Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ Devanāgarī

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Luật tạng

पोषधस्थापनवस्तु

Thông tin
GRETIL — N. Dutt: Gilgit Manuscript, vol. III: Mūlasarvāstivādavinayavastu, part 3 (Srinagar 1943), pp. 105-117: Poṣadhasthāpanavastu (second edition: Delhi 1984).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

पोषधस्थापनवस्तु

पोषधस्थापनवस्तु पोषधस्थापनवस्तूद्दानम्* / अशुद्धपोषधाद् भिक्षुर् मौद्गल्यायणेन नाशितः / ततः शास्त्राणि विगर्हित्वा संघेन पृष्टः पोषधः //

एषा उद्दानगाथा चंपायां पोषधसूत्रे विस्तरेण / तच् च पोषधसूत्रं मध्यमागमे संगीतनिपाते पठ्यते //

उद्दानम्* /

चोदनात् स्मारणाच् चैव अवकाशो ऽवचनीयतः / अववादः प्रस्थापनं पोषधश् च प्रवारणा //

उक्तं भगवता संघस्थविरेण त्व् अर्धमासं प्रातिमोक्षसूत्रोद्देश उद्देष्टव्य इति / उपधिवारिकः संघस्थविरस्य पुरस्तात् स्थित्वा कथयति / स्थविर प्रातिमोक्षसूत्रोद्देशम् उद्दिशेति / स कथयति / आयुष्मन् न (312र्1 = ग्ब्म् 6.936) शुद्धा तावद् भिक्षुपर्षत्* / को ऽत्र स्थविरेणापरिशुद्धो दृष्टः / त्वम् एव तावत्* / कथम् अहं स्थविरेण दृष्टः / दिव्येन चक्षुषा / हन्तेदानीं नष्टाः स्मः / यत्र भिक्षवो दिव्येन चक्षुषा दृष्ट्वा चोदयन्ति स्मारयन्ति / इत्य् एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति / भगवान् आह / असंव्यवहार्यं भिक्षवो दिव्यचक्षुः / तस्मान् न भिक्षुणा दिव्येन चक्षुषा दृष्ट्वा भिक्षुश् चोदयितव्यः स्मारयितव्यः / भिक्षुर् दिव्येन चक्षुषा दृष्ट्वा भिक्षुं चोदयति स्मारयति सातिसारो भवति /

यथा दिव्येन चक्षुषा एवं दिव्येन श्रोत्रेण /

पुनर् अप्य् असाव् उपधिवारिकः संघस्थविरस्य पुरस्तात् स्थित्वा कथयति / स्थविर प्रातिमोक्षसूत्रोद्देशम् उद्दिशेति / स कथयति / (msv iii 108) आयुष्मन्न् अपरिशुद्धा तावद् भिक्षुपर्षत्* / स्थविर को ऽत्रापरिशुद्धः / त्वम् एव तावत्* / स्थविर कथम् नाम त्वया संघमध्ये मम शिरसि मुष्टिर् निपातिता / अहो बताहं त्वया एकान्ते चोदितः स्याम् इति / स तूष्णीम् अवस्थितः / एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति / भगवान् आह / एकान्ते चोदयितव्यो न संघमध्ये / सचेद् एकान्ते चोद्यमानो न स्मरति स्मारयितव्यः / स्मारितश् चेत् कोपम् आपद्यते / अवकाशः कारयितव्यः / अवकाशं कार्यमाणो ऽन्येनान्यं प्रतिसरति / भगवान् आह / अवचनीयः कर्तव्यः / अवचनीयः कृतः / तथाप्य् अन्येनान्यं प्रतिसरति / भगवान् आह / अववादो ऽस्य स्थापयितव्यः पोषधः प्रवारणा च /

