Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng
क्षणभङ्गसिद्धि व्यतिरेकात्मिका
- Tác giả
- रत्नकीर्ति
- Thông tin
- GRETIL — A. Charlene Senape McDermott: An eleventh-century Buddhist logic of `exists'. Dordrecht : Reidel 1969 (Foundations of language ; Supplementary series, 11).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
रत्नकीर्ति: क्षणभङ्गसिद्धि व्यतिरेकात्मिका
नमस् तारायै
(77.4) व्यतिरेकात्मिका व्याप्तिर् आक्षिप्तान्वयरूपिणी / वैधर्म्यवति दृष्टान्ते सत्त्वहेतोर् इहोच्यते /
(77.6) यत् सत् तत् क्षणिकम् / यथा घटः / सन्तश् चामी विवादास्पदीभूताः पदार्था इति स्वभावहेतुः /
(77.8) न तावद् अस्यासिद्धिः सम्भवति / यथायोगं प्रत्यक्षानुमानप्रमाणप्रतीते धर्मिणि सत्त्वशब्देनाभिप्रेतस्यार्थक्रियाकारित्वलक्षणस्य साधनस्य प्रमाणसमधिगतत्वात् /
(77.10) न च विरुद्धानैकान्तिकते / व्यापकानुपलम्भात्मना विपर्यये बाधकप्रमाणेन व्याप्तेः प्रसाधनात् /
(77.11) यस्य क्रमाक्रमौ न विद्येते न तस्यार्थक्रियासामर्थ्यम् / यथा शशविषाणस्य / न विद्येते चाक्षणिकस्य क्रमाक्रमाव् इति व्यापकानुपलम्भः /
(77.12) न तावद् अयम् असिद्धो हेतुः / अक्षणिके धर्मिणि क्रमाक्रमसद्भावायोगात् / तथा हि प्राप्तापरकालयोर् एकत्वे नित्यत्वम् / तस्य क्रमाक्रमयोगे क्षणद्वये ऽप्य् अवश्यं भेदः / भेदाभेदयोश् च परस्परविरोधात् कुतो ऽक्षणिके क्रमाक्रमसम्भवः / क्षणद्वये ऽपि भेदे क्रमाक्रमयोगः / अभेदे हि प्रथम एव क्षणे शक्तत्वाद् / भाविनो ऽपि कार्यस्य करणप्रसङ्गे कथं कार्यान्तरकरणे क्रमान्तरावकाशः / न चाक्षणिकस्याक्रमेणैव सकलस्वकार्यं कृत्वा स्वास्थ्यम् / क्षणान्तरे ऽपि शक्तत्वात् पुनस् तत्कार्यकरणप्रसङ्गात् /
(77.18) तस्माद् अक्षणिकम् इति पूर्वापरकालयोर् अभेदः / क्रमाक्रमयोग इति पूर्वापरकालयोर् भेदः / अनयोश् च परस्परपरिहारस्थितिलक्षणो विरोधः /
(77.20) तद् अयम् अक्षणिके धर्मिणि क्रमाक्रमाभावलक्षणो हेतुर् नासिद्धो वक्तव्यः / क्रमाक्रमयोगित्वाक्षणिकत्वयोर् विरोधाद् एव /
(78.1) नापि विरुद्धः / सपक्षे भावात् /
(78.2) न चानैकान्तिकः / क्रमाक्रमाभावस्यार्थक्रियासामर्थ्याभावेन व्याप्तत्वात् /
(78.3) येनैव हि प्रत्यक्षात्मना प्रमाणेनापरप्रकाराभावाद् विधिभूताभ्यां क्रमाक्रमाभ्यां विधिभूतस्यार्थक्रियासामर्थ्यस्य व्याप्तिः प्रसाधिता, तेनैवार्थक्रियासामर्थ्याभावेन क्रमाक्रमाभावस्य व्याप्तिः प्रसाधितेति स्वीकर्तव्यम् / न हि दहनादिना धूमादेर् व्याप्तिसाधकप्रमाणाद् अपरं धूमाद्यभावेन दहनाद्यभावस्य व्याप्तिसाधकं किञ्चित् प्रमाणं शरणभूतम् अस्ति / तस्माद् विध्योर् एव व्याप्तिसाधकं प्रमाणम् अभावयोर् अपि व्याप्तिसाधकम् इति न्यायस्य दुरतिक्रमत्वात् सत्त्वाभावेन क्रमाक्रमाभावो व्याप्त एवेति नानैकान्तिक इत्य् अनवद्यो व्यापकानुपलम्भः / तद् अयम् अक्षणिकाद् विनिवर्तमाणः स्वव्याप्यं सत्त्वं निवर्त्य क्षणिके विश्रामयतीति सत्त्वहेतोः क्षणभङ्गसिद्धिर् अप्य् अनवद्या. /
(78.10) ननु व्यापकानुपलम्भतः सत्त्वस्य कथं स्वसाध्यप्रतिबन्धसिद्धिः, अस्याप्य् अनेकदोषदुष्टत्वात् / तथा हि न तावद् अयं प्रसङ्ग हेतुः / साध्यधर्मिणि प्रमाणसिद्धत्वात्, पराभ्युपगमसिद्धत्वाभावात्, विपर्ययपर्यवसानाभावाच् च / अथ स्वतन्त्रः, तदाश्रयासिद्धः / अक्षणिकस्याश्रयस्यासम्भवात् / अप्रतीतत्वाद् वा / प्रतीतिर् हि प्रत्यक्षेणानुमानेन विकल्पमात्रेण वा स्यात् /
(79.1) प्रथमपक्षद्वये साक्षात्पारम्पर्येण वा स्वप्रतीतिलक्षणार्थकारित्वे मौलः साधारणो हेतुः व्यापकानुपलम्भश् च स्वरूपासिद्धः स्यात् / अर्थक्रियाकारित्वे क्रमाक्रमयोर् अन्यतरस्यावश्यम्भावात् /
