Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Chưa xếp loại
सारतम
- Tác giả
- रत्नाकरशान्ति
- Thông tin
- GRETIL — Padmanabha S. Jaini: Sāratamā. A Pañjikā on the Aṣṭasāhasrikā Prajñāpāramitā Sūtra by Ratnākaraśānti. Patna : Kashi Prasad Jayaswal Research Institute, 1979. (Tibetan Sanskrit Works Series, 18).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
रत्नाकरशान्ति: सारतम
रत्नाकरशान्तिविरचिता आर्याष्टसाहस्रिकायाः प्रज्ञापारमितायाः सारतमाख्या पञ्जिका
1. सर्वाकारज्ञताचर्यापरिवर्तो नाम प्रथमः //
नमः सर्वबुद्धबोधिसत्त्वेभ्यः /
भवति बहुतरार्के केवलं यस्य लोके दिनमुदयसमृद्ध्या रात्रिरस्तङ्गमेन / प्रतिविषयविसारी शुद्धिमानस्तु वंशः (?) स गुरुगुणनिधेर्वो जायतां बुद्धबोधः //
.............नमः शरणं दशबलास्ते वा (?) //
यस्याः कतिपयवर्णा धृताः कर्णपुटैरपि / बोधेर्भवन्ति बीजानि जिनमाता प्यत्यसौ / मैत्रेयस्य विभोरलंकृतिमयः पोतो यदर्थार्णवे निर्णीतं बहुविस्तराकृतिसमैर्यस्या निजांशेरपि / व्याचष्टे वचसा स्फुटेन लघुना मन्दो ऽपि रत्नाकारः प्रज्ञापारमितां.......न महतां (तीं) तामष्टसाहस्रिकाम् //
(rst_2) अथ कस्मादियं व्याख्यायते?
सूत्रं गेयं व्याकरणं गाथा उदानं निदानं अवदानं इतिवृत्तकं जातकं वैपुल्यं अद्भुता धर्माः उपदेशाश्चेति /
तत्र सूत्रं कतमत्? यत्र गम्भीरपदैरर्थसूचनम् / गेयं कतमत्? सूत्रमेव [यद्गीयते] / यच्च नेयार्थं सूत्रं तदपि गेयं गम्यत्वात् / व्याकरणं [कतमत्? यत्र] श्रावको ऽभ्यतीतः कालगत उपपत्तौ व्याक्रियते / यच्च नीतार्थं सूत्रं तेन हि [स्फुटाभिप्रायेण] व्याख्यानात् / गाथा कतमा? यत्र [द्विपदा त्रिपदा चतुष्पदा पञ्चपदा] षट्पदा च / उदानं कतमत्? यदुद्दिश्य भाषितम् / सोत्पत्तिशिक्षाप्रज्ञप्तिभाषितं वा / अवदानं कतमत्? सदृष्टान्तकभाषितम् / इतिवृत्तकं कतमत्? पूर्वयोगप्रतिसंयुक्तम् / [जातकं कतमत्? बोधिसत्त्वचर्याप्रतिसंयुक्तम् / वैपुल्यं कतमत्?] यद्बोधिसत्त्वपिटकप्रतिसंयुक्तम् / सर्वसत्त्वहितसुखाधिष्ठानत्वात् / अद्भूता धर्माः कतमे? यत्र श्रावकबोधिसत्त्वबुद्धानामाश्चर्याद्भुता धर्मा देश्यन्ते / उपदेशाः कतमे? यत्राविपरीतं धर्मलक्षणमुपदिश्यते [तत्रोपदेशे ऽन्तर्गतेयं भगवती सूत्ररत्नम् /]
परमपुरुषार्थसाधनस्य परमगम्भीरस्य धर्मस्य सर्वैराकारैः सूचनात् / अथैषा कतिभिः पदार्थैरभिधेयैर्दर्शिता? कतमे वत इति प्रश्ने शास्त्रम्-
[1] प्रज्ञापारमिताष्टाभिः पदार्थैः समुदीरिता / सर्वाकारज्ञता मार्गज्ञता सर्वज्ञता [ततः] // 1-3 //
[2] [सर्वा]काराभिसम्बोधो मूर्द्धप्राप्तो ऽनुपूर्विकः / एकक्षणाभिसम्बोधो धर्मकायश्च ते ऽष्टधा // 1-4 //
इति / स्वार्थे ऽधाऽ प्रत्ययः / इमे ते ऽष्टावित्यर्थः / बोध्यभिमुखः सम्यग्बोधिऽ ऽभिसम्बोधःऽ / अत एवा....... / अभिसमीयते सप्तभिः प्राप्यते यतः / मूर्धा प्रकर्षः / तं प्राप्तो ऽमूर्धप्राप्तःऽ / अनुपूर्वमनुक्रमः / तद्योगात् ऽअनुपूर्विकःऽ / उभयत्रापि ऽसम्बोधऽ इति वर्तते /
पुनः शास्त्रम्-
[3] लक्षणं [तत्प्रयोगस्तत्प्रकर्षस्तदनुक्रमः /] [तन्निष्ठा तद्विपाकश्चेत्यन्यः षोढार्थ] संग्रहः // 9-1 //
अथवा........षडर्थाः / यत आदौ त्रिविधा सर्वज्ञता तत् ऽलक्षणंऽ प्रज्ञापारमितायाः / ततश्चत्वारो ऽस्याः प्रयोगः प्रयोगप्रकर्षः प्रयोगानुक्रमः प्रयोगनिष्ठा चेति / ........ /
पुनः शास्त्रम्-
[4] विषयास्त्रितयो हेतुः प्रयोगश्चतुरात्मकः / धर्मकायः फलं कर्मेत्यन्यस्त्रेधार्थसंग्रहः // 9-2 //
अथवातिसंक्षेपतो ऽस्यां त्रयो ऽर्थाः / तथा हि त्रिविधः प्रयोगविषयः सर्वज्ञतात्रयश्च[तद्धेतुः] ऽविषयःऽ / ऽप्रयोगश्चतुरात्मकऽ / सर्वाकारा हि सम्बोधादिः / तस्य हेतोः ऽफलं धर्मकायःऽ तत् ऽकर्मऽ च /
तदेवमष्टौ षट् त्रयो वास्य सूत्रस्यार्थाः साकल्येन / प्राधान्येन पुनरेक एव वार्थः / अन्यथा एकवाक्यतापि न स्यात् / दशदाडिमादिपसमूहवत् / अवयवार्थैः परस्परो[पर]क्तस्य स्वार्थेन (?) एकत्वादुपसंहारात् / तस्मात् सम्बद्धान्(नु)गुणोपायात् / सम्यक्सम्बोधिरत्र (rst_4) प्राधान्येनोच्यत इत्येके / तदसत् / यतः सम्यक्सम्बोधिः श्रावकपिटके ऽप्यतिप्रतीतत्वादजिज्ञासिता / प्रज्ञापारमिता तु तत्राविदितत्वाज्जिज्ञासितेति / सैव [शास्त्रे प्राधान्येन]अभिधीयते / [दुरधिमोक्षा] गम्भीरत्वात् / भगवतस्तु वचनात् [प्रतिलब्धाद्] अधिमुच्यते.............. / ततो ऽपीयं प्राधान्येन भगवता वक्तव्या / यथा यथा चेयमधिमच्यते तथा तथा बोधेरासन्नीभवति / ततो ऽपीयं प्राधान्येन वचनीया / अष्टासु चाभिसमयेषु यथा [सारं तथेयं] विस्तरेणोच्यमाना कथं प्राधान्येन नोच्यते? प्रज्ञापारमितैव मार्गः सम्बोधेः / शेषाणामपि तथैव मार्गीकरणात् / इत्येवमियमुच्यमाना सुतरां प्राधान्येनोच्यत इत्यलमतिविस्तरेण / अत एव प्राधान्येन व्यपदेशादेतत्सूत्रं प्रज्ञापारमिता / [न सम्यक्सम्बोधि]रिति / तस्मात्प्रज्ञापारमितैवः....... /
एवं मयेत्यादि / अथ कस्येदं वचनम्? संङ्गीतिकारस्य / सङ्गीतत्वेन लोके संप्रत्ययार्थम् / तत्किं ........प्रक्षेपः? नैवम् / भगवदाज्ञयैवं तेन पाठात् / उक्तं हि भगवता [श्रुतं मया] इति सङ्गीतिकारः अडकवतीनिवासी वज्रपाणिर्महाबोधिसत्त्वः / स हि भाद्रकल्पिकानां तथागतानां रूपकायस्य धर्मकायस्य च रक्षाधिकृतः पृष्ठतो ऽवगतः / एवं ते (तैः?) प्रत्यर्पितशासनश्च....... / ............. .......... यतो ऽस्यामच्यु (?)तसमाधिनिश्रितो महान् धर्मावभासस्तस्मात् प्रभाकरी / यतो ऽस्यां बोधिपक्ष्यैः संक्लेशेन्धनदहनं तस्मादर्चिष्मती / यतो ऽस्यां लौकिकलोकोत्तरयोर्विद्यासत्यज्ञानयोरन्योन्यविरोधाद्दुष्करः परिजयस्तस्मात्सुदुर्जया / यतो ऽस्यां प्रतीत्यसमुत्पादप्रविचयादभिमुखो भवत्यसङ्गमुखाख्यः प्रज्ञापारमिताविहारस्तस्मादभिमुखी / यतो ऽस्यां बोधिपक्ष्यसत्य[प्रतीत्य] समुत्पादालम्बनो निर्निमित्तविहार आभोगवाही तस्माद्दूरंगमा / यतो ऽस्यां स एव स्वरसवाहित्वादचलः तस्मादचला / यतो ऽस्यां प्रतिसंविभ्दिर्धार्मकथिकत्वाद्बोधिसत्त्वः साधुस्तस्मात् साधुमती / यतो ऽस्यां बोधिसत्त्वो ऽभिषिच्यते यौ[व]राज्याय तस्माद्धर्ममेघा / ..........एताः प्रत्येकं षड्भिः पारमिताभिः संगृहीताः यथाक्रमम् / एतासु दश पारमिता अतिरिच्यते /
कतमा दश?
"दानं शीलं क्षमा वीर्य ध्यानं प्रज्ञा उपायता / प्रणिधानं बलं ज्ञानमेताः पारमिता दश //"
तत्र यत्पारमितोपचितस्य कुशलमूलस्यानुत्तरायां सम्यक्सम्बोधौ सम्यक्परिणामनमुपादाय पारमिता तेनोपायेन तस्याक्षयीकरणात् / आह च / "आबोधे क्षयमिति स्वल्पमपि न बोधिपरिणतं कुशलम् / आसमन्तात्पतितः पयोनिधौ सलिलबिद्नुरिव" इति / भद्रचर्यादिकं प्रणिधानपारमिता यया प्रतिजन्म यत्पारमिताश्चरति / भावनाबलं प्रतिसंख्यानबलं च बलपारमिता / यया प्रत्यहं प्रतिक्षणं ताश्चरति / यथाभिप्रायमयथारुतं महायानस्य परिज्ञानं ज्ञानपारमिता /
भूमीनां विस्तर आर्यदशभूमकादौ / परिकर्माणि पुनरासां महत्योर्भगवत्योरुद्दिष्टानि निर्दिष्टानि च भूमीनां परिकर्माण्यधिकृत्य शास्त्रे त्रयोविंशतिः श्लोकाः / तानि यथाभूमि पृथक्कृत्य वक्ष्यामः /
[5] लभ्यते दशमा (प्रथमा) भूमिदर्शधा परिकर्मणा / आशयो हितवस्तुत्वं सत्त्वेषु समचित्तता // 1-48 //
[6] त्यागः सेवा च मित्राणां सद्धर्मालम्बनैषणा / सदा नैष्क्रम्यचित्तत्वं बुद्धकायगता स्पृहा // 1-49 //
[7] धर्मस्य देशना सत्यं दशमं वाक्यमिष्यते / ज्ञेयं च परिकर्मैषां स्वभावानुपलम्भतः // 1-50 //
ऽदशधाऽ इति दशविधेन / तच्चाशयादि // ऽआशयःऽ श्रद्धाछन्दौ / ऽहितवस्तुत्वंऽ सर्वसत्त्वहितैषिता / हेतुरस्याः ऽसत्त्वेषु प्रशमचित्तताऽ / ऽत्यागो ऽ दानपारमिता / ऽएषणाऽ पर्येषणा / सा च ऽसद्धर्मालम्बनाऽ धर्मपर्येष्टिरित्यर्थः / गृहवासान्निष्क्रमणं निष्क्रमः / स्वार्थे ष्यञ् ऽनैष्क्रम्यंऽ तच्चित्तता / ऽस्पृहाऽ इत्यत्र सदेति वर्तते / ऽसत्यंऽ चोक्तमिति सत्यवचनं तद्दशमम् / ऽएषांऽ इत्याशयादीनाम् //
[8] शीलं कृतज्ञता क्षान्तिः प्रामोद्यं महती कृपा / गौरवं गुरुशुश्रूषा वीर्यं दानादिके ऽष्टमम् // 1-51 //
(rst_6) ऽशीलंऽ शीलपरिशुद्धिः / ऽक्षान्तिःऽ क्षान्तिबलम् / प्रमोद एव ऽप्रामोद्यम्ऽ ऽमहतीऽ सर्वसत्त्वापरित्यागितया / ऽगौरवंऽ गौरवार्हेषु / ऽगुरूशुश्रूषाऽ कल्याणमित्रेष शास्तृसंज्ञा / ऽदानादिके ऽ इति पारमितासु / ऽअष्टमऽ ग्रहणादष्टावेव परिकर्माणि द्वितीयायाम् /
[9] अतृप्तता श्रुते दानं धर्मस्य च निरामिषम् / बुद्धक्षेत्रस्य संशुद्धिः संसारोपरिखेदिता // 1-52 //
[10] ह्रीरपत्राप्यमित्येतत् पञ्चधामननात्मकम् /
ऽश्रुतंऽ बाहुश्रुत्यम् / ऽसंशुद्धिःऽ परिशुद्धिः / सा तस्यामेव पुण्यपरिणामनात् / ऽअमननात्मकंऽ तेनामननात् / ऽपञ्चधाऽ इति वचनात् पञ्चैव परिकर्माणि तृतीयायाम् / वनाशाल्पेच्छता तुष्टिर्धुतसंलेखसेवनम् // 1-53 // [11] शिक्षाय अपरित्यागः कामानां विजुगुप्सनम् / निर्वित्सर्वास्तिसंत्यागा[वन]वलीन[त्वान्]पेक्षते // 1-54 //
वनस्य (ऽवानाशा) अरण्यवासस्तत्कार्यत्वात् / ऽतुष्टिःऽ सन्तुष्टिः / ऽधुतऽ गुण ऽसंलेखस्यऽ ऽसेवनंऽ अनुत्सर्गः / ऽनिर्वित्सर्वास्तिसंत्यागौऽ इति निर्वेदः सर्वसतां त्यागश्च / ऽअनवलीनत्वानपेक्षते ऽ इति / अनवलीनचित्तता सर्ववस्तुनिरपेक्षता च / अनवलीनत्वं असंकुचुतत्वम् / दशेति वक्ष्यमान(ण)मनुवर्तते / ततो दशैव परिकर्माणि चतुर्थ्याम् /
