Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng
रत्नगोत्रविभाग
- Thông tin
- GRETIL — E.H. Johnston, repr. in: H.S. Prasad. The Uttaratantra of Maitreya. Delhi 1991.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
सख ल्वेष तथागतथातुर्बुद्धभूमावत्यन्तविमलविशुद्धप्रभास्वरतायां स्वप्रकृतौ स्थितः पूर्वान्तमुपादाय नित्यत्वान्न पुनर्जायते मनोमयैरात्मभावैः / अपरान्तमुपादाय ध्रुवत्वान्न पुनर्म्रियते ऽचिन्त्यपारिणामिक्या च्युत्या / पूर्वापरान्तमुपादाय शिवत्वान्न पुनर्वाध्यते ऽविद्यावासभूमिपरिग्रहेण / यश्चैवमनर्थापतितः स शाश्वतत्वान्न पुनर्जीर्यत्यनास्रवकर्मफलपरिणामेन /
तत्र द्वाभ्यामथ द्वाभ्यां द्वाभ्यां द्वाभ्यां यथाक्रमम् / पदाभ्यां नित्यताद्यर्थो विज्ञेयो ऽसंस्कृते पदे // 83 //
तदेषामसंस्कृतधातौ चतुर्णा नित्यध्रुवशिवशाश्वपदानां यथाक्रममेकैकस्य पदस्य द्वाभ्यां द्वाभ्यामुद्देशनिर्देशपदाभ्यामर्थप्रविभागो यथासूत्रमनुगन्तव्यः / यदाह / नित्यो ऽयं शारिपुत्र धर्मकायो ऽनन्यत्वधर्माक्षयधर्मतया / ध्रुवो ऽयं शारिपुत्रधर्मकायो ध्रुवशरणो ऽपरान्तकोटीसमतया / शिवो ऽयं शारिपुत्र धर्मकायो ऽद्वयधर्माविकल्पधर्मतया / शाश्वतो ऽयं शारिपुत्र धर्मकायो ऽविनाशधर्माकृत्रिमधर्मतयेति /
(rgv 55) अस्यामेव विशुद्धावस्थायामत्यन्तव्यवदा ननिष्ठागमनलक्षणस्य तथागतगर्भस्या संभेदार्थमारभ्य श्लोकः /
स धर्मकायः स तथागतो यतस्तदार्यसत्यं परमार्थनिर्वृतिः / अतो न बुद्धत्वमृते ऽर्करश्मिवद् गुणाविनिर्भागतयास्ति निर्वृतिः // 84 //
तत्र पूर्वश्लोकार्धेन कि दर्शयति /
धर्मकायादिपर्याया वेदितव्याः समासतः / चत्वारो ऽनास्रवे धातौ चतुरर्थप्रभेदतः // 85 //
समासतो ऽनास्रवे धातौ तथागतगर्भे चतुरो ऽर्थानधिकृत्य चत्वारो नामपर्याया वेदितव्याः / चत्वारो ऽर्थाः कतमे /
बुद्धधर्माविनिर्भागस्तद्गोत्रस्य तथागमः / अमृषामोषधर्मित्वमादिप्रकृतिशान्तता // 86 //
बुद्धधर्माविनिर्भागार्थः / यमधिकृत्योक्तम् / अशून्यो भगवंस्तथागतगर्भो गङ्गाअनदीवालुकाव्यतिवृत्तैरविनिर्भागैरमुक्तज्ञैरचिन्त्यैर्बुद्धधर्मैरिति / तद्गोत्रस्य प्रकृतेरचिन्त्यप्रकारसमुदागमार्थः / यमधिकृत्योक्तम् / षडायतनविशेषः स तादृशः परंपरागतो ऽनादिकालिको धर्मताप्रतिलब्ध इति / अमृषामोपार्थः / यमधिकृत्योक्तम् / तत्र परमार्थसत्यं यदिदममोषधर्मि निर्वाणम् / तत्कस्माद्धेतोः / नित्यं तद्गोत्रं समधर्मतयेति / अत्यन्तोपशमार्थः / यमधिकृत्योक्तम् / आदिपरिनिर्वृत एव तथागतो ऽर्हन् सम्यक्संबुद्धो ऽनुत्पन्नो ऽनिरुद्ध (rgv 56) इति / एषु चतुर्ष्वर्थेषु यथासंख्यामिम चत्वारो नामपर्याया भवन्ति / तद्यथा धर्मकायस्तथागत परमार्थसत्यं निर्वाणमिति / यत एवमाह / तथागतगर्भ इति शारिपुत्र धर्मकायस्यैतदधिवचनमिति / नान्यो भगवंस्तथागतो ऽन्यो धर्मकायः / धर्मकाय एव भगवंस्तथागत इति / दुःखनिरोधनाम्ना भगवन्नेवंगुणसमन्वागतस्तथागतधर्मकायो देशित इति / निर्वाणधातुरिति भगवंस्तथागतधर्मकायस्यैतदधिवचनमिति /
तत्रापरेण श्लोकार्धेन किं दर्शयति /
सर्वाकाराभिसंबोधिः सवासनमल्लोद्धृतिः / बुद्धत्वमथ निर्वाणमद्वयं परमार्थतः // 87 //
यत एते चत्वारो ऽनास्रवधातुपर्यायास्तथागतधातावेकस्मिन्नभिन्ने ऽर्थे समवसरन्ति / अत एषामेकार्थत्वादद्वयधर्मनयमुखेन यच्च सर्वाकारसर्वधर्माभिसंबोधाद्रुद्धत्वमित्युक्तं यच्च महाभिसंबोधात् सवासनमलप्रहाणान्निर्वाणमित्युक्तमेतदुभयमनास्रवे धातावद्वयमिति द्रष्टव्यमभिन्नमच्छिन्नम् /
सर्वाकारैरसंख्येयैरचिन्त्यैरमलैर्गुणैः / अभिन्नलक्षणो मोक्षो यो मोक्षः स तथागत इति //
यदुक्तमर्हत्प्रत्येकबुद्धपरिनिर्वाणमधिकृत्य / निर्वाणमिति भगवन्नुपाय एष तथा गतानामिति / अनेन दीर्घाध्वपरिश्रान्तानामटवीमध्ये नगरनिर्माणवदविवर्तनोपाय एष धर्मपरमेश्वराणां सम्यक्संबुद्धानामिति परिदीपितम् / निर्वाणाधिगमाद् (rgv 57) भगवंस्तथागता भवन्त्यर्हन्तः सम्यक्संबुद्धाः सर्वाप्रमेयाचिन्त्यविशुद्धिनिष्ठागतगुणसमन्वागता इति / अनेन चतुराकारगुणनिष्पत्स्वसंभिन्नलक्षणं निर्वाणमधिगम्य तदात्मकाः सम्यक्संबुद्धा भवन्तीति / बुद्धत्वनिर्वाणयोरविनिर्भागगुणयोगादुद्धत्वमन्तरेण कस्यचिन्निर्वाणाधिगमो नास्तीति परिदीपितम् / तत्र तथागतानामनास्रवे धातौ सर्वाकारवरोपेतशून्यताभिनिर्हारतश्चित्रकरदृष्टान्तेन गुणसर्वता वेदितव्या /
अन्योन्यकुशला यद्वद्भवेयुश्चित्रलेखकाः / यो यदङ्गं प्रजानीयात्तदन्यो नावधारयेत् // 88 //
अथे तेभ्यः प्रभू राजा प्रयच्छेद्दुष्यमाज्ञया / सर्वैरेवात्र युष्माभिः कार्या प्रतिकृतिर्मम // 89 //
ततस्तस्य प्रतिश्रुत्य युञ्जेरंश्चित्रकर्मणि / तत्रैको व्यभियुक्तानामन्यदेशगतो भवेत् // 90 //
देशान्तरगते तस्मिन् प्रतिमा तद्वियोगतः / न सा सर्वाङ्गसंपूर्णा भवेदित्युपमा कृता // 91 //
लेखका ये तदाकारा दानशीलक्षमादयः / सर्वाकारवरोपेता शून्यता प्रतिमोच्यते // 92 //
तत्रैषामेव दानादीनामेकैकस्य बुद्धविषयापर्यन्तप्रकारभेदभिन्नत्वादपरिमितत्वं वेदितव्यम् / संख्याप्रभावाभ्यामचिन्त्यत्वम् / मात्सर्यादिविपक्षमलवासनापकर्षितत्वाद्विशुद्धिपरमत्वमिति / तत्र सर्वाकारवरोपेतशून्यतासमाधिमुखभावनयानुत्पत्तिकधर्मलाभादचलायां बोधिसत्त्वभूमावविकल्पानिश्छिद्रनिरन्तरस्वरसवाहिमार्गज्ञानसंनिश्रयेण (rgv 58) तथागतानामनास्रवे धातौ गुणसर्वता समुदागच्छति / साधुमत्यां बोधिसत्त्वभूमावसंख्येयसमाधिधारणीमुखसमुद्रैरपरिमाणबुद्धधर्मपरिग्रहज्ञानसनिश्रयेण गुणाप्रमेयता समुदागच्छति / धर्ममेघायां बोधिसत्त्वभूमौ सर्वतथागतगृह्यस्थानाविपरोक्षज्ञानसंनिश्रयेण गुणाचिन्त्यता समुदागच्छति / तदनन्तरं बुद्धभूभ्यधिगमाय सर्वसवासनक्लेशज्ञेयावरणविमोक्षज्ञानसंनिश्रयेण गुणविशुद्धिपरमता समुदागच्छति / यत् एषु चतुर्षु भूमिज्ञानसंनिश्रयेष्वर्हत्प्रत्येकबुद्धा न संदृश्यन्ते तस्मात्ते दूरीभवन्ति चतुराकारगुणपरिनिष्पत्त्यसंभिन्नलक्षणान् निर्वाणधातोरित्युक्तम् /
प्रज्ञाज्ञानविमुक्तीनां दीप्तिस्फरणशुद्धितः / अभेदतश्च साधर्म्यं प्रभारश्म्यर्कमण्डलैः // 93 //
यया प्रज्ञया येन ज्ञानेन यया विमुक्त्या स चतुराकारगुणनिष्पत्त्यसंभिन्नलक्षणो निर्वाणधातुः सूच्यते तासां यथाक्रमं त्रिभिरेकेन च कारणेन चतुर्विधमादित्यसाधर्म्य परिदीपितम् / तत्र बुद्धसान्तानिक्या लोकोत्तरनिर्विकल्पायाः परमज्ञेयतत्त्वान्धकारविधमनप्रत्युपस्थानतया प्रज्ञाया दीप्तिसाधर्म्यम् / तत्पृष्ठलब्धस्य सर्वज्ञज्ञानस्य सर्वाकारनिरवशेषज्ञेयवस्तुप्रवृत्ततया रश्मिजालस्फरणसाधर्म्यम् / तदुभयाश्रयस्य चित्तप्रकृतिविमुक्तेरत्यन्तविमलप्रभास्वरतयार्कमण्डलविशुद्धिसाधर्म्यम् / तिसृणामपि धर्मधात्वसंभेदेस्वभावतया तत्त्रयाविनिर्भागसाधर्म्यमिति /
अतो ऽनागम्य बुद्धत्वं निर्वाणं नाधिगम्यते // न हि शक्यः प्रभारश्मी निर्वृज्य प्रेक्षितुं रविः // 94 // (rgv 59) यत एवमनादि सांनिध्यस्वभावशुभधर्मोपहिते धातौ तथागतानामविनिर्भागगुणधर्मत्वमतो न तथागतत्वमसङ्गाप्रतिहतप्रज्ञाज्ञानदर्शनमनागम्य सर्वावरणविमुक्तिलक्षणस्य निर्वाणधातोरधिगमः साक्षात्करणमुपपद्यते प्रभारश्म्यदर्शिन इव सूर्यमण्डलदर्शनम् / अत एवमाह / न हि भगवन् हीनप्रणीतधर्माणां निर्वाणाधिगमः / समधर्माणां भगवन् निर्वाणाधिगमः / समज्ञानानां समविमुक्तीनां समविमुक्तिज्ञानदर्शनानां भगवन् निर्वाणाधिगमः / तस्माद्भगवन् निर्वाणधातुरेकरसः समरस इत्युच्यते / यदुत विद्याविमुक्तिरसेनेति /
जिनगर्भव्यस्थानमित्येवं दशंधोदितम् / तत्क्लेशकोशगर्भत्वं पुनर्ज्ञेयं निदर्शनैः // 95 //
इत्येतदपरान्तकोटिसमध्रुवधर्मतासंविद्यमानतामधिकृत्य दशविधेनार्थेन तथागत गर्भव्यवस्थानमुक्तम् / पुनरनादिसांनिध्यासंबद्ध स्वभावक्लेशकोशतामनादिसांनिध्यसंबद्ध स्वभावशुभधर्मतां चाधिकृत्य नवभिरुदाहरणैरपर्यन्तक्लेशकोशकोटीगूढस्तथागतगर्भ इति यथासूत्रमनुगन्तव्यम् / नवोदाहरणानि कतमानि /
बुद्धः कुपद्मे मधु मक्षिकासु तुषेसु साराण्य शुचौ सुवर्णम् / (rgv 60) निधिः क्षितावल्पफले ऽङ्कुरादि प्रक्लिन्नवस्त्रेषु जिनात्मभावः // 96 //
जघन्यनारीजठरे नृपत्वं यथा भवेन्मृत्सु च रत्नबिम्बम् / आगन्तुकक्लेशमलावृतेषु सत्त्वेषु तद्वत् स्थित एष धातुः // 97 //
पद्मप्राणितुषाशु चिक्षितिफलत्वक्पूतिवस्त्रावरस् त्रीदुःखज्वलनाभितप्तपृथिवीधातुप्रकाशा मलाः / बुद्धक्षौद्रसुसारकाञ्चननिधिन्यग्रोधरत्नाकृति- द्वीपाग्राधिपरत्नबिम्बविमलप्रख्यः स धातुः परः // 98 //
कुत्सितपद्मकोशसदृशाः क्लेशाः / बुद्धवत्तथागतधातुरिति / यथा विवर्णाम्बुजगर्भवेष्टितं तथागतं दीप्तसहस्रलक्षणम् / नरः समीक्ष्यामलदिव्यलोचनो विमोचयेदम्बुजपत्त्रकोशतः // 99 //
विलोक्य तद्वत् सुगतः स्वधर्मतामवीचिसंस्थेष्वपि बुद्धचक्षुषा / विमोचयत्यावरणादनावृतो ऽपरान्तकोटीस्थितकः कृपात्मकः // 100 //
यद्वत् स्याद्विजुगुप्सितं जलरुहं संमिञ्जि तं दिव्यदृक् तद्गर्भस्थितमभ्युदीक्ष्य सुगतं पत्राणि संछेदयेत् /
(rgv 61) रागद्वेषमलादिकोशनिवृतं संबुद्धगर्भं जगत् कारुण्यादवलोक्य तन्निवरणं निर्हन्ति तद्वन्मुनिः // 101 //