(79.4) अन्तिमपक्षे तु न कश्चिद् धेतुर् अनाश्रयः स्यात् / विकल्पमात्रसिद्धस्य धर्मिणः सर्वत्र सुलभत्वात् /
(79.6) अपि च, तत् कल्पनाज्ञानं प्रत्यक्षपृष्ठभावि वा स्यात्, लिङ्गजन्म वा, संस्कारजं वा, सन्दिग्धवस्तुकं वा, अवस्तुकं वा /
(79.8) तत्राद्यपक्षद्वये ऽक्षणिकस्य सत्तैवाव्याहता / कथं बाधकावतारः /
(79.9) तृईत्ये तु न सर्वदा ऽक्षणिकसत्तानिषेधः / तदर्पितसंस्काराभावे तत् स्मरणायोगात् /
(79.10) चतुर्थे तु सन्दिग्धाश्रयत्वं हेतुदोषः /
(79.11) पञ्चमे च तद्विषयस्याभावो न तावद् प्रत्यक्षतः सिध्यति / अक्षणिकात्मनः सर्वदैव त्वन्मते ऽप्रत्यक्षत्वात् न चानुमानतस् तदभावस् तत्प्रतिबद्धलिङ्गान् उपलम् भादित्याश्रयासिद्धिस् तावद् उद्धता / एवं दृष्टान्तो ऽपि प्रतिहन्तव्यः /
(79.14) स्वरूपासिद्धो ऽप्य् अयं हेतूः / स्थिरस्यापि क्रमाक्रमिसहकार्यपेक्षया क्रमाक्रमाभ्याम् अर्थक्रियोपपत्तेः / नापि क्रमयौगपद्यपक्षोक्तदोषप्रसङ्गः / तथा हि क्रमिसहकार्यपेक्षया क्रमिकार्यकारित्वन् तावद् अविरुद्धम् /
(79.17) तथा च शंकरस्य संक्षिप्तो ऽयम् अभिप्रायः / सहकारिसाकल्यं हि सामर्थ्यम् / तद्वैकल्यं चासामर्थ्यम् / न च तयोर् आविर्भावतिरोभावाभ्यान् तद्वतः का चित् क्षतिः / तस्य ताभ्याम् अन्यत्वात् / तत् कथं सहकारिणो ऽनपेक्ष कार्यकरणप्रसङ्ग इति /
(79.20) त्रिलोचनस्याप्य् अयं संक्षिप्तार्थः / कार्यम् एव हि सहकारिणम् अपेक्षते / न च कार्योत्पत्तिहेतुः / यस्माद् द्विविधं सामर्थ्यं निजम् आगन्तुकं च सहकार्यन्तरम्, ततो ऽक्षणिकस्यापि क्रमवत् सहकारिनानात्वाद् अपि क्रमवत् कार्यनानात्वोपपत्तेर् अशक्यं भावानाम् प्रतिक्षणम् अन्योन्यत्वम् उपपादयितुम् इति /
(79.24) न्यायभूषणो ऽपि लपति / प्रथमकार्योत्पादनकाले हि उत्तरकार्योत्पादनस्वभावः / अतः प्रथमकाल एवाशेषाणि कार्याणि कुर्याद् इति चेत् /
(79.26) तद् इदं माता मे वन्ध्येत्य् आदिवत् स्ववचनविरोधाद् अयुक्तम् / यो हि उत्तरकार्यजननस्वभावः स कथम् आदौ तत् कार्यं कुर्यात् / न तर्हि तत्कार्यकरणस्वभावः / न हि नीलोत्पादनस्वभावः पीतादिकम् अपि करोतीति /
(80.1) वाचस्पतिर् अपि पठति / नन्व् अयम् अक्षणिकः स्वरूपेण कार्यं जनयति / तच् चास्य स्वरूपं तृतीयादिषिव क्षणेषु द्वितीये ऽपि क्षणे सद् इति तदापि जनयेत् / अकुर्वन् वा तृतीयादिष्व् अपि न कुर्वीत / तस्य तादावस्थ्यात् / अतादवस्थ्ये वा तद् एवास्य क्षणिकत्वम् /
(80.4) अत्रोच्यते / सत्यं स्वरूपेण कार्यं जनयति न तु तेनैव / सहकारिसहिताद् एव ततः कार्योत्पत्तिदर्शनात् / तस्माद् व्याप्तिवत्कार्यकारणभावो ऽप्य् एकत्रान्ययोगव्यवच्छेदेन / अन्यत्रायोगव्यवच्छेदेननावबोद्धव्यः / तथैव लौकिकपरीक्षकाणां सम्प्रतिपत्तेर् इति न क्रमिकार्यकारित्वपक्षोक्तदोषावसरः /
(80.8) नाप्य् अक्षणिके यौगपद्यपक्षोक्तदोषावकाशः / ये हि कार्यम् उत्पादितवन्तो द्रव्यविशेषास् तेषां व्यापारस्य नियतकार्योत्पादनसमर्थस्य निष्पादिते कार्ये ऽनुवर्तमानेष्व् अपि तेषु द्रव्येषु निवृत्तार्थाद् ऊना सामग्री जायते / तत् कथं निष्पादितं निष्पादयिष्यति / न हि दण्डादयः स्वभावेनैव कर्तारो येनामि निष्पत्तेर् आरभ्य कार्यं विदध्युः / किं तर्हि व्यापारावेशिनः / न चेयता स्वरूपेण न कर्तारः / स्वरूपकारकत्वनिर्वाहपरतया व्यापारसमावेशाद् इति /
(80.13) किं च क्रमाक्रमाभावश् च भविष्यति / न च सत्त्वाभाव इति सन्दिग्धव्यतिरेको ऽप्य् अयं व्यापकानुपलम्भः / न हि क्रमाक्रमाभ्याम् अन्यस्य प्रकारस्याभावः सिद्धः / विशेषनिषेधस्य शेषाभ्यनुज्ञाविषयत्वात् /