[12] संस्तवं कुलमात्सर्य स्थानं सङ्गणिकावहम् / आत्मोत्कर्षपरावज्ञे कर्ममार्गान् दशाशुभान् // 1-55 //
[13] मानं स्तम्भं विपर्यासं विमतिं क्लेशमर्षणम् / विवर्ज[य]न् समाप्नोति दशैतान् पञ्चमीं भुवम् // 1-56 //
ऽसंस्तवो ऽ गृहिप्रव्रजितैः / ऽकुलेषुऽ उपसं[क्र]मणीयागृहेषु ऽमात्सर्यम्ऽ / ऽसङ्गणिकाऽ अप्रतिरूपकथा / ऽउत्कर्षणम्ऽ / ऽअवज्ञाऽ (rst_7) पंसनम् / ऽकर्ममार्गाःऽ ऽकर्मपथाःऽ / ऽमानःऽ चित्तोन्नतिः / ऽस्तम्भो ऽ गुरूष्वप्रणतकायता / ऽविपर्यासो ऽ विपरातार्थग्राहः / ऽविमतिःऽ विचिकित्सा / ऽक्लेशमर्षणंऽ रागद्वेषमोहाधिवासनम् / ऽएतान्ऽ इति संस्तवादीन् /
[14] दानशीलक्षमावीर्यध्यानप्रज्ञा प्रपूरकः / शिष्यखड्गस्पृहात्रासचेतसां परिवर्जकः // 1-57 //
[15] याचितो ऽनवलीनश्च सर्वत्यागेप्यदुर्मनाः / कृशो ऽपि नार्थिनां क्षेप्ता षष्ठीं भूमिं समश्नुते // 1-58 //
षण्णां पारमितानां प्रत्येकं पूरक इति षड्धर्माः / श्रावकस्पृहायाः प्रत्येकबुद्धस्पृहायाः परित(त्र)सनचित्तस्य च परिवर्जक इति त्रयः / याचितस्यानबलीनचित्तता, सर्वस्वत्यागे ऽप्यदौर्मनस्य, दौर्बल्येपि न याचकानां क्षेप इति त्रयः / एभिर्द्वादशभिर्धर्मैः षष्ठिं भूमिं प्राप्नोति /
[16] आत्मसत्त्वग्रहो जीवपुद्गलोच्छेदशाश्वते / निमित्तहेत्वोः स्कन्धेषु धातुष्वायतनेषु च // 1-59 //
[17] त्रैधातुके प्रतिष्ठानं सक्तिरालीनचित्तता / रत्नत्रितयशीलेषु तद्दृष्ट्यभिनिवेशिता // 1-60 //
[18] शून्यतयां विशा(षा)दश्च तद्विरोधश्च विंशतिः / कलङ्का यस्य विच्छिन्नाः सप्तमीमेत्यसौ भुवम् // 1-61 //
[19] त्रिविमोक्षमुखज्ञानं त्रिमण्डलविशुद्धिता / करुणा मनना धर्मसमतैकनयज्ञता // 1-62 //
[20] अनुत्पादक्षमाज्ञानं धर्माणामेकधेरणा / कल्पनायाः समुद्घातः संज्ञादृक्लेशवर्जनम् // 1-63 //
[21] शमथस्य च निध्यप्तिः कौशलं च विदर्शने / चित्तस्य दान्तता ज्ञानं सर्वत्राप्रतिघाति च // 1-64 //
[22] श(स)क्तेरभूमिर्यत्रेच्छं क्षेत्रान्तरगतिः समम् / सर्वत्र स्वात्मभावस्य दर्शनं चेति [विंशतिः] // 1-65 //
द्वितीयात् ऽविंशतिऽ शब्दादूर्ध्वं गुणाः......आत्मग्रहादयो ऽविंशतिःऽ / ऽकलङ्काःऽ दोषाः / यस्य ऽविच्छिन्नाःऽ प्रहीणाः / त्रिविमोक्षमुखज्ञानादयश्च विंशतिः गुनाः (णाः) परिपूर्णाः स सप्तमीं भूमिं प्राप्नोतीति समासतो ऽर्थः /
ऽ ग्रहो ऽऽभिनिवेषः(शः) / तस्य विशेषणमात्मादिरायतनपर्यन्तः / शाश्वतोच्छेद..........................रत्नादि (?) दृष्टिः / तस्यां ऽअभिनिवेषि (शि)ताऽ निश्रयः / ऽविषादःऽ खेदः / ऽतद्विरोधःऽ शून्यताया बाधनम् / ऽसमंऽ इति सहेत्यर्थः /
तत्र कलङ्कनिर्देशानामा(म)र्थः / आत्मग्राहः / सत्त्वग्राहः / जीवग्राहः / पुद्गलग्राहः / उच्छेदग्राहः / शाश्वतग्राहः / निमित्तग्राहः / हेतुग्राहः / स्कन्धग्राहः / [धातुग्राहः / आयतनग्राहः /] त्रैधातुके अध्यवसानम् / त्रैधातुके आलयः / बुद्धिदृष्टिनिश्रयः / धर्मदृष्टिनिश्रयः / सङ्घदृष्टिनिश्रयः / शीलदृष्टिनिश्रयः / शून्या धर्मा इति विषाढः / शन्यताविरोधश्चेति /
गुणानिर्देशानामर्थः / शून्यतापरिपूर्तिः / आनिमित्तसाक्षात्क्रिया / अप्रणिहितज्ञानम् / [त्रिमण्डलविशुद्धिता / करुणा / मनना] / सर्वधर्मसमतादर्शनम् / भूतनयप्रतिवेधः / अनुत्पादक्षान्तिज्ञानम् / एकनयनिर्देशः / सर्वधर्माणां कल्पनासमुद्धातः / संज्ञादृष्टिविवर्तः / क्लेशविवर्तः / शमथनिध्यप्तिः / विपश्यनाकौशल्यम् / दातुचित्तता / अनुनयस्याभूमिः / यथेच्छक्षेत्रगमनम् / तत्र चबुद्धपर्षन्मण्डे[स्वात्मभाव]दर्शनमिति //
[23] [सर्वसत्त्वमनोज्ञान] मभिज्ञाक्रीडनं शुभा / बुद्धक्षेत्रस्य निष्पत्तिर्बुद्धसेवापरीक्षणे // 1-66 //
[24] अक्षज्ञानं जिनक्षेत्रशुद्धिर्मायोपमा स्थितिः / सञ्चिन्त्य च भवादानमिदं कर्माष्टधोदितम् // 1-67 //
इति / ऽशुभा निष्पत्तिःऽ इति सम्बन्धः / परिशुद्धेत्यर्थः / ऽअष्टाधाऽ इति वचनात् आष्टवेव परिकर्माण्यष्टम्याम् / तद्यथा / सर्वसत्त्वचित्तानुप्रवेशः / अभिज्ञाचित्ता [नुक्रिडनम् /] / बुद्धक्षेत्रनिष्पादनम् / बुद्धानां सेवा च परीक्षणं चेत्येकीक्रियते / इन्द्रियपरापरज्ञानम् / बुद्धक्षेत्रपरिशोधनम् / (rst_9) मायोपमस्य समाधेरभीक्ष्णं समापत्तिः सञ्चित्य भवो[प]पत्तिश्च / द्विविधं बुद्धक्षेत्रम् / आदौ भाजनलोकः पश्चात् सत्त्वलोक इति /
[25] प्रणिधानान्यनन्तानि देवादीनां रुतज्ञता / नदीव प्रतिभानानां गर्भावक्रान्तिरुत्तमा // 1-68 //
[26] कुलजात्योश्च गोत्रस्य परिवारस्य जन्मनः / नैष्क्रम्यबोधिवृक्षाणां गुणपूरेश्च संपदः // 1-69 //
अष्टमानन्तरं नवमी / तस्याः परिकर्माणि द्वादश / अनन्तं प्रणिधानम् / देवादिरुतज्ञानम् / परिपूर्णं प्रतिभानम् / गर्भावक्रान्तिसम्पत् / कुलसंपत् / जातिसंपत् / गोत्रसंपत् / परिवारसंपत् / जन्मसंपत् / नैष्क्रम्यसंपत् / बोधिवृक्षसंपत् / गुणपूरिसम्पच्च /
[27] नवभूमीरतिक्रम्य बुद्धभूमौ प्रतिष्ठते / येन ज्ञानेन सा ज्ञेया दशमी बोधिसत्त्वभूः // 1-70 //
ऽनवभूमीःऽ इति गोत्रादिभूमिः / तत्र गोत्रभूमिः निर्वाणगोत्रकाणम् / अष्टमकभूमिः श्रोतआपत्तिफलप्रतिपन्नकस्य / दर्शनभूमिः श्रोतआपन्नस्य / तनुभूमिः सकृदागमिनः / वीतरागभूमिरनागामिनः / "कृतं करणीयं" इति ज्ञानात् कृतावी अर्हन् / तस्य भूमिः कृताविभूमिः / श्रावकभूमिः श्रावकस्य / सैव षड्विधा प्रत्येकबुद्धस्य / बोधिसत्त्वभूमिः बोधिसत्त्वस्य / पूर्वोक्ता नवभूमयः / एता नवभूमीरतिक्रम्य येन ज्ञानेन बोधिसत्त्वो बुद्धभूमौ प्रतिष्ठितो भवति सा दशमि बोधिसत्त्वभूमिः / इति भूमिसम्भरः /
प्रति[पक्ष]मधिकृत्य शास्त्रम्-
[28] प्रतिपक्षो ऽष्टधा ज्ञेयो दर्शनाभ्यासमार्गयोः / ग्राह्यग्राहविकल्पानामष्टानामुपशान्तये // 1-71 //
ऽअभ्यासो ऽ भावना / ग्राह्यो, ग्राहकः / दर्शनमार्गे द्वौ ग्राह्यविकल्पौ / वस्तुमात्राधिष्ठानः प्रतिपक्षधिष्ठानश्च / द्वौ ग्राहकविकल्पौ / पुद्गलद्रव्याधिष्ठानः पुद्गलप्रज्ञप्त्यधिष्ठानश्च / [एवं भावनामार्गे विकल्प]प्रहाणाय अष्टौ प्रतिपक्षाः / प्रतिपक्षसम्भारः //
तत्र दर्शनमार्गे तथतादीनां रूपादीनां स्वप्नादीनां च ग्राह्यवस्तूनामुपलम्भो विकल्पः / तद्धर्मतोपलम्भलक्षणो ऽनुपलम्भः प्रतिपक्षः / दानादीनां बुद्धधर्मपर्यन्तानां प्रतिपक्षवस्तूनामुपलम्भो विकल्पः / अनुपलम्भः प्रतिपक्षः / अ................अनुपलम्भप्रतिपक्षः / नामसंकेतव्यवहारादेरुपलम्भो विकल्पः / अनुपलम्भः प्रतिपक्षः / भावनामार्गे तु न स्थिता नास्थिताः सर्वधर्मा अस्थानयोगेन / धर्मधातुयोगेनेत्यर्थः / इति ग्राह्यवस्तूनामनुपलम्भः / दानादीनां प्रतिपक्षवस्तूनामनुपलम्भः / श्रोत आपन्न.......पुद्गलप्रज्ञप्त्याश्रयाणां श्रोतआपत्तिफलादीनामनुपलम्भः / इति प्रतिपक्षसंभारः / समाप्ता च संभारप्रतिपत्तिः //
निर्यास्यतीत्येतेन निर्याणप्रतिपत्तिः प्रस्ताविता / तामधिकृत्य शास्त्रम्-
[29] उद्देशे समतायां च सत्त्वार्थे यत्नवर्जने / अत्यन्ताय च निर्याणं निर्याणं प्राप्तिलक्षणम् // 1-72 //
[30] सर्वाकारज्ञातायां च निर्याणं मार्गगोचरम् / निर्याणप्रतिपज्ज्ञेया सेयमष्टविधात्मिका // 1-73 //
एतदाह / एवमुक्ते इत्यादिना सुभूतिरवोचदिति / किमवोचत? महायानमित्यादि / यस्मादनेन सदेवमानुषासुरं लोकमभिभूय बोधिसत्त्वो निर्यास्यति / तस्मादिदं यानं महायानमित्युच्यते / अभिभूय निर्यास्यतीति समानकाले क्त्वाप्रत्ययः / संमील्य हसतीत्यादिवत् / कस्मादसौ सर्वलोकमभिभवति? तदलभ्यस्य माहात्म्यस्य लाभात् / किं पुनस्तत्? सत्त्वराशेरग्रतासंपादनम् / सत्त्वराशिमहत्तया प्रहाणमहत्तया अधिगममहत्तया च महत् / इतीदमुद्देशनिर्याणम् //
आकाशमहत्तया तन्महायानमिति / तद् यानं महदुच्यत इति सम्बन्धः / आकाशसमतयेति / कथं समता? यथाकाशं न दिग्भिर्भिद्यते / अवर्णसंस्थानमप्रतिघमनिर्दर्शनमनन्तममध्यन्न हीयते न वर्धते नोत्पद्यते न निरुध्यते न कामधातुपर्यापन्नं न रूपधातुपर्यापन्नं नारूप्यधतुपर्यापन्नम् / तथैव महायानम् / तस्माद्यथाकाशसमतया महत्तद्यानम् / इति समतानिर्याणम् /
यथा आकाशे इत्यादि / आकाश अवकाशो ऽन्तर्भावात् / महायाने अवकाशः / तेन तेषामर्थकरणात् / लोकधातुभिः संख्याभिर्दिग्भिश्चापरिच्छिन्नत्वात् / अप्रमेया असंख्येया अपरिमाणाः / पर्यायेणेति प्रकारेण / कथं च तावतामवकाशः यतः सत्त्वासत्तया आकाशासत्ता / आकाशासत्तया महायानासत्ता / महायानासत्तया सर्वधर्मासत्ता / इति हि सत्त्वाश्चाकाशं च महायानं च सर्वधर्माश्चारूपिणो ऽनिदर्शना अप्रतिघा एकलक्षणा यदुतालक्षणाः / एवमियता सत्त्वानां महायाने अवकाशः / इति सत्त्वार्थनिर्याणम् //
नैवास्येत्यादि / आगमः आगमनम् / निर्गमः निर्गमनम् / स्थानं गतिनिवृत्तिः / त्रयं महायानस्य नास्ति / अचला हि सर्वधर्माः / यतस्तेषां प्रकृतिर्न क्वचिद्गच्छति न कुतश्चिदागच्छति न क्वचित्तिष्ठति / परिष्यन्दश्चाभोगः / इति अनाभोगनिर्याणम् /
