Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luật tạng
पारिवासिकवस्तु
- Thông tin
- GRETIL — N. Dutt: Gilgit Manuscript, vol. III: Mūlasarvāstivādavinayavastu, part 3 (Srinagar 1943), pp. 89-103: Pārivāsikavastu (second edition: Delhi 1984).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
पारिवासिकवस्तु
वस्तुत्रयस्य पिण्डोद्दानम्* /
अभिवादनं च षष्टिश् च अशुद्धश् चोदनाहि च / अधार्मिकश् च शाक्यश् च ग्लानकः कलहेन च //
पारिवासिकवस्तु
पारिवासिकवस्तूद्दानम्* /
अभिवादनं चंक्रमणमासनानि कुलानि च / एकच्छदने न संवसेन् न प्रव्राजयेद् अपि / न गच्छेद् अपि अभिक्षुकम् (309व्1 = ग्ब्म् 6.931) आवासम् अधोदेशञ् च सर्वलाभिकम्* //
बुद्धो भगवान् श्रावस्त्यां विहरति जेतवने अनाथपिण्डदस्यारामे / असति वैराग्ये भिक्षवः संघावशेषाम् आपत्तिम् आपद्यन्ते / ते विप्रतिसारजाताः संलक्षयन्ति / कथम् इदानीं वयं सापत्तिकाः सन्तः सकौकृत्याः सविलोलाः सकरणीयाः खण्डकारिणः शवलकारिणः कल्मषकारिणः आपत्तिमूलाद् अव्युत्थिताः प्रकृतिस्थकानां भिक्षूणाम् अन्तिकाद् अभिवादनवन्दनप्रत्युत्थानांजलिसामीचीकर्म स्वीकरिष्यामः / श्राद्धानां च ब्राह्मणगृहपतीनां सकाशाद् अग्रासनम् अग्रोदकम् अग्रपिण्डपातं परिभोक्ष्यामः / अल्पकालिकस्य च सुखस्यार्थाय बहुकालिकं दुःखम् आविशामो नरकतीर्यक्प्रेतेभ्यः परिभ्रमन्तः / यन् नु वयं शिक्षां प्रत्याख्याय हानायावर्तामह इति ते शिक्षां प्रत्याख्याय हानायावर्तन्ते / प्रव्रज्याभिलषितं च जनं विप्रलम्भयन्ति / भवन्तो दुश्चरं ब्रह्मचर्यम् अलं प्रव्रज्ययेति / तेषाम् अप्रव्रजितानाम् अप्रव्राजयतां चाल्पीभूता भिक्षवः / क्षयम् (msv iii 94) आपन्नश् छिद्रीभूतस् तनुभूतो भिक्षुसंघः / जानकाः पृच्छका बुद्धा भगवन्तः पृच्छन्ति / बुद्धो भगवान् आयुष्मन्तम् आननदम्* / क आनन्द हेतुः कः प्रत्ययः येनेतर्ह्य् अल्पीभूता भिक्षवः / क्षयम् आपन्नश् छिद्रीभूतस् तनुभूतो भिक्षुसंघ इति / स एतत् प्रकरणं भगवतो विस्तरेणारोचयति /
अथ भगवत एतद् अभवत्* / यन्व् अहं संघावशेषाम् आपत्तिम् आपन्नानां भिक्षूणां हस्तोद्धारम् अनुप्रदद्याम् अनुग्रहम् अनेनेति विदित्वा भिक्षुसंघं संनिपात्य पुरस्ताद् भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः / निषद्य भगवान् भिक्षून् आमन्त्रयते स्म / श्रुतं मया भिक्षवः संघावशेषाम् आपत्तिम् आपन्ना विप्रतिसारजाताः शिक्षां प्रत्याख्याय हानायावृत्ता इति / तस्माद् युष्माभिः शासनस्थितये तेषां चानुकम्पया संघावशेषाम् आपत्तिम् आपन्नानां भिक्षूणां परिवासो देयो मूलापकर्षो मानाप्यं मूलमानाप्यं मूलापकर्षमानाप्यम् आवर्हितव्यश् च /
