Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa
पञ्चविंशतिसाहस्रिका प्रज्ञापारमिता, 1-8
- Thông tin
- GRETIL — Takayasu Kimura: Pañcaviṃśatisāhasrikā Prajñāpāramitā I-VIII, Tokyo: Sankibo Busshorin 1986-2009.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य श्रोत्रघ्राणजिह्वाकायमनःपदार्थो न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते,
तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य अध्यात्मशून्यतायां यावद् अभावस्वभावशून्यतायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते,
तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य सर्वबोधिपक्ष्यधर्मबलवैशारद्यावेणिकबुद्धधर्मेषु चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते,
तद्यथापि नाम सुभूते असंस्कृतधातौ संस्कृतधातुपदं न विद्यते नोपलभ्यते, संस्कृतधाताव् असंस्कृतधातुपदं न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्नापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते.
इति दर्शनमार्गाधारः
तद्यथापि नाम सुभूते अनुत्पादपदार्थो न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्नापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते,
तद्यथापि नाम सुभूते अनिरोधानभिसंस्काराप्रादुर्भावानुपलम्भासंक्लेशपदार्थो न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते,
तद्यथापि नाम सुभूते अव्यवदानपदार्थो न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते.
तत् कस्य हेतोः? रूपस्य सुभूते उत्पादपदार्थो न विद्यते नोपलभ्यते, वेदनासंज्ञासंस्काराणां, विज्ञानस्य सुभूते उत्पादपदार्थो न विद्यते नोपलभ्यते.
तत् कस्य हेतोः? रूपस्य सुभूते निरोधाभिसंस्कारप्रादुर्भावोपलम्भसंक्लेशपदार्थो न विद्यते नोपलभ्यते, वेदनासंज्ञासंस्काराणां विज्ञानस्य सुभूते निरोधाभिसंस्कारप्रादुर्भावोपलम्भसंक्लेशपदार्थो न विद्यते नोपलभ्यते.
तत् कस्य हेतोः? रूपस्य सुभूते व्यवदानपदार्थो न विद्यते नोपलभ्यते, वेदनासंज्ञासंस्काराणां विज्ञानस्य सुभूते व्यवदानपदार्थो न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते.
तद्यथापि नाम सुभूते व्यस्तसमस्तानां स्कन्धानां धातूनाम् आयतनानां प्रत्यीत्यसमुत्पादस्य उत्पादपदार्थो न विद्यते नोपलभ्यते, यावत् स्कन्धधात्वायतनप्रतीत्यसमुत्पादेषु व्यवदानपदार्थो न विद्यते नोपलभ्यते, एवं सप्तत्रिंशद् बोधिपक्ष्यधर्मा प्रमाणध्यानारूप्यसमापत्त्यभिज्ञाप्रतिसंविद्दशबलवैशारद्यावेणिकबुद्धधर्माणाम् उत्पादपदार्थो न विद्यते नोपलभ्यते, एवं यावद् व्यवदानपदार्थो न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते,
तद्यथापि नाम सुभूते आवेणिकानां बुद्धधर्माणां यावत् संक्लेशव्यवदानपदार्थो न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते,
तद्यथापि नाम सुभूते रूपस्यात्यन्तविविक्तत्वान् निमित्तपदं न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते, वेदनायाः संज्ञायाः संस्काराणां,
तद्यथापि नाम सुभूते विज्ञानस्यात्यन्तविविक्तत्वान् निमित्तपदं न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते,
तद्यथापि नाम सुभूते व्यस्तसमस्तेषु स्कन्धधात्वायतनप्रतीत्यसमुत्पादेष्व् अत्यन्तविविक्तत्वान् निमित्तपदं न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते,
तद्यथापि नाम सुभूते स्मृत्युपस्थानाम् अत्यन्तविशुद्धत्वान्निमित्तपदं न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते, एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गाप्रमाणध्यानारूप्यसमापत्त्यभिज्ञाप्रतिसंविद्दशबलवैशारद्यावेणिकबुद्धधर्माणाम् अत्यन्तविशुद्धत्वान् निमित्तपदं न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते,
तद्यथापि नाम सुभूते आत्मसत्त्वजीवपोषपुरुषपुद्गलमनुजमानवकारकवेदकजानकपश्यकानां विशुद्धौ पदं न विद्यते नोपलभ्यते, आत्मसत्त्वजीवपोषपुरुषपुद्गलमनुजमानवकारकवेदकजानकपश्यकासत्ताम् उपादाय, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते.
इति भावनामार्गाधारः
तद्यथापि नाम सुभूते आदित्यस्योदागच्छतः प्रभायाः पदं न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते.
इति प्रतिपक्षाधारः तद्यथापि नाम सुभूते कल्पोद्दाहे वर्तमाने सर्वसंस्कारे (psp1-2: 23) पदं न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते.
इति विपक्षप्रहानाधारः
तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य शीले दौःशील्यपदं न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते.
तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य समाधौ विक्षेपपदं न विद्यते नोपलभ्यते, तथागतप्रज्ञायां दौष्प्रज्ञपदं न विद्यते नोपलभ्यते, तथागतविमुक्ताव् अविमुक्तिपदं न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते.
तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्यविमुक्तिज्ञानदर्शने विमुक्तिज्ञानदर्शनपदं न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते.
इति प्रतिपक्षविपक्षविकल्पप्रहाणाधारः
तद्यथापि नाम सुभूते सूर्यचन्द्रमसोः प्रभायाः पदं न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते.
इति प्रज्ञाकरुणाधारः
तद्यथापि नाम सुभूते श्रावकप्रत्येकबुद्धग्रहनक्षत्रमणिरत्नज्योतिषां प्रभायाः पदं न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते.
इत्य् असाधारणगुणाधारः
तद्यथापि नाम सुभूते चातुर्महाराजकायिकानां देवानां त्रयस्त्रिंशानां देवानां यामानां देवानां तुषितानां देवानां निर्माणरतीनां देवानां परनिर्मितवशवर्तिनां देवानां ब्रह्मपार्षद्यानां देवानां ब्रह्मपुरोहितानां देवानां महाब्रह्मणां (psp1-2: 24) देवानां यावद् अकनिष्ठानां देवानां प्रभायाः पदं न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते.
इति परार्थानुक्रमाधारः
तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य प्रभायाः पदं न विद्यते नोपलभ्यते, एवम् एव सुभूअते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते. तत् कस्य हेतोः? तथा हि सुभूते यया बोध्या बोधिसत्त्वपदार्थः यश् च बोधिसत्त्वपदार्थः सर्व एते धर्मा न संयुक्ता न विसंयुक्ता अरूपिनो ऽनिदर्शना अप्रतिघा एकलक्षणा यदुतालक्षणाः, सर्वधर्माणां हि सुभूते बोधिसत्त्वेन महासत्त्वेन असक्ततायाम् असद्भूततायां शिक्षितव्यं, अकल्पनताम् अकल्पनतां चोपादाय, सर्वधर्माश् च सुभूते बोधिसत्त्वेन महासत्त्वेनावबोद्धव्याः.
इत्य् अनाभोगे प्रवृत्तज्ञानाधारः
इत्य् उक्तः प्रतिपत्त्याधारः
सुभूतिर् आह: कतमे भगवन् सर्वधर्माः? कथं भगवन् बोधिसत्त्वेन महासत्त्वेन सर्वधर्माणाम् असद्भूततायां शिक्षितव्यम्? कथं भगवन् बोधिसत्त्वेन महासत्त्वेन सर्वधर्मा अवबोद्धव्याः?
भगवान् आह: सर्वधर्मा उच्यन्ते कुशलाश् चाकुशलाश् च व्याकृताश् चाव्याकृताश् च लौकिकाश् च लोकोत्तराश् च सास्रवाश् चानास्रवाश् च संस्कृताश् चासंस्कृताश् च साधारणाश् चासाधारणाश् च, इमम् उच्यन्ते सुभूते सर्वधर्मा यत्र बोधिसत्त्वेन महासत्त्वेनासद्भूततायां शिक्षितव्यं, इमे सुभूते बोधिसत्त्वेन महासत्त्वेन सर्वधर्मा अवबोद्धव्याः.
इत्य् आलम्बनस्वरूपम्
सुभूतिर् आह: कतमे भगवन् कुशला लौकिका धर्माः.
भगवान् आह: कुशला लौकिका धर्मा उच्यन्ते, मात्रेयता पित्रेयता श्रामण्यता ब्राह्मण्यता कुले ज्येष्ठापचायिता, दानम् अयं पुण्यक्रियावस्तु शीलम् अयं पुण्यक्रियावस्तु, भावनाम् अयं पुण्यक्रियावस्तु, वैयावृत्यसहगतम् उपायकौशलं, दशकुशलाः कर्मपथाः, लौकिक्यो नवसंज्ञा, आध्मातकसंज्ञा विपडुमकसंज्ञा विपूयकसंज्ञा विलोहितकसंज्ञा विनीलकसंज्ञा विखादितकसंज्ञा विक्षिप्तकसंज्ञा (psp1-2: 25) अस्थिसंज्ञा विदग्धकसंज्ञा, लौकिकानि चत्वारि ध्यानानि चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तयः, लौकिक्यः पञ्चाभिज्ञाः, लौकिक्यो दशानुस्मृतयः, यद् उत बुद्धानुस्मृतिर् धर्मानुस्मृतिः संघानुस्मृतिः शीलानुस्मृतिः त्यागानुस्मृतिर् देवतानुस्मृतिर् आनापानानुस्मृतिर् मरणानुस्मृतिः कायगतानुस्मृतिर् उद्वेगानुस्मृतिः, इम उच्यन्ते कुशला लौकिकाधर्माः
सुभूतिर् आह: कतमे भगवन् लौकिका अकुशला धर्माः?
भगवान् आह: प्राणातिपातो ऽदत्तादानं काममिथ्याचारो मृषावादः पैशुन्यं पारुष्यं संभिन्नप्रलापो ऽभिध्या व्यापादो मिथ्यादर्शनं दशाकुशलाः कर्मपथाः, क्रोधोपनाहौ म्रक्षः प्रदाशो विहिंसा ईर्ष्या मात्सर्यं मानो मिथ्यामानः, इम उच्यन्ते लौकिका अकुशला धर्माः
सुभूतिर् आह: कतमे भगवन्न् अव्याकृता धर्माः?
भगवान् आह: अव्याकृतं कायकर्म, अव्याकृतं वाक्कर्म, अव्याकृतं मनःकर्म, अव्याकृतानि चत्वारि महाभूतानि, अव्याकृतानि पञ्चेन्द्रियाणि, अव्याकृतानि षड् आयतनानि, अव्याकृतानि अरूप्याणि स्कन्धधात्वायतनानि, अव्याकृता विपाकाः, सर्व इम उच्यन्ते अव्याकृताधर्माः
सुभूतिर् आह: कतमे भगवन् लौकिकाः कुशला धर्माः?
भगवान् आह: पञ्च स्कन्धा द्वादशायतनान्य् अष्टादश धातवो दश कुशलाः कर्मपथाश् चत्वारि ध्यानानि चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तयः पञ्चाभिज्ञाः ये चान्ये लौकिका धर्माः, इम उच्यन्ते लौकिकाः कुशला धर्माः
सुभूतिर् आह: कतमे भगवन् लोकोत्तराः कुशला धर्माः?