(80.16) किं च प्रकारान्तरस्य दृश्यत्वे नात्यन्तनिषेधः / अदृश्यत्वे तु नासत्तानिश्चयो विप्रकर्षिणाम् इति न क्रमाक्रमाभ्याम् अर्थक्रियासामर्थ्यस्य व्याप्तिसिद्धिः / अतः सन्दिग्धव्यतिरेको ऽपि व्यापकानुपलम्भः /
(80.19) किं च दृश्यादृश्यसहकारिप्रत्ययसाकल्यवतः क्रमयौगपद्यस्यात्यन्तपरोक्षत्वात् तेन व्याप्तं सत्त्वम् अपि परोक्षम् एवेति न तावत् प्रतिबन्धः प्रत्यक्षतः सिध्यति / नाप्य् अनुमानतः / तत्प्रतिबद्धलिङ्गाभावाद् इति /
(80.22) अपि च क्रमाक्रमाभ्याम् अर्थक्रियाकारित्वं व्याप्तम् इत्य् अतिसुभाषितम् / यदि क्रमेण व्याप्तं कथम् अक्रमेण, अथाक्रमेण न तर्हि क्रमेण / क्रमाक्रमाभ्यां व्याप्तिम् इति तु ब्रुवता व्याप्तेर् एवाभावः प्रदर्शितो भवति / न हि भवत्य् अग्निर् धूमभावाभावाभ्यां व्याप्त इति / अतो व्याप्तेर् अनैकान्तिकत्वम् /
(80.26) अपि च किम् इदं बाधकम् अक्षणिकानाम् असत्तां साधयति / उतस्विद् अक्षणिकात् सत्त्वस्य व्यतिरेकम् / अथ सत्त्वक्षणिकत्वयोः प्रतिबन्धम् /
(80.28) न पूर्वो विकल्पः / उक्तक्रमेण हेतोर् आश्रयासिद्धत्वात् /
(80.29) न च द्वितीयः / यतो व्यापकनिवृत्तिसहिता व्याप्यनिवृत्तिर् व्यतिरेकशब्दस्यार्थः / सा च यदि प्रत्यक्षेण प्रतीयते तदा तद्धेतुः स्याद् इति सत्त्वम् अनैकान्तिकम् / व्यापकानुपलम्भः स्वरूपासिद्धिः / अथ सा विकल्प्यते तदा पूर्वोक्तक्रमेण पञ्चधा विकल्प्य विकल्पो दूषणीयः /
(81.1) अत एव न तृतीयो ऽपि विकल्पः / व्यतिरेकासिद्धौ सम्बन्धासिद्धेः /
(81.2) किं च न भूतलवद् अत्राक्षणिको धर्मि दृश्यते / न च स्वभावानुपलम्भे व्यापकानुपलम्भः कस्य चित् दृश्यस्य प्रतिपत्तिम् अन्तरेणान्तर्भावयितुं शक्यत इति /
(81.4) किं चास्याभावधर्मत्वे आश्रयासिद्धत्वम् इतरेतराश्रयत्वं च / भावधर्मत्वे विरुद्धत्वं च / उभयधर्मत्वे चानैकान्तिकत्वम् इति न त्रयीं दोषजातिम् अतिपतति /
(81.6) यत् पुनर् उक्तम् अक्षणिकत्वे क्रमयौगपद्याभ्याम् अर्थक्रियाविरोधाद् इति / तत्र विरोधसिद्धिम् अनुसरता विरोध्य् अपि प्रतिपत्तव्यः / तत्प्रतीतिनान्तरीयकत्वाद् विरोधसिद्धेः / यथा तुहिनदहनयोः सापेक्षध्रुवभावयोश् च /
(81.8) प्रतियोगी चाक्षणिकः प्रतीयमानः प्रतीतिकारित्वात् सन्न् एव स्यात् अजनकस्याप्रमेयत्वात् /
(81.10) संवृतिसिद्धेनाक्षणिकत्वेन विरोधसिद्धिर् इति चेत् / संवृतिसिद्धम् अपि वास्तवं काल्पनिकं वा स्यात् /
(81.12) यदि वास्तवं कथं तस्यासत्त्वम् / कथं चार्थक्रियाकारित्वविरोधः / अर्थक्रियां कुर्वद् धि वास्तवम् उच्यते /
(81.14) अथ काल्पनिकम् / तत्र किं विरोधो वास्तवः, काल्पनिको वा / न तावद् वास्तवः / कल्पितविरोधिविरोधत्वात्, वन्ध्यापुत्रविरोधवत् / अथ विरोधो ऽपि काल्पनिकः / न तर्हि सत्त्वस्य व्यतिरेकः पारमार्थिक इति क्षणभङ्गो दत्तजलाञ्जलिर् इति /
(81.17) अयम् एव चोद्यप्रबन्धो ऽस्मद् गुरूभिः संगृहीतः /
(81.18) नित्यं नास्ति न वा प्रतीतिविषयस् तेनाश्रयासिद्धता हेतोः स्वानुभवस्य च क्षतिर् अतः क्षिप्तः सपक्षो ऽपि च / शून्यं च द्वितयेन सिध्यति न चासत्तापि सत्ता यथा नो नित्येन विरोधसिद्धिर् असता शक्षा क्रमादेर् अपि / इति (क्षणभङ्गाध्याये) /
(81.23) अत्रोच्यते / इह वस्तुन्य् अपि धर्मिधर्मव्यवहारो दृष्टो यथा गवि गोत्वम्, पटे शुक्लत्वम् तुरगे गमनम् इत्यादि / अवस्तुन्य् अपि धर्मिधर्मव्यवहारो दृष्टो यथा शशविषाणे तीक्ष्णत्वाभावो वन्ध्यापुत्रे वक्तृत्वाभावो गगनारविन्दे गन्धाभाव इत्यादि / तत्रावस्तुनि धर्मित्वं नास्तीति किं वस्तुधर्मेण धर्मित्वं नास्ति / आहोस्विद् अवस्तुधर्मेणापि /
(81.27) प्रथमपक्षे सिद्धसाधनम् / द्वितीयपक्षे तु स्ववचनविरोधः / यद् आहुर् गुरवः //
