Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luật tạng
पाण्डुलोहितकवस्तु
- Thông tin
- GRETIL — Nobuyuki Yamagiwa: Das Pāṇḍulohitakavastu, Über die verschiedenen Verfahrensweisen der Bestrafung in der buddhistischen Gemeinde, Neuausgabe der Sanskrit-Handschrift aus Gilgit, tibetischer Text und deutsche Übersetzung, Marburg 2001 (Indica et Tibetica, 41). Cf. Gilgit Manuscript, ed. N. Dutt, vol. III: Mūlasarvāstivādavinayavastu, part III (Srinagar 1943), pp. 5-58: Pāṇḍulohitakavastu; dto.: second edition, Delhi 1984. GBM = Gilgit Buddhist Manuscripts (Facsimile Edition), ed. by Raghu Vira and Lokesh Chandra, 10 pts., New Delhi 1959Ō1974 (Śata-Piṭaka Series 10). (The Vinayavastu ma
पाण्डुलोहितकवस्तु
पाण्डुलोहितकवस्तु
पाण्ड्-व् § 0.1 (288व्1 = ग्ब्म् 889) // वस्तूद्दानम्* //
पाण्डुलोहितकानां वस्तू पुद्गलानां तथैव च श् अथ पारिवासिकानां पोषधस्थापनेन च श् शयनासनम् अधिकरणं संघभेदश् च पश्चिमम्* //
पाण्ड्-व् § 0.2 // पण्डुलोहितकवस्तूद्दानम्* //
पाण्डुलोहितानां तर्जनीयं श्रेयकस्य च निगर्हणीयम्* / अश्वकपुनर्वसुकानां प्रवासम् उत्तरः प्रतिसंहरे //
अदर्शनायं छन्दसस् तथैवाप्रतिकरणा / अरिष्टपापीकादृष्टिर् उदायिपंचकर्मकः // //
पाण्ड्-व् § 1.1 बुद्धो भगवां श्रावस्त्यां विहरति जेतवने अनाथपिण्डदस्यारामे / तेन खलु समयेन श्रावस्त्यां पाण्डुलोहितका भिक्षवः प्रतिवसन्ति कलहकारका भण्डनकारका विग्रहकारका विवादकारका आधिकरणिकाः / ते संघे ऽभीक्ष्णम् अधिकरणान्य् उत्पादयन्ति येन संघः कलहजातो विहरति भण्डनजातो विगृहीतो विवादम् आपन्नः / एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति / भगवान् आह / कुरुत यूयं भिक्षवः पाण्डुलोहितकानां भिक्षूणां कलहकारकाणां भण्डनकारकाणां विगृहीतानां विवादम् आपन्नानाम् आधिकरणिकानां तर्जनीयं कर्म इति / यो वा पुनर् अन्यो ऽप्य् एवंजातीयः /
पाण्ड्-व् § 1.2अ पंचभिः कारणाइस् तर्जनीयं कर्म कृतम् अधर्मकर्म च तद् अविनयकर्म च संघश् च तेन सातिसारः / कतमैः पंचभिः / अचोदयित्वा कुर्वन्त्य् अस्मारयित्वा अवस्तुकम् अप्रतिज्ञया असंमुखीभूतस्य कुर्वन्ति / पाण्ड्-व् § 1.2ब् पंचभिस् तु कारणैस् तर्जनीयं कर्म कृतं धर्मकर्म च तद् विनयकर्म च संघश् च तेन न सातिसारः / कतमैः पंचभिः / चोदयित्वा कुर्वन्ति स्मारयित्वा सवस्तुकं प्रतिज्ञया संमुखीभूतस्य कुर्वन्ति /पाण्ड्-व् § 1.3 एवं च पुनः कर्तव्यं / शयनासनप्रज्ञप्तिं कृत्वा गण्डीम् आकोट्य पृष्टवाचिकया भिक्षून् समनुयुज्य सर्वसंघे संनिषण्णे संनिपतिते एकेन भिक्षुणा ज्ञप्तिं कृत्वा कर्म कर्तव्यम्* / पाण्ड्-व् § 1.4 शृणोतु भदन्ताः संघः / इमे पाण्डुलोहितका भिक्षवः कलहकारका भण्डनकारका विग्रहकारका विवादकारका आधिकरणिकाः / त एते अभीक्ष्णं संघे अधिकरणान्य् उत्पादयन्ति येन संघः कलहजातो विहरति भण्डनजातो विगृहीतो विवादम् आपन्नः / सचेत् संघस्य प्राप्तकालं क्षमेतानुजानीयात् संघो यत् संघः पाण्डुलोहितकानां भिक्षूणां कलहकारकाणां भण्डनकारकाणां विग्रहकारकाणां विवादकारकाणाम् आधिकरणिकानां तर्जनीयं कर्म कुर्याद् इत्य् एषा ज्ञप्तिः //
पाण्ड्-व् § 1.5 ततः कर्म कर्तव्यं / शृणोतु भदन्ताः संघः / इमे पाण्डुलोहितका भिक्षवः कलहकारका भण्डनकारका विग्रहकारका विवादकारका आधिकरणिकाः / त एते अभीक्ष्णं संघे अधिकरणान्य् उत्पादयन्ति येन संघः कलहजातो विहरति भण्डनजातो विहरति विगृहीतो विवादम् आपन्नः / तत् संघः पाण्डुलोहितकानां भिक्षूणां कलहकारकाणां भण्डनकारकाणां विग्रहकारकाणां विवादकारकाणाम् आधिकरणिकानां तर्जनीयकर्म करोति / येषाम् (289र्1 = ग्ब्म् 890) आयुष्मतां क्षमते पाण्डुलोहितकानां भिक्षूणां पूर्ववद् यावत् तर्जनीयं कर्म कर्तुं ते तूष्णीं न क्षमते भाषन्ताम् / इयं प्रथमा कर्मवाचना / एवं द्वितीया तृतीया कर्मवाचना कर्तव्या // कृतं संघेन पाण्डुलोहितकानां भिक्षूणां पूर्ववद् यावत् तर्जनीयं कर्म / क्षान्तम् अनुज्ञातं संघेन यस्मात् तूष्णीम् एवम् एतद् धारयामि /
पाण्ड्-व् § 1.6 तर्जनीयकर्मकृतस्याहं भिक्षोर् आसमुदाचारिकान् धर्मान् प्रज्ञपयामि श् तर्जनीयकर्मकृतेन भिक्षुणा न प्रव्राजयितव्यं / नोपसंपादयितव्यं श् न निश्रयो देयः / न श्रमणोद्देश उपस्थापयितव्यः / न भिक्षुण्य् अववादयितव्या / न भिक्षुण्यववादकः संमन्तव्यो / नापि पूर्वसंमतेन भिक्षुण्य् अववादयितव्या / न भिक्षुश् चोदयितव्यः स्मारयितव्यः शीलविपत्त्या दृष्टिविपत्त्या आचारविपत्त्या आजीवविपत्त्या स्थापयितव्यो / न पोषधो न प्रवारणा न ज्ञप्तिकर्म न ज्ञप्तिचतुर्थं कर्म / तर्जनीयकर्मकृतो भिक्षुर् यथा प्रज्ञप्तान् आसमुदाचारिकान् धर्मान् न समादाय वर्तते सातिसारो भवति / पाण्ड्-व् § 1.7 त एवं तर्जनीयकर्मकृता उत्कचप्रकचाः संघे रोम पातयन्ति निःसरणं प्रवर्तयन्ति सामीचीम् उपदर्शयन्त्य् अन्तःसीमायां स्थित्वा ओसारणां याचन्ते कलहकारकत्वाच् च प्रतिविरमाम इति कथयन्ति / एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति श् भगवान् आह / ओसारयत यूयं भिक्षवः पाण्डुलोहितकान् भिक्षून् कलहकारकांस् तर्जनीयकर्मकृतान् इति श् यो वा पुनर् अन्यो ऽप्य् एवंजातीयः / पाण्ड्-व् § 1.8अ पंचभिर् धर्मैः समन्वागतस् तर्जनीयकर्मकृतो नोसारयितव्यः / कतमैः पंचभिः / नोत्कचप्रकचः संघे रोम पातयति श् न निःसरणं प्रवर्तयति न सामीचीम् उपदर्शयति नान्तःसीमायां स्थित्वा ओसारणां याचते श् तस्माच् च कलहकारकत्वाच् च न प्रतिविरमामीति वदत्य् / एभिः पंचभिर् धर्मैः समन्वागतः पूर्ववत्* /
पाण्ड्-व् § 1.8ब् अपरैर् अपि पंचभिर् धर्मैः समन्वागतस् तर्जनीयकर्मकृतो नोसारयितव्यः / कतमैः पंचभिः / राजकुलप्रतिसरणो भवति युक्तकुलप्रतिसरणस् तीर्थिकप्रतिसरणः पुद्गलप्रतिसरणो न संघप्रतिसरणः / एभिः पंचभिर् धर्मैः समन्वागतः पूर्ववत्* / पाण्ड्-व् § 1.8च् अपरैर् अपि पंचभिर् धर्मैः समन्वागतस् तर्जनीयकर्मकृतो नोसारयितव्यः / कतमैः पंचभिः / आगारिकध्वजं धारयति तीर्थिकध्वजं धारयति तीर्थ्यान् सेवते भजते पर्युपास्ते अनध्याचारम् आचरति भिक्षुशिक्षायां न शिक्षते / एभिः पंचभिर् धर्मैः समन्वागतः पूर्ववत्* /पाण्ड्-व् § 1.8द् अपरैर् अपि पंचभिर् धर्मैः समन्वागतस् तर्जनीयकर्मकृतो नोसारयितव्यः / कतमैः पंचभिः / भिक्षून् आक्रोशति रोषयति परिभाषते श् संघस्य च अलाभाय अवसादाय चेतयति / एभिः पंचभिर् धर्मैः पूर्ववत्* /पाण्ड्-व् § 1.9अ पंचभिस् तु धर्मैः समन्वागतस् तर्जनीयकर्मकृत ओसारयितव्यः / कतमैः पंचभिर् धर्मैः / उत्कचप्रकचः संघे रोम पातयति निःसरणं प्रवर्तयति सामीचीम् उपदर्शयत्य् अन्तःसीमायां स्थित्वा ओसारणां याचते / कलहकारकत्वाच् च प्रतिविरमामीति श् वदति श् एभिः पंचभिर् धर्मैः समन्वागतस् (289व्1 = ग्ब्म् 891) तर्जनीयकर्मकृत ओसारयितव्यः / पाण्ड्-व् § 1.9ब् अपरैर् अपि पंचभिर् धर्मैः समन्वागतस् तर्जनीयकर्मकृत ओसारयितव्यः / कतमैः पंचभिः / न राजकुलप्रतिसरणो भवति न युक्तकुलप्रतिसरणो न तीर्थिकप्रतिसरणः संघप्रतिसरणो न पुद्गलप्रतिसरणः / एभिः पंचभिर् धर्मैः समन्वागतः पूर्ववत्* //
पाण्ड्-व् § 1.9च् अपरैर् अपि पंचभिर् धर्मैः समन्वागतस् तर्जनीयकर्मकृत ओसारयितव्यः / कतमैः पंचभिः / नागारिकध्वजं धारयति न तीर्थिकध्वजं धारयति न तीर्थ्यां सेवते न भजते न पर्युपास्ते अध्याचारम् आचरति भिक्षुशिक्षायां शिक्षते श् एभिः पंचभिर् धर्मैः पूर्ववत्* /पाण्ड्-व् § 1.9द् अपरैर् अपि पंचभिर् धर्मैः समन्वागतस् तर्जनीयकर्मकृत ओसारयितव्यः / कतमैः पंचभिः / न भिक्षून् आक्रोशति न रोषयति न परिभाषते संघस्य लाभाय अनवसादाय चेतयते / एभिः पंचभिर् धर्मैः पूर्ववत्* /पाण्ड्-व् § 1.10 एवं च पुनर् ओसारयितव्यः / शयनासनप्रज्ञप्तिं कृत्वा गण्डीम् आकोट्य पृष्टवाचिकया भिक्षून् समनुयुज्य सर्वसंघे संनिषण्णे संनिपतिते पाण्डुलोहितकैर् भिक्षुभिर् यथावृद्धिकया सामीचीं कृत्वा वृद्धान्ते उत्कुटुकेन स्थित्वा अञ्जलिं प्रगृह्य इदं स्याद् वचनीयं / पाण्ड्-व् § 1.11 शृणोतु भदन्ताः संघः / वयं पाण्डुलोहितका भिक्षवः कलहकारका भण्डनकारका विग्रहकारका विवादकारका आधिकरणिकाः / ते वयम् अभीक्ष्णं संघे अधिकरणान्य् उत्पादयामो येन संघः कलहजातो विहरति भण्डनजातो विगृहीतो विवादम् आपन्नः / तेषाम् अस्माकं पाण्डुलोहितकानां भिक्षूणां कलहकारकाणां भण्डनकारकाणां विग्रहकारकाणां विवादकारकाणाम् आधिकरणिकानां संघेन तर्जनीयं कर्म कृतं / ते वयं तर्जनीयकर्मकृता उत्कचप्रकचाः संघे रोम पातयामो निःसरणं प्रवर्तयामः सामीचीम् उपदर्शयामः अन्तःसीमायां स्थित्वा ओसारणां याचामहे श् कलहकारकत्वाच् च प्रतिविरमामः ओसारयत्व् अस्माकं भदन्ताः संघः पाण्डुलोहितकान् भिक्षून्