एवं च पुनर् देयः / शयनासनप्रज्ञप्तिं कृत्वा गण्डीम् आकोट्य पृष्टवाचिकया भिक्षून् समनुयुज्य सर्वसंघे संनिषण्णे संनिपतिते अपश्चिमकेन भिक्षुणा परिवासो देयश् चतुर्वर्गमण्डलकेन / संघावशेषकेण भिक्षुणा यथावृद्धिकया सामीचीं कृत्वा वृद्धान्ते उत्कुटुकेन स्थित्वाञ्जलिं प्रगृह्य परिवासो याचितव्यः / एवं च पुनर् याचितव्यः /
शृणोतु भदन्तः संघः / अहम् एवंनामा भिक्षुः संबहुलाः संघावशेषा आपत्तीर् आपन्नः संचिन्त्यशुक्रविसृष्टिसमुत्थिताम् अर्धमासप्रतिच्छन्नाम्* / सो ऽहम् एवंनामा भिक्षुस् तासां संबहुलानां संघावशेषाणां आपत्तीनां संचिन्त्यशुक्रविसृष्टिसमुत्थिताम् अर्धमासप्रतिच्छन्नां संघाद् अर्धमासं परिवासं याचे / ददातु मे भदन्तः संघो ममैवंनाम्नो भिक्षोर् आसां संबहुलानां संघावशेषाणां आपत्तीनां संचिन्त्यशुक्रविसृष्टिसमुत्थितानाम् अर्धमासप्रतिच्छन्नानाम् अर्धमासं परिवासम् अनुकंपयानुकंपाम् उपादाय / एवं द्विर् अपि त्रिर् अपि / ततः पश्चाद् एकेन भिक्षुणा ज्ञप्तिं कृत्वा कर्म कर्तव्यम्* /
शृणोतु भदन्तः संघः / अयम् एवंनामा भिक्षुः संबहुलाः संघावशेषा (310र्1 = ग्ब्म् 6.932) आपत्तीर् आपन्नः संचिन्त्यशुक्रविसृष्टिसमुत्थिताम् अर्धमासप्रतिच्छन्नाम्* / सो ऽयम् एवंनामा भिक्षुर् आसां संबहुलानां संघावशेषाणाम् आपत्तीनां संचिन्त्यशुक्रविसृष्टिसमुत्थितानाम् अर्धमासप्रतिच्छन्नानां संघाद् अर्धमासं परिवासं याचते / सचेत् संघस्य प्राप्तकालं क्षमेतानुजानीयात् संघो यत् संघः एवंनाम्नोर् भिक्षोर् आसां संबहुलानां संघावशेषाणां आपत्तीनां संचिन्त्यशुक्रविसृष्टिसमुत्थितानाम् अर्धमासप्रतिच्छन्नानाम् अर्धमासं परिवासं दद्यात्* / इत्य् एषा ज्ञप्तिः / कर्म कर्तव्यम्* /
शृणोतु भदन्तः संघः / अयम् एवंनामा भिक्षुः संबहुलाः संघावशेषा आपत्तीर् आपन्नः संचिन्त्यशुक्रविसृष्टिसमुत्थिता अर्धमासप्रतिच्छन्नाः / सो ऽयम् एवंनामा भिक्षुर् आसां संबहुलानां संघावशेषाणाम् आपत्तीनां संचिन्त्यशुक्रविसृष्टिसमुत्थितानाम् अर्धमासप्रतिच्छन्नानां (msv iii 96) संघाद् अर्धमासं परिवासं याचते / तत् संघः एवंनाम्नोर् भिक्षोर् आसां संबहुलानां संघावशेषाणाम् आपत्तीनां संचिन्त्यशुक्रविसृष्टिसमुत्थितानाम् अर्धमासं परिवासं ददाति / एषाम् आयुष्मतां क्षामन्ते एवंनाम्नोर् भिक्षोर् आसां संबहुलानां संघावशेषाणाम् आपत्तीनां संचिन्त्यशुक्रविसृष्टिसमुत्थितानाम् अर्धमासप्रतिच्छन्नानाम् अर्धमासं परिवासं दातुं ते तूष्णीम्* / न क्षमन्ते भाषन्ताम्* / इयं प्रथमा कर्मवाचना वक्तव्या / दत्तः संघेन एवंनाम्नोर् भिक्षोर् आसां संबहुलानां संघावशेषाणाम् आपत्तीनां संचिन्त्यशुक्रविसृष्टिसमुत्थितानाम् अर्धमासप्रतिच्छन्नानाम् अर्धमासं परिवासः / क्षान्तम् अनुज्ञातं संघेन यस्मात् तूष्णीम् एवम् एतद् धारयामि / उक्तं भगवता / परिवासो दातव्यो मूलपरिवास इति विस्तरः /
