Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ Devanāgarī

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luật tạng

कोशाम्बकवस्तु

Thông tin
GRETIL — N. Dutt: Gilgit Manuscript, vol. III: Mūlasarvāstivādavinayavastu, part 2 (Srinagar 1942), pp. 173-196: Kośāmbakavastu (second edition: Delhi 1984).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

कोशाम्बकवस्तु

कोशाम्बकवस्तु

कोशाम्बकवस्तुनि उद्दानम्* //

कोशाम्बकानां कलहो नानावादश् च भिक्षुभिः / पाठे विवदमानानां दीर्घिकस्य च चारिका //

भृगुश् च लवणागारे रक्षितो वनषण्डहस्तिना / अनिरुद्धश् चेति कृत्वा श्रावस्त्यां व्युपशाम्यति //

बुद्धो भगवान् कोशाम्ब्यां विहरति घोषिलारामे / तेन खलु समयेन कोशाम्बको भिक्षुर् व्याडो विक्रान्तः सूत्रधरो विनयधरो मातृकाधरः / बहवश् चास्य भिक्षवः सहायका व्याडा विक्रान्ताः सूत्रधरा विनयधरा मातृकाधराः / वैशाल्यां वैशालको भिक्षुर् व्याडो विक्रान्तः सूत्रधरो विनयधरो मातृकाधरः / बहवश् चास्य भिक्षवः सहायका व्याडा विक्रान्ताः सूत्रधरा विनयधरा मातृकाधराः /

अथ वैशालको भिक्षुर् अपरेण समयेन जनपदचारिकां चरन् कोशाम्बीम् अनुप्राप्तः / स मार्गश्रमं प्रतिविनोद्य कोशाम्बकस्य भिक्षोः सकाशम् उपसंक्रान्तः / उपसंक्रम्य परस्परं प्रतिविनोद्य सूत्रविनयाभिर् धर्मेषु विनिश्चयं कर्तुम् आरब्धौ / तत्रैकः कथयति / एवम् एतत् सूत्रं पठितव्यम्* / अयम् अस्य सूत्रस्यार्थः द्वितीयः कथयति (msv ii 174) / नेदं सूत्रम् एवं पठितव्यम्* / नास्य सूत्रस्यायम् अर्थः / तव अयुक्तम्* मम युक्तम्* / तव सहितम्* / ममासहितम्* / तवेति / ततस् तयोः परस्परं वैरुद्ध्यम् उत्पन्नम्* / कोशाम्बको भिक्षुर् वैशालकस्य रन्ध्रान्वेषणतत्परस् तिष्ठते /

संघेन चायम् एवंरूपः क्रियाकारः कृतः / यः पश्येद् वर्चस्कुम्भिकां रिक्तां तुच्छां निरुदकां तेनोदकस्य पूरयित्वा यथास्थाने स्थापयितव्या उपधिवारिकस्य वारोचयितव्या / वर्चस्कुम्भिका रिक्ता तिष्ठतीति / न चेद् आत्मना पूरयति नाप्य् उपधिवारिकस्यारोचयति तस्यानादरो भवति / अनादराच् च तं वयं पायन्तिकाम् आपत्तिं देशयिष्याम इति /

यावद् अन्यतमेन गृहपतिना बुद्धप्रमुखो भिक्षुसंघो ऽन्तर्गृहे भक्तेनोपनिमन्त्रितः / तत्र केचिद् भिक्षवो भोक्तुं गताः / केचिद् गन्तुकामाः / वैशालकस् तु भिक्षुर् वर्चस्कुम्भिकाम् आदाय वर्चस्कुटिं प्रविष्टः / तस्य सार्धंविहारो त्वरितगतिप्रचारतया शब्दयितुं गतः / उपाध्याय केचिद् भिक्षवो भोक्तुं गताः केचिद् गन्तुकामाः / आगच्छत गच्छाम इति / स तेन सार्धं वर्चस्कुम्भिकाम् एकस्मिन् स्थाने स्थापयित्वा संप्रस्थितः / स च कोशाम्बको भिक्षुस् तम् प्रदेशम् अनुप्राप्तः / ततो ऽसौ वैशालको भिक्षुः पुरस्ताद् वर्चस्कुम्भिकां गृहीत्वा विहारं प्रवेष्टुम् आरब्धः / सार्धंविहारिणा उच्यते / (msv ii 175) उपाध्याय किं भूयः प्रविशसि / स कथयति / पुत्र ममायं कोशाम्बको भिक्षुर् अवतारप्रेक्षी / वर्चस्कुम्भिकां पूरयितुं प्रविशामि / किम् अयं सर्वेण सर्वं रिक्ता / न सर्वेण सर्वम्* / अपि तु न लभ्यम् अनेनोदकेनोदककृत्यं कर्तुम्* / उपाध्याय केवलं सर्वेण सर्वं रिक्ता भवतु / वयम् उपाध्यायस्य पक्षो बलं सहायकाः / आगच्छत / गच्छामः / स तां तत्रैव स्थापयित्वा तेन सार्धं गतः / कोशाम्बकेन भिक्षुणा दृष्टा सा च कुम्भिका परामृष्टा / ततः संजातामर्षो हुम् इति कृत्वा वर्चस्कुम्भिकां (281र्1 = ग्ब्म् 6.874) पूरयित्वा उदककार्यं कृत्वा गतः / ततो भुक्ते भिक्षुसंघे विहारम् आगते भिक्षून् प्रचारयितुम् आरब्धः / आयुष्मन्तः अनेन भिक्षुणा वैशालकेन संघस्य क्रियाकारो भग्न इति / ततो यथावृद्धिकया सामीचिं कुर्वाणो ऽनुपूर्वेण तस्य सकाशम् उपसंक्रान्तः / कथयति / आयुष्मन् अवकाशं कुरु / कृतो भवतु / आपत्तिर् अस्यापन्ना / यथाधर्मं कुरु / न पश्याम्य् आपत्तिम्* / ननु संघेन क्रियाकारः कृतो यः पश्येद् वर्चस्कुम्भिकां रिक्तां तुच्छां निरुदकां तेनात्मना उदकस्य पूरयित्वा यथास्थाने स्थापयितव्या / उपधिवारिकस्य वारोचयितव्या / आयुष्मन् वर्चस्कुम्भिका रिक्ता तिष्ठतीति / न चेद् आत्मना पूरयति / नाप्य् उपधिवारिकस्यारोचयति / तस्यानादरो भवति / अनादराच् च तं वयं पायन्तिकाम् आपत्तिं देशयिष्याम इति / स कथयति / न (msv ii 176) सा रिक्ता / मा भवतु रिक्ता / न लभ्यं तेनोदकेनोदककार्यं कर्तुम्* / स तूष्णीम् अवस्थितः /

