Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ Devanāgarī

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luận tạng

प्रत्यक्षलक्षण of the तर्करहस्य

Thông tin
GRETIL — YAITA, Hideomi: Tarkarahasya kenyū (I). Journal of Naritasan Institute for Buddhist Studies No. 12 (1988), 82-98.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

प्रत्यक्षलक्षण of the तर्करहस्य

[म्16अ, स्ह्33] [1] तत्र प्रत्यक्षं कल्पनापोढम् अभ्रान्तम्, अभिलापसंसर्गयोग्यप्रतिभासत्वार्थक्रियासमर्थविपरीताकारत्वरहितम्.[2]

__________नोतेस्__________

[1] y i: 82. [2] cf. nb i s. 4-6; pvin i 40, 1-9; pvint 44b1-5; nbt 41, 5-42,2.

आलोचनाज्ञानं निर्विकल्पकम्, ततः परं जात्यादियोजनात्मकं सविकल्पकम्.[3]

__________नोतेस्__________

[3] cf. śv iv 112ab, 120; ts 1285, 1287; tbh 12, 6-7; vr 44, 10-12.

अव्यपदेश्यम् अविकल्पकं व्यवसायात्मकम्.[4]अपरम्,

__________नोतेस्__________

[4] cf. ns 1, 1, 4; tr 43, 20-21; vr 44, 10.

"न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमाद् ऋते/ अनुविद्धम्[5]इव ज्ञानं सर्वं शब्देन भासते[6]//"[7]

__________नोतेस्__________

[5] sh anubiddham. [6] m bhāṣate. [7] = vp i 131. cf. pvint 50a8-b4, 53b4-6.

इति[8]न्यायात् सर्वम् एव शब्दानुविद्धम्, इति भाट्ट[9]शैववैयाकरणाः[10].

__________नोतेस्__________

[8] m ito. [9] m bhaṭṭa-. [10] cf. trd 76, 4: "naiyāyikamatasya śaivaśāsanasya..."

पुरुषप्रवृत्त्यङ्गं हि प्रमाणम्[11], तदङ्गता च संगता तस्य[12]विकल्पकत्वेनैव. न, अर्थसामर्थ्येन समुद्भवात्.[13]तत्रार्थः[14]पृथिव्यादिभूतचतुष्टयम्. तत्र पृथ्वी[15]

__________नोतेस्__________

[11] cf. pv ii 3: dhīpramāṇatā pravṛttes tatpradhānatvād; pvint97a4f. [12] sh saṅgatā tvasya. [13] cf. pvin i 40, 10-11 (v. 4cd). [14] sh na cārthaḥ. [15] sh pṛvivī.

महासन्निवेशवती मृद्[16]रूपरसगन्धकठिनस्पर्शादिस्वभावा, तत्प्रदेशविषयसमुद्भूताश् च पाषाणशोणमणिवेणुवीरणप्रभृतयः. एवम् आपः[17]

__________नोतेस्__________

[16] म् & स्ह् मृत्/. [17] म् आप.

शुक्लमधुरशीतद्रवस्वभावाः सरस्वत्सरित्सरःप्रभृतिभिः स्वभावैर् विवर्तन्ते, कारकादिकं[18]च तत्कार्यम्. एवम् उष्णेरणस्पर्शरूपशब्दस्वभावो वह्न्यादिको[19][20]ऽपि.

__________नोतेस्__________

[18] स्ह् करका-. [19] स्ह् बह्न्य्-. [20] य् इ: 83.

तस्यालम्बनप्रत्ययत्वेन[21]जन्यं पाषाणाद्याकारज्ञानं[22]नियमितप्रतिभासतया शब्दसंसर्गायोग्यम्.

__________नोतेस्__________

[21] म् -प्रत्यक्षयत्वेन; स्ह् -प्रत्यक्षयत्नेन. [22] स्ह् -रकज्ञा-.

कथन् [स्ह्34] धर्मिधर्माभिधानार्थक्रियायोजना[म्16ब्]यां[23]योग्यं[24]प्रवर्तकम् इति चेत्,

__________नोतेस्__________

[23] स्ह् किं खलु --- साधर्म्याभिधाना-. [24] म् & स्ह् -याम् अयोग्यं.

तद्दृष्टाव् एव दृष्टेषु संवित्सामर्थ्यभाविनः[25]/ स्मरणाद् अभिलाषेण व्यवहारः प्रवर्तते//[26]

__________नोतेस्__________

[25] m -rthyaṃbhāvi-. [26] = pvin i v. 18.cf. tr 12,3-23.

न विकल्पकम्[27]अप्य् अध्यक्षम्[28]. स्वल्पकालावस्थितत्वेन निरोधनाद्[29] ऊर्ध्वस्वबलोत्पन्नव्यवहारो स्मार्तविकल्पम्[30]अपेक्षते. तद् एवम् तदुत्पन्नम्.

__________नोतेस्__________

[27] स्ह् सविकल्प-. [28] म् अप्यक्षध्यक्षं. [29] ओर् निरोधाद् ?. म् निरोधानाद् ; स्ह् निधानाद्. [30] म् -हारकस्मार्त्त- ; स्ह् -हारकर्मात् तु विक-.