एवमस्येत्यादि / एवमित्याकाशस्यैव / अस्येति महायानस्य / पूर्वान्त इत्यतीतो ऽर्थः / अपरान्त इत्यनागतो ऽर्थः / मध्यः प्रत्युत्पन्नः / त्रयमप्येतन्महायानस्य नोपलभ्यते / त्रयध्वसमं तद्यानं तस्मान्महायानम् / कथं त्र्यध्वसमम्? यतो ऽतीतो ऽर्थोतीतार्थेना (न) शून्यः / अनागतो ऽर्थो ऽनागतार्थेना(न) शून्यः / अनागतो ऽर्थो ऽनागतार्थेना(न) शून्यः / प्रत्युत्पन्नः प्रत्युत्पन्नेन / त्र्यध्वसमता त्र्यध्वसमतया / महायानं महायानेन / बोधिसत्त्वो बोधिसत्त्वेन शून्यः / न च शून्यता अतीता व अनागता वा प्रत्युत्पन्ना वा / न तस्यां संक्लेश उपलभ्यते न व्यवदानम् / न संसारो न निर्वाणम् / तस्मात् त्रयध्वसमं तद्यानम् / इत्यन्ताभावादत्यन्तनिर्याणम् /
अथ खलु भगवान् इत्यादि / अत्र भगवानाह / यानशब्दार्थनिर्देशे सुभूतेः साधुकारं दत्वा अत्र शिक्षित्वेत्यादिना प्राप्तिनिर्याणं प्ररतौति / अत्र सर्वज्ञतेति सर्वाकारज्ञता / अथ खल्वित्यादिना पूर्णस्य प्रश्नः / प्रज्ञापारमिताधिकारे महायानस्य परेषामप्रस्तुतत्वाशङ्कानिवृत्त्यर्थः / बुद्धानुभावाद् भगवन् इत्येतत्पर्यन्तेन परिहारः / अनुलोमं निर्दिशसि इति त्वं हि अर्वधर्मान् महायाननिःस्वभावान् निर्दिशसि / निःस्वभावताज्ञानं च तेषां प्रज्ञापारमितैव / तस्मादनुलोमं निर्दिशसीति भावः / अपि तु खलु पुनरित्यादिना प्रकृतमेव प्राप्तिनिर्याणमधिकृत्य तस्यां पाप्तौ द्वादशविशेषान् द्वादशभिर्वाक्यैराह / अत एव विशेषद्योतनार्थो ऽपितुशब्दः / तत्र अपि तु खल्वित्यादि प्रथमम् / तत्कस्येत्यादि द्वितीयम् / रूपं बोधिसत्त्व इत्यादि तृतीयम् / एवं भगवन्नित्यादि चतुर्थम् / बुद्ध (rst_12) इत्यादि पञ्चमम् / यथा आत्मेत्यादि षष्ठम् / एवमभावस्वभावाः सर्वधर्मा इति सप्तमम् / कतमत्तदित्याद्यष्टमम् / एवमेतेषामित्यादि नवमम् / तत्किमित्यादि दशमम् / न चेत्याद्येकादशम् / स चेत्यादि द्वादशम् / कल्पितेषु अनभिनिवेशाभ्यासनिष्ठायां तदभिनिवेशजन्मनः परन्तत्रस्य सर्वथा निवृत्तौ सर्वाकरज्ञता बोधिसत्त्वेन प्राप्यत इति समुदायार्थः /
अवयवार्थस्तूच्यते / उक्तं भगवता "अत्र महायाने शिक्षित्वा अतीतानागतप्रत्युत्पन्ना बोधिसत्त्व महासत्त्वाः सर्वाकारज्ञतामनुप्राप्ता अनुप्राप्स्यन्ति अनुप्राप्नुवन्ति चेति / तत्र न पूर्वान्त उपलभ्यते नापरान्तो न मध्यः / ततो न सत्त्वा न सर्वधर्मा न बोधिसत्त्वः" इति / सत्त्वाश्च सर्वधर्माश्च बोधिसत्त्वश्च पूर्वान्तापरान्तमध्यानि च सर्वमेतदद्वैधीकारम् / तस्मात्पूर्वान्तादिषु बोधिसत्त्वो नोपैतीति प्रथमस्यार्थः / तत्कस्य हेतोरिति / तत्पूर्वान्तादीनामसत्त्वं कुतः? हेतुमाह / रूपापर्यन्ततयेत्यादि / रूपादय आकाश(श)समाः / रूपादिशून्यतामुपादाय / अत एते ऽपर्यन्ताः / पूर्वान्तापरान्तमध्यरहिताः / एवं बोधिसत्त्व इति द्वितीयस्यर्थः //
रूपादिकं बोधिसत्त्व इति नोपैति नावगच्छति / यस्मात् इदमपि न विद्यते नोपलभ्यते रूपादि शून्यतामुपादाय / न हि शून्यताया रूपादिकमस्ति नापि बोधिसत्त्व इति तृतीयस्यार्थः //
एवमिति प्रतिभासमानेन रूपेण / बोधिसत्त्वधर्ममिति / बोधिसत्त्वाख्यरूपादि / सर्वेणेति स्कन्धधात्वादिवर्गभेदेन / सर्वेण सर्वमिति सर्वयथा भवति पूर्णावयवत्वाद् वर्गाणाम् / पुनः सर्वमिति तेषु वर्गेष्वेकैकम् / सर्वं सर्वथेति स्वेन स्वेन इतरेतरैश्च सर्वैरनुपलभमानः / तैः शून्यत्वात् / सर्वज्ञतामपीति सर्वाकारभूतामपि / सो ऽहम् इत्यादि / तं धर्ममिति बोधिसत्त्वाख्यम् / प्रकरणाद्गम्यते प्रज्ञापारमितामपि सर्वाकारज्ञतामपीति / धर्ममिति बोधिसत्त्वाख्यम् / धर्मेणेति प्रज्ञापारमिताख्येन / धर्मे इति सर्वाकारज्ञताख्ये प्राप्तस्य / अववदिष्यामि प्राप्तये / नैव कश्चित्केनचित्क्वचिदित्यर्थः / एवमेव वादाभाव अनुष्ठानाभावान्न कस्चिन्न केनचिन्न क्वचित्प्राप्नोतीति चतुर्थस्यार्थः //
बुद्ध इति बुद्धत्वं सर्वाकारज्ञतेत्यर्थः / नामधेयमात्रमिति / अर्थशून्यं नाम / तथाहि नार्थस्य स्वभावो नाम प्राक्सङ्केतार्थमात्रदर्शनात् / (rst_13) नापि नाम्नः स्वभावोआर्थः / अविदितार्थस्य नाम्नः केवलस्यैव प्रतीतेः / असत्येपि चार्थे शब्दप्रयोगात् / निरर्थकं नाम / अत एव तच्च नामधेयमनभिनिवृत्तं नामधेयत्वेनासिद्धम् / अतो ऽनभिनिवृत्तेन बोधिसत्त्वनाम्ना अनभिनिर्वृत्तं सर्वाकारज्ञता नाम न प्राप्यत इति पञ्चमस्यार्थः /
एवं तावत्पञ्चभिर्वाक्यैर्धर्मनैरात्म्यमुखेन नामधेयमुखेन च कल्पितस्य प्राप्तिः प्रतिषिद्धा / पुगलनैरात्म्यमुखेनापि तत्प्रतिषेधाय षष्ठं चोक्तम् / यथा आत्मा आत्मेति च भगवन्नुच्यते आत्यन्ततया च भगवन्ननभिनिर्वृत्त आत्मेति / अत्यन्ततयेत्येकान्तेन / अनभिनिर्वृत्त इत्यसद्भूतः / यथालक्षणमसत्त्वात् / यथाशब्दात् प्रकरणाच्च गम्यते तथ सर्वधर्मा बोधिसत्त्वश्चेति //
परतन्त्रस्वभावमधिकृत्य सप्तमं चोक्तम् / एवमभावस्वभावाः सर्वधर्मः इति / कुतः एतत्? यतो महत्योर्भगवत्योर्द्वादशभिरेभिर्वाक्यैरुद्देशः सुभूतिना कृते तत एषां द्वादशानामभिधानकारणप्रश्नेषु शरिपुत्रेण कृतेषु थविरसुभूतिः कारणानि क्रमेण ब्रुवाणः सप्तमस्थानकेन कारणेन ऽअभावस्वभावाः सर्वधर्मा इतिऽ प्रश्नमनुद्याभावस्वभावतायां कारणमुक्त्वा ऽअनेन पर्यायेण, शारिपुत्र, अभावस्वभावाः सर्वधर्माःऽ इत्युपसंहारं कृतवान् / तत एष पाठः प्रतीयते / सुभूतेः प्रश्नानुवादकारणाख्यानतदुपसंहारा इह ज्ञापका न तूद्देशः / उद्देशे ऽपि सप्तमवाक्यस्य प्रायेण पाठभ्रंसा(शा)त् / यतः सप्तमवाक्ये त्रयो विप्लवाः कालेन जाताः / उत्तरेण ग्रन्थेन सहैकवाक्यता प्रथमो विप्लवः / एकवाक्यतार्थे प्रथमां विभक्तिमपनीय षष्ठिविभक्तिः कृतेति द्वितीयो विप्लवः / अभावस्वभावतां चापनीय अस्वभावत पठितेति तृतीयो विप्लवः / अर्थं ब्रूमः / एवमिति परतन्त्रेण स्वभावेन अभावस्वभाव एषामिति अभावस्वभावाः सर्वधर्माः / यदाह / नास्ति सम्योगिकः स्वभावः प्रतीत्यसमुत्पन्नत्वादिति / कारणसंनिधिः संयोगस्तस्मिन् सत्येव भवतीति संयोगिकः / संयोगिको यः स्वभावः सो ऽभावः कारणवियोगे सत्यभावात् / अपि च / यः प्रतीत्यसमुत्पन्नः सो ऽनित्यत्वात् पश्चादभावः / न च विद्यमानस्य पश्चादभावो घटते विरोधात् / तस्मादेकक्षण एव यो भावः स एकक्षणान्तरेष्वभावः / तस्मादभाव एषां स्वभावः / किं च, यदनित्यं तत् दुःखं दुःखं च प्रहातव्यम् / ततो ऽप्यभावस्वभाव एषाम् / तस्मात्परतन्त्रेणापि स्वभावेन बोधिसत्त्वो न प्राप्नोतीति सप्तमस्यार्थः //
नन्वियमभावस्वभावता कल्पितस्यापि रूपादेः प्राप्नोति / यतः कुलालाद घटः कुविन्दात्पट उत्पद्यमानो दृश्यते / अत आह / कतमत्तदित्यादि / कतमत्तत्कल्पितम् / रूपादि यत् अ[न]भिनिर्धूत्तम् / नैव किञ्चित् सर्वं कल्पितमसंस्कृतमित्यर्थः / अत एव निर्देशवाक्ये सुभूतिना युक्तिरुक्ता- असंस्कृताः सर्वधर्माः संस्कर्तुरभावादिति / कुलालकुविन्दादेरपि कल्पितस्यासत्वादित्यर्थः / तस्मात्कल्पितस्योत्पादनिरोधादिप्रतिषेधो ऽष्टमस्यार्थः /
अस्यां तु भगवत्यां ग्राह्यतापि कल्पितस्य प्रतिषिद्धा / बालग्राह्यत्वात् तस्य / अष्टमादूर्ध्वं त्रीणी वाक्यानि परिनिष्पन्नं स्वभावमधिकृत्य एवमित्यादि / एवमिति कल्पितेन स्वभावेन एतेषामिति परत्नत्ररूपाणां या अस्वभावता शून्यता सानभिनिर्वृत्तिरिति / स परिनिष्पन्नस्वभाव इत्यर्थः / यद्येवं तदा धर्मताया धर्मादव्यतिरेकाद् भ्रान्तिक्षये शून्यतापि क्षीयेत / अथ शून्यता शाश्वती तदा तदव्यतिरेकाद् भ्रान्तिक्षये शून्यतापि क्षीयेत / अथ शून्यता शाश्वती तदा तदव्यतिरेकाद् भ्रान्तिरपि शास्व(श्व)ती भवेदित्यत आह / या चेत्यादि / यत्परिनिष्पन्नं रूपं न ते भ्रान्तिस्वभावाः परतन्त्रा धर्मा इत्यर्थः / तदेवं शून्यतायाः परतन्त्रादव्यतिरेकप्रतिषेधो नवमस्यार्थः //
तत्किमित्यादि / अव्यतिरेके निषिद्धे व्यतिरेकः स्यात् / तत्किमिति तदा कथम् / अनभिनिर्वृत्तिमिति शून्यतामात्रं बोधिसत्त्वम् / अनभिनिर्वृत्त्यामिति शून्यतामात्रं प्रज्ञापारमितायामववदिष्यामि / न कथंचित् / नहि जात शक्यो ऽववदितुम् / नापि जातो ऽर्थः प्रज्ञापारमितेति व्यतिरेकप्रतिषेधो दशमस्यार्थः /
ननु परतन्त्ररूपं भ्रान्तिरेव / निर्वृत्तायां च भ्रान्तौ प्राप्तिस्तदा क आश्रयः शून्यतायाः? अथ निराश्रया न तर्हि कस्यचित् धर्मता / को वा तस्याः शशविषाणाद्विशेष? शशविषाणकल्पस्य च बोधिसत्त्वस्य कुतः प्राप्तिरित्याह / न चेत्यादि / सर्वधर्मा इति ज्ञेयाः स्कन्धादयः / बुद्धधर्मा इति प्राप्तव्या दशबलवैशारद्यादयः / बोधिसत्त्वधर्मा इति पूर्वलब्धा गुणाः / यो वा बोधाय चरेदिति बोधिसत्त्वः / सर्व एते प्राप्तिकाले ऽनभिन्रिवृतितो ऽन्यत्रेति शून्यताव्यतिरेकेण नोपलभ्यन्ते / सुविशुद्धज्ञानाव्यतिरेकिणी सर्वशून्यतैव तदानीं ख्यातीत्यर्थः / इदमप्यनेन सूचितम् / य एष बुद्धबोधिसत्त्वपृथग्जनावस्थानगामित्वाद्धर्मधातुवदेव शास्व(श्व)तप्रकाशस्तस्यासौ धर्मता / यावत्परतन्त्रस्तावत्परतन्त्रधर्मता उच्यते / परतो बुद्धधर्मता / स्वाभाविकश्च कायो बुद्धानामुच्यत इत्यमेकदशस्यार्थः /