क्षुद्रप्राणाकसदृशाः क्लेशाः / क्षौद्रवत्तथागतधातुरिति /
यथा मधु प्राणिगणोपगूढं विलोक्य विद्वान् पुरुषस्तदर्थी / समन्ततः प्राणिगणस्य तस्मादुपायतो ऽपक्रमणं प्रकुर्यात् // 102 //
सर्वज्ञचक्षुर्विदितं महर्षिर्मधूपमं धातुमिमं विलोक्य / तदावृतीनां भ्रमरोपमानामश्लेषमात्यन्तिकमादधाति // 103 //
यद्वत् प्राणिसहस्रकोटीनियुतैर्मध्वावृतं स्यान्नरो मध्वर्थी विनिहत्य तान्मधुकरान्मध्वा यथाकामतः / कुर्यात्कार्यमनास्रवं मधुनिभं ज्ञानं तथा देहिषु क्लेशाः क्षुद्रनिभा जिनः पुरुषवत् तद्घातने कोविदः // 104 //
बहिस्तुषसदृशाः क्लेशाः / अन्तःसारवत्तथा गतधातुरिति /
धान्येषु सारं तुषसंप्रयुक्तं नृणां न य[द्व]त्परिभोगमेति / भवन्ति ये ऽन्नादिभिरर्थिनस्तु ते तत्तुषेभ्यः परिमोचयन्ति // 105 //
(rgv 62) सत्त्वेष्वपि क्लेशमलोपसृष्टमेवं न तावत्कुरुते जिनत्वम् / संबुद्धकार्यं त्रिभवे न यावद्विमुच्यते क्लेशमलोपसर्गात् // 106 //
यद्वत् कङ्गुकशालिकोद्रवयवव्रीहिष्वमुक्तं तुषात् सारं खाड्यसुसंस्कृतं न भवति स्वादूपभोज्यं नृणाम् //
तद्वत् क्लेशतुषादनिःसृतवपुः सत्त्वेषु धर्मेश्वरो धर्मप्रीतिरसप्रदो न भवति क्लेशक्षुधार्ते जने // 107 //
अशुचिसंकारधानसदृशाः क्लेशाः / सुवर्णवत्तथागतधातुरिति /
यथा सुवर्णं व्रजतो नरस्य च्युतं भवेत्संकरपूतिधाने / बहूनि तद्वर्षशतानि तस्मिन् तथैव तिष्ठेदविनाशधर्मि // 108 //
तद्देवता दिव्यविशुद्धचक्षुर्विलोक्य तत्र प्रवदेन्नरस्य / सुवर्णमस्मिन्नवमग्ररत्नं विशोध्य रत्नेन कुरुष्व कार्यम् // 109 //
दृष्ट्वा मुनिः सत्त्वगुणं तथैव क्लेशेष्वमेक्ष्यप्रतिमेषु मग्नम् / (rgv 63) तत्क्लेशपङ्कव्यवदानहेतोर्धर्माम्बुवर्षं व्यसृजत् प्रजासु // 110 //
यद्वत् संकरपूतिधानपतितं चामीकरं देवता दृष्ट्वा दृश्यतमं नृणामुपदिशेत् संशोधनार्थं मलात् / तद्वत् क्लेशमहाशुचिप्रपतितं संबुद्धरत्नं जिनः सत्त्वेषु व्यवलोक्य धर्ममदिश[त्त]च्छुद्धये देहिनाम् // 111 //
पृथिवीतलसदृशाः क्लेशाः / रत्ननिधान वत्तथागतधातुरिति /
यथा दरिद्रस्य नरस्य वेश्मन्यन्तः पृथिव्यां निधिरक्षयः स्यात् / विद्यान्न चैनं स नरो न चास्मिन्नेषो ऽहमस्मीति वदेन्निधिस्तम् // 112 //
तद्वन्मनो ऽन्तर्गतमप्य चिन्त्यमक्षय्यधर्मामलरत्नकोशम् / अबुध्यमानानुभवत्यजस्रं दारिद्रयदुःखं बहुधा प्रजेयम् // 113 //
यद्वद्रत्ननिधिर्दरिद्रभवनाभ्यन्तर्गतः स्यान्नरं न ब्रूयादहमस्मि रत्ननिधिरित्येवं न विद्यान्नरः / तद्वद्धर्मनिधिर्मनोगृहगतः सत्त्वा दरिद्रोपमास् तेषां तत्प्रतिलम्भकारणमृषिर्लोके समुत्पद्यते // 114 //
त्वक्कोशसदृशाः क्लेशाः / बीजाङ्कुरवत्तथागतधातुरिति /
यथाम्रतालादिफले द्रुमाणां बीजाङ्कुरः सन्नविनाशधर्मी / (rgv 64) उप्तः पृथिव्यां सलिलादियोगात् क्रमादुपैति द्रुमराजभावम् // 115 //
सत्त्वेष्वविद्या दिफलत्वगन्तःकोशावनद्धः शुभधर्मधातुः / उपैति तत्तत्कुशलं प्रतीत्य क्रमेण तद्वन्मुनिराजभाव // 116 //
अम्ब्वादित्यागभस्तिवायुपृथिवीकालाम्बरप्रत्ययैर् यद्वत् तालफलाम्रकोशविवरादुत्पद्यते पादपः / सत्त्वक्लेशफलत्वगन्तरगतः संबुद्धबीजाङ्कुरस् तद्वद्वृद्धिमुपैति धर्मविटपस्तैस्तैः शुभप्रत्ययैः // 117 //
पूतिवस्त्रसदृशः क्लेशाः / रत्नविग्रहवत्तथागतधातुरिति /
बिम्बं यथा रत्नमयं जिनस्य दुर्गन्धपूत्यम्बरसंनिरुद्धम् / दृष्ट्ववोज्झितं वर्त्मनि देवतास्य मुक्त्यै वदेदध्वगमेतमर्थम् // 118 //
नानाविधक्लेशमलोपगूढमसङ्गचक्षुः सुगतात्मभावम् / विलोक्य तिर्यक्ष्वपि अद्विमुक्तिं प्रत्यभ्युपायं विदधाति तद्वत् // 119 //
यद्वद्रत्नमयं तथागतवपुर्दुर्गन्धवस्त्रावृतं वर्त्मन्युज्ज्ञितमेक्ष्य दिव्यनयनो मुक्त्यै नृणां दर्शयेत् / (rgv 65) तद्वत् क्लेशविपूतिवस्त्रनिवृतं संसारवर्त्मोज्झितं तिर्यक्षु व्यवलोक्य धातुमवदद्धर्मं विमुक्त्यै जिनः // 120 //
आपन्नसत्त्वनारिसदृशाः क्लेशाः / कललमहाभूतगतचक्रवर्तिवत्तथागतधातुरिति /
नारी यथा काचिदनाथभूता वसेदनाथावसथे विरूपा / गर्भेण राजश्रियमुद्वहन्ती न सावबुध्येत नृपं स्वकुक्षौ // 121 //
अनाथशालेव भवोपपत्तिरन्तर्वतीस्त्रीवदशुद्धसत्त्वाः / तद्गर्भवत्तेष्वमलः स धातुर्भवन्ति यस्मिन्सति ते सनाथाः // 122 //
यद्वत् स्त्री मलिनाम्वरावृततनुर्बीभत्सरूपान्विता विन्देद्दुःखमनाथवेश्मनि परं गर्भान्तरस्थे नृपे / तद्वत् क्लेशवशादशान्तमनसो दुःखालयस्था जनाः सन्नाथेषु च सत्स्वनाथमतयः स्वात्मान्तरस्थेष्वपि // 123 //
मृत्पङ्कलेपसदृशाः क्लेशाः / कनकबिम्बवत्तथागतधातुरिति /
हेम्नो यथान्तःक्वथितस्य पूर्णं बिम्बं बहिर्मृन्मयमेक्ष्य शान्तम् / (rgv 66) अन्तर्विशुद्ध्यै कनकस्य तज्ज्ञः संचोदयेदावरणं बहिर्धा // 124 //
प्रभास्वरत्वं प्रकृतेर्मलानामागन्तुकत्वं च सदावलोक्य / रत्नाकराभं जगदग्रबोधिर्विशोधयत्यावरणेभ्य एवम् // 125 //
यद्वन्निर्मलदीप्तकाञ्चनमयं बिम्बं मृदन्तर्गतं स्याच्छान्त तदवेत्य रत्नकुशलः संचोदयेन्मृत्तिकाम् / तद्वच्छान्तमवेत्य शुद्धकनकप्रख्यं मनः सर्वविद् धर्माख्याननयप्रहारविधितः संचोदयत्यावृतिम् // 126 //
उदाहरणानां पिण्डार्थः /
अम्बुजभ्रमरप्राणितुषोच्चारक्षितिष्वथ / फलत्वक्पूतिवस्त्रस्त्रीगर्भमृत्कोशकेष्वपि // 127 //
बुद्धवन्मधुवत्सारसुवर्णनिधिवृक्षवत् / रत्नविग्रहवच्चक्रवर्तिवद्धेमबिम्ब वत् // 128 //
सत्त्वधातोरसंबद्धं क्लेशकोशेष्वनादिषु / चित्तप्रकृतिवैमल्यमनादिमदुदाहृतम् // 129 //
समासतो ऽनेन तथागतगर्भसूत्रोदाहरणनिर्देशेन कृत्स्नस्य सत्त्वधातोरनादिचित्तसंक्लेशधर्मागन्तुकत्वमनादिचित्तव्यवदानधर्मसहजाविनिर्भागता च (rgv 67) परिदीपिता / तत उच्यते / चित्तसंक्लेशात् सत्त्वाः संक्लिष्यन्ते चित्तव्यवदानाद्विशुध्यन्त इति / तत्र कतमश्चित्तसंक्लेशो यमधिकृत्य नवधा पद्मकोशादिदृष्टान्तदेशना /
रागद्विड् मोहतत्तीव्रपर्यवस्थान वासनाः / दृङ्मार्गभावनाशुद्धशुद्धभूमिगता मलाः // 130 //
पद्मकोशादिदृष्टान्तैर्नवधा संप्रकाशिताः / अपर्यन्तोपसंक्लेशकोशकोट्यस्तु भेदतः // 131 //
समासत इमे न व क्लेशाः प्रकृतिपरिशुद्धे ऽपि तथागतधातौ पद्मकोशादय इव बुद्धबिम्बादिषु सदागन्तुकतया संविद्यन्ते / कतमे नव / तद्यथा रागानुशयलक्षणः क्लेशः / द्वेषानुशयलक्षणः / मोहानुशयलक्षणः / तीव्ररागद्वेषमोहपर्यवस्थानलक्षणः / अविद्यावासभूमिसंगृहीतः / दर्शनप्रहातव्यः / भावनाप्रहातव्यः / अशुद्धभूमिगतः / शुद्धभूमिगतश्च / तत्र ये लौकिकवीतरागसान्तानिकाः क्लेशा आनिञ्ज्यसंस्कारोपचयहेतवो रूपारूप्यधातुनिर्वर्तका लोकोत्तरज्ञानवध्यास्त उच्यन्ते रागद्वेषमोहानुशयलक्षणा इति / ये रागादिचरितसत्त्वसान्तानिकाः पुण्यापुण्यसंस्कारोपचयहेतवः केवलकामधातुनिर्वर्तका अशुभादिभावज्ञानवध्यास्त उच्यन्ते तीव्ररागद्वेषमोहपर्यवस्थानलक्षणा इति / ये ऽर्हत्सान्तानिका अनास्रवकर्मप्रवृत्तिहेतवो विमलमनोमयात्मभावनिर्वर्तकास्तथागतबोधिज्ञानवध्यास्त उच्यन्ते ऽविद्यावासभूमिसंगृहीता इति / द्विविधः शैक्षः पृथग्जन आर्यश्च / तत्र ये पृथग्जनशैक्षसांतानिकाः प्रथमलोकोत्तरधर्मदर्शनज्ञानवध्यास्त उच्यन्ते दर्शनप्रहातव्या (rgv 68) इति / य आर्यपुद्गलशैक्षसान्तानिका यथादृष्टलोकोत्तरधर्मभावनाज्ञानवध्यास्त उच्यन्ते भावनाप्रहातव्या इति / ये ऽनिष्ठागतबोधिसत्त्वसान्तानिकाः सप्तविधज्ञानभूमिविपक्षा अष्टाम्यादिभूमित्रयभावनाज्ञानवध्यास्त उच्यन्ते ऽशुद्धभूमिगता इति / ये निष्ठागतबोधिसत्त्वसान्तानिका अष्टम्यादिभूमित्रयभावनाज्ञानविपक्षा वज्रोपमसमाधिज्ञानवध्यास्त उच्यन्ते शुद्धभूमिगता इति / एते
नव रागादयः क्लेशाः संक्षेपेण यथाक्रमम् / नवभिः पद्मकोशादिदृष्टान्तैः संप्रकाशिताः // 132 //
विस्तरेण पुनरेत एव चतुरशीतिसहस्रप्रकारभेदेन तथागतज्ञानवदपर्यन्ता भवन्ति यैरपर्यन्तक्लेशकोशकोटिगूढस्तथागतगर्भ उच्यते /
बालानामर्हतामेभिः शैक्षाणां धीमतां क्रमात् / मलैश्चतुर्भिरेकेन द्वाभ्यां द्वाभ्यामशुद्धता // 133 //
यदुक्तं भगवता / सर्वसत्त्वास्तथागतगर्भ इति / तत्र सर्वसत्त्वाः संक्षेपेणोच्यन्ते चतुर्विधास्तद्यथा पृथग्जना अर्हन्तः शैक्षा बोधिसत्त्वाश्चेति / तत्रैषामनास्रवे धातौ यथाक्रमं चतुर्भिरेकेन द्वाभ्यां द्वाभ्यां च क्लेशमलाभ्यामशुद्धिः परिदीपिता /
कथं पुनरिमे नव रागादयः क्लेशाः पद्मकोशादिसदृशा वेदितव्याः / कथं च तथागतधातोर्बुद्धबिम्बादिसाधर्म्यमनुगन्तव्यमिति /
तत्पद्मं मृदि संभूतं पुरा भूत्वा मनोरमम् / अरम्यमभवत् पश्चाद्यथा रागरतिस्तथा // 134 //
भ्रमराः प्राणीनो यद्वद्दशन्ति कुपिता भृशम् / दुःख जनयति द्वेषो जायमानस्तथा हृदि // 135 //
(rgv 69) शाल्यादीनां यथा सारमवच्छन्नं बहिस्तुषैः / मोहाण्डकोशसंछन्नमेवं सारार्थदर्शनम् // 136 //
प्रतिकूलं यथामेध्यमेवं कामा विरागिणाम् / कामसेवानिमित्तत्वात् पर्युत्थानान्यमेध्यवत् // 137 //
वसुधान्तरितं यद्वदज्ञानान्नाप्नुयुर्निधिम् / स्वयंभूत्वं तथाविद्यावासभूम्यावृता जनाः // 138 //
यथा बीजत्वगुच्छित्तिरङ्कुरादिक्रमोदयात् / तथा दर्शनहेयानां व्यावृत्तिस्तत्त्वदर्शनात् // 139 //
हतसत्कायसाराणामार्यमार्गानुषङ्गतः / भावनाज्ञानहेयानां पूतिवस्त्रनिदर्शनम् // 140 //