कोशाम्बको भिक्षुः कोशाम्ब्यां नैवासिको बहुपरिवारश् च / तेन तस्य बलाद् उत्क्षेपणीयं कर्म कृतम् इति / वैशालका भिक्षवः क्षुब्धा इति / तत्र कोशाम्बकानां वैशालकानां च भिक्षूणाम् उत्पन्नः कलहो भण्डनं विग्रहो विवादो यदुत आपन्न इति वा अनापन्न इति वा / यत् पुनर् आपन्नो नानापन्नः / उत्क्षिप्तो नानुत्क्षिप्तकः / यत् पुनर् उत्क्षिप्तः अधर्मेण कर्मणा कोप्येन स्थापनार्हेणेति / एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति / ततो भगवान् उत्क्षिप्तकं भिक्षुम् उत्क्षिप्तकानुवर्तकं भिक्षुम् उत्क्षिप्तकानुवर्तकानुवर्तकांश् च दूतेन प्रकोश्येदम् अवोवत्* / सत्यं युष्माकं भिक्षव उत्पन्नः कलहो भण्डनं विग्रहो विवादो यदुतापन्न इति पूर्ववद् यावत् कोप्येन स्थापनार्हेणेति / सत्यं भदन्त / मा भिक्षवः कलहो मा भण्डनं मा विग्रहो मा विवादः / अपि तूत्क्षिप्तकस्याहं भिक्षोर् आसमुदाचारिकान् धर्मान् प्रज्ञपयामि / उत्क्षिप्तकेन भिक्षुणा एवं चित्तम् उत्पादयितव्यम्* / अयम् उत्क्षेपको भिक्षुर् व्याडो विक्रान्तः सूत्रधरो विनयधरो मातृकाधरः / बहवश् चास्य भिक्षवः सहायका व्याडा विक्रान्ताः सूत्रधरा विनयधरा मातृकाधराः / अहं चेद् आपत्तिं यथाधर्मं न प्रतिकुर्याम्* / (msv ii 177) तेन संघः स कलहजातो विहरेद् भण्डनजातो विगृहीतो विवादम् आपन्नः / यन्व् अहम् आपत्तिं यथाधर्मं प्रतिकुर्याम् इति / उत्क्षिप्तको भिक्षुर् यथाप्रज्ञप्तान् आसमुदाचारिकान् धर्मान् न समादाय वर्तते / सातिसारो भवति /

अथ भगवान् उत्क्षिप्तकं भिक्षुम् उत्क्षिप्तकानुवर्तकान् भिक्षून् उत्क्षिप्तकानुवर्तकानुवर्तकांश् चोद्योज्य उत्क्षेपकं भिक्षुम् उत्क्षेपकानुवर्तकान् भिक्षून् उत्क्षेपकानुवर्तकानुवर्तकांश् च दूतेन प्रक्रोश्येदम् अवोचत्* / सत्यं युष्माकं भिक्षव उत्पन्नः कलहो भण्डनं विग्रहो विवादो यदुतापन्न इति वा पूर्ववद् यावत् स्थापनार्हेणेति / सत्यं भदन्त / मा भिक्षवः कलहो मा भण्डनं मा विग्रहो मा विवादः / अपि तूत्क्षेपकस्याहं भिक्षोर् आसमुदाचारिकान् धर्मान् प्रज्ञपयिष्यामि / उत्क्षेपकेण भिक्षुणा एवं चित्तम् उत्पादयितव्यम्* / अयम् उत्क्षिप्तको भिक्षुर् व्याडो विक्रान्तः सूत्रधरो (281व्1 = ग्ब्म् 6.875) विनयधरो मातृकाधरः / बहवश् चास्य भिक्षवः सहायका व्याडा विक्रान्ताः सूत्रधरा विनयधरा मातृकाधराः / अहं चेद् एनम् अकामं चोदयेयं स्मारयेयं तेन संघः कलहजातो विहरेद् भण्डनजातो विगृहीतो विवादम् आपन्नः / यन्व् अहं तेनाकामकं न चोदयेयं न स्मारयेयम् इति / उत्क्षिप्तको भिक्षुर् यथाप्रज्ञप्तानाम् आसमुदाचारिकान् धर्मान् न समादाय वर्तते (msv ii 178) सातिसारो भवति / एवम् उच्यमाना अपि ते भिक्षवो भगवता कलहजाता एव विहरन्ति भण्डनजाता विगृहीता विवादम् आपन्नाः / अपीदानीं पोषधे ऽप्य् अपोषधम् आगमयन्ति / एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति /

अथ भगवान् उत्क्षिप्तकं भिक्षुम् उत्क्षिप्तकानुवर्तकांश् च भिक्षून् उत्क्षिप्तकानुवर्तकानुवर्तकांश् च दूतेन प्रक्रोश्येदम् अवोचत्* / सत्यं यूयं भिक्षव एवम् उच्यमाना अपि मया कलहजाता एव विहरथ भण्डनजाता विगृहीता विवादम् आपन्नाः / अपीदानीं पोषधे ऽप्य् अपोषधम् आगमयथ / सत्यं भदन्त / मा भिक्षवः कलहो मा भण्डनं मा विग्रहो मा विवादः / कलहजातानां युष्माकं भिक्षवो विहरतां भण्डनजातानां विगृहीतानां विवादम् आपन्नानां यानि कर्माणि क्रियन्ते ō पोषधः प्रवारणा ज्ञप्तिर् ज्ञप्तिद्वितीयं ज्ञप्तिचतुर्थं कर्मं ō कृतान्य् अकृतानि भवन्ति कोप्यानि /