षड्वर्गिका भिक्षवः पारिवासिकमानाप्यचारिकाः सन्तः प्रकृतिस्थकानां भिक्षूणाम् अन्तिकाद् अभिवादनवन्दनप्रत्युत्थानांजलिसामीचीकर्म स्वीकुर्वन्ति / अल्पार्था भिक्षवो ऽवध्यायन्ति क्षिपन्ति विवाचयन्ति तद् इदं न च्छेकं न प्रतिरूपं यत्रेदानीं पारिवासिकमानाप्यचारिका भिक्षवः प्रकृतिस्थकानां भिक्षूणाम् अन्तिकाद् अभिवादनवन्दनप्रत्युत्थानांजलिसामीचीकर्म स्वीकुर्वन्ति / एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति / भगवान् आह / पारिवासिकमानाप्यचारिकाणाम् अहं भिक्षवो भिक्षूणाम् आसमुदाचारिकान् धर्मान् प्रज्ञपयामि / पारिवासिकमानाप्यचारिकैर् भिक्षुभिः प्रकृतिस्थकानां भिक्षूणाम् अन्तिकाद् अभिवादनवन्दनप्रत्युत्थानांजलिसामीचीकर्म न स्वीकर्तव्यम्* / नैकासने निषत्तव्यम्* (msv iii 97) / नापि समासने / सचेन् निषीदन्ति नीचतरम् आसनं गृहीत्वा निषत्तव्यम्* / न चंक्रमे युगपच् छंक्रमितव्यम्* / नाप्य् अग्रतः / सचेच् चंक्रमे चंक्रमन्ति पदपरिहाणिकया / न ब्राह्मणकुलानि उपसंक्रमितव्यम्* / सचेद् उपसंक्रमन्ति पश्चाच्छ्रमणन्यायेन / नैकच् छदने वस्तव्यम्* / न प्रव्राजयितव्यम्* / नोपसंपादयितव्यम्* / न निश्रयो देयः / न श्रमणोद्देशी उपस्थापयितव्यः / न कर्म कर्तव्यम्* / न कर्मकारकः संमन्तव्यः / न भिक्षुण्यो ऽववदितव्याः / न भिक्षुण्यववादकः संमन्तव्यः / न पूर्वसंमतेन भिक्षुण्यो ऽववदितव्याः / न भिक्षुश् चोदयितव्यः (310व्1 = ग्ब्म् 6.933) स्मारयितव्यः शीलविपत्त्या दृष्टिविपत्त्या आचारविपत्त्या आजीवविपत्त्या / नानेनाववादः स्थापयितव्यः / न पोषधो न प्रवारणा न ज्ञप्तिर् न ज्ञप्तिद्वितीयं न ज्ञप्तिचतुर्थं कर्म /
काल्यम् एवोत्थाय द्वारं भोक्तव्यम्* / दीपस्थालक उद्वर्तव्यः / विहारः सेक्तव्यः / संमार्ष्टव्यः / सुकुमारी गोमयकार्षी अनुप्रदातव्या / प्रस्रावोच्चारकुटी धावयितव्या / मृत्तिका उपस्थापयितव्या पात्राणि पानीयं शीतलं वा कालानुरूपतः / प्रणाडिकामुखानि धावयितव्यानि / कालं ज्ञात्वासनप्रज्ञप्तिं कृत्वा धूपकटच्छूके धूपश् चोपस्थापयितवः / सचेत् प्रतिबलो भवति शास्तुर् गुणसंकीर्तनं कर्तुं स्वयम् एव कर्तव्यम्* / नोचेद् भाषणकः प्रष्टव्यः उपान्वाहारं प्रत्यवेक्ष्योपान्वाहृतं