निर्विकल्पकेऽप्य् अस्तु व्यवहारकम्. ततश् च ज्ञानैर् एव परस्परम् आलोच्य् एव व्यवहार्यव्यहारकैर् उपदर्शकोपदर्श्यमानव्यवस्था यादृशी स्थापिता, केवलम् अनुवदामस् तादृशीम् अपरव्युत्पत्तये.

तस्मिंश् च विकल्पेऽविद्यानुभववासनोपनीते[31][32]द्रव्यम्, तदाश्रिताश् च जात्यादयो ऽविद्याबलेन कल्पिताः. कुतश् चिद् अनुभवसम्बन्धाश् च संस्थानोपाधिपाषाणरूपरसादिस्वभावा[33]विभाव्यन्ते. द्रव्यादाव् उपलब्धिलक्षणप्राप्तानुपलब्धत्वेन बाधनाद् अविद्यात्वम्. उपलम्भसम्भावितत्वाच्[34] च रूपादेर् अर्थकत्वम्[35][36], ततो द्रव्यादेर् अपूर्वार्थत्वेऽप्य् अनर्थत्वाद् अप्रामाण्यम्. रूपादौ गृहीतग्रहणात् स्मार्तत्वम्.[37] न चाप्रसिद्धविशेष्यादिकं[38]दुर्मतिविस्पन्दितम्.

__________नोतेस्__________

[31] m & sh -nubhavavyasano-. (cf. tr 39,1-2; 43,4: avidyānubhavavāsanā-) [32] cf. pv i 68-91, 205; pvsv 42, 13-18; 50, 17-20. [33] cf. nbt 41, 5-42,2. cf. tbh 66, 11f. [34] m & sh -bhavita-. [35] m arthakaṃtvaṃ. [36] cf. pvsv ad pv i 215; pv iii 6. [37] cf. hb* 2, 20-3,16. [38] m -siddharaviśe- ; sh -siddhe viśe.

साधर्म्यादिदृगपेक्षायां हि तथालक्षितं रजतशुक्तिवत्.[39]

__________नोतेस्__________

[39] cf. pv iii 360, 362.

[40]अस्तीयम् अपि या त्व् अन्तरुपप्लवसमुद्भवा[41]//

दोषोद्भवा[42]प्रकृत्या सा वितथप्रतिभासिनी/ अन[म्17अ]पेक्षितसाधर्म्यदृगादि तैमिरादिवत्[43]//[44]

__________नोतेस्__________

[40] y i: 84. [41] m antarūpa-. [42] m & sh -bhavāt. [43] m -distaimi- ; sh -di sauṣirā-. [44] = pv iii 361cd-362 = pvin i 53cd-54.cf. pvsv 50, 17f.

एकं धर्मिणम् उद्दिश्य नानाधर्मसमाश्रयम्/ विधाव् एकस्य तद्भाजम् इवान्येषाम्[45]उपेक्षकम्//

__________नोतेस्__________

[45] म् -न्यैषाम्.

निषेधे तद्विविक्तञ् च तदन्येषाम् अपेक्षकम्/ [स्ह्35] व्यवहारम् असत्यार्थं प्रकल्पयति धीर् यथा//

तं तथैवाविकल्प्यार्थभेदाश्रयम्[46]उपागताः/ अनादिवासनोद्भूतं बाधन्तेऽर्थं न लौकिकम्//[47]

__________नोतेस्__________

[46] sh -vikalpārtha" bhe-. [47] = pv iv 232-4 = pvin ii v.23-25 (= 24-26. cf. ch. lindtner, marginalia to dharmakīrti's pramāṇaviniścaya i-ii, wzks 28, 1984). cf. pvin ii-2 p. 43.

यद्य् अयम् अविद्याविर्भूतद्रव्यादिविवर्तो विकल्पः, कथम् अखिलजन्तुसन्तानसम्भवी, कथञ् च महद्भिर् अपि शास्त्रकृद्भिर् अनुवर्तितः, कथञ् च भवताम् अपि प्रतिपद्याप्य् अविद्यात्वं तथैव द्रव्यादिव्यवहाराभिनिवेशः. नियतस्वलक्षणप्रतिभासजनितत्वात् सर्वसन्तानसम्भवी, स्वलक्षणस्यैव द्रव्यादित्वेन प्रत्याकलनात्. तत्प्राप्तौ तदर्थक्रियाप्रतिलम्भे समाप्तत्वाद् अभिलाषस्य[48]बाधकानवधानम्.

__________नोतेस्__________

[48] म् अभिलासस्य; स्ह् अभिलापस्य.

शास्त्रकारैर् अपि विकल्पप्रत्ययस्यैव सुखकाङ्क्षद्भिस्[49]तथैव व्यवस्थापितम्-

__________नोतेस्__________

[49] स्ह् स्वर्गंकाङ्-.

विकल्पव्यवहारेषु समानौ बालपण्डितौ/[50]

__________नोतेस्__________

[50] cf. tattvopaplavasiṃha (e. franco, "perception, knowledge and disbelief", stuttgart, 1987), p. 68, 7: "lokavyavahāraṃ prati sādṛśau bālapaṇḍitau"; traikālyaparīkṣā (dignāga), v. 4 (= vp iii-3-55) cd: jñānaṃ praty abhilāsaṃ ca sādṛśaṃ bālapaṇḍitau".