नानासंवासिका यूयं भिक्षवस् तेषां भिक्षूणाम्* / ते च युष्माकम्* / तत् कस्य हेतोः / द्वाव् इमौ भिक्षवो नानासंवासिकौ / कश् चैवात्मनि चात्मानं नानासंवासिकं स्थापयति / यो वा संघेन धर्मतया स्थाप्यते / कथम् आत्मनैवात्मानं नानासंवासिकं स्थापयति / यथापि तद् भिक्षुभिर् भिक्षूणां कलहजातानां विहरतां भण्डनजातानां विगृहीतानां विवादम् आपन्नानां पक्षापरपक्षव्यवस्थितानां संचिन्त्य धर्मपक्षाद् (msv ii 179) अधर्मपक्षं संक्रामति एवम् आत्मनैवात्मानं नानासंवासिकं स्थापयति / कथं संघेन स्थाप्यः / यथापि तत् संघेनात्मनादर्शनायोत्क्षिप्यते / अप्रतिकर्मणि अप्रतिनिसृष्टे पापके दृष्टिगते उत्क्षिप्यते / एवं संघेन धर्मतया /

द्वाव् इमौ भिक्षवः समानसंवासिकौ / कतमौ द्वौ / यश् चैवात्मनात्मानं समानसंवासिकं स्थापयति / यो वा संघेन धर्मतया स्थाप्यते / कथम् आत्मनैवात्मानं संवासिकं स्थापयति / यथापि तद् भिक्षुभिर् भिक्षूणां कलहजातानां विहरतां भण्डनजातानां विगृहीतानां विवादम् आपन्नानां पक्षापरपक्षव्यवस्थितानां संचिन्त्य अधर्मपक्षाद् धर्मपक्षं संक्रामति / एवम् आत्मनैवात्मानं समानसंवासिकं स्थापयति / कथं संघेन धर्मतया स्थाप्यते / यथापि तत् संघेनादर्शनायोत्क्षिप्त ओसार्यते / अप्रतिकर्मणि अप्रतिनिसृष्टे पापके दृष्टिगते उत्क्षिप्त ओसार्यते / एवं संघेन धर्मतया /

अथ भगवान् उत्क्षिप्तकं भिक्षुम् उत्क्षिप्तकानुवर्तकान् भिक्षून् उत्क्षिप्तकानुवर्तकानुवर्तकांश् चोद्योज्य उत्क्षेपकं (282र्1 = ग्ब्म् 6.876) भिक्षुम् उत्क्षेपकानुवर्तकान् भिक्षून् उत्क्षेपकानुवर्तकानुवर्तकांश् च दूतेन प्रक्रोश्येदम् अवोचत्* / सत्यं यूयं भिक्षव एवम् उच्यमाना अपि मया कलहजाता एव विहरथ भण्डनजाता विगृहीता विवादम् आपन्नाः / अपीदानीं पोषधे ऽप्य् अपोषधम् (msv ii 180) आगमयथ / सत्यं भदन्त / पूर्ववद् यावद् एवम् उच्यमाना अपि ते भिक्षवो भगवता कलहजाता एव विहरन्ति भण्डनजाता विगृहीता विवादम् आपन्नाः /

अन्यतमेन गृहपतिना बुद्धप्रमुखो भिक्षुसंघो ऽन्तर्गृहे भक्तेनोपनिमन्त्रितः / भिक्षुसंघः प्रविष्टः / भगवान् औपधिके ऽस्थाद् अभिनिर्हृतपिण्डपातः / पंचभिः कारणैर् बुद्धा भगवन्तः औपधिके तिष्ठन्त्य् अभिनिर्हृतपिण्डपाताः / पूर्ववद् यावद् अस्मिंस् त्व् अर्थे भगवान् श्रावकाणां विनये शिक्षापदं प्रज्ञपयितुकाम औपधिके ऽस्थाद् अभिनिर्हृतपिण्डपातः / तत्र चार्थिकप्रत्यर्थिकानां भिक्षूणां भोक्तुं प्रविष्टानाम् अन्तर्गृहे उत्पन्नः कलहो भण्डनं विग्रहो विवादो यदुतापन्न इति पूर्ववद् यावत् स्थापनार्हेण / अपीदानीं परस्परप्रहारिकाम् अप्य् आगमयन्ति /

अथ पिण्डपाताभिनिर्हारको भिक्षुः पिण्डपातम् आदाय येन भगवांस् तेनोपसंक्रान्तः / उपसंक्रम्य पिण्डपातम् एकान्ते स्थापयित्वा भगवतः पादौ शिरसा वन्दित्वा पुरस्ताद् अस्थात्* / धर्मता खलु बुद्धा भगवन्तः पिण्डपातनिर्हारकं भिक्षुम् अनया प्रतिसंमोदनया प्रतिसंमोदन्ते / कच्चिद् भिक्षो प्रणीतं भक्तं सन्तर्पितो भिक्षुसंघ इति / प्रतिसंमोदते बत भगवान् पिण्डपातनिर्हारकं भिक्षुम् अनया प्रतिसंमोदनया / कच्चिद् भिक्षो प्रणीतं भक्तं सन्तर्पितो भिक्षुसंघ इति / तथ्यं भदन्त / प्रणीतं भक्तं सन्तर्पितो भिक्षुसंघः / किं त्व् अर्थिकप्रत्यर्थिकानां भिक्षूणाम् अन्तर्गृह उत्पन्नः कलहो भण्डनं (msv ii 181) विग्रहो विवादो यदुतापन्न इति पूर्ववद् यावत् स्थापनार्हेण / अपीदानीं परस्परप्रहारिकाम् अप्य् आगमिताः /