चेच् छरणपृष्ठम् अभिरुह्य गण्डीर् (msv iii 98) दातव्या / निदाघकाले भिक्षूणां व्यजनं ग्रहीतव्यम्* / ततः सर्वोपसंपन्नानां चोपरिष्टाच् छान्तेनेर्यापथवर्तिना भिक्षुसंघम् उपस्थाप्य भोक्तव्यम्* / कृतभक्तकृत्येन शयनासनं छन्ने गोपयितव्यम्* / पात्राधिष्ठानं छोरयितव्यम्* / कालं ज्ञात्वा तथागतकेशनखस्तूपाः संमार्ष्टव्याः सुकुमारी गोमयकार्षी अनुप्रदातव्या / सामग्रीवेलायां पुनः शयनासनप्रज्ञप्तिः कर्तव्या / धूपकटच्छुके धूप उपस्थापयितव्यः / शस्तुर् गुणसंकीर्तनं पूर्ववत् कर्तव्यम्* / दिवस आरोचयितव्यः / शृणोतु भदन्तः संघः / अद्य पक्षय दशमीत्य् एवमादि यथा उपधिवारिका आरोचयन्ति / ततः परिवास आरोचयितव्यः / शृणोतु भदन्तः संघः / अहम् एवंनामा भिक्षुर् एवंरूपां चैवंरूपां च संघावशेषाम् आपत्तिम् आपन्न इयत्कालप्रतिच्छन्नाम्* / तस्य मम संघेन इयत्कालं परिवासो दत्तः / ततो मया इयच्चरितं शिष्टं चरितव्यम्* / पारिवासिकं मां भदन्तः संघो धारयतु मानाप्यचारिकं चेति /
उक्तं भगवता / परिवास आरोचयितव्यः / इत्य् आगन्तुकानां नारोचयति / भगवान् आह / आगन्तुकानाम् आरोचयितव्यम् इति / उक्तं भगवता / आगन्तुकानाम् अप्य् आरोचयितव्यम् इति / अन्यतमश् च भिक्षुर् आगन्तुक आगतः / स यावन् न पात्रचीवरं स्थापयति तावत् पारिवासिको ऽस्य पुरतः स्थित्वा कथयति / समन्वाहर माम् आयुष्मन्न् (msv iii 99) अहम् एवंनामा भिक्षुः संघावशेषाम् आपत्तिम् आपन्नः / पूर्ववद् यावत् पारिवासिकं माम् आयुष्मान् धरयत्व् इति /
स तस्यान्तिके पर्यवस्थितः कथयति / अपेहि मम पुरस्तान् मोहपुरुष मा परिवासो मा त्वम् इति / स लज्जापरिगतहृदयो ऽवाङ्मुखो मन्दगतिप्रचारतया तस्य भिक्षोः सकाशात् प्रक्रान्तः / एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति / भगवान् आह / आगन्तुकस्य भिक्षोः पात्रचीवरे अप्रतिशामिते नारोचयितव्यम्* / अपि तु न एकैकस्यारोचयितव्यम्* / किं तु सर्वसंघे संनिषण्णे संनिपतित इति / भगवान् आह / गण्ड्याम् आकोटितायां यथा संनिहितानाम् आरोचयितव्यम्* /
न चानेनाभिक्षुकं विहारं गन्तव्यम्* / सचेद् गच्छति न तत्र वस्तव्यम्* /
विकाले भिक्षूणाम् उष्णेन शीताम्बुना वा यथाकालं पादाः शोचितव्याः / म्रक्षयितव्याः / न चेद् इच्छन्ति / स्नेहलाभोपसंहारः कर्तव्यः / ततः स्मृतिम् उपस्थाप्य उत्थानसंज्ञिना शय्या कल्पयितव्या /
पारिवासिकमानाप्यचारिका (311र्1 = ग्ब्म् 6.934) भिक्षवो यथा प्रज्ञप्तान् आसमुदाचारिकान् धर्मान् न समादाय वर्तन्ते सातिसारा भवन्ति /
तस्य विहारं नोद्दिशन्ति / लाभं नानुप्रयच्छन्ति / भगवान् आह / सर्वपश्चात् तस्य विहार उद्देष्टव्यः / सर्वपश्चाच् च लाभो देयः /
