Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Kinh tạng › Kinh Đại thừa
पञ्चविंशतिसाहस्रिका प्रज्ञापारमिता, 1-8
- Thông tin
- GRETIL — Takayasu Kimura: Pañcaviṃśatisāhasrikā Prajñāpāramitā I-VIII, Tokyo: Sankibo Busshorin 1986-2009.chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0
एवं हि शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाञ् चरन् सर्वाकारज्ञताया आसन्नीभवति यथा यथा च सर्वाकारज्ञताया आसन्नीभवति तथा तथा कायपरिशुद्धिञ् च चित्तपरिशुद्धिञ् च लक्षणपरिशुद्धिं चाधिगच्छति, यथा यथा च कायपरिशुद्धिं च चित्तपरिशुद्धिं च लक्षणपरिशुद्धिं चाधिगच्छति तथा तथा बोधिसत्त्वस्य महासत्त्वस्य रागसहगतं चित्तं नोत्पद्यते दोषसहगतं चित्तं नोत्पद्यते मोहसहगतं चित्तं नोत्पद्यते मानसहगतं चित्तं नोत्पद्यते लोभसहगतं चित्तं नोत्पद्यते कुदृष्टिसहगतं चित्तं नोत्पद्यते स रागचित्तानुत्पादाद् दोषचित्तानुत्पादान् मोहचित्तानुत्पादान् मानचित्तानुत्पादाल् लोभचित्तानुत्पादात् कुदृष्टिचित्तानुत्पादाद् न जातु मातुः कुक्षाव् उपपद्यते, सततसमितम् औपपादुको भवति, बुद्धक्षेत्रेण बुद्धक्षेत्रं संक्रामति, बुद्धांश् च भगवतः पर्युपास्ते, (psp1-1: 178) सत्त्वांश् च परिपाचयति, बुद्धक्षेत्रं च परिशोधयति, न तैर् बुद्धैर् भगवद्भिर् विरहितो भवति, यावद् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्धः. एवं हि शारिपुत्र बोधिसत्त्वो महासत्त्व आसन्नीभवत्य् अनुत्तरायाः सम्यक्संबोधेः.
इति मध्यक्षान्तेर् आलम्बनाकारविशेषः
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: सचेद् भगवन् बोधिसत्त्वो महासत्त्वो ऽनुपायकुशलः प्रज्ञापारमितायां चरन् रूपे चरति निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेद् वेदनायां चरति निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेत् संज्ञायां चरति निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेत् संस्कारेषु चरति निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेद् विज्ञाने चरति निमित्ते चरति न चरति प्रज्ञापारमितायाम्.
सचेद् रूपं नित्यम् अनित्यं वेति चरति निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेद् वेदना नित्या अनित्या वेति चरति निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेद् संज्ञा नित्या अनित्या वेति चरति निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेद् संस्कारा नित्यम् अनित्यं वेति चरति निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेद् विज्ञानं नित्यम् अनित्यं वेति चरति निमित्ते चरति न चरति प्रज्ञापारमितायाम्.
सचेद् रूपं सुखं दुःखं वेति चरति निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेद् वेदना सुखा दुःखा वेति चरति निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेद् संज्ञा सुखा दुःखा वेति चरति निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेद् संस्काराः सुखा दुःखा वेति चरति निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेद् विज्ञानं सुखं दुःखं वेति चरति निमित्ते चरति न चरति प्रज्ञापारमितायाम्.
सचेद् रूपम् आत्मा अनात्मा वेति चरति निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेद् वेदना आत्मा अनात्मा वेति चरति निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेद् संज्ञा आत्मा अनात्मा वेति चरति निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेद् संस्कारा आत्मानो ऽनात्मानो वेति चरति निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेद् विज्ञानम् आत्मा अनात्मा वेति चरति निमित्ते चरति न चरति प्रज्ञापारमितायाम्.
सचेद् रूपं शान्तम् अशान्तं वेति चरति निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेद् वेदना शान्ता अशान्ता वेति चरति निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेद् संज्ञा शान्ता अशान्ता वेति चरति निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेद् संस्काराः शान्ता अशान्ता वेति चरति निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेद् विज्ञानं शान्तम् अशान्तं वेति चरति निमित्ते चरति न चरति प्रज्ञापारमितायाम्.
सचेद् रूपं विविक्तम् अविविक्तं वेति चरति निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेद् वेदना विविक्ता अविविक्ता वेति चरति निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेद् संज्ञा विविक्ता अविविक्ता वेति चरति निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेद् संस्कारा विविक्ता अविविक्ता वेति चरति निमित्ते चरति न चरति प्रज्ञापारमितायां, सचेद् विज्ञानं विविक्तम् अविविक्तं वेति चरति निमित्ते चरति न चरति प्रज्ञापारमितायाम्.
सचेद् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकुशलः सप्तत्रिंशत्सु बोधिपक्ष्येषु धर्मेषु चरति निमित्ते चरति न चरति प्रज्ञापारमितायाम्, एवं यावद् अभिज्ञासु पारमितास्व् अप्रमाणध्यानारूप्यसमापत्तिषु पञ्चसु चक्षुःषु दशसु तथागतबलेषु चतसृषु प्रतिसंवित्सु चतुर्षु वैशारद्येषु यावद् अष्टादशस्व् आवेणिकेषु बुद्धधर्मेषु चरति निमित्ते चरति न चरति प्रज्ञापारमितायाम्.
सचेद् भगवन् बोधिसत्त्वस्य महासत्त्वस्यानुपायकौशलेन प्रज्ञापारमितायां चरत एवं भवति, अहं प्रज्ञापारमितायां चरामीत्य् उपलम्भे चरति, अहं चरामीति चरति निमित्ते चरति.
सचेद् बोधिसत्त्वस्य महासत्त्वस्यैवं भवति, य एवं चरति स प्रज्ञापारमितायां चरति, स प्रज्ञापारमितायां भावयतीति निमित्त एव स चरति, इदं बोधिसत्त्वस्य महासत्त्वस्यानुपायकौशलं वेदितव्यम्.
अथ खल्व् आयुष्मान् शारिपुत्र आयुष्मन्तं सुभूतिम् एतद् अवोचत्: केन कारणेनायुष्मन् सुभूते इदं बोधिसत्त्वस्य महासत्त्वस्यानुपायकौशलं वेदितव्यम्?
सुभूतिर् आह: तथा ह्य् आयुष्मन् शारिपुत्र यो बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् रूपम् अधितिष्ठति संजानीते ऽधिमुच्यते, वेदनाम् अधितिष्ठति संजानीते ऽधिमुच्यते, संज्ञाम् अधितिष्ठति संजानीते ऽधिमुच्यते, संस्कारान् अधितिष्ठति संजानीते ऽधिमुच्यते, विज्ञानम् (psp1-1: 180) अधितिष्ठति संजानीते ऽधिमुच्यते, स रूपम् अधितिष्ठन् संजानानो ऽधिमुच्यमानः, वेदनाम् अधितिष्ठन् संजानानो ऽधिमुच्यमानः, संज्ञाम् अधितिष्ठन् संजानानो ऽधिमुच्यमानः, संस्कारान् अधितिष्ठन् संजानानो ऽधिमुच्यमानः, विज्ञानम् अधितिष्ठन् संजानानो ऽधिमुच्यमानः, रूपस्याभिसंस्कारे चरति वेदनायाः संज्ञायाः संस्काराणां विज्ञानस्याभिसंस्कारे चरति तत् तस्य जातिजरामरणशोकपरिदेवदुःखदौर्मनस्योपायासकरम् इति वदामि.