अथ भगवान् भक्तकृतिं कृत्वा बहिर् विहारस्य पादौ प्रक्षाल्य विहारं प्रविक्षत् प्रतिसंलयनाय / ततो भगवान् सायाह्ने प्रतिसंलयनाद् व्युत्थाय पुरस्ताद् भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः / निषद्य भगवान् भिक्षून् आमन्त्रयते स्म / सत्यं युष्माकं भिक्षवः अन्तर्गृहे भोक्तुं प्रविष्टानाम् उत्पन्नः कलहो भण्डनं विग्रहो विवादो यदुतापन्न इति वा पूर्ववद् यावद् अपीदानीं परस्परप्रहारिकाम् अप्य् आगमिताः / सत्यं भदन्त / मा भिक्षवः कलहो मा भण्डनं मा विग्रहो मा विवादः / अपि त्व् अर्थिकप्रत्यर्थिकानाम् अहं भिक्षूणाम् अन्तर्गृहे प्रविष्टानाम् आसमुदाचारिकान् धर्मान् प्रज्ञपयिष्यामि / अर्थिकप्रत्यर्थिकैर् भिक्षुभिर् अन्तर्गृहे प्रविष्टैर् आसनान्तरितैर् निषत्तव्यं यत्रैवंरूपस्याननुलोमिकस्य कायसमुदाचारिकस्यावकाशो न भवति / अर्थिकप्रत्यर्थिका भिक्षवो ऽन्तर्गृहे प्रविष्टा यथाप्रज्ञप्तान् आसमुदाचारिकान् धर्मान् न समादाय (282व्1 = ग्ब्म् 6.877) वर्तन्ते / सातिसारा भवन्ति / एवम् उच्यमाना अपि भिक्षवो भगवता कलहजाता विहरन्ति भण्डनजाता विगृहीता विवादम् आपन्नाः / एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति / तत्र भगवान् भिक्षून् आमन्त्रयते स्म / मा भिक्षवः कलहो मा भण्डनं मा विग्रहो मा विवादः / कलहजाता यूयं भिक्षवो विहरन्तो भण्डनजाता विगृहीता (msv ii 182) विवादम् आपन्ना उत्पन्नोत्पन्नान्य् अधिकरणानि दमयिष्यथ व्युपशमयिष्यथ धर्मेण विनयेन शास्तुः शासनेन नेदं स्थानं विद्यते / अकलहजातास् तु यूयं भिक्षवो विहरन्तः अभण्डनजाता अविगृहीता अविवादम् आपन्ना उत्पन्नोत्पन्नान्य् अधिकरणानि दमयिष्यथ शमयिष्यथ व्युपशमयिष्यथ धर्मेण विनयेन शास्तुः शासनेन स्थानम् एतद् विद्यते /

भूतपूर्वं भिक्षवो ब्रह्मदत्तो नाम काशिराजो दीर्घिलश् च कोसलराजो ऽन्योन्यं प्रति विरुद्धाव् अभवताम्* / विस्तरेण दीर्घिलसूत्रं मध्यमागमे समाधिसंयुक्तके / त एवम् आहुः किं चापि / भगवान् एवम् आह /

दुःखं राजा ब्रह्मदत्तो भोगानां च परिक्षयः / विदेशमरणं दुःखं ज्ञातीनां चाप्य् अदर्शनम्* // atha bhagavāṃs tasyāṃ velāyāṃ gāthāṃ bhāṣate / {cf. uv 14.5-16; vin i 349 and 395} पृथक्छब्दाः समजवा नेदं श्रेष्ठम् इति मन्यताम्* / संघे हि भिद्यमाने हि नाबलं किंचि मन्यताम्* / अस्थिच्छिदां प्राणभृतां गवाश्वधनहारिणाम्* / राष्ट्रं विलुम्पतां चैव पुनर् भवति संगतिम्* / युष्माकं न भवेत् कस्माद् इमं धर्मं विजानताम्* //

परामृष्टा पण्डिताभासा वाणीगोचरवादिनी / व्यायच्छतां मुखाद् वामा यया नीता न ते विदुः //

परे ऽत्र न विजानन्ति वयम् अत्रोद्यमामहे / अत्र ये तु विजानन्ति तेषां शाम्यन्ति मेथकाः //

आक्रोशन् माम् अवोचन् माम् अजयन् माम् अजापयः / अत्र ये उपनह्यन्ति वैरं तेषां न शाम्यति //

आक्रोशन् माम् अवोचन् माम् अजयन् माम् अजापयन्* / अत्र ये नोपनह्यन्ति वैरं तेषां प्रशाम्यति //

न हि वैरेण वैराणि शाम्यन्तीह कदाचन / क्षान्त्या वैराणि शाम्यन्ति एष धर्मः सनातनः //

वैरं न वैरेण हि जातु शाम्यते शाम्यन्ति वैराणि अवैरताभिः / वैरप्रसंगो ह्य् अहिताय देहिनां तस्माद् धि वैरं न करोति पण्डितः //

सचेल् लभेत निपकं सहायकं सार्धंचरं साधुविहारधीरम्* / अभिभूय सर्वाणि परिस्रवाणि चरेत तेनात्तमना प्रतिस्मृतः //

नो चेल् लभेत निपकं सहायकं सार्धंचरं साधुविहारधीरम्* / राजेव राष्ट्रं विपुलं प्रहाय एकश् चरेन् न च पापानि कुर्यात्* //

चरंश् चेन् नाधिगच्छेत श्रेयः सदृशम् आत्मनः / एकचर्यां दृढां कुर्यान् नास्ति बाले सहायता //

एकस्य चरितं श्रेयो न तु बाले सहायता / अल्पोत्सुकश् चरेद् एको मातङ्गारण्यनागवत्* //

