Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luật tạng
पाण्डुलोहितकवस्तु
- Thông tin
- GRETIL — Nobuyuki Yamagiwa: Das Pāṇḍulohitakavastu, Über die verschiedenen Verfahrensweisen der Bestrafung in der buddhistischen Gemeinde, Neuausgabe der Sanskrit-Handschrift aus Gilgit, tibetischer Text und deutsche Übersetzung, Marburg 2001 (Indica et Tibetica, 41). Cf. Gilgit Manuscript, ed. N. Dutt, vol. III: Mūlasarvāstivādavinayavastu, part III (Srinagar 1943), pp. 5-58: Pāṇḍulohitakavastu; dto.: second edition, Delhi 1984. GBM = Gilgit Buddhist Manuscripts (Facsimile Edition), ed. by Raghu Vira and Lokesh Chandra, 10 pts., New Delhi 1959Ō1974 (Śata-Piṭaka Series 10). (The Vinayavastu ma
पाण्ड्-व् 7.5.4 ततः पश्चाद् एकेन भिक्षुणा ज्ञप्तिं कृत्वा कर्म कर्तव्यं / शृणोतु भदन्ताः संघः / अयम् उदायी भिक्षुः संघावशेषाम् आपत्तिम् आपन्नः संचिन्त्यशुक्रविसृष्टिसमुत्थिताम् अर्धमासप्रतिच्छन्नां / तेनानेन उदायिना भिक्षुणा (301र्1 = ग्ब्म् 914) अस्याः संघावशेषाया आपत्तेः संचिन्त्यशुक्रविसृष्टिसमुत्थिताया अर्धमासप्रतिच्छन्नायाः संघाद् अर्धमासपरिवासो याचितः / दत्तो ऽस्य संघेनोदायिनो भिक्षोर् अस्याः संघावशेषाया आपत्तेः संचिन्त्यशुक्रविसृष्टिसमुत्थिताया अर्धमासप्रतिच्छन्नाया अर्धमासं परिवासः / सो ऽयं पारिवासिक एव सन्* संघावशेषाम् आपत्तिम् आपन्नः अन्तरापत्तिं पूर्वापत्तिप्रतिरूपां प्रतिच्छन्नां / तेनानेन उदायिना भिक्षुणा अस्याः संघावशेषाया आपत्तेर् अन्तरापत्तेः पूर्वापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलपरिवासो याचितः / दत्तो ऽस्य संघेन उदायिनो भिक्षोर् अस्याः संघावशेषाया आपत्तेर् अन्तरापत्तेः पूर्वापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलपरिवासः / सो ऽयं मूलपारिवासिक एव सन्* संघावशेषाम् आपत्तिम् आपन्नः प्रत्यन्तरापत्तिम् अन्तरापत्तिप्रतिरूपां प्रतिच्छन्नां / तेनानेन उदायिना भिक्षुणा अस्याः संघावशेषायाः प्रत्यन्तरापत्तेर् अन्तरापत्तिप्रतिरूपायाः प्रतिच्छन्नायाः संघान् मूलापकर्षो याचितः / दत्तो ऽस्य संघेन उदायिनो भिक्षोर् अस्याः संघावशेषायाः प्रत्यन्तरापत्तेर् अन्तरापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलापकर्षः / तेनानेन उदायिना भिक्षुणा अस्याः संघावशेषाया आपत्तेः संचिन्त्यशुक्रविसृष्टिसमुत्थिताया अर्धमासप्रतिच्छन्नायाः पर्युषितपरिवासेनान्तरापत्तेः पूर्वापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलपरिवासपर्युषितेन प्रत्यन्तरापत्तेर्
अन्तरापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलापकर्षपर्युषितेन संघात्* षड्रात्रमानाप्यं याचितं / दत्तम् अस्य संघेन उदायिनो भिक्षोर् अस्याः संघावशेषाया आपत्तेः संचिन्त्यशुक्रविसृष्टिसमुत्थिताया अर्धमासप्रतिच्छन्नायाः पर्युषितपरिवासस्यान्तरापत्तेः पूर्वापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलपरिवासपर्युषितस्य प्रत्यन्तरापत्तेर् अन्तरापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलापकर्षपर्युषितस्य षड्रात्रं चीर्णमानाप्यं / सो ऽयम् उदायी