पुनर् अपरं शारिपुत्र सचेद् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकुशलः, चक्षुर् अधितिष्ठति संजानीते ऽधिमुच्यते, श्रोत्रं घ्राणं जिह्वां कायञ् मनो ऽधितिष्ठति संजानीते ऽधिमुच्यते, रूपम् अधितिष्ठति संजानीते ऽधिमुच्यते, शब्दान् गन्धान् रसान् स्प्रष्टव्यान् धर्मान् अधितिष्ठति संजानीते ऽधिमुच्यते, चक्षुर्विज्ञानं श्रोत्रविज्ञानं घ्राणविज्ञानं जिह्वाविज्ञानं कायविज्ञानं मनोविज्ञानम् अधितिष्ठति संजानीते ऽधिमुच्यते, सचेच् चक्षुःसंस्पर्शम् अधितिष्ठति संजानीते ऽधिमुच्यते, सचेच् छ्रोत्रघ्राणजिह्वाकायमनःसंस्पर्शम् अधितिष्ठति संजानीते ऽधिमुच्यते, सचेच् चक्षुःसंस्पर्शप्रत्ययवेदयितं सुखं वा दुःखं वा अदुःखासुखं वाधितिष्ठति संजानीते ऽधिमुच्यते, सचेच् छ्रोत्रघ्राणजिह्वाकायमनःसंस्पर्शप्रत्ययवेदयितं सुखं वा दुःखं वा अदुःखासुखं वाधितिष्ठति संजानीते ऽधिमुच्यते.
सचेत् सप्तत्रिंशद्बोधिपक्षान् धर्मान् अधितिष्ठति संजानीते ऽधिमुच्यते, एवं पञ्च चक्षूंषि षड् अभिज्ञाः षट् पारमिताश् चत्वारि वैशारद्यानि चतस्रः प्रतिसंविदश् चत्वार्य् अप्रमाणानि चत्वारि ध्यानानि चतस्र आरूप्यसमापत्तीर् दशतथागतबलान्य् अष्टादशवेणिकान् बुद्धधर्मान् अर्हत्त्वं प्रत्येकबुद्धत्वं बोधिसत्त्वत्वं बुद्धधर्मान् अधितिष्ठति संजानीते ऽधिमुच्यते, सर्वान् बुद्धधर्मान् अधितिष्ठन् संजानानो ऽधिमुच्यमानः, बुद्धधर्माणाम् अभिसंस्कारे चरति, अभिसंस्कारे चरन्न् अपरिमुच्यते, जात्या जरया मरणेन च शोकपरिदेवदुःखदौर्मनस्योपायासैर् न परिमुच्यते दुःखेनेति वदामि.
स खलु पुनः शारिपुत्र बोधिसत्त्वो महासत्त्वो ऽभव्यः श्रावकभूमिं प्रत्येकबुद्धभूमिं वा पतितुं कुतः सो ऽनुत्तरां सम्यक्संबोधिम् (psp1-1: 181) अभिसंभोत्स्यते नेदं स्थानं विद्यते. एवं हि शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकुशलो वेदितव्यः.
शारिपुत्र आह: कथम् आयुष्मन् सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् उपायकुशलो वेदितव्यः?
सुभूतिर् आह: य आयुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् न रूपम् अधितिष्ठति न संजानीते नाधिमुच्यते, वेदना संज्ञा संस्कारान् विज्ञानं नाधितिष्ठति न संजानीते नाधिमुच्यते, एवं यावद् बुद्धधर्मान् नाधितिष्ठति न संजानीते नाधिमुच्यते, स न रूपे चरति न वेदनायां न संज्ञायां न संस्कारेषु न विज्ञाने चरति, न रूपस्य निमित्ते चरति न वेदनाया न संज्ञाया न संस्काराणां न विज्ञनस्य निमित्ते चरति, न रूपं नित्यम् इति नानित्यम् इति चरति, न वेदना न संज्ञा न संस्कारा न विज्ञानं नित्यम् इति नानित्यम् इति चरति, न रूपं सुखम् इति न दुःखम् इति नात्मेति नानात्मेति न शान्तम् इति नाशान्तम् इति चरति, न वेदना न संज्ञा न संस्कारा न विज्ञानं सुखम् इति न दुःखम् इति नात्मेति नानात्मेति, न शान्तम् इति नाशान्तम् इति चरति, न रूपं शून्यम् इति नाशून्यम् इति चरति न निमित्तम् इति नानिमित्तम् इति चरति, न प्रणिहितम् इति नाप्रणिहितम् इति चरति न विविक्तम् इति नाविविक्तम् इति चरति, एवं न वेदना न संज्ञा न संस्कारा न विज्ञानं न शून्यम् इति नाशून्यम् इति चरति, न निमित्तम् इति नानिमित्तम् इति चरति न प्रणिहितम् इति नाप्रणिहितम् इति चरति, न विविक्तम् इति नाविविक्तम् इति चरति.
तत् कस्य हेतोः? तथा हि आयुष्मन् शारिपुत्र या रूपस्य शून्यता न तद् रूपं, न चान्यत्र शून्यतायाः रूपं, नान्यत्र रूपाच् छून्यता, रूपम् एव शून्यता शून्यतैवं रूपम्,
या वेदनायाः शून्यता संज्ञायाः शून्यता संस्काराणां शून्यता, या विज्ञानस्य शून्यता न तद् विज्ञानं, न चान्यत्र शून्यताया विज्ञानं, नान्यत्र विज्ञानाच् छून्यता, शून्यतैव विज्ञानं विज्ञानम् एव शून्यता.
एवं व्यस्तसमस्तेषु स्कन्धधात्वायतनप्रतीत्यसमुत्पादेषु सप्तत्रिंशद्बोधिपक्षेषु धर्मेषु पारमितास्व् अभिज्ञासु अप्रमाणध्यानारूप्यसमापत्तिषु बलवैशारद्येषु प्रतिसंवित्सु आवेणिकेषुबुद्धधर्मेषु, यावद् या बुद्धधर्माणां शून्यता न ते बुद्धधर्मा,(psp1-1: 182) न चान्यत्र शून्यताया बुद्धधर्माः, नान्यत्र बुद्धधर्मेभ्यः शून्यता, शून्यतैव बुद्धधर्मा बुद्धधर्मा एव शून्यता.
एवम् आयुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् उपायकुशलो वेदितव्यः.
एवं ह्य् आयुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् भव्यो ऽनुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुं, स पुनः प्रज्ञापारमितायां चरन् सचेत् कंचिद् धर्मम् उपैति न चरति प्रज्ञापारमितायां, नोपैति न चरति, उपैति नोपैति च न चरति, नैवोपैति न नोपैति च न चरति प्रज्ञापारमितायाम्.
शारिपुत्र आह: केन कारणेनायुष्मन् सुभूते नोपैति बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्?