गर्भकोशमलप्रख्याः सप्तभूमिगता मला / विकोशगर्भवज्ज्ञानमविकल्पं विपाकवत् // 141 //
मृत्पङ्कलेपवज्ज्ञेयास्त्रिभूम्यनुगता मलाः / वज्रोपमसमाधानज्ञानवध्या महात्मनाम् // 142 //
एवं पद्मादिभिस्तुल्या नव रागादयो मलाः / धातोर्बुद्धादिसाधर्म्यं स्वभावत्रयसंग्रहात् // 143 //
त्रिविधं स्वभावमधिकृत्य चित्तव्यवदानहेतोस्तथागतगर्भस्य नवधा बुद्धाबिम्बादिसाधर्म्यमनुगन्तव्यम् / त्रिविधः स्वभावः कतमः / स्वभावो धर्मकायो ऽस्य तथता गोत्रमित्यपि / त्रिभिरेकेन स ज्ञेयः पञ्चभिश्च निदर्शनैः // 144 //
त्रिभिर्बुद्धबिम्बमधुसारदृष्टान्तैर्धर्मकायस्वभावः स धातुरवगन्तव्यः / एकेन सुवर्णदृष्टान्तेन तथतास्वभावः / पञ्चभिर्निधितरुत्नविग्रहचक्रवर्तिकनकबिम्बदृष्टान्तैस्त्रिविधबुद्धकायोत्पत्तिगोत्रस्वभाव (rgv 70) इति / तत्र धर्म कायः कतमः /
धर्मकायो द्विधा ज्ञेयो धर्मधातुः सुनिर्मलः / तन्निष्यन्दश्च गाम्भीर्यवैचित्र्यनयदेशना // 145 //
द्विविधो बुद्धानां धर्मकायो ऽनुगन्तव्यः / सुविशुद्ध्श्च धर्मधातोरविकल्पज्ञानगोचरविषयः / स च तथागतानां प्रत्यात्ममधिगमधर्ममधिकृत्य वेदितव्यः / तत्प्राप्तिहेतुश्च सुविशुद्धधर्मधातुनिष्यन्दो यथावैनयिकपरसत्त्वेषु विज्ञप्तिप्रभवः / स च देशनाधर्ममधिकृत्य वेदितव्यः / देशना पुनर्द्विविधा सूक्ष्मौदारिकधर्मव्यवस्थाननयभेदात् / यदुत गम्भीरबोधिसत्त्वपिटकधर्मव्यवस्थान नयदेशना च परमार्थसत्यमधिकृत्य विचित्रसूत्रगेयव्याकरणगाथोदाननिदानादिविविधधर्मव्यवस्थाननयदेशना च संवृतिसत्यमधिकृत्य /
लोकोत्तरत्वाल्लोके ऽस्य दृष्टान्तानुपलब्धितः / धातोस्तथागतेनैव सादृश्यमुपपपादितम् // 146 //
मध्वेकरसवत् सूक्ष्मगम्भीरनयदेशना / नानाण्डसारवज्ज्ञेया विचित्रनयदेशना // 147 //
इत्येवमेभिस्त्रिभिर्बुद्धबिम्बमधुसारदृष्टान्तैस्तथागतधर्मकायेन निरवशेषसत्त्वधातुपरिस्फरणार्थमधिकृत्य तथागतस्येमे गर्भाः सर्वसत्त्वा इतिपरिदीपितम् / न हि स कश्चित्सत्त्वः सत्त्वधातौ सईविद्यते यस्तथागतधर्मकायाद्वहिराकाशधातोरिव रूपम् / एवं ह्याह /
(rgv 71) यथाम्बरं सर्वगतं सद मतं तथैव तत्सर्वगतं सदा मतम् / यथाम्बरं रूपगतेषु सर्वगं तथैव तत्सत्त्वगणेषु सर्वगमिति //
प्रकृतेरविकारित्वात् कल्याणत्वाद्विशुद्धितः / हेममण्डलकौपम्यं तथतायामुदाहृतम् // 148 //
यच्चित्तमपर्यन्तक्लेशदुःखधर्मानुगतमपि प्रकृतिप्रभास्वरतया विकारानुदाहृतेरतः कल्याणसुवर्णवदनन्यथाभावार्थेन तथतेत्युच्यते / स च सर्वेषामपि मिथ्यात्वनियतसंतानानां सत्त्वानां प्रकृतिनिर्विशिष्टानां सर्वागन्तुकमलविशुद्धिमागतस्तथागत इति संख्यां गच्छति / एवमेकेन सुवर्णदृष्टान्तेन तथताव्यतिभेदार्थमधिकृत्य तथागतस्तथतैषां गर्भः सर्वसत्त्वानामिति परिदीपितम् / चित्तप्रकृतिविशुद्ध्यद्वयधर्मतामुपादाय यथोक्तं भगवता / तत्रमञ्जुश्रीस्तथागत आत्मोपादानमूलपरिज्ञातावी / आत्मंविशुद्ध्या सर्वसत्त्वविशुद्धिमनुगतः / या चात्मविशुद्धिर्या च सत्त्वविशुद्धिरद्वयैषाद्वैधिकारो ति / एवं ह्याह /
सर्वेषामविशिष्टापि तथता शुद्धिमागता / तथागतत्वं तस्माच्च तद्गर्भाः सर्वदेहिन इति //
गोत्रं तद् द्विविधं ज्ञेयं निधानफलवृक्षवत् / अनादिप्रकृतिस्थं च समुदानीतमुत्तरम् // 149 //
(rgv 72) बुद्धकायत्रयावाप्तिरस्माद्गोत्रद्वयान्मता / प्रथमात्प्रथमः कायो द्विती याद्द्वौ तु पश्चिमौ // 150 //
रत्नविग्रहवज्ज्ञेयः कायः स्वाभाविकः शुभः / अकृत्रिमत्वात् प्रकृतेर्गुणरत्नाश्रयत्वतः // 151 //
महाधर्माधिराजत्वात् साम्भोगश्चक्रवर्तिवत् / प्रतिबिम्बस्वभावत्वान्निर्माणं हेमबिम्बवत् // 152 //
इत्येवमेभिरवशिष्टैः पञ्चभिर्निधितरुरत्नविग्रहचक्रवर्तिकनकबिम्बदृष्टान्तैस्त्रि विधबुद्धकायोत्पत्तिगोत्रस्वभावार्थमधिकृत्य तथागतधातुरेषां गर्भः सर्वसत्त्वानामिति परिदीपितम् / त्रिविधबुद्धकायप्रभावितत्वं हि तथागतत्वम् / अतस्तत्प्राप्तये हेतुस्तथागतधातुरिति / हेत्वर्थो ऽत्र धात्वर्थः / यत आह / तत्र च सत्त्वे सत्त्वे तथागतधातुरुत्पन्नो गर्भगतः संविद्यते न च ते सत्त्वा बुध्यन्ते इति / एवं ह्याह / अनादिकालिको धातुः सर्वधर्मसमाश्रयः / तस्मिन् सति गतिः सर्वा निर्वाणाधिगमो ऽपि च //
तत्र कथमनादिकालिकः / यत्तथागतगर्भमेवाधिकृत्य भगवता पूर्व कोटिर्न प्रज्ञायत इति देशितं प्रज्ञप्तम् / धातुरिति / यदाह / यो ऽयं भगवंस्तथागतगर्भो (rgv 73) लोकोत्तरगर्भः प्रकृतिपरिशुद्धगर्भ इति / सर्वधर्मसमाश्रय इति / यदाह / तस्माद्भगवंस्तथागतगर्भो निश्रय आधारः प्रतिष्ठासंबद्धानामविनिर्भागानाममुक्तज्ञानानामसंस्कृतानां धर्माणाम् / असंबद्धानामपि भगवन् विनिर्भागधर्माणां मुक्तज्ञानानां संस्कृतानां धर्माणां निश्रय आधारः प्रतिष्ठा तथागतगर्भ इति / तस्मिन् सति गतिः सर्वेति / यदाह / सति भगवंस्तथागर्भे संसार इति परिकल्पमस्य वचनायेति / निर्वाणाधिगमो ऽपि चेति / यदाह / तथागतगर्भश्चेद् भगवन्न स्यान्न स्याद्दुःखे ऽपि निर्विन्न निर्वाणेच्छा प्रार्थना प्रणिधिर्वेति विस्तरः /
स खल्वेष तथागतगर्भो धर्मकायांविप्रलम्भस्तथतासंभिन्नलक्षणो नियतगोत्रस्वभावः सर्वदा च सर्वत्र च निरवशेषयोगेन सत्त्वधाताविति द्रष्टव्यं धर्मतां प्रमाणीकृत्य / यथोक्तम् / एषा कुलपुत्र धर्माणां धर्मता / उत्पादाद्वा तथागतानामनुत्पादाद्वा सदैवैते सत्त्वास्तथागतगर्भा इति / यैव चासौ धर्मता सैवात्र युक्तिर्योग उपायः पर्यायः / एवमेव तत्स्यात् / अन्यथा नैव तत्स्यादिति / सर्वत्र धर्मतैव प्रतिशरणम् / धर्मतैव युक्तिश्चित्तनिध्यापनाय चित्तसंज्ञापनाय / सा न चिन्तयितव्या न विकल्पयितव्याधिमोक्तव्येति /
(rgv 74) श्रद्धयैवानुगन्तव्यं परमार्थे स्वयंभुवाम् / न ह्यचक्षुः प्रभादीप्तमीक्षते सूर्यमण्डलम् // 153 //
समासत इमे चत्वारः पुद्गलास्तथागतगर्भदर्शनं प्रत्यचक्षुष्मन्तो व्यवस्थिताः / कतमे चत्वारः / यदुत पृथग्जनः श्रावकः प्रत्येकबुद्धो नवयानसंप्रस्थितश्च बोधिसत्त्वः / यथोक्तम् / अगोचरो ऽयं भगवंस्तथागतगर्भः सत्कायदृष्टिपतितानां विपर्यासाभिरतानां शून्यताविक्षिप्तचित्तानामिति / तत्र सत्कायदृष्टिपतिता उच्यन्ते बालपृथग्जनाः / तथा हि ते ऽत्यन्तसास्रवस्कन्धादीन्धर्मानात्मत आत्मीयतश्चोपगम्याहकारममकाराभिनिविष्टाः सत्कायनिरोधमनास्रवधातुमधिमोक्तुमपि नालम् / कुतः पुनः सर्वज्ञविषयं तथागतगर्भमवभोत्स्यन्त इति / नेदं स्थानं विद्यते / तत्र विपर्यासाभिरता उच्यन्ते श्रावकप्रत्येकबुद्धाः / तत्कस्मात् / ते ऽपि हि नित्ये तथागतगर्भे सत्युत्तरिभावयितव्ये तन्नित्यसंज्ञाभावनाविपर्ययेणानित्यसंज्ञाभावनाभिरताः / सुखे तथागतगर्भे सत्युत्तरिभावयितव्ये तत्सुखसंज्ञाभावनाविपर्ययेण दुःखसंज्ञाभावनाभिरताः / आत्मनि तथागतगर्भे सत्युत्तरिभावयितव्ये तदात्मसंज्ञाभावनाविपर्ययेणानात्मसंज्ञाभावनाभिरताः / शुभे तथागतगर्भेः सत्युत्तरिभावयितव्ये तच्छुभसंज्ञाभावनाविपर्ययेणाशुभसंज्ञाभावना भिरताः / एवमनेन पर्यायेण सर्वश्रावकप्रत्येकबुद्धानामपि धर्मकायप्राप्तिविधुरमार्गाभिरतत्वादगोचरः स परमनित्यसुखात्मशुभलक्षणो धातुरित्युक्तम् / यथा च स विपयासाभिरतानामनित्यदुःखानात्माशुभसंज्ञानामगोचरस्तथा विस्तरेण महापरिनिर्वाणसूत्रे भगवता वापीतोयमणिदृष्टान्तेन प्रसाधितः /
तद्यथापि नाम भिक्षवो ग्रीष्मकाले वर्तमाने सलिलबन्धनं बद्ध्वा स्वैः स्वैर्मण्डनकोपर्भोगैर्जनाः सलिले क्रीडेयुः / अथ तत्रैको जात्यं वैडूर्यमणिमन्तरुदके (rgv 75) स्थापयेत् / ततस्तस्य वैडूर्यस्यार्थे सर्वे ते मण्डनकानि त्यक्त्वा निमज्जेयुः / अथ यत्तत्रास्ति शर्करं कठल्यं वा तत्ते मणिरिति मन्यमाना गृहीत्वा मया लब्धो मणिरित्युत्सृज्योत्सृज्य वापीतिरे स्थित्वा नायं मणिरिति संज्ञां प्रवर्तेयुः / तच्च वाप्युदकं मणिप्रभावेन तत्प्रभेव भ्राजेत / एवं तेषां तदुदकं भ्राजमानं दृष्ट्वाहो मणिरिति गुणसंज्ञा प्रवर्तेत / अथ तत्रैक उपायकुशलो मेधावी मणिं तत्त्वतः प्रतिलभेत / एवमेव भिक्षवो युष्माभिः सर्वमनित्यं सर्व दुःखं सर्वमनात्मकं सर्वमशुभ मिति सर्वग्रहणेन भावितभावितं बहुलीकृतबहुलीकृतं धर्मतत्त्वम जानद्भिस्तत्सर्व घटितं निरर्थकम् / तस्माद् भिक्षवो वापीशर्करकठल्यव्यवस्थिता इव मा भूता उपायकुशला यूयं भवत / यद्यद् भिक्षवो युष्माभिः सर्वमनित्यं सर्व दुःखं सर्वमनात्मकं सर्वमशुभमिति सर्वग्रहणेन भावितभावितं बहुलीकृतबहुलीकृतं तत्र तत्रैव नित्यसुखशभात्मकानि सन्तीति विस्तरेण परमधर्मतत्त्वव्यवस्थानमारभ्य विपर्यासभूतनिर्देशो यथासूत्रमनुगन्तव्यः /
तत्र शून्यताविक्षिप्तचित्ता उच्यन्ते नवयान संप्रस्थिता बोधिसत्त्वस्तथागतगर्भशून्यतार्थनयविप्रनष्टाः / ये भावविनाशाय शून्यताविमोक्षमुखमिच्छन्ति सत एव धर्मस्योत्तरकालमुच्छेदो विनाशः परिनिर्वाणमिति / ये वा पुनः शून्यतोपलम्भेन शून्यतां प्रतिसरन्ति शून्यता नाम रूपादिव्यतिरेकेण कश्चिद्भा वो ऽस्ति यमधिगमिष्यामो भावयिष्याम इति / तत्र कतमः स तथागतगर्भशून्यतार्थनय उच्यते /
(rgv 76) नापनेयमतः किंचिदुपनेयं न किंचन / द्रष्टव्यं भूततो भूतं भूतदर्शी विमुच्यते // 154 //