भगवान् आह: चत्वारि स्मृत्युपस्थानानि चत्वारि सम्यक्प्रहाणानि चत्वार ऋद्धिपादाः पञ्चेन्द्रियाणि पञ्च बलानि सप्त बोध्यङ्गान्य् आर्याष्टाङ्गो मार्गः, शून्यताविमोक्षमुखम् आनिमित्तविमोक्षमुखम् अप्रणिहितविमोक्षमुखम्, अनाज्ञातमाज्ञास्यामीन्द्रियम् आज्ञेन्द्रियम् आज्ञातावीन्द्रियं, सवितर्कः सविचारः समाधिः, अवितर्कः सविचारः समाधिः, अवितर्को ऽविचारः समाधिः, विद्याविमुक्तिः स्मृतिः संप्रजन्यं योनिशोमनस्कारः, अष्टौ विमोक्षाः कतमे अष्टौ? रूपी रूपाणि पश्यति, (psp1-2: 26) अयं प्रथमो विमोक्षः, अध्यात्मम् अरूपसंज्ञी बहिर्धा रूपाणि पश्यति, अयं द्वितीयो विमोक्षः, शुभतायाम् अधिमुक्तो भवति, अयं तृतीयो विमोक्षः, सर्वशो रूपसंज्ञानां समतिक्रमात्, प्रतिघसंज्ञानाम् अस्तङ्गमात्, नानात्वसंज्ञानाम् अमनसिकाराद् अनन्तम् आकाशम् इत्य् आकाशानन्त्यायतनम् उपसंपद्य विहरति, अयं चतुर्थो विमोक्षः, सर्वश आकाशानन्त्यायतनसमतिक्रमाद् अनन्तं विज्ञानम् इति विज्ञानानन्त्यायतनम् उपसंपद्य विहरति, अयं पञ्चमो विमोक्षः, सर्वशो विज्ञानानन्त्यायतनसमतिक्रमात्, नास्ति किञ्चिद् इत्य् आकिञ्चन्यायतनम् उपसंपद्य विहरति, अयं षष्ठो विमोक्षः, सर्वश आकिञ्चन्यायतनसमतिक्रमात्, नैव संज्ञानासंज्ञायतनम् उपसंपद्य विहरति, अयं सप्तमो विमोक्षः, सर्वशो नैवसंज्ञानासंज्ञायतनसमतिक्रमात् संज्ञावेदयितनिरोधम् उपसंपद्य विहरति, अयम् अष्टम् विमोक्षः, इम अष्टौ विमोक्षाः.
नवानुपूर्वविहारसमापत्तयः, चत्वारि ध्यानानि, विविक्तं कामैर् विविक्तं पापकैर् अकुशलैर् धर्मैः सवितर्कं सविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानम् उपसंपद्य विहरति, वितर्कविचाराणां व्युपशमाद् अध्यात्मं संप्रसादाच् चेतस एकोतीभावाद् अवितर्कम् अविचारं समाधिजं प्रीतिसुखं द्वितीयं ध्यानम् उपसंपद्य विहरति, प्रीतेर् विरागाद् उपेक्षकश् च विहरति स्मृतिमान् संप्रजानन् सुखञ् च कायेन प्रतिसंवेदयते यत् तदार्या आचक्षते उपेक्षकः स्मृतिमांश् चसुखविहारीति तृतीयं ध्यानम् उपसंपद्य विहरति, सुखस्य च प्रहाणाद् दुःखस्य च प्रहाणात् पूर्वम् एव सौमनस्यदौर्मनस्ययोर् अस्तङ्गमाद् अदुःखासुखम् उपेक्षास्मृतिपरिशुद्धं चतुर्थं ध्यानम् उपसंपद्य विहरति, स सर्वशो रूपसंज्ञानां समतिक्रमात् प्रतिघसंज्ञानाम् अस्तङ्गमान् नानात्वसंज्ञानाम् अमनसिकाराद् अनन्तम् आकाशमिति आकाशानन्त्यायतनम् उपसंपद्य विहरति, स सर्वश आकाशानन्त्यायतनसमतिक्रमाद् अनन्तं विज्ञानम् इति विज्ञानानन्त्यायतनम् उपसंपद्य विहरति, स सर्वशो विज्ञानानन्त्यायतनसमतिक्रमान् नास्ति किञ्चिद् इत्य् आकिञ्चन्यायतनम् उपसंपद्य विहरति, स सर्वश आकिञ्चन्यायतनसमतिक्रमान् नैवसंज्ञानासंज्ञायतनम् उपसंपद्य विहरति, स सर्वशो नैवसंज्ञानासंज्ञायतनसमतिक्रमात् संज्ञावेदयितनिरोधम् उपसंपद्य विहरति, एता नवानुपूर्वविहारसमापत्तयः.
अध्यात्मशून्यता बहिर्धाशून्यता अध्यात्मबहिर्धाशून्यता यावद् अभावस्वभावशून्यता, दश बलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदः, अष्टादशावेणिका बुद्धधर्माः, इम उच्यन्ते लोकोत्तराः कुशलधर्माः.
सुभूतिर् आह: कतमे भगवन् सास्रवा धर्माः?
भगवान् आह: पञ्च स्कन्धा द्वादशायतनान्य् अष्टादश धातवश् चत्वारि ध्यानानि चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तयः, इम उच्यन्ते सास्रवा धर्माः.
सुभूतिर् आह: कतमे भगवन् अनास्रवा धर्माः?
भगवान् आह: चत्वारि स्मृत्युपस्थानानि चत्वारि सम्यक्प्रहाणानि चत्वार ऋद्धिपादाः पञ्चेन्द्रियाणि पञ्च बलानि सप्त बोध्यङ्गान्य् आर्याष्टाङ्गो मार्गो दश तथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो यावद् अष्टादशावेणिका बुद्धधर्माः, इम उच्यन्ते अनास्रवाधर्माः.
सुभूतिर् आह: कतमे भगवन् संस्कृता धर्माः?
भगवान् आह: कामधातू रूपधातुर् आरूप्यधातुर् ये ऽप्य् अन्ये केचित् त्रैधातुकपर्यापन्ना धर्माः, सप्तत्रिंशद् बोधिपक्षादयो धर्माः, इम उच्यन्ते संस्कृता धर्माः.
सुभूतिर् आह: कतमे भगवन्न् असंस्कृता धर्माः?
भगवान् आह: येषां धर्माणां नोत्पादो न निरोधो नान्यथात्वं प्रज्ञायते रागक्षयो दोषक्षयो मोहक्षयश् च, तथता अवितथता अनन्यतथता धर्मता धर्मधातुर् धर्मस्थितिता धर्मनियामता भूतकोटिः, इम उच्यन्ते असंस्कृता धर्माः.
सुभूतिर् आह: कतमे भगवन् साधारणा धर्माः?
भगवान् आह: चत्वारि ध्यानानि चत्वार्य् अप्रमाणानि चतस्र आरूप्यसमापत्तयः पञ्चाभिज्ञाः, इम उच्यन्ते साधारणा धर्माः.
सुभूतिर् आह: कतमे भगवन्न् असाधारणा धर्माः?
भगवान् आह: सप्तत्रिंशद् बोधिपक्षधर्मा दश तथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदः त्रीणि विमोक्षमुखानि अष्टादशावेणिका बुद्धधर्माः, इम उच्यन्ते असाधारणा धर्माः.
तत्र बोधिसत्त्वेन महासत्त्वेन स्वलक्षणशून्येषु धर्मेषु न सक्तिः कार्या, अद्वययोगेन च सर्वधर्मा अवबोद्धव्याः, अवकल्पनताम् अनवकल्पनतां चोपादाय.
इत्य् उक्तं प्रतिपत्त्यालम्बनम्
सुभूतिर् आह: यद् उच्यते भगवन् बोधिसत्त्वो महासत्त्व इति, केन कारणेन भगवन् बोधिसत्त्वो महासत्त्व इत्य् उच्यते? भगवान् आह: इह सुभूते महतः सत्त्वराशेर् महतः सत्त्वनिकायस्याग्रतां कारयिष्यति, तेन कारणेन सुभूते बोधिसत्त्वो महासत्त्व इत्य् उच्यते.
सुभूतिर् आह: कतमे भगवन् महासत्त्वराशिर् महासत्त्वनिकायः यस्य बोधिसत्त्वो महासत्त्वो ऽग्रतां कारयिष्यति?
भगवान् आह: महासत्त्वराशिर् महासत्त्वनिकाय इति सुभूते उच्यते यद् उत गोत्रभूमिर् अष्टमकभूमिः स्रोतआपन्नः सकृदागामी अनागामी अर्हन् प्रत्येकबुद्धः प्रथमचित्तोत्पादम् उपादाय यावद् अविनिवर्तनीय इति, अयं स महान् सत्त्वराशिः महासत्त्वनिकायः, अस्य बोधिसत्त्वो महासत्त्वो ऽग्रतां कारयिष्यति, तत्र सुभूते बोधिसत्त्वेन महासत्त्वेन वज्रोपमं चित्तम् उत्पाद्य महतः सत्त्वराशेर् महतः सत्त्वनिकायस्याग्रताः कारयितव्याः.
सुभूतिर् आह: कतमो भगवन् वज्रोपमश् चित्तोत्पादः?
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्व एवं चित्तम् उत्पादयति, अपरिमिते मया संसारे सन्नाहं सन्नह्य सर्वस्वपरित्यागिना भवितव्यं, सर्वसत्त्वानाम् अन्तिके मया समचित्तता उत्पादयितव्या, सर्वसत्त्वा मया त्रिभिर् यानैः परिनिर्वापयितव्याः, सर्वसत्त्वान् अपि मया परिनिर्वाप्य न कश्चित् सत्त्वः परिनिर्वापितो भवति. तत् कस्य हेतोः? अनुत्पादो मया सर्वधर्माणाम् अवबोद्धव्यः, अव्यवकीर्णेन मया सर्वाकारज्ञताचित्तेन षट्सु पारमितासु चरितव्यं, सर्वत्रानुगतायां सर्वधर्मप्रतिवेधपरिनिष्पत्त्यां मया शिक्षितव्यम्, एकतयाभिनिर्हारो मया सर्वधर्माणां प्रतिबोद्धव्यः, यावत् पारमिताभिनिर्हारप्रतिवेधाय मया सर्वधर्माणां शिक्षितव्यं, सप्तत्रिंशद् बोधिपक्षधर्माभिनिर्हारप्रतिवेधाय मया धर्माणां शिक्षितव्यं, अप्रमाणध्यानारूप्याभिज्ञाज्ञानाभिनिर्हारप्रतिवेधाय मया धर्माणां शिक्षितव्यं, दशबलवैशारद्यावेणिकबुद्धधर्माभिनिर्हारप्रतिवेधाय मया धर्माणां शिक्षितव्यं, अयं सुभूते बोधिसत्त्वस्य महासत्त्वस्य वज्रोपमश् चित्तोत्पादो यत्र प्रतिष्ठितो बोधिसत्त्वो महासत्त्वो महतः सत्त्वराशेर् महतः सत्त्वनिकायस्याग्रतां (psp1-2: 29) कारयिष्यति, तच् चानुपलम्भयोगेन.
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्व एवं चित्तम् उत्पादयति, यावन्तः सत्त्वा नैरयिका वा तैर्यग्योनिका वा यमलौकिका वा दुःखां वेदनां वेदयन्ति, तेषाम् अहम् अर्थाय तां दुःखां वेदनां वेदयेयं तत्र बोधिसत्त्वेन महासत्त्वेन एवं चित्तम् उत्पादयितव्यम्, एकैकस्याप्य् अहं सत्त्वस्यार्थाय कल्पकोटीनियुतशतसहस्राणि नैरयिकं वा तैर्यग्योनिकं वा यमलौकिकं वा दुःखम् अनुभवेयं, यावन् न ते सत्त्वा निरुपधिशेषे निर्वाणधातौ परिनिर्वृता भवेयुर् इति, एतेनोपायेन सर्वसत्त्वानां कृतशस् तन् नैरयिकादिकं दुःखम् अनुभवेयं, यावन् न ते सत्त्वा निरुपधिशेषे निर्वाणधातौ परिनिर्वृता भवेयुर् इति, पश्चाद् अहम् आत्मनः कृतकुशलम् अवरोप्य कल्पकोटीनियुतशतसहस्रैर् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्ध्येयं, अयं सुबूते बोधिसत्त्वस्य महासत्त्वस्य वज्रोपमश् चित्तोत्पादो येन महतः सत्त्वराशेर् महतः सत्त्वनिकायस्याग्रतां कारयिष्यति.
पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन उदारचित्तेन भवितव्यं येन चित्तेन सर्वसत्त्वानाम् अग्रता कारयितव्या, तत्रेयं बोधिसत्त्वस्य महासत्त्वस्योदारचित्तता यत् प्रथमचित्तोत्पादम् उपादाय न रागचित्तम् उत्पादयति, न दोषचित्तम् उत्पादयति, न मोहचित्तम् उत्पादयति, न विहिंसाचित्तम् उत्पादयति, न श्रावकचित्तम् उत्पादयति, न प्रत्येकबुद्धचित्तम् उत्पादयति, इयं सुभूते बोधिसत्त्वस्य महासत्त्वस्योदारचित्तता यया सर्वसत्त्वानाम् अग्रतां कारयिष्यति, तेन च चित्तेन न मन्यते.
पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन अकम्प्यचित्तेन भवितव्यं, तत्रेयं बोधिसत्त्वस्य महासत्त्वस्याकम्प्यचित्तता यत् सर्वाकारज्ञताप्रतिसंयुक्तम् अपि मनसिकारन् न मन्यते, इयं सुभूते बोधिसत्त्वस्य महासत्त्वस्याकम्प्यचित्तता.
पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन सर्वसत्त्वानाम् अन्तिके हितसुखचित्तेन भवितव्यं, तत्रेयं बोधिसत्त्वस्य महासत्त्वस्य हितसुखचित्तता या सर्वसत्त्वानां परित्राणता यः सर्वसत्त्वानाम् अपरित्यागः, तेन च न मन्यते, इयं सुभूते बोधिसत्त्वस्य महासत्त्वस्य हितसुखचित्तता. एवं हि सुभूते बोधिसत्त्वो महसत्त्वः प्रज्ञापारमितायां चरन् सर्वसत्त्वानाम् अग्रतां कारयिष्यति.
पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन धर्मारागेण भवितव्यं धर्मरतेन धर्मारामतायोगम् अनुयुक्तेन भवितव्यं, तत्र कतमो धर्मो? यद् उत सर्वधर्माणाम् असंभेदः, अयम् उच्यते धर्मः, तत्र कतमा धर्मरतिर्? या धर्मे ऽभिरतिर् इयम् उच्यते धर्मरतिः, तत्र कतमा धर्मारामता? या तस्य धर्मस्य भावना बहुलीकरणता, इयम् उच्यते धर्मारामता. एवं हि सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता महतः सत्त्वराशेर् महतः सत्त्वनिकायस्याग्रता कारयितव्या अनुपलम्भयोगेन.
पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता अध्यात्मशून्यतायां स्थित्वा बहिर्धाशून्यतायां स्थित्वा अध्यात्मबहिर्धाशून्यतायां स्थित्वा यावद् अभावस्वभावशून्यतायां स्थित्वा महतः सत्त्वराशेर् महतः सत्त्वनिकायस्याग्रता कारयितव्या अनुपलम्भयोगेन.
पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता सप्तत्रिंशद् बोधिपक्षेषु धर्मेषु स्थित्वा बलेषु वैशारद्येषु प्रतिसम्वित्स्व् अष्टादशावेणिकेषु बुद्धधर्मेषु स्थित्वा महतः सत्त्वराशेर् महतः सत्त्वनिकायस्याग्रता कारयितव्या अनुपलम्भयोगेन.
पुनर् अपरं सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां चरता वज्रोपमसमाधौ स्थित्वा यावद् आकाशासङ्गविमुक्तिनिरुपलेपसमाधौ स्थित्वा महतः सत्त्वराशेर् महतः सत्त्वनिकायस्याग्रता कारयितव्या अनुपलम्भयोगेन, एतेषु सुभूते धर्मेषु स्थित्वा बोधिसत्तेन महासत्त्वेन प्रज्ञापारमितायां चरता महतः सत्त्वराशेर् महतः सत्त्वनिकायस्याग्रता कारयितव्या, तेनोच्यते बोधिसत्त्वो महासत्त्वः.
इति सर्वसत्त्वाग्रताचित्तमहत्त्वम्
अथ खल्व् आयुष्मान् शारिपुत्रो भगवन्तम् एतद् अवोचत्: ममापि भगवन् प्रतिभाति येनार्थेन बोधिसत्त्वो महासत्त्व इत्य् उच्यते.
भगवान् आह: प्रतिभातु ते शारिपुत्र येनार्थेन बोधिसत्त्वो महासत्त्व इत्य् उच्यते.
शारिपुत्र आह: आत्मदृष्टेर् भगवन् सत्त्वदृष्टेर् जीवदृष्टेर् जन्तुदृष्टेर् पोषपुरुषपुद्गलमनुजमानवकारकवेदकजानकपश्यकदृष्टेर् (psp1-2: 31) च्छेददृष्टेः शाश्वतदृष्टेर् अस्तिदृष्टेर् नास्तिदृष्टेः स्कन्धदृष्टेर् धातुदृष्टेर् आयतनदृष्टेः प्रतीत्यसमुत्पाददृष्टेर् बोधिपक्षधर्मदृष्टेर् बलवैशारद्यदृष्टेर् आवेणिकबुद्धधर्मदृष्टेः सत्त्वपरिपाचनदृष्टेर् बुद्धक्षेत्रपरिशोधनदृष्टेर् बोधिसत्त्वदृष्टेर् बुद्धदृष्टेर् धर्मचक्रप्रवर्तनदृष्टेर् इति, आसां सर्वासां दृष्टीनां प्रहाणाय धर्मं देशयत्य् अनुपलम्भयोगेन, तेनार्थेन बोधिसत्त्वो महासत्त्व इत्य् उच्यते.
सुभूतिर् आह: केन कारणेनायुष्मन् शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य रूपदृष्टिर् भवति, वेदनासंज्ञासंस्कारविज्ञानदृष्टिर् भवति?
शारिपुत्र आह: इहायुष्मन् सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकुशलो भवति, स रूपम् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन, एवं विस्तरेण व्यस्तसमस्तं स्कन्धधात्वायतनप्रतीत्यसमुत्पादं यावज् जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासान् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन, एवं स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गपारमिताभिज्ञाक्षराप्रमाणध्यानारूप्यसमापत्तीर् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन, एवं दशबलवैशारद्यप्रतिसंविदष्टादशावेणिकान् बुद्धधर्मान् उपलभ्य दृष्टिम् उत्पादयत्य् उपलम्भयोगेन.
इति प्रहाणमहत्त्वम्
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: ममापि भगवन् प्रतिभाति येनार्थेन बोधिसत्त्वो महासत्त्व इत्य् उच्यते.
भगवान् आह: प्रतिभातु ते सुभूते.
सुभूतिर् आह: यद् अपि भगवन् बोधिचित्तम् असमसमचित्तम् असाधारणचित्तं सर्वश्रावकप्रत्येकबुद्धैः तत्रापि चित्ते ऽसक्तः. तत् कस्य हेतोः? तथा हि तत् सर्वज्ञताचित्तम् अनास्रवम् अपर्यापन्नं त्रैधातुके तत्रापि चित्ते ऽसक्तस् तेन बोधिसत्त्वो महासत्त्व इति संख्यां गच्छति.
शारिपुत्र आह: कतमद् आयुष्मन् सुभूते बोधिसत्त्वस्य महासत्त्वस्य असमसमचित्तम् असाधारणचित्तं सर्वश्रावकप्रत्येकबुद्धैः?
सुभूतिर् आह: इहायुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रथमचित्तोत्पादम् उपादाय न कस्यचिद् धर्मस्य उत्पादं वा निरोधं वा समनुपश्यति, न हानिं न वृद्धिं नागतिं न गतिं न संक्लेशं न व्यवदानं यत्र चायुष्मन् शारिपुत्र न संक्लेशो न व्यवदानं न गतिर् नागतिर् न हानिर् न वृद्धिर् नोत्पादो न निरोधः, तच् च न श्रावकचित्तं न प्रत्येकबुद्धचित्तम्, इदं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य असमसमचित्तम् असाधारणचित्तं सर्वश्रावकप्रत्येकबुद्धैः.
शारिपुत्र आह: यद् आयुष्मान् सुभूतिर् एवम् आह, तत्रापि श्रावकप्रत्येकबुद्धचित्ते ऽसक्त इति, नन्व् आयुष्मन् सुभूते रूपम् अप्य् असक्तं प्रकृतिशून्यताम् उपादाय, वेदना संज्ञा संस्कारा विज्ञानम् अप्य् असक्तम्.
सुभूतिर् आह: एवम् एतद् आयुष्मन् शारिपुत्र रूपम् अप्य् असक्तं वेदना संज्ञा संस्कारा विज्ञानम् अप्य् असक्तं, यावद् व्यस्तसमस्ताः स्कन्धधात्वायतनप्रतीत्यसमुत्पादा यावज् जरामरणम् अप्य् असक्तं, एवम् अप्रमाणध्यानारूप्यसमापत्तयो ऽप्य् असक्ताः, यावत् सप्तत्रिंशद् बोधिपक्षा धर्मा बलानि वैशारद्यानि प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्मा अप्य् असक्ताः.
शारिपुत्र आह: यद् अप्य् आयुष्मान् सुभूतिर् इदम् आह, यद् अपि तत् सर्वज्ञताचित्तम् अनास्रवम् अपर्यापन्नम् इति, नन्व् आयुष्मन् सुभूते बालपृथग्जनानाम् अपि चित्तम् अनास्रवम् अपर्यापन्नं प्रकृतिशून्यताम् उपादाय, ननु सर्वश्रावकप्रत्येकबुद्धसम्यक्संबुद्धानाम् अपि चित्तम् अनास्रवम् अपर्यापन्नं प्रकृतिशून्यताम् उपादाय.
सुभूतिर् आह: एवम् एतद् आयुष्मन् शारिपुत्र.
शारिपुत्र आह: रूपम् अपि सुभूते अनास्रवम् अपर्यापन्नं प्रकृतिशून्यताम् उपादाय, वेदना संज्ञा संस्कारा विज्ञानम् अप्य् आयुष्मन् सुभूते अनास्रवम् अपर्यापन्नं प्रकृतिशून्यताम् उपादाय, नन्व् आयुष्मन् सुभूते सप्तत्रिंशद् बोधिपक्षा धर्मा दश तथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्मा अनास्रवा अपर्यापन्नाः प्रकृतिशून्यताम् उपादाय.
सुभूतिर् आह: एवम् एतद् आयुष्मन् शारिपुत्र यथा वदसि बालपृथग्जनानाम् अपि चित्तम् अनास्रवम् अपर्यापन्नं प्रकृतिशून्यताम् (psp1-2: 33) उपादाय, यावत् सर्वश्रावकप्रत्येकबुद्धसम्यक्संबुद्धानाम् अपि चित्तम् अनास्रवम् अपर्यापन्नं प्रकृतिशून्यताम् उपादाय, यावत् सप्तत्रिंशद् बोधिपक्षा धर्मा दश तथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्मा अनास्रवा अपर्यापन्नाः प्रकृतिशून्यताम् उपादाय.
शारिपुत्र आह: यद् अपि तद् आयुष्मान् सुभूतिर् एवम् आह, अचित्तत्वात् तत्रापि चित्ते असक्त इति, नन्व् आयुष्मन् सुभूते ऽरूपे ऽपि रूपम् असक्तम् अवेदनायाम् अपि वेदना असक्तासंज्ञायाम् अपि संज्ञा असक्तासंस्कारेष्व् अपि संस्कारा असक्ताविज्ञाने ऽपि विज्ञानम् असक्तम्.