सुभूतिर् आह: तथा ह्य् आयुष्मन् शारिपुत्र प्रज्ञापारमितायाः स्वभावो नोपलभ्यते. तत् कस्य हेतोः? तथा ह्य् अभावस्वभावा प्रज्ञापारमिता, अनेनायुष्मन् शारिपुत्र पर्यायेण बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरामीति नोपैति, न चरामीति नोपैति, चरामि च न चरामि चेति नोपैति, नैव चरामि न न चरामीति नोपैति. तत् कस्य हेतोः? तथा हि तेन सर्वधर्मा अभावस्वभावा इत्य् अनुगता अनुपात्ताः. सचेद् एवं प्रज्ञापारमितायां चरतो बोधिसत्त्वस्य महासत्त्वस्य चित्तं नावलीयते न संलीयते नोत्त्रस्यति न संत्रासम् आपद्यते वेदितव्यम्.
आयुष्मन् शारिपुत्रासन्नीभवत्य् अयं बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञतायाः.
इत्य् अधिमात्रक्षान्तेर् आलम्बनाकारविशेषः
सो ऽपि खल्व् आयुष्मन् शारिपुत्र सर्वाकारज्ञताया अद्वया अद्वैधीकारा सर्वधर्माभावस्वभावताम् उपादाय. अयं सर्वधर्मस्वभावानुत्पत्तिर् नाम समाधिर् बोधिसत्त्वानां महासत्त्वानां विपुलः पुरस्कृतो ऽप्रमाणो नियतो ऽसंहार्यः सर्वश्रावकप्रत्येकबुद्धैर् अनेनायुष्मन् शारिपुत्र समाधिना विहरन् बोधिसत्त्वो महासत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्ध्यते.
शारिपुत्र आह: कतमैर् आयुष्मन् सुभूते समाधिभिर् विहरन् बोधिसत्त्वो महासत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते?
सुभूतिर् आह: अस्त्य् आयुष्मन् शारिपुत्र बोधिसत्त्वानां महासत्त्वानां (psp1-1: 183) शूरङ्गमो नाम समाधिर् येन समाधिना विहरन् बोधिसत्त्वो महासत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते.
अस्ति रत्नमुद्रो नाम समाधिः, अस्ति सुचन्द्रो नाम समाधिः, अस्ति चन्द्रध्वजकेतुर् नाम समाधिः, अस्ति सर्वधर्ममुद्रो नाम समाधिः, अस्त्य् अवलोकितमूर्धा नाम समाधिः, अस्ति धर्मधातुनियतो नाम समाधिः, अस्ति नियतध्वजकेतुर् नाम समाधिः, अस्ति वज्रोपमो नाम समाधिः, अस्ति सर्वधर्मप्रवेशमुद्रो नाम समाधिः, अस्ति समाहितावस्थाप्रतिष्ठानो नाम समाधिः, अस्ति राजमुद्रो नाम समाधिः, अस्ति बलवीर्यो नाम समाधिः, अस्ति सर्वधर्मसमुद्गतो नाम समाधिः, अस्ति निरुक्तिनियतप्रवेशो नाम समाधिः, अस्त्य् असेचनकप्रवेशो नाम समाधिः, अस्ति दिगवलोकनो नाम समाधिः, अस्ति धारणीमुद्रो नाम समाधिः, अस्त्य् असंप्रमुषितो नाम समाधिः, अस्ति समवसरणो नाम समाधिः, अस्त्य् आकाशस्फारणो नाम समाधिः, अस्ति वज्रमण्डलो नाम समाधिः, अस्ति ध्वजाग्रकेतुराजो नाम समाधिः, अस्तीन्द्रकेतुर् नाम समाधिः, अस्ति स्रोतानुगतो नाम समाधिः, अस्ति सिंहविजृम्भितो नामसमाधिः, अस्ति व्यत्यस्तसमापत्तिर् नाम समाधिः, अस्ति रणंजहो नाम समाधिः, अस्ति वैरोचनो नाम समाधिः, अस्त्य् अनिमिषो नाम समाधिः, अस्त्य् अनिकेतस्थितो नाम समाधिः, अस्त्य् अनिश्चितो नाम समाधिः, अस्तिविपुलप्रतिपन्नो नाम समाधिः, अस्त्य् अनन्तप्रभो नाम समाधिः, अस्ति प्रभाकरो नाम समाधिः, अस्ति वरधर्ममुद्रो नाम समाधिः, अस्ति समन्तावभासो नाम समाधिः, अस्ति शुद्धावासो नाम समाधिः, अस्ति विमलप्रभो नाम समाधिः, अस्ति रतिकरो नाम समाधिः, अस्त्य् अजयो नाम समाधिः, अस्ति तेजोवती नाम समाधिः, अस्ति क्षयापगतो नाम समाधिः, अस्त्य् अनिर्जितो नाम समाधिः, अस्ति विवृतो नाम समाधिः, अस्ति सूर्यप्रदीपो
नाम समाधिः, अस्ति चन्द्रविमलो नाम समाधिः, अस्ति शुद्धप्रतिभासो नाम समाधिः, अस्त्य् आलोककरो नाम समाधिः, अस्ति काराकारो नाम समाधिः, अस्ति ज्ञानकेतुर् नाम समाधिः, अस्ति चित्तस्थितिर् नाम समाधिः, अस्ति समन्तावलोको नाम समाधिः, अस्ति सुप्रतिष्ठितो नाम समाधिः, अस्ति रत्नकोटिर् नाम समाधिः, अस्ति वरधर्ममुद्रो (psp1-1: 184) नाम समाधिः, अस्ति सर्वधर्मसमता नाम समाधिः, अस्ति रतिजहो नाम समाधिः, अस्ति धर्मोद्गतो नाम समाधिः, अस्ति विकिरणो नाम समाधिः, अस्ति सर्वधर्मपदप्रभेदो नाम समाधिः, अस्ति समाक्षरावतारो नाम समाधिः, अस्त्य् अक्षरावतारो नाम समाधिः, अस्त्य् आवरणच्छेदो नाम समाधिः, अस्त्य् अनिगरो नाम समाधिः, अस्ति प्रभाकरो नाम समाधिः, अस्ति नामनियतप्रवेशो नाम समाधिः, अस्त्य् अनिकेतचारी नाम समाधिः, अस्ति वितिमिरापगतो नाम समाधिः, अस्ति चारित्रवती नाम समाधिः, अस्त्य् अचलो नाम समाधिः, अस्ति विषमशान्तिर् नाम समाधिः, अस्ति सर्वगुणसंचयो नाम समाधिः, अस्ति निश्चितो नामसमाधिः, अस्ति शुभपुष्पितशुद्धो नाम समाधिः, अस्ति बोध्यङ्गवती नाम समाधिः, अस्त्य् अनन्तप्रभो नाम समाधिः, अस्त्य् आगमसमो नाम समाधिः, अस्ति सर्वविक्रमणो नाम समाधिः, अस्ति प्रतिच्छेदकरो नाम समाधिः, अस्ति विमतिविकिरणो नाम समाधिः, अस्ति निरधिष्ठानो नाम समाधिः, अस्त्य् एकव्यूहो नाम समाधिः, अस्त्य् आकारानभिनिवेशनिर्हारो नाम समाधिः, अस्त्य् आकारानवकारो नाम समाधिः, अस्ति निरतिशयसर्वभवतलविकिरणो नाम समाधिः, अस्ति संकेतरूतप्रवेशो नाम समाधिः, अस्ति घोषवती नाम समाधिः, अस्ति निरक्षरविमुक्तो नाम समाधिः, अस्ति
तेजोवती नाम समाधिः, अस्ति ज्वलनोल्का नाम समाधिः, अस्ति रक्षानुपरिशोषणो नाम समाधिः, अस्त्य् अनाविलक्षान्तिर् नाम समाधिः, अस्ति सर्वाकारावतारो नाम समाधिः, अस्ति सर्वसुखदुःखनिरभिनन्दी नाम समाधिः, अस्त्य् अक्षयाकारो नाम समाधिः, अस्ति धारणीपतिर् नाम समाधिः, अस्ति सम्यक्त्वमिथ्यात्वसंग्रहो नाम समाधिः, अस्ति रोषविरोषप्रतिरोषो नाम समाधिः, अस्ति विमलप्रभो नाम समाधिः, अस्ति शारवती नाम समाधिः, अस्ति परिपूर्णविमलचन्द्रप्रभो नाम समाधिः, अस्ति विद्युत्प्रभो नाम समाधिः, अस्ति महाव्यूहो नाम समाधिः, अस्ति सर्वलोकप्रभाकरो नाम समाधिः, अस्ति समाधिसमा नाम समाधिः, अस्त्य् अनयविनयनयविमुक्तो नाम समाधिः, अस्त्य् अनुसरणसर्वसमवसरणो नाम समाधिः, अस्त्य् अनिलनियतो नाम समाधिः, अस्ति तथतास्थितनिश्चितो नाम समाधिः, अस्ति कायकलिसंप्रमथनो नाम (psp1-1: 185) समाधिः, अस्ति वाक्कलिविध्वंसनो नाम समाधिः, अस्ति गगनकल्पो नाम समाधिः, अस्त्य् आकाशासङ्गविमुक्तिनिरुपलेपो नाम समाधिः.