एवम् उक्ते कोशाम्बका भिक्षवो भगवन्तम् इदम् अवोचन्* / धर्मस्वामी भगवान् धर्मस्वामी सुगतः / एते ऽस्माकं वक्ष्यन्ति दुरुक्तानि दुर्भाषितानि / वयम् एषां किमर्थं मर्षयाम इति / अथ भगवांस् तेषां भिक्षूणां तया ईर्यया चर्यया विप्रतिपत्त्या अनात्तमना अनभिराद्धस् तत एव ऋद्ध्या उपरि विहायसा प्रक्रान्तो येन श्रावस्ती तेन चारिकां प्रक्रान्तो ऽनुपूर्वेण श्रावस्तीम् अनुप्राप्तः / श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे / तत्र स्विद् भगवति प्रक्रान्ते कोशाम्बकानां भिक्षूणां वैशालकानां च भिक्षूणाम् एवंरूपः ईर्यापथः संवृत्तः / पूर्वभक्ते ऽपि पिण्डपातं प्रविशन्ति पश्चाद्भक्ते द्वारं बद्ध्वा कलहं कुर्वन्ति / तथा एषां तया ईर्यया चर्यया विप्रतिपत्त्या द्वादशवर्षाणि समतिक्रान्तानि / कोशाम्बका ब्राह्मणगृहपतयः संस्थागारे परस्परं संजल्पं कर्तुम् आरब्धाः / वयं भवन्तो ऽत्यर्थं भगवतो ऽभिप्रसन्नाश् चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः / अथ च पुनर् भगवतास्य गोचरस्य द्वादशवर्षाणि परित्यक्तस्याद्यत्वेनापि नागच्छतीति / अपरे कथयन्ति / भवन्तो भगवान् इहागमिष्यतीति यत्रेदानीं कोशाम्बकानां भिक्षूणाम् इयम् एवंरूपा ईर्या चर्या विप्रतिपत्तिः / पूर्वभक्ते पिण्डपातं प्रविशन्ति पश्चाद्भक्ते द्वारं बद्ध्वा कलिं कुर्वन्तीति / अपरे त्व् आहुः / नायं भवन्त एषां दोषः किं त्व् अस्माकं ये वयम् एभ्यः पिण्डपातं प्रयच्छामः वाक्संभाषणं वा / एतं वयं क्रियाकारं व्यवस्थापयामः / नैषां (msv ii 187) केनचित् पिण्डको देयो वाक्संभाषणं चेति / ते क्रियाकारं कृत्वा व्यवस्थिताः /

यावद् अपरस्मिन् दिवसे कोशाम्बका भिक्षवः पिण्डपातं प्रविष्टाः / न केनचिद् आभाषिता नापि पिण्डको दत्तः / ते यथा धौतकेनैव पात्रेण पिण्डपातं प्रविष्टास् तथा धौतकेनैव निष्क्रान्ताः / अलब्ध्वैकां भिक्षाम् अपि ततस् तैः संभूय कोशाम्बका ब्राह्मणगृहपतय उक्ताः / भवन्तो ऽयुक्तं तावद् यत् पिण्डपातं न प्रयच्छथ / अर्थपरिक्षय इति / किम् अस्माभिर् अपराद्धं यद् वाचम् अपि न प्रयच्छथेति / ते कथयन्ति / यूयम् अपि श्रमणाः शाक्यपुत्रीया इत्य् आत्मानं प्रतिजानीध्वे / येषां शास्ता ईर्यया चर्यया विप्रतिपत्त्या अनात्तमना अनभिराद्धः / उपरि विहायसा प्रक्रान्तः / द्वादशवर्षाणि समतिक्रान्तान्य् अद्यत्वेनापि नागच्छतीति / ते तूष्णीम् एव स्थिताः / तेषां तु सकाशम् उपसंक्रम्य कथयन्ति / आयुष्मन्तः स्थाने वयम् एभिर् अवसादिताः / यः पृथिव्यां स्खलति स तान् एव निःशृत्योत्तिष्ठति / सर्वथा श्रावस्त्यां गच्छामः / भगवन्तं क्षमयामो भिक्षुसंघं चेति /

अथ कोशाम्बका भिक्षवस् तस्या एव रात्रेर् अत्ययात् समादाय पात्रचीवरम् अप्रविश्यैव कोशाम्बीं येन श्रावस्ती येन चारिकां प्रक्रान्ताः /

अश्रौषीद् आयुष्मान् आनन्दः कोशाम्बका भिक्षव आगच्छन्ति कलहकारका भण्डनकारका विग्रहकारका आधिकरणिकाः / यैर् अवमानितो भगवान् इहागतः / (283व्1 = ग्ब्म् 6.879) ते ऽस्मांश् चोदयिष्यन्ति स्मारयिष्यन्ति अलज्जितेन वा वैतरिकेण वा यन्व् अहं भगवत आरोचयेयम् इति विदित्वा येन भगवांस् तेनोपसंक्रान्तः / उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्ते ऽस्थात्* / एकान्तस्थित आयुष्मान् आनन्दो भगवन्तम् इदम् अवोचत्* / श्रुतं मया भदन्त कोशाम्बका भिक्षव इहागच्छन्ति कलहकारका भण्डनकारका विग्रहकारका विवादकारका आधिकरणिकाः / यैर् भगवान् अवमानित इहागतः / ते ऽस्मांश् चोदयिष्यन्ति स्मारयिष्यन्ति अलज्जितेन वा वैतरेण वा / एषाम् अस्माभिः कथं प्रतिपत्तव्यम्* / ते आनन्द भिक्षुभिर् नालप्तव्या न संलप्तव्या नावलोकयितव्या न विलोकयितव्या नान्यत्र हस्तव्यवहारकेण प्रत्यन्तिमानि शयनासनानि उद्देष्टव्यानि / यदि कथयन्ति वृद्धा वयं कस्मात् प्रत्यन्तानि शयनासनानि उद्दिश्यन्त इति / वक्तव्याः / यूयम् अपि श्रमणाः शाक्यपुत्रीया इत्य् आत्मानं प्रतिजानीध्वे येषां शास्ता ईर्यया चर्यया विप्रतिपत्त्या अनात्तमना अनभिराद्धस् तत एव ऋद्ध्या इहागतः कारुणिकः शास्ता येनैतद् अनुज्ञातम्* / एतद् अपि युष्माकं न प्रापद्यत इति /