एकम् अधार्मिकं पोषधस्थापनम् एकं धार्मिकम्* / द्वे अधार्मिके द्वे धार्मिके / त्रीण्य् अधार्मिकाणि त्रीणि धार्मिकाणि / चत्वार्य् अधार्मिकाणि चत्वारि धार्मिकाणि / पंचाधार्मिकाणि पंच धार्मिकाणि / षड् अधार्मिकाणि षड् धार्मिकाणि / सप्ताधार्मिकाणि सप्त धार्मिकाणि / अष्टाव् अधार्मिकाणि अष्टौ धार्मिकाणि / नवाधार्मिकाणि नव धार्मिकाणि / दशाधार्मिकाणि दश धार्मिकाणि पोषधस्थापनानि /

एकम् अधार्मिकं पोषधस्थापनम् एकं धार्मिकम्* / अधार्मिकं कतरत्* / अमूलकेन कृतेन पोषधं स्थापयति अधार्मिकं पोषधस्थापनम्* / धार्मिकं पोषधस्थापनम् कतरत्* / समूलकेन कृतेन (msv iii 109) पोषधं स्थापयति धार्मिकं पोषधस्थापनम्* / इदम् एकम् अधार्मिकं पोषधस्थापनम् एकं धार्मिकम्* /

द्वे अधार्मिके पोषधस्थापने द्वे धार्मिके / कतमे / अमूलकेनाकृतेनामूलकेन कृतेन पोषधं स्थापयति अधार्मिकं पोषधस्थापनम्* / समूलकेनाकृतेन समूलकेन कृतेन पोषधं स्थापयति धार्मिकं पोषधस्थापनम्* / इमे द्वे अधार्मिके पोषधस्थापने द्वे धार्मिके /

त्रीण्य् अधार्मिकाणि त्रीणि धार्मिकाणि पोषधस्थापनानि / कतमानि / अमूलकेन कृतेन अमूलकेनाकृतेन अमूलकेन कृताकृतेन पोषधं स्थापयति अधार्मिकं पोषधस्थापनम्* / समूलकेन कृतेन समूलकेनाकृतेन समूलकेन कृताकृतेन पोषधं स्थापयति धार्मिकं पोषधस्थापनम्* / इमानि त्रीण्य् अधार्मिकाणि पोषधस्थापनानि त्रीणि धार्मिकाणि /

चत्वार्य् अधार्मिकाणि चत्वारि धार्मिकाणि पोषधस्थापनानि / कतमानि / अमूलिकया शीलविपत्त्या दृष्टिविपत्त्या आचारविपत्त्या आजीवविपत्त्या पोषधं स्थापयत्य् अधार्मिकं पोषधस्थापनम्* / (312व्1 = ग्ब्म् 6.937) समूलिकया शीलविपत्त्या दृष्टिविपत्त्या आचारविपत्त्या आजीवविपत्त्या पोषधं स्थापयति धार्मिकं पोषधस्थापनम्* / इमानि चत्वार्य् अधार्मिकाणि पोषधस्थापनानि चत्वारि धार्मिकाणि /

पंचाधार्मिकाणि पंच धार्मिकाणि पोषधस्थापनानि / कतमानि / अमूलिकया पाराजिकया संघावशेषया पायन्तिकया प्रतिदेशनिकया दुष्कृतया पोषधं स्थापयत्य् अधार्मिकं पोषधस्थापनम्* / (msv iii 110) समूलिकया पाराजिकया संघावशेषया पायन्तिकया प्रतिदेशनिकया दुष्कृतया पोषधं स्थापयति धार्मिकं पोषधस्थापनम्* / इमानि पंचाधार्मिकाणि पोषधस्थापनानि पंच धार्मिकाणि /

षड् अधार्मिकाणि पोषधस्थापनानि षड् धार्मिकाणि पोषधस्थापनानि / कतमानि / अमूलकेन कृतेन अमूलकेनाकृतेन अमूलकेन कृताकृतेन / अमूलकेन कृतेन सावशेषेण अमूलकेनाकृतेन सावशेषेण अमूलकेन कृताकृतेन सावशेषेण पोषधं स्थापयत्य् अधार्मिकं पोषधस्थापनम्* / समूलकेन कृतेन समूलकेनाकृतेन समूलकेन कृताकृतेन / समूलकेन कृतेन सावशेषेण समूलकेनाकृतेन सावशेषेण समूलकेन कृताकृतेन सावशेषेण पोषधं स्थापयति धार्मिकं पोषधस्थापनम्* / इमानि षड् अधार्मिकाणि पोषधस्थापनानि षड् धार्मिकाणि /