द्वादशं व्यक्तम् / स चेदित्यत आरभ्य तत्कस्य हेतोरित्यतः प्राक् / अत्र चित्तं नावलीयत इत्यादिभिः पञ्चभिः पदैः शमथस्य पञ्चाकारा उच्यन्ते / न भग्नपृष्ठी भवतीति / एकपदेन चत्वार आकाराः / शमयति व्युपशमयति एकोतीकरोति चित्तं समादधातीति / एषामभावे समाधये चित्तस्य पश्चाभ्दङ्गप्रसङ्गात् / अतस्तैरेव चतुर्भिः पृष्ठभङ्गप्रतिषेधात् न भग्नपृष्ठीभवति मानसम् / एवं षड्भिः पदैर्नवाकारः शमथ उक्तः / भूतप्रत्यवेक्षणालोकः उद्योतः / उद्योतात् त्रासस्तदकरणम् / अकरणे[न] प्रतिषेधकरणात् / ततो नोत्तस्यतीत्येकेन पदेन विपश्यना / न सन्त्रस्यति न सन्त्रासमापद्यत इति पदद्वयेन युगनद्धो मार्गः / तथा हि न संत्रस्यतीति न समाधेस्त्रस्यति तदत्यागादिति शमथाङ्गः / संप्रज्ञानात् त्रासः संत्रासः / तन्नापद्यत इति विपश्यनाङ्गः / चरति प्रज्ञापारमितायामिति उद्देशः / शेषेण निर्देशः / भावयतीति शमथेन / उपपरीक्षत इति विपश्यनया / उपनिध्यायतीत्युपनिरीक्षमाणो निपुणं ध्यायति युगनद्धेन मार्गेणेति / द्वादशस्यार्थः /
अस्योपपत्तये त्रयोदशं चोक्तम् / तत्कस्य हेतोरित्यत आरभ्य प्राक् सर्वाकारज्ञतानिर्याणा(णा)त् / तत्कस्य हेतोरिति प्रश्नः / उत्तरं यस्मिन्हीत्यादि / इमान् धर्मानिति सर्वधर्मान् प्रज्ञापारमितायां संमुखीभूतायाम् / रूपं कल्पितं यावद्विज्ञानं यावद्बुद्धधर्मान् नोपैतीति नोपलभते, तदप्रतिभासात् / नोपगच्छति न विकल्पयति निर्विकल्पत्वात् प्रज्ञापारमितायः / इति स्वभावविकल्पौ प्रतिषिद्धौ / विशेषविकल्पौ प्रतिषेद्धुमाहः / न रूपादेरुत्पादनिरोधौ / पूर्व्वमुत्पन्नो रूपादिरिदानीं निरुद्ध इति न पश्यति / कल्पितस्य हि यथालक्षणमसत्वादुत्पादनिरोधौ न स्तः / तस्मादुभौ न पश्यति / ननु परतन्त्रस्यानिवृत्तौ दुष्परिहरः कल्पितस्य प्रतिभासः / तत्कुतस्तन्नोपेति? अथ षड्भिर्वाक्यैः कल्पितेष्वनभिनिवेशाभ्यासात्तदभिनिवेशजन्मनः परतन्त्रस्य तदानीं निर्वृतिरिष्यते / अपूर्वस्यानुत्पदात्पूर्वस्य च स्वरसेन व्ययात् / तौ तर्ह्यनुत्पादव्ययौ तस्य स्वभावौ अभावस्वभावाः सर्वधर्मा इति परतन्त्रं स्वभावमधिकृत्य वचनात् / सर्वमेतच्चेतसि निधाय पृच्छति तत्कस्य हेतोरिति / उत्तरं तथा हित्यादि / यौ हि रूपादेरनुत्पादव्ययौ तौ तस्याभावौ / अभावौ च न भावौ विरोधात् / यत्पुनरुक्तमभावस्वभावाः परतन्त्रा इति / अभावद्वयव्यभिचारस्तत्र स्वभावार्थो न पुनस्तादात्म्यं विरोधात् / एवमभेदं प्रतिषिध्य भेदप्रतिषेधायाह / इत्यनुत्पादव्ययौ च रूपादिश्च अद्वयमेतद् अद्वैधीकारमिति / ननु तदानीं रूपादेरभावादद्वयीभावो न युक्त इत्यत (rst_16) आह / यत्पुनरित्यादि / नट्र परतन्त्रं रूपादि गृह्यते / किं तर्हि? यदद्वयमुत्पादव्ययविरहात् परिनिष्पन्नमित्यर्थः / परिनिष्पन्नो हि स्वभावो धर्माणां कल्पिताभावलक्षणः / अनुत्पादव्ययावपि धर्माणामभावलक्षणौ / तत एकरसत्वादेषां त्रयाणामद्वयीभाव इति भावः / इति प्राप्तिनिर्याणम् //
सर्वाकारज्ञातानिर्याणमिदानीं वक्तव्यम् / तत्रादौ चत्वारो धर्मा उपपरीक्षणीयाः / कतमो बोधिसत्त्वः कतमा सर्वाकारज्ञता कतमा प्रज्ञापारमिता कतमा उपपरीक्षणेति / तत्र बोधिरेव सत्त्वस्तेनोच्यते बोधिसत्त्वः / तया बोध्या यत्सर्वधर्माणां सर्वाकारज्ञानं निरभिनिवेशं सा तत्र सर्वाकारज्ञता / आरता आरमिता / ग्रसितस्कभितादिवच्छान्दस इहागमः / विकल्पाद्यः (द्ये)पान्तीति पाः / विकल्पप्रतिपक्षा धर्माः / तेभ्यो ऽप्यारता विरता या प्रज्ञा सेह प्रज्ञापारमिता / यत्सर्वधर्मान्नित्यसुखात्मशान्तशून्यनिमित्तप्रणिहितविविक्तानां प्रत्येकं तद्विपरीतानां च षोडषानामाराणां प्रतिषेधेन व्युपपरीक्षते / तदत्रोपपरीक्षणं महत्योर्भगवत्योरुक्तम् / तत्रोर्ध्वमधरमुपपरीक्षणं तयोरुक्तम् / तदेवास्यां दर्शयितुमाह / एवं भगवन्नित्यतः प्रभृति अथ खल्वायुष्मान् इत्यतः प्राक् / अर्थः पूर्ववत् / अथ खल्वायुष्मानित्यदि / तेन हीति येनाद्वयस्यैषा गणाना कृता / अद्वयश्च धर्मधातुः / तेन कारणेन बोधिसत्त्वोप्यनुत्पादः / उत्पादविरहाद्धर्मधातुरित्यर्थः / परतन्त्रस्तु स्वभावो नेह गण्यते / तस्य परमार्थत्वात् / परमार्थस्य नेहाधिकारात् / कोत्र दोष इति चेदाह / यदि चेत् इत्यादि / दुष्करस्य कर्मणश्चारिका चरणम् / तां किं कस्माच्चरति? प्रयोगवीर्येण / आस्टां प्रयोगवीर्यम् / यानि दुःखानि करचरणशिरः शरीरदानानि सत्वानां कृतशः सत्त्वानामर्थाय तानि वा प्रत्यनुभवितुं कस्मादुत्सहेत / संनाहवीर्येणापि तदा दुष्करचारिकां न चरेन्न वाद्यवसेत् / तथा हि कारणपरतन्त्रत्वेनापरमार्थत्वात् / अपरमार्थस्य चानभ्यसनीयत्वात् /
विशेषतो दुष्करस्येति चोद्यम् / एवमुक्त इत्यादिना सुभूतेःपरिष्काराः / तत्रानभ्युपगमेन प्रथमो नाहमित्यादिना / यो हि दुष्करचारिकामिच्छति तस्य सा न स्यादित्यनिष्टापादनं दोषः स्यात् / न हीति / कुतो नेच्छसीति चेत् / दुष्करसंज्ञया दुष्करं चरतो विप्रतिसारिणः सम्यक्सम्बोधेर्व्यावृत्तिप्रसङ्गात् / नापीत्यादिना द्वितीयः परिहारः / न भवतीति न निष्पद्यत इत्यर्थः / अपि तु इत्यादिना तृतीयः / (rst_17) पुनरपरमित्यादिना चतुर्थः / यथा आत्मेत्यादि / सर्वदुःखानि सर्वसाश्रवाः पञ्चस्कन्धाः / तेभ्यः सर्वेभ्यः परिमोचयितव्याः / सर्वेणेति धातुगतियोन्यादिभेदेन / सर्वेण सर्वमिति सर्व यथा भवति तिसृभिर्दुःखाताभिः / सर्वथेति सर्वव्यवसायैः सर्वमिति निरवशेषं मोचयितव्याः / दुःखस्कन्धादिति दुःखराशेः / चित्तप्रदोषः प्रतिघः / यथा आत्मा न विद्यते सर्वेणेति आत्मसत्त्वजीवपोषपुरुषादिभेदेन / सर्वेण सर्व यथा भवति दृश्यादृश्यभेदात् / सर्वथेति स्कन्धधात्वादिभ्यो भेदेन / अभेदेन च / कथमभेदेन सर्वं यथा भवति? प्रतिवर्गं समस्तेभ्यो व्यस्तेभ्यश्च यथा आत्मा तथा सर्वधर्मा न विद्यन्ते / सर्वेणेति स्कन्धधात्वादिवर्गभेदेन सर्वेण सर्व यथा भवति / वर्गाणां परिपूर्णावयवत्वात् / पुनःसर्व यथा भवति प्रतिवर्ग ते सर्व इत्यर्थः / सर्वथेति / सर्वेषु प्रभेदेषु आत्मनि परेषु च समस्तव्यस्तेष्वित्यर्थः / तदेवं दुष्करचारिकाचरणा भावप्रसङ्ग(ङ्गाः) चत्वार उक्ताः / चतुर्थेन परिहारेणैतदपि सूचितम् / दुष्करचारिकाया अप्यनुत्पाद एव तत्त्वं तदेव तत्त्वं पश्यता सा चरितव्या यतासौ शक्ता च भवेन्महाफला च /
अनुत्पादे सर्वदुःखानामप्रतिभासनात् तत्त्वदर्शनाच्च / सर्वाकारसर्वधर्मविकल्पप्रबिषेधाय हेतुः स्थविरो यदप्यायुष्मान् इत्येतदारभ्य सन्निहितादेवमुक्तःशब्दात् प्राक् / अत्र सर्वज्ञतापीति सर्वाकारज्ञतापि बुद्धोपीत्यर्थः / ततः प्राप्तिविकल्पप्रतिषेधार्थमाह / एवमुक्त इत्यत आरभ्य अत्यंतं प्रतिभातीति यावत् / सर्वज्ञतेति सर्वाकारज्ञता अनुप्राप्तैव भवतीत्यादित एव सर्वेषां धर्मधातुमात्रत्वात् धर्मधातोश्च प्रकृत्यैव सर्वथा विशुद्धत्वादिति भावः / एवमुक्त इत्यादिना सुभूतेरुत्तरम् / अनुत्पन्नस्य धर्मस्येति बोधिसत्त्वाख्यस्य धर्मधातोः / प्राप्तिमिति प्राप्तत्वं / नाहमिच्छामि नाप्यभिसमयमिति नापि प्राप्ताभिसमयम् / यदिहीच्छेयं तदानुत्पादमिच्छतो मे प्राप्तिः प्रसज्येत / नैव त्विच्छामीति न युक्तः प्राप्तिप्रसङ्गः / युक्तिमप्याह नापीत्यादिना / सर्व एव धर्मो ऽनुत्पाद इत्यस्मिन् पक्षे ह्येषः प्रसङ्गः / तत्र अनुत्पन्नेन बोधिसत्त्वेन अनुत्पन्ना सर्वाकारज्ञता नापि प्राप्यते / अयुक्तत्वादिति भावः / उभयोरणा[ना]दिमत्त्वेन प्राप्त्ययोगात् / आहेति शारिपुत्र आह / किं पुनरित्यादि / यस्तूभयोरनुत्पन्नत्वे प्राप्तिरयुक्ता / तत्किमन्यतरोत्पत्तौ युक्तेत्यर्थः / आहेति सुभूतिरन्यतरोत्पत्तिपक्षं विमोचयितुमाह किं पुनरित्यादि / एवकारो भिन्नक्रमत्वादन्तं नेतव्यः / अनुत्पन्नो धर्मः (rst_18) पश्चादुत्पन्नो वा स्यात् पश्चादनुत्पन्न एव वा / तत्र द्वीतीयविकल्पे कथमन्यतरोत्पतिः? आद्ये तु विकल्पे धर्मधातोरुत्पत्तिविरोध इति भावः / तस्मादुभयोरनुत्पादात् साधूक्तं नाप्यनुत्पन्नेन धर्मेणानुत्पन्ना प्राप्तिः प्राप्यत इति युक्तः प्राप्तिविकल्पप्रतिषेधः /
तस्मात्सर्वधर्माणां परमार्थो धर्मधातुः / स च प्रकृतिप्रभास्वरत्वादनादिनिधनत्वाच्च न प्राप्यते नापि प्राप्नोति, केवलं द्रष्टव्यः / यत्तस्य दर्शनं सैव कल्पितानां सर्वधर्माणामनुपलब्धिः / सैव निरतिशया प्रज्ञापारमिता / तया परिकल्पितधर्माभिनिवेशक्षयात्तदभिनिवेशहेतुकाः सर्वावरणसंग्राहिणः सर्वाभूतपरिकल्पाः परतन्त्राख्याः क्रियन्ते / पूर्वेषां स्वरसनिरोधात् / कारणाभावेन परेषामनुत्पादात् / ततः प्रकृतिप्रभास्वरोपि बोधिसत्त्वाख्यो धर्मधातुरागन्तुकैरावरणमलैर्मलिनीकृतः / तेन तेषां क्षये सति तत्र क्षयलक्षणा विशुद्धिरपूर्वत्वात् प्राप्यते / तद्यथा प्रकृत्या विशुद्धमाकाशमागन्तुकैस्तुहिनरजस्तमो ऽभ्रधूमादिभिरावरणैर्मलिनीक्रियते / पश्चात्तदपाये [क्षय?]लक्षणा विशुद्धिस्तेन प्राप्यते / सर्वविभ्रमनिवृत्तौ च सुविशुद्धसर्वधर्मधर्मताज्ञानलक्षणा सर्वाकारज्ञता यापूर्वत्वाव्दोधिसत्त्वेन लभ्यते / सैव तस्या विशुद्धेरात्मभूतायाः संवेदनाप्राप्त्यभिसमयः संपद्यत इति सिद्धान्तः /