अश्रौषीन् महाप्रजापती गौतमी कोशाम्बका भिक्षव आगच्छन्ति कलहकारका भण्डनकारका विग्रहकारका विवादकारका (msv ii 189) आधिकरणिका इति श्रुत्वा च पुनर् अस्यैतद् अभवत्* / गच्छामि भगवन्तम् अवलोकयामीति तेषां मया कथं प्रतिपत्तव्यम् इति विदित्वा येन भगवांस् तेनोपसंक्रान्ता / उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्ते निषण्णा / एकान्तनिषण्णा महाप्रजापती गौतमी भगवन्तम् इदम् अवोचत्* / श्रुतं मया भदन्त कोशाम्बका भिक्षव आगच्छन्ति कलहकारका भण्डनकारका विग्रहकारका विवादकारका आधिकरणिका इति / तेषां मया कथं प्रतिपत्तव्यम्* / कोशाम्बका भिक्षवस् त्वया गौतमी नालप्तव्या न संलप्तव्या नावलोकयितव्या न व्यवलोकयितव्या नान्यत् तु सहदर्शनाद् एवासनं भोक्तव्यं ज्येष्ठपर्षद् इति कृत्वा /

अश्रौषीद् अनाथपिण्डदो गृहपतिः कोशाम्बका भिक्षव आगच्छन्ति कलहकारका भण्डनकारका विग्रहकारका विवादकारका आधिकरणिका इति श्रुत्वा च पुनर् अस्यैतद् अभवत्* / गच्छामि भगवन्तम् अवलोकयामीति तेषां मया कथं प्रतिपत्तव्यम् इति विदित्वा येन भगवांस् तेनोपसंक्रान्तः / उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्ते निषण्णः / एकान्तनिषण्णो ऽनाथपिण्डदो गृहपतिर् भगवन्तम् इदम् अवोचत्* / श्रुतं मया भदन्त कोशाम्बका भिक्षव आगच्छन्ति कलहकारका भण्डनकारका विग्रहकारका विवादकारका आधिकरणिका इति तेषां मया कथं प्रतिपत्तव्यम्* / कोशाम्बका भिक्षवस् त्वया गृहपते नालप्तव्या (msv ii 190) न संलप्तव्या नावलोकयितव्या न व्यवलोकयितव्या न वन्दितव्याः पिण्डपातस् तु देयो दानं न विरुध्यते इति /

कोशांबका (284र्1 = ग्ब्म् 6.880) भिक्षवो ऽनुपूर्वेण श्रावस्तीम् अनुप्राप्ताः / तत्र पात्रचीवरं प्रतिशमय्य पादौ प्रक्षाल्य पृच्छन्ति / कः शयनासनोद्देशक इति / कल्पकारकैः समाख्यातम्* / आर्यानन्द इति / ते येनायुष्मान् आनन्दस् तेनोपसंक्रान्ताः / उपसंक्रम्यायुष्मन्तम् आनन्दम् इदम् अवोचत्* / आयुष्मन् आनन्द अस्माकं शयनासनान्य् उद्दिश्य इति / आयुष्मान् आनन्दस् तेषां प्रत्यन्तिमानि शयनासनानि हस्तव्यवहारेणोद्देष्टुम् आरब्धः / ते कथयन्ति / आयुष्मन् आनन्द वृद्धा वयम्* / कस्माद् अस्माकं प्रत्यन्तिमानि शयनासनानि उद्दिश्यन्त इति / स कथयति / यूयम् अपि श्रमणाः शाक्यपुत्रीया इत्य् आत्मानं पूर्ववद् यावद् एतद् अपि युष्माकं न प्रापद्यत इति / ते संविग्नाः कृच्छ्रेण रात्रिम् अतिनामयन्ति / अथोत्क्षिप्तकस्य भिक्षो रात्र्याः प्रत्यूशसमये स्वसन्ततिं व्यवलोकयत एतद् अभवत्* / यद् अस्माकम् उत्पन्नः कलहो भण्डनं विग्रहो विवादो यदुतापन्न इति वा अनापन्न इति वा उत्क्षिप्तक इति वा अनुत्क्षिप्तक इति वा / सो ऽहम् आपन्नो नानापन्नः / उत्क्षिप्तो नानुत्क्षिप्तः / यत् पुनर् उत्क्षिप्तो धर्मेण कर्मणा अकोप्येनास्थापनार्हेण / यन्व् अहं सन्धिं कुर्यां सामग्रीम् इति विदित्वा कल्यम् एवोत्थाय येनोत्क्षिप्तकानुवर्तका भिक्षव उत्क्षिप्तकानुवर्तकानुवर्तकाश् च तेनोपसंक्रान्तः / उपसंक्रम्योत्क्षिप्तकानुवर्तकान् भिक्षून् उत्क्षिप्तकानुवर्तकानुवर्तकांश् चेदम् अवोचत्* / इह ममायुष्मन्तो रात्र्याः प्रत्यूषसमये स्वसन्ततिं व्यवलोकयतः (msv ii 191) एतद् अभवत्* / यन् निदानं ममोत्पन्नः कलहो भण्डनं विग्रहो विवादो यदुतापन्न इति वा अनापन्न इति वा उत्क्षिप्तक इति वा अनुत्क्षिप्तक इति /