कलहकारकान् विवादकारकान् आधिकरणिकांस् तर्जनीयकर्मकृतान् अनुकंपकः अनुकंपाम् उपादाय / एवं द्विर् अपि त्रिर् अपि / पाण्ड्-व् § 1.12 ततः पश्चाद् एकेन भिक्षुणा ज्ञप्तिं कृत्वा कर्म कर्तव्यं / शृणोतु भदन्ताः संघः / इमे पाण्डुलोहितका भिक्षवः कलहकारका यावद् आधिकरणिकाः / त एते अभीक्ष्णं संघे अधिकरणान्य् उत्पादयन्ति श् येन संघः कलहजातो विहरति भण्डनजातो विगृहीतो विवादम् आपन्नः / तद् एषां संघेन कलहकारक इति तर्जनीयकर्म कृतं / त एते तर्जनीयकर्मकृता उत्कचप्रकचाः संघे रोम पातयन्ति श् निःसरणं प्रवर्तयन्ति सामीचीम् उपदर्शयन्त्य् अन्तःसीमायां स्थित्वा ओसारणां याचन्ते / कलहकारकत्वाच् च प्रतिविरमाम इति वदन्ति श् सचेत् संघस्य प्राप्तकालं क्षमेतानुजानीयात् संघो यत् संघः पाण्डुलोहितकान् भिक्षून् ओसारयति निःसरणं प्रवर्तयति / एषा ज्ञप्तिः / पाण्ड्-व् § 1.13 ततः कर्म कर्तव्यम्* / शृणोतु भदन्ताः संघः / इमे पाण्डुलोहितका भिक्षवः कलहकारका यावद् (290र्1 = ग्ब्म् 892) आधिकरणिकाः / त एते अभीक्ष्णं संघे अधिकरणान्य् उत्पादयन्ति येन संघः कलहजातो विहरति भण्डनजातो विगृहीतो विवादम् आपन्नः / तद् एषां संघेन कलहकारका इति तर्जनीयकर्म कृतं / त एते तर्जनीयकर्मकृता उत्कचप्रकचाः संघे रोम पातयन्ति निःसरणं प्रवर्तयन्ति सामीचीम् उपदर्शयन्ति अन्तःसीमायां स्थित्वा ओसारणां याचन्ते / कलहकारकत्वाच् च प्रतिविरमाम इति वदन्ति / तत् संघः पाण्डुलोहितकान् भिक्षून् कलहकारकांस् तर्जनीयकर्मकृतान् ओसारयति / येषाम् आयुष्मतां क्षमते पाण्डुलोहितकान् भिक्षून् कलहकारकांस्
तर्जनीयकर्मकृतान् ओसारयितुं ते तूष्णीं न क्षमन्ते भाषन्तां / ओसारिताः संघेन पाण्डुलोहितका भिक्षवः कलहकारकास् तर्जनीयकर्मकृताः / क्षान्तम् अनुज्ञातं संघेन यस्मात् तूष्णीम् एवम् एतद् धारयामि //
// पाण्ड्-व् § 2.1 बुद्धो भगवां श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे श् तेन खलु समयेन श्रेयको भिक्षुर् अभीक्ष्णापत्तिको ऽभीक्ष्णं संघावशेषाम् आपत्तिम् आपद्यते श् तस्य भिक्षवः परिवासं ददन्तो मूलपरिवासं मानाप्यम् आवर्हन्तश् च बहुकृत्या भवन्ति बहुकरणीया रिंचन्त्य् उद्देशं पाठं स्वाध्यायं योगं मनसिकारम् अध्यात्मं चेतःशमथम्* / एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति / भगवान् आह / कुरुत यूयं भिक्षवः श्रेयकस्य भिक्षोर् अभीक्ष्णापत्तिकस्य निगर्हणीयं कर्म इति / यो वा पुनर् अन्यो ऽप्य् एवंजातीयः / पाण्ड्-व् § 2.2अ पंचभिः कारणैर् निगर्हणीयं कर्म कृतम् अधर्मधर्म च तद् अविनयकर्म च संघश् च तेन सातिसारः / कतमैः पंचभिः / अचोदयित्वा कुर्वन्ति अस्मारयित्वा अवस्तुकम् अप्रतिज्ञया असंमुखीभूतस्य कुर्वन्ति श् पाण्ड्-व् § 2.2ब् पंचभिस् तु कारणैर् निगर्हणीयं कर्म कृतं धर्मकर्म च तद् विनयकर्म च संघश् च तेन न सातिसारः / कतमैः पंचभिः / चोदयित्वा स्मारयित्वा कुर्वन्ति सवस्तुकं प्रतिज्ञया संमुखीभूतस्य /पाण्ड्-व् § 2.3 एवं च पुनः कर्तव्यम्* / शयनासनप्रज्ञप्तिं कृत्वा गण्डीम् आकोट्य पृष्टवाचिकया भिक्षून् समनुयुज्य सर्वसंघे संनिषण्णे संनिपतिते एकेन भिक्षुणा ज्ञप्तिं कृत्वा कर्म कर्तव्यं /पाण्ड्-व् § 2.4 शृणोतु भदन्ताः संघः / अयं श्रेयको भिक्षुर् अभीक्ष्णापत्तिकः अभीक्ष्णं संघावशेषाम् आपत्तिम् आपद्यते / तद् अस्य भिक्षवः परिवासं ददन्तो मूलपरिवासं मानाप्यम् आवर्हन्तश् च बहुकृत्या भवन्ति बहुकरणीया रिंचन्त्य् उद्देशं पाठं स्वाध्यायं योगं मनसिकारम्
अध्यात्मं चेतःशमथं / सचेत् संघस्य प्राप्तकालं क्षमेतानुजानीयात् संघो यत् संघः श्रेयकस्य भिक्षोर् अभीक्ष्णापत्तिकस्य निगर्हणीयं कर्म कुर्याद् इत्य् एषा ज्ञप्तिः / पाण्ड्-व् § 2.5 एवं च कर्म कर्तव्यम्* / शृणोतु भदन्ताः संघः / अयं श्रेयको भिक्षुर् अभीक्ष्णापत्तिकः अभीक्ष्णं संघावशेषाम् आपत्तिम् आपद्यते / तद् अस्य भिक्षवः परिवासं ददन्तो मूलपरिवासं मानाप्यम् आवर्हन्तश् च बहुकृत्या भवन्ति बहुकरणीया रिंचन्त्य् उद्देशं पाठं स्वाध्यायं योगं मनसिकारम् अध्यात्मं चेतःशमथं / तत् संघः श्रेयकस्य भिक्षोर् अभीक्ष्णापत्तिकस्य निगर्हणीयं कर्म करोति / येषाम् आयुष्मतां क्षमते श्रेयकस्य (290व्1 = ग्ब्म् 893) भिक्षोर् अभीक्ष्णापत्तिकस्य निगर्हणीयं कर्म कर्तुं ते तूष्णीं न क्षमते भाषन्ताम्* / इयं प्रथमा कर्मवाचना / एवं द्वितीया तृतीया कर्मवाचना कर्तव्या / कृतं संघेन श्रेयकस्य भिक्षोर् अभीक्ष्णापत्तिकस्य निगर्हणीयं कर्म / क्षान्तम् अनुज्ञातं संघेन यस्मात् तूष्णीम् एवम् एतद् धारयामि //
पाण्ड्-व् § 2.6 निगर्हणीयकर्मकृतस्याहं भिक्षोर् आसमुदाचारिकान् धर्मान् प्रज्ञपयामि / निगर्हणीयकर्मकृतेन भिक्षुणा न प्रव्राजयितव्यं / नोपसंपादयितव्यं / न निश्रयो देयो / न श्रमणोद्देश उपस्थापयितव्यः पूर्ववद् यावत् तर्जनीयकर्मकृतस्य वक्तव्यं / निगर्हणीयकर्मकृतो भिक्षुर् यथा प्रज्ञप्तान् आसमुदाचारिकान् धर्मान् न समादाय वर्तते सातिसारो भवति //
पाण्ड्-व् § 2.7 स एवं निगर्हणीयकर्मकृत उत्कचप्रकचः संघे रोम पातयति पूर्ववद् यावत्* अन्तःसीमायां स्थित्वा ओसारणां याचते / अभीक्ष्णापत्तिकत्वाच् च प्रतिविरमामीति वदति / एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति / भगवान् आह / ओसारयत यूयं भिक्षवः श्रेयकस्य भिक्षोर् निगर्हणीयकर्मकृतस्य इति यो वा पुनर् अन्यो ऽप्य् एवंजातीयः / पाण्ड्-व् § 2.8 पंचभिर् धर्मैः समन्वागतो निगर्हणीयकर्म कृतः ओसारयितव्यः / कतमैः पंचभिः / उत्कचप्रकचः संघे रोम पातयति श् निःसरणं प्रवर्तयति सामीचीम् उपदर्शयति अन्तःसीमायां स्थित्वा ओसारणां याचते श् अभीक्ष्णापत्तिकत्वाच् च प्रतिविरमामीति श् वदति श् पाण्ड्-व् § 2.9 एवं च पुनर् ओसारयितव्यः / शयनासनप्रज्ञप्तिं कृत्वा गण्डीम् आकोट्य पृष्टवाचिकया भिक्षून् समनुयुज्य सर्वसंघे संनिषण्णे संनिपतिते श्रेयकेन भिक्षुणा वृद्धान्ते उत्कुटुकेन स्थित्वा अंजलिं प्रगृह्य इदं स्याद् वचनीयं /पाण्ड्-व् § 2.10 शृणोतु भदन्ताः संघः / अहं श्रेयको भिक्षुर् अभीक्ष्णापत्तिकः अभीक्ष्णं संघावशेषाम् आपत्तिम् आपद्ये / तन् मे भिक्षवः परिवासं ददन्तो मूलपरिवासं मानाप्यावर्हणश् चेति / बहुकृत्या भवन्ति बहुकरणीया रिंचन्त्य् उद्देशं पाठं स्वाध्यायं योगं मनसिकारम् अध्यात्मं चेतःशमथं / मम संघेन निगर्हणीयं कर्म कृतं / सो ऽहं निगर्हणीयकर्मकृत उत्कचप्रकचः संघे रोम पातयामि / निःसरणं प्रवर्तयामि / सामीचीम् उपदर्शयामि श् अन्तःसीमायां स्थित्वा ओसारणां याचे / अभीक्ष्नापत्तिकत्वाच् च प्रतिविरमामि / ओसारयतु मां भदन्ताः संघः श्रेयकं भिक्षुम् अभिक्ष्णापत्तिकं
निगर्हणीयकर्मकृतम् अनुकंपको ऽनुकंपाम् उपादाय / एवं द्विर् अपि त्रिर् अपि /पाण्ड्-व् § 2.11 ततः पश्चाद् एकेन भिक्षुणा ज्ञप्तिं कृत्वा कर्म कर्तव्यम्* / शृणोतु भदन्ताः संघः / अयं श्रेयको भिक्षुर् अभीक्ष्णापत्तिकः पूर्ववद् यावद् अध्यात्मं चेतःशमथं / तस्य संघेनाभीक्ष्णापत्तिक इति निगर्हणीयं कर्म कृतम् ओसारयेद् इत्य् एषा ज्ञप्तिः / एवं च कर्म कर्तव्यम्* / निगर्हणीयकर्मकृत उत्कचप्रकचः संघे रोम पातयति पूर्ववद् यावद् अभीक्ष्णापत्तिकत्वाच् च प्रतिविरमामीति वदति श् सचेत् संघस्य प्राप्तकालं क्षमेतानुजानीयात् संघो यत् संघः श्रेयकं भिक्षुम् अभीक्ष्णापत्तिकं निगर्हणीयकर्मकृतम् ओसारयेद् इत्य् एषा ज्ञप्तिः / पाण्ड्-व् § 2.12 एवं च कर्म कर्तव्यं / शृणोतु भदन्ताः संघः / अयं (291र्1 = ग्ब्म् 889) भदन्त श्रेयको भिक्षुर् अभीक्ष्णापत्तिकः अभीक्ष्णं संघावशेषाम् आपत्तिम् आपद्यते / ददतास्य भिक्षवः परिवासं भदन्त पूर्ववद् यावद् अध्यात्मं चेतःशमथं / तद् अस्य संघेनाभीक्ष्णापत्तिक इति निगर्हणीयं कर्म कृतं सो ऽयं श्रेयको भिक्षुर् अभीक्ष्णापत्तिको निगर्हणीयकर्मकृत उत्कचप्रकचः संघे रोम पातयति निःसरणं प्रवर्तयति श् सामीचीम् उपदर्शयति अन्तःसीमायां स्थित्वा ओसारणां याचते अभीक्ष्णापत्तिकत्वाच् च प्रतिविरमामीति वदति / तत् संघः श्रेयकं भिक्षुम् अभीक्ष्णापत्तिकं निगर्हणीयकर्मकृतम् ओसारयति श् येषाम् आयुष्मतां क्षमते श्रेयकं भिक्षुम् अभीक्ष्णापत्तिकं निगर्हणीयकर्मकृतम् ओसारयितुं ते तूष्णीं न क्षमते भाषन्तां / इयं प्रथमा कर्मवाचना एवं द्वितीया तृतीया कर्मवाचना कर्तव्या //
ओसारितः संघेन श्रेयको भिक्षुर् अभीक्ष्णापत्तिको निगर्हणीयकर्मकृतः / क्षान्तम् अनुज्ञातं संघेन यस्मात् तूष्णीम् एवम् एतद् धारयामि //
// पाण्ड्-व् § 3.1 बुद्धो भगवां श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे श् तेन खलु समयेन किटागिरीयकाव् अश्वकपुनर्वसुकौ भिक्षू प्रतिवसतः कुलदूषकौ पापधर्मसमुदाचारौ / ताव् इमान्य् एवंरूपाण्य् अश्रामणकानि कर्माणि कुरुतः कारयतः / तद्यथा मातृग्रामेण सार्धं संचग्घतः संक्रीडतः संकिलिकिलायेते श् औद्धत्यं द्रवं कायतान्त्यं कुरुतः अपीदानीम् एकासने निषीदतः / एकपंक्त्यां भुंजाते / एकशिरावके विविधानि मद्यपानानि पिबतः / पुष्पाण्य् उच्चिनुतः उच्चायतः / माला ग्रथ्नीतः ग्रथ्नापयतः / अवतंसकान् बध्नीतः बध्नयतः / नृत्यतः नर्तयतः / गायतः गायापयतः / वादतः वादापयतः / सुनृत्येषु सुगीतेषु सुवादितेषु लालाटिकाम् अनुप्रयच्छतः / चीवरकानि संहृत्य धावतः द्रवतः प्रद्रवतः / ऊरुपरिवर्तम् अपि कुरुतः बाहुपरिवर्तम् अपि / रोहितावर्तम् अपि / जलशिक्यकयापि विध्यतः / जलयन्त्रकं जलभेरिकाम् अपि वादयतः / हस्तिक्रौञ्चम् अपि क्रूञ्चतः अश्वहेषितम् अपि हेषतः / ऋषभगर्जितम् अपि गर्जतः / मुखदुन्दुभिकाम् अपि वादयतः / मुखशङ्खं मुखभेरीं मयूरविरुतम् अपि केकायेते / कोकिलविरुतम् अपि बिकूजतः / हस्तियुद्धम् अपि कुरुतः / अश्वयुद्धम् ऋषभयुद्धं महिषयुद्धम् अजयुद्धं पिण्डकयुद्धं स्त्रीयुद्धं पुरुषयुद्धं कुमारकयुद्धं कुमारिकायुद्धं कुक्कुटयुद्धं वर्तकयुद्धं लावकयुद्धं कुरुतः कारयतः / इमानि चान्यानि चाश्रामणकानि कर्माणि कुरुतः कारयतः / तयोस् तया ईर्यया चर्यया प्रतिपत्त्या किटागिरिम् अनागताश् च भिक्षवो नागच्च्गन्त्य् / आगताश् च नाभिरमन्ते त्यजन्ति किटागिरौ वासं /