तत्रेदानीमागन्तुकावरणविशुद्धिः स्थविराभ्यां वक्तव्या / तां शारिपुत्र आरभते / आहेति शारिपुत्र आह / किं पुनरित्यादि / उत्पद्यत इत्युत्पादः / पर[त]न्त्रः स्वभावः / किं पुनः पश्चादनुत्पादः? कारणाभावादनुत्पत्तेरित्येक पक्षः / उताहो ऽनुत्पादः? सर्वाकारज्ञता तेषां धर्मः / पूर्वमनुत्पन्नत्वाद्यः पश्चादुत्पद्यत इति द्वितीयपक्षः / तत्राद्ये पक्षे अनुत्पन्नायाः सर्वाकारज्ञतायाः कुतः प्राप्तिः? द्वितीयपक्षे सर्वाकारज्ञतायाः कारणं वक्तव्यम् / अभूतपरिकल्पश्च शाश्वतो भवेत् क्षयाभावादिति भावः / सुभूतिराहेति परिहारमाह / उत्पाद उत्पत्तिः धर्मः सर्वाकारज्ञतायाः / अनुत्पादो ऽनुत्पत्तिः धर्मो ऽभूतपरिकल्पस्येति य एष भेदः / नासौ प्रतिभाति जल्पितुं न रोचते वक्तुम् / सर्वधर्मशून्यतालम्बने चित्तसन्ताने यैव सर्वभ्रान्तीनां निवृत्तिः सैव सर्वाकारज्ञताया उत्पत्तिः / अतो ऽस्या न कारणं वक्तव्यम् / नाप्यभूतपरिकल्पः शाश्वतो भवतीति भावः / शारिपुत्र आहेति / जल्पविकल्पप्रतिषेधायाह / अनुत्पादोपीत्यादि / अनुत्पादः प्रमान(णा)सिद्धत्वात्प्रतिभात्येव रोचत एव वक्तुम् / कुतो न प्रतिभातीति काङ्क्षा प्रश्नः / आहेति सुभूतिरुत्तरमाह / अनुत्पाद एवेत्यादि / जल्प इति मानसः शब्दः / प्रतिभातीति जल्पाभिधेयं वस्तु / प्रतिभानमिति सजल्पा बुद्धिः / त्रयमेतदनुत्पाद एव सर्वाकारज्ञतायां धर्मताशरीरेणैव (rst_19) सर्वधर्माणां तस्यां प्रतिभासादिति भावः / एवमेव अत्यन्तं प्रतिभातीत्युपसंहारः / इति सर्वाकारज्ञतानिर्याणम् //
एवमुक्त इत्यादिना शारिपुत्रः प्रकृतमेव सुभूतेर्वचनं प्रशंसन्मार्गनिर्याणप्रस्तावनां करोति / स्थापयितव्यो निःसंशयं गणयितव्यः / यतो यत एवेति यत्र यत्रैव स्थाने निःसरति उत्तरति न चलति न भ्रश्यति न वि[रो]धयति न व्याकुलयति / एवमुक्त इति / एवं प्रस्तावनायां कृतायां एतद् इति मार्गनिर्याणे / अनिश्रिता अनभिनिविष्टा धर्मा यैस्तथोक्ताः / न व्यतिवर्तन्त इति न भ्रस्य(श्य)न्ति / एवमुक्त इति सर्वधर्मानिश्रिततायामुक्तयाम् / अत्रेति अनन्तरोक्ता सर्वधर्मानिश्रिता चासौ परमत्वात्पारमिता च / कतमेति षण्णां पारमितानां मध्ये कतमा / सार्वयानिकी यानत्रयसाधारणी / यश्चैषा प्रज्ञापारमितैव / न तहर्यस्येत्यत आह / सर्वधर्मेत्यादि सुगमम् / इति हीति यत एवं तस्मात् / अवलीनत्वं विषादः कांक्षायितत्वं संशयालुता / दन्धायितत्वमप्रतिपत्तिः / अन्यथात्वं पराङ्मुखीभावः मनसिकारेणेति निर्विकल्पेन मनसा / कथमायुष्मन्नित्यादि विकल्पकं मनसिकारं मत्वा शारिपुत्रस्यायं प्रश्नो मनसिकारेण विहरन्तीति यावत् /
तत ऊर्ध्वं एवमुक्त इत्यादिना सुभूतेः साधुकारपूर्वकं वचनम् / तत्र विस्तरेण चोद्यकरणात् साधुकारः / अपि त्वित्यादिना परिहारः / अर्थ एवेति / अस्मदिष्टमेव / इच्छालक्षणत्वादर्थस्य / भूतपदाभिधानेनेति विकल्पमनसिकारस्य विपर्ययो भूतपदं भूतं वस्तु / तस्याभिधानेन सविस्तरेण / अनिष्टापादनं हि / चोद्यम् / नेष्टाभिधानमित्युपालम्भः / युक्तितश्चेयमिच्छति दर्शयितुं स्वयमेव पृच्छति / तत्कस्येत्यादि / तभ्दू तपदं कुतः? सत्त्व आत्मा स इह दृष्टान्तः / मनसिकारो विकल्पः / स दार्ष्टान्तिकः / अस्वभावतादिर्वैदितव्येति साधारणं हेतुकं नेतव्यः / तत्र अस्वभावता स्वलक्षणशून्यता / लक्षणमनयोर्ग्राहकत्वम् / अतश्च यथा आत्मनो ऽस्वभावता तथा मनसिकारस्यापि / ग्राहकत्वायोगादिति हेतुः / शेषेषु अस्वभावत्वादिति हेतुः / सभ्दावो भावत्वं तद्विरहो ऽसद्भावता / विविक्तता अभावता अचिन्त्यता तदीयचिन्तायां निर्विषयत्वात् / अनभिसंबोधनता सम्यग्ज्ञानाविषयत / अयथाभूतार्थत्वेन मिथ्यावस्तुत्वेना भिसंबोधनं संयग्ज्ञानमस्येति अयथाभुतार्थाभिसंबोधनता / अनेनेति (rst_20) यथोक्तेन / एवंरूपेणेति भूतार्थप्रत्यवेक्षकेण / विहारेणेति शमथरूपेण / इतिशब्दः परिवर्तपरिसमाप्त्यर्थः //
सर्वाकारज्ञतायां चर्या चरणम् / चित्तोत्पादादयो दशार्थाः / तद्द्योतकः परिवर्तस्तत्परिवर्तः //
[आर्याष्टसाहस्रिकायाः प्रज्ञापारमितायाः] सारतमानाम्नि पञ्जिकायां रत्नाकरशान्तिविरचितायां प्रथमः परिवर्तः //
2. शक्रपरिवर्तो नाम द्वितीयः /
उक्ता सर्वाकारज्ञता / इतः प्रभृति मार्गज्ञता वक्तव्या / तस्यामेकादशवस्तूनि / यतः शास्त्रम्-
[31] ध्यामीकरणतादीनि शिष्यखङ्गपथौ च यौ / महानुशंसो दृङ्मार्ग एहिकामुत्रिकैर्गुणैः // 1-7 //
[32] कारित्रमधिमुक्तिश्च स्तुतस्तोभितशंसितः(ताः) / पारिणामे ऽनुमोदे च मनस्कारावनुत्तमौ // 1-8 //
[33] निर्हारः शुद्धिरत्यन्तमित्ययं भावनापथः / विज्ञानां बोधिसत्वानामिति मार्गज्ञतोदिता // 1-9 //
ऽध्यामीकरणतादिऽ श्रावकमार्गः / ऽमहानुशंसो ऽ बोधिसत्त्वस्य दर्शनमार्गः / भावनामार्गस्य ऽकारित्रम्ऽ / ऽअधिमुक्तिऽमनस्कारः / ऽस्तुतस्तोभितसं(शं)सिताःऽ / ऽपरिणामनाऽमनस्कारः / ऽअनुमोदनाऽमनस्कारः / ऽअभिनिर्हारःऽ / ऽअत्यन्तशुद्धिश्चे ऽति / एकादशवस्तूनि ऽमार्गज्ञताऽ सा च ऽबोधिसत्त्वानांऽ इत्यर्थः / तत्रोदौ ध्यामीकरणतादीनि यतः शास्त्रम्- [34] ध्यामीकरणता भाभिर्देवानां योग्यतां प्रति / विषयो नियतो व्याप्तिः स्वभावस्तस्य कर्म च // 2-1 //
अस्यां ऽयोग्यतांऽ चित्तोत्पादः द्वितीयो (प्रथमो)ऽर्थः / ऽतां प्रतिऽ तदर्थम् / ऽध्यामीकरणताऽ मन्दच्छायीकरणं ऽदेवानाम्ऽ / ऽभाभिःऽ इति भगवतः प्रकृतिप्रभया सा द्वितीयो ऽर्थः / ऽविषयो नियतःऽ इति / तस्या एव विषयप्रतिनियमस्तृतीयो ऽर्थः / विषयऽव्याप्तिऽश्चतुर्थः / ऽस्वभावःऽ पञ्चमः / ऽकारित्रंऽ षष्ठः / यद्यमी षडर्थाः कथमेतदेकं वस्तु? इह मार्गज्ञताया मूलं चित्तोत्पादः / तद(द्) रहितानां तस्यामयोग्यत्वात् / अत एवासौ योग्यतोच्यते / तत एवासौ प्रधानम् / शेषस्तस्याः परिच्छेदः / प्रधानेन च व्यपदेशादेकवस्तूच्यते /
तत्र ध्यामीकरणतामधिकृत्याह / तेन खलु पुनरित्यादि / तेन समयेनेति तस्मिन् काले / विवक्षातः कारकाणि भवन्तीति करणत्वम् / खलु शब्दो वाक्यालङ्कारे / पुनः शब्दो विशेषार्थः / अभिसमयभेदो विशेषः / सन्निपतितः समागमात् / सन्निषण्णो निषदनात् / त्रयस्त्रिंशानां कायो निकायः / तस्मिन् भवा इति ठल् / चत्वारो महाराजा वैश्रवणधृतराष्ट्रविरूढकविरूपाक्षा चतुरादिषु दिक्षु / तेषां कायः / तस्मिन् भवाः / एष एव त्रिसाहस्रो लोकधातुः सहा / तस्याः पतिः / ब्रह्मणः कायस्तस्मिन् भवाः / इह तूत्तरपदवृद्धिः / चतुर्थस्य ध्यानस्याश्रयं च शुद्धावासाः / अवृहा अतपाः सुदृशाः सुदर्शना अकनिष्ठाश्चेति / कुतः शुद्धावासाः? आर्याणामेव तेषूत्पादात् / तेषां पञ्चानां निकायानां पञ्चैव सहस्त्राणि / एतावन्त एत रूपिणो देवनिकाया यथोध्वमुत्कृष्टाः प्रभाप्रभावादिभिः / योपीत्यादि / तेपि सन्निषण्णाः / योपि तेषां अवभासः सोप्यभिभूतो ध्यामीकृतो ऽभूत् / समकालमेवेति योपिसोपि शब्दार्थः / योग्यता हि चित्तोत्पादस्तदर्थ ध्यामीकरणम् / सर्वाभिभूर्भगवानिति विदित्वा तभ्दावे स्पृहोत्पादनात् / अवभासः प्रभा / स्वकर्मणो विपक्तिर्विपाकः / तस्माज्जातः सहजो नाभिसंस्कारिक इत्यर्थः / केन कारणेनाभिभूतः? बुद्धाधिष्ठानेन बुद्धसन्निधानेन / केन कर्त्रा? बुद्धतेजसा बुद्धस्य भगवतः प्रकृतिप्रभया / ननु तेपि महानुभावाः कस्मान्न प्रतिचक्रुरित्यत आह बुद्धानुभावेनेति / बुद्धानुभावेन सर्वानुभावः प्रतिहन्यतः इति भावः / ध्यामीकरणता //
अथ खल्वित्यादि / अन्तिकादिति सकाशात् / प्रज्ञापारमितामिति बोधिसत्वानां महासत्वानामित्यनेन सम्बन्धः / मार्गज्ञतामित्यर्थः / (rst_22) उपदिश्यत इति उपदेशः / तस्या एवार्थस्यावगमाय वादो ऽववादः तदनुबन्धाय शासनी तत्सहिता सेति समासः /
स्थातव्यं श्रुतमय्या प्रज्ञया / शिक्षितव्यं चिन्तामय्या / योगमापत्तव्यं भावनामय्या /
आनुभावादयः प्रभावपर्यायाः / तदानुभवेनेत्युद्देशः / इतराभ्यां निर्देशः / तेजसेति प्रतिभानशक्ते रोधाय / केन प्रभावेन? अधिष्ठानेनेति प्रबोधकेन / इयता ग्रन्थेन योग्यतायाः प्रस्तावनां कृतायां तामाह / यैरित्यादिना उत्पादितव्यान्तेन इति योग्यता //
येत्वित्यादि / हीनमार्गलभ्यं निर्वाणं सम्यक्त्वम् तस्मिन् नियमः सम्यक्त्वनियामः / तं अवक्रान्ताः प्राप्ताः / बद्धसीमानो बद्धसेतवः / तद्यथा श्रोतआपन्नसप्तक्तभ्दवपरमः / द्वित्रिजन्मा कुलंकुलः / अनुत्तरा (र)सम्यक्संबोधिनिमित्तं यत् पुनः पुनः संसरणं तस्मै चित्तमुत्पादायतुमभव्याः / इति शमैकयानैः श्रावकैरुत्तमबोधेः कदाचिदप्यकामनाद्योग्यताया विषयप्रतिनियमः //
अपि त्वित्यादि उत्पादयेरन्नित्येतदन्तेन व्याप्तिः / श्रावकैरपि बोधिपरिणतिकैः सम्यक्सम्बोधौ चित्तस्योत्पादनात् / ते हि स्वां बोधिमधिगम्यापि बुद्धबोधिसत्त्वानां लोकोत्तरां विभूतिं दृष्ट्वा वञ्चितमिवात्मानं मन्यमानास्तथागतैरधिष्ठितास्तद्वोधौ चित्तमुत्पाद्याचल्यभूमिकबोधिसत्त्ववन्निर्मिताभिरुपपत्तिभिर्बोधिचर्यां चरित्वा परां बोधिमधिगच्छन्तीति व्याप्तिः //
नाहं कुशलमूलस्यान्तरायं करोमीति / स्वभावः कुशलराशिः / सर्वकुशलधर्मसंग्राहकत्वाच्चित्तोत्पादस्येति कुशलपक्षत्वं योग्यतायाः स्वभावः / विशिष्टेभ्यो हि धर्मेभ्यो विशिष्टतमा धर्मा अध्यालम्बितव्या इति कारित्रम् / विशिष्टेभ्य इति बोधिचित्तसंगृहीतेभ्यः / हेतौ पञ्चमा / विशिष्टतमा धर्मा इति महायानसंगृहीताः फलहेतुभूताः / अध्यालम्बितव्या इति प्राप्तव्याः / तस्मान्नान्तरायं करोमीति शब्दार्थः / इति द्विविधमहायानप्रापणं बोधिचित्तस्य कारित्रम् //
