुषा पश्यन्तीति सम्बन्धः / एवं चास्येत्युपसंहारः / निर्विषत्वादिकं सर्व कुत इत्याह अध्याशयेनेत्यादि / इति बुद्धानुज्ञातपरिणामो ऽष्टमः //
पुनरपरमित्यादि / शीलादीति तथागतः शीलादिस्कन्धः / अपर्यापन्नमनन्तर्भूतं / त्र्यध्वत्रैधातुकापर्यापन्नत्वादिति / अध्वत्रये धातुत्रये चानन्तर्गतत्वादित्यर्थः / धर्मधातुमात्रत्वात् तेषां शीलादीनामिति भावः / परिणामोपीति परिणामनापि / यत्रापि धर्म इति सम्यक्सम्बोधौ / अविनष्ट इत्यदुष्ट / अपर्यापन्नः / बुद्धानुज्ञातपरिणामयोर्धर्मधातुपरिणामत्वेन समतां (rst_63) दर्शयितुमाह / तत्रेत्यादि / अत्र द्वितीयादिशब्दात्परेण वार्थो गम्यते / योयं धर्मधातुपरिणामनया परिणामः / अयं सम्यक्परिणाम इति सम्बन्धः / कतमयेत्याह / अनयेत्यनन्तरोक्तया / अपर्यापन्नपरिणामनयेत्यर्थः / यथा बुद्धा भगवन्त इत्यादिकया बुद्धानुज्ञातपरिणामनयेवेत्यर्थः / एवं चेत्युपसंहारः / इत्य पर्यापन्नपरिणामो नवमः /
अथ खल्वित्यादि / यो ह्ययमिति योह्यपर्यापन्नाख्यः / अस्यामेवेत्यादिना परिणामयतीत्येतत्पर्यन्तेन बुद्धानुज्ञातपरिणामस्य निर्देशः / अत्रेत्यनयोर्धर्मधतुपरिणामनयोः / अग्रादित्वं प्रमु[दि]ताद्येकादशभूमिगतप्रकर्षहेतुत्वात् / शेषं सुबोधम् / यावत्पञ्चानामभिज्ञानां लाभिनो भवेयुरिति / इहोक्ते महापुण्योदये यच्छद्धादिकं स पूर्वकाद्विशेषहेतुरिति मृदुर्महापुण्योदयपरिणामो दशमः //
तिष्ठत्वित्यादि सुबोधं यावत्प्रत्येकबुद्धा भवेयुरिति / इहोक्तपुण्यातिरेके श्रद्धादिकं पूर्वकाद्विशेषहेतुरिति मध्यो महापुण्योदयपरिणाम एकादशः //
तिष्ठत्वित्यादि / ये सुभूत इत्यादिना दद्युरित्येतदन्तेनोद्देशः / एतेन पर्यायेणेत्यादिना दद्युरित्येतदन्तेन निर्देशः / एतेनेति वक्ष्यमाणेन / ग्लानं ग्लानिः / तत्प्रत्ययानि तद्धेतुकानि भैषज्यानि / परिष्काराः परिश्रावणादयः / सुखहेतवः सुखाः / तेषां उपधानैः ढोकनैः / सुखस्पर्शः सुखानुभवः / तेन ये विहाराः चंक्रमादयः / तान् सर्वसत्त्वानेककं परिकल्प्येति / उपस्थेयत्वेन पृथगवस्थाप्य / तांश्च सर्वबोधिसत्त्वानिति / एकैकं परिकल्प्येति वर्तते / उपस्थापकत्वेन पृथगवस्थाप्य / एकंको बोधिसत्त्व इति / उपतिष्ठदिति सम्बन्धः / किमुपतिष्ठेत्? प्रकृतत्वात्तानेव सर्वसत्त्वान् / एकंकस्तेषां सर्वबोधिसत्त्वानामिति निर्धारणे षष्ठी / तेषां मध्ये एकैकः दानं दद्यादिति / तेभ्य एव सर्वसत्त्वेभ्यः / तावच्चिररात्रसञ्चितमिति / तावता दीर्घकालेन सञ्चितम् / तथा महाविस्तरसमुदानीतमिति / तावन्महाविस्तरेणोत्पादितम् / तिष्ठतु खलु पुनरित्यादि / पूर्वत्र गंगानदीबालुकोपमलोकधातुवीर्याः सर्वबोधिसत्त्वा उपस्थापकाः प्रत्येकं गंगानदीबालुकोपमलोकधातुवीर्यानां सत्त्वानाम् / तत्र यावन्त उपस्थेयाः सत्त्वा इह तावन्त उपस्थापका बोधिसत्त्वाः प्रत्येकं गङ्गानदीवालुकोपमा लोकधातुवीर्यानां सत्त्वानामिति विशेषः / तान्सर्वसत्त्वान् (rst_64) एकैकं परिकल्पितांश्च सर्वबोधिसत्त्वानिति पूर्ववत् / शेषं सुबोधम् / इत्यधिमात्रो महापुण्योदयपरिणामो द्वादशः //