किटागिरिनिवासिनश् च ब्राह्मणगृहपतयो नात्तमनसो नाभिराद्धाः / नैवासिकानाम् अपि चिरानुगतानां कृच्छ्रेण पिण्डकं दातव्यं कर्तव्यं मन्यन्ते / कः पुनर् वाद आगन्तुकानां / पाण्ड्-व् § 3.2 यावद् अपरेण समयेनायुष्मान् आनन्दः काशीषु जनपदेषु चारिकां चरं किटागिरिम् अनुप्राप्तः / किटागिरौ विहरति (291व्1 = ग्ब्म् 895) किटागिरीयके दावे / अथायुष्मान् आनन्दः पूर्वाह्णे निवास्य पात्रचीवरम् आदाय किटागिरिं पिण्डाय प्रविष्टः श् स यथा धौतेन पात्रेण किटागिरिं पिण्डाय प्रविष्टस् तथा धौतेनैव पात्रेण प्रतिनिष्क्रान्तो ऽलब्ध्वा दानम् अलब्ध्वाप्रत्याख्यानम्* अन्तत एकभिक्षाम् अपि / अथायुष्मत आनन्दस्यैतद् अभवत्* / पूर्वे चायं किटागिरि ऋद्धश् चाभूत्* स्फीतश् च क्षेमश् च सुभिक्षश् चाकीर्णबहुजनमनुष्यश् च सुलभश् चारुपिण्डको याचनकेन / एतर्ह्य् अप्य् अयं किटागिरि ऋद्धश् च स्फीतश् च क्षेमश् च सुभिक्षश् चाकीर्णबहुजनमनुष्यश् च / अथ च पुनर् अहं यथा धौतेनैव पात्रेण प्रविष्टस् तथा धौतेन पात्रेण प्रतिनिष्क्रान्तो ऽलब्ध्वा दानम् अलब्ध्वा प्रत्याख्यानं अन्तत एकभिक्षाम् अपि / मा हैवात्र केनचिद् भगवतः श्रावकेन मूढेनाव्यक्तेनाकुशलेन क्लेशवशात् कुलस्त्री वा कुलकुमारी वा आभाषिता वा भविष्यत्य् आमृष्टा वा परिभाषिता /
पाण्ड्-व् § 3.3 तेन खलु समयेन किटागिरीयकानां ब्राह्मणगृहपतीनां संस्थागारे पंचमात्राणि ब्राह्मणगृहपतिशतानि संनिषण्णानि संनिपतितानि केनचिद् एव करणीयेन / अथायुष्मान् आनन्दो येन किटागिरीयकानां ब्राह्मणगृहपतीनां संस्थागारस् तेनोपसंक्रान्तः / उपसंक्रम्य किटागिरीयकान् ब्राह्मणगृहपतीन् इदम् अवोचत्* / पूर्वे चायं भवन्त किटागिरिः पूर्ववद् यावद् अलब्ध्वा एकभिक्षाम् अपि / एवम् उक्ताः किटागिरीयका ब्राह्मणगृहपतय इन्द्रियाण्य् उत्क्षिप्यावस्थिताः श् पाण्ड्-व् § 3.4 तेन खलु समयेनोदकप्लोतिक उपासकस् तस्याम् एव परिषदि संनिषण्णो ऽभूत् संनिपतितः / अथोदकप्लोतिक उपासिक आयुष्मन्तम् आनन्दं बाहुं गृहीत्वा एकान्ते प्रक्रम्यायुष्मन्तम् आनन्दम् इदम् अवोचत्* / यत् खलु भदन्तानन्द जानीया अस्मिन् किटागिराव् अश्वकपुनर्वसुकौ भिक्षू प्रतिवसतः कुलदूषकौ पापधर्मसमुदाचारौ तौ मातृग्रामेण सार्धं संचग्घतः पूर्ववद् यावद् /पाण्ड्-व् § 3.5 आयुष्मन्न् आनन्द पूर्ववद् यावद् यथा संघावशेषे कुलदूषकशिक्षापदे अश्वकपुनर्वसुकयोर् भिक्ष्वोः प्रवासनीयं कर्म कुरु /पाण्ड्-व् § 3.6 एवं च पुनः कर्तव्यं / अन्तर्मार्गे स्थित्वा चोदको भिक्षुः संमन्तव्यः / पंचभिर् धर्मैः समन्वागतश् चोदको भिक्षुः पूर्ववद् यावत् कर्म कुर्वन्ति / पाण्ड्-व् § 3.7 शृणोतु भदन्ताः संघः / इमाव् अश्वकपुनर्वसुकौ भिक्षू कुलदूषकौ पापधर्मसमुदाचारौ / आभ्यां कुलानि दूषितानि दृश्यन्ते ऽपि श्रूयन्ते ऽपि प्रज्ञायन्ते ऽपि / पापकाश् चानयोः समुदाचारा दृश्यन्ते ऽपि श्रूयन्ते ऽपि प्रज्ञायन्ते ऽपि / सचेत् संघस्य प्राप्तकालं क्षमेतानुजानीयात् संघो यत् संघः
अश्वकपुनर्वसुकयोर् भिक्ष्वोः कुलदूषकयोः पापधर्मसमुदाचारिणोः प्रवासनीयं कर्म कुर्याद् इत्य् एषा ज्ञप्तिः //
एवं च कर्म कर्तव्यं पूर्ववद् यावद् एवं द्वितीया तृतीया कर्मवाचना कर्तव्या श् //
// पाण्ड्-व् § 4.1 बुद्धो भगवां श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारमे श् तेन खलु समयेन श्रावस्त्याम् अन्यतम श्रेष्ठी प्रतिवसति आढ्यो महाधनो महाभोगः / (292र्1 = ग्ब्म् 896) तेन सदृशात् कुलात् कलत्रम् आनीतं / स तया सार्धं क्रीडति रमते परिचारयति / तस्य क्रीडतो रममाणस्य परिचारयतः पत्नी आपन्नसत्वा संवृत्ता / सा अष्टानां वा नवानां वा मासानाम् अत्ययाद् उत्तरे नक्षत्रे प्रसूता / दारको जातः / तस्य ज्ञातयः संगम्य समागम्य त्रीणि सप्तकान्य् एकविंशतिदिवसां जातस्य जातिमहं कृत्वा नामधेयं व्यवस्थापयन्ति / किं भवतु दारकस्य नामेति / तेषाम् एतद् अभवत्* / यस्माद् अयं दरक उत्तरे नक्षत्रे जातस् तस्माद् भवतु दारकस्य उत्तर इति नामेति श् तस्य उत्तर इति नामधेयं व्य्वस्थापितं / स उन्नीयते वर्धते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिर्मण्डेनान्यैश् चोत्तप्तोत्तप्तैर् उपकरणविशेषैर् आशुर् वर्ध्यते ह्रदस्थम् इव पंकजं / स यदा महान् संवृत्तस् तदा लिप्याम् उपन्यस्तः संख्यायां गणनायां मुद्रायां उद्धारे न्यासे निःक्षेपे लिप्याः पारं गतः / उग्धाटको वाचकः पण्डितः पटुप्रचारो ऽष्टासु परीक्षासु कृतावी संवृत्तः / तद्यथा रत्नपरीक्षायां वस्त्रपरीक्षायां वस्त्रपरीक्षायां दारुपरीक्षायां हस्तिपरीक्षायाम् अश्वपरीक्षायां स्त्रीपरीक्षायां पुरुषपरीक्षायां च कृतावी संवृत्तः / यावद् अस्य पिता कालगतः / उत्तरो गृहस्वामी संवृत्तः / तेनापणः प्रसारितः क्रीणाति विक्रीणीते / क्रयविक्रयेण जीविकां कल्पयति /पाण्ड्-व् § 4.2 सो ऽपरेण समयेन भगवतः सकाशम् उपसंक्रान्तः / तस्य भगवद्दर्शनात् सद्धर्मश्रवणाच् च
भगवच्छासने प्रसादो जातः / प्रसादजातश् च प्रव्रज्याभिलाषी संवृत्तः / स मातुः सकाशम् उपसंक्रम्य कथयत्य् अंबानुजानीहि स्वाख्याते धर्मविनये प्रव्रजामीति / सा कथयति त्वं ममैकपुत्रो यावद् अहं जीवामि तावन् न प्रव्रजितव्यं / मृतायां मयि यथेष्टं करिष्यसीति श् स कथयत्य् अंब समयेनाहं न प्रव्रजामि यदि त्वं दिवसे दिवसे संघोद्दिष्टकान् भिक्षून् भाजयसीति / सा कथयति पुत्र एवं करोमीति श् स चोत्तरो यत् किंचिद् उपार्जयति तत् सर्वं मात्रे ऽनुप्रयच्छति श् अम्बानेन श्रमणब्राह्मणान् प्रतिपादयेति श् सास्य माता मत्सरी कुटुकुंचिका आगृहीतपरिष्कारा काकायापि बलिं न प्रदातुं व्यवस्यति प्राग् एव श्रमणब्राह्मणान् प्रतिपादयिष्यति श् ये तु श्रमणब्राह्मणाः पिण्डार्थिनस् तं गृहं प्रविशन्ति तान् परिभाषते तर्जयति च / प्रेतोपन्ना इव यूयं नित्यं परगृहेभ्यो भिक्षाम् अटतेति / तं च पुत्रं विप्रलंभयति अद्य मया इयन्तो भिक्षवो भोजिता इयतान् श्रमणब्राह्मणानां भिक्षा दत्तेति श् सा तेन मात्सर्येणासेवितेन भावितेन बहुलीकृतेन कालं कृत्वा प्रेतेषूपपन्ना / उत्तरो ऽपि मातृवियोगाद् दानानि दत्वा पुण्यानि कृत्वा स्वाख्याते धर्मविनये प्रव्रजितः /पाण्ड्-व् § 4.3 सो ऽपरेण समयेन म्रक्षषण्डायां व्यवस्थितः / तम् आगम्य म्रक्षषण्डानिवासी चित्रो गृहपतिर् भगवच्छासने प्रसन्नः / सो ऽतीव बुद्धधर्मसंघेषु कारान् करोति / म्रक्षषण्डा नानादेशाभ्यागतानां भिक्षूणां प्रतिसरणं संवृत्तः / यावद् अपरेण समयेनायुष्मत (292व्1 = ग्ब्म् 897) उत्तरस्यान्यतमस्मिन् कर्वटके किंचित् करणीयम् उत्पन्नं / स तत्र गतः / आयुष्मांश् चोपसेनो वल्गन्तीपुत्रो
पंचशतपरिवारो जनपदचारिकां चरं म्रक्षषण्डाम् अनुप्राप्तः / अश्रौषीच् चित्रो गृहपतिर् यथा उपसेनो वल्गन्तीपुत्रः पंचशतपरिवारो जनपदचारिकां चरन्न् इहानुप्राप्त इति / श्रुत्वा च पुनर् येनायुष्मान् उपसेनस् तेनोपसंक्रान्तः / उपसंक्रम्यायुष्मत उपसेनस्य पादौ शिरसा वन्दित्वैकान्ते निषण्णः / एकान्तनिषण्णं चित्रं गृहपतिम् आयुष्मान् उपसेनो धर्म्यया कथया संदर्शयति समादापयति समुत्तेजयति संप्रहर्षयत्य् / अनेकपर्यायेण धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्य तूष्णीम् / अथ चित्रो गृहपतिर् उत्थायासनाद् एकांसम् उत्तरासंगं कृत्वा येनायुष्मान् उपसेनस् तेनांजलिं प्रणमय्यायुष्मन्तम् उपसेनम् इदम् अवोचत्* / अधिवासयतु मे आर्य उपसेनश् चान्तर्गृहे भक्तेन सार्धं भिक्षुसंघेनेत्य् / अधिवासयति आयुष्मान् उपसेनश् चित्रस्य गृहपतेस् तूष्णींभावेन / अथ चित्रो गृहपतिर् आयुष्मत उपसेनस्य तूष्णींभावेनाधिवासनां विदित्वा शुचिप्रणीतं खादनीयभोजनीयं समुदानीय काल्यम् एवोत्थायासनकानि प्रज्ञपयत्य् /पाण्ड्-व् § 4.4 आयुष्मांश् चोत्तरस् तस्मात् कर्वटकाद् आगतः / यावत् पश्यति न शयनासनप्रज्ञप्तिं नाप्य् आहारम् उपान्वाहृतं / स आरामिकान् आमन्त्रयते / भवन्त किम् अल्पोत्सुकास् तिष्ठथ नासनप्रज्ञप्तिः क्रियते नाप्य् आहार उपान्वाह्रियते / किं भिक्षुसंघेन भक्तच्छेदः करणीय इति / ते कथयन्ति चित्रेण गृहपतिना भिक्षुसंघो ऽन्तर्गृहे भक्तेनोपनिमन्त्रितः / किं ममागम्य / न त्वाम् आगम्य ऽपि तु आर्यम् उपसेनं वल्गन्तीपुत्रं / पंचसतपरिवारो जनपदचारिकां चरन्न् इहानुप्राप्तः / स श्रुत्वा संजातामर्षः कथयति / अहं तस्य सर्वत्र
पूर्वंगमः श् कथम् असौ मां प्रत्याख्यायायुष्मन्तम् उपसेनं वल्गन्तीपुत्रं भिक्षुसंघम् उपनिमन्त्रयति श् गच्छामि तावत् पश्यामीति / स येन चित्रो गृहपतिस् तेनोपसंक्रान्तो यावत् पश्यति चित्रं गृहपतिम् आसनप्रज्ञप्तिं क्रियमाणं / स भूयस्या मात्रया पर्यवस्थितः /पाण्ड्-व् § 4.5 चित्रेण गृहपतिनाभिहितः / आर्य शोभना आसनप्रज्ञप्तिः शोभनश् चाहार इति / चित्रो गृहपतिस् तिलपूपलिकावणिग् आसीद् / उत्तरः कथयति गृहपते शोभना आसनप्रज्ञप्तिः शोभनश् चाहार / किं तु तिलपूपलिका नास्ति / स कथयति / भदन्तोत्तर विज्ञातं / तेन ह्य् उपमां तावच् छृणु : उपमया च पुनर् इहैके विज्ञपुरुषा भाषितस्यार्थम् आजानन्ति श् भूतपूर्वं भदन्तोत्तर संबहुला जांबूद्वीपका वणिजः सामुद्रं यानपात्रं प्रतिपाद्य काकं कुक्कुटीं चादाय महासमुद्रम् अवतीर्णा धनहारकाः / यावद् असौ कुक्कुटी कुक्कुटम् अलभमाना काकेन सार्धं संवासं गता : तयोः संवासाच् छावको जातः / स काककुक्कुटीकं वाश्यते न काको न कुक्कुटः / एवम् एव त्वं मोक्षार्थी प्रव्रजितो मोक्षमार्गम् अलभमानो यद् वा तद् वा (293र्1 = ग्ब्म् 898) प्रलपसीति / एवम् उक्ते आयुष्मान् उत्तरस् ताडककुंचिकां च तस्य पुरस्ताद् उत्सृज्य संप्रस्थितः /पाण्ड्-व् § 4.6 तेनोक्तः / भदन्त उत्तर कुत्र गच्छसि / श्रावस्तीं / स्वचित्तं प्रतिलभस्व इहैव तिष्ठ मा गच्छ / स्थानम् एतद् विद्यते यत् त्वया पुनर् आगत्याहम् एव क्षमयितव्य इति / तस्य वचनम् अवचनीकृत्य समादाय पात्रचीवरं येन श्रावस्ती तेन चारिकां प्रक्रान्तो ऽनुपूर्वेण चारिकां चरं श्रावस्तीम् अनुप्राप्तः / स भिक्षुभिर् दृष्टः उक्तश् च / स्वागतं स्वागतम्