सो ऽहम् आपन्नो नानापन्नः / उत्क्षिप्तो नानुत्क्षिप्तः / यत् पुनर् उत्क्षिप्तो धर्मेण कर्मणा अकोप्येनास्थापनार्हेण / सन्धिं कुर्यां सामग्रीम् इति / यूयं किं कथयथ / ते कथयन्ति / एवं भवतु / शोभनम्* / अथोत्क्षिप्तको भिक्षुर् उत्क्षिप्तकानुवर्तका भिक्षव उत्क्षिप्तकानुवर्तकानुवर्तकांश् च येनोत्क्षिप्तको भिक्षुर् उत्क्षेपकानुवर्तका भिक्षव उत्क्षेपकानुवर्तकानुवर्तकांश् च तेनोपसंक्रान्तः / उपसंक्रम्योत्क्षेपकं भिक्षुम् उत्क्षेपकानुवर्तकानुवर्तकांश् चेदम् अवोचत्* / इह ममायुष्मन्तो रात्र्याः प्रत्यूषसमये स्वसन्ततिं व्यवलोकयत एतद् अभवत्* / यन् निदानं ममोत्पन्नः कलहो भण्डनं पूर्ववद् यावत् सन्धिं कुर्यां सामग्रीम् इति / यूयं किं करिष्यथ / ते कथयन्ति / एवं भवतु / शोभनम् इति / स तेनोत्क्षिप्तको भिक्षुर् उत्क्षिप्तकानुवर्तका भिक्षव उत्क्षिप्तकानुवर्तकानुवर्तका उत्क्षेपको भिक्षुर् उत्क्षेपकानुवर्तका भिक्षव उत्क्षेपकानुवर्तकानुवर्तकाश् च येन भगवांस् तेनोपसंक्रान्ताः / उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्ते तस्थुः / एकान्तस्थित उत्क्षेपको भिक्षुर् भगवन्तम् इदम् अवोचत्* / इह मम भदन्त रात्र्याः प्रत्यूषसमये स्वसन्ततिं व्यवलोकयत एतद् अभवत्* / पूर्वसन्धिं कुर्यां सामग्रीम् इति / तन् मया सर्व इमे भिक्षवः सामग्र्याम् उद्योजिता इति / भगवान् आह / साधु साधु भिक्षो बहुपुण्यं प्रसूयते अप्रमेयम् असंख्येयम् अप्रिमाणं यो भिक्षूणां कलहजातानां विहरतां भण्डनजातानां (284व्1 = ग्ब्म् 6.881) विगृहीतानां (msv ii 192) विवादम् आपन्नानां पक्षापरपक्षव्यवस्थितानां संधिं करोति सामग्रीम्* /

यथा हि नाम कश्चिच् छतशच् छिन्नं बालं कोट्या कोट्या प्रतिसन्दध्याद् एवम् एव बहुपुण्यं प्रसूयते अप्रमेयम् असंख्येयम् अपरिमाणं यो भिक्षूणां कलहजातानां विहरतां पूर्ववद् यावत् सन्धिं करोति सामग्रीम्* / अपि तूत्क्षिप्तकस्याहं भिक्षोर् आसमुदाचारिकान् धर्मान् प्रज्ञपयिष्यामि / उत्क्षिप्तकेन भिक्षुणा संघाद् ओसारणा याचितव्या / एवं च पुनर् याचितव्या / शयनासनप्रज्ञप्तिं कृत्वा गण्डीम् आकोट्य पृष्टवाचिकया भिक्षून् समनुयुज्य सर्वसंघे सन्निषण्णे सन्निपतिते यथावृद्धिकया सगौरवेण सामीचीं कृत्वा वृद्धान्ते उत्कुटुकेन निषद्याञ्जलिं प्रगृह्य इदं स्याद् वचनीयम्* /

शृणोतु भदन्तः संघः / यन् निदानं ममोत्पन्नः कलहो भण्डनं विग्रहो विवादो यदुतापन्न इति वा अनापन्न इति वा उत्क्षिप्तक इति वा अनुत्क्षिप्तक इति वा सो ऽहम् आपन्नो नानापन्नः उत्क्षिप्तो नानुत्क्षिप्तः / यत् पुनर् उत्क्षिप्तो धर्मेण कर्मणा अकोप्येनास्थापनार्हेण / सो ऽहम् एवंनामा उत्क्षिप्तको भिक्षुः संघाद् ओसारणं याचे / ओसारयतु मां भदन्तः संघः / यथाधर्मेण यथाविनयं प्रतिकरिष्ये / अनुकम्पयानुकम्पाम् उपादाय / एवं द्विर् अपि त्रिर् अपि / ततः पश्चाद् एकेन भिक्षुणा ज्ञप्तिं कृत्वा कर्म कर्तव्यम्* /

शृणोतु भदन्त संघः / यन् निदानम् अप्य् आयुष्मन्त उत्पन्नः कलहो भण्डनं विग्रहो विवादो यदुतापन्न इति वा / अनापन्न इति वा / उत्क्षिप्तक इति वा / अनुत्क्षिप्तक इति वा / सो ऽयम् आपन्नो नानापन्न / उत्क्षिप्तको नानुत्क्षिप्तकः / यत् पुनर् उत्क्षिप्तो धर्मेण कर्मणाकोप्येनास्थापनार्हेण (msv ii 193) / सो ऽयम् एवंनामा उत्क्षिप्तको भिक्षुः संघाद् ओसारणं याचते / सचेत् संघस्य प्राप्तकालं क्षमेतानुजानीयात् संघो यत् संघ एवंनामानं भिक्षुम् ओसारयेद् इति / एषा ज्ञप्तिः / कर्म कर्तव्यम्* /

शृणोतु भदन्तः संघः / यन् निदानम् अप्य् आयुष्मत उत्पन्नः कलहो भण्डनं विग्रहो विवादः पूर्ववद् यावत्* / सो ऽयम् एवंनामा भिक्षुः संघाद् ओसारणं याचते / तत् संघ एवंनामानं भिक्षुम् ओसारयति / येषाम् आयुष्मतां क्षमेतानुजानीयात् संघो यत् संघ एवंनामानं भिक्षुम् ओसारयेद् इति / एषा ज्ञप्तिः / कर्म कर्तव्यम्* /

शृणोतु भदन्तः संघः / यन् निदानम् अप्य् आयुष्मत उत्पन्नः कलहो भण्डनं विग्रहो विवादः पूर्ववद् यावत्* / सो ऽयम् एवंनामा उत्क्षिप्तको भिक्षुः संघाद् ओसारणं याचते / तत् संघ एवंनामानं भिक्षुम् ओसारयति / येषाम् आयुष्मतां क्षमन्ते एवंनामानम् उत्क्षिप्तकं भिक्षुम् ओसारयितुम्* / ते तूष्णीम्* / न क्षमन्ते / भाषन्ताम्* / ओसारितः संघेन एवंनामा उत्क्षिप्तको भिक्षुः / क्षान्तम् अनुज्ञातं संघेन / यस्मात् तूष्णीम् एवम् एतद् धारयामि /