उद्दानम्* /
षष्टिशतं कुर्यात् पुद्गलश् चैव विंशिकात्* / संघे मानाप्यं चरितव्यम् आगताः प्रतिवैकारिकाः //
षड्वर्गिकाः पारिवासिकमानाप्यचारिकाः सन्तो भिक्षूणां परिवासं प्रददति / एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति / भगवान् आह / न चतुर्भिः पारिवासिकैर् भिक्षोः परिवासो दातव्यः / न त्रिभिः पारिवासिकैर् एकेन प्रकृतिस्थेन / न द्वाभ्यां पारिवासिकाभ्यां द्वाभ्यां प्रकृतिस्थकाभ्याम्* / नैकेन पारिवासिकेन न त्रिभिः प्रकृतिस्थकैः / किन् तु सर्वैः परिशुद्धैः समानदृष्टिभिर् भिक्षोः परिवासो दातव्यः /
यथा पारिवासिकैर् एवं मूलपारिवासिकैर् मानाप्यचारिकैश् चरितमानाप्यैः /
यथा परिवासम् एवं मूलपरिवासं मूलापकर्षं मानाप्यं मूलमानाप्यं मूलापकर्षमानाप्यं च /
षड्वर्गिका भिक्षवः पारिवासिकमानाप्यचारिकाः सन्तो भिक्षून् आवर्हन्ति / एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति / भगवान् आह / न विंशत्या पारिवासिकैर् भिक्षुर् आवर्हितव्यः / न एकोनविंशत्या पारिवासिकैर् एकेन प्रकृतिस्थकेन / नाष्टादशभिः पारिवासिकैर् द्वाभ्यां प्रकृतिस्थकाभ्याम् एवं यावन् न एकोनविंशत्या प्रकृतिस्थकैर् एकेन पारिवासिकेन /
यथा पारिवासिकैर् एवं पर्युषितपरिवासैर् मानाप्यैश् चारितमानाप्यैः शिक्षादत्तकैश् च /
षड्वर्गिका भिक्षवः पारिवासिकमानाप्यचारिकाः सन्तः पारिवासिकानां भिक्षूणाम् अन्तिके परिवासं चरन्ति / एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति / भगवान् आह / न भिक्षुणा चतुर्णां पारिवासिकानाम् अन्तिकात् परिवासश् चरितव्यः / न त्रयाणां पारिवासिकानाम् एकस्य प्रकृतिस्थकस्य / न द्वयोः पारिवासिकयोर् द्वयोः प्रकृतिस्थकयोः / न त्रयाणां प्रकृतिस्थकानाम् एकस्य पारिवासिकस्य / अपि तु सर्वेषां परिशुद्धानां समानदृष्टिकानाम् अन्तिकात् परिवासश् चरितव्यः /
यथा पारिवासिकानाम् एवं पर्युषितपारिवासिकानां मानाप्यचारिकाणां चारितमानाप्यानां शिक्षादत्तकानां च /
यथा परिवासम् एवं मूलपरिवासं मूलापकर्षं मानाप्यं मूलमानाप्यं मूलापकर्षमानाप्यं चरन्ति /
षड्वर्गिका भिक्षवः पारिवासिकमानाप्यचारिकाः सन्तः शून्यविहारं गत्वा परिवासं चरन्ति / ते भिक्षुभिर् दृष्टा उक्ताश् च / आयुष्मन्तः किम् एष विहारो युष्माभिर् आवासितः / ते कथयन्ति / नायम् अस्माभिर् आवासितः / किं तु परिवासं चराम इति / ते कथयन्ति / यूयं परिवासं चरथा / किं तर्हि प्रच्छाद्यन्ति / तैर् अभ्याहतास् तूष्णीम् अवस्थिताः / एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति / भगवान् आह / न भिक्षवः शून्यागारे परिवासश् चरितव्यो नापि यत्रैको भिक्षुर् द्वौ त्रयो वा / अपि तु यत्र (msv iii 102) चत्वारो भिक्षवः परिशुद्धाः समानदृष्टयः प्रतिवसन्ति तत्र परिवासश् चरितव्यः /