आयुष्मन्न् उत्तर प्रीता वयं त्वद्दर्शनेन नो त्व् आगमनेन / किं करणम्* श् त्वम् आगम्य चित्रो गृहपतिर् म्रक्षषण्डायां बुद्धधर्मसंघेषु कारान् करोति / आगन्तुकानां च गामिकानां च म्रक्षषण्डा प्रतिसरणम्* / अस्त्य् एतद् एवं / मया चित्रो गृहपतिर् अवस्फण्डितः / यथा कथं तेन यथावृत्तम् आरोचितं / एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति श् भगवान् आह श् कुरुत यूयं भिक्षवः उत्तरस्य भिक्षोर् गृहपत्i-r-avasphaण्डकस्य प्रतिसंहरणीयं कर्म इति / यो वा पुनर् अन्यो ऽपि एवंजातीयः /पाण्ड्-व् § 4.7 पंचभिः कारणैः प्रतिसंहरणीयकर्मकृतम् अधर्मकर्म च तद् अविनयकर्म च भवति पूर्ववद् यावद् असंमुखीभूतस्य कुर्वन्ति / एवं च पुनः कर्तव्यम्* / शयनासनप्रज्ञप्तिं कृत्वा गण्डीम् आकोट्य पृष्टवाचिकया भिक्षून् समनुयुज्य सर्वसंघे संनिषण्णे संनिपतिते एकेन भिक्षुणा ज्ञप्तिं कृत्वा कर्म कर्तव्यं / पाण्ड्-व् § 4.8 शृणोतु भदन्ताः संघः / अनेनोत्तरेण भिक्षुणा चित्रो गृहपतिर् अवस्फण्डितः / सचेत् संघस्य प्राप्तकालं क्षमेतानुजानीयात् संघो यत् संघ उत्तरस्य भिक्षोर् गृहपत्i-r-avasphaण्डकस्य प्रतिसंहरणीयं कर्म कुर्याद् इत्य् एषा ज्ञप्तिः श्
पाण्ड्-व् § 4.9 ततः कर्म कर्तव्यं / शृणोतु भदन्ताः संघः / अनेनोत्तरेण भिक्षुणा म्रक्षषण्डायां चित्रो गृहपतिर् अवस्फण्डितः / तत् संघ उत्तरस्य भिक्षोर् गृहपत्i-r-avasphaण्डकस्य प्रतिसंहरणीयं कर्म करोति / येषाम् आयुष्मतां क्षमते उत्तरस्य भिक्षोर् गृहपत्i-r-avasphaण्डकस्य प्रतिसंहरणीयं कर्म कर्तुं ते तूष्णीं / न क्षमते भाषन्तां / इयं प्रथमा कर्मवाचना / एवं द्वितीया तृतीया कर्मवाचना कर्तव्या / कृतं संघेन उत्तरस्य भिक्षोर् गृहपत्i-r-avasphaण्डकस्य प्रतिसंहरणीयं कर्म / क्षान्तम् अनुज्ञातं संघेन यस्मात् तूष्णीम् एवम् एतद् धारयामि // पाण्ड्-व् § 4.10 प्रतिसंहरणीयकर्मकृतस्याहं भिक्षोर् आसमुदाचारिकान् धर्मान् प्रज्ञपयामि / प्रतिसंहरणीयकर्मकृतेन भिक्षुणा न प्रव्राजयितव्यं पूर्ववद् यावत्* / स एवं प्रतिसंहरणीयकर्मकृत उत्कचप्रकचः संघे रोम पातयति / निःसरणं प्रवर्तयति / सामीचीम् उपदर्शयति / अन्तःसीमायां च स्थित्वा ओसारणां याचते / गृहपत्i-r-avasphaण्डकत्वाच् च प्रतिविरमामीति वदति / एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति / भगवान् आह श् ओसारयत यूयं भिक्षव उत्तरं भिक्षुं प्रतिसंहरणीयकर्मकृतम् इति / यो वा पुनर् अन्यो ऽपि एवंजातीयः / पाण्ड्-व् § 4.11 पंचभिर् धर्मैः प्रतिसंहरणीयकर्मकृत ओसारयितव्यः / कतमैः पंचभिः / उत्कचप्रकचः पूर्ववद् यावद् गृहपत्यवस्फण्डकत्वाच् च प्रतिविरमामीति वदति / (293व्1 = ग्ब्म् 899) एवं च पुनर् ओसारयितव्यः / शयनासनप्रज्ञप्तिं कृत्वा गण्डीम् आकोट्य पृष्टवाचिकया भिक्षून् समनुयुज्य सर्वसंघे संनिषण्णे संनिपतिते एकेन भिक्षुणा ज्ञप्तिं कृत्वा कर्म कर्तव्यं श्
पाण्ड्-व् § 4.12 शृणोतु भदन्ताः संघः / अनेनोत्तरेण भिक्षुणा म्रक्षषण्डायां चित्रो गृहपतिर् अवस्फण्डितः / तद् अस्य संघेन गृहपतिर् अवस्फण्डक इति कृत्वा प्रतिसंहरणीयकर्म कृतं / सो ऽयम् उत्तरो भिक्षुः प्रतिसंहरणीयकर्मकृत उत्कचप्रकचः पूर्ववद् यावद् गृहपत्यवस्फण्डकत्वाच् च प्रतिविरमामीति वदति / सचेत् संघस्य प्राप्तकालं क्षमेतानुजानीयात् संघो यत् संघः उत्तरं भिक्षुं प्रतिसंहरणीयकर्मकृतम् ओसारयेद् इत्य् एषा ज्ञप्तिः // ततो वक्तव्यो गच्छ तं गृहपतिं क्षमय ओसारितो भविष्यसीति श्
पाण्ड्-व् § 4.13 स भिक्षुभिर् एवम् अभिहितो येन म्रक्षषण्डा तेन चारिकां प्रक्रान्तो ऽनुपूर्वेण चारिकां चरं म्रक्षषण्डाम् अनुप्राप्तः / ततो मार्गश्रमं प्रतिविनोद्य येन चित्रो गृहपतिस् तेनोपसंक्रान्तः श् उपसंक्रम्य दक्षिणं बाहुम् अभिप्रसार्य कथयति श् क्षमस्व मम गृहपते श् क्षान्तं भदन्तोत्तर श् यद्य् एवम् इहैव प्रतिवस / गच्छामि तावद् येन ममापराध्हं तस्य निग्रहं करोमि / किं मयापराध्हं / न तव येन ममापराद्धं श्
पाण्ड्-व् § 4.14 अथायुष्मान् उत्तरो गंगातीरं गत्वा त्रिभिस् तालवृन्दैः कुटिकां कृत्वा वर्षा उपगतः / तेन शवशीर्षोपमं पात्रं धारितं / तस्य नातिदूरे मार्गस् तेन सततं गोपाङ्गना गच्छति श् स तासां पात्रं प्रसारयति श् तस्मिन् दधिं वा क्षीरं वा उदश्विं वानुप्रयच्छन्ति श् तत् परिभुज्य ध्यानसमाधिसमापत्तिसुखानि अभिनामयति श् पाण्ड्-व् § 4.15 यावद् अपरेण समयेन द्वे गोपाङ्गने गच्छतो माता दुहिता च श् दुहिता मातुः कथयत्य् अम्ब एष आर्यो मूक इति श् सा कथयति पुत्रि नैष मूकः नूनम् अनेन कस्यचिद् वाचा अपराद्धम्* तस्या एष निग्रहं करोतीति श् अम्ब किम् एतद् एवं भविष्यति श् पुत्रि स्वो ऽहं तव प्रत्यक्षीकरिष्यामीति श् यावद् अपरस्मिन् दिवसे मथितघटं गृहीत्वा दुहितृसमेता तं प्रदेशम् आगता / आयुष्मता उत्तरेण पात्रं प्रसारितम्* / सा तस्य पात्रं मथितस्य पूरयितुम् आरब्धा श् आयुष्मान् उत्तरः पात्रं चालयति / सा ददात्य् एव न संतिष्ठते / आयुष्मान् उत्तरः कथयति अलं भगिनि श् किम् अनेन निरर्थकेन छोरितेन श् सन्त्य् अन्ये ऽस्मद्विधाः प्रतिग्राहका इति श् सा कथयति श् पुत्रि न त्वं मया पूर्वम् उक्ता नायं मूको नूनम् अनेन कस्यचिद् वाचा अपराद्धम्* तस्या एव निग्रहं करोतीति श् / (294र्1 = ग्ब्म् 900) अवोचस् त्वम् अंब इति / पाण्ड्-व् § 4.16 तत्रायुष्मता उत्तरेण द्वाभ्याम् अन्तर्वर्षाभ्याम् एका वाग् भाषिता / तृतीये ऽन्तर्वर्षे इदम् एव पञ्चगण्डकं संसारचक्रं चलाचलं विदित्वा सर्वसंस्कारगतीः शतनपतनविकिरणविध्वंसनधर्मतया पराहन्य तमःस्कन्धः प्रदालितः अर्हं संवृत्तः पूर्ववद् यावत् पूज्यो मान्यो ऽभिवाद्यश् च संवृत्तः / आयुष्मान् उत्तरो ऽर्हत्वप्राप्तो विमुक्तिप्रीतिसुखसंवेदी तस्यां वेलायां गाथां भाषते //
त्रिभिर् मया तालवृन्दैर् गङ्गातीरे कुटी कृता / शवशीर्षोपमं पात्रं पांसुकूलं च चीवरम्* // द्वाभ्याम् अन्तर्वर्षाभ्याम् एका वाग् भाषिता मया / तृतीये ऽन्तर्वर्षे तु तमःस्कन्धः प्रदालितः // गङ्गातीरनिवासी ऽत्र उत्तरः स्थविरो वशी / विमुक्तचित्तो हि अर्हन्न् इमा गाथा अभाषत //
// पाण्ड्-व् § 5.1 बुद्धो भगवां कौशाम्ब्यां विहरति घोषिलारामे / तेन खलु समयेनायुष्मां छन्द आपत्तिम् आपन्नो न पश्यति / एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति / भगवान् आह / कुरुत यूयं भिक्षवः छन्दस्य भिक्षोर् आपत्तेर् अदर्शनायोत्क्षेपणीयं कर्म इति यो वा पुनर् अन्यो ऽप्य् एवंजातीयः /पाण्ड्-व् § 5.2 पंचभिः कारणैर् आपत्तेर् अदर्शनाद् उत्क्षेपणीयं कर्म कृतम् अधर्मकर्म च तद् अविनयकर्म च संघश् च तेन सातिसारः / कतमैः पंचभिः / अचोदयित्वा कुर्वन्ति पूर्ववद् यावद् एकेन भिक्षुणा ज्ञप्तिं कृत्वा कर्म कर्तव्यं /पाण्ड्-व् § 5.3 शृणोतु भदन्ताः संघः / अयं छन्दो भिक्षुर् आपत्तिम् आपन्नो यथाधर्मं न प्रतिकरोति / सचेत् संघस्य प्राप्तकालं क्षमेतानुजानीयात् संघो यत् संघश् छन्दस्य भिक्षोर् आपत्तेर् अदर्शनायोत्क्षेपणीयं कर्म कुर्याद् इत्य् एषा ज्ञप्तिः /पाण्ड्-व् § 5.4 कर्म कर्तव्यं / शृणोतु भदन्ताः संघः / अयं छन्दो भिक्षुर् आपत्तिम् आपन्नो यथाधर्मं न प्रतिकरोति / तत् संघश् छन्दस्य भिक्षोर् आपत्तेर् अदर्शनायोत्क्षेपणीयं कर्म करोति / येषाम् आयुष्मतां क्षमते छन्दस्य भिक्षोर् आपत्तेर् अदर्शनाय उत्क्षेपणीयं कर्म कर्तुं ते तूष्णीं न क्षमते भाषन्ताम्* / इयं प्रथमा कर्मवाचना पूर्ववद् यावद् यथा पाण्डुलोहितकानां /पाण्ड्-व् § 5.5 एतद् एव निदानम्* / आयुष्मां छन्दो आपत्तिम् आपन्नो यथाधर्मं न प्रतिकरोति / स सब्रह्मचारिभिर् अर्थकामैः पूर्ववद् यथा विभंगे / एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति / भगवान् आह / कुरुत यूयं भिक्षवः छन्दस्य भिक्षोर् आपत्तेर् अप्रतिकर्मायोत्क्षेपणीयं कर्म इति
यो वा पुनर् अन्यो ऽप्य् एवंजातीयः /पाण्ड्-व् § 5.6 पंचभिः कारणैर् आपत्तेर् अप्रतिकर्मायोत्क्षेपणीयं कर्म कृतम् अधर्मकर्म च तद् अविनयकर्म च संघश् च तेन सातिसारः / कतमैः पंचभिः / अचोदयित्वा कुर्वन्ति पूर्ववद् यावद् एकेन भिक्षुणा ज्ञप्तिं कृत्वा कर्म कर्तव्यम्* /पाण्ड्-व् § 5.7 शृणोतु भदन्ताः संघः / अयं छन्दो भिक्षुर् आपत्तिम् आपन्नो (294व्1 = ग्ब्म् 901) यथाधर्मं न प्रतिकरोति / सचेत् संघस्य प्राप्तकालं क्षमेतानुजानीयात् संघो यत् संघश् छन्दस्य भिक्षोर् आपत्तेर् अप्रतिकर्मायोत्क्षेपणीयं कर्म कुर्याद् इत्य् एषा ज्ञप्तिः / पाण्ड्-व् § 5.8 कर्म कर्तव्यं / शृणोतु भदन्ताः संघः / अयं छन्दो भिक्षुर् आपत्तिम् आपन्नो यथाधर्मं न प्रतिकरोति / तत् संघश् छन्दस्य भिक्षोर् आपत्तेर् अप्रतिकर्मायोत्क्षेपणीयं कर्म करोति / येषाम् आयुष्मतां क्षमते छन्दस्य भिक्षोर् आपत्तेर् अप्रतिकर्मायोत्क्षेपणीयं कर्म कर्तुं ते तूष्णीं न क्षमते भाषन्ताम्* / इयं प्रथमा कर्मवाचना पूर्ववद् यावत् पाण्डुलोहितकानाम्* //
//