ओसारणीयं कर्म / तस्याहं भिक्षोर् आसमुदाचारिकान् धर्मान् प्रज्ञपयामि / ओसारणीयकर्मकृतेन भिक्षूणा संघात् सामग्री याचयितव्या / एवं च पुनर् याचयितव्या /

शृणोतु भदन्तः संघः / यन् निदानं ममोत्पन्नः कलहो भण्डनं विग्रहो विवादो यदुतापन्न इति वा अनापन्न इति वा / उत्क्षिप्त इति वा अनुत्क्षिप्त इति वा / सो ऽहम् आपन्नो नानापन्नः / उत्क्षिप्तको नानुत्क्षिप्तकः / यत् पुनर् उत्क्षिप्तो धर्मेण कर्मणा अकोप्येनास्थापनार्हेण / तेन मया एवंनाम्ना (285र्1 = ग्ब्म् 6.882) उत्क्षिप्तकेन भिक्षुणा संघाद् ओसारणा याचिता / कृतं मम संघेनोसारणीयं कर्म / सो ऽहम् एवंनामा ओसाररणीयकर्मकृतो भिक्षुसंघात् सामग्रीं याचे / ददातु भदन्तः संघो ममैवंनाम्न ओसारितस्य भिक्षोः संघसामग्रीम्* / अनुकम्पयानुकम्पाम् उपादाय / एवं द्विर् अपि / एवं त्रिर् अपि / ततः पश्चाद् एकेन भिक्षुणा ज्ञप्तिं कृत्वा कर्म कर्तव्यम्* /

शृणोतु भदन्त संघः / यन् निदानम् अस्यायुष्मत उत्पन्नः कलहो भण्डनं विग्रहो विवादो यदुतापन्न इति पूर्ववद् यावत्* / सचेत् संघस्य प्राप्तकालं क्षमेतानुजानीयात् संघो यत् संघ एवंनाम्नः ओसारणीयकर्मकृतस्य भिक्षोः सामग्रीं दद्याद् इति / एषा ज्ञप्तिः / कर्म कर्तव्यम्* /

शृणोतु भदन्त संघः / यन् निदानम् अस्यायुष्मत उत्पन्नः कलहो भण्डनं विग्रहो विवादो यदुतापन्नः पूर्ववद् यावद् दत्ता संघेन एवंनाम्नः ओसारणीयकर्मकृतस्य भिक्षोः सामग्री / क्शान्तम् अनुज्ञातम्* / यस्मात् तूष्णीम् एवम् एतद् धारयामि / इत्य् अस्य संघेन ओसारणीयकर्मकृतस्य भिक्षोः सामग्री दत्ता भवति / तस्य संघेन सामग्री दातव्या / नात्र कौकृत्यं करणीयम्* /

संघसामग्रीदत्तकस्याहं भिक्षोर् आसमुदाचारिकान् धर्मान् प्रज्ञपयामि / संघसामग्रीदत्तकेन भिक्षुणा पोषधो याचितव्यः / एवं च पुनर् याचितव्यः / शयनासनप्रज्ञप्तिं कृत्वा पूर्ववद् यावत्* / सो ऽहम् एवंनामा संघसामग्रीदत्तकः संघात् सामग्रीपोषधं याचे / ददातु भदन्तः संघः ममैवंनाम्नः सामग्रीदत्तकस्य भिक्षोः सामग्रीपोषधम् अनुकम्पाम् उपादाय / एवं द्विर् अपि / त्रिर् अपि / ततः पश्चाद् एकेन भिक्षुणा ज्ञप्तिं कृत्वा कर्म कर्तव्यम्* /

शृणोतु भदन्तः संघः / यन् निदानम् अस्यायुष्मत उत्पन्नः कलहो भण्डनं विग्रहो विवादो यदुतापन्न इति वा पूर्ववद् यावत्* / सो ऽयम् एवंनामा संघसामग्रीदत्तकः संघात् सामग्रीपोषधं याचते / सचेत् संघस्य प्राप्तकालं क्षमेतानुजानीयात् संघो यत् संघ एवंनाम्नः संघसामग्रीदत्तकस्य भिक्षोः सामग्रीपोषधं दद्याद् इति / एषा ज्ञप्तिः / कर्म कर्तव्यम्* /

शृणोतु भदन्तः संघः / यन् निदानम् अस्यायुष्मत उत्पन्नः कलहो भण्डनं विग्रहो विवादो यदुतापन्न इति वा अनापन्न इति वा पूर्ववद् यावत्* / सो ऽयम् एवंनामा सामग्रीदत्तकः संघात् सामग्रीपोषधं याचते / तत् संघ एवंनाम्नः सामग्रीदत्तकस्य भिक्षोः सामग्रीपोषधं ददाति / एषाम् आयुष्मतां क्षमन्ते एवंनाम्नः सामग्रीदत्तकस्य भिक्षोः सामग्रीपोषधं दातुम्* / ते तूष्णीम्* / न क्षमन्ते / भाषन्ताम्* / दत्तः संघेन एवंनाम्नः सामग्रीदत्तकस्य भिक्षोः सामग्रीपोषधः / क्षान्तम् अनुज्ञातं संघेन / यस्मात् तूष्णीम् एवम् एतद् धारयामि /

यस्य संघेन सामग्रीदत्तकस्य भिक्षोः सामग्रीपोषधो दत्तो भवति तेन सार्धं संघेनैकत्ये निषद्य पोषधः कर्तव्यः प्रवारणा ज्ञप्तिः ज्ञप्तिद्वितीयं ज्ञप्तिचतुर्थं कर्म / नात्र कौकृत्यं करणीयम्* / व्यग्राः कुर्वन्ति सातिसारा भवन्ति / न च पुनर् भिक्षुणा अपोषधे पोषधम् आगमयति / सातिसारो भवति / स्थापयित्वा मङ्गल्यपोषधं सामग्रीपोषधं वा /

कोशाम्बकवस्तु समाप्तम्* //

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.