तदेवं केचिद्वोधिचित्तोत्पादनार्थमुत्साहिताः पुर्वमुत्पादितबोधिचित्तास्तु संप्रहर्षिताः / एवमुत्पादितबोधिचित्त्वत्वादुभयेपि ते बोधिसत्त्वा (rst_23) महासत्त्वाः सन्तो मार्गज्ञतायामुत्साहिताः / अत आह / अथ खल्वित्यादि / साधुस्त्वमिति महतः परार्थस्य करणात् / भगवतः कृतज्ञैरित् / यथा पूर्वं जिनपुत्रस्य भगवतस्तच्छ्रावकैर्बहुकृतं तथास्माभिर्भगवतः श्रावकैर्भगवत्पुत्राणां बोधिसत्त्वानां बहुकर्तव्यमिति कृतज्ञतार्थः / तत्कस्य हेतोरिति / तत्कृतज्ञत्वं केन प्रकारेण? पूर्वका एव पौर्वकाः / ब्रह्म निर्वाणं तस्मै चरणं ब्रह्मचर्यम् / तच्चरणं बोधायेति बोधये / बोधिचर्यां चरतीति यावत् / यैरिति विभक्तिप्रतिरूपको निपातो यथार्थः अवोदित इति सम्प्रसारणम् / वद व्यक्तायां वाचित्यस्य यजादित्वात् / अववदित इति क्वचित्पाठः / तत्र वद स्थैर्य इत्ययं धातुरनेकार्थत्वात् / अनुपरिग्रहीतव्या इत्यववदितव्याः / अनुपरिवारयितव्या इति अनुशासितव्याः / उत्तरयोः पदयोः संशब्दः सम्यगर्थः / अस्माभिरपीति श्रावकैरपि / आत्मस [जा]तीयेष्वप्यात्मव्यवहारात् / साधु चेत्यवहितश्रोत्रतया / सुष्ठु चेत्यवहितमनस्कतया / मनसिकुर्विति चिन्ताभावनाभ्याम् / प्रज्ञापारमितायां स्थातव्यमिति मार्गज्ञतायां वेदितव्यम् /
तत्रादौ श्रावकमार्गः / तत्र दर्शनमार्गमधिकृत्याह / शून्यतायामित्यादि / अविपरीतत्वाच्चत्वारि सत्यानि / आर्याणां सत्यत्वेन प्रतिभान्ति न बालानां तस्मात्तान्येवार्यसत्यानि / दुःख समुदयो निरोधो मार्गश्च / तत्र दुःखं संसारिणः स्कन्धाः / दुःखहेतुः समदयः / दुःखक्षयो निरोधः / तत्प्रापकं ज्ञानं मार्गः / एषां चतुर्णामार्यसत्यानां य आकारास्तेषां शून्यतायां तिष्ठता शून्यतां पश्यता प्रज्ञापारमितायामिति श्रावकीये दर्शनमार्गे स्थातव्यं समाहितेन चेतसा / शून्यतादर्शनं चानुपलम्भ एव / ततः शास्त्रम्-
[35] चतुर्णामार्यसत्यानां आकारानुपलम्भतः / श्रावकाणामयं मार्गो ज्ञेयो मार्गज्ञतानये // 2-2 //
श्रावकपिटके च सत्यनां षोडशाकाराः पठयन्ते / दुःखमनित्यतो दुःखतो ऽनात्मतः शून्यतश्च परिज्ञेयम् / समदयो हेतुतः समुदयतः प्रभवतः प्रत्ययतश्च / निरोधो निरोधतः शान्ततः प्रणीततो निःश(स)रणतश्च / मार्गो मार्गतो न्यायतः प्रतिपत्तितो निर्याणिकतश्चेति //
अमी नेह गृह्यन्ते / ये तु महत्योर्भगवत्योः पठितास्त इह गृह्यन्ते / प्रत्यासत्तेः श्रावकबोधेश्च लाघवेनेति (rst_24) प्रापणात् / तत्र दुःखं चतुर्भिराकारैर्मनसिकरोति पूर्ववत् / अनित्यतो दुःखतो ऽनात्मतः शान्ततश्च यथाक्रममुदयव्यययोगित्वात् प्रतिकूलत्वात् आत्मविलक्षणत्वात् / आत्मशून्यत्वाच्च / आत्मशून्यो हि शान्तः / तद्यथा कुणपः / समुदयमेकादशभिराकारैः / तत्र चतुर्भिराकारैः प्रहाणार्हत्त्वज्ञापनार्थम् / रोगतो गण्डतः शल्यतो ऽघतश्च दुःखहेतुत्वाद्दःखोत्कर्षहेतुत्वादुरुद्धरत्वात् / ऐहिकामत्रिकदुःखहेतुत्वेन पापसाधर्म्याच्च / पुनश्चतुर्भिः श(स)क्य(त्य)त्वपरिज्ञापनार्थम् / परतः प्रलोभधर्मतश्चलतः प्रभड्गुरतश्च / आत्मा हि हातुमशक्तो ऽयं तु परः / प्रतिक्षणविनाशित्वात् / प्रलोपधर्मा च / अर्हभ्दिरुन्मूलितत्वात् / चलश्च प्रकृतेन मार्गेण भङ्गित्वात् प्रभङ्गुरश्च / आतप्तकारितार्थ पुनस्त्रिभिः / भयत उपद्रवत उपसर्गतश्च / अशनिपातादिवभ्दयहेतुत्वात् / भूतराक्षसादिसाधर्म्यात् दुर्भिक्षपरचक्रादिसाधर्म्याच्चेति / प्रतिलोमः प्रतीत्यसमुत्पादो अविद्यानिरोधात् संस्कारनिरोध इत्यत आरभ्य एवमस्य केवलस्य महतो दुःखस्कन्धस्य निरोधो भवतीति यावत् / तत्र निरुद्धिर्निरोध इति निरोधसत्यम् / निरुध्यते ऽनेनेति निरोधो मार्गसत्यं सप्तभिराकारैः / अनात्मतः शान्ततो विविक्ततः शून्यत आनिमित्ततः अप्रणिहिततो ऽनभिसंस्कारतश्च / आत्मा हि योगिनो दुःखात्मनः स्कन्धाः / अतो दुःखाभावादनात्मा क्लेशोपशमाच्छान्तः / दुःखक्लेशावशुची तयोरूपशमाद्विविक्तः / शूचिरित्यर्थः / आत्मात्मीयविरहाच्छून्यः /
सर्वसंस्कृतनिमित्ताभावादानिमित्तः / त्रैधातुके प्रणिधानं प्रणिहितम् / तत् क्षयादप्रणिहितः / आयत्यां कर्माभिसंस्काराभावादनभिसंस्कारः / मार्गसत्यमप्येभिरेव सप्तभिराकारैः / निरोधप्रापको हि मार्गः / ततो ऽनात्मशान्तविविक्तादिप्रापकत्वान्मार्गोप्यनात्मा शान्तो विविक्तः शून्य आनिमित्तो ऽप्रणिहितो ऽनभिसंस्कारश्च / एवमेकोनत्रिंशदाकार इह श्रावकमार्ग आसु तब्दोधिप्रापणात् / स चैषामाकाराणामनुपलम्भेन मार्गज्ञतायां प्रविशति /
तेन हीत्यादि / येन हीनमार्गं भावयतो बोधिसत्त्वस्यानुपायकुशलस्य हीनबोधौ पात आशंक्यते / तेन हि कारणेनास्यां मार्गज्ञतायां महासन्नाहो महदुपायकौशलम् / सन्नद्धेन तद्धर्मितेन भवितव्यमात्मरक्षार्थम् / तत्रायं महान् सन्नाहो यदुत सर्वाकारज्ञताप्रतिसंयुक्तैर्मनसिकारैर्भावना कर्त्तव्या / व्युत्थितेन च सर्वं तत्कुशलमूलमनुत्तरायां सम्यक्संबोधौ परिणामयितव्यम् / तच्चानुपलम्भयोगेनेति / इति श्रावकाणां दर्शनमार्गः //
इत ऊर्ध्वं निरोधभागीयानि / न रूपे स्थातव्यमित्येतदारभ्यानेन मनसिकारेणेति यावत् / तत्र न बुद्धत्वे स्थातव्यमित्येतदन्ते ऊष्मा / तत ऊर्ध्व इति हि बुद्धत्वमिति न स्थातव्यमित्येतदन्तेन मूर्धा / ततो विज्ञानं शून्यमुपलभ्यते वेत्येतदन्तेन क्षान्ति / शेषाण्यग्रधर्मः / तत्र रूपादिष्वस्थानम [न] भिनिवेश ऊष्मा / रूपादीनामिदन्तया स्वलक्षणानुपलम्भो मूर्धा / रूपादीनां द्वयानुपलम्भः क्षान्तिः / शून्यं इत्यनुपलम्भ उपलभ्यत इति उपलम्भः / तस्मात् शून्यमुपलभ्यतेवेत्यपि द्वयम् / श्रोतआपत्तिफलादीनां विशेषेष्वस्थानमग्रधर्मः / तस्मादस्यां भगवत्यामन्यथैव शास्त्रपाठ उन्नेयः-
अस्थानमूष्मा रूपादौ मूर्धा तदिति हीति यत् / क्षान्तिर्न नित्यं नानित्यं रूपादीत्यस्थितिद्वये //
फल (लं) पुंसामिहार्याणां विशेषेष्वस्थितिस्तु या / सैवाग्रधर्मो विज्ञेय आर्यश्रावकवर्त्मनि //
अत्र न चक्षुः संस्पर्शे स्थातव्यमिति / इन्द्रियविषयविज्ञानसन्निपाते सति यः सुखादिवेदनोत्पत्त्यनुकूलस्येन्द्रियविकारस्य परिच्छेदकः सादृश्यमात्रेण स सुखादिवेदनाजनकःचैतसिकः स्पर्श इत्युच्यते / इन्द्रियविकारं सादृश्येन स्पृशतीति कृत्वा / अत इन्द्रियभेदाच्चक्षुःसंस्पर्शो यावन्मनःसंस्पर्शः / उक्त चाभिधर्मे "त्रिकसन्निपाते इद्रियविकारपरिच्छेदः स्पर्शः वेदनोत्पत्तिसन्निश्रयदानकर्मकः" इति / शुभं शुचि अशुभमशुचि / असंस्कृतप्रभावितं क्लेशाविद्याक्षयस्यासंस्कृतत्वात् / इमं लोकमितिकामधातुम् / तत्रैवेति अकामिनि लोके / इहैवेत्यस्मिन्नेव जन्मनि / अनुपधिशेष इति उपधयः स्कन्धाः / त एव शेषाः सोपधिषेशे तद्विपर्ययादनुपधिशेषः / बुद्धपरिनिर्वाणेति / संसारनिर्वाणयोरप्रतिष्ठितेन / यथाक्रमं सर्वेषां क्लेशिकधर्मपरिक्षयात्, अनाश्रवाणां च धर्माणामनन्तानां जगदर्थाय यावदाकाशमवस्थानात् / न च ततो व्युत्थित इति प्राप्तापरिहाणितः / न स्थितो नास्थित इत्यप्रतिष्ठितमानसत्त्वादव्युत्थानाच्च / न विष्ठितो नविष्ठित इति प्रवाहयोगेन पूर्ववत् / शेषं सुबोधमित्यग्रधर्मः / इत्युक्तानि श्रावकमार्गनिर्वेधभागीयानि //
बुद्धानुभावात् खङ्गमार्गप्रस्तावनाय केषाञ्चिद्देवपुत्राणां वितर्को ऽभूत् तमाह / अथ खलु तत्रेत्यादिना / केषाञ्चिदिति ये श्रावकमार्गमपि सुभूतिना देश्यमानं गंभीरं मेनिरे / कथं यक्षाणाम्? तैरुच्चारणात् / कथं यक्षरुतादीनि? तभ्दाषात्वात् / तत्र रुतानीत्युद्देशः / शेषेण निर्देशः / मन्त्रितानि वाक्यानि / प्रव्याहृतानि वाक्यसमूहाः / भाषते पदवाक्यैः / प्रव्याहरति वाक्यसमूहैः / देशयतीत्यववदती / उपदिशतीत्यनुशास्ति / अथ खल्वायुष्मानित्यादि / इदमितिलब्धावसरत्वादुद्दिष्टं खङ्गज्ञानम् परामृषति / न विज्ञायते न विज्ञायत इति द्विर्वचनमवधारणार्थम् / परतो न विज्ञायते एव चरमभवखङ्गैःखङ्गज्ञानम् / परोपदेशस्य तेषु वैयर्थ्यात् / यतः स्वयंभूत्वेन तेषां स्वयमेव तत्संमुखीभवतीति परोपदेशवैयर्थ्यम् //
तथाहीति / ईदृश्येव हि धर्मता धर्माणाम् / कीदृशीत्याह नात्रेत्यादि / अत्रेति स्कन्धधात्वायतनादौ / न किञ्चिदिति न कश्चिद्धर्मः सूच्यत इति देश्यते / श्रूयते श्रोत्रा निःश्वभावत्वात्सर्वधर्माणाम् / तद्यथा निर्मितबुद्धेन निर्मितानां परिषदां धर्म देश्यमाने न किञ्चिद्देश्यते न कश्चिद्देशयिता न कश्चिच्छ्रोतेति / अथ खलु तेसामित्यादि / उत्तानमगम्भीरहर्षाद्विवेचनम् / इतीत्येवमस्माभिर्वितर्किते / अनार्याणामगोचरत्वेन दूरात् / निष्प्रपञ्चत्वेन सूक्ष्मात् / दुखगाहत्वेन गम्भीराच्छ्राव (क) मार्गा दूरतरं सूक्ष्मतरं गम्भीरतरं ज्ञानम् / प्रविशति चेतसा / देशयति ग्रन्थतः / भाषते अर्थतः / तथा हि नात्रेत्यादिना / इति ज्ञानगम्भीरता / अतः शास्त्रम्-
[36] परोपदेशवैयर्थ्यं स्वयंबोधात्स्वयंभुवाम् / गम्भीरता च ज्ञानस्य खङ्गानामभिधीयते // 2-6 //
अथ खल्वायुष्मानिति / नेमांक्षान्तिमनागम्येति / तथाहि नात्रेत्यादिनोक्तम् / ग्राह्याभावज्ञानं नाप्राप्य प्राप्यैवेत्यर्थः / अतश्च श्रावकैरपि तज्ज्ञानं तथागतैरप्युपादेयं सुतरां खङ्गैरधिगन्तव्यामिति भावः / इति खङ्गानां ग्राह्यविकल्पप्रहाणम् //
अथ खलु पुनरपीत्यादि / मन्त्रादिबलेन प्रतिभासमानो मिथ्यापुरुषो माया / ऋद्धिसन्दर्शितो निर्मितः / ताभ्यां सदृशाः / मायोपमास्ते सत्त्वा न मायेति / मिथ्यात्वमेव मायात्वं मन्यन्ते / सुभूतिस्तु मन्यते मिथ्याविशेषो माया च स्वप्नं च ताभ्यां सादृश्यं मिथ्यात्वमेव / तस्मान्माया च सत्त्वाश्चेत्यद्वयं मिथ्यात्वेन निर्विशेषत्वादिति / तदेवं मायापुरुषवत् पुरुषद्रव्याणामसत्त्वमुक्तम् / सर्वधर्मा अपीति / पुरुषधर्मा अपि सर्वे मायोपमाः / असति पुरुषद्रव्ये तद्धर्माणामप्यभावात् / अथ खल्वायुष्मान् शारिपुत्र इत्यादि नास्या आयुष्मन्त इत्यादिना न कश्चित्प्रत्येषको भविष्यत्येतदन्तेन स्थविरसुभूतिर्धार्मश्रवणिकवत् प्रत्येषकानामप्यभावमाह / प्रतीक्षन्तीति प्रत्येषकाः / तेषामभावः प्रत्येषकपुरुषद्रव्याभावात् / सूच्यत इत्यस्फुटं भाष्यते / परिदीप्यत इति स्फुटम् / प्रज्ञप्यत इति वक्तृश्रोतृभिर्व्यवह्रियते / तस्मात्सर्वथा न सन्ति पुरुषद्रव्याणि / केवलमध्यात्मिकेषु च स्कन्धादिषु पुरुषप्रज्ञप्तिः / ततः पुरुषप्रज्ञप्त्याश्रये स्कन्धादौ ग्राहक ग्राहमेषामस्तीति खङ्गानां ग्राहकविकल्पाप्रहाणम् /