इमे आयुष्मन् शारिपुत्र समाधयो यैः समाधिभिर् विहरन् बोधिसत्त्वो महासत्त्वः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यते, अन्यानि चासंख्येयाप्रमेयाणि समाधिमुखानि येषु शिक्ष्यमाणा बोधिसत्त्व महासत्त्वाः क्षिप्रम् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्यन्ते. तत्र कतमः शूरङ्गमो नाम समाधिः? येन समाधिना सर्वसमाधीनां गोचरम् अनुभवत्य् अयम् उच्यते शूरङ्गमो नाम समाधिः.
तत्र कतमो रत्नमुद्रो नाम समाधिः? येन समाधिना सर्वसमाधयो मुद्रिता भवत्य् अयम् उच्यते रत्नमुद्रो नाम समाधिः.
एवं यावत् तत्र कतम आकाशसङ्गविमुक्तिनिरुपलेपो नाम समाधिः? यत्र समाधौ स्थित्वा सर्वधर्माणाम् आकाशासङ्गविमुक्तिनिरुपलेपताम् अनुप्राप्नोत्य् अयम् उच्यते आकाशासङ्गविमुक्तिनिरुपलेपो नाम समाधिः.
इति मृद्वग्रधर्मस्यालम्बनाकारविशेषह्.
अथ खल्व् आयुष्मन् सुभूतिर् बुद्धानुभावेन आयुष्मन्तं सरिपुत्रम् एतद् अवोचत्: व्यकृतो ऽयम् अयुष्मन् शारिपुत्र बोधिसत्त्वो महासत्त्वः पूर्वकैस् तथागतैर् अर्हद्भिः सम्यक्संबुद्धैः, ये ऽप्य् एतर्हि दशदिशि लोके तिष्ठन्ति ध्रियन्ते यापयन्ति, ते ऽपि तथागता अर्हन्तः सम्यक्संबुद्धास् तं बोधिसत्त्वं महासत्त्वं व्याकुर्वन्ति. य एतैः समाधिभिर् विहरति स समाधिम् अपि न समनुपश्यति, स न च तेन समाधिना मन्यते, अहं समाहित इति, अहं समाधिं समापत्स्ये, अहं समाधिं समापन्नः, अहं समाधिं समापद्ये, सर्व एते विकल्पा बोधिसत्त्वस्य महासत्त्वस्य न विद्यन्ते नोपलभ्यन्ते. इति मध्याग्रधर्मस्यालंबनाकारविशेषः
शारिपुत्र आह: किं पुनर् आयुष्मन् सुभूते एषु समाधिषु स्थितो बोधिसत्त्वो महासत्त्वो व्याक्रियते तथागतैर् अर्हद्भिः सम्यक्संबुद्धैः?
सुभूतिर् आह: नो हीदम् आयुष्मन् शारिपुत्र. तत् कस्य हेतोः? तथा ह्य् आयुष्मन् शारिपुत्र नान्या प्रज्ञापारमिता अन्यः समाधिः अन्यो बोधिसत्त्वो बोधिसत्त्व एव समाधिः समाधिर् एव बोधिसत्त्वः.
शारिपुत्र आह: यद्य् आयुष्मन् सुभूते नान्यः समाधिः, नान्यो बोधिसत्त्वः, समाधिर् एव बोधिसत्त्वो बोधिसत्त्व एव समाधिः सर्वधर्मसमताम् उपादाय. तत् किं शक्यः स समाधिर् दर्शयितुम्?
सुभूतिर् आह: न ह्य् एतद् आयुष्मन् शारिपुत्र.
शारिपुत्र आह: किं पुनर् आयुष्मन् सुभूते स कुलपुत्रस् तं समाधिं संजानीते?
सुभूतिर् आह: नायुष्मन् शारिपुत्र स कुलपुत्रस् तं समाधिं संजानीते.
शारिपुत्र आह: कथं न संजानीते?
सुभूतिर् आह: यथा न विकल्पयति.
शारिपुत्र आह: कथं न विकल्पयति?
सुभूतिर् आह: अविद्यमानत्वेन सर्वधर्माणाम् एवं तं समाधिं न विकल्पयति, अनेनायुष्मन् शारिपुत्र पर्यायेण बोधिसत्त्वो महासत्त्वो न संजानीते.
शारिपुत्र आह: कथं न संजानीते?
सुभूतिर् आह: अविकल्पत्वेन तस्य समाधेर् बोधिसत्त्वो महासत्त्वो न संजानीते.
इत्य् अधिमात्राग्रधर्मस्यालम्बनाकारविशेषः
अथ खलु भगवान् आयुष्मते सुभूतये साधुकारम् अदात्, साधु साधु सुभूते यथापि नाम ते मया अरणाविहारिणाम् अग्रतायां निर्दिष्टस्य निर्देशः.
एवं सुभूते बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्सितव्यम्. एवं ध्यानपारमितायां वीर्यपारमितायां क्षान्तिपारमितायां शीलपारमितायां दानपारमिअतायां शिक्षितव्यम्.
एवं सप्तत्रिंशद्बोधिपक्षेषु धर्मेषु यावद् अष्टादशावेणिकेषु बुद्धधर्मेषु शिक्षितव्यम्.
अथ खल्व् आयुष्मान् शारिपुत्रो भगवन्तम् एतद् अवोचत्: एवं शिक्षमाणो भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां शिक्षते.
भगवान् आह: एवं शिक्षमाणः शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां शिक्षते, अनुपलम्भयोगेन. एवं ध्यानपारमितायां वीर्यपारमितायां क्षान्तिपारमितायां शीलपारमितायां दानपारमितायां (psp1-1: 187) शिक्षते, अनुपलम्भयोगेन,
यावद् विस्तरेण सप्तत्रिंशद्बोधिसपक्षेषु धर्मेषु शिक्षते, अनुपलम्भयोगेन, यावद् अप्रमाणध्यनारूप्यसमापत्तिषु सिक्षते, अनुपलम्भयोगेन, दशबलचतुर्वैशारद्याष्टादशावेणिकेषु बुद्धधर्मेषु शिक्षते, अनुपलम्भयोगेन.