शून्य आगन्तुकैर्धातुः सविनिर्भागलक्षणैः / अशून्यो ऽनुत्तरैर्धर्मैरविनिर्भागलक्षणैः // 155 //
किमनेन परिदीपितम् / यतो न किंचिदपनेयमस्त्यतः प्रकृतिपरिशुद्धात् तथागतधातोः संक्लेशनिमित्तमागन्तुकमलशून्यताप्रकृतित्वादस्य / नाप्यत्रकिंचिदुपनेयमस्ति व्यवदाननिमित्तमविनिर्भागशुद्धधर्मप्रकृतित्वात् / तत उच्यते / शून्यस्तथागतगर्भो विनिर्भागैर्मुक्तज्ञैः सर्वक्लेशकोशैः / अशून्यो गङ्गानदीवालिकाव्यतिवृत्तैरविनिर्भागैरमुक्तज्ञैरचिन्त्यैर्बुद्धधर्मैरिति / एवं यद्यत्र नास्ति तत्तेन शून्यमिति समनुपश्यति / यत्पुनरत्रावशिष्टं भवति तत्सदिहास्तीति यथाभूतं प्रजानाति / समारोपापवादान्तपरिवर्जनादपर्यन्तं शून्यतालक्षणमनेन श्लोकद्वयेन परिदीपितम् / तत्र येषामितः शून्यतार्थनयाद्वहिश्चित्तं विक्षिप्यते विसरति न समाधीयते नैकाग्रीभवति तेन ते शून्यताविक्षिप्तचित्ता उच्यन्ते / न हि परमार्थशून्यताज्ञानमुखमन्तरेण शक्यते ऽविकल्पो धातुरधिगन्तुं साक्षात्कर्तुम् / इदं च संधायोक्तम् / तथागतगर्भज्ञानमेव तथागतानां शून्यताज्ञानम् / तथागतगर्भश्च सर्वश्रावकप्रत्येकबुद्धैरदृष्टपूर्वो ऽनधिगतपूर्व इति विस्तरः / स खल्वेष तथागतगर्भो यथा धर्मधातुगर्भस्तथा सत्कायदृष्टिपतितानामगोचर इत्युक्तं दृष्टिप्रतिपक्षत्वाद्धर्मधातोः / यथा धर्मकायो लोकोत्तरधर्म गर्भस्तथा विपर्यासाभिरतानामगोचर इत्युक्तमनित्यादिलोकधर्मप्रतिपक्षेण लोकोत्तरधर्मपरिदीपनात् / यथा प्रकृतिपरिशुद्धधर्मगर्भस्तथा शून्यताविक्षिप्तानामगोचर इत्युक्तमागन्तुकमलशून्यताप्रकृतित्वाद्विशुद्धिगुणधर्माणामविनिर्भागलोकोत्तरधर्मकायप्रभावितानामिति / (rgv 77) तत्र यदेकनयधर्मधात्वसंभेदज्ञानमुखमागम्य लोकोत्तरधर्मकायप्रकृतिपरिशुद्धिव्यवलोकनमिदमत्र यथाभूतज्ञानदर्शनमभिप्रेतं येन दशभूमिस्थिता बोधिसत्त्वास्तथागतगर्भमीषत्पश्यन्तीत्युक्तम् / एवं ह्याह /
छिद्राभ्रे नभसीव भास्कर इह त्वं शुद्धबुद्धीक्षणैर् आर्येरप्यवलोक्यसे न सकलः प्रादेशिकीबुद्धिभिः / ज्ञेयानन्तनभस्तलप्रविसृतं ते धर्मकायं तु ते साकल्येन विलोकयन्ति भगवन् येषामनन्ता मतिरिति //
यद्येवमसङ्गनिष्ठाभूमिप्रतिष्ठितानामपि परमार्याणामसर्वविषय एष दुर्दृशो धातुः / तत्किमनेन बालपृथग्जनमारभ्य देशितेनेति / देशनाप्रयोजनसंग्रहे श्लोकौ / एकेन प्रश्नो द्वितीयेन व्याकरणम् /
शून्यं सर्वं सर्वथा तत्र तत्र ज्ञेयं मेघस्वप्नमायाकृताभम् / इत्युक्त्वैवं बुद्धधातुः पुनः किं सत्त्वे सत्त्वे ऽस्तीति बुद्धैरिहोक्तम् // 156 //
लीनं चित्तं हीनसत्त्वेष्ववज्ञाभूतग्राहो भूतधर्मापवादः / आत्मस्नेहश्चाधिकः पञ्च दोषा येषां तेषां तत्प्रहाणार्थमुक्तम् // 157 //
अस्य खलु श्लोकद्वयस्यार्थः समासेन दशभिः श्लोकैर्वेदितव्यः / (rgv 78) विविक्तं संस्कृतं सर्वप्रकारं भूतकोटिषु / क्लेशकर्मविपाकार्थं मेघादिवदुदाहृतम् // 158 //
क्लेशा मेघोपमाः कृत्यक्रिया स्वप्नोपभोगवत् / मायानिर्मितवत् स्कन्धा विपाकाः क्लेशकर्मणाम् // 159 //
पूर्वमेवं व्यवस्थाप्य तन्त्रे पुनरिहोत्तरे / पञ्चदोषप्रहाणाय धात्वस्तित्वं प्रकाशितम् // 160 //
तथा ह्यश्रवणादस्य बोधौ चित्तं न जायते / केषांचिन्नीचचित्तानामात्मावज्ञानदोषतः // 161 //
बोधिचित्तोदये ऽप्यस्य श्रेयानस्मीति मन्यतः बोध्यनुत्पन्नचित्तेषु हीनसंज्ञा प्रवर्तते // 162 //
तस्यैवंमतिनः सम्यग्ज्ञानं नोत्पद्यते ततः / अभूतं परिगृह्णाति भूतमर्थं न विन्दते // 163 //
अभूतं सत्त्वदोषास्ते कृत्रिमागन्तुकत्वतः / भूतं तद्दोषनैरात्म्यं शुद्धिप्रकृतयो गुणाः // 164 //
गृह्णन् दोषानसद्भूतान् भूतानपवदनु गुणान् / मैत्रीं न लभते धीमान् सत्त्वात्मसमदर्शिकाम् // 165 //
तच्छ्रवाज्जायते त्वस्य प्रोत्साहः शास्तृगौरवम् / प्रज्ञा ज्ञानं महामैत्री पञ्चधर्मोदयात्ततः // 166 //
निरवज्ञः समप्रेक्षी निर्दोषो गुणवानसौ / आत्मसत्त्वसमस्नेहः क्षिप्रमाप्नोति बुद्धताम् // 167 // इति रत्नगोत्रविभागे महायानोत्तरतन्त्रशास्त्रे तथागतगर्भाधिकारः प्रथम परिच्छेदः श्लोकार्थसंग्रहव्याख्यानतः समाप्तः // 1 // 2. द्वितीय परिच्छेद
उक्ता समला तथता / निर्मला तथतेदानीं वक्तव्या / तत्र कतमा निर्मला तथता यासौ बुद्धानां भगवतामनास्रवधातौ सर्वाकारमलविगमादाश्रयपरिवृत्तिर्व्यवस्थाप्यते / सा पुनरष्टौ पदार्थानधिकृत्य समासतो वेदितव्या / अष्टौ पदार्थाः कतमे /
शुद्धिः प्राप्तिर्विसंयोगः स्वपरार्थस्तदाश्रयः / गम्भीर्यौदार्यमाहात्म्यं यावत्कालं यथा च तत् // 1 //
इत्येते ऽष्टौ पदार्था यथासंख्यमनेन श्लोकेन परिदीपिताः / तद्यथा स्वभावार्थो हेत्वर्थः फलार्थः कर्मार्थो योगार्थो वृत्त्यर्थो नित्यार्थो ऽचिन्त्यार्थः / तत्र यो ऽसौ धातुरविनिर्मुक्तक्लेशकोशस्तथागतगर्भ इत्युक्तो भगवता / तद्विशुद्धिराश्रयपरिवृत्तेः स्वभावो वेदितव्यः / यत आह / यो भगवन् सर्वक्लेशकोशकोटिगूढे तथागतगर्भे निष्काङ्क्षः सर्वक्लेशकोशविनिर्मुक्तेस्तथागतधर्मकाये ऽपि स निष्काङ्क्ष इति / द्विविधं ज्ञानं लोकोत्तरमविकल्पं तत्पृष्ठलब्धं च / लौकिकलोकोत्तरज्ञानमाश्रयपरिवृत्तिहेतुः प्राप्तिशब्देन परिदीपितः / प्राप्यते ऽनेनेति प्राप्तिः / तत्फलं द्विविधम् / द्विविधो विसंयोगः क्लेशावरणविसंयोगो ज्ञेयावरणविसंयोगश्च / यथाक्रमं स्वपरार्थसंपादनं कर्म / तदधिष्ठानसमन्वागमो योगः / त्रिभिर्गाम्भीर्यौदार्यमाहात्म्यप्रभवितैर्बुद्धकायैर्नित्यमा भवगतेरचिन्त्येन प्रकारेण वर्तनं वृत्तिरिति / उद्दानम् /
स्वभावहेतुफलतः कर्मयोगप्रवृत्तितः / तन्नित्याचिन्त्यतश्चैव बुद्धभूमिष्ववस्थितिः // 2 //
(rgv 80) तत्र स्वभावार्थे हेत्वर्थे चारभ्य बुद्धत्वे तत्प्राप्त्युपाये च श्लोकः /
बुद्धत्वं प्रकृतिप्रभास्वरमिति प्रोक्तं यदागन्तुक- क्लेशज्ञेयघनाभ्रजालपटलच्छन्नं रविव्योमवत् / सर्वैर्बुद्धगुणैरुपेतममलैर्नित्यं ध्रुवं शाश्वतं धर्माणां तदकल्पनप्रविचयज्ञानाश्रयादाप्यते // 3 //
अस्य श्लोकस्यार्थः समासेन चतुर्भिः श्लोकैर्वेदितव्यः / बुद्धत्वमविनिर्भागशुक्लधर्मप्रभावितम् / आदित्याकाशवज्ज्ञानप्रहाणद्वयलक्षणम् // 4 //
गङ्गातीररजो ऽतीतैर्बुद्धधर्मैः प्रभास्वरैः / सर्वैरकृतकैर्युक्तमविनिर्भागवृतिभिः // 5 //
स्वभावापरिनिष्पत्तिव्यापित्वागन्तुकत्वतः / क्लेशज्ञेयावृतिस्तस्मान्मेघवत् समुदाहृता // 6 //
द्वयावरणविश्लेषहेतुर्ज्ञानद्वयं पुनः / निर्विकल्प च तत्पृष्ठलब्धं तज्ज्ञानमिष्यते // 7 //
यदुक्तमाश्रयपरिवृत्तेः स्वभावो विशुद्धिरिति तत्र विशुद्धिः समासतो द्विविधा / प्रकृतिविशुद्धिर्वैमल्यविशुद्धिश्च / तत्र प्रकृतिविशुद्धिर्या विमुक्तिर्न च विसंयोगः प्रभास्वरायाश्चित्तप्रकृतेरागन्तुकमलाविसंयोगात् / वैमल्यविशुद्धिर्विमुक्तिर्विसंयोगश्च वार्यादीनामिव रजोजलादिभ्यः प्रभास्वरायाश्चित्तप्रकृतेरनवशेषमागन्तुकमलेभ्यो विसंयोगात् / तत्र वैमल्यविशुद्धौ फलार्थमारभ्य द्वौ श्लोकौ /
(rgv 81) ह्रद इव विमलाम्बुः फुल्लपद्मक्रमाढ्यः सकल एव शशाङ्को राहुवक्त्राद्विमुक्तः / रविरिव जलदादिक्लेशनिर्मुक्तरश्मिर् विमलगुणयुतत्वाद्भाति मुक्तं तदेव // 8 //
मुनिवृषमधुसारहेमरत्नप्रवरनिधानमहाफलद्रुमाभम् / सुगतविमलरत्नविग्रहाग्रक्षितिपतिकाञ्चनबिम्बवज्जिनत्वम् // 9 //
अस्य खलु श्लोकद्वयस्यार्थः समासतो ऽष्टाभिः श्लोकैर्वेदितव्यः /
रागाद्यागन्तुकक्लेशशुद्धिरम्बुह्रदादिवत् / ज्ञानस्य निर्विकल्पस्य फलमुक्तं समासतः // 10 //
सर्वाकारवरोपेतबुद्धभावनिदर्शनम् / फलं तत्पृष्ठलब्धस्य ज्ञानस्य परिदीपितम् // 11 //
स्वच्छाम्बुह्रदवद्रागरजःकालुष्यहानितः / विनेयाम्बुरुहध्यानवार्यभिष्यन्दनाच्च तत् // 12 //
द्वेषराहुप्रमुक्तत्वा न्महामैत्रीकृपांशुभिः / जगत्स्फरणतः पूर्णविमलेन्दूपमं च तत् // 13 //
मोहाभ्रजालनिर्मोक्षाज्जगति ज्ञानरश्मिभिः / तमोविधमनात्तच्च बुद्धत्वममलार्कवत् // 14 //
अतुल्यतुल्यधर्मत्वात् सद्धर्मरसदानतः / फल्गुव्यपगमात्तच्च सुगतक्षौद्रसारवत् // 15 //
(rgv 82) पवित्रत्वाद्गुणद्रव्यदारिद्रयविनिवर्तनात् / विमुक्तिफलदानाच्च सुवर्णनिधिवृक्षवत् // 16 //
धर्मरत्नात्मभावत्वाद् द्विपदाग्राधिपत्यतः / रूपरत्नाकृतित्वाच्च तद्रत्ननृप बिम्बवत् // 17 //
यत्तु द्विविधं लोकोत्तरमविकल्पं तत्पृष्ठलब्धं च ज्ञानमाश्रयपरिवृत्तेर्हेतुर्विसंयोगफलसंज्ञितायाः / तत्कर्म स्वपरार्थसंपादनमित्युक्तम् / तत्र कतमा स्वपरार्थसंपत् / या सवासनक्लेशज्ञेयावरणविमोक्षादनावरणधर्मकायप्राप्तिरियमुच्यते स्वार्थसंपत्तिः / या तदूर्ध्वमा लोकादनाभोगतः कायद्वयेन संदर्शनदेशनाविभुत्वद्वयप्रवृत्तिरियमुच्यते परार्थसंपत्तिरिति / तस्यां स्वपरार्थसंपत्तौ कर्मार्थमारभ्य त्रयः श्लोकाः /
अनास्रवं व्याप्यविनाशधर्मि च ध्रुवं शिवं शाश्वतमच्युतं पदम् / तथागतत्वं गगनोपमं सताम् षडिन्दियार्थानुभवेषु कारणम् // 18 //
विभूतिरूपार्थविदर्शने सदा निमित्तभूतं सुकथाशुचिश्रवे / तथागतानां शुचिशीलजिघ्रणे महार्यसद्धर्मरसाग्रविन्दने // 19 //
(rgv 83) समाधिसंस्पर्शसुखानुभूतिषु स्वभावगाम्भीर्यनयावबोधने / सुसूक्ष्मचिन्तापरमार्थगव्हरं तथागतव्योम निमित्तवर्जितम् // 20 //