सप्ताधार्मिकाणि पोषधस्थापनानि सप्त धार्मिकाणि पोषधस्थापनानि / कतमानि / अमूलिकया शीलविपत्त्या दृष्टिविपत्त्या आचारविपत्त्या आजीवविपत्त्या अमूलकेन दृष्टेन श्रुतेन परिशंकितेन पोषधं स्थापयत्य् अधार्मिकं पोषधस्थापनम्* / समूलकिकया शीलविपत्त्या दृष्टिविपत्त्या आचारविपत्त्या आजीवविपत्त्या समूलकेन दृष्टेन श्रुतेन परिशंकितेन पोषधं स्थापयति धार्मिकं पोषधस्थापनम्* / इमानि सप्ताधार्मिकाणि सप्त धार्मिकाणि पोषधस्थापनानि /

अष्टाव् अधार्मिकाणि अष्टौ धार्मिकाणि पोषधस्थापनानि / कतमानि / अमूलिकया पाराजिकया संघावशेषया पायन्तिकया (msv iii 111) प्रतिदेशनिकया दुष्कृतया अमूलकेन दृष्टेन श्रुतेन परिशंकितेन पोषधं स्थापयत्य् अधार्मिकं पोषधस्थापनम्* / समूलिकया पाराजिकया संघावशेषया पायन्तिकया प्रतिदेशनिकया दुष्कृतया समूलकेन दृष्टेन श्रुतेन परिशंकितेन पोषधं स्थापयति धार्मिकं पोषधस्थापनम्* / इमानि अष्टाव् अधार्मिकाणि पोषधस्थापनानि अष्टौ धार्मिकाणि /

नवाधार्मिकाणि नव धार्मिकाणि पोषधस्थापनानि / कतमानि / अमूलकेन कृतेन अमूलकेनाकृतेन अमूलकेन कृताकृतेन / अमूलकेन कृतेन सावशेषेण अमूलकेनाकृतेन सावशेषेण अमूलकेन कृताकृतेन सावशेषेण / अमूलकेन कृतेन निरवशेषेण अमूलकेनाकृतेन निरवशेषेण अमूलकेन कृताकृतेन निरवशेषेण पोषधं स्थापयत्य् अधार्मिकं पोषधस्थापनम्* / समूलकेन कृतेन समूलकेनाकृतेन समूलकेन कृताकृतेन / समूलकेन कृतेन सावशेषेण समूलकेनाकृतेन सावशेषेण समूलकेन कृताकृतेन सावशेषेण / समूलकेन कृतेन निरवशेषेण समूलकेनाकृतेन निरवशेषेण समूलकेन कृताकृतेन निरवशेषेण पोषधं स्थापयति (313र्1 = ग्ब्म् 6.938) धार्मिकं पोषधस्थापनम्* / इमानि नवाधार्मिकाणि पोषधस्थापनानि नव धार्मिकाणि /

दशाधार्मिकाणि दश धार्मिकाणि पोषधस्थापनानि / कतमानि / पाराजिको न भवति / पाराजिककथा न विप्रकृता भवति / शिक्षा न प्रत्याख्याता भवति / शिक्षाप्रत्याख्यानकथा न (msv iii 112) न विप्रकृता भवति / संघो न प्रत्याख्यातो भवति / संघप्रत्याख्यानकथा न विप्रकृता भवति / शीलविपन्नो न भवति न दृष्टिविपन्नो नाचारविपन्नो नाजीवविपन्नः /