अथ खल्व् आयुष्मान् शारिपुत्रो भगवन्तम् एतद् अवोचत्: एवं शिक्षमाणो भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां शिक्षते, अनुपलम्भयोगेन.
भगवान् आह: एवं शिक्षमाणः शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां शिक्षते, अनुपलम्भयोगेन.
शारिपुत्र आह: किम् इति भगवन् नोपलभते.
भगवान् आह: आत्मानं शारिपुत्र नोपलभते, यावत् सत्त्वजीवपोषपुरुषपुद्गलमनुजमानवकारकवेदकजानकपश्यकान् नोपलभते, अत्यन्तविशुद्धिताम् उपादाय, यावद् व्यस्तसमस्तान् स्कन्धधात्वायतनप्रतीत्यसमुत्पादान् नोपलभते, अत्यन्तविशुद्धिताम् उपादाय.
दुःखं नोपलभते, अत्यन्तविशुद्धिताम् उपादाय, समुदयं नोपलभते, अत्यन्तविशुद्धिताम् उपादाय, निरोधं नोपलभते अत्यन्तविशुद्धिताम् उपादाय, मार्गं नोपलभते, अत्यन्तविशुद्धिताम् उपादाय.
कामधातुं नोपलभते अत्यन्तविशुद्धिताम् उपादाय, रूपधातुं नोपलभते, अत्यन्तविशुद्धिताम् उपादाय, आरूप्यधातुं नोपलभते, अत्यन्तविशुद्धिताम् उपादाय, अप्रमाणध्यानारूप्यसमापत्तीर् नोपलभते, अत्यन्तविशुद्धिताम् उपादाय,
स्मृत्युपस्थानसम्यक्प्रहानर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गान् नोपलभ्यन्ते, अत्यन्तविशुद्धिताम् उपादाय, पारमिता नोपलभते अत्यन्तविशुद्धिताम् उपादाय, दशबलचतुर्वैशारद्याष्टादशावेणिकान् बुद्धधर्मान् नोपलभते, अत्यन्तविशुद्धिताम् उपादाय.
स्रोतआपन्नं नोपलभते, अत्यन्तविशुद्धिताम् उपादाय, सकृदागामिनं नोपलभते अत्यन्तविशुद्धिताम् उपादाय, अनागामिनं नोपलभते, अत्यन्तविशुद्धिताम् उपादाय, अर्हन्तं नोपलभते, अत्यन्तविशुद्धिताम् उपादाय, प्रत्येकबुद्धं नोपलभते, अत्यन्तविशुद्धिताम् उपादाय, बोधिसत्त्वं नोपलभते, अत्यन्तविशुद्धिताम् उपादाय, बुद्धं (psp1-1: 188) नोपलभते, अत्यन्तविशुद्धिताम् उपादाय.
शारिपुत्र आह: का पुनर् भगवन् विशुद्धिः?
भगवान् आह: अनुत्पादः शारिपुत्र अप्रादुर्भावो ऽनुपलम्भो ऽनभिसंस्कारो विशुद्धिर् इत्य् उच्यते.
इति सामान्येन विकल्पसंप्रयोगाधिकारह्.
शारिपुत्र आह: एवं शिक्षमाणो भगवन् बोधिसत्त्वो महासत्त्वः कतमेषु धर्मेषु शिक्षते?
भगवान् आह: एवं शिक्षामाणः शारिपुत्र बोधिसत्त्वो महासत्त्वो न कस्मिंश्चिद् धर्मे शिक्षते. तत् कस्य हेतोः? नैते शारिपुत्र धर्मास् तथा संविद्यन्ते यथा बालपृथग्जनानाम् अभिनिवेशः.
शारिपुत्र आह: कथं भगवन्न् एते धर्माः संविद्यन्ते?
भगवान् आह: यथा न संविद्यन्ते तथा संविद्यन्ते, एवम् असंविद्यमानास् तेनोच्यन्ते ऽविद्येति.
इत्य् उष्मगतविकल्पसंप्रयोगे प्रथमो ऽविद्याविकल्पः
शारिपुत्र आह: केन कारणेनोच्यते असंविद्यमाना अविद्येति.
भगवान् आह: रूपं शारिपुत्र न संविद्यते, अध्यात्यशून्यताम् उपादाय, बहिर्धाशून्यताम् उपादाय, अध्यात्मबहिर्धाशून्यताम् उपादाय, यावद् अभावस्वभावशून्यताम् उपादाय, वेदना संज्ञा संस्कारा विज्ञानं शारिपुत्र न संविद्यते, अध्यात्मशून्यताम् उपादाय, बहिर्धाशून्यताम् उपादाय, अध्यात्मबहिर्धाशून्यताम् उपादाय, यावद् अभावस्वभावशून्यताम् उपादाय, यावत् सप्तत्रिंशद्बोधिपक्षा धर्मा न संविद्यन्ते यावद् अष्टादशावेणिकबुद्धधर्मा न संविद्यन्ते, अध्यात्मशून्यताम् उपादाय, बहिर्धाशून्यताम् उपादाय, अध्यात्मबहिर्धाशून्यताम् उपादाय, यावद् अभावस्वभावशून्यताम् उपादाय.
इति तत्रैव द्वितीयो रूपादिस्कन्धविकल्पः
तत्र बाला अविद्यायां तृष्णायां चाभिनिविष्टाः, तैर् अविद्यां तृष्णां च कल्पितां कल्पयित्वा अविद्यातृष्णाभ्याम् अभिनिविश्य उभाभ्याम् अन्ताभ्यां सक्तास् ते उभाव् अन्तौ न जानन्ति न पश्यन्ति, यथा धर्मा न संविद्यन्ते, ते तान् धर्मान् कल्पयित्वा नामरूपे अभिनिविष्टाः, यावद् बुद्धधर्मेष्व् (psp1-1: 189) अभिनिविष्टाः.
इति तत्रैव तृतीयो नामरूपाभिनिवेशविकल्पः
ते धर्मेष्व् अभिनिविष्टा असंविद्यमानाव् उभाव् अन्तौ कल्पयन्ति कल्पयित्वा न जानन्ति न पश्यन्ति, किं न जानन्ति न पश्यन्ति?
रूपं न जानन्ति न पश्यन्ति, वेदनां संज्ञां संस्कारान् विज्ञानं न जानन्ति न पश्यन्ति, यावत् स्कन्धधात्वायतनप्रतीत्यसमुत्पादं न जानन्ति न पश्यन्ति, यावद् अष्टादशावेणिकान् बुद्धधर्मान् न जानन्ति न पश्यन्ति, तेन ते बाला इति संख्यां गच्छन्ति.
इति तत्रैव चतुर्थो ऽन्तद्वयसक्तिविकल्पः
ते अविद्यातृष्णाप्रत्ययं न जानन्ति न पश्यन्ति. किं न जानन्ति न पश्यन्ति? रूपं संक्लिष्टम् इति न जानन्ति न पश्यन्ति, एवं रूपं व्यवदानम् इति न जानन्ति न पश्यन्ति, वेदनां संज्ञां संस्कारान् विज्ञानं संक्लिष्टम् इति न जानन्ति न पश्यन्ति, एवं विज्ञानं व्यवदानम् इति न जानन्ति न पश्यन्ति, ते न निर्यास्यन्ति. कुतो न निर्यास्यन्ति? कामधातोर् न निर्यास्यन्ति, रूपधातोर् न निर्यास्यन्ति, आरूप्यधातोर् न निर्यास्यन्ति, श्रावकप्रत्येकबुद्धधर्मेभ्यो न निर्यास्यन्ति.