केवलं बाधितत्वव्यवसायात् पण्डितस् तदितरो बालः. मोक्षाकाङ्क्षया प्रतिक्षणक्षीणताम् अभिलक्ष्य "प्रत्यक्षस्य परीक्षितं साक्षात्करणं[51]द्रव्यादिकं प्रति नास्ती"त्य् आख्यातम्.

__________नोतेस्__________

[51] स्ह् -करशं.

शास्त्रकाराणाम् अप्य् अर्थेष्व् अत्रा[म्17ब्]न्याविपरीतस्वभावोपसंहारसम्भवात्. शास्त्रं [52] हि मोहनिवर्तनम्[53]आरब्धम्. स्थूलपरामर्शाद्[54]व्यामोहः, स च सूक्ष्मावान्तरपरामर्शाद्[55] अपसरति.

__________नोतेस्__________

[52] m om. ḥ. [53] cf. tr 11, 2: "śāstraṃ mohanivartanam"; 11, 13-14: "vyāmohāpohayarabdham eva śastram". [54] y i: 85. [55] sh -marśad.

यथा रूपम् इति चक्षुर्विज्ञानजनकत्वेन सङ्केतः कृतः एवं स्वग्राहीन्द्रियज्ञानापेक्षया रसादिकेऽपि वाक्यम्[56]. ततो घटपटपङ्कपल्लवादिषु तदन्यव्यावृत्तेन रूपेण रूपादयो ऽभिन्नाः[57]व्यवह्रियन्ते. व्यवहारहेतुर् एकप्रत्यवमर्शप्रत्ययः, एकस्य प्रत्यव[स्ह्36]मर्श[58]एकत्वारोपी[59]प्रत्यवमर्श इत्य् अर्थः. स चाप्य् अविद्यावशाद्[60] एकत्वारोपी. तद्बलात् सामान्यं कल्पयन्ति, अरूपादिरूपसामान्यानुपलम्भान्तरपरामर्शात्[61][62] तन्निषेधः.

__________नोतेस्__________

[56] sh vācyam. [57] m om. ḥ. [58] sh -marśaḥ. [59] m -āroropī. [60] m & sh cāpi vidyā-. [61] sh svarūpā-. [62] cf. tr 38, 11: "dravyam arūpādirūpam"; nc 780, 2: "na sāmānyākhyaḥ, arūpāditvāt, khapuṣpavat".

एकप्रत्यवमर्शार्थज्ञानाद्येकार्थसाधने/ भेदेऽपि नियताः केचित् स्वभावेनेन्द्रियादिवत्//[63]

__________नोतेस्__________

[63] = pv i 73.

तदतद्विभागोऽपि तदेकपरामर्शबहुलेन सकृद् उपपद्यते. अतश्[64]च वान्योन्याश्रयणम् अपि नाश्रयणीयम्.

__________नोतेस्__________

[64] स्ह् अत एवान्यो-.

दृश्यविकल्प्याव्[65]अर्थाव् एकीकृत्य व्यवहारप्रवृत्तेर्[66]विसंवादश्[67] च. दृश्यः स्फुटत्वेन गृह्यमाणः, पूर्वतया प्रतीयमानो विकल्प्यः[68]. कः पुनर् असौ, उभयथापि नील एवैकीभूतोऽर्थः. स चास्फुटो नीलोऽर्थक्रियाविरहलक्षणबाधकप्रमाणेन.

__________नोतेस्__________

[65] m & sh -vikalpāv. [66] vr 55, 16-17; 73, 25. cf. pvsv 39, 7-8: "te tu..... dṛśyavikalpyāv arthāv ekīkṛtya pravartante". tus p. 92; 93: "dṛśyavikalypāv arthāv ekikṛtya tadadhyavasāyena pravartante". cf. j 226, 24-25; r 137, 3f. [67] m & sh -vṛtteravisaṃ-. [68] sh vikalpaḥ.

"परमार्थान्यव्या[म्18अ]वृत्तिस्वभावोऽपोह[69]" इत्य् उच्यते. एतेन स्ववाग्विरोधोऽपि प्रत्याख्यातः.

__________नोतेस्__________

[69] cf. tr 37, 7: "ādyāpoho'nyavyāvṛttir".

"नैमित्तिक्याः श्रुतेर् अर्थम् अर्थं वा पारमार्थिकम्[70]/ शब्दानां प्रतिरुन्धानो न बाध्यस्[71]तेन वर्णितः//"[72]

__________नोतेस्__________

[70] m pārapāramārthi-. [71] sh bādhyante (na varṇṇitaḥ). m (print !) not clear. [72] = pv iv 128 = pvin iii v.28. cf. t. tani, "the problem of interpretation on pramāṇaviniścaya iii ad vv. 28-29" (the bulletin of the kochi national college of technology, no. 29, 1988).

इति न्यायात्. तथैकप्रत्यवमर्शनियमे[73]

__________नोतेस्__________

[73] म् & स्ह् तथा एक-.

वाचकलिङ्गसम्बन्धसामान्यसामानाधिकरण्यादिव्यवहारा[74][75]ज्ञातव्याः.

__________नोतेस्__________

[74] sh -vahārāj. [75] cf. pv i 85-86; pvsv 42, 5-43, 11.

[76]विच्छेदं सूचयन्न्[77]एकम् अप्रतिक्षिप्य वर्तते/ यदान्यं तेन स व्याप्त एकत्वेन च भासते//

__________नोतेस्__________

[76] य् इ: 86. [77] स्ह् सूत्रयन्न्.