समाप्तश्च परिणामनामनस्कारः //
अनुमोदनामनस्कारो वक्तव्यः / तमधिकृत्य शास्त्रम्-
[54] उपायानुपलम्भाभ्यां शुभमूलानुमोदना / अनुमोदे मनस्कारभावनेह विधीयते // 2-24 //
एतदाह / अथ खल्वायुष्मानित्यादिना / निरवशेष्येति निरवशेषीकृत्य / अग्रत्वादीनि चतुर्दशोक्ताः / कियता अग्रता भवतीति प्रश्नः / इयता भवतीत्युत्तरम् / कोत्राभिप्रायः? अग्रत्वमेव दशदिग्मध्यत्र्यध्वकुशलालम्बनत्वाच्चतुर्दशविधं भवतीति / यत्र तर्हि त्रयोदशपदानि तत्रापि दशदिक्त्र्यध्वभेदात् त्रयोदशविधम् / तत्र कथं मध्यमलोकधातोः संग्रहः? तन्मध्ये सूक्ष्ममवधिं कृत्वा दिशां ग्रहणात् / लोकधात्वेकदेशेष्वपि लोकधातुव्यपदेशात् / तद्यथा अष्टानां वा नवानां वा मासानामत्ययात् प्रसूतेति / यदा हि त्रिंशद्रात्रा मासास्तदाष्टौ / यदा मासैकदेशोपि मासस्तदा नव / न गृण्हीते ग्राह्यत्वेनाप्रतिभासात् / न मन्यते वस्तुत्वेनाप्रतिभासात् / नोपलभते स्वरूपतो अप्रतिभासात् / न कल्पयति सामान्यलक्षणेन / न विकल्पयति विशेषलक्षणैः / न पश्यति दृष्ट्या अनभिनिवेशात् / न समनुपश्यति सन्ततमनभिनिवेशात् / कल्पना अभूतपरिकल्पः / तथा विठपिताः संदर्शिताः / अजाता निर्बीजत्वात् / अनिर्जाता अनिष्पत्तेः / अनागतिका अनागतादध्वनःपूर्वलोकाद्वा / अगतिका अतीताध्वनि परलोके वा / एवं यावत् नापि निरुध्यत इति / निःस्वभावत्वात्परिकल्पतत्वाद्वेति हेतुः / एवमिति परिकल्पितेन स्वभावेन / इत्थं भूतान् एतान् धर्मानिति परतन्त्ररूपान् कुशलान् / धर्मतेति बालबुद्धिगोचरैः स्वभावैः शून्यता / अनुमोदनाधिकारेपि तथा अनुमोद्य तथैव परिणामयतीति वचनमवश्यपरिणामनीयत्वात् / शेषं व्याख्यतमेव यावत् न क्षमत इति / इत्यनुपलम्भानुमोदना प्रथमा //
पुनरपरमित्यादि / विमुक्तिर्निर्वाणम् / तच्च धर्मधातोः सर्वावरणविशुद्धिता परमार्थतस्तथैव सर्वं दानादीत्यर्थः / सङ्गस्तृष्णा / तदभावाद् (rst_65) असक्तानां तृष्णाहेतुकस्य जन्मनो ऽभावाद् अबद्धानाम् / ततो अमुक्तानाम् / अपरिणामनायोगे तस्याप्यनुपलम्भात् / स कथमित्याह / असंक्रान्तितो अविनाशत इति / तथाह्यवस्थान्तरसंक्रान्तिः परिणामः पूर्वविनाशापरोत्पत्ती वा / न च धर्मधातोरवस्था / न च संक्रमो नापि विनाश इति /
समादायोति गाचरतः (?) सावधिकमादाय / आक्रुष्टः शप्तः / अभिहतस्ताडितः / परिभाषितो भूताभूतदोषस्थानैः / समान् इति सन्नित्यर्थः / स्त्यानं च मिद्धं च तेनाभिभूता इति सम्बन्धः / तत्र स्त्यानं चित्तस्याकर्मण्यता स्तैमित्यम् / स्तैमित्यलक्षणा या चित्तस्याकर्मण्यता स्वालम्बनप्रतीतये तत् खलु स्त्यानम् / मिद्धमस्वतन्त्रवृत्तिश्चेतसो ऽभिसंक्षेपः / चेतसो ऽभिसंक्षेपश्चक्षुरादीन्द्रियद्वारेणाप्रवृतिः / स चेदस्वाधीना / चेतसो वृत्तिस्तन्मिद्धम् / शेषं सुबोधमापरिवर्तसमाप्तेः / उपायो विमुक्तिसादृश्यम् / तेनेयं धर्मधातोरनुमोदनानुपलम्भेनेत्युपायानुमोदना द्वितीया //