सुभूतिर् आह: एवम् एतद् आयुष्मन् शारिपुत्र.
शारिपुत्र आह: नन्व् आयुष्मन् सुभूते ऽस्मृत्युपस्थानेष्व् अपि स्मृत्युपस्थानान्य् असक्तानि, एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गपारमिताप्रमाणध्यानारूप्यसमापत्त्यभिज्ञाबलवैशारद्यानि यावद् आवेणिकबुद्धधर्मेष्व् अपि आवेणिकबुद्धधर्मा असक्ताः.
सुभूतिर् आह: एवम् एतद् आयुष्मन् शारिपुत्र यथा वदसि, रूपे ऽप्य् आयुष्मन् शारिपुत्र रूपम् असक्तं वेदना संज्ञा संस्कारा विज्ञाने ऽपि विज्ञानम् असक्तम्, एवं व्यस्तसमस्ता अपि स्कन्धधातव आयतनानि सत्यानि प्रतीत्यसमुत्पादो ऽप्रमाणध्यानारूप्यसमापत्तयः, पारमिता अभिज्ञा बोधिपक्षा धर्मा बलानि वैशारद्यानि प्रतिसंविदः, आवेणिकेषु बुद्धधर्मेष्व् आवेणिका बुद्धधर्मा असक्ताः, एवं ह्य् आयुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरंस् तेनापि बोधिचित्तेन असमसमचित्तेन सर्वश्रावकप्रत्येकबुद्धैर् असाधारणचित्तेन न मन्यते नाभिनिविशते सर्वधर्मानुपलम्भयोगेन.
इत्य् अधिगममहत्त्वम्
इत्य् उक्तः प्रतिपत्त्युद्देशः
पूर्णो मैत्रायणीपुत्र आह: ममापि भगवन् प्रतिभाति येनार्थेन बोधिसत्त्वो महासत्त्व इत्य् उच्यते.
भगवान् आह: प्रतिभातु ते पूर्ण.
पूर्ण आह: महासन्नाहसन्नद्धः स भगवन् सत्त्वो महायानसंप्रस्थितः स सत्त्वो महायानसमारूढः स सत्त्वस् तेन भगवन् बोधिसत्त्वो महासत्त्व इत्य् उच्यते.
शारिपुत्र आह: कियता अयुष्मन् पूर्ण बोधिसत्त्वो महसत्त्वो महासन्नाहसन्नद्ध इत्य् उच्यते?
पूर्ण आह: इहायुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वो न प्रादेशिकानां सत्त्वानां कृतेन बोधाय चरन् दानपारमितायां स्थित्वा दानं ददाति, अपि तु सर्वसत्त्वानां कृतेन दानपारमितायां स्थित्वा दानं ददाति, एवं शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां न प्रादेशिकानां सत्त्वानां कृतेन बोधाय चरन् प्रज्ञापारमितायां स्थित्वा प्रज्ञापारमितां भावयति, अपि तु सर्वसत्त्वानां कृतेन प्रज्ञापारमितायां स्थित्वा प्रज्ञापारमितां भावयति, न सत्त्वपरिच्छेदेन बोधिसत्त्वो महासत्त्वो महासन्नाहं संनह्यते, इयतः सत्त्वान् परिनिर्वापयिष्यामि, इयतः सत्त्वान् न परिनिर्वापयिष्यामीति, इयतः सत्त्वान् बोधाय प्रतिष्ठापयिष्यामि, इयतः सत्त्वान् बोधाय न प्रतिष्ठापयिष्यामीति, अपि तु खलु पुनः सर्वसत्त्वानां कृतेन सन्नाहं संनह्यते, एवं चास्य भवति, आत्मना च दानपारमितां परिपूरयिष्यामि सर्वसत्त्वांश् च दानपारमितायां नियोजयिष्यामीति, एवं शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां, आत्मना च प्रज्ञापारमितां परिपूरयिष्यामि, सर्वसत्त्वांश् च प्रज्ञापारमितायां नियोजयिष्यामीति, एवम् अप्रमाणध्यानारूप्यसमापत्तीः, आत्मना च भावयिष्यामि सर्वसत्त्वांश् च तासु प्रतिष्ठापयिष्यामीति, यावत् सप्तत्रिंशद् बोधिपक्षेषु धर्मेषु दशबलवैशारद्याष्टादशावेणिकेषु बुद्धधर्मेष्व् आत्मना च स्थास्यामि सर्वसत्त्वांश् च तेषु प्रतिष्ठापयिष्यामीति, इयतायुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वो महासन्नाहसन्नद्ध इत्य् उच्यते.
इति प्रतिपत्तिस्वरूपम्
पुनर् अपरं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो दानं ददतः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् यावद् दानस्य सर्वसत्त्वसाधारणं कृत्वानुत्तरायै सम्यक्संबोधये निर्यातना, अयं बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो दानं ददतो दानपारमितासन्नाहः.
पुनर् अपरं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो दानं ददतः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् या श्रावकप्रत्येकबुद्धमनसिकाराणां परिवर्जनता, अयं बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो दानं (psp1-2: 35) ददतः शीलपारमितासन्नाहः.
पुनर् अपरं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो दानं ददतः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् या तेषां क्षमणा रोचना व्युपपरीक्षणा, अयम् उच्यते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो क्षान्तिपारमितासन्नाहः.
पुनर् अपरं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायाञ् चरतो दानं ददतः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् या वीर्यास्रंसनता तत् कुशलमूलं सर्वसत्त्वसाधारणं कृत्वा अनुत्तरायै सम्यक्संबोधये परिणामयति, अयं बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो दानं ददतो वीर्यपारमितासन्नाहः.
पुनर् अपरं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो दानं ददतो या चित्तस्यैकाग्रता सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः श्रावकप्रत्येकबुद्धचित्तस्यानवकाशं दानता तत् कुशलमूलं सर्वसत्त्वसाधारणं कृत्वा अनुत्तरायै सम्यक्संबोधये परिणामयति, अयं बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो दानं ददतो ध्यानपारमितासन्नाहः.
पुनर् अपरं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो दानं ददतः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् या मायाकृतसंज्ञोपस्थिता नैव दायकम् उपलभते न प्रतिग्राहकं न देयं, अयं बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो दानं ददतः प्रज्ञापारमितासन्नाहः, यद् आयुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन ताः षट् पारमिता न निमित्तीकरोति नोपलभते.
एवं ह्य् आयुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् महासन्नाहसन्नद्धो भवति.
इति दानपारमितासन्नाहषट्कं प्रथमम्
पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वः शीलपारमितायां चरन् सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् दानं ददाति सर्वसत्त्वसाधारणं कृत्वा अनुत्त्रायै सम्यक्संबोधये परिणामयत्य् अनुपलम्भयोगेन, इयं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य शीलपारमितायां चरतो दानपारमिता.
पुनर् अपरं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः शीलपारमितायां चरतो या श्रावकप्रत्येकबुद्धभूम्यस्पृहणता प्राग् एव पृथग्जनभूमेः, इयं बोधिसत्त्वस्य महासत्त्वस्य शीलपारमितायां चरतः शीलपारमिता.
पुनर् अपरं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य शीलपारमितायां चरतः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् या धर्माणां क्षमणा रोचना व्युपपरीक्षणा, इयं बोधिसत्त्वस्य महासत्त्वस्य शीलपारमितायां चरतः क्षान्तिपारमिता.
पुनर् अपरं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य शीलपारमितायां चरतः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् या वीर्यास्रंसनता अनवलीनता, इयं बोधिसत्त्वस्य महासत्त्वस्य शीलपारमितायां चरतो वीर्यपारमिता.
पुनर् अपरं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य शीलपारमितायां चरतः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् विहरतो यच् छ्रावकप्रत्येकबुद्धप्रतिसंयुक्तानां चित्तोत्पादानाम् अनवकाशदानं तस्य कृतशः कुशलमूलस्य सर्वसत्त्वसाधारणी कृतस्यानुत्तरायै सम्यक्संबोधये परिणामना, इयं बोधिसत्त्वस्य महासत्त्वस्य शीलपारमितायां चरतो ध्यानपारमिता.
पुनर् अपरं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य शीलपारमितायां चरतः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः सर्वधर्मेषु मायाकृतसंज्ञाप्रत्युपस्थिता भवति, तच् च शीलं न मन्यते नोपलभते, इयम् आयुष्मन् शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य शीलपारमितयां चरतः प्रज्ञापारमिता.
एवं हि शारिपुत्र बोधिसत्त्वो महासत्त्वः शीलपारमितायां चरन् षट् पारमिताः परिगृह्णाति, तेन महासन्नाहसन्नद्ध इति संख्यां गच्छति.
इति शीलपारमितासन्नाहषट्कं द्वितीयम्
पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वः क्षान्तिपारमितायां चरन् दानं ददाति सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर् मनसिकारैस् तच् च कुशलमूलं सर्वसत्त्वसाधारणं कृत्वा अनुत्तरायै सम्यक्संबोधये परिणामयति, (psp1-2: 37) इयं बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिपारमितायां चरतो दानपारमिता, एवं क्षान्तिपारमितायां चरतः शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता.
पुनर् अपरम् आयुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वः क्षान्तिपारमितायां चरन् सर्वबुद्धधर्मसमुदानयनतायै सर्वसत्त्वपरिपाकाय च प्रयुज्यते प्रज्ञया सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर् मनसिकारैस् तच् चकुशलमूलं सर्वसत्त्वसाधारणं कृत्वा अनुत्तरायै सम्यक्संबोधये परिणामयति, इयं बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिपारमितायां चरतः प्रज्ञापारमिता.
एवं हि शारिपुत्र बोधिसत्त्वो महासत्त्वः क्षान्तिपारमितायां चरन् षट् पारमिताः परिगृह्णाति, तेन महासन्नाहसन्नद्ध इति संख्यां गच्छति.
इति क्षान्तिपारमितासन्नाहषट्कं तृतीयम्
पुनर् अपरम् आयुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वो वीर्यपारमितायां चरन् दानं ददाति सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर् मनसिकारैस् तच् च कुशलमूलं सर्वसत्त्वसाधारणं कृत्वा अनुत्तरायै सम्यक्संबोधये परिणामयति, इयं बोधिसत्त्वस्य महासत्त्वस्य वीर्यपारमितायां चरतो दानपारमिता, एवं वीर्यपारमितायां चरतः शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता.
पुनर् अपरम् आयुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वो वीर्यपारमितायां चरन् प्रज्ञापारमितां भावयन् सर्वधर्मेषु मायाकृतसंज्ञाम् उपस्थापयति, सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर् मनसिकारैस् तच् च कुसलमूलं सर्वसत्त्वसाधारणं कृत्वा अनुत्तरायै सम्यक्संबोधये परिणामयति, इयं बोधिसत्त्वस्य महासत्त्वस्य वीर्यपारमितायां चरतः प्रज्ञापारमिता.
एवं हि शारिपुत्र बोधिसत्त्वो महासत्त्वो वीर्यपारमितायां चरन् षट् पारमिताः परिगृह्णाति, तेन महासन्नाहसन्नद्ध इति संख्यां गच्छति.
इति वीर्यपारमितासन्नाहषट्कं चतुर्थम्
पुनर् अपरम् आयुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वो ध्यानपारमितायां (psp1-2: 38) चरन् दानं ददाति सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर् मनसिकारैस् तच् च कुशलमूलं सर्वसत्त्वसाधारणं कृत्वा अनुत्तरायै सम्यक्संबोधये परिणामयति, इयं बोधिसत्त्वस्य महासत्त्वस्य ध्यानपारमितायां चरतो दानपारमिता, एवं ध्यानपारमितायां चरतः शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता.
पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वो ध्यानपारमितायां चरन् प्रज्ञापारमितां भावयन् सर्वधर्मेषु मायाकृतसंज्ञाम् उपस्थापयति, सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर् मनसिकारैस् तच् च कुशलमूलं सर्वसत्त्वसाधारणं कृत्वा अनुत्तरायै सम्यक्संबोधये परिणामयति, इयं बोधिसत्त्वस्य महासत्त्वस्य ध्यानपारमितायां चरतः प्रज्ञापारमिता.
एवं हि शारिपुत्र बोधिसत्त्वो महासत्त्वो ध्यानपारमितायां चरन् षट् पारमिताः परिगृह्णाति, तेन महासन्नाहसन्नद्ध इति संख्यां गच्छति.
इति ध्यानपारमितासन्नाहषट्कं पञ्चमम्
पुनर् अपरम् आयुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरंस् त्रिमण्डलपरिशुद्धं दानं ददाति सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर् मनसिकारैस् तच् च कुशलमूलं सर्वसत्त्वसाधारणं कृत्वा अनुत्तरायै सम्यक्संबोधये परिणामयति, इयं बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो दानपारमिता, एवं प्रज्ञापारमितायां चरतः शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता.
पुनर् अपरम् आयुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् प्रज्ञापारमितां भावयति, तस्य सर्वपारमितासु सर्वधर्मेषु च मायास्वप्नप्रतिभासप्रतिश्रुत्काप्रतिबिम्बनिर्माणसंज्ञा प्रत्युपस्थिता भवति सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् न श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर् मनसिकारैस् तच् च कुशलमूलं सर्वसत्त्वसाधारणं कृत्वा अनुत्तरायै सम्यक्संबोधये परिणामयति, एवं हि शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् प्रज्ञापारमितां परिपूरयति, यद् आयुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेनैताः षट् (psp1-2: 39) पारमिता न निमित्तीकरोति नोपलभते.
एवं ह्य् आयुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् महासन्नाहसन्नद्धो भवति, एवं च पुनर् आयुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्व एकैकस्यां पारमितायां स्थित्वा षट् पारमिताः परिपूरयति.
इति प्रज्ञापारमितासन्नाहषट्कं षष्ठम्
पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वो ध्यानानि च समापद्यते न च ध्यानान्य् आस्वादयति न च तैः संह्रियते न च तेषां वशेनोपपद्यते, एवम् अप्रमाणानि चारूप्यसमापत्तीश् च समापद्यते न च ता आस्वादयति न च ताभिः संह्रियते न च तासां वशेनोपपद्यते, इयं बोधिसत्त्वस्य महासत्त्वस्योपायकौशलगता प्रज्ञापारमिता वेदितव्या.
पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वो ध्यानारूप्यसमापत्तिषु विवेकदर्शनेन च विहरति शून्यतानिमित्ताप्रणिहितदर्शनेन च विहरति न च भूतकोटिं साक्षात्करोति, अयं बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरत उपायकौशलसन्नाहः.
एवम् आयुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वो महासन्नाहसन्नद्धस् तेनोच्यते बोधिसत्त्वो महासत्त्व इति, एवं महासन्नाहसन्नद्धस्यायुष्मन् शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य दशसु दिक्षु बुद्धा भगवन्त उदानम् उदानयन्ति वर्णम् उदीरयन्ति नामधेयं परिकीर्तयमानास् तस्य बोधिसत्त्वस्य महासत्त्वस्य शब्दम् अनुश्रावयन्ति घोषम् उदीरयन्ति, अमुष्मिन् लोकधातुप्रसरे बोधिसत्त्वो महासत्त्वो महासन्नाहसन्नद्ध इति सत्त्वांश् च परिपाचयति बुद्धक्षेत्रं च परिशोधयति.
इति सन्नाहषट्कोपसंहारः
इत्य् उक्ता सन्नाहप्रतिपत्तिः
शारिपुत्र आह: कियत् आयुष्मन् पूर्ण बोधिसत्त्वो महासत्त्वो महायानसंप्रस्थितो महायानसमारूढो भवति?
पूर्ण आह: इहायुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वो दानपारमितायां चरन् विविक्तं कामैर् विविक्तं पापकैर् अकुशलैर् धर्मैः सवितर्कसविचारं विवेकजं प्रीतिसुखं प्रथमं ध्यानम् (psp1-2: 40) उपसंपद्य विहरति, एवं द्वितीयं तृतीयं चतुर्थं ध्यानं, एवम् आकाशानन्त्यायतनं विज्ञानानन्त्यायतनम् आकिञ्चन्यायतनं नैवसंज्ञानासंज्ञायतनम् उपसंपद्य विहरति, इमानि बोधिसत्त्वस्य महासत्त्वस्य ध्यानारूप्याणि यदा बोधिसत्त्वो महासत्त्व एतैश् च ध्यानैर् एतैश् चारूप्यैर् दानपारमितायां चरन्न् आकाशाकारलिङ्गनिमित्तैः समापद्यमानो व्युत्तिष्ठमानश् च तानि च कुशलमूलानि सर्वसत्त्वसाधारणानि कृत्वा अनुत्तरायै सम्यक्संबोधये परिणामयति, इयं बोधिसत्त्वस्य महासत्त्वस्य दानपारमिता, एवं शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां वाच्यम्.
पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरंश् चत्वारि ध्यानानि समापद्यते चतस्र आरूप्यसमापत्तीः समापद्यते, यदा बोधिसत्त्वो महासत्त्व एतैश् च ध्यानैर् एताभिश् चारूप्यसमापत्तिभिर् विहरति, स एता ध्यानारूप्यसमापत्तीः समापद्यमानो व्युत्तिष्ठमानश् चाकाशाकारलिङ्गनिमित्तानि मनसिकरोति, प्रज्ञापारमितायां चरंस् तानि च कुशलमूलान्य् अन्यानि च सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः सर्वसत्त्वसाधारणानि कृत्वा अनुत्तरायै सम्यक्संबोधये परिणामयति, इयं बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिता.
एवं ह्य् आयुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वः षट् पारमितासु चरन् महासन्नाहसन्नद्धः सत्त्वांश् च परिपाचयति बुद्धक्षेत्रं च परिशोधयति.
इति ध्यानारूप्यसमापत्तिव्युत्थानप्रस्थानम्
पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वो यत् सर्वाकारज्ञताप्रतिसंयुक्तं मनसिकारम् उत्पाद्य क्लेशानां ध्वंसनाय सर्वसत्त्वानां धर्मं देशयिष्यामीति चित्तम् उत्पादयति, इयं बोधिसत्त्वस्य महासत्त्वस्य दानपारमिता,
यद् बोधिसत्त्वो महासत्त्वस् तैर् एव सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः प्रथमं ध्यानम् आक्रामति देशयति, तत्र च प्रथमे ध्याने प्रतिष्ठते न चान्येषां चित्तोत्पादानाम् अवकाशं ददाति श्रावकप्रत्येकबुद्धप्रतिसंयुक्तानाम् इयं बोधिसत्त्वस्य महासत्त्वस्य अपरामृष्टा शीलपारमिता,
यद् बोधिसत्त्वस्य महासत्त्वस्य सर्वाकारज्ञताप्रतिसंयुक्तैर् (psp1-2: 41) मनसिकारैर् ध्यानारूप्यैर् विहरत एवं भवति, सर्वसत्त्वानां क्लेशक्षयाय धर्मं देशयिष्यामीति, यावत् तेषां मनसिकाराणां क्षमणा रोचना व्युपपरीक्षणा अवबोध उपनिध्यापनम्, इयं बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिपारमिता.
पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः सर्वकुशलमूलानि सर्वसत्त्वसाधारणानि कृत्वा अनुत्तरायै सम्यक्संबोधये परिणामयति वीर्यं च न स्रंसयति, इयं बोधिसत्त्वस्य महासत्त्वस्य वीर्यपारमिता,
यद् बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् ध्यानारूप्यसमापत्तीश् च समापद्यते न चोपलभते, इयं बोधिसत्त्वस्य महासत्त्वस्य ध्यानपारमिता,
यद् बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः प्रथमध्यानाङ्गानि द्वितीयानि तृतीयानि चतुर्थानि ध्यानाङ्गानि अनित्याकारेण दुःखाकारेण अनात्माकारेण शान्ताकारेण शून्याकारेण आनिमित्ताकारेण अप्रणिहिताकारेण प्रत्यवेक्षते न चोपलभते, इयं बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिता.
इदम् आयुष्मन् शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य महायानम्.
इति षट्पारमिताप्रस्थानम्
पुनर् अपरम् आयुष्मन् शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य महायानं, यत् सर्वाकारं सप्तत्रिंशद् बोधिपक्षान् धर्मान् भावयति, सर्वाकारं शून्यतानिमित्ताप्रणिहितविमोक्षमुखसमाधिं भावयति, सर्वाकारं बलानि वैशारद्यानि अष्टादशावेणिकान् बुद्धधर्मान् भावयति.
इदम् आयुष्मन् शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य महायानम्.
इत्य् आर्यमार्गप्रस्थानम्
पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वो मैत्रीसहगतेन चित्तेन विपुलेन महद्गतेनाद्वयेनाप्रमाणेनावैरेणासपत्नेनानावरणेनाव्यावधेन सर्वत्रानुगतेन सुभाषितेन धर्मधातुपरमे लोके आकाशधातुपर्यवसाने सर्वावन्तं लोकम् एकां दिशं स्फुरित्वोपसंपद्य विहरति, यावद् दश दिशः स्फुरित्वोपसंपद्य विहरति, एवं करुणासहगतेन मुदितासहगतेन उपेक्षासगतेन चित्तेनविपुलेन महद्गतेनाद्वयेनाप्रमाणेनावैरेणासपत्नेनानावरणेनाव्यावाधेन सर्वत्रानुगतेन सुभाषितेन धर्मधातुपरमे लोके आकाशधातुपर्यवसाने सर्वावन्तं लोकं, एकां दिशं स्फुरित्वोपसंपद्य (psp1-2: 42) विहरति, यावद् दश दिशः स्फारित्वोपसंपद्य विहरति. इमान्य् उच्यन्ते बोधिसत्त्वस्य महासत्त्वस्याप्रमाणानि.
पुनर् अपरं शारिपुत्र बोधिसत्त्वो महसत्त्वो मैत्रीसमाधिं समापद्यते मया सर्वसत्त्वास् त्रातव्या इति निर्णामयति, करुणां च समाधिं समापद्यते क्लीबकारुण्यतां च सत्त्वेषु निर्णामयति, मुदितां च समाधिं समापद्यते अहम् एव मोदयिष्यामीति सत्त्वेषु निर्णामयति, उपेक्षां च समाधिं समापद्यते आस्रवक्षयं च सत्त्वेषु निर्णामयति, इयं बोधिसत्त्वस्य महासत्त्वस्याप्रमाणेषु चरतो दानपारमिता,
यदा बोधिसत्त्वो महासत्त्वो ध्यानाप्रमाणाकारलिङ्गनिमित्तानि समापद्यते व्युत्तिष्ठते च न च श्रावकप्रत्येकबुद्धभूमौ परिणामयत्य् अन्यत्र सर्वाकारज्ञतायाः, इयं बोधिसत्त्वस्य महासत्त्वस्याप्रमाणेषु चरतो ऽपरामृष्टा शीलपारमिता,
यदा बोधिसत्त्वो महासत्त्वस् ताभिर् ध्यानाप्रमाणारूप्यसमापत्तिभिर् अव्यवकीर्णो विहरति, आभ्यां द्वाभ्यां श्रावकभूमये वा प्रत्येकबुद्धभूमये वा न स्पृहयते सर्वाकारज्ञतैवास्य क्षमते रोचते चेयं बोधिसत्त्वस्य महासत्त्वस्याप्रमाणेषु चरतः क्षान्तिपारमिता,
यदा बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तैश् चित्तोत्पादैर् अनिक्षिप्तधुरो विहरति अकुशलधर्मप्रहाणाय कुशलधर्मोपसंपदे, इयं बोधिसत्त्वस्य महासत्त्वस्याप्रमाणेषु चरतो वीर्यपारमिता,
यदा बोधिसत्त्वो महासत्त्व एतानि च ध्यानान्य् एताश् चाप्रमाणारूप्यसमापत्तीश् च समापद्यते, न च ध्यानाप्रमाणारूप्यसमापत्तिवशेनोपपद्यते, न च ता आस्वादयति न च ताभिः संह्रियते, इयं बोधिसत्त्वस्य महासत्त्वस्याप्रमाणेषु चरतो ध्यानपारमिता,
यदा बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैस् ता ध्यानाप्रमाणारूप्यसमापत्तीः समापद्यते च व्युत्तिष्ठते च ताश् चानित्याकारेण दुःखाकारेण अनात्माकारेण शान्ताकारेण शून्याकारेण अनिमित्ताकारेण अप्रणिहिताकारेण प्रत्यवेक्षते, न च श्रावकन्यामं वा प्रत्येकबुद्धन्यामं वाभिक्रामति, इयं बोधिसत्त्वस्य महासत्त्वस्याप्रमाणेषु चरतः प्रज्ञापारमिता. इदम् आयुष्मन् शारिपुत्र बोधिसत्त्वस्य महासत्त्व्स्य माहायानम्.