भिक्षुर् अस्याः संघावशेषाया आपत्तेः संचिन्त्यशुक्रविसृष्टिसमुत्थिताया अर्धमासप्रतिच्छन्नायाः पर्युषितपरिवासः अन्तरापत्तेः पूर्वापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलपरिवासपर्युषितः प्रत्यन्तरापत्तेर् अन्तरापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलापकर्षपर्युषितः षड्रात्रं चरितमानाप्यं संघाद् आवर्हणं याचते / सचेत् संघस्य प्राप्तकालं क्षमेतानुजानीयात् संघो यत् संघः उदायिनं भिक्षुम् अस्याः संघावशेषाया आपत्तेः संचिन्त्यशुक्रविसृष्टिसमुत्थिताया अर्धमासप्रतिच्छन्नायाः पर्युषितपरिवासम् अन्तरापत्तेः पूर्वापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलपरिवासपर्युषितं प्रत्यन्तरापत्तेर् अन्तरापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलापकर्षपर्युषितं षड्रात्रं चरितमानाप्यम् आवर्हेद् इति / एषा ज्ञप्तिः //
पाण्ड्-व् 7.5.5 ततः पश्चाद् अवसादयितव्यः / न (301व्1 = ग्ब्म् 915) साधूदायिन् कृतं न सुष्ठु कृतं / कथम् इदानीं त्वं तस्य भगवतस् तथागतस्यार्हतः सम्यक्संबुद्धस्यैवं रागविरागाय चेतोविमुक्तप्रज्ञाविमुक्ते धर्मे देश्यमाने द्वेषविरागाय मोहविरागाय चेतोविमुक्तप्रज्ञाविमुक्ते धर्मे देश्यमाने इदम् एवंरूपम् अप्रासादिकं कृतम् अकार्षीः / वरं खलु ते मोहपुरुष आशीविषो घोरविषः कृष्णसर्पस् तीक्ष्णविषः उभाभ्यां पाणिभ्यां प्रतिगृहीतो ऽभविष्यत्* न त्व् एवम् इदम् एवंरूपम् अप्रासादिकं कृतं / पाण्ड्-व् 7.5.6 द्वाव् इमौ धर्मोल्कां निर्वापयतः धर्मालोकं धर्माभां धर्मप्रभां धर्मावभासं धर्मप्रदीपं धर्मप्रद्योतं / कतमौ द्वौ / यश् चापत्तिम् आपद्यते यश् चापत्तिम् आपन्नो यथाधर्मं न प्रतिकरोति // द्वाव् अघमूलं न खनतः प्रतिस्रोतो न व्यायच्छतो न सरितां लतां शोषयतो न मारं योधयतो न मारध्वजं पातयतो न धर्मध्वजम् उच्छ्रापयतो न पापीयसः श्रोतश् छेदयतो न तथागतस्य धर्म्यं धर्मचक्रं प्रवर्तितम् अनुप्रवर्तयतः / कतमौ द्वौ / यश् चापत्तिम् आपद्यते यश् चापत्तिम् आपन्नो यथाधर्मं न प्रतिकरोति /
पाण्ड्-व् 7.5.7 अनया त्वम् उदयिन्न् आपत्त्या अदेशितया अप्रतिदेशितया अभव्यो ऽनित्यसंज्ञाया अनित्ये दुःखसंज्ञाया दुःखे अनात्मसंज्ञाया आहारे प्रतिकूलसंज्ञायाः सर्वलोके अनभिरतिसंज्ञाया आदीनवसंज्ञायाः प्रहाणसंज्ञाया विरागसंज्ञाया निरोधसंज्ञाया मरणसंज्ञाया अशुभसंज्ञाया विनीलकसंज्ञाया विपूयकसंज्ञाया व्याध्मातकसंज्ञाया विपडुमकसंज्ञाया विखादितकसंज्ञाया विलोहितकसंज्ञाया अस्थिसंज्ञाया विक्षिप्तकसंज्ञायाः शून्यताप्रत्यवेक्षणसंज्ञायाः / अभव्यः प्रथमस्य ध्यानस्य द्वितीयस्य तृतीयस्य ध्यानस्य चतुर्थस्य मैत्र्याः करुणाया मुदिताया उपेक्षाया आकाशानन्त्यायतनस्य विज्ञानानन्त्यायतनस्य आकिंचन्यायतनस्य नैवसंज्ञानासंज्ञायतनस्य स्रोतआपत्तिफलस्य सकृदागामिफलस्य अनागामिफलस्य ऋद्धिविषयस्य दिव्यस्य श्रोत्रस्य चेतःपर्यायस्य पूर्वनिवासस्य च्युत्युपपादस्यास्रवक्षयस्य /
पाण्ड्-व् 7.5.8 अनया ते उदायिन्न् आपत्त्या अदेशितया अप्रतिदेशितया द्वयोर् गत्योर् अन्यतरान्यतरा गतिः प्रतिकांक्षितव्या नरका वा तिर्यंचो वा // उक्तं भगवता द्वे प्रतिच्छन्नकर्मान्तस्य गती नरका वा तिर्यंचो वा / ये मे भाषितं न श्रद्धास्यन्ति ते प्रतिच्छादयितव्यं मंस्यन्ते श्