पाण्ड्-व् § 6.1 बुद्धो भगवां च्छ्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे / तेन खलु समयेन अरिष्टस्य भिक्षोर् इदम् एवंरूपं पापकं दृष्टिगतम् उत्पन्नं / तथाहं भगवतो धर्मं देशितम् आजानामि यथा ये ऽन्तरायिका धर्मा उक्ता भगवता ते च प्रतिसेव्यमाना नालम् अन्तरायायेति / एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति / भगवान् आह / कुरुत यूयं भिक्षव अरिष्टस्य भिक्षोर् अप्रतिनिःसृष्टे पापके दृष्टिगते उत्क्षेपणीयं कर्म इति यो वा पुनर् अन्यो ऽप्य् एवंजातीयः / पाण्ड्-व् § 6.2 पंचभिः कारणैर् अप्रतिनिःसृष्टे पापके दृष्टिगते उत्क्षेपणीयं कर्म कृतम् अधर्मकर्म च तद् अविनयकर्म च संघश् च तेन सातिसारः / कतमैः पंचभिः / अचोदयित्वा कुर्वन्ति / पूर्ववद् यावद् एकेन भिक्षुणा ज्ञप्तिं कृत्वा कर्म कर्तव्यं /पाण्ड्-व् § 6.3 शृणोतु भदन्ताः संघः / अस्यारिष्टस्य भिक्षोर् इदम् एवंरूपं पापकं दृष्टिगतम् उत्पन्नं / तथाहं भगवतो धर्मं देशितम् आजानामि यथा ये ऽन्तरायिका धर्मा उक्ता भगवता पूर्ववद् यावत् संघस्य प्राप्तकालं क्षमेतानुजानीयात् संघो यत् संघः अरिष्टस्य भिक्षोर् अप्रतिनिःसृष्टे पापके दृष्टिगते उत्क्षेपणीयं कर्म कुर्याद् इत्य् एषा ज्ञप्तिः /पाण्ड्-व् § 6.4 कर्म कर्तव्यं / शृणोतु भदन्ताः संघः / अस्यारिष्टस्य भिक्षोर् इदम् एवंरूपं पापकं दृष्टिगतम् उत्पन्नं / तथाहं भगवतो धर्मं देशितम् आजानामि पूर्ववद् यावत् संघ अरिष्टस्य भिक्षोर् अप्रतिनिःसृष्टे पापके दृष्टिगते उत्क्षेपणीयं कर्म करोति / येषाम् आयुष्मतां क्षमते अरिष्टस्य भिक्षोर् अप्रतिनिःसृष्टे पापके दृष्टिगते उत्क्षेपणीयं कर्म कर्तुं ते तूष्णीं न
क्षमते भाषन्ताम्* / इयं प्रथमा कर्मवाचना पूर्ववद् यावत् पाण्डुलोहितकानां /पाण्ड्-व् § 6.5 स एषः अप्रतिनिःसृष्टे पापके दृष्टिगते उत्क्षेपणीयकर्मकृतम् उत्कचप्रकचः संघे रोम पातयति पूर्ववद् यावत्* दृष्टिगतं प्रतिनिःसृजामीति वदति / एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति / भगवान् आह / (295र्1 = ग्ब्म् 902) ओसारयत यूयं भिक्षवः अरिष्टं भिक्षुम् अप्रतिनिःसृष्टे पापके दृष्टिगते उत्क्षेपणीयकर्मकृतम् इति यो वा पुनर् अन्यो ऽप्य् एवंजातीयः / पाण्ड्-व् § 6.6 पंचभिर् करणैर् अप्रतिनिःसृष्टे पापके दृष्टिगते उत्क्षेपणीयकर्मकृत ओसारयितव्यः / कतमैः पंचभिः / उत्कचप्रकचः संघे रोम पातयति पूर्ववद् यावद् एकेन भिक्षुणा ज्ञप्तिं कृत्वा कर्म कर्तव्यं / पाण्ड्-व् § 6.7 शृणोतु भदन्ताः संघः / अस्यारिष्टस्य भिक्षोर् इदम् एवंरूपं पापकं दृष्टिगतम् उत्पन्नं / तथाहं भगवतो धर्मं देशितम् आजानामि यथा ये ऽन्तरायिका धर्मा उक्ता भगवता ते प्रतिसेव्यमाना नालम् अन्तरायायेति / तद् अस्य संघेन अप्रतिनिःसृष्टे पापके दृष्टिगते उत्क्षेपणीयं कर्म कृतं / सो ऽयम् अरिष्टो भिक्षुर् अप्रतिनिःसृष्टे पापके दृष्टिगते उत्क्षेपणीयकर्मकृत उत्कचप्रकचः पूर्ववद् यावद् दृष्टिगतं प्रतिनिःसृजामीति वदति / सचेत् संघस्य प्राप्तकालं क्षमेतानुजानीयात् संघो यत् संघ अरिष्टं भिक्षुम् अप्रतिनिःसृष्टे पापके दृष्टिगते उत्क्षेपणीयकर्मकृतम् ओसारयेद् इत्य् एषा ज्ञप्तिः / पाण्ड्-व् § 6.8 एवं च कर्म कर्तव्यं / शृणोतु भदन्ताः संघः / अस्यारिष्टस्य भिक्षोर् इदम् एवंरूपं पापकं दृष्टिगतम् उत्पन्नं पूर्ववद् यावत् तत् संघ अरिष्टं भिक्षुम् अप्रतिनिःसृष्टे
पापके दृष्टिगते उत्क्षेपणीयकर्मकृतम् ओसारयति / येषाम् आयुष्मतां क्षमते अरिष्टम् अप्रतिनिःसृष्टे पापके दृष्टिगते उत्क्षेपणीयकर्मकृतम् ओसारयितुं ते तूष्णीं न क्षमते भाषन्ताम्* / इयं प्रथमा कर्मवाचना एवं द्वितीया तृतीया कर्मवाचना पूर्ववद् यावत् तूष्णीम् एवम् एतद् धारयामि //
// पाण्ड्-व् § 7.1.1 बुद्धो भगवां च्छ्रावस्त्यां विहरति जेतवने अनाथपिण्डदस्यारामे / तेन खलु समयेनायुष्मान् उदायी संघावशेषाम् आपत्तिम् आपन्नः संचिन्त्यशुक्रविसृष्टिसमुत्थिताम् अर्धमासप्रतिच्छन्नां / स एतत् प्रकरणं भिक्षूणाम् आरोचयत्य् / अहम् आयुष्मन्तः संघावशेषाम् आपत्तिम् आपन्नः संचिन्त्यशुक्रविसृष्टिसमुत्थितां अर्धमासप्रतिच्छन्नां / किं मया करणीयम् इत्य् / एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति / भगवान् आह / ददत यूयं भिक्षव उदायिनो भिक्षोर् अस्याः संघावशेषाया आपत्तेः संचिन्त्यशुक्रविसृष्टिसमुत्थिताया अर्धमासप्रतिच्छन्नाया अर्धमासं परिवासम् इति / यो वा पुनर् अन्यो ऽप्य् एवंजातीयः /पाण्ड्-व् § 7.1.2 एवं च पुनर् दातव्याः / उदायिना भिक्षुणा शयनासनप्रज्ञप्तिं कृत्वा गण्डीम् आकोट्य पृष्टवाचिकया भिक्षून् समनुयुज्य सर्वसंघे संनिषण्णे संनिपतिते उदायिना भिक्षुणा वृद्धान्ते उत्कुटुकेन स्थित्वा अंजलिं प्रगृह्य परिवासं याचितव्यम्* /पाण्ड्-व् § 7.1.3 एवं च पुनर् याचितव्यं / शृणोतु भदन्तः (295व्1 = ग्ब्म् 903) संघः / अहम् उदायी भिक्षुः संघावशेषाम् आपत्तिम् आपन्नः संचिन्त्यशुक्रविसृष्टिसमुत्थिताम् अर्धमासप्रतिच्छन्नां / सो ऽहम् उदायी भिक्षुर् अस्याः संघावशेषाया आपत्तेः संचिन्त्यशुक्रविसृष्टिसमुत्थिताया अर्धमासप्रतिच्छन्नायाः संघाद् अर्धमासं परिवासं याचे / ददातु मे भदन्ताः संघः ममोदायिनो भिक्षोर् अस्याः संघावशेषाया आपत्तेः संचिन्त्यशुक्रविसृष्टिसमुत्थिताया अर्धमासप्रतिच्छन्नाया अर्धमासं परिवासम् अनुकंपको ऽनुकंपाम् उपादाय / पाण्ड्-व् § 7.1.4 ततः पश्चाद् एकेन भिक्षुणा ज्ञप्तिं कृत्वा कर्म कर्तव्यं
/ शृणोतु भदन्ताः संघः / अयम् उदायी भिक्षुः संघावशेषाम् आपत्तिम् आपन्नः संचिन्त्यशुक्रविसृष्टिसमुत्थिताम् अर्धमासप्रतिच्छन्नां / सो ऽयम् उदायी भिक्षुर् अस्याः संघावशेषाया आपत्तेः संचिन्त्यशुक्रविसृष्टिसमुत्थिताया अर्धमासप्रतिच्छन्नायाः संघाद् अर्धमासं परिवासं याचते / सचेत् संघस्य प्राप्तकालं क्षमेतानुजानीयात् संघो यत् संघ उदायिनो भिक्षोर् अस्याः संघावशेषाया आपत्तेः संचिन्त्यशुक्रविसृष्टिसमुत्थिताया अर्धमासप्रतिच्छन्नाया अर्धमासं परिवासं दद्याद् इत्य् एषा ज्ञप्तिः /
पाण्ड्-व् § 7.1.5 एवं च कर्म कर्तव्यं / शृणोतु भदन्ताः संघः / अयम् उदायी भिक्षुः संघावशेषाम् आपत्तिम् आपन्नः संचिन्त्यशुक्रविसृष्टिसमुत्थिताम् अर्धमासप्रतिच्छन्नां / सो ऽयम् उदायी भिक्षुर् अस्याः संघावशेषाया आपत्तेः संचिन्त्यशुक्रविसृष्टिसमुत्थिताया अर्धमासप्रतिच्छन्नायाः संघाद् अर्धमासं परिवासं याचते / तत् संघ उदायिनो भिक्षोर् अस्याः संघावशेषाया आपत्तेः संचिन्त्यशुक्रविसृष्टिसमुत्थिताया अर्धमासप्रतिच्छन्नाया अर्धमासं परिवासम् ददाति / येषाम् आयुष्मतां क्षमते उदायिनो भिक्षोर् अस्याः संघावशेषाया आपत्तेः संचिन्त्यशुक्रविसृष्टिसमुत्थिताया अर्धमासप्रतिच्छन्नाया अर्धमासं परिवासम् दातुं ते तूष्णीं न क्षमते भाषन्ताम्* / इयं प्रथमा कर्मवाचना / एवं द्वितीया तृतीया कर्मवाचना कर्तव्या / दत्तः संघेन उदायिनो भिक्षोर् अस्याः संघावशेषाया आपत्तेः संचिन्त्यशुक्रविसृष्टिसमुत्थिताया अर्धमासप्रतिच्छन्नाया अर्धमासं परिवासः / क्षान्तम् अनुज्ञातं संघेन यस्मात् तूष्णीम् एवम् एतद् धारयामि //
पाण्ड्-व् § 7.2.1 स पारिवासिक एव सन्* संघावशेषाम् आपत्तिम् आपन्नो ऽन्तरापत्तिं पूर्वापत्तिप्रतिरूपां प्रतिच्छन्नां / स एतत् प्रकरणं भिक्षूणाम् आरोचयति / आयुष्मन्त उदायी भिक्षुः संघावशेषाम् आपत्तिम् आपन्नः संचिन्त्यशुक्रविसृष्टिसमुत्थिताम् अर्धमासप्रतिच्छन्नां / तेन मया उदायिना भिक्षुणा अस्याः संघावशेषाया आपत्तेः संचिन्त्यशुक्रविसृष्टिसमुत्थिताया (296र्1 = ग्ब्म् 904) अर्धमासप्रतिच्छन्नायाः संघाद् अर्धमासं परिवासो याचितः / दत्तः संघेन ममोदायिनो भिक्षोर् अस्याः संघावशेषाया आपत्तेः संचिन्त्यशुक्रविसृष्टिसमुत्थिताया अर्धमासप्रतिच्छन्नाया अर्धमासं परिवासः / सो ऽहं पारिवासिक एव संघावशेषाम् आपत्तिम् आपन्नो ऽन्तरापत्तिं पूर्वापत्तिप्रतिरूपां प्रतिच्छन्नां / किं मया करणीयम् इत्य् / एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति / भगवान् आह / ददत यूयं भिक्षव उदायिनो भिक्षोर् अस्याः संघावशेषाया आपत्तेर् अन्तरापत्तेः पूर्वापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलपरिवासम् इति / यो वा पुनर् अन्यो ऽप्य् एवंजातीयः /पाण्ड्-व् § 7.2.2 एवं च पुनर् दातव्यः / शयनासनप्रज्ञप्तिं कृत्वा गण्डीम् आकोट्य पृष्टवाचिकया भिक्षून् समनुयुज्य सर्वसंघे संनिषण्णे संनिपतिते उदायिना भिक्षुणा वृद्धान्ते उत्कुटुकेन स्थित्वा अंजलिं प्रगृह्य इदं स्याद् वचनीयम्* / पाण्ड्-व् § 7.2.3 शृणोतु भदन्ताः संघः / अहम् उदायी भिक्षुः संघावशेषाम् आपत्तिम् आपन्नः संचिन्त्यशुक्रविसृष्टिसमुत्थिताम् अर्धमासप्रतिच्छन्नां / तेन मया उदायिना भिक्षुणा अस्याः संघावशेषाया आपत्तेः संचिन्त्यशुक्रविसृष्टिसमुत्थिताया अर्धमासप्रतिच्छन्नायाः संघाद् अर्धमासं परिवासो याचितः
/ दत्तः संघेन ममोदायिनो भिक्षोर् अस्याः संघावशेषाया आपत्तेः संचिन्त्यशुक्रविसृष्टिसमुत्थिताया अर्धमासप्रतिच्छन्नाया अर्धमासं परिवासः / सो ऽहं पारिवासिक एव संघावशेषाम् आपत्तिम् आपन्नो ऽन्तरापत्तिं पूर्वापत्तिप्रतिरूपां प्रतिच्छन्नां / सो ऽहम् उदायी भिक्षुर् अस्याः संघावशेषाया आपत्तेर् अन्तरापत्तेः पूर्वापत्तिप्रतिरूपायाः प्रतिच्छन्नायाः संघान् मूलपरिवासं याचे / ददातु मे भदन्ताः संघः ममोदायिनो भिक्षोर् अस्याः संघावशेषाया आपत्तेर् अन्तरापत्तेः पूर्वापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलपरिवासम् अनुकंपको ऽनुकंपाम् उपादाय / एवं द्विर् अपि त्रिर् अपि //