इति तत्रैव पञ्चमः संक्लेशव्यवदानाज्ञानविकल्पः
ते न श्रद्दधति. किम् इति न श्रद्दधति? रूपं रूपेण शून्यम् इति न श्रद्दधति, यावद् बोधिर् बोध्यात्मना शून्येति न श्रद्दधति.
ते न प्रतिष्ठन्ते. किम् इति न प्रतिष्ठन्ते? दानपारमितायां न प्रतिष्ठन्ते, शीलपारमितायां न प्रतिष्ठन्ते, क्षान्तिपारमितायां न प्रतिष्ठन्ते, वीर्यपारमितायां न प्रतिष्ठन्ते, ध्यानपारमितायां न प्रतिष्ठन्ते, प्रज्ञापारमितायां न प्रतिष्ठन्ते, अविनिवर्तनीयभूमौ न प्रतिष्ठन्ते, यावद् बुद्धधर्मेषु न प्रतिष्ठन्ते, अनेन कारणेन बाला इत्य् उच्यन्ते.
ते अभिनिविष्टाः. किम् इति अभिनिविष्टाः? रूपवेदनासंज्ञासंस्कारविज्ञानेष्व् अभिनिविष्टाः, चक्षुषि श्रोत्रे घ्राणे जिह्वायां काये मनस्य् अभिनिविष्टाः, स्कन्धधात्वायतनेष्व् अभिनिविष्टाः, रागद्वेषमोहेष्व् अभिनिविष्टाः, दृष्टिकृतेष्व् अभिनिविष्टाः, यावद् बोधाव् अभिनिविष्टाः.
शारिपुत्र आह: एवं शिक्षमाणो भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां शिक्षते सर्वाकारज्ञतायां निर्यास्यति.
भगवान् आह: एवं शिक्षमाणः शारिपुत्र बोधिसत्त्वो महासत्त्वः (psp1-1: 190) प्रज्ञापारमितायां न शिक्षते, सर्वाकारज्ञतायां न निर्यास्यति.
शारिपुत्र आह: किं कारणं भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां न शिक्षते न निर्यास्यति सर्वाकारज्ञतायाम्?
भगवान् आह: इह शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमिताम् अनुपायकुशलः कल्पयत्य् अभिनिविशते, ध्यानपारमितां कल्पयत्य् अभिनिविशते, वीर्यपारमितां कल्पयत्य् अभिनिविशते, क्षान्तिपारमितां कल्पयत्य् अभिनिविशते, शीलपारमितां कल्पयत्य् अभिनिविशते, दानपारमितां कल्पयत्य् अभिनिविशते.
एवम् अप्रमाणध्यनारूप्यसमापत्तीः कल्पयत्य् अभिनिविशते, स्मृत्युपस्थानं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गान् कल्पयत्य् अभिनिविशते, दशबलवैशारद्यप्रतिसंविदष्टादशावेणिकान्बुद्धधर्मान् कल्पयत्य् अभिनिविशते, यावत् सर्वधर्मान् सर्वाकारज्ञतां कल्पयत्य् अभिनिविशते. अनेन शारिपुत्र पर्यायेण बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां न शिक्षते सर्वाकारज्ञतायां न निर्यास्यति.
शारिपुत्र आह: एवं शिक्षमाणो भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां न शिक्षते सर्वाकारज्ञतायां न निर्यास्यति.
भगवान् आह: एवं शिक्षमाणः शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां न शिक्षते न निर्यास्यति सर्वाकारज्ञतायाम्.
इति तत्रैव षष्ठ आर्यमार्गप्रतिष्ठानविकल्पः
शारिपुत्र आह: कथं पुनर् भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां शिक्षते यथा शिक्षमाणः सर्वाकारज्ञतायां निर्यास्यति?
भगवान् आह: यदा शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् प्रज्ञापारमितां नोपलभते न समनुपश्यति.
एवं खलु शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् प्रज्ञापारमितायां शिक्षमाणः सर्वाकारज्ञतायां निर्यास्यत्य् अनुपलम्भयोगेन, एवं ध्यानपारमितां वीर्यपारमितां क्षान्तिपारमितां शीलपारमितां दानपारमितां नोपलभते न समनुपश्यति, यावद् बोधिं सर्वाकारज्ञतां नोपलभते न समनुपश्यति.
एवं खलु शारिपुत्र बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् प्रज्ञापारमितायां शिक्षमाणः सर्वाकारज्ञतायां निर्यास्यत्य् अनुपलम्भयोगेन.
इति तत्रैव सप्तम उपलम्भविकल्पः
शारिपुत्र आह: कस्यानुपलम्भयोगेन?
भगवान् आह: आत्मानं शारिपुत्र नोपलभते न समनुपश्यति, अत्यन्तविशुद्धिताम् उपादाय, एवं यावत् सर्वाकारज्ञतां नोपलभते न समनुपश्यत्य् अत्यन्तविशुद्धिताम् उपादाय.
इति तत्रैवाष्टम आत्मादिविकल्पः
अनुत्पादः शारिपुत्राप्रादुर्भावो ऽनभिसंस्कारो विशुद्धिः.
इति तत्रैव नवमो विशुद्ध्युत्पादादिविकल्पः
इति प्रथमो ग्राह्यविकल्पः
सो ऽनुपायकुशलो रूपं कल्पयत्य् अभिनिविशते, यावद् विज्ञानं कल्पयत्य् अभिनिविशते.
इति मूर्धगतविकल्पसंप्रयोगे प्रथमो राश्यर्थविकल्पः
चक्षुः कल्पयत्य् अभिनिविशते, एवं यावन् मनः, रूपं कल्पयत्य् अभिनिविशते, एवं यावद् धर्मान्.
इति तत्रैव द्वितीय आयद्वारार्थविकल्पः
चक्षूरूपचक्षुर्विज्ञानधातून् कल्पयत्य् अभिनिविशते, एवं यावन् मनोधर्ममनोविज्ञानधातून्.
इति तत्रैव तृतीयो गोत्रार्थविकल्पः
अविद्यां कल्पयत्य् अभिनिविशते, एवं यावज् जरामरणम्.
इति तत्रैव चतुर्थ उत्पादार्थविकल्पः
सो ऽध्यात्मशून्यतां बहिर्धाशून्यतां अध्यात्मबहिर्धाशून्यतां यावद् अभावस्वभावशून्यतां कल्पयत्य् अभिनिविशते.
इति तत्रैव पञ्चमः शून्यतार्थविकल्पः
षट्पारमिताः कल्पयत्य् अभिनिविशते.
इति तत्रैव षष्टः पारमितार्थविकल्पः
सप्तत्रिंशद्बोधिपक्ष्यान् धर्मान् कल्पयत्य् अभिनिविशते.
इति तत्रैव सप्तमो दर्शनमार्गविकल्पः
स ध्यानाभिज्ञाप्रमाणारूप्यसमापत्तीः कल्पयत्य् अभिनिविशते.