सामानाधिकरण्यं[78]स्यात् तदा बुद्ध्यनुरोधतः/[79]

__________नोतेस्__________

[78] म् सामान्यनाधिक-. [79] = pv i 131-132अब्.

[स्ह्37]अन्यथा नीलोत्पलादिशब्दानां गुणजात्यादिभेदाद् अनेकार्थत्वेनैकत्रोपसंहाराभावान्[80]न सामानाधिकरण्यम्, नापि विषयत्वे[81]ऽप्य् एकत्रोपसंहारस्[82]तन्निमित्तानाम् एकत्र समवायाद् इति चेत्, आयासेवत्[83]विवर्तते स्वपक्षनिर्वाहनिर्बन्धेनान्धम्-भविष्णुः परः. परम् अयम् अनुपलम्भो भूयिष्ठदौष्टर्यनिष्ठ्यूतपरानुरोधः[84]परिपन्थी. ततश् चाद्यापोहो[85] ऽन्यव्यावृत्तिर्[86][87]एकप्रत्यवमर्शविषयो[88]दृश्यविकल्प्यार्थैकीकृतः[89]स्वभाव इत्य् अनर्थान्तरम्. गतम् आनुषङ्गिकम्.

__________नोतेस्__________

[80] m & sh -tvena eka. [81] sh -pve. [82] m ekaka.. posaṃ- (one letter not clear) ; sh ekatopasaṃ-. [83] sh āyātmavat. [84] m looks not -dau- (sh). [85] m -dyāppoho. [86] sh -poho'nanya-. [87] cf. tr 36, 12. [88] sh pratyeva-. [89] m & sh vikalpā-.

सामान्यव्यवहारवद्[90]घटादिद्रव्यव्यवहारोऽपि ज्ञेयः.

__________नोतेस्__________

[90] म् -वद्यद्घटा-.

तेषाम् एव घटादीनां[91]साधारणं यत् फलम् उदकाहरणम्, तत्र [म्18ब्] ये हेतवो न भवन्ति घटसन्निवेशेनावस्थिता रूपादयः, तेभ्यो व्यवच्छेदे घटश्रुतिः. एवं घटादिश्रुतिर् अपि विवृता. उक्तञ् च

__________नोतेस्__________

[91] म् & स्ह् रूपादीनां.

"रूपादिशक्तिभेदानाम् अनाक्षेपेण वर्तते/ तत्समानफलाहेतुव्यवच्छेदे[92]घटश्रुतिः//

__________नोतेस्__________

[92] म् & स्ह् -च्छेदघ-.

ततो[93]न रूपं घट इत्य् एकाधिकरणा श्रुतिः/ भेदश्[94]चायम् अतो जातिसमुदायाभिधायिनोः[95]//"[96]इति.

__________नोतेस्__________

[93] अतो इन् अल्ल् प्व्-कारिका एदितिओन्स्. [94] भेदोऽयम् ईदृशो इन् मियसकऽस् एदितिओन् (अच्त इन्दोलोगिच, इइ, प्. 16). [95] म् -यि(?)नोर्. [96] = pv ii 100-1.

संस्थानवर्णावयवैर् विशिष्टे यः प्रवर्तते/ शब्दो न तस्यावयवे प्रवृत्तिर् उपलभ्यते//[97]

__________नोतेस्__________

[97] = vp ii-155 (b-pāda wa "...'rthe prayujyate". mata "...yaḥ..." no variant mo aru.).

[98]यथा चक्रचित्राढकादयः[99].

__________नोतेस्__________

[98] य् इ: 87. [99] म् चक्र / चित्र-आढका-.

[स्ह्38] ननु तन्तुषु प्रावरणादिकार्यं सम्भवि, घटे[100]ऽसम्भवि[101], ततस् तत् तेभ्योऽर्थान्तरं घटः[102]. यथा -- उदकधारणम् असम्भवि पटे घटे सम्भवत्, पटाद् घटं भेदेन व्यवस्थापयति. सत्यम्. सिध्यत्य् एवम् अर्थान्तरम्. न पुनः क्रियावद् गुणवत् समवायिकारणं[103]द्रव्यं पराभिप्रेतं सिध्यति. रण्डाकरण्डपरिपिण्डितेभ्यो हि तन्तुभ्यस्[104]तानप्रतितानीभूता अन्ये[105]तन्तवः शक्तिभेदेऽपि भिन्नाः सिध्यन्ति.

__________नोतेस्__________

[100] m & sh paṭe. [101] m -ṭe sambhavi. [102] m & sh paṭaḥ. [103] cf. vs 1, 1.4: "kriyāvad guṇavat samavāyikāraṇam iti dravyalakṣaṇam". [104] cf. vr 37, 1f.: "raṇḍākaraṇḍapiṇḍitatantubhyaḥ.....sitātānavitānavasthā... ". [105] sh -bhūtāstvanye.