(81.28) धर्मस्य कस्य चिद् अवस्तुनि मानसिद्धा बाधाविधिव्यवहृतिः किम् इहास्ति नो वा क्वाप्य् अस्ति चेत् कथम् इयन्ति न दूषणानि नास्त्य् एव चेत् स्ववचनप्रतिरोधसिद्धिः /
(82.1) अवस्तुनो धर्मित्वस्वीकारपूर्वकत्वस्य व्यापकस्याभावाद् आश्रयासिद्धिदूषणस्यानुपन्यासप्रसङ्ग इत्य् अर्थः / येनैव हि वचनेनावस्तुनो धर्मित्वं प्रतिषिध्यते / तेनैवावस्तुनो धर्मित्वाभावेन धर्मेण धर्मित्वम् अभ्युपगतम् / परं तु प्रतिषिध्यत इति व्यक्तम् इदम् ईश्वरचेष्टितम् / तथा ह्य् अवस्तुनो धर्मित्वं नास्तीति वचनेन धर्मित्वाभावः किम् अवस्तुनि विधीयत, अन्यत्र वा, न वा क्व चिद् अपीति त्रयः पक्षाः /
(82.6) प्रथमपक्षे ऽवस्तुनो न धर्मित्वनिषेधः / धर्मित्वाभावस्य धर्मस्य तत्रैव विधानात् /
(82.7) द्वितीये ऽवस्तुनि किमायातम् / अन्यत्र धर्मित्वाभावविधानात् /
(82.8) तृतीयस् तु पक्षो व्यर्थ एव निराश्रयत्वाद् इति कथम् अवस्तुनो धर्मित्वनिषेधः / तस्माद् यथा प्रमाणोपन्यासः प्रमेयत्वस्वीकार पूर्वकत्वेन व्याप्तः, वाचकशब्दोपन्यासो वा वाच्यस्वीकारपूर्वकत्वेन व्याप्तस् तथा ऽवस्तुनो धर्मित्वं नास्तीति वचनोपन्यासो ऽवस्तुनो धर्मित्वस्वीकारपूर्वकत्वेन व्याप्तः / अन्यथा तद्वचनोपन्यासस्य व्यर्थत्वात् /
(82.11) तद् यदि वचनोपन्यासो व्याप्यधर्मस् तदा ऽवस्तुनो धर्मित्वस्वीकारो ऽपि व्यापकधर्मो दुर्वारः / अथ न व्यापकधर्मः, तदा व्याप्यस्यापि वचनोपन्यासस्यासम्भव इति मूकतैवात्र बलाद् आयातेति कथं न स्ववचनप्रतिरोधसिद्धिः /
(82.15) यद् आहाचार्यः / न ह्य् अब्रुवन् परं बोधयितुम् ईशः / [अ]ब्रुवन् वा दोषम् इमं परिहर्तुम् इति महति संकटे प्रवेशः /
(82.17) अवस्तुप्रस्तावे सहृदयानां मूकतैव युज्यते इति चेत् / अहो महद् वैदग्ध्यम् / अवस्तुप्रस्तावे स्वयम् एव यथाशक्ति वल्गित्वा भग्नो मूकतैव न्यायप्राप्तेति परिभायया निःसर्तुम् इच्छति / न चावस्तुप्रस्तावो राजदण्डेन विना चरणमर्दनादिनानिष्टिमात्रेण वा प्रतिषेधुं शक्षते / ततश् चात्रापि क्रमाक्रमभावस्य साधनत्वे सत्त्वाभावस्य च साध्यत्वे सन्दिग्धवस्तुभावस्यावस्त्वात्मनो वा क्षणिकस्य धर्मित्वं केन प्रतिषिध्यते /
(82.22) त्रिविधो हि धर्मो दृष्टः / कश् चित् वस्तुनियतो नीलादिः / कश् चिद् अवस्तुनियतो यथा सर्वोपाख्याविरहः / कश् चिद् उभयसाधारणो यथा ऽनुपलब्धिमात्रम् / तत्र वस्तुधर्मेणावस्तुनो धर्मित्वनिषेध इति युक्तम् / न त्व् अवस्तुधर्मेण / वस्त्ववस्तुधर्मेण वा / स्ववचनस्यानुपन्यासप्रसङ्गाद् इत्य् अक्षणिकस्याभावे सन्देहे ऽपि वा ऽवस्तुधर्मेण धर्मित्वम् अव्याहतम् इति नायम् आश्रयासिद्धो व्यापकानुपलम्भः /
(82.27) अक्षणिकाप्रतीतावाश्रयसिद्धो हेतुर् इति युक्तम् उक्ताम् / तदप्रतीतौ तद्व्यवहारायोगात् / केवलम् असौ व्यवहाराङ्गभूता प्रतीतिर् वस्त्ववस्तुनोर् एकरूपा न भवति / साक्षात् पारम्पर्येण वस्तुसामर्थ्यभाविनी हि वस्तुप्रतीतिः / यथा प्रत्यक्षम् अनुमानं प्रत्यक्षपृष्ठभावि च विकल्पः / अवस्तुनस् तु सामर्थ्याभावाद् विकल्पमात्रम् एव प्रतीतिः / वस्तुनो हि वस्तुबलभाविनी प्रतीतिर् यथा साक्षात् प्रत्यक्षम्, परम्परया तत्पृष्ठभावी विकल्पो ऽनुमानं च / अवस्तुनो न वस्तुबलभाविनी प्रतीतिस् तत्कारकत्वेनावस्तुत्वहानिप्रसङ्गात् / तस्माद् विकल्पमात्रम् एवावस्तुनः प्रतीतिः /
(83.4) न ह्य् अभावह् कश् चिद् विग्रहवान् यः साक्षात्कर्तव्यो ऽपि तु व्यवहर्तव्यः / स च व्यवहारो विकल्पाद् अपि सिध्यत्य् एव / अन्यथा सर्वजनप्रसिद्धो ऽवस्तुव्यवहारो न स्यात् / इष्यते च /
(83.6) तद्धर्मित्वप्रतिषेधानुबन्धाद् इत्य् अकामेनापि विकल्पमात्रसिद्धो ऽक्षणिकः स्वीकर्तव्य इति नायम् अप्रतीतत्वाद् अप्य् आश्रयासिद्धो हेतुर् वक्तव्यः / ततश् चाक्षणिकस्य विकल्पमात्रसिद्धत्वे यद् उक्तम् /