इत्य् अप्रमाणप्रस्थानम्
पुनर् अपरम् आयुष्मन् शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य महायानम्, यद् अध्यात्मशून्यतायां ज्ञानं न चोपलम्भयोगेन, यद् बहिर्धाशून्यतायां ज्ञानं न चोपलम्भयोगेन, यद् अध्यात्मबहिर्धाशून्यतायां ज्ञानं न चोपलम्भयोगेन, यावद् अभावस्वभावशून्यतायां ज्ञानं न चोपलम्भयोगेन. इदं बोधिसत्त्वस्य महासत्त्वस्य महायानम्.
पुनर् अपरं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य महायानं, यत् सर्वधर्मेषु न शिक्षिष्यते चित्तं समाहितं तज् ज्ञानम्. इदम् अपि बोधिसत्त्वस्य महासत्त्वस्य महायनम्.
पुनर् अपरं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य महायानं, यद् अस्य न नित्यम् इति ज्ञानं प्रवर्तते नानित्यम् इति, न दुःखम् इति नादुःखम् इति, न सुखम् इति नासुखम् इति, नात्मेति नानात्मेति, न शान्तम् इति नाशान्तम् इति, न शून्यम् इति नाशून्यम् इति, न निमित्तम् इति नानिमित्तम् इति, न प्रणिहितम् इति नाप्रणिहितम् इति ज्ञानं प्रवर्तते. इदम् अपि सुभूते बोधिसत्त्वस्य महासत्त्वस्य महायनम्.
पुनर् अपरं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य महायानं, यद् अतीते ऽध्वनि ज्ञानं न प्रवर्तते, अनागते ऽध्वनि ज्ञानं न प्रवर्तते, प्रत्युत्पन्ने ऽध्वनि ज्ञानं न प्रवर्तते, न चास्य त्रिष्व् अध्वस्व् अज्ञानं प्रवर्तते, तच् चानुपलम्भयोगेन. इदम् अपि शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य महायानम्.
पुनर् अपरं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य महायानं, यन् न कामधातौ ज्ञानं प्रवर्तते न रूपधातौ ज्ञानं प्रवर्ततेनारूप्यधातौ ज्ञानं प्रवर्तते, न चास्य कामरूपारूप्यधाताव् अज्ञानं प्रवर्तते, तच् चानुपलम्भयोगेन. इदम् अपि शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य महायानम्.
पुनर् अपरं शारिपुत्र बोधिसत्त्वस्य महासत्त्वस्य महायानं, यन् न लौकिकेषु लोकोत्तरेषु धर्मेषु ज्ञानं प्रवर्तते, न सास्रवेषु धर्मेषु नानास्रवेषु धर्मेषु न संस्कृतेषु नासंस्कृतेषु न चास्यलौकिकलोकोत्तरसास्रवानास्रवसंस्कृतासंस्कृतेषु धर्मेष्व् अज्ञानं प्रवर्तते, तच् चानुपलम्भयोगेन. इदम् आयुष्मन् शारिपुत्र बोधिसत्त्वस्य (psp1-2: 44) महासत्त्वस्य महायानम्.
इत्य् अनुपलम्भयोगेन प्रस्थानम्
शारिपुत्र आह: कियतायुष्मन् पूर्ण बोधिसत्त्वो महासत्त्वो महायानसमारूढ इत्य् उच्यते?
पूर्ण आह: इहायुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् दानपारमिताम् आरोहति, स नैव दानपारमिताम् उपलभते न दायकं न प्रतिग्राहकं न दानम् उपलभते अनुपलम्भयोगेन, एवं ह्य् आयुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वोदानपारमितासमारूढ इत्य् उच्यते, एवं शीलपारमितासमारूढः क्षान्तिपारमितासमारूढो वीर्यपारमितासमारूढो ध्यानपारमितासमारूढः प्रज्ञापारमितायां चरन् प्रज्ञापारमिताम् आरोहति, स नैवप्रज्ञापारमिताम् उपलभते न बोधिसत्त्वं न मनसिकारम् उपलभते अनुपलम्भयोगेन. एवं ह्य् आयुष्मन् शारिपुत्र बोधिसत्त्वो महसत्त्वः प्रज्ञापारमितासमारूढ इत्य् उच्यते.
इति त्रिमण्डलपरिशुद्धिप्रस्थानम्
पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वो ऽव्यवकीर्णेन सर्वाकारज्ञताचित्तोत्पादेन सप्तत्रिंशद् बोधिपक्षान् धर्मान् भावयति भावनाविभावनार्थेन तच् चानुपलम्भयोगेन. एवं ह्य् आयुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वो महायानसमारूढ इत्य् उच्यते.
पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वो ऽव्यवकीर्णेन सर्वाकारज्ञताचित्तोत्पादेन शून्यतानिमित्ताप्रणिहितसमाधीन् भावयति भावनाविभावनार्थेन तच् चानुपलम्भयोगेन. एवं ह्य् आयुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वो महायानसमारूढ इत्य् उच्यते.
पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वो ऽव्यवकीर्णेन सर्वाकारज्ञताचित्तोत्पादेन दश तथागतबलानि चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदो ऽष्टादशावेणिकान् बुद्धधर्मान् भावयति भावनाविभावनार्थेन तच् चानुपलम्भयोगेन. एवं ह्य् आयुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वो महायानसमारूढ इत्य् उच्यते.
पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्व एवं संजानाति, व्यवहारमात्रम् इदं यद् उत बोधिसत्त्व इति सत्त्वानुपलब्धिताम् उपादाय, इदम् अपि नाममात्रं यद् उत रूपं रूपानुपलब्धिताम् उपादाय, वेदना संज्ञा संस्काराः, नाममात्रम् इदं यद् उत विज्ञानं विज्ञानानुपलब्धिताम् उपादाय, नाममात्रम् इदं यद् उत चक्षुश् चक्षुषो (psp1-2: 45) ऽनुपलब्धिताम् उपादाय, एवं श्रोत्रं घ्राणं जिह्वा कायो नाममात्रम् इदं यद् उत मनो मनसो ऽनुपलब्धिताम् उपादाय, एवं व्यस्तसमस्ताः स्कन्धा धातव आयतनानि प्रतीत्यसमुत्पादः सप्तत्रिंशद् बोधिपक्ष्या धर्मा बलानि वैशारद्यानि प्रतिसंविदो ऽष्टादशावेणिका बुद्धधर्माः, नाममात्रम् इदं यद् उत अध्यात्मशून्यता बहिर्धाशून्यता अध्यात्मबहिर्धाशून्यता यावद् अभावस्वभावशून्यता अभावस्वभावशून्यतानुपलब्धिताम् उपादाय, नाममात्रम् इदं यद् उत बुद्धधर्माबुद्धधर्मानुपलब्धिताम् उपादाय, नाममात्रम् इदं यद् उत तथता धर्मधातुश् च धर्मनियामता च भूतकोटिश् च भूतकोट्यनुपलब्धिताम् उपादाय, नाममात्रं यद् उत बोधिर् बुद्धश् च बुद्धानुपलब्धिताम् उपादाय. एवं ह्य् आयुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वो महायानसमारूढ इत्य् उच्यते.
इत्य् उद्देशप्रस्थानम्
पुनर् अपरं शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रथमचित्तोत्पादम् उपादाय यावद् बोधिर् अत्रान्तरे बोधिसत्त्वो महासत्त्वो ऽभिज्ञापरिपूर्णत्वात् सत्त्वांश् च परिपाचयति बुद्धक्षेत्रेण च बुद्धक्षेत्रं संक्रामति, बुद्धक्षेत्रे बुद्धक्षेत्रे च बुद्धान् भगवतः सत्करोति गुरुकरोति मानयति पूजयति, यो यस्य बुद्धस्य औपयिकपूजासत्कारविधिस् तेभ्यश् च बुद्धेभ्यो भगवद्भ्यो धर्मं शृणोति, यद् उत इदम् एव महायानम्, स तत्र बोधिसत्त्वयाने अभिरुह्य बुद्धक्षेत्रेण च बुद्धक्षेत्रं संक्रामति, बुद्धक्षेत्रं च परिशोधयति सत्त्वांश् च परिपाचयति, न चास्य बुद्धक्षेत्रसंज्ञा प्रवर्तते न सत्त्वसंज्ञा प्रवर्तते, सो ऽद्वयभूमौ स्थित्वा यादृशेनात्मभावेन सत्त्वानां शक्नोत्य् अर्थकरणाय तादृशम् आत्मभावं संचिन्त्य परिगृह्णाति, स न जातु तेन महायानेन विरहितो भवति, यावत् सर्वाकारज्ञताम् अनुप्राप्नोति.
इत्य् अभिज्ञाप्रस्थानम्
सर्वाकारज्ञताम् अनुप्राप्य धर्मचक्रं प्रवर्तयति, अप्रवर्तनीयं सर्वश्रावकप्रत्येकबुद्धैर् देवनागयक्षगन्ध्र्वासुरगरुडकिन्नरमहोरगमनुष्यामनुष्यासुरेण लोकेन, तस्यानुत्तरां सम्यक्संबोधिम् अभिसंबुद्धस्य, पूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तो वर्णं भाषन्ते घोषम् उदीरयन्ति (psp1-2: 46) यशः प्रकाशयन्ति, एषा अमुष्मिन् लोकधातुप्रसरे ऽमुकेन बोधिसत्त्वेन महासत्त्वेन महायानम् अभिरुह्य सर्वाकारज्ञतानुप्राप्ता सर्वाकारज्ञताम् अनुप्राप्य धर्मचक्रं प्रवर्तितम्, एवं दक्षिणस्यां दिशि पश्चिमायाम् उत्तरस्याम् उत्तरपूर्वस्यां पूर्वदक्षिणस्यां दक्षिणपश्चिमायां पश्चिमोत्तरस्याम् अध ऊर्ध्वदिशि गङ्गानदीवालुकोपमेषु लोकधातुषु बुद्धा भगवन्तो वर्णं भाषन्ते घोषम् उदीरयन्ति यशः प्रकाशयन्ति, एषामुष्मिन् लोकधातुप्रसरे ऽमुकेन बोधिसत्त्वेन महासत्त्वेन सर्वाकारज्ञतानुप्राप्ता सर्वाकारज्ञताम् अनुप्राप्य धर्मचक्रं प्रवर्तितम्. एवं ह्य् आयुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वो महायानसमारूढ इत्य् उच्यते.