पाण्ड्-व् § 7.2.4 ततः पश्चाद् एकेन भिक्षुणा ज्ञप्तिं कृत्वा कर्म कर्तव्यं / शृणोतु भदन्ताः संघः / अयम् उदायी भिक्षुः संघावशेषाम् आपत्तिम् आपन्नः संचिन्त्यशुक्रविसृष्टिसमुत्थिताम् अर्धमासप्रतिच्छन्नां / तेनानेन उदायिना भिक्षुणा अस्याः संघावशेषाया आपत्तेः संचिन्त्यशुक्रविसृष्टिसमुत्थिताया अर्धमासप्रतिच्छन्नायाः संघाद् अर्धमासं परिवासो याचितः / दत्तः संघेन अस्योदायिनो भिक्षोर् अस्याः संघावशेषाया आपत्तेः संचिन्त्यशुक्रविसृष्टिसमुत्थिताया अर्धमासप्रतिच्छन्नाया अर्धमासं परिवासः / सो ऽयं पारिवासिक एव संघावशेषाम् आपत्तिम् आपन्नो ऽन्तरापत्तिं पूर्वापत्तिप्रतिरूपां प्रतिच्छन्नां / सो ऽयम् उदायी भिक्षुर् अस्याः संघावशेषाया (296व्1 = ग्ब्म् 905) आपत्तेर् अन्तरापत्तेः पूर्वापत्तिप्रतिरूपायाः प्रतिच्छन्नायाः संघान् मूलपरिवासं याचते / सचेत् संघस्य प्राप्तकालं क्षमेतानुजानीयात् संघो यत् संघ उदायिनो भिक्षोर् अस्याः संघावशेषाया आपत्तेर् अन्तरापत्तेः पूर्वापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलपरिवासम् दद्याद् इत्य् एषा ज्ञप्तिः / पाण्ड्-व् § 7.2.5 कर्म कर्तव्यं / शृणोतु भदन्तः संघः / अयम् उदायी भिक्षुः संघावशेषाम् आपत्तिम् आपन्नः संचिन्त्यशुक्रविसृष्टिसमुत्थिताम् अर्धमासप्रतिच्छन्नां / तेनानेन उदायिना भिक्षुणा अस्याः संघावशेषाया आपत्तेः संचिन्त्यशुक्रविसृष्टिसमुत्थिताया अर्धमासप्रतिच्छन्नायाः संघाद् अर्धमासं परिवासो याचितः / दत्तः संघेनास्य उदायिनो भिक्षोर् अस्याः संघावशेषाया आपत्तेः संचिन्त्यशुक्रविसृष्टिसमुत्थिताया अर्धमासप्रतिच्छन्नाया अर्धमासं परिवासः / सो ऽयं पारिवासिक एव संघावशेषाम् आपत्तिम् आपन्नो ऽन्तरापत्तिं
पूर्वापत्तिप्रतिरूपां प्रतिच्छन्नां / सो ऽयम् उदायी भिक्षुर् अस्याः संघावशेषाया आपत्तेः अन्तरापत्तेः पूर्वापत्तिप्रतिरूपायाः प्रतिच्छन्नायाः संघान् मूलपरिवासं याचते / तत् संघ उदायिनो भिक्षोर् अस्याः संघावशेषाया आपत्तेः अन्तरापत्तेः पूर्वापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलपरिवासम् ददाति / येषाम् आयुष्मतां क्षमते उदायिनो भिक्षोर् अस्याः संघावशेषाया आपत्तेः अन्तरापत्तेः पूर्वापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलपरिवासम् दातुं ते तूष्णीं न क्षमते भाषन्ताम्* / इयं प्रथमा कर्मवाचना एवं द्वितीया तृतीया कर्मवाचना वक्तव्या //
दत्तः संघेन उदायिनो भिक्षोर् अस्याः संघावशेषाया आपत्तेः अन्तरापत्तेः पूर्वापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलपरिवासः / क्षान्तम् अनुज्ञातं संघेन यस्मात् तूष्णीम् एवम् एतद् धारयामि //
// पाण्ड्-व् § 7.3.1 स मूलपारिवासिक एव संघावशेषाम् आपत्तिम् आपन्नः प्रत्यन्तरापत्तिम् अन्तरापत्तिप्रतिरूपां प्रतिच्छन्नां / स एतत् प्रकरणं भिक्षूणाम् आरोचयति / अहम् अस्म्य् आयुष्मन्त उदायी भिक्षुः संघावशेषाम् आपत्तिम् आपन्नः संचिन्त्यशुक्रविसृष्टिसमुत्थिताम् अर्धमासप्रतिच्छन्नां / तेन मया उदायिना भिक्षुणा अस्याः संघावशेषाया आपत्तेः संचिन्त्यशुक्रविसृष्टिसमुत्थिताया अर्धमासप्रतिच्छन्नायाः संघाद् अर्धमासं परिवासो याचितः / दत्तः संघेन ममोदायिनो भिक्षोर् अस्याः संघावशेषाया आपत्तेः संचिन्त्यशुक्रविसृष्टिसमुत्थितायाः अर्धमासप्रतिच्छन्नाया अर्धमासं परिवासः / सो ऽहं पारिवासिक एव संघावशेषाम् आपत्तिम् आपन्नः अन्तरापत्तिं पूर्वापत्तिप्रतिरूपां प्रतिच्छन्नां / तेन मया (297र्1 = ग्ब्म् 906) उदायिना भिक्षुणा अस्याः संघावशेषाया आपत्तेः अन्तरापत्तेः पूर्वापत्तिप्रतिरूपायाः प्रतिच्छन्नायाः संघान् मूलपरिवासो याचितः / दत्तः संघेन ममोदायिनो भिक्षोर् अस्याः संघावशेषाया आपत्तेः अन्तरापत्तेः पूर्वापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलपरिवासः / सो ऽहं मूलपारिवासिक एव संघावशेषाम् आपत्तिम् आपन्नः प्रत्यन्तरापत्तिं अन्तरापत्तिप्रतिरूपां प्रतिच्छन्नां / किं मया करणीयम् इत्य् / एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति / भगवान् आह / ददत यूयं भिक्षव उदायिनो भिक्षोर् अस्याः संघावशेषायाः प्रत्यन्तरापत्तेर् अन्तरापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलापकर्षम् इति / यो वा पुनर् अन्यो ऽप्य् एवंजातीयः /पाण्ड्-व् § 7.3.2 एवं च पुनर् दातव्यः / शयनासनप्रज्ञप्तिं कृत्वा गण्डीम् आकोट्य पृष्टवाचिकया भिक्षून् समनुयुज्य सर्वसंघे संनिषण्णे
संनिपतिते उदायिना भिक्षुणा वृद्धान्ते उत्कुटुकेन स्थित्वा अंजलिं प्रगृह्य इदं स्याद् वचनीयम्* /पाण्ड्-व् § 7.3.3 शृणोतु भदन्ताः संघः / अहम् उदायी भिक्षुः संघावशेषाम् आपत्तिम् आपन्नः संचिन्त्यशुक्रविसृष्टिसमुत्थिताम् अर्धमासप्रतिच्छन्नां / तेन मया उदायिना भिक्षुणा अस्याः संघावशेषाया आपत्तेः संचिन्त्यशुक्रविसृष्टिसमुत्थिताया अर्धमासप्रतिच्छन्नायाः संघाद् अर्धमासं परिवासो याचितः / दत्तः संघेन ममोदायिनो भिक्षोर् अस्याः संघावशेषाया आपत्तेः संचिन्त्यशुक्रविसृष्टिसमुत्थिताया अर्धमासप्रतिच्छन्नाया अर्धमासं परिवासः / सो ऽहं पारिवासिक एव संघावशेषाम् आपत्तिम् आपन्नो ऽन्तरापत्तिं पूर्वापत्तिप्रतिरूपां प्रतिच्छन्नां / तेन मया उदायिना भिक्षुणा अस्याः संघावशेषाया आपत्तेः अन्तरापत्तेः पूर्वापत्तिप्रतिरूपायाः प्रतिच्छन्नायाः संघान् मूलपरिवासो याचितः / दत्तः संघेन ममोदायिनो भिक्षोर् अस्याः संघावशेषाया आपत्तेर् अन्तरापत्तेः पूर्वापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलपरिवासः / सो ऽहं मूलपारिवासिक एव संघावशेषाम् आपत्तिम् आपन्नः प्रत्यन्तरापत्तिम् अन्तरापत्तिप्रतिरूपां प्रतिच्छन्नां / सो ऽहम् अस्याः संघावशेषाया प्रत्यन्तरापत्तेर् अन्तरापत्तिप्रतिरूपायाः प्रतिच्छन्नायाः संघान् मूलापकर्षं याचे / ददातु भदन्ताः संघो ममोदायिनो भिक्षोर् अस्याः संघावशेषायाः प्रत्यन्तरापत्तेर् अन्तरापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलापकर्षम् अनुकंपक अनुकम्पाम् उपादाय / एवं द्विर् अपि त्रिर् अपि / पाण्ड्-व् § 7.3.4 ततः पश्चाद् एकेन भिक्षुणा ज्ञप्तिं कृत्वा कर्म कर्तव्यं / शृणोतु भदन्ताः संघः / अयम् उदायी (297व्1 = ग्ब्म् 907) भिक्षुः संघावशेषाम्
आपत्तिम् आपन्नः संचिन्त्यशुक्रविसृष्टिसमुत्थिताम् अर्धमासप्रतिच्छन्नां / तेनानेन उदायिना भिक्षुणा अस्याः संघावशेषाया संचिन्त्यशुक्रविसृष्टिसमुत्थिताया अर्धमासप्रतिच्छन्नायाः संघाद् अर्धमासं परिवासो याचितः / दत्तः संघेनास्योदायिनो भिक्षोर् अस्याः संघावशेषाया आपत्तेः संचिन्त्यशुक्रविसृष्टिसमुत्थिताया अर्धमासप्रतिच्छन्नाया अर्धमासं परिवासः / सो ऽयं पारिवासिक एव संघावशेषाम् आपत्तिम् आपन्नो ऽन्तरापत्तिं पूर्वापत्तिप्रतिरूपां प्रतिच्छन्नां / तेनानेन उदायिना भिक्षुणा अस्याः संघावशेषाया आपत्तेर् अन्तरापत्तेः पूर्वापत्तिप्रतिरूपायाः प्रतिच्छन्नायाः संघान् मूलपरिवासो याचितः / दत्तो ऽस्य संघेन उदायिनो भिक्षोर् अस्याः संघावशेषाया आपत्तेर् अन्तरापत्तेः पूर्वापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलपरिवासः / सो ऽयं मूलपारिवासिक एव सन्* संघावशेषाम् आपत्तिम् आपन्नः प्रत्यन्तरापत्तिम् अन्तरापत्तिप्रतिरूपां प्रतिच्छन्नां / सो ऽयम् अस्याः संघावशेषायाः प्रत्यन्तरापत्तेर् अन्तरापत्तिप्रतिरूपायाः प्रतिच्छन्नायाः संघान् मूलापकर्षं याचते / सचेत् संघस्य प्राप्तकालं क्षमेतानुजानीयात् संघो यत् संघ उदायिनो भिक्षोर् अस्याः संघावशेषायाः प्रत्यन्तरापत्तेर् अन्तरापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलापकर्षं दद्याद् इत्य् एषा ज्ञप्तिः //
पाण्ड्-व् § 7.3.5 कर्म कर्तव्यं / शृणोतु भदन्ताः संघः / अयम् उदायी भिक्षुः संघावशेषाम् आपत्तिम् आपन्नः संचिन्त्यशुक्रविसृष्टिसमुत्थिताम् अर्धमासप्रतिच्छन्नां / तेनानेन उदायिना भिक्षुणा अस्याः संघावशेषाया आपत्तेः संचिन्त्यशुक्रविसृष्टिसमुत्थिताया अर्धमासप्रतिच्छन्नायाः संघाद् अर्धमासं परिवासो याचितः / दत्तः संघेनास्य उदायिनो भिक्षोर् अस्याः संघावशेषाया आपत्तेः संचिन्त्यशुक्रविसृष्टिसमुत्थिताया अर्धमासप्रतिच्छन्नाया अर्धमासं परिवासः / सो ऽयं पारिवासिक एव संघावशेषाम् आपत्तिम् आपन्नो ऽन्तरापत्तिं पूर्वापत्तिप्रतिरूपां प्रतिच्छन्नां / तेनानेनोदायिना भिक्षुणा अस्याः संघावशेषाया आपत्तेर् अन्तरापत्तेः पूर्वापत्तिप्रतिरूपायाः प्रतिच्छन्नायाः संघान् मूलपरिवासो याचितः / दत्तः संघेनास्य उदायिनो भिक्षोर् अस्याः संघावशेषाया आपत्तेर् अन्तरापत्तेः पूर्वापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलपरिवासः / सो ऽयं मूलपारिवासिक एव सं संघावशेषाम् आपत्तिम् आपन्नः प्रत्यन्तरापत्तिम् अन्तरापत्तिप्रतिरूपां प्रतिच्छन्नां / सो ऽयम् अस्याः संघावशेषायाः प्रत्यन्तरापत्तेर् (298र्1 = ग्ब्म् 908) अन्तरापत्तिप्रतिरूपायाः प्रतिच्छन्नायाः संघान् मूलापकर्षं याचते / तत् संघ उदायिनो भिक्षोर् अस्याः संघावशेषायाः प्रत्यन्तरापत्तेर् अन्तरापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलापकर्षम् ददाति / येषाम् आयुष्मतां क्षमते उदायिनो भिक्षोर् अस्याः संघावशेषायाः प्रत्यन्तरापत्तेर् अन्तरापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलापकर्षम् दातुं ते तूष्णीं न क्षमते भाषन्तां / इयं प्रथमा कर्मवाचना / एवं द्वितीया तृतीया कर्मवाचना कर्तव्या श् दत्तः संघेन उदायिनो भिक्षोर् अस्याः