न वयं द्रव्यस्योपरि बद्धक्रुद्धः[106], किन् तर्हि प्रत्यक्षम् एवन् नक्षते[107] ऽनुपलभमानं द्रव्यम् अरूपादिरूपम्[108]. तस्मान् नैकरूपा रूपादयस् तन्त्वादयो वा, तेषाम् एवान्तरशक्तिभेदाद् रूपतन्तुघटपटरज्जुप्रभृतयो व्यपदेशाः[109], न तु व्यप[म्19अ]देशेभ्यो[110]ऽर्थान्तरपरिकल्पनम्[111]उचितम्. तद् उक्तम् "अपरापरप्रत्यययोगेन[112]प्रतिक्षणं सन्तवन्तः[113]संस्कारा यद्य् अपि कुतश्चित् साम्यात्[114] सरूपाः प्रतीयन्ते, तथापि भिन्न एवैषां स्वभावः[115], तेन किञ्चिद् एव कस्य चित् कारणम्"[116] इति.

__________नोतेस्__________

[106] m & sh -krudhaḥ. [107] m -kṣam evannakṣamevannakṣate. [108] cf. tr 36, 2-3: "arūpādirūpasāmānya- (sh wa svarūpādirūpasāmānya-)". [109] cf. pv i 82. [110] m repeats vyapa. [111] sh om. pari. [112] sh -pranyaya-. [113] sh santantanta (santanvānāḥ?). [114] m sāmyat sarū-; sh sāmānyarūpāḥ. [115] m & sh -vas tena. [116] = hb 12*, 4-7 = vr 9, 17-19.

द्रव्यादिपरपरिकल्पितं दृश्यम् अदृश्यं[117]वास्तु[118].

__________नोतेस्__________

[117] म् दृश्यदृश्यं. [118] म् & स्ह् वाऽस्तु.

"अप्रवृत्तिः[119]प्रमाणानाम् अप्रवृत्तिफलासति/"[120]

__________नोतेस्__________

[119] म् & स्ह् ओम्. ः. [120] = pv i 3aब्.

इति न्यायात्[121]सद् इति न व्यवहर्तव्यम्. एकप्रत्यवमर्शम् अपेक्ष्यापुनरुपलभ्यमानेन[122] व्यवहारः.

__________नोतेस्__________

[121] म् ऽसतीति न्या-; स्ह् ऽसती" इति न्या-. [122] स्ह् -र्शमनपे-.

तद् एवम् [स्ह्39] इन्द्रियार्थाद् उत्पद्यमानं नियतप्रतिभासम्[123][124]अपि यत्प्रतिभासाच्[125] चाविद्यानुभववासनावशाद्[126][127]उदीयमानं ज्ञानम्.

__________नोतेस्__________

[123] cf. nbt 49, 1-51, 3. [124] y i: 88. [125] sh yat pra-. [126] m -sāñ cāvi- ; sh -sā'rthyā'vi-. [127] cf. tr 34, 9; 43, 4.

अत्र प्रयोगः ----- यत् पूर्वापरकालस्वभावाननुसन्धायि[128]

__________नोतेस्__________

[128] cf. tbh 11, 15f: "pūrvāparam anusandhāya śabdasaṅkīrṇākārā pratītir.....; pv iii 174=pvin i v.8.

रूपाद्येकाकारनियतप्रतिभासं ज्ञानं न तत्[129]

__________नोतेस्__________

[129] स्ह् इन्सेर्त्स् तु; म् तत् तत्?

सङ्केतव्यवहारकालोपयोगिशब्दसंसर्गयोग्यप्रतिभासम्, यथा रूपादिविकल्पविज्ञानस्वरूपविषयोऽनुभवः[130][131], यथोक्तसाधनोपेतञ् च चक्षूरूपजनितं[132] विज्ञानम्.

__________नोतेस्__________

[130] sh inserts hy ; m -ṣayo anu-. [131] cf. nb i s. 5: "abhilāpasaṃsargayogyapratibhāsā pratītiḥ kalpanā". [132] m vijñātanaṃ.

अयं कारणविरुद्धोपलम्भः[133][134]सम्भावनीयः[135]. नासिद्धिः[136].

__________नोतेस्__________

[133] m inserts/ (daṇḍa). [134] cf. pv iii 287. [135] m & sh -nīyo. [136] m & sh -ddhisin-.

सिन्धुरवधूविधूतत्वेन

"प्रतिभासोऽस्य नास्येति नोपपत्तेस् तु गोचरः/" इति, "संवेदनस्य तादात्म्ये न विवादोऽस्ति कस्य चित्/"[137]

__________नोतेस्__________

[137] = pv iii 422aब्.

इति न्यायात्. स्वरूपसंवेदनाद् एव यथोक्तनियतस्वभावसिद्धेः. अनियतप्रतिभासे शब्दसङ्केतस्य सुसङ्कलितत्वात्[138]कार्यकारणभावसिद्धौ सत्यां न शंसनीयम्[139] अंशेनापि[140] संशयावहत्वम् अस्य. नापि विरोधोऽपि नामास्य सन्निधानम् अनुबध्नाति.

__________नोतेस्__________

[138] स्ह् ससङ्क-. [139] म् संश-. [140] म् -नीयं मंशे-.

सपक्षताम् आवहति, विकल्पविज्ञानस्वभावानु[म्19ब्]भवे सम्भवात्.[141]

__________नोतेस्__________

[141] cf. tr 39, 6: "yathā rūpādivikalpajñānasvarūpaviṣayo'nubhavaḥ".

ज्ञानपरोक्षतापक्षस् तु क्षपयिष्यते.