कथं पाराजिको न भवति / यैर् आकारैर् यैर् लिङ्गैर् यैर् निमित्तैः पाराजिकाम् आपत्तिम् आपद्यते तं च भिक्षुः पश्यति न तैर् आकारैर् न तैर् लिङ्गैर् न तैर् निमित्तैः पाराजिकाम् आपत्तिम् आपद्यमानम्* / स चादृष्ट्वा अश्रुत्वा अपरिशंक्य पोषधं स्थापयति / अधार्मिकं पोषधस्थापनम्* / एवं पाराजिको न भवति /

कथं पाराजिककथा न विप्रकृता भवति / यथापि तत् संबहुला भिक्षवः संनिषण्णा भवन्ति संनिपतिताः / सा च कथा न लज्जा भवति न तन्मया न विप्रकृता / ते च भिक्षवः उत्थायासनेभ्यो नाना विप्रक्रामन्ति / स चादृष्ट्वा अश्रुत्वा अपरिशंक्य च पोषधं स्थापयति / अधार्मिकं पोषधस्थापनम्* / एवं पाराजिककथा न विप्रकृता भवति /

कथं शिक्षा न प्रत्याख्याता भवति / यैर् आकारैर् यैर् लिङ्गैर् यैर् निमित्तैः शिक्षाप्रत्याख्यानं क्रियते तं च भिक्षुः पश्यति न तैर् आकारैर् न तैर् लिङ्गैर् न तैर् निमित्तैः शिक्षाप्रत्याख्यानं कुर्वाणम्* / स चादृष्ट्वा अश्रुत्वा अपरिशंक्य पोषधं स्थापयति / अधार्मिकं पोषधस्थापनम्* / एवं शिक्षा प्रत्याख्याता न भवति /

कथं शिक्षाप्रत्याख्यानकथा न विप्रकृता भवति / यथापि तत् संबहुला भिक्षवः संनिषण्णा भवन्ति संनिपतिताः / सा च कथा न लज्जा भवति न तन्मया न विप्रकृता भवति / (msv iii 113) ते च भिक्षवः उत्थायासनेभ्यो नाना विप्रक्रामन्ति / स चादृष्ट्वा अश्रुत्वा अपरिशंक्य पोषधं स्थापयति / अधार्मिकं पोषधस्थापनम्* / एवं शिक्षाप्रत्याख्यानकथा न विप्रकृता भवति /

कथं संघो न प्रत्याख्यातो भवति / यैर् आकारैर् यैर् लिङ्गैर् यैर् निमित्तैः संघः प्रत्याख्यायते तं च भिक्षुः पश्यति न तैर् आकारैर् न तैर् लिङ्गैर् न तैर् निमित्तैः संघप्रत्याख्यानं कुर्वन्तम्* / स चादृष्ट्वा अश्रुत्वा अपरिशंक्य पोषधं स्थापयति / अधार्मिकं पोषधस्थापनम्* / एवं संघो न प्रत्याख्यातो न भवति /

कथं संघप्रत्याख्यानकथा न विप्रकृता भवति / यथापि तत् संबहुला भिक्षवः संनिषण्णा भवन्ति संनिपतिताः / सा च कथा न लज्जा भवति न तन्मया न विप्रकृता भवति / ते च भिक्षवः उत्थायासनेभ्यो नाना विप्रक्रामन्ति / स चादृष्ट्वा अश्रुत्वा अपरिशंक्य पोषधं स्थापयति / अधार्मिकं पोषधस्थापनम्* / एवं संघप्रत्याख्यानकथा न विप्रकृता भवति /

कथं न शीलविपन्नो भवति / चतुर्णां पाराजिकानाम् अन्यतमान्यतमाम् आपत्तिम् आपन्नो भवति / तस्य च भिक्षुर् अदृष्ट्वा अश्रुत्वा अपरिशंक्य पोषधं स्थापयति / अधार्मिकं पोषधस्थापनम्* / एवं न शीलविपन्नो भवति /