(83.9) न कश् चिद् धेतुर् अनाश्रयः विकल्पमात्रसिद्धस्य धर्मिणः सर्वत्र सुलभत्वाद् इति /
(83.10) तद् असङ्गतम् / विकल्पमात्रसिद्धस्य धर्मिणः सर्वत्र सम्भवे ऽपि वस्तुधर्मेण धर्मित्वायोगात् / वस्तुधर्महेतुत्वापेक्षय आश्रयासिद्धस्यापि हेतोः सम्भवात् /
(83.11) यथा आत्मनो विभुत्वसाधनार्थम् उपन्यस्तं सर्वत्रोपलभ्यमानगुणत्वाद् इति साधनम् / विकल्पश् चायं हेतूपन्यासात् / पूर्वं सन्दिग्धवस्तुकः / समर्थिते तु हेताव् अवस्तुक इति ब्रूमः /
(83.14) न चात्र सन्दिग्धाश्रयत्वं नाम हेतुदोषः / आस्तां तावत् / सन्दिग्धस्यावस्तुनो ऽपि विकल्पमात्रसिद्धस्यावस्तुधर्मापेक्षया धर्मित्वप्रसाधनात् / वस्तुधर्महेत्वपेक्षयैव सन्दिग्धाश्रयस्य हेत्वाभासस्य व्यवस्थापनात् / यथेह निकुञ्जे मयूरः केकायिताद् इति / अवस्तुकविकल्पविषयस्यासत्त्वं तु व्यापकानुपलम्भाद् एव प्रसाधितम् / एवं दृष्टान्तस्यापि व्योमोत्पलादेर् धर्मित्वं विकल्पमात्रेण प्रतीतिश् चावगन्तव्या / तद् एवम् अवस्तुधर्मापेक्षया ऽवस्तुनोधर्मित्वस्य विकल्पमात्रेण प्रतीतेश् चापह्नोतुम् अशक्यत्वान् नायम् आश्रयासिद्धो हेतुः / न च दृष्टान्तक्षतिः /
(83.20) न चैष स्वरूपासिद्धः / अक्षणिके धर्मिणि क्रमाक्रमयोर् व्यापकयोर् अयोगात् / तथा हि यदि तस्य प्रथमे क्षणे द्वितीयादिक्षणभाविकार्यकरणसामर्थ्यम् अस्ति तदा प्रथमक्षणभाविकार्यवत् द्वितीयादिक्षणभाव्यम् अपि (?) कार्यं कुर्यात् / समर्थस्य क्षेपायोगात् /
(83.22) अथ तदा सहकारिसाकल्यलक्षणसामर्थ्यं नास्ति / तद्वैकल्यलक्षणस्यासामर्थ्यस्य सम्भवात् / न हि भावः स्वरूपेण करोतीति स्वरूपेणैव करोति / सहकारिसहिताद् एव ततः कार्योत्पत्तिदर्सनात् इति चेत् /
(83.24) यदा तावद् अमी मिलिताः सन्तः कार्यं कुर्वते तदैकार्थकरणलक्षणं सहकारित्वम् एषाम् अस्तु को निषेद्धा / मिलितैर् एव तु तत्कार्यं कर्त्तव्यम् इति कुतो लभ्यते / पूर्वापरकालयोर् एकस्वभावत्वाद् भावस्य / सर्वदा जननाजननयोर् अन्यतरनियमप्रसङ्गस्य दुर्वारत्वात् / तस्मात् सामग्री जनिका नैकं जनकम् इति स्थिरवादिनां मनोराज्यस्याप्य् अविषयः /
(83.29) किं कुर्मो दृश्यते तावद् एवम् इति चेत् / दृश्यतां किं तु पूर्वस्थिताद् एव पश्चात् सामग्रीमध्यप्रविष्टाद् भावात् कार्योत्पत्तिर् अन्यस्माद् एव विशिष्टसामग्रीसमुत्पन्नात् क्षणाद् इति विवादपदम् एतत् / तत्र प्राग् अपि सम्भवे सर्वदैव कार्योत्पत्तिर् न वा कदा चिद् अपीति विरोधम् असमाधाय तद् एव कार्योत्पत्तिर् इति साध्यानुवादमात्रप्रवृत्तः कृपाम् अर्हति /
(84.3) न च प्रत्यभिज्ञानाद् एवैकत्वसिद्धिः / तत् पौरुषस्य लूनपुनर्जातकेशकुशकदलीस्तम्बादौ निर्दलनात् / विस्तरेण च प्रत्यभिज्ञादूषणम् अस्माभिः स्थिरसिद्धिदूषणे प्रतिपादितम् इति तद् एवावधार्यम् /
(84.6) ननु कार्यम् एव सहकारिणम् अपेक्षते / न तु कार्योत्पत्तिहेतुः / यस्माद् द्विविधं सामर्थ्यं निजम् आगन्तुकं च सहकार्यन्तरं, ततो ऽक्षणिकस्यापि क्रमवत् सहकारिनानात्वाद् अपि क्रमवत् कार्यनानात्वम् इति चेत् /
(84.8) भवतु तावत् निजागन्तुकभेदेन द्विविधं सामर्थ्यम् / तथापि तत् प्रातिस्विकं वस्तुस्वलक्षणं सद्यः क्रियाधर्मकमवश्याभ्युपगन्तव्यम् / तद् यदि प्राग् अपि, प्राग् अपि कार्यप्रसङ्गः / अथ पश्चाद् एव, न तदा स्थिरो भावः /
(84.11) न च कार्यं सहकारिणो ऽपेक्षत इति युक्तम्, तस्यासत्त्वात् / हेतुश् च सन्न् अपि यदि स्वकार्यं न करोति, तदा तत्कार्यम् एव तन् न स्यात् / स्वातन्त्र्यात् /