अनियतप्रतिभासं कथं कारणं[142]शब्दयोजनायाः. उच्यते---

__________नोतेस्__________

[142] स्ह् करणं.

"विशेषणं[143]विशेष्यञ् च सम्बन्धं लौकिकीं स्थितिम्/ गृहीत्वा सङ्कलय्यैतत् तथा प्रत्येति नान्यथा//

__________नोतेस्__________

[143] म् & स्ह् ओम्. ं.

यथा दण्डिनि"[144]

__________नोतेस्__________

[144] = pv iii 145-146a. cf. pvin i v. 7.

यद् विज्ञानं विशेषणरूपतया वाचकं परिच्छिनत्ति, रूपतया च नीलादिकम्.

सम्बन्धव्यवहारकालव्यापिनापि[145]स्वभावेन विशेषणं विशेष्यञ् च भवद् भवेत्.

__________नोतेस्__________

[145] य् इ: 89.

तादृशञ् च रूपं गृह्णद् विशेषणं विशेष्यं [स्ह्40] वा गृह्णीयात्.

विशेषणविशेष्ययोश्[146]च सम्बन्धम्. लौकिकीं स्थितिं पुरुषो दण्डी न पुरुषी दण्ड इति.

__________नोतेस्__________

[146] म् & स्ह् -णविशेषयोश्.

शिरोमान्[147]समग्रेण[148]शृङ्गेण शृङ्गी, न गलके लम्बमानेन. तथा समस्तं स्मृत्वा विशेषणयुक्तविशेष्यं सकृद् गृह्णाति, नानेवंरूपत्वे.

__________नोतेस्__________

[147] म् -माद्? [148] म् -ग्रेन.

तथा हि पुरुषश् चास्ति दण्डश् च, किं न सर्वे दण्डिनः संयोगाच् चेत्, संयोगोऽप्य् अस्ति.

किं न सर्वे दण्डिनः, संयोगस्य गुणत्वेन यत्रासौ समवेतः स एव दण्डीति चेत्, समवायोऽप्य् अस्ति. किं न सर्वे दण्डिनः, यदङ्गतया गृह्यते स एव दण्डीति चेत्, एवं तर्हि दण्डादेर् अपि[149]सांवृतताम् अभिख्यायात[150].

__________नोतेस्__________

[149] म् लोओक्स् -देवपि ओर् -देचपि. [150] म् -वृताति?आयातं; स्ह् -वृताऽभिव्यापातम्(?).

यत् पूर्वापरकालाननुसन्धायि विशेषणेन सह विशेष्यस्याग्राहकञ्[151]च[152]तन् नियतप्रतिभासम् उच्यते, तत् कथं न कारणं विरुद्धम्.

__________नोतेस्__________

[151] म् & स्ह् -स्यग्राह-. [152] स्ह् ओम्. च.

प्रबलविकल्पवासनापवनरयप्रेर्यमाणात्मनो ज्ञानपादपस्यान्यत्र प्रतिपच्छायान्यत्राध्यवसायपाण्डुपत्रप्रयातः[153][154].

__________नोतेस्__________

[153] म् ऽन्यत्रावध्य-. [154] स्ह् -त्रपातः!

अथ को[155]ऽध्यवसायो नाम. यदि ग्रहणं ग्रहणम् इति वक्तव्यम्, अथापि [म्20अ] तदभावस् तथाप्य् अग्रहणम् एवास्तु. सत्यम्. असन्निहिततयानुसन्धानम् अध्यवसायो ग्रहणविशेषः.

__________नोतेस्__________

[155] ओर् कथं को?म् & स्ह् कथको.

यत् स्मरणादिसामग्रीरहितेन्द्रियजनितं[156]तन् निर्विकल्पम्[157]अस्तु, यत् स्मरणादिसामग्रीसव्यपेक्शेन्द्रियजं तद् विकल्पकम्[158]अस्तु. न, [स्ह्41] अविषयेऽवृत्तेः.

__________नोतेस्__________

[156] स्ह् ग्रीसव्यपेक्षेन्द्रि-. [157] स्ह् -ल्पकम्. [158] स्ह् तत् सविकल्-.

प्रत्यक्षस्यासन्निहितं[159]विशेषणत्वादि न विषयः. विशेषणत्वं हि न वस्तुनः[160]सम्प्रत्य् अस्ति.

__________नोतेस्__________

[159] य् इ: 90. [160] स्ह् वस्तुतह्.

अस्तित्वे[161]किं[162]स्मरणेन, ततश् च स्मरणेनोपनीतम् अपि विशेषणत्वादि नासन्निहितत्वं[163] जहाति.

__________नोतेस्__________

[161] म् अस्तिकेत्वे. [162] स्ह् कि. [163] स्ह् त्वादिना सन्नि-.

तस्माद् असन्निहितत्वात् प्रत्यक्षाविषयः.

न च जात्यादिविशिष्टार्थविकल्पश् चक्षुरर्थसन्निधाव् एव भवति, अतीतादिष्व् अपि सम्भवात्, विना चार्थैः निमीलितविलोचनस्यापि[164]गौर् इति विकल्पनात्.[165]

__________नोतेस्__________

[164] sh -cananyāyi-. [165] cf. tbh 12, 15f. tbh 13,2-4: yadi punaḥ kalpanājñānam arthād upajāyate, tenāpi tadā ghaṭādir artho dṛśyeta. tataś cāndhasyāpi rūpadarśanaprasaṅgaḥ, na cāsti.