कथं न दृष्टिविपन्नो भवति / द्वाषष्टेर् दृष्टिगतानाम् अन्यतरान्यतरां दृष्टिम् अनभिनिविष्टो भवति / तस्य च भिक्षुर् अदृष्ट्वा अश्रुत्वा अपरिशंक्य पोषधं स्थापयति / अधार्मिकं पोषधस्थापनम्* / एवं न दृष्टिविपन्नो भवति /

कथं नाचारविपन्नो भवति / आनुलोमिकैः शिक्षानुकूलैर् (313व्1 = ग्ब्म् 6.939) वचनपथैर् उच्यमानः सम्यक् प्रतिपद्यते / तस्य च भिक्षुर् अदृष्ट्वा अश्रुत्वा अपरिशंक्य पोषधं स्थापयति / अधार्मिकं पोषधस्थापनम्* / एवं नाचारविपन्नो भवति /

कथं नाजीवविपन्नो भवति / आजीवो ऽस्य परिशुद्धो भवति / तस्य च भिक्षुर् अदृष्ट्वा अश्रुत्वा अपरिशंक्य पोषधं स्थापयति / अधार्मिकं पोषधस्थापनम्* / एवं नाजीवविपन्नो भवति /

शुक्लपक्षे पाराजिको भवति / पाराजिककथा विप्रकृता भवति / शिक्षा प्रत्याख्याता भवति / शिक्षाप्रत्याख्यानकथा विप्रकृता भवति / संघः प्रत्याख्यातो भवति / संघप्रत्याख्यानकथा विप्रकृता भवति / शीलविपन्नो भवति दृष्टिविपन्न आचारविपन्न आजीवविपन्नः /

कथं पाराजिको भवति / यैर् आकारैर् यैर् लिङ्गैर् यैर् निमित्तैः पाराजिकाम् आपत्तिम् आपद्यते / तं च भिक्षुः पश्यति न तैर् आकारैस् तैर् लिङ्गैस् तैर् निमित्तैः पाराजिकाम् आपत्तिम् आपद्यमानम्* / स दृष्ट्वा श्रुत्वा परिशंक्य पोषधं स्थापयति / धार्मिकं पोषधस्थापनम्* / एवं पाराजिको न भवति /

कथं पाराजिककथा विप्रकृता भवति / यथापि तत् संबहुला भिक्षवः संनिषण्णा भवन्ति संनिपतिताः / सा च कथा लज्जा भवति तन्मया विप्रकृता / ते च भिक्षवस् तथा संनिषण्णा (msv iii 115) एव / स च दृष्ट्वा श्रुत्वा परिशंक्य पोषधं स्थापयति / धार्मिकं पोषधस्थापनम्* / एवं पाराजिककथा विप्रकृता भवति /

कथं शिक्षा प्रत्याख्याता भवति / यैर् आकारैर् यैर् लिङ्गैर् यैर् निमित्तैः शिक्षाप्रत्याख्यानं क्रियते तं च भिक्षुः पश्यति तैर् आकारैस् तैर् लिङ्गैस् तैर् निमित्तैः शिक्षाप्रत्याख्यानं कुर्वाणम्* / स च दृष्ट्वा श्रुत्वा परिशंक्य पोषधं स्थापयति / धार्मिकं पोषधस्थापनम्* / एवं शिक्षा प्रत्याख्याता भवति /

कथं शिक्षाप्रत्याख्यानकथा विप्रकृता भवति / यथापि तत् संबहुला भिक्षवः संनिषण्णा भवन्ति संनिपतिताः / सा च कथा लज्जा भवति तन्मया विप्रकृता भवति / ते च भिक्षवस् तथा संनिषण्णा एव / स च दृष्ट्वा श्रुत्वा परिशंक्य पोषधं स्थापयति / धार्मिकं पोषधस्थापनम्* / एवं शिक्षाप्रत्याख्यानकथा विप्रकृता भवति /