पाण्ड्-व् 7.5.9 शृणोतु भदन्ताः संघः / अयम् उदायी भिक्षुः संघावशेषाम् आपत्तिम् आपन्नः संचिन्त्यशुक्रविसृष्टिसमुत्थिताम् अर्धमासप्रतिच्छन्नां / तेनानेन उदायिना भिक्षुणा अस्याः संघावशेषाया आपत्तेः संचिन्त्यशुक्रविसृष्टिसमुत्थिताया अर्धमासप्रतिच्छन्नायाः संघाद् अर्धमासं परिवासो याचितः / दत्तो ऽस्य संघेन उदायिनो भिक्षोर् अस्याः संघावशेषाया आपत्तेः संचिन्त्यशुक्रविसृष्टिसमुत्थिताया अर्धमासप्रतिच्छन्नाया अर्धमासं परिवासः / सो ऽयं पारिवासिक एव सन्* संघावशेषाम् आपत्तिम् आपन्नो ऽन्तरापत्तिं पूर्वापत्तिप्रतिरूपां प्रतिच्छन्नां / तेनानेन उदायिना भिक्षुणा अस्याः संघावशेषाया आपत्तेः अन्तरापत्तेः (302र्1 = ग्ब्म् 916) पूर्वापत्तिप्रतिरूपायाः प्रतिच्छन्नायाः संघान् मूलपरिवासो याचितः / दत्तो ऽस्य संघेन उदायिनो भिक्षोर् अस्याः संघावशेषाया आपत्तेः अन्तरापत्तेः पूर्वापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलपरिवासः / सो ऽयं मूलपारिवासिक एव सन्* संघावशेषाम् आपत्तिम् आपन्नः प्रत्यन्तरापत्तिम् अन्तरापत्तिप्रतिरूपां प्रतिच्छन्नां / तेनानेन उदायिना भिक्षुणा अस्याः संघावशेषाया आपत्तेः प्रत्यन्तरापत्तेर् अन्तरापत्तिप्रतिरूपायाः प्रतिच्छन्नायाः संघान् मूलापकर्षो याचितः / दत्तो ऽस्य संघेन उदायिनो भिक्षोर् अस्याः संघावशेषायाः प्रत्यन्तरापत्तेर् अन्तरापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलापकर्षः / तेनानेन उदायिना भिक्षुणा अस्याः संघावशेषाया आपत्तेः संचिन्त्यशुक्रविसृष्टिसमुत्थिताया अर्धमासप्रतिच्छन्नायाः पर्युषितपरिवासेनान्तरापत्तेः पूर्वापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलपरिवासपर्युषितेन प्रत्यन्तरापत्तेः अन्तरापत्तिप्रतिरूपायाः प्रतिच्छन्नाया
मूलापकर्षपर्युषितेन संघात् षड्रात्रं मानाप्यं याचितं / दत्तम् अस्य संघेन उदायिनो भिक्षोर् अस्याः संघावशेषाया आपत्तेः संचिन्त्यशुक्रविसृष्टिसमुत्थिताया अर्धमासप्रतिच्छन्नायाः पर्युषितपरिवासस्यान्तरापत्तेः पूर्वापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलपरिवासपर्युषितस्य प्रत्यन्तरापत्तेर् अन्तरापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलापकर्षपर्युषितस्य षड्रात्रं मानाप्यं / सो ऽयम् उदायी भिक्षुर् अस्याः संघावशेषाया आपत्तेः संचिन्त्यशुक्रविसृष्टिसमुत्थिताया अर्धमासप्रतिच्छन्नायाः पर्युषितपरिवासः अन्तरापत्तेः पूर्वापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलपरिवासपर्युषितः प्रत्यन्तरापत्तेर् अन्तरापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलापकर्षपर्युषितः षड्रात्रं चरितमानाप्यं संघाद् आवर्हणं याचते / तत् संघ उदायिनं भिक्षुम् अस्याः संघावशेषाया आपत्तेः संचिन्त्यशुक्रविसृष्टिसमुत्थिताया अर्धमासप्रतिच्छन्नायाः पर्युषितपरिवासम् अन्तरापत्तेः पूर्वापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलपरिवासपर्युषितं प्रत्यन्तरापत्तेर् अन्तरापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलापकर्षपर्युषितं षड्रात्रं चरितमानाप्यम् आवर्हति / येषाम् आयुष्मतां क्षमते उदायिनं भिक्षुम् अस्याः संघावशेषाया आपत्तेः संचिन्त्यशुक्रविसृष्टिसमुत्थिताया अर्धमासप्रतिच्छन्नायाः पर्युषितपरिवासम् अन्तरापत्तेः पूर्वापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलपरिवासपर्युषितं प्रत्यन्तरापत्तेर् अन्तरापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलापकर्षपर्युषितं षड्रात्रं चरितमानाप्यम् आवर्हितुं ते तूष्णीं न क्षमते भाषन्तां / इयं प्रथमा कर्मवाचना / एवं द्वितीया तृतीया कर्मवाचना कर्तव्या श् आवर्हितः संघेन