इति सर्वाकारज्ञताप्रस्थानम्
इत्य् उक्ता प्रस्थानप्रतिपत्तिः
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: महासन्नाहसन्नद्धो महासन्नाहसन्नद्ध इति भगवन् बोधिसत्त्वो महासत्त्व इत्य् उच्यते, कियता भगवन् बोधिसत्त्वो महासत्त्वो महासन्नाहसन्नद्ध इत्य् उच्यते?
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वो महायानं सन्नह्य यद् उत दानपारमितासन्नाहं शीलपारमितासन्नाहं क्षान्तिपारमितासन्नाहं वीर्यपारमितासन्नाहं ध्यानपारमितासन्नाहं प्रज्ञापारमितासन्नाहं सन्नह्यते, स्मृत्युपस्थानसन्नाहं सन्नह्य, सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गसन्नाहंसन्नह्य, अप्रमाणध्यानारूप्यसमापत्तिसन्नाहं सन्नह्य, अध्यात्मशून्यतासन्नाहं सन्नह्य, बहिर्धाशून्यतासन्नाहं सन्नह्य, अध्यात्मबहिर्धाशून्यतासन्नाहं सन्नह्य, यावद् अभावस्वभावशून्यतासन्नाहं सन्नह्य, अभिज्ञाबलसन्नाहं सन्नह्य, वैशारद्यसन्नाहं सन्नह्य, प्रतिसंवित्सन्नाहं सन्नह्य, अष्टादशावेणिकबुद्धधर्मसन्नाहं सन्नह्य, सर्वाकारज्ञतासन्नाहं सन्नह्य, बुद्धविग्रहसन्नाहं सन्नह्य, त्रिसाहस्रमहासाहस्रं लोकधातुम् अवभासेन स्फरति च, षड् विकारं कम्पयति च सर्वस्मिन् नैरयिकभवने च तम् अग्निस्कन्धं निर्वाप्य नैरयिकानां सत्त्वानां दुःखानि प्रशाम्य तान् सर्वान् निर्वाणाभिमुखान् विज्ञाय बोधिसत्त्वो महासत्त्व (psp1-2: 47) एवं शब्दम् उदीरयति घोषम् अनुश्रावयति नमस् तथागतायार्हते सम्यक्संबुद्धायेति, ततस् ते नैरयिकाः सत्त्वास् तं बुद्धघोषं श्रुत्वा सुखं प्रतिलभन्ते, ते तेनैव सुखसौमनस्येन तेभ्यो निरयेभ्यो व्युत्थाय तत्र लोकधाताव् उपपद्यन्ते यत्र बुद्धान् भगवतः पश्यन्त्य् आरागयन्ति देवमनुष्योपपत्तिञ् च परिगृह्णन्ति, एवं तिर्यग्योनितो यमलोकतो व्युत्थाय तत्र लोकधाताव् उपपद्यन्ते यत्र बुद्धान् भगवतः पश्यन्त्य् आरागयन्ति च देवमनुष्योपपत्तिं च परिगृह्णन्ति, एवं पूर्वस्यां दिशि दक्षिणस्यां पश्चिमायाम्
उत्तरस्याम् उत्तरपूर्वस्यां पूर्वदक्षिणस्यां दक्षिणपश्चिमायां पश्चिमोत्तरस्याम् अध ऊर्ध्वदिशि गङ्गानदीवालुकोपमान् लोकधातून् अवभासेन स्फरति च षड् विकारं कम्पयति च सर्वेषु नैरयिक भवनेषु च तम् अग्निस्कन्धं निर्वाप्य नैरयिकानां सत्त्वानां दुःखानि प्रशाम्य तान् सर्वान् निर्वाणाभिमुखान् विज्ञाय बोधिसत्त्वो महासत्त्व एवं शब्दम् उदीरयति घोषम् अनुश्रावयति नमस् तथागतायार्हते सम्यक्संबुद्धायेति, ततस् ते नैरयिकाः सत्त्वास् तं बुद्धघोषं श्रुत्वा सुखं प्रतिलभन्ते, ते तेनैव सुखसौमनस्येन तेभ्यो निरयभ्यो व्युत्थाय तत्र तत्र लोकधाताव् उपपद्यन्ते यत्र यत्र बुध्हान् भगवतः पश्यन्त्य् आरागयन्ति देवमनुष्योपपत्तिं च परिगृह्णन्ति, एवं तिर्यग्योनिभ्यो यमलोकेभ्यो व्युत्थाय तत्र तत्र लोकधाताव् उपपद्यन्ते यत्र यत्र बुद्धान् भगवतः पश्यन्त्य् आरागयन्ति देवमनुष्योपपत्तिं च परिगृह्णन्ति. एवं हि सुभूते बोधिसत्त्वो महासत्त्वो महासन्नाहसन्नद्ध इत्य् उच्यते.
तद्यथापि नाम सुभूते दक्षो मायाकारो मायाकारान्तेवासी वा चतुर्महापथे महतो जनकायस्य पुरतो निरयांस् तिर्यग्योनियमलोकं च निर्मिमीते निर्माय तेषां सत्त्वानां बुद्धशब्दं धर्मशब्दं संघशब्दम् अनुश्रावयति, ततस् तेन बुद्धशब्देन धर्मशब्देन संघशब्देन तेभ्यो निरयतिर्यग्योनियमलोकेभ्यो व्युत्थाय देवमनुष्येषूपपद्येरन्, अपि तु सुभूते तेन मायाकारेण मायाकारान्तेवासिना वा कश्चित् सत्त्वो निरयतिर्यग्योनियमलोकगतिभ्यो व्युत्थापितः?
सुभूतिर् आह: नो भगवन्.
भगवान् आह: एवम् एव सुभूते बोधिसत्त्वेन महासत्त्वेन असंख्येयेष्व् अप्रमेयेष्व् अप्रमाणेषु लोकधातुषु सत्त्वांस् त्रिभ्यो ऽपायेभ्यः परिमोच्य न कश्चित् सत्त्वः परिमोचितो भवति. तत् कस्य (psp1-2: 48) हेतोः? धर्मतैषा सुभूते धर्माणां मायाधर्मताम् उपादाय.
एवं हि सुभूते बोधिसत्त्वो महासत्त्वो महायानसमारूढो महासन्नाहसन्नद्ध इत्य् उच्यते.
इति करुणासंभारः
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वो दानपारमितायां स्थित्वा महासन्नाहसन्नद्धस् त्रिसाहस्रं महासाहस्रं लोकधातुं वैडूर्यम् अयं निर्मिमीते वैडूर्यम् अयं निर्माय चक्रवर्तिव्यूहं निर्मिमीते चक्रवर्तिव्यूहं निर्माय अन्नार्थिकेभ्यो ऽन्नं ददाति, एवं यावद् वस्त्रयानगन्धमाल्यपुष्पधूपविलेपनचूर्णपरिष्कारं वासशयनासनप्रावरणजीवितोपकरणभैषज्यसुवर्णरूप्यमणिरत्नप्रवाडशङ्खशिलामुक्ताभरणानि यावद् अन्यतरान्यतरं परिष्कारं ददाति, सो ऽन्नम् अन्नार्थिकेभ्यो दत्वा यावद् अन्यतरान्यतरं परिष्कारं दत्वा तेषां सत्त्वानां धर्मं देशयति, यद् उत इमम् एव षट्पारमिताप्रतिसंयुक्तम्, ते खलु पुनः सत्त्वास् तां धर्मदेशनां श्रुत्वा न जातु ताभिः पारमिताभिर् विरहिता भवन्ति यवाद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यन्ते. एवं हि सुभूते बोधिसत्त्वो महासत्त्वो महासन्नाहसन्नद्ध इत्य् उच्यते.
तद्यथापि नाम सुभूते दक्षो मायाकारो मायाकारान्तेवासी वा चतुर्महापथे स्थित्वा महतो जनकायस्य पुरतो महान्तं जनकायम् अभिनिर्मिमीते निर्माय अन्नम् अन्नार्थिकेभ्यो दद्याद् अन्यतरान्यतरं परिष्कारन् तद् अर्थिकेभ्यो दद्यात्. तत् किं मन्यसे? सुभूते अपि नु तेन मायाकारेण मायाकारान्तेवासिना वा कस्मैचित् किञ्चिद् दत्तं भवेत्.
सुभूतिर् आह: नो भगवन्.
भगवान् आह: एवम् एव सुभूते बोधिसत्त्वेन महासत्त्वेन यावच् चक्रवर्तिव्यूहम् अभिनिर्माय अन्नम् अन्नार्थिकेभ्यो ददता यावद् अन्यतरान्यतरान् मानुष्यकान् परिष्कारान् ददता न कस्मैचित् सत्त्वाय यावद् अन्यतरान्यतरा मानुष्यकाः परिष्कारा दत्ता भवन्ति. तत् कस्य हेतोः? धर्मतैषा सुभूते धर्माणां मायाधर्मताम् उपादाय. एवं हि सुभूते बोधिसत्त्वो महासत्त्वो महासन्नाहसन्नद्ध इत्य् उच्यते.
इति दानसंभारः
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः शीलपारमितायां स्थित्वा संचिन्त्योपपत्तिपरिग्रहेण चक्रवर्तिकुले प्रत्याजायते, स तत्र (psp1-2: 49) स्थित्वा सत्त्वान् दशकुशलेषु कर्मपथेषु प्रतिष्ठापयति, चतुर्षु ध्यानेषु चतुर्ष्व् अप्रमाणेषु चतसृष्व् आरूप्यसमापत्तिषु प्रतिष्ठापयति, सप्तत्रिंशद् बोधिपक्षेषु धर्मेषु प्रतिष्ठापयति, यावद् अष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु प्रतिष्ठापयति, ते च सत्त्वा न जातु विरहिता भवन्ति तया धर्मदेशनया, यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यन्ते.
तद्यथापि नाम सुभूते दक्षो मायाकारो मायाकारान्तेवासी वा चतुर्महापथे महान्तं जनकायं निर्माय दशकुशलेषु कर्मपथेषु प्रतिष्ठापयेत्, यावद् अष्टादशावेणिकेषु बुद्धधर्मेषु प्रतिष्ठापयेत्, तेन तावतः सत्त्वान् यावद् बुद्धधर्मेषु प्रतिष्ठाप्य न कश्चित् सत्त्वो यावद् बुद्धधर्मेषु प्रतिष्ठापितो भवति, एवम् एव सुभूते बोधिसत्त्वेन महासत्त्वेन तांस् तावतः सत्त्वान् दशकुशलेषु कर्मपथेषु प्रतिष्ठाप्य, यावद् अष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु प्रतिष्ठाप्य न कश्चित् सत्त्वो यावद् बुद्धधर्मेषु प्रतिष्ठापितो भवति. तत् कस्य हेतोः? धर्मतैषा सुभूते धर्माणां मायाधर्मताम् उपादाय. एवं हि सुभूते बोधिसत्त्वो महासत्त्वो महासन्नाहसन्नद्ध इत्य् उच्यते.
इति शीलसंभारः
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः क्षान्तिपारमितायां स्थित्वा सत्त्वान् क्षान्तौ समादापयति निवेशयति प्रतिष्ठापयति, कथं च सुभूते बोधिसत्त्वो महासत्त्वः क्षान्तिपारमितायां स्थित्वा सत्त्वान् क्षान्तौ समादापयति निवेशयति प्रतिष्ठापयति? इह सुभूते बोधिसत्त्वो महासत्त्वः प्रथमचित्तोत्पादम् उपादाय, एवं सन्नाहं सन्नह्यते, सचेन् मम सर्वसत्त्वा दण्डलोष्टमुष्टिशस्त्रप्रहारन् दद्युस् तत्र मया एकम् अपि क्षोभचित्तं नोत्पादयितव्यं सर्वसत्त्वाश् चैवंरूपायां क्षान्तौ प्रतिष्ठापयितव्या इति.