(84.13) यच्चोक्तम् / यो हि उत्तरकार्यजननस्वभावह् / स कथम् आदौ कार्यं कुर्यात् / न तर्हि तत्कार्यकरणस्वभावः / न हि नीलोत्पादनस्वभावः पीतादिकम् अपि करोतीति /
(84.15) तद् असङ्गतम् / स्थिरस्वभावत्वे भावस्योत्तरकालम् एवेदं न पूर्वकालम् इति कुत एतत् / तदभावाच् च कारणम् अप्य् उत्तरकार्यस्वभावम् इत्य् अपि कुतः /
(84.17) किं कुर्मः / उत्तरकालम् एव तस्य जन्मेति चेत् / स्थिरत्वे तदनुपपद्यमानम् अस्थिरताम् आदिशतु / स्थिरत्वे ऽप्य् एष एव स्वभावस् तस्य यद् उत्तरक्षण एव कार्यं करोतीति चेत् / न, प्रमाणबाधिते स्वभावाभ्युपगमायोगाद् इति न तावद् अक्षणिकस्य क्रमिकार्यकारित्वम् अस्ति / नाप्यक्रमिकार्यकारित्वसम्भवः / द्वितीये ऽपि क्षणे कारकस्वरूपसद्भावे पुनर् अपि कार्यकरणप्रसङ्गात् /
(84.21) कार्ये निष्पन्ने तद्विषयव्यापाराभावाद् ऊना सामग्री न निष्पादितं निष्पादयेद् इति चेत् / न, सामग्रीसम्भवासम्भवयोर् अपि सद्यः क्रियाकारकस्वरूपसम्भवे जनकत्वम् अवधार्यम् इति प्राग् एव प्रतिपादनात् / कार्यस्य हि निष्पादितत्वात् पुनः कर्तुम् अशक्यत्वम् एव कारणम् असमर्थम् आवेदयति /
(84.23) तद् अयम् अक्षणिके क्रमाक्रमिकार्यकारित्वाभावो न सिद्धः / न च क्रमाक्रमाभ्याम् अपरप्रकारसम्भवो येन ताभ्याम् अव्याप्तौ सन्दिग्धव्यतिरेको हेतुः स्यात् / प्रकारान्तरशङ्कायां तस्यापि दृश्यत्वादृश्यत्वप्रकारद्वयदूषणे ऽपि स्वपक्षे ऽप्य् अनाश्वासप्रसङ्गात् / तस्माद् अन्यो ऽन्यव्यवच्छेदस्थितिर् नापरः प्रकारः सम्भवति / स्वरूपाप्रविष्टस्य वस्तुनो ऽवस्तुनो वा ऽतत्स्वभावत्वात् / प्रकारान्तरस्यापि क्रमस्वरूपाप्रविष्टत्वात् / तथातीन्द्रियस्य सहकारिणो ऽदृश्यत्वे ऽप्ययोगव्यवच्छेदेन दृश्यसहकारिसहितस्य सत्त्वस्य दृश्यक्रमाक्रमाभ्यां व्याप्तिः प्रत्यक्षाद् एव सिध्यति / एवं क्रमाक्रमाभ्याम् अर्थक्रियाकारित्वं व्याप्तम् इति क्रमाक्रमयोर् अन्यो ऽन्यव्यवच्छेदेन स्थितत्वाद् एतत् प्रकारद्वयपरिहारेणार्थाक्रियकारित्वम् अन्यत्र न गतम् इत्य् अर्थः / अत एवैतयोर् विनिवृत्तौ निवर्तते /
(85.4) त्रिलोचनस्यापि विकल्पत्रये प्रथमदूषणम् आश्रयासिद्धिदोषपरिहारतो निरस्तम् /
(85.5) द्वितीयं चासङ्गतम् / विकल्पज्ञानेन व्यतिरेकस्य प्रतीतत्वात् / न ह्य् अभावः कश् चिद् विग्रहवान् यः साक्षत्कर्तव्यः, अपि तु विकल्पाद् एव व्यवहर्तव्यः / न ह्य् अभावस्य विकल्पाद् अन्याप्रतिपत्तिर् अप्रतिपत्तिर् वा सर्वथा / उभयथापि तद्व्यवहारहानिप्रसङ्गात् / एवं वैधर्म्यदृष्टान्तस्य हेतुव्यतिरेकस्य च विकल्पाद् एव प्रतिपत्तिः.4 /
(85.9) तृतीयम् अपि दूषणम् असङ्गतम् / व्यापकानुपलम्भेन निर्दोषेण सत्त्वस्य क्षणिकत्वेन व्याप्तेर् अव्याहतत्वात् /
(85.11) तद् अयं व्यापकानुपलम्भो ऽक्षणिकस्यासत्त्वम् / सत्त्वस्य ततो व्यतिरेकं क्षणिकत्वेन व्याप्तिं च साधयत्येकव्यापारात्मकत्वाद् इति स्थितम् /
(85.13) ननु व्यापकानुपलब्धिर् इति यद्य् अनुपलब्धिमात्रं तदा न तस्य साध्यबुद्धिजनकत्वम् अवस्तुत्वात् / न चान्योपलब्धिर् व्यापकानुपलब्धिर् अभिधातुं शक्या भूतलादिवद् अन्यस्य कस्य चिद् अनुपलब्धेर् इति चेत् /
(85.15) तद् असङ्गतम् / धर्म्युपलब्धेर् एवान्यत्रानुपलब्धितया व्यवस्थापनात् / यथा हि नेह शिंशपा वृक्षाभावाद् इत्य् अत्र वृक्षापेक्षया केवलप्रदेशस्य धर्मिण उपलब्धिर् वृक्षानुपलब्धिः / शिंशपापेक्सया च केवलप्रदेशस्य धर्मिण उपलब्धिर् एव शिंशपाया अभावोपलब्धिर् इति स्वभावहेतुपर्यवसायिव्यापारो व्यापकानुपलम्भः / तथा नित्यस्य धर्मिणो विकल्पबुद्ध्यवसितस्य क्रमिकारित्वाक्रमिकारित्वापेक्षया केवलग्रहणाद् एव क्रमिकारित्वाक्रमिकारित्वानुपलम्भः / अर्थक्रियापेक्षया च केवलप्रतीतिर् एवार्थक्रियायोग प्रतीतिर् इति व्यापकानुपलम्भान्तराद् अस्य न कश् चिद् विशेषः /