नान्यथेदन्तयेति[166]चेत्. इदन्तया विशिष्टं ज्ञानं न[167]सन्निहितार्थनिश्चयरूपम् अध्यक्षम् अक्षसापेक्षञ् च, उभयनिरपेक्षत्वात्[168]. तथा हि "शुक्लो गौर् अयम्" इति चाक्षुषो[169] ऽनन्तरं तथा स्पृशतो ऽपि "सुकुमारः शुक्लो ऽयं गौर्" इति. उभयविषयम् अपि निश्चयनम् इदन्तया विशिष्टम्.

__________नोतेस्__________

[166] म् -दन्तत्प्रयेति. [167] म् & स्ह् ओम्. न. [168] म् उभय / निर-. [169] म् चक्षु-.

न चान्धतमसे रूपस्य शक्तिर् अस्ति, न वा चक्षुषः. न च स्पर्शेनेन्द्रियेण[170]रूपग्रहणम् एवं स्पर्शस्य चक्षुषि व्यभिचारो वाच्यः. तस्माच् चक्षुःस्पर्शनाभ्यां[171]भिन्नं विषयम् उपलभ्यान्यद् एव तत्सहचरसमुदायविषयं स्मार्तम्[172]अभेदज्ञानम् उत्पद्यते.[173][174] तथा विशेष्यान् स्वैर् इन्द्रियैर् भिन्नान् उपलभ्यार्थान्तरव्य[म्20ब्]वच्छेदविषयम्[175]अभेदेन[176] सर्वत्र मानसं ज्ञानम् उत्पद्यते. न भावगुणत्वयोः प्रत्यक्षम्, तस्यानुपलक्षणात्[177].

__________नोतेस्__________

[170] sh spārśe-. [171] sh om. ḥ. [172] sh sparśam. [173] = psv (m. hattori, "dignāga, on perception" harvard oriental series, no. 47, cambridge, 1968) p. 48, 6-10 (translation); p. 204, 35-37; p. 205, 34-36. [174] = psv (m. hattori, op. cit.) p. 48, 15-28 (translation); p. 206, 1-7; 205, 37-207,5. [175] artha(tib don) added from psv. [176] sh -ṣayabhede. [177] sh -palambhāt.

प्रत्यक्षाभिमान एष[178]कुतार्किकाणाम्, प्रत्यक्षासन्निवृत्तित्वात्.

__________नोतेस्__________

[178] म् -मानं एष; स्ह् मानम् एषु.

उक्तञ् च [स्ह्42] "दर्शनस्पर्शनान्वयो[179]मानस एव स्मार्तो[180]विभ्रम" इति. "यम् अहम् अद्रक्षं तम् एव[181]हि स्पृशामी"ति[182]विकल्पाद्[183]द्रव्यपरिकल्पः कल्पावधिव्यसनम्, भ्रान्त्यैव समर्थितत्वात्. तस्मान् मनो ऽभिसंस्कृतम् अर्थविशेषणम् अर्थं नेन्द्रियं प्रत्येति.

__________नोतेस्__________

[179] स्ह् -र्शनाऽनन्वयो. [180] य् इ: 91. [181] म् यमहामुद्राक्षकं तम् एव; स्ह् यमहामुद्राक्षित[?]मेव. [182] न्भ् अद् न्स् 3, 1, 1: "...यम् अहम् अद्राक्षं चक्षुषा तं स्पर्शनेनापि स्पृशामीति... "; न्व् अद् न्स् 1, 1, 14: "...यम् अहम् अद्राक्षं तं स्पृशामीति... ". [183] स्ह् -ल्पात्.

यत् प्रत्येकं समुदाये च तद् वस्तुनो रूपम्[184], तद् यथा नीलत्वम्. यत् प्रत्येकम् असत् समुदाये चास्ति स समुदायधर्मः, यथा चतुरस्रत्वादि.[185]स्थौल्यं तु समुदायप्रतिभासधर्मः[186].[187]बहुषु प्रतिभासमानेषु निरन्तरेषु स्थूलम् इति प्रत्ययः. तेन रूपं स्पर्शो वा स्थूलः, न तु तदतिरिक्तं द्रव्यं स्थूलम् अपतिभासनात्.

__________नोतेस्__________

[184] cf. tr 43,7-8: "śuklaṃ hi rūpaṃ pratyekaṃ samudāye cāsti vastuno rūpam". [185] cf. nbt 41,5-42,2; dhpr 42,23-24 ("sanniveśaś catursratvādiḥ pratibhāsadharmaḥ"); 43, 9-10 ("eko'yaṃ sthūla iti tu tathābhūtapratibhāsāśrayeṇa vyavasthāpyamānatvāt pratibhāsadharma ity ucyate. na vastudharmaḥ pratyekam aparisamāpter"; pvint 10b2-3 "maṅ po rnams śes pa gcig la snaṅ ba na riṅ po la sogs pa'i dbyibs tshogs pa'i yul la rnam par gnas pa ni so sor snaṅ pa'i chos yin gyi dṅos po'i chos ma yin pa'i phyir dkar po ma bzuṅ na de'i chos sam g'zan gyi chos kyi dbyibs ma bzuṅ bas na slu ba yin pa'i phyir ser por śes pa ni tshad ma ma yin no. " [186] m -prati..bhāsa-. [187] cf. tbh 66, 18-19: "yady evaṃ kathaṃ pratibhāsadharmaḥ sthaulyam ity uktaṃ dharmottareṇa".