यथा परिवास एवं मूलपरिवासो मूलापकर्षो मानाप्यं मूलमानाप्यं मूलापकर्षमानाप्यं च /
अथायुष्मान् उपाली बुद्धं भगवन्तं पृच्छति / यथापि तद् भदन्त पारिवासिकमानाप्यचारिकैः श्रुतं भिक्षव आगच्छन्ति कलहकारका भण्डनकारका विग्रहकारका विवादकारका आधिकरणिकाः / ते ऽस्मांश् चोदयिष्यन्ति अलज्जितेन वा वैतरिकेण वा इति / तैस् तेषां कथं प्रतिपत्तव्यम् इति / भगवान् आह / पारिवासिकमानाप्यचारिकैर् उपालिन् भिक्षुभिः कलहकारका भिक्षव आगच्छन्तीति श्रुत्वा स परिवासो भिक्षोः पुरस्तात् प्रतिनिस्रष्टव्यः / एवं च पुनः प्रतिनिस्रष्टव्यः / समीचीं कृत्वा उत्कुटुकेन स्थित्वाञ्जलिं प्रगृह्य इदं स्याद् वचनीयम्* / समन्वाहरायुष्मन्न् अहम् एवंनामा एवंरूपां चैवंरूपां च संघावशेषाम् आपत्तिम् आपन्नः इयच्चिरकालप्रतिच्छन्नाम्* / तस्य मम संघेन इयन्तं कालं परिवासो दत्तः / तेन मया पारिवासिकेन सता श्रुतं भिक्षव आगच्छन्ति कलहकारका भण्डनकारका विग्रहकारका विवादकारका आधिकरणिकास् ते मां चोदयिष्यन्ति स्मारयिष्यन्ति अलज्जितेन वा वैतरिकेण वा / सो ऽहम् एवंनामा पारिवासिको भिक्षुस् तं परिवासम् आयुष्मतः पुरस्तात् प्रतिनिसृजामि / इयत्कालं मे चरितम् इयत्कालं तु चरितव्यम्* / प्रकृतिस्थकं (msv iii 103) मामायुष्मन् धारयत्व् इति / ततः पुनर् अपि गतवेगैर् हतवेगैर् गतप्रत्यर्थिकैस् तथैव प्रकृतिस्थकस्य भिक्षोः पुरस्तात् परिवासः समादातव्यः / एवम् च पुनः समादातव्यः / समीचीं कृत्वा उत्कुटुकेन स्थित्वाञ्जलिं प्रगृह्य इदं स्याद् वचनीयम्* / समन्वाहरायुष्मन्न् अहम् एवंनामा भिक्षुर् एवंरूपां चैवंरूपां च संघावशेषाम् आपत्तिम् आपन्नः इयच्चिरकालप्रतिच्छन्नाम्* / तस्य मम संघेन इयन्तं कालं परिवासो दत्तः / तेन मया पारिवासिकेन श्रुतं भिक्षव आगच्छन्ति कलहकारका भण्डनकारका विग्रहकारका विवादकारका आधिकरणिकास् ते मां चोदयिष्यन्ति स्मारयिष्यन्ति अलज्जितेन वा वैतरिकेणेति / तन् मया पारिवासिकवृत्तं भिक्षोः पुरस्तात् प्रतिनिसृष्टम्* / सो ऽहम् एवंनामा भिक्षुस् तं परिवासम् आयुष्मतः पुरस्तात् समाददे / इयत्कालं मे चरितम् इयत्कालं मे कर्तव्यं भविष्यति / पारिवासिकं मामायुष्मन् धारयतु /
यथा परिवास एवं मूलपरिवासो मूलापकर्षो मानाप्यं च /
पारिवासिकवस्तु समाप्तम्* //
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