(85.22) अध्यवसायापेक्षया च बाह्ये ऽक्षणिके वस्तुनि व्यापकाभावाद् व्याप्याभावसिद्धिव्यवहारः / अध्यवसायश् च समनन्तरप्रत्ययबलाद् आयाताकारविशेषयोगाद् अगृहीते ऽपि प्रवर्तनशक्तिर् बोधव्यः / ईदृशश् चाध्यवसायो ऽस्मच्चित्राद्वैतसिद्धौ निर्वाहितः / स चाविसंवादी व्यवहारः परिहर्तुम् अशक्यः / यद् व्यापकशून्यं तद्व्याप्यशून्यम् इति / एतस्यैवार्थस्यानेनापि क्रमेण प्रतिपादनात् / अयं च न्यायो यथा वस्तुभूते धर्मिणि तथा ऽवस्तुभूते ऽपीति को विशेषः /
(85.27) तथा ह्य् एकज्ञानसंसर्ग्य् अत्र विकल्प्य एव / यथा च हरिणशिरसि तेनैकज्ञानसंसर्गिशृङ्गम् उपलब्धं / शशशिरस्य् अपि तेन सहैकज्ञानसंसर्गित्वसम्भावनयैव शृङ्गं निषिध्यते, तथा नीलादाव् अपरिनिष्ठितनित्यानित्यभावे क्रमाक्रमौ स्वधर्मिणा सार्धम् एकज्ञानसंसर्गिणौ दृष्टौ, यदि नित्ये भवतः नित्यग्राहिज्ञाने स्वधर्मिणा नित्येन सहैव गृह्येयाताम् इति सम्भावनय एकाज्ञानसंसर्गद्वारकम् एव प्रतिषिध्यते / कथं पुनर् एतस्मिन् नित्यज्ञाने क्रमाक्रमयोर् अस्फुरणम् इति यावता क्रमाक्रमक्रोडिकृतम् एव नित्यं विकल्पयाम् इति चेत्. अत एव बाधकावतारो विपरीतारोपम् अन्तरेण तस्य वैयर्थ्यात्.
(86.6) कालान्तरे ऽप्य् एकरूपतया नित्यत्वम्. क्रमाक्रमौ च क्षणद्वये भिन्नरूपतया. ततो नित्यत्वस्य क्रमाक्रमिकार्यशक्तेश् च परस्परपरिहारस्थितिलक्षणतया दुर्वारो विरोध इति कथं नित्ये क्रमाक्रमयोर् अन्तर्भावः. अनन्तर्भावाच् च सुद्धनित्यविकल्पेन दूरीकृतक्रमाक्रमसमारोपेण कथम् उल्लेखः. ततश् च प्रतियोगिनि नित्ये ऽपि विकल्प्यमाने एकज्ञानसंसर्गिलक्षणप्राप्ते नित्योपलब्धिर् एव नित्यविरुद्धस्यानुपलभ्यमानस्य क्रमाक्रमस्यानुपलब्धिः. तत एव चार्थक्रियाशक्तेर् अनुपलब्धिः. तस्माद् व्यापकविवेकिधर्म्युपलब्धितया न व्यापकानुपलम्भान्तराद् अस्य विशेषः.
(86.13) नन्व् एतद् अवस्तुधर्मिकोपयोगि वस्त्व् अधिष्ठानत्वात् प्रमाणव्यवस्थाया इति चेत्. किम् इदं वस्त्वधिष्ठानत्वम् नाम. किं परम्परयापि वस्तुनः सकाशाद् आगतत्वम्, अथ वस्तुनि केन चिद् आकारेण व्यवहारकारणत्वम्, वस्तुभूतधर्मिप्रतिबद्धत्वं वा.
(86.16) यद्य् आद्यः पक्षस् तदा क्रमाक्रमस्यार्थक्रियायाश् च व्याप्तिग्रहणगोचरवस्तुप्रतिबद्धत्वम् अस्यापि. न क्षीणम्.
(86.18) न द्वितीये ऽपि पक्षे दोसह् सम्भवति. क्षणभङ्गिवस्तु साधनोपायत्वाद् अस्य.
(86.19) न चान्तिमो ऽपि विकल्पः कल्प्यते. तस्यैव नित्यविकल्पस्य वस्तुनो धर्मिभूतस्य क्रमाक्रमवद् बाह्यनित्योपादानशून्यत्वेनार्थक्रियावद् बाह्यनित्योपादानशून्यत्वे प्रसाधनात्. पर्युदासवृत्त्या बुद्धिस्वभावभूताक्षणिकाकारे वस्तुभूते धर्मिणि प्रतिबद्धत्वसम्भवात्.
(86.23) अयम् एव न्यायो न वक्ता वन्ध्यासुतश् चैतन्याभावाद् इत्यादौ योज्यः. एतेन यथा वृक्षाभावादिर् अन्तर्भावयितुं शक्यते न तथायम् इति त्रिलोचनो ऽपि निरस्तः.
(86.25) न च क्रमाद्यभावस् त्रयीं दोषजातिं नातिक्रामति, अभावधर्मत्वे ऽपि आश्रयासिद्धिदोषपरिहारात्.
(86.26) यत् त्वनेन प्रमाणान्तरान् नित्यानाम् असत्त्वसिद्धौ क्रमादिविरहस्याभावधर्मता सिध्यतीत्य् उक्तम्, तद्वालस्यापि दुरभिधानम्. नित्यो हि धर्मि. असत्त्वं साध्यम्. क्रमिकार्यकारित्वाक्रमिकार्यकारित्वविरहो हेतुः. अस्य चाभावधर्मत्वं नाम असत्त्वलक्षणस्वसाध्याविनाभावित्वम् उच्यते. तच् च क्रमाक्रमेण सत्त्वस्य व्याप्तिसिद्धौ सत्त्वस्य व्याप्यस्याभावेन क्रमाक्रमस्य व्यापकस्य विरहो व्याप्तः सिध्यतीत्य् अभावधर्मत्वं प्राग् एव विध्योर् व्याप्तिसाधनात् प्रत्यक्षाद् अनुमानाद् एकस्माद् वा प्रमाणान्तरात् सिद्धम् इति नेतरेतराश्रयदोषः.