कथं संघो प्रत्याख्यातो भवति / यैर् आकारैर् यैर् लिङ्गैर् यैर् निमित्तैः संघः प्रत्याख्यायते तं च भिक्षुः पश्यति तैर् आकारैस् तैर् लिङ्गैस् तैर् निमित्तैः संघप्रत्याख्यानं कुर्वाणम्* / स च दृष्ट्वा श्रुत्वा परिशंक्य पोषधं स्थापयति / धार्मिकं पोषधस्थापनम्* / एवं संघः प्रत्याख्यातो भवति /

कथं संघप्रत्याख्यानकथा विप्रकृता भवति / यथापि तत् संबहुला भिक्षवः संनिषण्णा भवन्ति संनिपतिताः / सा च कथा लज्जा भवति तन्मया विप्रकृता भवति / ते च भिक्षवस् तथा संनिषण्णा एव / स च दृष्ट्वा श्रुत्वा परिशंक्य पोषधं स्थापयति / धार्मिकं पोषधस्थापनम्* / एवं संघप्रत्याख्यानकथा विप्रकृता भवति /

कथं शीलविपन्नो भवति / चतुर्णां पाराजिकानाम् अन्यतमान्यतमाम् आपत्तिम् आपन्नो भवति / तस्य च भिक्षुर् दृष्ट्वा श्रुत्वा परिशंक्य पोषधं स्थापयति / धार्मिकं पोषधस्थापनम्* / एवं शीलविपन्नो भवति /

कथं दृष्टिविपन्नो भवति / द्वाषष्टेर् दृष्टिगतानाम् अन्यतरान्यतरां दृष्टिम् अभिनिविष्टो भवति / तस्य च भिक्षुर् दृष्ट्वा श्रुत्वा परिशंक्य पोषधं स्थापयति / धार्मिकं पोषधस्थापनम्* / (314र्1 = ग्ब्म् 6.940) एवं दृष्टिविपन्नो भवति /

कथम् आचारविपन्नो भवति / आनुलोमिकैः शिक्षानुकूलैर् वचनपथैर् उच्यमानो न सम्यक् प्रतिपद्यते / तस्य च भिक्षुर् दृष्ट्वा श्रुत्वा परिशंक्य पोषधं स्थापयति / धार्मिकं पोषधस्थापनम्* / एवम् आचारविपन्नो भवति /

कथम् आजीवविपन्नो भवति / आजीवो ऽस्यापरिशुद्धो भवति / तस्य च भिक्षुर् दृष्ट्वा श्रुत्वा परिशंक्य पोषधं स्थापयति / धार्मिकं पोषधस्थापनम्* / एवम् आजीवविपन्नो भवति /

इमानि दशाधार्मिकाणि दश धार्मिकाणि पोषधस्थापनानि / यथा पोषधस्थापनम् एवं प्रवारणास्थापनम्* /

पंचेमे भिक्षवः संघाः / कतमे पंच / अलज्जिसंघः एडमूकसंघः गणसंघः संवृतिसंघः परमार्थसंघश् च /

अलज्जिसंघः कतमः / यत्र सर्वे भिक्षवो दुःशीलाः पापधर्माणः / एडमूकसंघः कतमः / यत्र न सूत्रधरो न विनयधरो न मातृकाधरः / गणसंघः कतमः / यत्र गणसंबन्धेन कर्माणि (msv iii 117) क्रियन्ते / संवृतिसंघः कतमः / सर्वे पृथग्जनकल्याणकाः / परमार्थसंघः कतमः / शैक्षाशैक्षा अष्टौ महापुरुषपुद्गलाः / तत्र ये पूर्वकास् त्रयः संघाः अलज्जिनः संघः एडमूकसंघः गणसंघश् च लभ्यम् एभिर् अधर्मेण कर्मणा कर्तुम्* / यो ऽयं संवृतिसंघो लभ्यम् अनेन धर्मसंज्ञिना अधर्मेण कर्मणा कर्तुम्* / यस् त्व् अयं परमार्थसंघो न लभ्यम् अनेनाधर्मेण कर्मणा कर्तुम्* /

पोषधस्थापनवस्तु समाप्तम्* //

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.