संघावशेषायाः प्रत्यन्तरापत्तेर् अन्तरापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलापकर्षः / क्षान्तम् अनुज्ञातं संघेन यस्मात् तूष्णीम् एवम् एतद् धारयामि //
// पाण्ड्-व् § 7.4.1 सो ऽपरेण समयेन संघावशेषाया आपत्तेः संचिन्त्यशुक्रविसृष्टिसमुत्थिताया अर्धमासप्रतिच्छन्नायाः पर्युषितपरिवास अन्तरापत्तेः पूर्वापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलपरिवासपर्युषितः प्रत्यन्तरापत्तेर् अन्तरापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलापकर्षपर्युषितो भिक्षूणाम् आरोचयति / अहम् अस्म्य् आयुष्मन्त उदायी भिक्षुः संघावशेषाम् आपत्तिम् आपन्नः संचिन्त्यशुक्रविसृष्टिसमुत्थिताम् अर्धमासप्रतिच्छन्नां / तेन मया उदायिना भिक्षुणा अस्याः संघावशेषाया आपत्तेः संचिन्त्यशुक्रविसृष्टिसमुत्थिताया अर्धमासप्रतिच्छन्नायाः संघाद् अर्धमासं परिवासो याचितः / दत्तः संघेन ममोदायिनो भिक्षोर् अस्याः संघावशेषाया आपत्तेः संचिन्त्यशुक्रविसृष्टिसमुत्थितायाः अर्धमासप्रतिच्छन्नाया अर्धमासं परिवासः / सो ऽहं पारिवासिक एव संघावशेषाम् आपत्तिम् आपन्नो ऽन्तरापत्तिं पूर्वापत्तिप्रतिरूपां प्रतिच्छन्नां / तेन मया उदायिना भिक्षुणा अस्याः संघावशेषाया आपत्तेर् अन्तरापत्तेः पूर्वापत्तिप्रतिरूपायाः प्रतिच्छन्नायाः संघान् मूलपरिवासो याचितः / दत्तः संघेन ममोदायिनो भिक्षोर् अस्याः संघावशेषाया आपत्तेर् अन्तरापत्तेः पूर्वापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलपरिवासः / सो ऽहं मूलपारिवासिक एव सन् संघावशेषाम् आपत्तिम् आपन्नः प्रत्यन्तरापत्तिम् अन्तरापत्तिप्रतिरूपां प्रतिच्छन्नां / तेन मया उदायिना भिक्षुणा अस्याः संघावशेषायाः प्रत्यन्तरापत्तेर् अन्तरापत्तिप्रतिरूपायाः प्रतिच्छन्नायाः संघान् मूलपरिवासो याचितः / दत्तः संघेन ममोदायिनो भिक्षोर् अस्याः संघावशेषायाः प्रत्यन्तरापत्तेर् अन्तरापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलापकर्षः / सो
ऽहम् अस्याः संघावशेषाया आपत्तेः संचिन्त्यशुक्रविसृष्टिसमुत्थिताया अर्धमासप्रतिच्छन्नायाः पर्युषितपरिवासः अन्तरापत्तेः पूर्वापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलपरिवासपर्युषितः प्रत्यन्तरापत्तेर् अन्तरापत्तिप्रतिरूपाया प्रतिच्छन्नाया मूलापकर्षपर्युषितः / किं मया करणीयम् इति श् एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति श् भगवान् आह श् ददत यूयं भिक्षव उदायिनो भिक्षोर् अस्याः संघावशेषाया आपत्तेः संचिन्त्यशुक्रविसृष्टिसमुत्थिताया (298व्1 = ग्ब्म् 6.909) अर्धमासप्रतिच्छन्नायाः पर्युषितपरिवासस्य अन्तरापत्तेः पूर्वापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलपरिवासपर्युषितस्य प्रत्यन्तरापत्तेर् अन्तरापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलापकर्षपर्युषितस्य षड्रात्रं मानाप्यम् इति / यो वा पुनर् अन्यो ऽप्य् एवंजातीयः /पाण्ड्-व् § 7.4.2 एवं च पुनर् दातव्यः / शयनासनप्रज्ञप्तिं कृत्वा गण्डीम् आकोट्य पृष्टवाचिकया भिक्षून् समनुयुज्य सर्वसंघे संनिषण्णे संनिपतिते उदायिना भिक्षुणा वृद्धान्ते उत्कुटुकेन स्थित्वा अंजलिं प्रगृह्य इदं स्याद् वचनीयं /पाण्ड्-व् § 7.4.3 शृणोतु भदन्ताः संघः / अहम् उदायी भिक्षुः संघावशेषाम् आपत्तिम् आपन्नः संचिन्त्यशुक्रविसृष्टिसमुत्थिताम् अर्धमासप्रतिच्छन्नां / तेन मया उदायिना भिक्षुणा अस्याः संघावशेषाया आपत्तेः संचिन्त्यशुक्रविसृष्टिसमुत्थिताया अर्धमासप्रतिच्छन्नायाः संघाद् अर्धमासं परिवासो याचितः / दत्तः संघेन ममोदायिनो भिक्षोर् अस्याः संघावशेषाया आपत्तेः संचिन्त्यशुक्रविसृष्टिसमुत्थिताया अर्धमासप्रतिच्छन्नाया अर्धमासं परिवासः / सो ऽहं पारिवासिक एव सन्* संघावशेषाम् आपत्तिम् आपन्नो ऽन्तरापत्तिं
पूर्वापत्तिप्रतिरूपां प्रतिच्छन्नां / तेन मया उदायिना भिक्षुणा अस्याः संघावशेषाया आपत्तेर् अन्तरापत्तेः पूर्वापत्तिप्रतिरूपायाः प्रतिच्छन्नायाः संघान् मूलपरिवासो याचितः / दत्तः संघेन ममोदायिनो भिक्षोर् अस्याः संघावशेषाया आपत्तेर् अन्तरापत्तेः पूर्वापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलपरिवासः / सो ऽहं मूलपारिवासिक एव सन्* संघावशेषाम् आपत्तिम् आपन्नः प्रत्यन्तरापत्तिम् अन्तरापत्तिप्रतिरूपां प्रतिच्छन्नाम्* / तेन मया भिक्षुणा अस्याः संघावशेषायाः प्रत्यन्तरापत्तेर् अन्तरापत्तिप्रतिरूपायाः प्रतिच्छन्नायाः संघान् मूलापकर्षो याचितः / दत्तः संघेन ममोदायिनो भिक्षोर् अस्याः संघावशेषायाः प्रत्यन्तरापत्तेः अन्तरापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलापकर्षः / सो ऽहम् उदायी भिक्षुर् अस्याः संघावशेषाया आपत्तेः संचिन्त्यशुक्रविसृष्टिसमुत्थिताया अर्धमासप्रतिच्छन्नायाः पर्युषितपरिवासः अन्तरापत्तेर् पूर्वापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलपरिवासपर्युषितः प्रत्यन्तरापत्तेर् अन्तरापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलापकर्षपर्युषितः संघात् षड्रात्रं मानाप्यं याचे / ददातु भदन्ताः संघो ममोदायिनो भिक्षोर् अस्याः संघावशेषाया आपत्तेः संचिन्त्यशुक्रविसृष्टिसमुत्थिताया अर्धमासप्रतिच्छन्नायाः पर्युषितपरिवासस्य अन्तरापत्तेः पूर्वापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलपरिवासपर्युषितस्य प्रत्यन्तरापत्तेर् अन्तरापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलापकर्षपर्युषितस्य षड्रात्रं मानाप्यम् अनुकंपक अनुकंपाम् उपादाय / एवं द्विर् अपि त्रिर् अपि /पाण्ड्-व् § 7.4.4 ततः पश्चाद् एकेन भिक्षुणा ज्ञप्तिं कृत्वा कर्म कर्तव्यम्* / शृणोतु भदन्ताः संघः / अयम्
उदायी भिक्षुः संघावशेषाम् आपत्तिम् आपन्नः संचिन्त्यशुक्रविसृष्टिसमुत्थिताम् अर्धमासप्रतिच्छन्नां / तेनानेन उदायिना भिक्षुणा अस्याः संघावशेषाया आपत्तेः संचिन्त्यशुक्रविसृष्टिसमुत्थिताया अर्धमासप्रतिच्छन्नायाः संघाद् अर्धमासं परिवासो याचितः / दत्तो ऽस्य संघेन (299र्1 = ग्ब्म् 910) उदायिनो भिक्षोर् अस्याः संघावशेषाया आपत्तेः संचिन्त्यशुक्रविसृष्टिसमुत्थिताया अर्धमासप्रतिच्छन्नाया अर्धमासं परिवासः / सो ऽयं पारिवासिक एव सन्* संघावशेषाम् आपत्तिम् आपन्नो ऽन्तरापत्तिं पूर्वापत्तिप्रतिरूपां प्रतिच्छन्नां / तेनानेन उदायिना भिक्षुणा अस्याः संघावशेषाया आपत्तेर् अन्तरापत्तेः पूर्वापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलपरिवासो याचितः / दत्तः संघेनास्योदायिनो भिक्षोर् अस्याः संघावशेषाया आपत्तेर् अन्तरापत्तेः पूर्वापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलपरिवासः / सो ऽयं मूलपारिवासः एव सन्* संघावशेषाम् आपत्तिम् आपन्नः प्रत्यन्तरापत्तिम् अन्तरापत्तिप्रतिरूपां प्रतिच्छन्नां / तेनानेन उदायिनो भिक्षुणा अस्याः संघावशेषाया आपत्तेः प्रत्यन्तरापत्तेर् अन्तरापत्तिप्रतिरूपायाः प्रतिच्छन्नायाः संघान् मूलापकर्षो याचितः / दत्तः संघेनास्योदायिनो भिक्षोर् अस्याः संघावशेषायाः प्रत्यन्तरापत्तेर् अन्तरापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलापकर्षः / सो ऽयम् उदायी भिक्षुर् अस्याः संघावशेषाया आपत्तेः संचिन्त्यशुक्रविसृष्टिसमुत्थिताया अर्धमासप्रतिच्छन्नायाः पर्युषितपरिवास अन्तरापत्तेः पूर्वापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलपरिवासपर्युषितः प्रत्यन्तरापत्तेर् अन्तरापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलापकर्षपर्युषितः षड्रात्रं मानाप्यं याचते / सचेत् संघस्य
प्राप्तकालं क्षमेतानुजानीयात् संघो यत् संघ उदायिनो भिक्षोर् अस्याः संघावशेषाया आपत्तेः संचिन्त्यशुक्रविसृष्टिसमुत्थिताया अर्धमासप्रतिच्छन्नायाः पर्युषितपरिवासस्य अन्तरापत्तेः पूर्वापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलपरिवासपर्युषितस्य प्रत्यन्तरापत्तेर् अन्तरापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलापकर्षपर्युषितस्य षड्रात्रं मानाप्यं दद्याद् इत्य् एषा ज्ञप्तिः / पाण्ड्-व् § 7.4.5 एवं च कर्म कर्तव्यम्* / शृणोतु भदन्ताः संघः / अयम् उदायी भिक्षुः संघावशेषाम् आपत्तिम् आपन्नः संचिन्त्यशुक्रविसृष्टिसमुत्थिताम् अर्धमासप्रतिच्छन्नां / तेनानेन उदायिना भिक्षुणा अस्याः संघावशेषाया आपत्तेः संचिन्त्यशुक्रविसृष्टिसमुत्थिताया अर्धमासप्रतिच्छन्नायाः संघाद् अर्धमासं परिवासो याचितः / दत्तो ऽस्य संघेन उदायिनो भिक्षोर् अस्याः संघावशेषाया आपत्तेः संचिन्त्यशुक्रविसृष्टिसमुत्थिताया अर्धमासप्रतिच्छन्नाया अर्धमासं परिवासः / सो ऽयं पारिवासिक एव सन्* संघावशेषाम् आपत्तिम् आपन्नो ऽन्तरापत्तिं पूर्वापत्तिप्रतिरूपां प्रतिच्छन्नां / तेनानेनोदायिना भिक्षुणा अस्याः संघावशेषाया आपत्तेर् अन्तरापत्तेः पूर्वापत्तिप्रतिरूपायाः प्रतिच्छन्नायाः संघान् मूलपरिवासो याचितः / दत्तः संघेनास्योदायिनो भिक्षोर् अस्याः संघावशेषाया आपत्तेर् अन्तरापत्तेः पूर्वापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलपरिवासः / सो ऽयं मूलपारिवासिक एव सन्* संघावशेषाम् आपत्तिम् आपन्नः प्रत्यन्तरापत्तिम् अन्तरापत्तिप्रतिरूपां प्रतिच्छन्नां / तेनानेन उदायिना भिक्षुणा अस्याः संघावशेषाया आपत्तेः प्रत्यन्तरापत्तेर् अन्तरापत्तिप्रतिरूपायाः प्रतिच्छन्नायाः संघान् मूलापकर्षो (299व्1 = ग्ब्म् 911)