(87.7) न च सत्तायाम् इवासत्तायाम् अपि तुल्यः प्रसङ्गो भिन्नन्यायत्वात्. वस्तुभूतं हि तत्र साध्यं साधनं च. तयोर् धर्म्य् अपि वस्त्व् एव युज्यते.
(87.9) वस्तुनस् तु प्रत्यक्षानुमानाभ्याम् एव सिद्धिः. तयोर् अभावे नियमेनाश्रयासिद्धिर् इति युक्तम्. असत्तासाधने त्व् अवस्तुधर्मो हेतुर् अवस्तु विकल्पमात्रसिद्धे धर्मिणि नाश्रयासिद्धिदोषेण दूषयितुं शक्यः. तथा ऽक्षणिकस्य क्रमयौगपद्याभ्यामर्थक्रियाविरोधः सिध्यत्य् एव.
(87.13) तथा विकल्पादेवाक्षणिको विरोधी सिद्धः. विकल्पोल्लिखितश् चास्य स्वभावो नापर इत्य् अपि व्यवहर्तव्यम्. अन्यथा तदनुवादेन क्रमाक्रमादिरहितत्वादिनिषेधादिकम् उक्तम्. तत्स्वरूपस्यानुल्लेखाद् अन्यस्योल्लेखाद् इत्य् अक्षणिकशशविषाणादिशब्दानुच्चारणप्रसङ्गः. अस्ति च. अतो यथा प्रमाणाभावे ऽपि विकल्पसिद्धस्य वन्ध्यासुतादेः सौन्दर्यादिनिषेधो ऽनुरूपस् तथा विकल्पोपनीतस्यैवाक्षणिकरूपस्य तद् एव प्रत्यनीकाकारेण सह विरोधव्यवस्थायां कीदृसो दोषः स्यात्. यदि चाक्षणिकानुभवाभावात् विरोधप्रतिषेधस् तर्हि वन्ध्यापुत्राद्यनुभवाद् एव सौन्दर्यादिनिषेधो ऽपि माभूत्.
(87.20) नन्व् एवं विरोधस्यापारमार्थिकत्वम्. तद्द्वारेण क्षणभङ्गसिद्धिर् अप्य् अपारमार्थिकी स्याद् इति चेत्.
(87.21) न हि विरोधो नाम वस्त्वन्तरं किञ्चित् उभयकोटिदत्तपादसम्बन्धाभिधानम् इष्यते, ऽस्माभिर् उपपद्यते वा. येनैकसम्बन्धिनो वस्तुत्वाभावे ऽपारमार्थिकं स्यात्. यथा त्व् इष्यते तथा पारमार्थिक एव / विरुद्धाभिमतयोर् अन्यो ऽन्यस्वरूपपरिहारमात्रं विरोधार्थः / स च भावाभावयोः पारमार्थिक एव / न भावो ऽभावरूपम् आविशति / नाप्य् अभावो भावरूपं प्रविशतीति यो ऽयम् अनयोर् असंकरनियमः स एव पारमार्थिको विरोधः / कालान्तरैकरूपतया हि नित्यत्वम् / क्रमाक्रमौ क्षणद्वये ऽपि भिन्नरूपतया / ततो नित्यत्वक्रमाक्रमिकार्यकारित्वयोर् भावाभाववद् विरोधो ऽस्त्य् एव /
(88.1) ननु नित्यत्वं क्रमयौगपद्यवत्त्वं च विरुद्धौ धर्मौ विधूय नापरो विरोधो नाम, कस्य वास्तवत्वम् इति चेत् /
(88.2) न, न हि धर्मान्तरस्य सम्भवेन विरोधस्य पारमार्थिकत्वं ब्रूमः / किं तु विरुद्धयोर् धर्मयोः सद्भावे / अन्यथा विरोधनामधर्मान्तरसम्भवे ऽपि यदि न विरुद्धौ धर्मौ क्व पारमार्थिकविरोधसम्भवः / विरुद्धौ चेद् धर्मौ तावतैव तात्त्विको विरोधव्यवहारः / किम् अपरेण प्रतिज्ञामात्रसिद्धेन विरोधनाम्ना वस्त्वन्तरेण /
(88.7) तद् अयं पूर्वपक्षसंक्षेपः / नित्यं नास्ति न वा प्रतीतिविषयस् तेनाश्रयासिद्धता हेतोः स्वानुभवस्य च क्षतिर् अतः क्षिप्तः सपक्षो ऽपि च / शून्यश् च द्वितयेन सिध्यति न वा ऽसत्ता ऽपि सत्ता यथा नो नित्येन विरोधसिद्धिर् असता शक्या क्रमादेर् अपि / इति /
(88.12) अत्र सिद्धान्तसंक्षेपः / धर्मस्य कस्य चिद् अवस्तुनि मानसिद्धा बाधाविधिव्यवहृतिः किम् इहास्ति नो वा / क्वाप्य् अस्ति चेत् कथम् इयन्ति न दूषणानि नास्त्य् एव चेत् स्ववचनप्रतिरोधसिद्धिः /
(88.17) तद् वम् नित्यं न क्रमिकार्यकारित्वाक्रमिकार्यकारित्वयोगीति परमार्थः / ततश् च सत्तायुक्तम् अपि नैवेति परमार्थः / ततश् च क्षणिकाक्षणिकपरिहारेण राश्यन्तराभावाद् अक्षणिकान् निवर्तमानम् इदं सत्त्वं क्षणिक एव विश्राम्यत्वेन व्याप्तं सिध्यतीति सत्त्वात् क्षणिकत्वसिद्धिर् अविरोधिनि /
(88.21) प्रकृतिः सर्वधर्माणं यद् बोधान् मुक्तिर् इष्यते / स एव तीर्थ्यनिर्माथी क्षणभङ्गः प्रसादितः /
(88.23) इति कृतिर् इयं रत्नकीर्तेः /
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