अस्य खलु श्लोकत्रयस्यार्थः समासतो ऽष्टभिः श्लोकैर्वेदितव्यः /
कर्म ज्ञानद्वयस्यतद्वेदितव्यं समासतः / पूरणं मुक्तिकायस्य धर्मकायस्य शोधनम् // 21 //
विमुक्तिधर्मकायौ च वेदितव्यौ द्विरेकधा / अनास्रवत्वाद्व्यापित्वादसंस्कृतपदत्वतः // 22 //
अनास्रवत्वं क्लेशानां सवासननि रोधतः / असङ्गाप्रतिघातत्वाज्ज्ञानस्य व्यापिता मता // 23 //
असंस्कृतत्वमत्यन्तमविनाशस्वभावतः / अविनाशित्वमुद्देशस्तन्निर्देशो ध्रुवादिभिः // 24 //
नाशश्चतुर्विधो ज्ञेयो ध्रुवत्वादिविपर्ययात् / पूर्तिर्विकृतिरुच्छित्तिरचिन्त्यनमनच्युतिः // 25 //
तदभावाद्ध्रुवं ज्ञेयं शिवं शाश्वतमच्युतम् / पदं तदमलज्ञानं शुक्लधर्मास्पदत्वतः // 26 //
यथानिमित्तमाकाशं निमित्तं रूपदर्शने / शब्दगन्धरस्पृश्यधर्माणां च श्रवादिषु // 27 //
(rgv 84) इन्द्रियार्थेषु धीराणामनास्रवगुणोदये / हेतुः कायद्वयं तद्वदनावरणयोगतः // 28 //
यदुक्तमाकाशलक्षणो बुद्ध इति तत्पारमार्थिकमावेणिकं तथागतानां बुद्धलक्षणमभिसंधायोक्तम् / एवं ह्याह / संचेद्द्वात्रिंशन्महापुरुषलक्षणैस्तथागतो द्रष्टव्यो ऽभविष्यत्तद्राजापि चक्रवर्ती तथागतो ऽभविष्यदिति / तत्र परमार्थलक्षणे योगार्थमारभ्य श्लोकः /
अचिन्त्यं नित्यं च ध्रुवमथ शिवं शाश्वतमथ प्रशान्तं च व्यापि व्यपगतविकल्पं गगनवत् / असक्तं सर्वत्रापरतिघपरुषस्पर्शविगतं न दृश्यं न ग्राह्यं शुभमपि च बुद्धत्वममलम् // 29 //
अथ खल्वस्य श्लोकस्यार्थः समासतो ऽष्टाभिः श्लोकैर्वेदितव्यः /
विमुक्तिधर्मकायाभ्यां स्वपरार्थो निदर्शितः / स्वपरार्थाश्रये तस्मिन् योगो ऽचिन्त्यादिभिर्गुणैः // 30 //
अचिन्त्यमनुगन्तव्यं त्रिज्ञानाविषयत्वतः / सर्वज्ञज्ञानविषयं बुद्धत्वं ज्ञानदेहिभिः // 31 //
श्रुतस्याविषयः सौक्ष्म्याच्चिन्तायाः परमार्थतः / लौक्यादिभावनायाश्च धर्मतागव्हरत्वतः // 32 //
दृष्टपूर्वं न तद्यस्माद्वालैर्जात्यन्धकायवत् / आर्यैश्च सूतिकामध्यस्थित बालार्कबिम्बवत् // 33 //
उत्पादविगमान्नित्यं निरोधविगमाद्ध्रुवम् / शिवमेतद्द्वयाभावाच्छाश्वतं धर्मतास्थितेः // 34 //
(rgv 85) शान्तं निरोधसत्यत्वाद्व्यापि सर्वावबोधतः / अकल्पमप्रतिष्ठानादसक्तं क्लेशहानितः // 35 //
सर्वत्राप्रतिघं सर्वज्ञेयावरणशुद्धितः / परुषस्पर्शनिर्मुक्तं मृदुकर्मण्यभावतः // 36 //
अदृश्यं तदरूपित्वादग्राह्यमनिमित्ततः / शुभं प्रकृतिशुद्धत्वादमलं मलहानितः // 37 //
यत्पुनरेतदाकाशवदसंस्कृतगुणाविनिर्भागवृत्त्यापि तथागतत्वामा भवगतेरचिन्त्यमहोपायक्रुणाज्ञानपरिकर्मविशेषेण जगद्धितसुखाधाननिमित्तममलै स्त्रिभिः स्वभाविकसांभोगिकनैर्माणिकैः कायैरनुपरतमनुच्छिन्नमनाभोगेन प्रवर्तत इति द्रष्टव्यमावेणीकधर्मयुतत्वादिति / तत्र वृत्त्यर्थमारभ्य बुद्धकायविभागे चत्वारः श्लोकाः /
अनादिमध्यान्तमभिन्नमद्वयं त्रिधा विमुक्तं विमलाविकल्पकम् / समाहिता योगिनस्तत्प्रयत्नाः पश्यन्ति यं धर्मधातुस्वभावम् // 38 //
अमेयगङ्गासिकतातिवृत्तैर्गुणैरचिन्त्यैरसमैरुपेतः / (rgv 86) सवासनोन्मूलितसर्वदोषस्तथागतानाममलः स धातुः // 39 //
विचित्रसद्धर्ममयूखविग्रहैर्जगद्विमोक्षार्थसमाहृतोद्यमः / क्रियासु चिन्तामणिराजरत्नवद्विचित्रभावो न च तत्स्वभववान् // 40 //
लोकेषु यच्छान्तिपथावतारप्रपाचनाव्याकरणे निदानम् / बिम्बं तदप्यत्र सदावरुद्धमाकाशधाताविव रूपधातुः // 41 //
एषां खलु चतुर्णां श्लोकानां पिण्डार्थो विंशतिश्लोकैर्वेदितव्यः /
यत्तद्बुद्धत्वमित्युक्तं सर्वज्ञत्वं स्वयंभुवाम् / निर्वृतिः परमाचिन्त्यप्राप्तिः प्रत्यात्मवेदिता // 42 //
तत्प्रभेदस्त्रिभिः कायैर्वृत्तिः स्वाभाविकादिभिः / गाम्भीर्यैदार्यमाहात्म्यगुणधर्मप्रभावितैः // 43 //
तत्र स्वभाविकः कायो बुद्धानां पञ्चलक्षणः / पञ्चाकारगुणोपेतो वेदितव्यः समासतः // 44 //
असंस्कृतमसंभिन्नमन्तद्वयविवर्जितम् / क्लेशज्ञेयसमापत्तित्रयावरणनिःसृतम् // 45 //
(rgv 87) वैमल्यादविकल्पत्वाद्योगिनां गोचरत्वतः / प्रभास्वरं विशुद्धं च धर्मधातोः स्वभावतः // 46 //
अप्रमेयैरसंख्येयैरचिन्त्यैरसमैर्गुणैः / विशुद्धिपारमीप्राप्तैर्युक्तं स्वाभाविकं वपुः // 47 //
उदारत्वादगण्यत्वात् तर्कस्यागोचरत्वतः / कैवल्याद्वासनोच्छित्तेरप्रमेयादयः क्रमात् // 48 //
विचित्रधर्मसंभोगरूपधर्मावभासतः / करुणाशुद्धिनिष्यन्दसत्त्वार्थास्रंसनत्वतः // 49 //
निर्विकल्पं निराभोगं यथाभिप्रायपूरितः / चिन्तामणिप्रभावर्द्धेः सांभोगस्य व्यवस्थितिः // 50 //
देशने दर्शने कृत्यास्रंसने ऽनभिसंस्कृतौ / अतत्स्वभावाख्याने च चित्रतोक्ता च पञ्चधा // 51 //
रङ्गप्रत्ययवैचित्र्यादतद्भावो यथा मणेः / सत्त्वप्रत्ययवैचित्र्यादतद्भावस्तथा विभोः // 52 //
महाकरुणया कृत्स्नं लोकमालोक्य लोकवित् / धर्मकायादविरलं निर्माणैश्चित्ररूपिभिः // 53 //
जातकान्युपपत्तिं च तुषितेषु च्युतिं ततः / गर्भा[व]क्रमणं जन्म शिल्पस्थानानि कौशलम् // 54 //
(rgv 88) अन्तःपुररतिक्रीडां नैष्क्रम्यं दुःखचारिकाम् / बोधिमण्डोपसंक्रान्तिं मारसैन्यप्रमर्दनम् // 55 //
संबोधिं धर्मचक्रं च निर्वाणाधिगमक्रियाम् / क्षेत्रेष्वपरिशुद्धेषु दर्शयत्या भवस्थिते // 56 //
अनित्यदुःखनैरात्म्यशान्तिशब्दैरुपायवित् / उद्वेज्य त्रिभवात् सत्त्वान् प्रतारयति निर्वृत्तौ // 57 //
शान्तिमार्गावतीर्णाश्च प्राप्यनिर्वाणसंज्ञिनः / सद्धर्मपुण्डरीकादिधर्मतत्त्वप्रकाशनैः // 58 //
पूर्वग्रहान्निवर्त्यैतान् प्रज्ञोपायपरिग्रहात् / परिपाच्योत्तमे याने व्याकरोत्यग्रबोधये // 59 //
सौक्ष्म्यात् प्रभावसंपत्तेर्बालसार्थातिवाहनात् / गाम्भीर्यौ दार्यमाहत्म्यमेषु ज्ञेयं यथाक्रमम् // 60 //
प्रथमो धर्मकायो ऽत्र रूपकायौ तु पश्चिमौ / व्योम्नि रूपगतस्येव प्रथमे ऽन्त्यस्य वर्तनम् // 61 //
तस्यैव कायत्रयस्य जगद्धितसुखाधानवृत्तौ नित्यार्थमारभ्य श्लोकः /
हेत्वानन्त्यात् सत्त्वधात्वक्षयत्वात् कारुण्यद्धिर्ज्ञानसंपत्तियोगात् / (rgv 89) धर्मैश्वर्यान्मृत्युमारावभङ्गान् नैःस्वा भाव्याच्छाश्वतो लोकनाथः // 62 //
अस्य पिण्डार्थः षड्भिः श्लोकैर्वेदितव्यः /
कायजीवितभोगानां त्यागैः सद्धर्मसंग्रहात् / सर्वसत्त्वहितायादिप्रतिज्ञोत्तरणत्वतः // 63 //
बुद्धत्वे सुविशुद्धायाः करुणायाः प्रवृत्तितः / ऋद्धिपादप्रकाशाच्च तैरवस्थानशक्तितः // 64 //
ज्ञानेन भवनिर्वाणद्वयग्रहविमुक्तितः / सदाचिन्त्यसमाधानसुखसंपत्तियोगतः // 65 //
लोके विचरतो लोकधर्मैरनुपलेपतः / शमामृतपदप्राप्तौ मृत्युमाराप्रचारतः // 66 //
असंस्कृतस्वभावस्य मुनेरादिप्रशान्तितः / नित्यमशरणानां च शरणाभ्युपपत्तितः // 67 //
सप्तभिः कारणैराद्यैर्नित्यता रूपकायतः / पश्चिमैश्च त्रिभिः शास्तुर्नित्यता धर्मकायतः // 68 //
स चायमाश्रयपरिवृत्तिप्रभावितस्तथागतानां प्राप्तिनयो ऽचिन्त्यनयेनानुगन्तव्य इति / अचिन्त्यार्थमारभ्य श्लोकः /
अवाक्यवत्त्वात् परमार्थसंग्रहादतर्कभूमेरुपमनिवृत्तितः / (rgv 90) निरुत्तरत्वाद्भवशान्त्यनुद्ग्रहादचिन्त्य आर्यैरपि बुद्धगोचरः // 69 //
अस्य पिण्डार्थश्चतुर्भिः श्लोकैर्वेदितव्यः /
अचिन्त्यो ऽनभिलाप्यत्वादलाप्यः परमार्थतः / परमार्थो ऽप्रतवर्यत्वादतर्क्यो व्यनुमेयतः // 70 //
व्यनुमेयो ऽनुत्तरत्वादानुत्तर्यमनुद्ग्रहात् / अनुद्ग्रहो ऽप्रतिष्ठानादगुणदोषाविकल्पनात् // 71 //
पञ्चभिः कारणैः सौक्ष्म्यादिचिन्त्यो धर्मकायतः / षष्ठेनातत्त्वभावित्वादचिन्त्यो रूपकायतः // 72 //
अनुत्तरज्ञानमहाकृपादिभिर्गुणैरचिन्त्या गुणपारगा जिनाः / अतः क्रमो ऽन्त्यो ऽयमपि स्वयंभुवो ऽभिषेकलब्धा न महर्षयो विदुरिति // 73 // इति रत्नगोत्रविभागे महायानोत्तरतन्त्रशास्त्रे बोध्यधिकारो नाम द्वितीयः परिच्छेदः // 2 // 3. तृतीय परिच्छेद
उक्ता निर्मला तथता / ये तदाश्रिता मणिप्रभावर्णसंस्थानवदभिन्नप्रकृतयो ऽशान्तर्निमला गुणास्त इदानीं वक्तव्या इति / अनन्तरं बुद्धगुणविभागमारभ्य श्लोकः /
स्वार्थः परार्थः परमार्थकायस्तदाश्रिता संवृतिकायता च / फलं विसंयोगविपाकभावादेतच्चतुः षष्टिगुणप्रभेदम् // 1 //
किमुक्तं भवति /
आत्मसंपत्त्यधिष्ठानं शरीरं पारमार्थिकम् / परसंपत्त्यधिष्ठानमृषेः सांकेतिकं वपुः // 2 //
विसंयोगगुणर्युक्तं वपुराद्यं बलादिभिः / वैपाकिकैर्द्वितीयं तु महापुरुषलक्षणैः // 3 //
अतः परं ये च बलादयो यथा चानुगन्तव्यास्तथतामधिकृत्य ग्रन्थः /
बलत्वमज्ञानवृतेषु वज्रवद्विशारदत्वं परिषत्सु सिंहवत् / तथागतावेणिकतान्तरीक्षवन् मुनेर्द्विधादर्शनमम्बुचन्द्रवत् // 4 //
बलान्वित इति /
स्थानास्थाने विपाके च कर्मणामिन्द्रियेषु च / धातुष्वप्यधिमुक्तौ च मार्गे सर्वत्रगामिनि // 5 //
(rgv 92) ध्यानादिक्लेशवैमल्ये निवासानुस्मृतावपि / दिव्ये चक्षुषि शान्तौ च ज्ञानं दशविधं बलम् // 6 //
वज्रवदिति /
स्थानास्थानविपाकधातुषु जगन्नानाधुमुक्तौ नये संक्लेशव्यवदान इन्द्रियगणे पूर्वे निवासस्मृतौ / दिव्ये चक्षुषि चास्रवक्षयविधावज्ञानवर्माचल- प्राकारद्रुमभेदनप्रकिरणच्छेदाद्वलं वज्रवत् // 7 //
चतुर्वेशारद्यप्राप्त इति /
सर्वधर्माभिसंबोधे विवन्धप्रतिषेधने / मार्गाख्याने निरोधाप्तौ वैशारद्यं चतुर्विधम् // 8 //