उदायी भिक्षुर् अस्याः संघावशेषाया आपत्तेः संचिन्त्यशुक्रविसृष्टिसमुत्थिताया (302व्1 = ग्ब्म् 917) अर्धमासप्रतिच्छन्नायाः पर्युषितपरिवासः अन्तरापत्तेः पूर्वापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलपरिवासपर्युषितः प्रत्यन्तरापत्तेर् अन्तरापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलापकर्षपर्युषितः षड्रात्रं चरितमानाप्यं / क्षान्तम् अनुज्ञातं संघेन यस्मात् तूष्णीम् एवम् एतद् धारयामि //
पाण्ड्-व् 7.5.10 ततः पश्चाद् उत्साहयितव्यः / साधु उदायिन् कृतं सुष्ठु कृतं / द्वौ पण्डितौ द्वौ व्यक्तौ द्वौ सत्पुरुषौ / यश् चापत्तिं नापद्यते यश् चापत्तिम् आपन्नो यथाधर्मं प्रतिकरोति / द्वौ धर्मोल्कां प्रज्वालयतो धर्मालोकं धर्माभां धर्मप्रभां धर्मावभासं धर्मप्रदीपं धर्मप्रद्योतं / कतमौ द्वौ / यश् चापत्तिं नापद्यते यश् चापत्तिम् आपन्नो यथाधर्मं प्रतिकरोति //
द्वाव् अघमूलं खनतः प्रतिस्रोतो व्यायच्छतः सरितां लतां शोषयतो मारं योधयतो मारध्वजं पातयतो धर्मध्वजम् उच्छ्रापयतः पापीयसः स्रोतः छेदयतस् तथागतस्य धर्म्यं धर्मचक्रं प्रवर्तितम् अनुप्रवर्तयतः / कतमौ द्वौ / यश् चापत्तिं नापद्यते यश् चापत्तिम् आपन्नो यथाधर्मं प्रतिकरोति / पाण्ड्-व् 7.5.11 अनया त्वम् उदयिन्न् आपत्त्या देशितया प्रतिदेशतया भव्यो ऽनित्यसंज्ञाया अनित्ये दुःखसंज्ञाया दुःखे अनात्मसंज्ञाया आहारे प्रतिकूलसंज्ञायाः सर्वलोके अनभिरतिसंज्ञाया आदीनवसंज्ञायाः प्रहाणसंज्ञाया विरागसंज्ञाया निरोधसंज्ञाया मरणसंज्ञाया अशुभसंज्ञाया विनीलकसंज्ञाया विपूयकसंज्ञाया विपडुमकसंज्ञाया व्याध्मातकसंज्ञाया विखादितकसंज्ञाया विलोहितकसंज्ञाया विक्षिप्तकसंज्ञाया अस्थिसंज्ञायाः शून्यताप्रत्यवेक्षणसंज्ञायाः श् भव्यः प्रथमस्य ध्यानस्य द्वितीयस्य तृतीयस्य ध्यानस्य चतुर्थस्य मैत्र्याः करुणाया मुदिताया उपेक्षाया आकाशानन्त्यायतनस्य विज्ञानानन्त्यायतनस्य आकिञ्चन्यायतनस्य नैवसंज्ञानासंज्ञायतनस्य स्रोतआपत्तिफलस्य सकृदागामिफलस्य अनागामिफलस्य रिद्धिविषयस्य दिव्यस्य श्रोत्रस्य चेतःपर्यायस्य पूर्वनिवासस्य च्युत्युपपादस्यास्रवक्षयस्य / पाण्ड्-व् 7.5.12 अनया ते उदायिन्न् आपत्त्या देशितया प्रतिदेशितया द्वयोर् गत्योर् अन्यतरान्यतरा गतिः प्रतिकांक्षितव्या देवा वा मौष्या वा //
उक्तं भगवता द्वे अप्रतिच्छन्नकर्मान्तस्य गती देवा वा मनुष्या वा / ये मे भाषितं अभिश्रद्धास्यन्ति न ते प्रतिच्छादयितव्यं मन्यन्त इति / पुनश् चोक्तं / छन्नम् एवाभिवर्षति विवृतं नाभिवर्षति श् तस्माच् छन्नं विवृणुयाद् एवं तं नाभिवर्षति //
आवर्हितस् त्वम् उदायि संघेन / अप्रमादेन संपादय //
// पाण्डुलोहितकवस्तु समाप्तः //
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