अथ खलु शक्रस्येत्यादिना न तत् पुष्पमित्येतदन्तेन खङ्गानां गोत्रमुच्यते / अत्र धर्मपर्यायो धर्मप्रभेदः / खङ्गमार्गः / यन्नुशब्दो / वाक्यालङ्कारे / सुभूतिमिति / धर्मभाणकपूजया धर्मपूजनात् / एतदितिवक्ष्यमानं(णं) वितर्कितं अभूत् / शक्रमनु शक्रं प्रति व्याहरणायेति वितर्कं विदित्वा भाषणाय / इमानीति प्रकृतानि / पुष्पाणीत्यमलत्वेन पुष्पसाधर्म्यात् खड्गमार्गसंगृहीतानि कुशलानि / देवेषु प्रचरन्तीति अवचरन्ति न दृष्टानि, अनाश्रवत्वेन धातुपतितत्वाभावादिति भावः / अभ्यवकीर्णानीति परिषदि निर्मितपुष्पैः सूचितानि / निर्मितानि यथादर्शनमसत्त्वात् / कुत इत्याह / नैतानीत्यादि / मनोमयानीत्युपसंहारः / मनोनिर्जि(र्मि) तानीत्यर्थः / शक्रस्तु मनोमयत्वमपि निषेद्धुमाह / अनिर्जातानीति / यथा हि ग्राह्यत्वाद्वृक्षादयो न सन्तीति न तेभ्यो निर्जातानि तानि / तथा मनोपि नास्ति ग्राहकत्वादिति ततोप्यनिर्जातानि सुभूतिराह / यत्कौशिकानिर्जातं न तत्पुष्पमिति यत्तयोर्नित्याभिसम्बन्धान्न तत्पुष्पं न स खड्मार्गः स्यादित्यर्थः / एवं मन्यते / निर्विशेषं जातं निर्जातम् / अतः सजातीयं कार्यमाश्रितम् / कारणमाश्रयः / खड्गमार्गश्च खड्गाश्रितः / न च खड्गस्य संस्कृतो धर्मो मार्गस्याश्रयो युज्यते सास्रवस्य विजातीयत्वात् / अनास्रवस्यापि संस्कृतस्यादिमत्वादादित एव निराश्रयस्यानुत्पत्तिप्रसङ्गात् / तस्मादनास्रवत्वेन सजातीयः खड्गस्य धर्मधातुरेव खड्मार्गस्याश्रय आधारः प्रतिष्ठागोत्रमिति खड्गमार्गस्याधारः // अतः शास्त्रम्-
[37] ग्राह्यार्थकल्पनाहानात् ग्राहकस्याप्रहाणतः / आधारतश्च विज्ञेयः खड्गमार्गस्य सङ्ग्रहः // 2-8 //
अथ खड्गानां कथं परार्थक्रियां? इच्छामात्रेण तत्सिद्धेः / कथं तेभ्यः श्रवणम्? सूश्रूषामात्रेण / यतः शास्त्रम्-
[38] सुश्रूषा यत्र यत्रार्थे यस्य यस्य यथा यथा / स सो ऽर्थः ख्यात्यशब्दोपि तस्य तस्य तथा तथा //
ऽयस्य यस्यऽ विनेयस्य / ऽयत्र यत्रार्थे ऽ इति निर्वेधभागीयेष्वार्यमार्गे वा / ऽयथा यथाऽ इति येन येनाकारेण / अथ खलु शक्रेत्यादि / द्वितीयाद् अथ खलु शक्रशब्दात् प्राक् निर्वेधभागीयानि वक्तव्यानि / तत्र बुद्धधर्मेषु शिक्षत इत्येतदन्तेन ऊष्मा / नामपदैः प्रज्ञप्तिः व्यवहारः / तान् निर्दिशति / न च विरोधयति तां चोत्तानीकरोति / तामेव चोपदिशति / तथा हि प्रज्ञप्तिमात्रं रूपं प्रज्ञप्तिमात्रमेव धर्मतेत्युपदिशति इत्यूष्मा /
यो ऽप्रमेयेष्वित्यादिना न परिहाणायेत्येतदन्तेन मूर्धा / कथं न शिक्षते, अनुपलम्भादिति / इति मूर्धा / यो न रूपस्य विवृद्धय इत्यादिना अथ खल्वायुष्मानित्यतः प्राक् क्षान्तिः / अत्र रूपादेरपरिग्रहयुक्तिर्महत्योर्भगवत्योरुक्ता ऽअध्यात्मशून्यतां यावदभावस्वभावशून्यतामुपादायऽ इति / इति क्षान्तिः / अथ खल्वायुष्मानित्यादिना अथ खलु शक्र इत्यतः प्रागग्रधर्मः / एवं चेति बुद्धिस्थं हेतुः परामृशति / महत्योर्भगवत्योर्य उक्तः तथा हि "न स रूपस्योत्पादं पश्यति न निरोधं नोद्ग्रहं नोत्सर्गं न संक्लेशं नावदानं न चयं नापचयं नो हानिर्न वृद्धिम्" इत्यग्रधर्माः / अतः शास्त्रम्-
[39] प्रज्ञप्तेरविरोधेन धर्मतासूचनाकृतिः / ऊष्मगं मूर्धगं रूपाद्यहानादिप्रभावितम् // 2-9 //
[40] अध्यात्मशून्यताद्याभी रूपादेरपरिग्रहात् / क्षान्ती रूपाद्यनुत्पादाद्याकारैरग्रधर्मता // 2-10 //
इत्युक्तः प्रत्येकबुद्धमार्गः //
बोधिसत्त्वस्य मार्गो वक्तव्यः / तमधिकृत्य शास्त्रम्-
[41] क्षान्तिज्ञानक्षणैः सत्यं सत्यं प्रति चतुर्विधैः / मार्गज्ञतायां दृङ्मार्गः सानुसं (शं) सोयमुच्यते // 2-11 //
इति संक्षेपेण सूत्रार्थः / द्वे क्षान्ती द्वे च ज्ञाने प्रतिसत्यम् / दुःखे धर्मज्ञानक्षान्तिर्दुःखे धर्मज्ञानम् / दुःखे अन्वयज्ञानक्षान्तिर्दुःखे अन्वयज्ञानम् / एवं समुदयनिरोधे मार्गे च / एभिः प्रतिसत्यं चतुर्विधैः क्षणैर्बोधिसत्त्वस्य दर्शनमार्गज्ञतायामुच्यते सहानुसं(शं)स्यैः / एषां तु क्षणानां विशेषलक्षणमधिकृत्य शास्त्रे पञ्च श्लोकाः-
[42] आधाराधेयताभावात्तथताबुद्धयोर्मिथः / पर्यायेणाननुज्ञानं महत्ता साप्रमाणता // 2-12 //
[43] परिमाणात्तथताभावो रूपादेरवधारणम् / तस्यां स्थितस्य बुद्धत्वे ऽनुग्रहात्यागतादयः // 2-13 //
[44] मैत्र्यादि शून्यताव्याप्तिर्बुद्धत्वस्य परिग्रहः / सर्वस्य व्यवदानस्य सर्वाधिव्याधिशातनम् // 2-14 //
[45] निर्वाणग्राहसा (शा)न्तत्वं बुद्धेभ्यो रक्षणादिकम् / अप्रमाणि (अप्राणि) वधमारभ्य सर्वाकारज्ञता नये // 2-15 //
[46] स्वयं स्थितस्य सत्वानां स्थापनं परिणामनम् / दानादीनां च सम्बोधाविति मार्गज्ञताक्षणाः // 2-16 //
मार्गज्ञतायां बोधिसत्त्वस्य दर्शनमार्गक्षणा इत्यर्थः /
इमां तु भगवतीमधिकृत्याद्यं पादत्रयमन्यथा कर्तव्यम् / तत्राद्यः क्षणः पादद्वयेन-
रूपादितो धीर्नानन्या न चान्या परमार्थतः /
धीः प्रज्ञापारमिता सा रूपादिभ्यो नाभिन्ना लक्षणभेदात् / न च भिन्ना परमार्थतः / तथा हि / या प्रज्ञापारमिता यद्रूपादि या रूपादितथता या च गवेषणा सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिणो ऽनिदर्शनाप्रतिघा एकलक्षणा यदुतालक्षणाः, न संयुक्ता न विसंयुक्ता इति / नाभिन्नाः न भिन्नाः कल्पिता नामत्वात् / भेदाभेदयोश्च भावधर्मत्वात् / अत एव रूपस्कन्धाभावादरूपिणः / चक्षुर्विज्ञानाभावादनिदर्शनाः / स्वदेशे परस्योत्पत्तेरविबन्धनादप्रतिघाः / भेदप्रतिभासानामस्तङ्गमादेकलक्षणाः / यदुतालक्षणा इति तथतामात्रलक्षणाः / अत आद्यस्य क्षणस्य प्रस्तावना / अथ खलु शक्र इत्यादिना तत्कस्य हेतोरित्यतः प्राक् / तत उर्ध्वमाद्यक्षण एवमुक्त इत्यतः प्राक् / इति दुःखे धर्मज्ञानक्षान्तिः /
चतुर्णां क्षणानां विशेषलक्षणं शास्त्रेण-
[43अ] तस्या [:] चतुष्टयं यत्तु महत्ता साप्रमाणता / परिमाणान्तताभावौ रूपादेः
सह अप्रमाणतया ऽसाऽप्रमाणताऽ / ऽमहत्ताऽ अप्रमाणता चेत्यर्थः / अन्त एवान्तता / परिमाणश्चान्तता / च तयोरभावौ अपरिमाणता / अनन्तता चेत्यर्थः / ऽतस्याःऽ इति प्रज्ञापारमितायास्तन्महत्तादि ऽचतुष्टयं यत् रूपादेःऽ इति सम्बन्धः / रूपादेर्महत्त्वादिना तदालम्बनायाः प्रज्ञापारमिताया महत्त्वादि / महापारमिता / अप्रमाणपारमिता / अपरिमाणपारमिता / अनन्तपारमिता चेत्यर्थः / एतच्च महापारमिताविज्ञानं निरभिनिवेशं द्रष्टव्यम् / एवं महापारमितेति कौशिक नाभिनिविशत इत्यादेः सूत्रपाठात् / अत एवमुक्ते शक्रेण तेषामुद्देशः / स्थविर इत्यादिकः सुभूतिना सश्लाधानुवादः / ततः सुभूतिनैव निर्देशः तत्कस्येत्यादि / तत्र रूपादीनां महत्ता- अमुष्मिन् काले भावो ऽमुष्मिन्नभावः- इत्येवं कालतो ऽपरिच्छेदात् तदालम्बनत्वात्तस्य महत्त्वम् / इति दुःखे धर्मज्ञानम् //
आकासो(शो)पमेन तथताशरीरेण प्रमाणतो ऽपरिच्छेदादप्रमाणतेति / दुःखे ऽन्वयज्ञानक्षान्तिः //
संख्यया अपरिच्छेदादपरिमाणतेति दुःखे ऽन्वयज्ञानम् //
देशतो ऽपरिच्छेदादनन्तता आरम्बणनन्ततया च / आरम्बणं सर्वधर्मा न च तेषामन्ततो(ता)ऽस्ति गणनातिक्रान्तत्वात् / अपि च सर्वधर्मा अनन्ता असत्त्वेन तेषामुत्पादविनाशान्तयोरभावात् / सत्त्वा अप्यालम्बनमुभयनैरात्म्यज्ञाने / ते चानन्ताः / शक्र आह / तत्कथमनन्ता इति / सुभूतिराह / न गणना अयोगेन गणनाबहुत्वेन वेति / न गणनातिक्रान्तत्वेन / नाप्यनन्ताख्यया संख्ययेत्यर्थः / कथं तर्हीति तर्हि शब्दो ऽक्षमायाम् / न धर्माधिवचनमिति धर्म आत्मद्रव्यं न तस्याधिवचनं तस्याभावात् / धर्मत्वेन स्वार्थाभिधानात् नाधर्माधिवचनम् / प्रक्षिप्तमिति सूत्रैः प्रयुक्तम् / कुतः? यत आगंतुकं सति विचारे चलत्वात् / यतो ऽवस्तुकं आत्मद्रव्याभावात् / आत्मसम्बन्धादप्यात्मेति किञ्चिदुच्यते / तदपि नास्त्यात्मनो ऽत्यन्तमसत्त्वादित्यनात्मीयम् / अथवा आत्मप्रज्ञप्तिविषयः स्कन्धादिरात्मीयस्तस्याप्यभावादनात्मीयम् / अथवा नाम संज्ञा तस्यात्मीयः संज्ञी / तदभावादनात्मीयम् / आरम्बणं विषयस्तदभावात् आनारम्बणम् / अत्रेति शास्तृशासने / (rst_31) एतच्चाप्तवचनादपि नैरात्म्यसिद्धिं दर्शयितुमाह / का सत्वानन्ततेति / गणनाति क्रान्तत्वेन न काचित्प्रमाणसिद्धेपि नैरात्म्येआप्तवचनादपि नात्मसिद्धिरिति दर्शयितुमाह / सचेत्यादि / स्वरेणेति वचनेन / अनन्तस्य लोकस्य विज्ञप्तिरर्थज्ञापनो घोषः शब्दो ऽस्येति तथोक्तेन / तथाप्यतिमांसलत्वात् गम्भीरो निर्घोषस्तूर्यनिर्घोषवद्विचित्रः शब्दोस्येति तथोक्तेन / अवितिष्ठमान इति अविश्राम्येन / अपि न्विति किन्नु / आदिशुद्धत्वमादित एवासत्त्वपरिशुद्धत्वं सर्वत्रासत्त्वम् / अनेनापि पर्यायेण प्रकारेण / अनन्तपारमितेयम् / कतमेनेत्यत आह / एवं सत्त्वानन्तयेति / सत्वानामुत्पादनिरोधान्तविरहात् सत्त्वानन्ततयेति / एवं चेत्येवमेव / न गणानतिक्रान्तत्वेनेति समुदये धर्मज्ञानक्षान्तिः //
अवधारणम् //
तस्यां स्थितस्य बुद्धत्वे,