ज्ञेये वस्तुनि सर्वथात्मपरयोर्ज्ञानात् स्वयंज्ञापनाद् धेये वस्तुनि हानिकारणकृतेः सेव्ये विधौ सेवनात् / प्राप्तव्ये च निरुत्तरे ऽतिविमले प्राप्तेः परप्रापणाद् आर्याणां स्वपरार्थसत्यकथनादस्तम्भितत्वं क्वचित् // 9 //
सिंहवदिति /
नित्यं वनान्तेषु यथा मृगेन्द्रो निर्भीरनुत्तस्तगतिर्मृगेभ्यः / (rgv 93) मुनीन्द्रसिंहो ऽपि तथा गणेषु स्वस्थो निरास्थः स्थिरविक्रमस्थः // 10 //
अष्टदशावेणिकबुद्धधर्मसमन्वागत इति /
स्खलितं रवितं नास्ति शास्तुर्न मुषिता स्मृतिः / न चासमाहितं चित्तं नापि नानत्वसंज्ञिता // 11 //
नोपेक्षाप्रतिसंख्याय हानिर्न च्छन्दवीर्यतः / स्मृतिप्रज्ञाविमुक्तिभ्यो विमुक्तिज्ञानदर्शनात् // 12 //
ज्ञानपूर्वंगमं कर्म त्र्यध्वज्ञानमनावृतम् / इत्येते ऽष्टादशान्ये च गुरोरावेणिका गुणाः // 13 //
नास्ति प्रस्खलितं रवो मुषितता चित्ते न संभेदतः संज्ञा न स्वरसाध्युपेक्षणमृषेर्हानिर्न च च्छन्दतः / वीर्याच्च स्मृतितो विशुद्धविमलप्रज्ञाविमुक्तेः सदा मुक्ति ज्ञाननिर्दशनाच्च निखिलज्ञेयार्थसंदर्शनात् // 14 //
सर्वज्ञानुपुरोजवानुपरिवर्त्यर्थेषु कर्मत्रयं त्रिष्वध्वस्वपराहत सुविपुलज्ञानप्रवृत्तिर्ध्रुवम् / (rgv 94) इत्येषा जिनता महाकरुणया युक्तावबुद्धा जिनैर् यद्बोधाज्जगति प्रवृत्तमभयदं सद्धर्मचक्रं महत् // 15 //
आकाशवदिति /
या क्षित्यादिषु धर्मता न नभसः सा धर्मता विद्यते ये चानावरणादिलक्षणगुणा व्योम्नो न ते रूपिषु / क्षित्यम्बुज्वलनानिलाम्बरसमा लोकेषु साधारणा बुद्धावेणिकता न चाश्वपि पुनर्लोकेषु साधारणा // 16 //
द्वात्रिंशन्महापुरुषलक्षणरूपधारीति /
सुप्रतिष्ठितचक्राङ्कव्यायतोत्सङ्गपादता / दीर्घाङ्गुलिकता जालपाणिपादावनद्धता // 17 //
त्वङ् मृदुश्रीतरुणता सप्तोत्सदशरीरता / एणेयजङ्घता नागकोशवद्वस्तिगुह्यत // 18 //
सिंहपूर्वार्धकायत्वं निरन्तरचितांशता / संवृत्तस्कन्धता वृत्तश्लक्ष्णानुन्नामबाहुता // 19 //
(rgv 95) प्रलम्बबाहुता शुद्धप्रभामण्डलगात्रता / कम्बुग्रीवत्वममलं मृगेन्द्रहनुता समा // 20 //
चत्वारिंशद्दशनता स्वच्छाविरलदन्तता / विशुद्धसमदन्तत्वं शुक्लप्रवरदंष्ट्रता // 21 //
प्रभूतजिव्हतानन्ताचिन्त्यरसरसाग्रता / कलविङ्करुतं ब्रह्मस्वरता च स्वयंभुवः // 22 //
नीलोत्पलश्रीवृषपक्ष्मनेत्रसितामलोर्णोदितचारुवक्त्रः / उष्णीषशीर्षव्यवदातसूक्ष्मसुवर्णवर्णच्छविरग्रसत्त्वः // 23 //
एकैकविश्लिष्टमृदूर्ध्वदेहप्रदक्षिणावर्तसुसूक्ष्मरोमा / महेन्द्रनीलामलरत्नकेशो न्यग्रोधपूर्णद्रुममण्डलाभः // 24 //
नारायणस्थामदृढात्मभावः समन्तभद्रो ऽप्रतिमो महर्षिः / द्वात्रिंशदेतान्यमितद्युतीनि नरेन्द्रचिन्हानि वदन्ति शास्तुः // 25 //
दकचन्द्रवदिति /
व्यभ्रे यथा नभसि चन्द्रमसो विभूतिं पश्यन्ति नीलशरदम्बुमहाह्रदे च / (rgv 96) संबुद्धमण्डलतलेषु विभोर्विभूतिं तद्विज्जिनात्मजगणा व्यवलोकयन्ति // 26 //
इतीमानि दश तथागतबलानि चत्वारि वैशारद्यान्यष्टादशावेणिका बुद्धधर्मा द्वात्रिंशच्च महापुरुषलक्षणान्यकेनाभिसंक्षिप्य चतुःषष्टिर्भवन्ति /
गुणाश्चैते चतुःषष्टिः सनिदानाः पृथक् पृथक् / वेदितव्या यथासंख्यं रत्नसूत्रानुसारतः // 27 //
एषां खलु यथोद्दिष्टानामेव चतुःषष्टेस्तथागतगुणानामपि यथानुपूर्व्या विस्तरविभागे निर्देशो रत्नदारिकासूत्रानुसारेण वेदितव्यः / यत्पुनरेषु स्थानेषु चतुर्विधमेव यथाक्रमं वज्रसिंहाम्वरदकचन्द्रोदाहरणमुदाहृतमस्यापि पिण्डार्थो द्वादशभिः श्लोकैर्वेदितव्यः /
निर्वेधिकत्वनिर्दैन्यनिष्कैवल्यनिरीहतः / वज्रसिंहाम्बरस्वच्छदकचन्द्रनिदर्शनम् // 28 //
बलादिषु बलैः षड्भिस्त्रिभिरेकेन च क्रमात् / सर्वज्ञेयसमापत्तिसवासनमलोद्धृतेः // 29 //
भेदाद्विकरणाच्छेदाद्वर्मप्राकारवृक्षवत् / गुरुसारदृढाभेद्यं वज्रप्रख्यमृषेर्बलम् // 30 //
गुरु कस्माद्यतः सारं सारं कस्माद्यतो दृढम् / दृढं कस्माद्यतो ऽभेद्यमभेद्यत्वाच्च वज्रवत् // 31 //
निर्भयत्वान्निरास्थत्वात्स्थैर्याद्विक्रमसंपदः / पर्षद्गणेष्वशारद्यं मुनिसिंहस्य सिंहवत् // 32 //
(rgv 97) सर्वाभिज्ञतया स्वस्थो विहरत्यकुतोभयः / निरास्थः शुद्धसत्त्वेभ्यो ऽप्यात्मनो ऽसमदर्शनात् // 33 //
स्थिरो नित्यसमाधानात् सर्वधर्मेषु चेतसः / विक्रान्तः परमाविद्यावासभूमिव्यतिक्रमात् // 34 //
लौकिकश्रावकैकान्तचारिधीमत्स्वयंभुवाम् / उत्तरोत्तरधीसौक्ष्म्यात् पञ्चधा तु निदर्शनम् // 35 //
सर्वलोकोपजीव्यत्वाद्भूम्यम्ब्वग्न्यनिलोपमाः / लौक्यलोकोत्तरातीतलक्षणत्वान्नभोनिभाः // 36 //
गुणा द्वात्रिंशदित्येते धर्मकायप्रभाविताः / मणिरत्नप्रभावर्णसंस्थानवदभेदतः // 37 //
द्वात्रिंशल्लक्षणाः काये दर्शनाह्लादका गुणाः / निर्माणधर्मसंभोगरूपकायद्वयाश्रिताः // 38 //
शुद्धेर्दुरान्तिकस्थानां लोके ऽथ जिनमण्डले / द्विधा तद्दर्शनं शुद्धं वारिव्योमेन्दुबिम्बवत् // 39 // इति रत्नगोत्रविभागे महायानोत्तरत्नत्रशास्त्रे गुणाधिकारो नाम त्रितीयः परिच्छेदः // 3 // 4. चतुर्थः परिच्छेदः
उक्ता विमला बुद्धगुणाः / तत्कर्म जिनक्रियेदानीं वक्तव्या / सा पुनरनाभोगतश्चाप्रश्रब्धितश्च समासतो द्वाभ्यामाकराभ्या प्रवर्तत इति / अनन्तरमनाभोगाप्रश्रब्ध बुद्धकार्यमारभ्य द्वौ श्लोकौ /
विनेयधातौ विनयाभ्युपाये विनेयधातोर्विनयक्रियायाम् / तद्देशकाले गमने च नित्यं विभोरनाभोगत एव वृत्तिः // 1 //
कृत्स्नं निष्पाद्य यानं प्रवरगुणगणज्ञानरत्नस्वगर्भं पुण्यज्ञानार्करश्मिप्रविसुतविपुलानन्तमध्याम्बराभम् / बुद्धत्वं सर्वसत्त्वे विमलगुणनिधिं निर्विशिष्टं विलोक्य क्लेशज्ञेयाभ्रजालं विधमति करुणा वायुभूता जिनानाम् // 2 //
एतयोर्यथाक्रमं द्वाभ्यामष्टाभिश्च श्लोकैः पिण्डार्थो वेदितव्यः /
यस्य येन च यावच्च यदा च विनयक्रिया / तद्विकल्पोदयाभावादनाभोगः सदा मुनेः // 3 //
यस्य धातोर्विनेयस्य येनोपायेन भूरिणा / या विनीतिक्रिया यत्र यदा तद्देशकालयोः // 4 //
निर्याणे तदुपस्तम्भे तत्फले तत्परिग्रहे / तदावृत्तौ तदुच्छित्तिप्रत्यये चाविकल्पतः // 5 //
(rgv 99) भूमयो दश निर्याणं तद्धेतुः संभृतिद्वयम् / तत्फलं परमा बोधिर्बोधेः सत्त्वः परिग्रहः // 6 //
तदावृतिरपर्यन्तक्लेशोपक्लेशवासनाः / करुणा तत्समुद्घातप्रत्ययः सार्वकालिकः // 7 //
स्थानानि वेदितव्यानि षडेतानि यथाक्रमम् / महोदधिरविव्योमनिधानाम्बुदवायुवत् // 8 //
ज्ञानाम्बुगुणरत्नत्वादग्रयानं समुद्रवत् / सर्वसत्त्वोपजीव्यत्वात् संभारद्वयमर्कवत् // 9 //
विपुलानन्तमध्यत्वाद्बोधिराकाशधतुवत् / सम्यक्संबुद्धधर्मत्वात् सत्त्वधातुर्निधानवत् // 10 //
आगन्तुव्याप्त्यनिष्प त्तेस्तत्संक्लेशो ऽभ्रराशिवत् / तत्क्षिंप्तिप्रत्युपस्थानात् करुणोद्वृत्तवायुवत् // 11 //
पराधिकारनिर्याणात् सत्त्वात्मसमदर्शनात् / कृत्यापरिसमाप्तेश्च क्रियाप्रश्रब्धिरा भवात् // 12 //
यदनुत्पादानिरोधप्रभावितं बुद्धत्वमित्युक्तं तत्कथमिहासंस्कृतादप्रवृत्तिलक्षणाद्बुद्धत्वादनाभोगाप्रतिप्रश्रब्धमा लोकादविकल्पं बुद्धकार्य प्रवर्तत इति / बुद्धमाहात्म्यधर्मतामारभ्य विमतिसंदेहजातानामचिन्त्यबुद्धविषयाधिमुक्तिसंजननार्थ तस्य माहात्म्ये श्लोकः /
शक्रदुन्दुभिवन् मेघब्रह्मार्कमणिरत्नवत् / प्रतिश्रुतिरिवाकाशपृथिवीवत् तथागतः // 13 //
(rgv 100) अस्य खलु सूत्रस्थानीयस्य श्लोकस्य यथाक्रमं परिशिष्टेन ग्रन्थेन विस्तरविभागनिर्देशो वेदितव्यः /
शक्रप्रतिभासत्वादिति /
विशुद्धवैडूर्यमयं यथेदं स्यान्महीतलम् / स्वच्छत्वात्तत्र दृश्येत देवेन्द्रः साप्सरोगणः // 14 //
प्रासादो वैजयन्तश्च तदन्ये च दिवौकसः / तद्विमानानि चित्राणि ताश्च दिव्या विभूतयः // 15 //
अथ नारीनरगणा महीतलनिवासिनः / प्रतिभासं तमालोक्य प्रणिधिं कुर्युरीदृशम् // 16 //
अद्यैव न चिरादेवं भवेमस्त्रिदशेश्वराः / कुशलं च समादाय वर्तेरंस्तदवाप्तये // 17 //
प्रतिभासो ऽयमित्येवमविज्ञायापि ते भुवः / च्युत्वा दिव्युपपद्येरंस्तेन शुक्लेन कर्मणा // 18 //
प्रतिभासः स चात्यन्तमविकल्पो निरीहकः / एवं च महतार्थेन भुवि स्यात्प्रत्युपस्थितः // 19 //
तथा श्रद्धादिविमले श्रद्धादिगुणभाविते / सत्त्वाः पश्यन्ति संबुद्धं प्रतिभास स्वचेतसि // 20 //
लक्षणव्यञ्जनोपेतं विचित्रेर्यापथक्रियम् / चङ्क्रम्यमाणं तिष्ठन्तं निषण्णं शयनस्थितम् // 21 //
(rgv 101) भाषमाणं शिवं धर्म तूष्णींभूतं समाहितम् / चित्राणि प्रातिहार्याणि दर्शयन्तं महाद्युतिम् // 22 //
तं च दृष्ट्वाभियुज्यन्ते बुद्धत्वाय स्पृहान्विताः / तद्धेतुं च समादाय प्राप्नुवन्तीप्सितं पदम् // 23 //
प्रतिभासः स चात्यन्तमविकल्पो निरीहकः / एवं च महतार्थेन लोकेषु प्रत्युपस्थितः // 24 //
स्वचित्तप्रतिभासो ऽयमिति नैवं पृथग्जनाः / जानन्त्यथ च तत्तेषामवन्ध्यं बिम्बदर्शनम् // 25 //
तद्धि दर्शनमागम्य क्रमादस्मिन्नये स्थिताः / सद्धर्मकायं मध्यस्थं पश्यन्ति ज्ञानचक्षुषा // 26 //
भूर्यद्वत्स्यात् समन्तव्यपगतविषमस्थानान्तरमला वैडूर्यस्पष्टशुभ्रा विमलमणिगुणा श्रीमत्समतला / शुद्धत्वात्तत्र बिम्बं सुरपतिभवनं माहेन्द्रमरुताम् उत्पद्येत क्रमेण क्षितिगुणविगमादस्तं पुनरियात् // 27 //