अनुमोदना च परिणामना च तस्याः / तयोरभिधायकः परिवर्तो अनुमोदनापरिणामनापरिवर्तः //
आर्याष्टसाहस्रिकायाः प्रज्ञापारमितायाः सारतमानाम्नि पञ्जिकायां रत्नाकारशान्तिविरचितायां षष्ठः परिवर्तः //
7. निरयपरिवर्तो नाम सप्तमः
लौकिको भावनामार्गस्त्रयो मनस्काराः / तदुक्तः / लोकोत्तरस्तु भावनामार्गो ऽनिर्हारः शुद्धिरत्यन्तंऽ इति पूर्वमुद्दिष्टः / तत्र निर्हारमधिकृत्य शास्त्रम्-
[55] स्वभावः श्रेष्ठता तस्य सर्वस्यानभिसंस्कृतिः / नोपलम्भेन धर्माणामर्पणा च महार्थता // 2-25 //
पञ्चाङ्गानि निर्हारस्य / ऽतस्यऽ इति भावनामार्गस्य प्रज्ञापारमिताविशेषस्य ऽस्वभावःऽ सर्वज्ञज्ञानपरिनिष्पादकत्वादिधर्मचक्रप्रवर्तकत्वपर्यन्तः / ऽश्रेष्ठताऽ षट् पारमितासु / अभिनिर्हारः सर्वधर्माणां ऽअनभिसंस्कारःऽ / अनुपलम्भेन सर्वधर्मानर्पयतीति ऽअर्पणाऽ / सर्वधर्मानुपलम्भेनैव बोधेः प्रापणात् ऽमहार्थताऽ इति / अत आह / अथ खल्वित्यादि / अस्य हि भावनामार्गस्य स्वभावः प्रज्ञापारमिता / कीदृशीत्याह / सर्वज्ञज्ञानस्य (rst_66) परिनिष्पत्तिः यतः सा तथोक्ता / सर्वज्ञत्वमिति सर्वावरणवासनानुसन्धिप्रहीणं ज्ञानम् / प्रहाणसम्पत्सहिता ज्ञानसम्पदित्यर्थः / तदपि सर्वज्ञत्वमेव / अत्रोपपत्तिरवभासकरोति / सर्वावरणतमःप्रहाणमवभासः / तत्करेति प्रहाणसम्पत् / सर्वधर्मपरमार्थप्रतिभासो वा अवभासः / तत्करेति ज्ञानसम्पत् / अतश्चैनां नमस्करोमि सांप्रतम् / नमस्करणीयेति / आयत्यां प्रतिक्षणम् / एकेन पदेन द्वे सम्पदावुक्ते / इदानीं पदद्वयेन प्रहाणमाह / अनुपलिप्तेति सर्वावरणमलक्षयात् / सर्वलोकनिरुपलेपेति त्रिअधातुकमलक्षयात् / इदानीं पदत्रयेण ज्ञानमाह / सर्वधर्मपरमार्थप्रतिभास आलोकः / तत्करा / अत्र द्वौ हेतू पदद्वयेनाह / तिमिरमज्ञानम् / तद्विपर्ययो वितिमिरं ज्ञानमित्यर्थः / सर्व समग्रं त्रैधातुक त्रैधातुकपरमार्थः / तस्मिन्वितिमिरम् / तत्करा / इत्यालम्बनव्याप्तिः / क्लेशाश्च दृष्टयश्च ता एवान्धकाराः / सर्वे च ते ते च तेषां अपनेत्रीति सर्वविपक्षक्षयः / इयता सर्वेण स्वार्थसम्पत्तिरुक्ता / परार्थसम्पत्तिमधिकृत्याह / आश्रयणीयेत्यादि / आश्रयणीया सर्वपदप्रेप्सुभिः / अग्राणि पदानि स्त्रोत आपत्तिः सकृदागामित्वं यावत्प्रत्येकबोधिः / तत्करा / तेषामुपायः सप्तत्रिंशद् बोधिपक्ष्याः / तेषां क्षमकरी विघ्नहरणात् / यावन्न लोकोत्तरज्ञानं तावद् अन्धाः / तेषां तदुत्पादनाद् आलोककरी / सर्वभयोपद्रवैः प्रहीण आलोको लोकोत्तर एव भावनामार्गः / तत्करा / इयता हीनयानिकानामर्थ उक्तः /
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