ऽतस्यांऽ प्रज्ञापारमितायां स्थितायां यद् ऽबुद्धत्वे ऽवधारणंऽ बुद्ध एव स दृष्टव्य इति स षष्ठः क्षणः / तस्य प्रस्तावना / अथ खलु सेन्द्रका इत्यादिना / इन्द्र शक्रः / ब्रह्मा सहापतिः / प्रजापतयश्चत्वारो लोकपालाः / विशिष्ट धर्मश्रवणप्रहर्षादप्रयत्नजं वचनं उदानं तत् उदानयन्ति स्म / उदीरतवन्तः / अहो इत्याश्चर्ये / धर्म इति देशनाधर्मः / पुनः धर्म इति धर्मप्रकाशितो दर्शनमार्गः / तस्यैव धर्मस्य धर्मता प्रकृतिस्तथा गतोत्पादनम् / अत एवाहुः य इत्यादि / प्रादुर्भाव उत्पादो ऽनाश्रवलक्षणः सूच्यते / तद्वचनात्किलादौ प्रतीतेः / ततः क्रमेन(ण) स्फुटेन स्फुटतरं स्फुटतमं च प्रतीतेः / देश्यते प्रकाश्यते प्रभाव्यते च / तथागतमित्यादिना तमेव षष्ठं क्षणमाहुः / अद्याग्रेणेति / अद्य प्रभृति धारयिष्यामः / अविरहितो प्राप्तापरिहाणात् / विहरिष्यति संमुखीभावात् / तथागतं तु स्वयमवधारयिष्याम इति यदुक्तं तत्तथागतत्वे नियतमविशेषलाभात् / तल्लाभे च व्याकरणम् / तत आह यदाहमित्यादि / अल्पवयो हि श्रोत्रियो माणवक इत्युच्यते / तस्यामन्त्रणंमाणवक, भविष्यसि बुद्धो भगवान् स्वयमभिसंबोधात् / बुद्धिरतिशयेनास्यास्तीति बुद्धः / तादृशं प्रत्येकबुद्धोपीति / तद्वयवच्छेदार्थं भगवद् ग्रहणम् / षडिवधेन भगार्थेन तस्य योगात् / भगवान् बोधिसत्त्वोपि / तद्वयवच्छेदार्थं बुद्धग्रहणं तस्यानभिसम्बोधात् / यथा धर्मास्तथैव गदनात् तथागतः / गदेः पचाद्यच् / नैरुक्तस्तकारः / अरयः क्लेशास्तान् हतवानिति अर्हन् / सम्यगविपरीतं समस्तं बुद्धमनेनेति सम्यक्संबुद्धः / एतेन (rst_32) शास्तृत्वसंपदुक्ता / न ह्यवक्ता विपरीतवक्ता वा शास्ता भवति / विपरीतवचनं च क्लेशवशादज्ञानाद्वा भवेत् / तच्चोभयमस्य नास्ति यथाक्रममर्हत्वात् सम्यक्सम्बुद्धत्वाच्च् / संसारिणः कथमी[दृशी] शक्तिरिति चेदाह सुगत इति / गतः पुनर्भवात् मुक्तः / सुशब्दः प्रस (श)स्तापुनरावृत्तिनिःशेषार्थः, सुरूपवत् सुनष्टज्वरवत् सुपूर्णघटवच्च / बाह्यशैक्षाशैक्षाणां व्यवच्छेदाय यथाक्रमम् / तत्र लोकोत्तरेण मार्गेण गतत्वात् प्रशस्तं गतः / नैवं बाह्याः / सावधिकत्वेन तन्मोक्षस्यामोक्षत्वात् /
"पुनरावृत्तिरित्युक्तौ जन्मदोषसमुभ्दवौ /"
तौ च शैक्षाणाम् / अशैक्षस्तु भगवांस्तस्मादपुनरावृत्त्या गतः / शेषमक्लेशनिर्ज्वरं /
"कायवाक्बुद्धिवैगुण्यं मार्गाक्षपटुतापि वा /"
तदशैक्षाणामपि हीनयानर्हतां यथासम्भवमस्ति / न तु भगवतः / ततो निःशेषगमनात् सुगतः / कथमेकः सुशब्दस्त्रीनर्थानाह? तन्त्रेण न्यायेन / तद्यथा श्वेतो धावति / अलम्बुमाणां यातेति / श्वेतः शुक्लः श्वा इतः श्वेतः / अलम्बुमा नाम ग्रामः / तस्य याता गन्ता बुमा अपि ग्रामः / तस्यालङ्गन्तेति / कथं सुगतः? यतो विद्याचरणसम्पन्नः / विद्या अधिप्रज्ञं शिक्षा, अधिशीलमधिचित्तं च / शिक्षाचरणं विद्या पुरश्चरणत्वात्तयोः / अतो विद्यया चक्षुषेव पश्यन् / इतराभ्यां चरणाभ्यामिव तथा गमनात् सुगतः / तदनेन पदद्वयेन शास्तृत्वसम्पदो हेतुरूक्तः / लोकविदिति लोकस्य विनयनकालाकालादिपरिज्ञानाल्लोकवित् / पुरुषा एव दम्या दमनीया विनेयत्वात् / तेषां सारथिः सम्यग्विनेता / तस्य सदृशः सारथिरस्त्येव / तदन्यः सुगतस्ततोधिकस्तु / नास्तीति अनुत्तरः पुरुषदम्यसारथिः / अनेन पदद्वयेन शास्तृत्वसम्पदो हेतुरुक्तः / अथास्य कर्मणो विषयः / किं दुर्गतिं गता अपि? नेत्याह / शास्ता देवानां च मनुष्याणां चेति / इति समुदये धर्मज्ञानम् //
अथ खलु त इत्यादिना सप्तमं क्षणमाहुः / आश्चर्यमाहारिकार्थे / परमाश्चर्यमनुपरिग्राहिकाथे / यावच्छब्दः पर्यन्तार्थः / दानपारमिताया शीलपारमिताया यावत् सर्वज्ञतायाः सर्वाकारज्ञताया इत्यर्थः / आहारिकेत्याकर्षिका / अनुपरिग्राहिकेत्यनुशब्दो ऽन्वयार्थः / अन्वयो युक्तिर्न्यायः / अपरिग्रहोनुत्सर्गयोगः / अपरिग्रहानुत्सर्गयोगयोः साहित्यम् / अन्वयेन परिग्राहिका यथा न परिगृण्हाति न चोत्सृजति तथा परिग्राहिकेत्यर्थः / अत्र शास्त्रम्-
अनुग्रहात्यागतादयः //
इति / आदानमादिपरिग्रहः / अनुग्रहो ऽविकल्पनम् / अयमपरिग्रहार्थः / अत्याग एव अत्यागता / अयमनुत्सर्गार्थः / बोधिसत्त्वाः परिगृण्हन्ति / भगवती तान् परिग्राहयतीति समुदये ऽन्वयज्ञानक्षान्तिः //
शक्रेण प्रस्तावकत्वादुपलक्षितः परिवर्तः शक्रपरिवर्तः //
आर्याष्टसाहस्त्रिकायाः प्रज्ञापारमितायाः सारतमानाम्नि पञ्जिकायां रत्नाकरशान्तिविरचितायां द्वितीयः परिवर्तः //
3. अप्रमेयगुणधारणपारमितास्तूपसत्कारो नाम तृतीयः /
ऽमैत्र्यादिऽ इति शास्त्रम् / मैत्री करुणामुदितोपेक्षाश्चत्वार्यप्रमाणानि मैत्र्यादि / तदात्मकं दर्शनमष्टमः क्षण इत्यर्थः / तद्देशना निदानम् / अथ खलु भगवानित्यादिना आमन्त्रयते स्मेत्येतदन्तेन संगीतिकार आह / साक्षीकरणमष्टमे क्षणे हीनयानपतनप्रतिपक्षगौरवातिशयोत्पादनाय / तमेव क्षणम् / भगवानाह / यो हीत्यादिना प्रज्ञापारमितामिति प्रकरणाद्दर्शनक्षणः / प्रज्ञा सैव पारंगतेति पारमिता / कस्य पारम्? हीनयानपतनभूमेः / का चासौ? या चतुर्(र्णां) अप्रमाणात्मकं दर्शनम् / तथाहि तत्प्राप्तो बोधिसत्त्वः सर्वसत्त्वेष्वात्मसमतादर्शी तानशरणान् हित्वा नात्मनः केवलस्य हितमीहते येन हीनयाने निपतेत् / तस्मान्मैत्र्यादिरूपं दर्शनमत्र प्रज्ञापारमिता / सैव चाष्टमः क्षणः / तां यः कश्चिद् ग्रहीष्यति यावत् पर्यवाप्स्यति साक्षात्करणात् / प्रवर्तयिष्यतीति परेभ्यः प्रकाशितायास्तस्यास्तैरुद्ग्रहणात् / यावत्प्रवर्तनात् / न तस्येत्यादिरनुशंस्तः (सः) प्रवर्तयिष्यतीति यावत् / इति समुदये अन्वयज्ञानम् /
ऽशून्यताव्याप्तिःऽ इति शास्त्रम् / षोडशानां शून्यतानां दर्शनेन या व्याप्तिः सर्वासां दर्शनं स नवमः क्षणः इत्यर्थः / तमाह / न च खल्वित्यादिना / (rst_34) इहापि दर्शनक्षणः प्रज्ञापारंगतेति पारमिता / कस्य पारम्? शून्यतानां षोडशानामपि / तासां दर्शनात् / अत्रानुशंसः / आद्वितीयादथ / खलु शब्दात् / अच्छन्नः प्रदेशो अवकाशः / निपन्नः शयितः / भविष्यति प्रबन्धेन प्रवक्ष्यति / रक्षावरणसहिता गुप्तिः / तत्र शस्त्रादिना रक्षा रक्षनियोगादावरणम् / स्वयमुपसंक्रम्य तस्याधिष्ठानात् गुप्तिः / अथवा शरीरस्य सर्वसुखोपसंहरणं रक्षा / बाह्योपक्रमनिवारणमावरणम् / आध्यात्मिकरोगादिनिवारणं गुप्तिः / तेषां संविधानं सम्यक् प्रयोगो वा वा मनसा वा / इति निरोधे धर्मज्ञानक्षान्तिः //
ऽबुद्धत्वस्य परिग्रहःऽ इति / बुद्धस्य भावो बुद्धत्वम् / येन बुद्धो भवति तस्य परिग्रहलक्षणः प्रभास्वरसमाधिधारणासम्पत् / अबुद्धकेषु च बुद्धक्षेत्रेषु बुद्धरूपस्यात्मनः संदर्शनम् / तमाह / अथ खलु शक्र इत्यादिना / इमां प्रज्ञापारमितामितिं दर्शनक्षणम् / इमान् गुणानिति लक्षणसम्पदादीन् / इयत इत्यभ्युन्नतान् / दृष्टधार्मिकानिति दृष्टो धर्मः प्राप्तं जन्म / तत्रभवान् / प्रतिलभत इत्युद्देशः / परिगृण्हातीति निर्देशः / इति निरोधे धर्मज्ञानम् //
ऽसर्वस्य व्यवदानस्यऽ इत्येकादशः / व्यवदायन्त्यनेनेति व्यवदानम् / दानपारमितादि / तस्य सर्वस्य परिग्रहः / तमाह / किं पुनरित्यादिना पुनरपरमित्यतः प्राक् / इति निरोधे अन्वयज्ञानक्षान्तिः /
ऽसर्वाधिव्याधिशातनंऽ इति / आधयो व्यसनानि / तीर्थिकैराभिमानिकैश्च सह विग्रहविवादनि(वि)रोधास्तेषां शातनम् / तथा च तच्छतनं यथा तेषां पश्चात्तत इमां श्रुतवतां त्रिभिर्यानैः क्लेशदुर्गतिसंसारारुया व्याधयः क्षीयन्ते / तस्मात् सर्वाधिशातनम् / दर्शनं द्वादशः क्षणः / तमाह पुनरपरमित्यादिना संस्थाप्यन्त इत्येतदन्तेन / धर्ममिति शासनम् / विग्रहीतव्यं ताडनेन / विवदितव्यं कलहेन / विरोधयितव्यं परस्परद्वेषेण / ते ऽभिप्राया इति विग्रहाद्यभिप्रायाः / एवं ह्येतभ्दवतीति / एषैव हि धर्मतेत्यर्थः इमामिति द्वादशक्षणलक्षणाम् / [ओषधी] ओषः प्रभावः / स धीयते ऽस्यामिति दधातेः क्विप् प्रत्ययः / जातिरेषा तत ओषधेरजातावित्यण भवति / स्त्रीलिङ्गश्चायं ततः कृदिकारादक्तिङ् इति दीर्घविकल्पः / आशीः सर्पस्य दंष्ट्रा / तस्यां विषमस्येति आशीविषः सर्पः / जन्तुर्देही / (rst_35) प्राणकजात इति तिर्यग्विशेषः / तेजसेति प्रभावेन / बलेनेति बाधकत्वेन / स्थामत इत्यबाध्यत्वेन / बलाधानेनेति तद्योगेन सामर्थ्याधानात् / इति निरोधे अन्वयज्ञानम् /
ऽनिर्वाणग्राहशान्तत्वंऽ इति / ग्राहो ऽभिनिवेशः / एतदाह तत्कस्य हेतोरित्यादिना / प्रज्ञापारमितेति त्रयोदशः क्षणः / इति मार्गे धर्मज्ञानक्षान्तिः //
ऽबुद्धेभ्यो रक्षणादिकंऽ इति बुद्धेभ्यो रक्षणम् / आदिशब्दाद्देवादिभ्यः / एतदाह / चत्वारश्चेत्यादिना भविष्यतीत्येतदन्तेन / प्रज्ञापारमि[तामि]ति चतुर्दशक्षणः / इति मार्गे धर्मज्ञानम् //
ऽअप्राणिवधमारभ्य सर्वाकारज्ञता नये / स्वयं स्थितस्य सत्त्वानां स्थापनंऽ
इति प्राणातिपातविरतिरप्राणिवधः / तमादिं कृत्वा यत्पारमितादौ यावत्सर्वाकारज्ञतायां स्थितस्य तत्रैव यत्परेषां स्थापनं स पञ्चदशक्षणः / एतदाह पुनरपरमित्यादिना / प्रज्ञापारमितादीनां परेभ्य उपदेशो वचनम् / आदेयं ग्राह्यम् / तदस्य स्वयमपि तेषु स्थितत्वादित्यादेयवचनः / मृदु प्रियं वचनमस्येति मृदुवचनः / दानादीनां तेषु च स्थितानां वर्णभाषणात् / मितवचनो हितस्यैव वचनात् / अप्रकीर्णवचनो हितस्याप्यहितमिश्रस्यावचनात् / इति मार्गे अन्वयज्ञानक्षान्तिः //
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