इति तत्रैवाष्टमो भावनामार्गविकल्पः
स दशतथागतबलानि यावत् सर्वाकारज्ञतां कल्पयत्य् (psp1-1: 192) अभिनिविशते.
इति तत्रैव नवमः शैक्षमार्गविकल्पः
इति द्वितीयो ग्राह्यविकल्पः
आत्मानं शारिपुत्र नोपलभते, एवं सत्त्वं जीवं पोषं पुरुषं पुद्गलं मनुजं मानवं कारकं वेदकं जानकं पश्यकं नोपलभते. तत् कस्य हेतोः? अत्यन्ततया ह्य् आत्मा न विद्यते नोपलभते.
इति क्षान्तिगतविकल्पसंप्रयोगे प्रथमः स्वतन्त्रात्मकविकल्पः
रूपं शारिपुत्र नोपलभते, यावद् विज्ञानं नोपलभते.
इति तत्रैव द्वितीय एकात्मविकल्पः
चक्षुः शारिपुत्र नोपलभते, एवं यावन् मनः, रूपं नोपलभते, एवं यावद् बुद्धधर्मान् नोपलभते.
इति तत्रैव तृतीयः कारणात्मविकल्पः
चक्षूरूपचक्षुर्विज्ञानानि शारिपुत्र नोपलभते, यावन् मनोधर्ममनोविज्ञानानि नोपलभते.
इति तत्रैव चतुर्थो द्रष्टाद्यात्मविकल्पः
प्रतीत्यसमुत्पादं शारिपुत्र नोपलभते, यावद् आरूप्यधातुं नोपलभते.
इति तत्रैव पञ्चमः संक्लेशाधारात्मविकल्पः
प्रथमं ध्यानं नोपलभते, यावद् आरूप्यसमापत्तीर् नोपलभते.
इति तत्रैव षष्टो वैराग्याधारात्मविकल्पः
आर्यसत्यानि नोपलभते.
इति तत्रैव सप्तमो दर्शनाधारात्मविकल्पः
अष्टौ विमोक्षान् नवानुपूर्वविहारसमापत्तीर् नोपलभते.
इति तत्रैवाष्टमो भावनाधारात्मविकल्पः
दशबलानि नोपलभते, यावत् सर्वाकारज्ञतां नोपलभते, कथं नोपलभते? आत्मत्वेन. तत् कस्य हेतोः? आत्मनो ऽत्यन्तविशुद्धिताम् उपादाय.
इति तत्रैव नवमः कृतार्थताधारात्मविकल्पः
इति प्रथमो ग्राहकविकल्पः
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: यो भगवन् पृच्छेत् किम् अयं मायापुरुषः प्रज्ञापारमितायां शिक्षित्वा सर्वाकारज्ञतायां निर्यास्यन् निर्यास्यतीति, तस्यैवं पृच्छतः कथं निर्देष्टव्यं स्यात्, एवं ध्यानपारमितायां वीर्यपारमितायां क्षान्तिपारमितायां शीलपारमितायां दानपारमितायां शिक्षित्वा सर्वाकारज्ञतायां निर्यास्यतीति, तस्यैवं पृच्छतः कथं निर्देष्टव्यं स्यात्, यावत् सप्तत्रिंशद्बोधिपक्षेषु धर्मेषु यावत् सर्वाकारज्ञतायां शिक्षित्वा सर्वाकारज्ञतायां निर्यास्यति, सर्वाकारज्ञतां प्राप्स्यतीति, तस्यैवं पृच्छतः कथं निर्देष्टव्यं स्यात्?
भगवान् आह: तेन हि सुभूते त्वाम् एवात्र प्रतिप्रक्ष्यामि, यथा ते क्षमते तथा व्याकुर्याः, तत् किं मन्यसे सुभूते, अन्यद् रूपम् अन्या माया, अन्या वेदना अन्या संज्ञा अन्ये संस्काराः, अन्यद् विज्ञानम् अन्या माया?
सुभूतिर् आह: नो भगवन्.
इत्य् अग्रधर्मगतविकल्पसंप्रयोगे प्रथमः स्कन्धप्रज्ञप्तिविकल्पः
भगवान् आह: तत् किं मन्यसे सुभूते, अन्या माया अन्यच् चक्षुः, अन्या माया अन्यच् छ्रोत्रं घ्राणं जिह्वा कायः, अन्या माया अन्यन् मनः, अन्या माया अन्यद् रूपं, अन्या माया अन्यः शब्दो गन्धो रसः स्प्रष्टव्यः, अन्या माया अन्ये धर्माः.
सुभूतिर् आह: नो भगवन्. इति तत्रैव द्वितीय आयतनप्रज्ञप्तिविकल्पः
भगवान् आह: तत् किं मन्यसे सुभूते, अन्या माया अन्यच् चक्षूरूपचक्षुर्विज्ञानं, अन्या माया अन्यच् छ्रोत्रशब्दश्रोत्रविज्ञनं घ्राणगन्धघ्राणविज्ञानं, जिह्वारसजिह्वाविज्ञानं, कायस्प्रष्टव्यकायविज्ञानं, अन्या माया अन्यन् मनोधर्ममनोविज्ञानम्, अन्या माया अन्यश् चक्षुःसंस्पर्शः, अन्या माया अन्यः श्रोत्रसंस्पर्शो घ्राणसंस्पर्शो (प्स्प्1_2: 2) जिह्वासंस्पर्शः कायसंस्पर्शः, अन्या माया अन्यो मनःसंस्पर्शः.
सुभूतिर् आह: नो भगवन्.
भगवान् आह: तत् किं मन्यसे सुभूते, अन्या माया अन्यच् चक्षुःसंस्पर्शप्रत्ययाद् उत्पद्यते वेदयितं सुखं वा दुःखं वा अदुःखासुखं वा?
सुभूतिर् आह: नो भगवन्.
भगवान् आह: तत् किं मन्यसे सुभूते, अन्या माया अन्यच् छ्रोत्रघ्राणजिह्वाकायमनःसंस्पर्शप्रत्ययाद् उत्पद्यते वेदयितं सुखं वा दुःखं वा अदुःखासुखं वा? सुभूतिर् आह: नो भगवन्.
भगवान् आह: तत् किं मन्यसे सुभूते, अन्या माया अन्यः पृथिवीधातुः, अन्या माया अन्यो ऽब्धातुस् तेजोधातुर् वायुधातुर् आकाशधातुः, अन्या माया अन्यो विज्ञानधातुः?
सुभूतिर् आह: न भगवन्न् अन्यः पृथिवीधातुर् अन्या माया, पृथिवीधातुर् एव माया मायैव पृथिवीधातुः, न भगवन्न् अन्यो ऽब्धातुर् अन्या माया, अब्धातुर् एव माया मायैवाब्धातुः, न भगवन्न् अन्यस् तेजोधातुर् अन्या माया, तेजोधातुर् एव माया मायैव तेजोधातुः, न भगवन्न् अन्यो वायुधातुर् अन्या माया, वायुधातुर् एव माया मायैव वायुधातुः, न भगवन्न् अन्य आकाशधातुर् अन्या माया, आकाशधातुर् एव माया मायैव आकासधातुः, न भगवन्न् अन्यो विज्ञानधातुर् अन्या माया, विज्ञानधातुर् एव माया मायैव विज्ञानधातुः.
इति तत्रैव तृतीयो धातुप्रज्ञप्तिविकल्पः
भगवान् आह: तत् किं मन्यसे सुभूते, अन्या माया अन्यः प्रतीत्यसमुत्पादः?