तद्भावायोपवासव्रतनियमतया दानाद्यभिमुखाः पुष्पादीनि क्षिपेयुः प्रणिहितमनसो नारीनरगणाः / वैडूर्यस्वच्छभुते मनसि मुनिपतिच्छायाधिगमने चित्राण्युत्पादयन्ति प्रमुदितमनसस्तद्वज्जिनसुताः // 28 //
यथैव वैडूर्यमहीतले शुचौ सुरेन्द्रकायप्रतिबिम्बसंभवः / तथा जगच्चित्तमहीतले शुचौ मुनीन्द्रकायप्रतिबिम्बसंभवः // 29 //
(rgv 102) बिम्बोदयव्ययमनाविलताविलस्वचित्तप्रवर्तनवंशाज्जगति प्रवृत्तम् / लोकेषु यद्वदवभासमुपैति बिम्बं तद्वन्न तत्सदिति नासदिति प्रपश्येत् // 30 //
देवदुन्दुभिवदिति /
यथैव दिवि देवानां पूर्वशुक्लानुभावतः / यत्नस्थानमनोरूपविकल्परहिता सती // 31 //
अनित्यदुःखानैरात्म्यशान्तशब्दैः प्रमादिनः / चोदयत्यमरान् सर्वानसकृद्देवदुन्दुभिः // 32 //
व्याप्य बुद्धस्वरणैवं विभुर्जगदशेषतः / धर्म दिशति भव्येभ्यो यत्नादिरहितो ऽपि सन् // 33 //
देवानां दिवि दिव्यदुन्दुभिरवो यैद्वत् स्वकर्मोद्भवो धर्मोदाहरणं मुनेरपि तथा लोके स्वकर्मोद्भवम् / यत्नस्थानशरीरचित्तरहितः शब्दः स शान्त्यावहो यद्वत् तद्वदृते चतुष्टयमयं धर्मः स शान्त्यावहः // 34 //
संग्रामक्लेशवृत्तावसुरबलजयक्रीडाप्रणुदनं दुन्दुभ्याः शब्दहेतुप्रभवमभयदं यद्वत् सुरपुरे / सत्त्वेषु क्लेशदुःखप्रमथनशमनं मार्गोत्तमविधौ ध्यानारूप्यादिहेतुप्रभवमपि तथा लोके निगदितम् // 35 //
कस्मादिह धर्मदुन्दुभिरेवाधिकृता न तदन्ये दिव्यास्तूर्यप्रकाराः / ते ऽपि हि दिवौकसां पूर्वकृतकुशलकर्मवशादघट्टिता एव दिव्यश्रवणमनोहरशब्दमनुरुवन्ति / (rgv 103) तैस्तथागतघोषस्य चतुःप्रकारगुणवैधर्म्यात् / तत्पुनः कतमत् / तद्यथा प्रादेशिकत्वमहितत्वमसुखत्वमनैर्याणिकत्वमिति / धर्मदुन्दुभ्याः पुनरप्रादेशिकत्वमशेषप्रमत्तदेवगणसंचोदनतया च तत्कालानतिक्रमणतया च परिदीपितम् / हितत्वमसुरादिपरचक्रोपद्रवभयपरित्राणतया चाप्रमादसंनियोजनतया च / सुखत्वमसत्कामरतिसुखविवेचनतया च धर्मारामरतिसुखोपसंहरणतया च / नैर्याणिकत्वमनित्यदुःखशून्यानात्मशब्दोच्चारणतया च सर्वोपद्रवोपायासोपशान्तिकरणतया च परिदीüपितम् / एभिः समासतश्चतुर्भिराकारैर्धर्मदुन्दुभिसाधर्म्येण बुद्धस्वरमण्डलं विशिष्यत इति / बुद्धस्वरमण्डलविशेषणश्लोकः /
सार्वजन्यो हितसुखः प्रातिहार्यत्रयान्वितः / मुनेर्घोषो यतो दिव्यतूर्येभ्यो ऽतो विशिष्यते // 36 //
एषां खलु चतुर्णामाकाराणां यथासंख्यमेव चतुर्भिः श्लोकः समासनिर्देशो वेदितव्यः /
शब्दा महान्तो दिवि दुन्दुभीनां क्षितिस्थितेषु श्रवणं न यान्ति / संसारपातालगतेषु लोके संबुद्धतूर्यस्य तु याति शब्दः // 37 //
बह्व्यो ऽमराणां दिवि तूर्यकोट्यो नदन्ति कामज्वलनाभिवृद्धौ / एकस्तु घोषः करुणात्मकानां दुःखाग्निहेतुप्रशम्प्रवृत्तः // 38 //
शुभा मनोज्ञा दिवि तूर्यनिस्वना भवन्ति चित्तोद्धतिवृद्धिहेतवः / (rgv 104) तथागतानां तु रुतं महात्मनां समाधिचित्तार्पणभाववाचकम् // 39 //
समासतो यत्सुखकारणं दिवि क्षितावनन्तास्वपि लोकधातुषु / अशेषलोकस्फरणावभासनं प्रघोषमागम्य तदप्युदाहृतम् // 40 //
कायविकुर्वितेन दशदिगशेषलोकधातुस्फरणमृद्धिप्रातिहार्यमिति सूचितम् / चेतःपर्यायज्ञानेन तत्पर्यापन्नं सर्वसत्त्वचित्तचरितगहनावभासनमादेशनाप्रातिहार्यम् / वाग्घोषोदाहरणेन नैर्याणिकीं प्रतिपदमारभ्य तदववादानुशासनमनुशास्ति प्रातिहार्यम् / इत्येवमव्याहतगतेराकाशधातुवदपरिच्छिन्नवर्तिनो ऽपि बुद्धस्वरमण्डलस्य यन्न सर्वत्र सर्वघोषोपलब्धिः प्रजायते न तत्र बुद्धस्वरमण्डलस्यापराध इति / प्रत्यायनार्थमतत्प्रहितानामात्मापराधे श्लोकः /
यथा सूक्ष्मान् शब्दाननुभवति न श्रोत्रविकलो न दिव्यश्रोत्रो ऽपि श्रवणपथमायान्ति निखिलम् / तथा धर्मः सूक्ष्मः परमनिपुणज्ञानविषयः प्रयात्येकेषां तु श्रवणपथमविलष्टमनसाम् // 41
मेघवदिति /
प्रावृट्काले यथा मेघः पृथिव्यामभिवर्षति / वारिस्कन्धं निराभोगो निमित्तं सस्यसंपदः // 42 //
(rgv 105) करुणाम्बुदतस्तद्वत् सद्धर्मसलिलं जिनः / जगत्कुशलसस्येषु निर्विकल्पं प्रवर्षति // 43 //
लोके यथा कुशलकर्मपथप्रवृत्ते वर्षन्ति वायुजनितं सलिलं पयोदाः / तद्वत् कृपानिलजगत्कुशलाभिवृद्धेः सद्धर्मवर्षमभिवर्षति बुद्धमेघः // 44 //
भवेषु संवित्करुणावभृत्कः क्षराक्षरासङ्गनभस्तलस्थः / समाधिधारण्यमलाम्बुगर्भो मुनीन्द्रमेघः शुभसस्यहेतुः // 45 //
भाजनविमात्रतायाम् /
शीतं स्वादु प्रसन्नं मृदु लघु च पयस्तत्पयोदयाद्विमुक्तं क्षारादिस्थानयोगादतिबहुरसतामेति यद्वत् पृथिव्याम् / आर्याष्ताङ्गाम्बुवर्षं सुविपुलकरुणामेघगर्भाद्विमुक्तं सन्तानस्थानभेदाद्बहुविधरसतामेति तद्वत् प्रजासु // 46 //
निरपेक्षप्रवृत्तौ /
यानाग्रे ऽभिप्रसन्नानां मध्यानां प्रतिघातिनाम् / मनुष्यचातकप्रेतसदृशां राशयस्त्रयः // 47 //
ग्रीष्मान्ते ऽम्बुधरेष्वसत्सु मनुजा व्योम्न्यप्रचाराः खगा वर्षास्वप्यतिवर्षणप्रपतनात्प्रेताः क्षिप्तौ दुःखिताः / (rgv 106) अप्रादुर्भवनोदये ऽपि करुणामेघाभ्रधर्माम्भसो धर्माकाङ्क्षिणि धर्मताप्रतिहते लोके च सैवोपमा // 48 //
स्थूलैर्बिन्दुनिपातनैरशनिभिर्वज्राग्निसंपातनैः सूक्ष्मप्राणकशैलदेशगमिकान्नापेक्षते तोयदः / सूक्ष्मौदारिकयुक्त्युपायविधिभिः प्रज्ञाकृपाम्भोधरस् तद्वत् क्लेशगतान्दृष्त्यनुशयान्नापेक्षते सर्वथा // 49 //
दुःखाग्निप्रशमने /
संसारो ऽनवराग्रजातिमरणस्तत्संसृतौ पञ्चधा मार्गः पञ्चविधे च वर्त्मनि सुखं नोच्चारसौगन्ध्यवत् / तद्दुःखं ध्रुवमग्निशस्त्रशिशिरक्षारादिसंस्पर्शजं तच्छान्त्यै च सृजन् कृपाजलधरः सद्धर्मवर्षं महत् // 50 //
देवेषु च्युतिदुःखमित्यवगमात् पर्येष्टिदुःखं नृषु प्राज्ञा नाभिलषन्ति देवमनुजेष्वैश्वर्यमप्युत्तमम् / प्रज्ञायाश्च तथागतप्रवचनश्रद्धानुमान्यादिदं दुःखं हेतुरयं निरोध इति च ज्ञानेन संप्रेक्षणात् // 51 //
व्याधिर्ज्ञेयो व्याधिहेतुः प्रहेयः स्वास्थ्यं प्राप्यं भेषजं सेव्यमेवम् / दुःखं हेतुस्तन्निरोधो ऽथ मार्गो ज्ञेयं हेयः स्पर्शितव्यो निषेव्यः // 52 //
(rgv 107) महाब्रह्मवदिति / सर्वत्र देवभवने ब्राह्म्यादविचलन् पदात् / प्रतिभासं यथा ब्रह्मा दर्शयत्यप्रयत्नतः // 53 //
तद्वन्मुनिरनाभोगान्निर्माणैः सर्वधातुषु / धर्मकायादविचलन् भव्यानामेति दर्शनम् // 54
यद्वद् ब्रह्मा विमानान्न चलति सततं कामधातुप्रविष्टं देवाः पश्यन्ति चैनं विषयरतिहरं दर्शनं तच्च तेषाम् / तद्वत् सद्धर्मकायान्न चलति सुगतः सर्वलोकेषु चैनं भव्याः पश्यन्ति शश्वत्सकलमलहरं दर्शनं तच्च तेषाम् // 55 //
तस्यैव पूर्वप्रणिधानयोगान् मरुद्गणानां च शुभानुभावात् / ब्रह्मा यथा भासमुपैत्ययत्नान् निर्माणकायेन तथा स्वयंभूः // 56 //
अनाभासगमने /
च्युतिं गर्भाक्रान्तिं जननपितृवेश्मप्रविशनं रतिक्रीडारण्यप्रविचरणमारप्रमथनम् / महाबोधिप्राप्तिं प्रशमपुरमार्गप्रणयनं निदर्श्याधन्यानां नयनपथमभ्येति न मुनिः // 57 //
सूर्यवदिति /
सूर्ये यथा तपति पद्मगणप्रबुद्धिरेकत्र कालसमये कुमुदप्रसुप्तिः / (rgv 108) बुद्धिप्रसुप्तिगुणदोषविधावकल्पः सूर्यो ऽम्बुजेष्वथ च तद्वदिहार्यसूर्यः // 58 //
द्विविधः सत्त्वधातुरविनेयो विनेयश्च / तत्र यो विनेयस्तमधिकृत्य पद्मोपमता स्वच्छजलभाजनोपमता च /
निर्विकल्पो यथादित्यः कमलानि स्वरश्मिभिः / बोधत्येकमुक्ताभिः पाचयत्यपराण्यपि // 59 //
सद्धर्मकिरणैरेवं तथागतदिवाकरः / विनेयजनपद्मेषु निर्विकल्पः प्रवर्तते // 60 //
धर्मरूपशरीराभ्यां बोधिमण्डाम्बरोदितः / जगत्स्फरति सर्वज्ञदिनकृज्ज्ञानरश्मिभिः // 61 //
यतः शुचिनि सर्वत्र विनेयसलिलाशये / अमेयसुगतादित्यप्रतिबिम्बोदयः सकृत् // 62 //
एवमविकल्पत्वे ऽपि सति बुद्धानां त्रिविधे सत्त्वराशौ दर्शनादेशनाप्रवृत्तिक्रममधिकृत्य शैलोपमता /
सदा सर्वत्र विसृते धर्मधातुनभस्तले / बुद्धसूर्ये विनेयाद्रितन्निपातो यथार्हतः // 63 /// (rgv 109) उदित इह समन्ताल्लोकमाभास्य यद्वत् प्रततदशशतांशुः सप्तसप्तिः क्रमेण / प्रतपति वरमध्यन्यूनशैलेषु तद्वत् प्रतिपति जिनसूर्यः सत्त्वराशौ क्रमेण // 64 //
प्रभामण्डलविशेषणे /
सर्वक्षेत्रनभस्तलस्फरणता भानोर्न संविद्यते नाप्यज्ञानतमोऽन्धकारगहनज्ञेयार्थसंदर्शनम् / नानावर्णविकीर्णरश्मिविसरैरेकैकरोमोद्भवैर् भासन्ते करुणात्मका जगति तु ज्ञेयार्थसंदर्शकाः // 65 //
बुद्धानां नगरप्रवेशसमये चक्षुर्विहीना जनाः पश्यन्त्यर्थमनर्थजालविगमं विन्दन्ति तद्दर्शनात् / मोहान्धाश्च भवार्णवान्तरगता दृष्ट्यन्धकारावृता बुद्धार्कप्रभयावभासितधियः पश्यन्त्यदृष्टं पदम् // 66 //
चिन्तामणिवदिति /
युगपद्गोचरस्थानां सर्वाभिप्रायपूरणम् / कुरुते निर्विकल्पो ऽपि पृथक् चिन्तामणिर्यथा // 67 //
बुद्धचिन्तामणिं तद्वत् समेत्य पृथगाशयाः / शृण्वन्ति धर्मतां चित्रां न कल्पयति तांश्च सः // 68 //
यथाविकल्पं मणिरत्नमीप्सितं धनं परेभ्यो विसृजत्ययत्नतः / (rgv 110) तथा मुनिर्यत्नमृते यथार्हतः परार्थमातिष्ठति नित्यमा भवात् // 69 //
दुर्लभप्राप्तभावास्तथागता इति /
इह शुभमणिप्राप्तिर्यद्वज्जगत्यतिदुर्लभा जलनिधिगतं पातालस्थं यतः स्पृहयन्ति तम् / न सुलभमिति ज्ञेयं तद्वज्जगत्यतिदुर्लभगे मनसि विविधक्लेशग्रस्ते तथागतदर्शनम् // 70 //