याचितः / दत्तः संघेनास्योदायिनो भिक्षोर् अस्याः संघावशेषायाः प्रत्यन्तरापत्तेर् अन्तरापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलापकर्षः / सो ऽयम् उदायी भिक्षुर् अस्याः संघावशेषाया आपत्तेः संचिन्त्यशुक्रविसृष्टिसमुत्थिताया अर्धमासप्रतिच्छन्नायाः पर्युषितपरिवास अन्तरापत्तेः पूर्वापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलपरिवासपर्युषितः प्रत्यन्तरापत्तेर् अन्तरापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलापकर्षपर्युषितः षड्रात्रं मानाप्यं याचते / तत् संघ उदायिनो भिक्षोर् अस्याः संघावशेषाया आपत्तेः संचिन्त्यशुक्रविसृष्टिसमुत्थिताया अर्धमासप्रतिच्छन्नायाः पर्युषितपरिवासस्य अन्तरापत्तेः पूर्वापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलपरिवासपर्युषितस्य प्रत्यन्तरापत्तेर् अन्तरापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलापकर्षपर्युषितस्य षड्रात्रं मानाप्यम् ददाति / येषाम् आयुष्मतां क्षमन्ते उदायिनो भिक्षोर् अस्याः संघावशेषाया आपत्तेः संचिन्त्यशुक्रविसृष्टिसमुत्थिताया अर्धमासप्रतिच्छन्नायाः पर्युषितपरिवासस्य अन्तरापत्तेः पूर्वापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलपरिवासपर्युषितस्य प्रत्यन्तरापत्तेर् अन्तरापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलापकर्षपर्युषितस्य षड्रात्रं मानाप्यम् दातुं ते तूष्णीं न क्षमते भाषन्तां / इयं प्रथमा कर्मवाचना / एवं द्वितीया तृतीया कर्मवाचना वक्तव्या //
दत्तः संघेनोदायिनो भिक्षोर् अस्याः संघावशेषाया आपत्तेः संचिन्त्यशुक्रविसृष्टिसमुत्थिताया अर्धमासप्रतिच्छन्नायाः पर्युषितपरिवासस्य अन्तरापत्तेः पूर्वापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलपरिवासपर्युषितस्य प्रत्यन्तरापत्तेर् अन्तरापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलापकर्षपर्युषितस्य षड्रात्रं मानाप्यं / क्षान्तम् अनुज्ञातं संघेन यस्मात् तूष्णीम् एवम् एतद् धारयामि श् //
// पाण्ड्-व् § 7.5.1 सो ऽपरेण समयेन संघावशेषाया आपत्तेः संचिन्त्यशुक्रविसृष्टिसमुत्थिताया अर्धमासप्रतिच्छन्नायाः पर्युषितपरिवासः अन्तरापत्तेः पूर्वापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलपरिवासपर्युषितः प्रत्यन्तरापत्तेर् अन्तरापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलापकर्षपर्युषितः षड्रात्रं चीर्णमानाप्यो भिक्षूणाम् आरोचयत्य् / अहम् अस्म्य् आयुष्मन्न् उदायी भिक्षुः संघावशेषाम् आपत्तिम् आपन्नः संचिन्त्यशुक्रविसृष्टिसमुत्थिताम् अर्धमासप्रतिच्छन्नां / तेन मया उदायिना भिक्षुणा अस्याः संघावशेषाया आपत्तेः संचिन्त्यशुक्रविसृष्टिसमुत्थिताया अर्धमासप्रतिच्छन्नायाः संघाद् अर्धमासपरिवासो याचितः / दत्तः संघेन ममोदायिनो भिक्षोर् अस्याः संघावशेषाया आपत्तेः संचिन्त्यशुक्रविसृष्टिसमुत्थिताया अर्धमासप्रतिच्छन्नाया अर्धमासपरिवासः / सो ऽहं पारिवासिक एव सन्* संघावशेषाम् आपत्तिम् आपन्नो अन्तरापत्तिं पूर्वापत्तिप्रतिरूपां प्रतिच्छन्नां / तेन मया उदायिना भिक्षुणा अस्याः संघावशेषाया आपत्तेर् अन्तरापत्तेः पूर्वापत्तिप्रतिरूपायाः (300र्1 = ग्ब्म् 912) प्रतिच्छन्नायाः संघान् मूलपरिवासो याचितः / दत्तः संघेन ममोदायिनो भिक्षोर् अस्याः संघावशेषाया आपत्तेर् अन्तरापत्तेः पूर्वापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलपरिवासः / सो ऽहं मूलपारिवासिक एव सन्* संघावशेषाम् आपत्तिम् आपन्नः प्रत्यन्तरापत्तिम् अन्तरापत्तिप्रतिरूपां प्रतिच्छन्नां / तेन मया उदायिना भिक्षुणा अस्याः संघावशेषायाः आपत्तेर् प्रत्यन्तरापत्तेर् अन्तरापत्तिप्रतिरूपायाः प्रतिच्छन्नायाः संघान् मूलापकर्षो याचितः / दत्तः संघेन ममोदायिनो भिक्षोर् अस्याः संघावशेषायाः प्रत्यन्तरापत्तेर्
अन्तरापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलापकर्षः / तेन मया उदायिना भिक्षुणा संघावशेषाया आपत्तेः संचिन्त्यशुक्रविसृष्टिसमुत्थिताया अर्धमाप्रतिच्छन्नायाः पर्युषितपरिवासेन अन्तरापत्तेः पूर्वापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलपरिवासपर्युषितेन प्रत्यन्तरापत्तेर् अन्तरापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलापकर्षपर्युषितेन संघात् षड्रात्रं मानाप्यं याचितं / दत्तं संघेन ममोदायिनो भिक्षोर् अस्याः संघावशेषाया आपत्तेः संचिन्त्यशुक्रविसृष्टिसमुत्थिताया अर्धमासप्रतिच्छन्नायाः पर्युषितपरिवासस्य अन्तरापत्तेः पूर्वापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलपरिवासपर्युषितस्य प्रत्यन्तरापत्तेर् अन्तरापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलापकर्षपर्युषितस्य षड्रात्रं मानाप्यं / सो ऽहम् उदायी भिक्षुर् अस्याः संघावशेषाया आपत्तेः संचिन्त्यशुक्रविसृष्टिसमुत्थिताया अर्धमासप्रतिच्छन्नायाः पर्युषितपरिवासः अन्तरापत्तेः पूर्वापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलपरिवासपर्युषितः प्रत्यन्तरापत्तेर् अन्तरापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलापकर्षपर्युषितः षड्रात्रं चरितमानापयं / किं मया करणीयं इत्य् / एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति / भगवान् आह / आवर्हत यूयं भिक्षव उदायिनं भिक्षुम् अस्याः संघावशेषाया आपत्तेः संचिन्त्यशुक्रविसृष्टिसमुत्थिताया अर्धमासप्रतिच्छन्नायाः पर्युषितपरिवासम् आन्तरापत्तेः पूर्वापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलपरिवासपर्युषितं प्रत्यन्तरापत्तेर् अन्तरापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलापकर्षपर्युषितं षड्रात्रं चरितमानाप्यम् इति / यो वा पुनर् अन्यो ऽप्य् एवंजातीयः / पाण्ड्-व् 7.5.2 एवं च पुनर् अवहितव्यः
/ शयनासनप्रज्ञप्तिं कृत्वा गण्डीम् आकोट्य पृष्टवाचिकया भिक्षून् समनुयुज्य सर्वसंघे संनिषण्णे संनिपतिते उदायिना भिक्षुणा वृद्धान्ते उत्कुटुकेन स्थित्वा अञ्जलिं प्रगृह्य इदं स्याद् वचनीयम् श्
पाण्ड्-व् 7.5.3 शृणोतु भदन्तः संघः / अहम् उदायी भिक्षुः संघावशेषाम् आपत्तिम् आपन्नः संचिन्त्यशुक्रविसृष्टिसमुत्थिताम् अर्धमासप्रतिच्छन्नां / तेन मया उदायिना भिक्षुणा अस्याः संघावशेषाया आपत्तेः संचिन्त्यशुक्रविसृष्टिसमुत्थिताया अर्धमासप्रतिच्छन्नायाः संघाद् अर्धमासं परिवासो याचितः / दत्तः संघेन ममोदायिनो भिक्षोर् अस्याः (300व्1 = ग्ब्म् 913) संघावशेषाया आपत्तेः संचिन्त्यशुक्रविसृष्टिसमुत्थिताया अर्धमासप्रतिच्छन्नायाः अर्धमासं परिवासः / सो ऽहं पारिवासिक एव सन्* संघावशेषाम् आपत्तिम् आपन्नः अन्तरापत्तिं पूर्वापत्तिप्रतिरूपां प्रतिच्छन्नां / तेन मया उदायिना भिक्षुणा अस्याः संघावशेषाया आपत्तेः अन्तरापत्तेः पूर्वापत्तिप्रतिरूपायाः प्रतिच्छन्नायाः संघान् मूलपरिवासो याचितः / दत्तः संघेन ममोदायिनो भिक्षोर् अस्याः संघावशेषाया आपत्तेर् अन्तरापत्तेः पूर्वापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलपरिवासः / सो ऽहं मूलपारिवासिक एव सन्* संघावशेषाम् आपत्तिम् आपन्नः प्रत्यन्तरापत्तिम् अन्तरापत्तिप्रतिरूपां प्रतिच्छन्नां / तेन मया उदायिना भिक्षुणा अस्याः संघावशेषायाः आपत्तेः प्रत्यन्तरापत्तेर् अन्तरापत्तिप्रतिरूपायाः प्रतिच्छन्नायाः संघान् मूलापकर्षो याचितः / दत्तः संघेन ममोदायिनो भिक्षोर् अस्याः संघावशेषायाः प्रत्यन्तरापत्तेः अन्तरापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलापकर्षः /
तेन मया उदायिना भिक्षुणा अस्याः संघावशेषाया आपत्तेः संचिन्त्यशुक्रविसृष्टिसमुत्थिताया अर्धमासप्रतिच्छन्नायाः पर्युषितपरिवासेन अन्तरापत्तेः पूर्वापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलपरिवासपर्युषितेन प्रत्यन्तरापत्तेर् अन्तरापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलापकर्षपर्युषितेन षड्रात्रं मानाप्यं याचितं / दत्तं संघेन ममोदायिनो भिक्षोर् अस्याः संघावशेषाया आपत्तेः संचिन्त्यशुक्रविसृष्टिसमुत्थिताया अर्धमासप्रतिच्छन्नायाः पर्युषितपरिवासस्य अन्तरापत्तेः पूर्वापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलपरिवासपर्युषितस्य प्रत्यन्तरापत्तेर् अन्तरापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलापकर्षपर्युषितस्य षड्रात्रमानाप्यं / सो ऽहम् उदायी भिक्षुर् अस्याः संघावशेषाया आपत्तेः संचिन्त्यशुक्रविसृष्टिसमुत्थिताया अर्धमासप्रतिच्छन्नायाः पर्युषितपरिवासः अन्तरापत्तेः पूर्वापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलपरिवासपर्युषितः प्रत्यन्तरापत्तेर् अन्तरापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलापकर्षपर्युषितः षड्रात्रं चीर्णमानाप्यं संघाद् आवर्हणं याचे / आवर्हतु मां भदन्ताः संघः उदायिनं भिक्षुम् अस्याः संघावशेषाया आपत्तेः संचिन्त्यशुक्रविसृष्टिसमुत्थिताया अर्धमासप्रतिच्छन्नायाः पर्युषितपरिवासम् आन्तरापत्तेः पूर्वापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलपरिवासपर्युषितं प्रत्यन्तरापत्तेर् अन्तरापत्तिप्रतिरूपायाः प्रतिच्छन्नाया मूलापकर्षपर्युषितं षड्रात्रं चीर्णमानाप्यम् अनुकंपकः अनुकंपाम् उपादायेति श् एवं द्विर् अपि त्रिर् अपि /
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