अथ यदि प्रतिभासधर्मः स्थौल्यं तदा तत् किम् आन्तरम् आहोस्विद् बहिः, अथ तद् अन्तर् न[188]न बहिर् यद् एव च पुनर् निस्तत्त्वम्[189]आरोपितम् इति चेत्. तदापि नास्त्य् एवेति वक्तव्यम्. किम् उच्यते, "प्रतिभासधर्मः स्थौल्यम्" इति. सत्यम्, स्थौल्यं नामास्थूलपरावृत्तं रूपम्, न विधिरूपं किञ् चित्. ततो निस्तत्त्वम्[190]अपि स्थूलपरामर्शेन[191]व्यवह्रियमाणत्वात् संवृतिसद् एतन्, न तु नास्त्य् एव सर्वथा. सामान्यम् एवैकप्रत्यवमर्शविषयत्वेन यथास्ति. आह च --

__________नोतेस्__________

[188] म् नो; स्ह् यो. [189] म् & स्ह् निस्तत्वम्. [190] म् & स्ह् निस्तत्वम्. [191] स्ह् -लमपरा-.

"स्थूलप्रत्यवमर्शस्य हेतुत्वात् स्थूलता धियः/ स्थूलधीहेतुभावेन भा[म्21अ]वानां[192]स्थूलता मता//"[193]

__________नोतेस्__________

[192] m repeats venabhā. [193] cf. pv i 109: "ekapratyavamarśasya hetutvād dhir abhedinī/ ekadhīhetubhāvena vyaktīnām apy abhinnatā//"

[स्ह्43] प्रत्यवमर्श एव किं स्थूलम् आरोपयतीति चेत्.

"अस्तीयम् अपि या त्व् अन्तरुपप्लवसमुद्भवा/ दोषोद्भवा प्रकृत्या सा वितथप्रतिभासिनी//"[194]

__________नोतेस्__________

[194] = pv iii 361च्द्-362अब्.

इति न्यायाद् अविद्यानुभववासनाभावित्वाद् इत्य् असकृद् उक्तम्.[195][196]तेन स्थूलं नीलम् इति प्रतिभासे ऽपि न[197]नीले वस्तुरूपे विभ्रमः. विभ्रमस् तु शङ्खे पीतप्रतिभासः. शुक्लं[198]हि रूपं प्रत्येकं समुदाये[199]चास्ति वस्तुनो रूपम्.[200]तत्समुदायधर्मश् च संस्थानम्.

__________नोतेस्__________

[195] cf. tr 34, 9f; 39, 1f. [196] y i: 92. [197] sh ta. [198] m śuklahi. [199] sh samudaye. [200] cf. tr 42, 5: "yat pratyekaṃ samudāye ca tad vastuno rūpam".

शुक्लाप्रतिभासे तदात्मकसंस्तानस्याप्रतिभासः. ततः पीतशङ्खज्ञानं नाङ्गेनापि संवादकम्, नापि च वस्तुनः साक्षात्कारकम्. अतो विशेषणद्वयं विप्रतिपत्तिनिराकरणार्थम्.

यत् पुनर् भ्रान्तिज्ञाने[201], "अलौकिकत्वाद् उभयात्मयोगात् स्मृतिप्रमोषाद् विपरीतचित्तैर्[202]" इत्यादिनानाव्यवहृतिः. तत्र न नाम्नि विवदामहे. विवक्षितवस्तुरूपं न साक्षात्कृतम् इति तु परमार्थः.

__________नोतेस्__________

[201] म् पुनभ्रा-. [202] म् -चित्तेर्.

"ततो ऽर्थाद् विज्ञानं प्रत्यक्षम्"इत्य् आचार्यवसुबन्धुपादानां लक्षणं न्यूनम्.

नैयायिकीयम् "इन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञानम् अव्यपदेश्यम् अव्यभिचारि व्यवसायात्मकं प्रत्यक्षम्". वैशेषिकीयम् "द्रव्येषु प्रत्यक्षम् आत्मेन्द्रियमनो ऽर्थसन्निकर्षाद् यन् निष्पद्यते तद् अन्यद्" इति. [स्ह्44] कापिलानाम् अपि "श्रोत्रादिवृत्तिः प्रत्यक्षम्. श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणानां[203]मनसाधिष्ठिता[204]वृत्तिः [म्21ब्] शब्दस्पर्शरूपरसगन्धेषु यथाक्रमं ग्रहणे वर्तमाना प्रत्यक्षं प्रमाणम्".

__________नोतेस्__________ [203] स्ह् -त्रंत्वक्-. [204] म् मनुसा-; स्ह् -णानामर्थसाधि-.

मीमाम्सायाम् "सत्संप्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म तत् प्रत्यक्षम्". सर्वम् एतद् द्रव्यगुणात्मादिनिराकरणाद्[205]अयथार्थम्.

__________नोतेस्__________

[205] स्ह् ओम्. त्मा.

इति तर्करहस्ये स्वपरप्रत्यक्षलक्षणन्यायनिर्णयो द्वितीयः.

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.