प्रतिश्रुत्काशब्दवदिति /
प्रतिश्रुत्कारुतं यद्वत् परविज्ञप्तिसंभवम् / निर्विकल्पमनाभोगं नाध्यात्मं न बहिः स्थितम् // 71 //
तथागतरुतं तद्वत् परविज्ञप्तिसंभवम् / निर्विकल्पमनाभोगं नाध्यात्मं न बहिः स्थितम् // 72 //
आकाशवदिति / निष्किंचने निराभासे निरालम्बे निराश्रये / चक्षुष्पथव्यतिक्रान्ते ऽप्यरूपिण्यनिदर्शने // 73 //
यथा निम्नोन्नतं व्योम्नि दृश्यते न च तत्तथा / बुद्धेष्वपि तथा सर्व दृश्यते न च तत्तथा // 74 //
पृथिवीवदिति /
सर्वे महीरुहा यद्वदविकल्पां वसुंधराम् / निश्रित्य वृद्धिं वैरूढिं वैपुल्यमुपयान्ति च // 75 //
संबुद्धपृथिवीमेवमविकल्पामशेषतः / जगत्कुशलमूलानि वृद्धिमाश्रित्य यान्ति हि // 76 //
(rgv 111) उदाहरणानां पिण्डार्थः /
न प्रयत्नमृते केश्चिद्दृष्टः कुर्वन् क्रियामतः / विनेयसंशयच्छित्त्यै नवधोक्तं निदर्शनम् // 77 //
सूत्रस्य तस्य नाम्नैव दिपितं तत्प्रयोजनम् / यत्रैते नव दृष्टान्ता विस्तरेण प्रकाशिताः // 78 //
एतच्छ्रतमयोदारज्ञानालोकाद्यलंकृताः / धीमन्तो ऽवतरन्त्याशु सकलं बुद्धगोचरम् // 79 //
इत्यर्थ शक्रवैडूर्यप्रतिबिम्बाद्युदाहृतिः / नवधोदाहृता तस्मिन्तत्पिण्डार्थो ऽवधार्यते // 80 //
दर्शनादेशना व्याप्तिर्विकृतिर्ज्ञाननिःसृतिः / मनोवाक्कायगुह्यानि प्राप्तिश्च करुणात्मनाम् // 81 //
सर्वाभोगपरिस्पन्दप्रशान्ता निर्विकल्पिकाः / धियो विमलवैडूर्यशक्रबिम्बोदयादिवत् // 82 //
प्रतिज्ञाभोगशान्तत्वं हेतुर्धीनिर्विकल्पता / दृष्टान्तः शक्रबिम्बादिः प्रकृतार्थसुसिद्धये // 83 //
अयं च प्रकृतो ऽत्रार्थो नवधा दर्शनादिकम् / जन्मान्तर्धिमृते शास्तुरनाभोगात् प्रवर्तते // 84 //
(rgv 112) एतमेवार्थमधिकृत्योदाहरणसंग्रहे चत्वारः श्लोकाः /
यः शक्रवद्दुन्दुभिवत् पयोदवद् ब्रह्मार्कचिन्तामणिराजरत्नवत् / प्रतिश्रुतिव्योममहीवदा भवात् परार्थकृद्यत्नमृते स योगवित् // 85 //
सुरेन्द्ररत्नप्रतिभासदर्शनः सुदैशिको दुन्दुभिवद् विभो रुतम् / विभुर्महाज्ञानकृपाभ्रमण्डलः स्फरत्यनन्तं जगदा भवाग्रतः // 86 //
अनास्रवाद्ब्रह्मवदच्युतः पदादनेकधा दर्शनमेति निर्मितैः / सदार्कवज्ज्ञानविनिःसृतद्युतिर्विशुद्धचिन्तामणिरत्नमानसः // 87 //
प्रतिरव इव घोषो ऽनक्षरोक्तो जिनानां गगनमिव शरीरं व्याप्यरूपि ध्रुवं च / क्षितिरिव निखिलानां शुक्लधर्मौषधीनां जगत इह समन्तादास्प दं बुद्धभूमिः // 88 //
कथं पुनरनेनोदाहरणनिर्देशेन सततमनुत्पन्ना अनिरुद्धाश्च बुद्धा भगवन्त उत्पद्यमाना निरुध्यमानाश्च संदृश्यन्ते सर्वजगति चैषामनाभोगेन बुद्धकार्याप्रतिप्रश्रब्धिएरिति परिदीपितम् /
शुभं वैडूर्यवच्चित्ते बुद्धदर्शनहेतुकम् / तद्विशुद्धिरसंहार्यश्रद्धेन्द्रियविरूढिता // 89 //
(rgv 113) शुभोदयव्ययाद्धुद्धंप्रतिबिम्बोदयव्ययः / मुनिर्नोदेति न व्येति शक्रवद्धर्मकायतः // 90 //
अयत्नात् कृत्यमित्येवं दर्शनादि प्रवर्तते / धर्मकायादनुत्पादानिरोधादा भवस्थितेः // 91 //
अयमेषां समासार्थ औपम्यानां क्रमः पुनः / पूर्वकस्योत्तरेणोक्तो वैधर्म्यपरिहारतः // 92 //
बुद्धत्वं प्रतिबिम्बाभं तद्वन्न च न घोषवत् / देवदुन्दुभिवत् तद्वन्न च नो सर्वथार्थकृत् // 93 //
महामेघोपमं तद्वन्न च नो सार्थबीजवत् / महाब्रह्मोपमं तद्वन्न च नात्यन्तपाचकम् // 94 //
सूर्यमण्डलवत् तद्वन्न नात्यन्त तमो ऽपहम् / चिन्तामणिनिभं तद्वन्न च नो दुर्लभोदयम् // 95 //
प्रतिश्रुत्कोपमं तद्वन्न च प्रत्ययसंभवम् / आकाशसदृशं तद्वन्न च शुक्लास्पदं च तत् // 96 //
पृथिवीमण्डलप्रख्यं तत्प्रतिष्ठाश्रयत्वतः / लौक्यलोकोत्तराशेषजगत्कुशलसंपदम् // 97 //
(rgv 114) बुद्धानां बोधिमागम्य लोकोत्तरपथोदयात् / शुक्लकर्मपथध्यानाप्रमाणारूप्यसंभव इति // 98 // इति रत्नगोत्रविभागे महायानोत्तरतन्त्रशास्त्रे तथागतकृत्यक्रियाधिकारश्चतुर्थः परिच्छेदः श्लोकार्थसंग्रहव्याख्यानतः समाप्तः // 4 // 5. पंचमः परिच्छेदः
अतः परमेष्वेव यथापरिकीर्तितेषु स्थानेष्वधिमुक्तानामधिमुक्त्यनुशंसे षट् श्लोकाः
बुद्धधातुर्बुद्धबोधिर्बुद्धधर्मा बुद्धकृत्यम् / गोचरो ऽयं नायकानां शुद्धसत्त्वैरप्यचिन्त्यः // 1 //
इह जिनविषये ऽधिमुक्तबुद्धिर्गुणगणभाजनतामुपैति धीमान् / अभिभवति स सर्वसत्त्वपुण्यप्रसवमचिन्त्यगुणाभिलाषयोगात् // 2 //
यो दद्यान्मणिसंस्कृतानि कनकक्षेत्राणि बोध्यर्थिको बुद्धक्षेत्ररजःसमान्यहरहो धर्मेश्वरेभ्यः सदा / यश्चान्यः शृणुयादितः पदमपि श्रुत्वाधिमुच्येदयं तस्माद्दानमयाच्छुंभाद्बहुतरं पुण्यं समासादयेत् // 3 //
यः शीलं तनुवाङ्मनोभिरमलं रक्षेदनाभोगवद् धीमान् बोधिमनुत्तरामभिलषन् कल्पाननेकानपि / यश्चान्यः शृणुयादितः पदमपि श्रुत्वाधिमुच्येदयं तस्माच्छीलमयाच्छुभाद्बहुतरं पुण्यं समासादयेत् // 4 //
ध्यायेद्ध्यानमपीह यस्त्रिभुवनक्लेशाग्निनिर्वापकं दिव्यब्रह्म विहारपारमिगतः संबोध्युपायाच्युतः / यश्चान्यः श्रृणुयादितः पदमपि श्रुत्वाधिमुच्येदयं तस्माद्ध्यानमयाच्छुभाद्बहुतरं पुण्यं समासादयेत् // 5 //
(rgv 116) दानं भोगानावहत्येवः यस्माच्छीलं स्वर्गं भावना क्लेशहानिम् / प्रज्ञा क्लेशज्ञेयसर्वप्रहाणं सातः श्रेष्ठा हेतुरस्याः श्रवो ऽयम् // 6 //
एषा श्लोकानां पिण्डार्थो नवभिः श्लोकैर्वेदितव्यः /
आश्रये तत्परावृत्तौ तद्गुणेष्वर्थसाधने / चतुर्विधे जिनज्ञानविषये ऽस्मिन् यथोदिते // 7 //
धिमानस्तित्वशक्तत्वगुणवत्त्वा धिमुक्तितः / तथागतपदप्राप्तिभव्यतामाशु गच्छति // 8 //
अस्त्यसौ विषयो ऽचिन्त्यः शक्यः प्राप्तुं स मादृशैः / प्राप्त एवंगुणश्चासाविति श्रद्धाधिमुक्तितः // 9 //
छन्दवीर्यस्मृतिध्यानप्रज्ञादिगुणभाजनम् / बोधिचित्तं भवत्यस्य सततं प्रत्यपस्थितम् // 10 //
तच्चित्तप्रत्युपस्थानादविवर्त्यो जिनात्मजः / पुण्यपारमितापूरिपरिशुद्धिं निगच्छति // 11 //
पुण्यं पारमिताः पञ्च त्रेधा तदविकल्पनात् / तत्पूरिः परिशुद्धिस्तु तद् विपक्षप्रहाणतः // 12 //
दानं दानमयं पुण्यं शीलं शीलमयं स्मृतम् / द्वे भावनामयं क्षान्तिध्याने वीर्यं तु सर्वगम् // 13 //
(rgv 117) त्रिमण्डलविकल्पो यस्तज्ज्ञेयावरणं मतम् / मात्सर्यादिविपक्षो यस्तत् क्लेशावरणं मतम् // 14 //
एतत्प्रहाणहेतुश्च नान्यः प्रज्ञामृते ततः / श्रेष्ठा प्रज्ञा श्रुतं चास्य मूलं तस्माच्छ्रुतं परम् // 15 //
इतीदमाप्तागमयुक्तिसंश्रयादुदाहृतं केवलमात्मशुद्धये / धियाधिमुक्त्या कुशलोपसंपदा समन्विता ये तदनुग्रहाय च // 16 //
प्रदीपविद्युन्मणिचन्द्रभास्करान् प्रतीत्य पश्यन्ति यथा सचक्षुषः / महार्थधर्मप्रतिभाप्रभाकरं मुनिं प्रतीत्येदमुदाहृतं तथा // 17 //
यदर्थवद्धर्मपदोपसंहितं त्रिधातुसंक्लेशनि बर्हण वचः / भवेच्च यच्छान्त्यनुशंसदर्शकं तदुक्तमार्षं विपरीतमन्यथा // 18 //
यत्स्यादविक्षिप्तमनोभिरुक्तं शास्तारमेकं जिनमुद्दिशद्भिः / (rgv 118) मोक्षाप्तिसंभारपथानुकूलं मूर्ध्ना तदप्यार्षमिव प्रतीच्छेत् // 19 //
यस्मान्नेह जिनात् सुपण्डिततमो लोके ऽस्ति कश्चित्क्वचित् सर्वज्ञः सकलं स वेद विधिवत्तत्त्वं परं नापरः / तस्माद्यत्स्वयमेव नीतमृषिणा सूत्रं विचाल्यं न तत् सद्धर्मप्रतिबाधनं हि तदपि स्यान्नीति भेदान्मुनेः // 20 //
आर्यांश्चापवदन्ति तन्निगदितं धर्मं च गर्हन्ति यत् सर्वः सो ऽभिनिवेशदर्शनकृतः क्लेशो विमूढात्मनाम् / तस्मान्नाभिनिवेशदृष्टिमलिने तस्मिन्निवेश्या मतिः शुद्धं वस्त्रमुपैति रङ्गविकृतिं न स्नेहपङ्काङ्कितम् // 21 //
धीमान्द्यादधिमुक्तिशुक्लविरहान् मिथ्याभिमानाश्रयात् सद्धर्मव्यसनावृतात्मकतया नेयार्थतत्त्वग्रहात् / लोभग्रेधतया च दर्शनवशाद्धर्मद्विपां सेवनाद् आराद्धर्मभृतां च हीनरुचयो धर्मान् क्षिपन्त्यर्हताम् // 22 //
नाग्नेर्नोग्रविषादहेर्न वधकान्नैवाशनिभ्यस्तथा भेतव्यं विदुषामतीव तु यथा गम्भीरधर्मक्षतेः / कुर्युर्जीवितविप्रयोगमनलव्यालारिवज्राग्नयस् तद्धेतोर्न पुनर्व्रजेदतिभयामावीचिकानां गतिम् // 23 //
(rgv 119) यो ऽभीक्ष्णं प्रतिसेव्य पापसुहृदः स्याद्वुद्धदुष्टाशयो मातापित्ररिहद्वधाचरणकृत् संघाग्रभेत्ता नरः / स्यात्तस्यापि ततो विमुक्तिरचिरं धर्मार्थनिध्यानतो धर्मे यस्य तु मानसं प्रतिहतं तस्मै विमुक्तिः कुतः // 24 //
रत्नानि व्यवदानधातुममलां बोधिं गुणान् कर्म च व्याकृत्यार्थपदानि सप्त विधिवद्यत् पुण्यमाप्तं मया / तेनेयं जनतामितायुषमृषिं पश्येदनन्तद्युतिं दृष्ट्वा चामलधर्मचक्षुरुदयाद्बोधिं परामाप्नुयात् // 25 //
एषामपि दशानां श्लोकानां पिण्डार्थस्त्रिभिः श्लोकैर्वेदितव्यः /
यतश्च यन्निमित्तं च यथा च यदुदाहृतम् / यन्निष्यन्दफलं श्लोकैश्चतुर्भिः परिदीपितम् // 26 //
आत्मसंरक्षणोपायो द्वाभ्यामेकेन च क्षतेः / हेतुः फलमथ द्वाभ्यां श्लोकाभ्यां परिदीपितम् // 27 //
संसारमण्डलक्षान्तिर्बोधिप्राप्तिः समासतः / द्विधा धर्मार्थवादस्य फलमन्तेन दर्शितम् // 28 // इति रत्नगोत्रविभागे महायानोत्तरतन्त्रशास्त्रे ऽनुशंसाधिकारो नाम पञ्चमः परिच्छेदः श्लोकार्थसंग्रहव्याख्यानतः समाप्तः // 5 //
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