तद्यथापि नाम सुभूते दक्षो मायाकारो मायाकारान्तेवासी वा चतुर्महापथे महान्तं जनकायं निर्मिमीते ते ऽपि सर्वे तस्य मायाकारस्य दण्डैर् लोष्टैर् मुष्टिभिः शस्त्रैर् वा प्रहारं दद्युः, स च तेषु एकम् अपि क्षोभचित्तं नोत्पादयेत् तांश् च सत्त्वान् निर्मितान् एवं रूपायां क्षान्तौ प्रतिष्ठापयेत्, तेन तावतः सत्त्वान् क्षान्तौ प्रतिष्ठाप्य न कश्चित् सत्त्वः प्रतिष्ठापितो भवति, एवम् एव सुभूते बोधिसत्त्वेन महासत्त्वेन तांस् तावतः सत्त्वान् क्षान्तौ प्रतिष्ठाप्य न कश्चित् सत्त्वः क्षान्तौ प्रतिष्ठापितो भवति. तत् कस्य हेतोः? धर्मतैषा सुभूते (psp1-2: 50) धर्माणां मायाधर्मताम् उपादाय. एवं हि सुभूते बोधिसत्त्वो महासत्त्वो महासन्नाहसन्नद्ध इत्य् उच्यते.
इति क्षान्तिसंभारः
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वो वीर्यपारमितायां स्थित्वा सर्वसत्त्वान् वीर्यपारमितायां समादापयति निवेशयति प्रतिष्ठापयति, कथं च सुभूते बोधिसत्त्वो महासत्त्वो वीर्यपारमितायां स्थित्वा सर्वसत्त्वान् वीर्यपारमितायां समादापयति निवेशयति प्रतिष्ठापयति? इह सुभूते बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः कायिकचैतसिकवीर्ये प्रतिष्ठितः सर्वसत्त्वान् कायिकचैतसिकवीर्ये समादापयति निवेशयति प्रतिष्ठापयति.
तद्यथापि नाम सुभूते दक्षो मायाकारो वा मायाकारान्तेवासी वा चतुर्महापथे महान्तं जनकायं निर्माय सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः कायिकचैतसिकवीर्ये प्रतिष्ठापयेत्, तेन तांस् तावतः सत्त्वान् कायिकचैतसिकवीर्ये प्रतिष्ठाप्य न कश्चित् सत्त्वः कायिकचैतसिकवीर्ये प्रतिष्ठापितो भवति, एवम् एव सुभूते बोधिसत्त्वेन महासत्त्वेन तांस् तावतः सत्त्वान् कायिकचैतसिकवीर्ये प्रविष्ठाप्य न कश्चित् सत्त्वः कायिकचैतसिकवीर्ये प्रतिष्ठापितो भवति. तत् कस्य हेतोः? धर्मतैषा सुभूते धर्माणां मायाधर्मताम् उपादाय. एवं हि सुभूते बोधिसत्त्वो महासत्त्वो महासन्नाहसन्नद्ध इत्य् उच्यते.
इति वीर्यसंभारः
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वो ध्यानपारमितायां स्थित्वा सर्वसत्त्वान् ध्यानपारमितायां समादापयति निवेशयति प्रतिष्ठापयति, कथं च सुभूते बोधिसत्त्वो महासत्त्वो ध्यानपारमितायां स्थित्वा सर्वसत्त्वान् ध्यानपारमितायां समादापयति निवेशयति प्रतिष्ठापयति? इह सुभूते बोधिसत्त्वो महासत्त्वः सर्वधर्माणां समतायां स्थित्वा न कस्यचिद् धर्मस्य विक्षेपं वा अविक्षेपं वा समनुपश्यति, एवं हि सुभूते बोधिसत्त्वो महासत्त्वो ध्यानपारमितायां स्थितो भवति, स तथैव सर्वसत्त्वान् ध्यानपारमितायां समादापयति निवेशयति प्रतिष्ठापयति, ते च समादापिता निवेशिताः प्रतिष्ठापिता भवन्ति, न जातु विरहिता भवन्ति ध्यानपारमितया यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा इति.
तद्यथापि नाम सुभूते दक्षो मायाकारो मायाकारान्तेवासी वा (psp1-2: 51) चतुर्महापथे महतो जनकायस्य पुरतो महान्तं जनकायम् अभिनिर्माय तं जनकायं ध्यानपारमितायां प्रतिष्ठापयेत्, तेन तांस् तावतः सत्त्वान् ध्यानपारमितायां प्रतिष्ठाप्य न कश्चिद् एकः सत्त्वो ऽपि ध्यानपारमितायां प्रतिष्ठापितो भवति, एवम् एव सुभूते बोधिसत्त्वेन महासत्त्वेन सर्वसत्त्वान् ध्यानपारमितायां प्रतिष्ठाप्य न कश्चित् सत्त्वो ध्यानपारमितायां प्रतिष्ठापितो भवति. तत् कस्य हेतोः? धर्मतैषा सुभूते धर्माणां मायाधर्मताम् उपादाय. एवं हि सुभूते बोधिसत्त्वो महासत्त्वो महासन्नाहसन्नद्ध इत्य् उच्यते.
इति ध्यानसंभारः
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां स्थित्वा सर्वसत्त्वान् प्रज्ञापारमितायां समादापयति निवेशयति प्रतिष्ठापयति, कथं च सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां स्थित्वा सर्वसत्त्वान् प्रज्ञापारमितायां समादापयति निवेशयति प्रतिष्ठापयति? यतः सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न कस्यचिद् धर्मस्यापारं वा पारं वा उपलभते, एवं बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां स्थितो भवति, स तथैव सर्वसत्त्वान् अपि तत्र समादापयति निवेशयति प्रतिष्ठापयति.
तद्यथापि नाम सुभूते दक्षो मायाकारो मायाकारान्तेवासी वा चतुर्महापथे महतो जनकायस्य पुरतो महान्तं जनकायम् अभिनिर्माय प्रज्ञापारमितायां समादापयति निवेशयति प्रतिष्ठापयति, तेन तांस् तावतः सत्त्वान् प्रज्ञापारमितायां प्रतिष्ठाप्य न कश्चिद् एकसत्त्वो ऽपि प्रज्ञापारमितायां प्रतिष्ठापितो भवति, एवम् एव सुभूते बोधिसत्त्वेन महासत्त्वेन सर्वसत्त्वान् प्रज्ञापारमितायां प्रतिष्ठाप्य न कश्चित् सत्त्वः प्रज्ञा अपारमितायां प्रतिष्ठापितो भवति. तत् कस्य हेतोः? धर्मतैषा सुभूते धर्माणां मायाधर्मताम् उपादाय. एवं हि सुभूते बोधिसत्त्वो महासत्त्वो महासन्नाहसन्नद्ध इत्य् उच्यते.
इति प्रज्ञासंभारः
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वो महासन्नाहसन्नद्धः पूर्वस्यां दिशि गङ्गानदीवालुकोपमेषु लोकधातुषु यावन्तः सत्त्वास् तान् सर्वान् यथैवात्मना दानपारमितायां स्थितस् तथा दानपारमितायां समादापयति निवेशयति प्रतिष्ठापयति, एवं शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां प्रज्ञापारमितायां समादापयति निवेशयति प्रतिष्ठापयति, धर्मं च (psp1-2: 52) देशयति, यद् उत इमम् एव षट्पारमिताप्रतिसंयुक्तम्, ते च तं श्रुत्वा न जातु भूयो विरहिता भवन्ति षड्भिः पारमिताभिर् यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा इति, एवं दक्षिणस्यां पश्चिमायाम् उत्तरस्याम् उत्तरपूर्वस्यां पूर्वदक्षिणस्यां दक्षिणपश्चिमायां पश्चिमोत्तरस्याम् अध ऊर्ध्वदिशि गङ्गानदीवालुकोपमेषु लोकधातुषु यावन्तः सत्त्वास् तान् सर्वान् यथैवात्मना दानपारमितायां स्थितस् तथा दानपारमितायां समादापयति निवेशयति प्रतिष्ठापयति, एवं शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायां प्रज्ञापारमितायां समादापयति निवेशयति प्रतिष्ठापयति, धर्मं च देशयति, यद् उत इमम् एव षट्पारमिताप्रतिसंयुक्तं, ते च तं श्रुत्वा न जातु भूयो विरहिता भवन्ति षड्भिः पारमिताभिर् यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धा इति.
तद्यथापि नाम सुभूते दक्षो मायाकारो मायाकारान्तेवासी वा चतुर्महापथे महतो जनकायस्य पुरतो महान्तं जनकायम् अभिनिर्माय षट्सु पारमितासु समादापयति निवेशयति प्रतिष्ठापयति. तत् किं मन्यसे? सुभूते अपि नु तेन मायाकारेण मायाकारान्तेवासिना वा कश्चित् सत्त्वः षट्सु पारमितासु समादापितो भवति, निवेशितो वा प्रतिष्ठापितो वा भवेत्.
सुभूतिर् आह: नो भगवन्.
भगवान् आह: एवम् एव सुभूते बोधिसत्त्वेन महासत्त्वेन तांस् तावतः सत्त्वान् षट्सु पारमितासु प्रतिष्ठाप्य न कश्चित् सत्त्वः षट्सु पारमितासु प्रतिष्ठापितो भवति. तत् कस्य हेतोः? धर्मतैषा सुभूते धर्माणां मायाधर्मताम् उपादाय. एवं हि सुभूते बोधिसत्त्वो महासत्त्वो महासन्नाहसन्नद्ध इत्य् उच्यते.
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वो महासन्नाहं सन्नह्य सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन विहरन् नान्येषां चित्तोत्पादानाम् अवकाशं ददाति, इयन्तो मया सत्त्वा दानपारमितायां प्रतिष्ठापयितव्या इयन्तो न प्रतिष्ठापयितव्या इति, एवं शीलपारमितायां क्षान्तिपारमितायां वीर्यपारमितायां ध्यानपारमितायाम् इयन्तो मया सत्त्वाः प्रज्ञापारमितायां प्रतिष्ठापयितव्या इयन्तो न प्रतिष्ठापयितव्या इति, इयन्तः सत्त्वाः सप्तत्रिंशद् बोधिपक्ष्येषु धर्मेषु प्रतिष्ठापयितव्या इयन्तो न प्रतिष्ठापयितव्या, यावद् इयन्तः सत्त्वा अष्टादशस्व् (psp1-2: 53) आवेणिकेषु बुद्धधर्मेषु प्रतिष्ठापयितव्या इयन्तो न प्रतिष्ठापयितव्या इयन्तः सत्त्वाः स्रोतआपत्तिफले प्रतिष्ठापयितव्या इयन्तो न प्रतिष्ठापयितव्याः, एवं सकृदागामिफले अनागामिफले इयन्तः सत्त्वा अर्हत्त्वे प्रतिष्ठापयितव्या इयन्तो न प्रतिष्ठापयितव्या इयन्तः सत्त्वाः प्रत्येकबुद्धत्वे प्रतिष्ठापयितव्या इयन्तो न प्रतिष्ठापयितव्या इयन्तः सत्त्वाः सर्वज्ञत्वे प्रतिष्ठापयितव्या इयन्तो न प्रतिष्ठापयितव्या इति.
अपि तु खलु पुनर् असंख्येयाः सत्त्वा अप्रमेयाः सत्त्वाः षट्सु पारमितासु प्रतिष्ठापयितव्याः, एवं सप्तत्रिंशद् बोधिपक्षेषु धर्मेषु दशसु तथागतबलेषु चतसृषु प्रतिसंवित्स्व् अष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु प्रतिष्ठापयितव्याः स्रोतआपत्तिफले सकृदागामिफले अनागामिफले अर्हत्त्वे प्रत्येकबुद्धत्वे असंख्येया अप्रमेयाः सत्त्वा बुद्धत्वे प्रतिष्ठापयितव्याः.
इति शमथसंभारः
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