सुभूतिर् आह: न भगवन्न् अन्या अविद्या अन्या माया, अविद्यैव माया मायैवाविद्या, न भगवन्न् अन्ये संस्कारा अन्या माया, संस्कारा एव माया मायैव संस्काराः, न भगवन्न् अन्यद् विज्ञानम् अन्या माया, विज्ञानम् एव माया मायैव विज्ञानं, न भगवन्न् अन्यं नामरूपम् अन्या माया, नामरूपम् एव माया मायैव नामरूपं, न भगवन्न् अन्यत् षडायतनम् अन्या माया, षडायतनम् एव माया मायैव षडायतनं, (psp1-2: 3) न भगवन्न् अन्यः स्पर्शो ऽन्या माया, स्पर्श एव माया मायैव स्पर्शः, न भगवन्न् अन्या वेदना अन्या माया, वेदनैव माया मायैव वेदना, न भगवन्न् अन्या तृष्णा अन्या माया, तृष्णैव माया मायैव तृष्णा, न भगवन्न् अन्यद् उपादानम् अन्या माया, उपादानम् एव माया मायैव उपादानं, न भगवन्न् अन्यो भवो ऽन्या माया, भव एव माया मायैव भवः, न भगवन्न् अन्या जातिर् अन्या माया, जातिर् एव माया मायैव जातिः, न भगवन्न् अन्यज् जरामरणम् अन्या माया, जरामरणम् एव माया मायैव जरामरणम्.
इति तत्रैव चतुर्थः प्रतीत्यसमुत्पादप्रज्ञप्तिविकल्पः
भगवान् आह: तत् किं मन्यसे सुभूते, अन्या माया अन्ये सप्तत्रिंशद्बोधिपक्षा धर्माः?
सुभूतिर् आह: नो भगवन्.
इति तत्रैव पञ्चमो व्यवदानप्रज्ञप्तिविकल्पः
भगवान् आह: तत् किं मन्यसे सुभूते, अन्या माया अन्या शून्यता अन्या माया अन्यद् आनिमित्तम् अन्या माया अन्यद् अप्रणिहितम्. सुभूतिर् आह: नो भगवन्.
इति तत्रैव षष्ठो दर्शनमार्गप्रज्ञप्तिविकल्पः
भगवान् आह: तत् किं मन्यसे सुभूते, अन्या माया अन्या ध्यानारूप्यसमापत्तयः?
सुभूतिर् आह: नो भगवन्.
इति तत्रैव सप्तमो भावनामार्गप्रज्ञप्तिविकल्पः
भगवान् आह: तत् किं मन्यसे सुभूते, अन्या माया अन्याः सर्वशून्यताः?
सुभूतिर् आह: नो भगवन्.
इति तत्रैवाष्टमो विशेषमार्गप्रज्ञप्तिविकल्पः
भगवान् आह: तत् किं मन्यसे सुभूते, अन्या माया अन्यानि दशबलानि, अन्या माया अन्ये ऽष्टादशावेणिका बुद्धधर्माः?
सुभूतिर् आह: नो भगवन्.
भगवान् आह: तत् किं मन्यसे सुभूते, अन्या माया अन्या बोधिः?
सुभूतिर् आह: न भगवन्न् अन्या माया अन्यद् रूपं, रूपम् एव भगवन् माया मायैव भगवन् रूपं, न भगवन्न् अन्या माया अन्या वेदना, वेदनैव भगवन् माया मायैव भगवन् वेदना, न भगवन्न् (psp1-2: 4) अन्या माया अन्या संज्ञा, संज्ञैव भगवन् माया मायैव भगवन् संज्ञा, न भगवन्न् अन्या माया अन्ये संस्कारः, संस्कारा एव भगवन् माया मायैव भगवन् संस्काराः, न भगवन्न् अन्या माया अन्यद् विज्ञानं, विज्ञानम् एव भगवन् माया मायैव भगवन् विज्ञानम्.
न भगवन्न् अन्यच् चक्षुर् अन्या माया, न भगवन्न् अन्यद् रूपम् अन्या माया, न भगवन्न् अन्यच् चक्षुर्विज्ञानम् अन्या माया, न भगवन्न् अन्यश् चक्षुःसंस्पर्शो ऽन्या माया, न भगवन्न् अन्यच् चक्षुःसंस्पर्शप्रत्ययाद् उत्पद्यते वेदयितं सुखं वा दुःखं वा अदुःखासुखं वा अन्या माया.
न भगवन्न् अन्यच् छ्रोत्रं घ्राणं जिह्वा कायो ऽन्या माया, न भगवन्न् अन्यन् मनो ऽन्या माया, न भगवन्न् अन्ये धर्मा अन्या माया, न भगवन्न् अन्यन् मनोविज्ञानम् अन्या माया, न भगवन्न् अन्यो मनःसंस्पर्शो ऽन्या माया, न भगवन्न् अन्यन् मनःसंस्पर्शप्रत्ययाद् उत्पद्यते वेदयितं सुखं वा दुःखं वा अदुःखासुखं वा अन्या माया.
न भगवन्न् अन्या माया अन्ये बोधिपक्ष्या धर्माः, बोधिपक्ष्या धर्मा एव भगवन् माया मायैव भगवन् बोधिपक्ष्या धर्माः,
न भगवन्न् अन्या माया अन्ये ऽष्टादशावेणिका बुद्धधर्माः, अष्टादशावेणिका बुद्धधर्मा एव भगवन् माया मायैव भगवन्न् अष्टादशावेणिका बुद्धधर्माः, न भगवन्न् अन्या माया अन्या बोधिः, बोधिर् एव भगवन् माया मायैव भगवन् बोधिः.
भगवान् आह: तत् किं मन्यसे सुभूते, अपि नु मायाया उत्पादो वा निरोधो वा?
सुभूतिर् आह: नो भगवन्.
भगवान् आह: तत् किं मन्यसे सुभूते, मायायाः संक्लेशो वा व्यवदानं वा?
सुभूतिर् आह: नो भगवन्.
भगवान् आह: तत् किं मन्यसे सुभूते, यस्य नोत्पादो न निरोधो न संक्लेशो न व्यवदानं स प्रज्ञापारमितायां शिक्षते? ध्यानपारमितायां वीर्यपारमितायां क्षान्तिपारमितायां शीलपारमितायां दानपारमितायां शिक्षते? अप्रमाणध्यानारूप्यसमापत्तिषु शिक्षते? सप्तत्रिंशद्बोधिपक्षेषु धर्मेष्व् अभिज्ञादशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मेषु (psp1-2: 5) शिक्षते? सर्वज्ञतायां निर्यास्यति, यावत् सर्वाकारज्ञताम् अनुप्राप्स्यति?
सुभूतिर् आह: नो भगवन्.
भगवान् आह: तत् किं मन्यसे सुभूते, अत्रैषा संज्ञा समज्ञा प्रज्ञप्तिर् व्यवहारो बोधिसत्त्व इति. पञ्चसूपादानस्कन्धेषु?
सुभूतिर् आह: नो भगवन्.
भगवान् आह: तत् किं मन्यसे सुभूते, संज्ञा समज्ञा प्रज्ञप्तिर् व्यवहारमात्रेण पञ्चानाम् उपादानस्कन्धानाम् उत्पादो वा निरोधो वा संक्लेशो वा व्यवदानं वा उपलभ्यते?
सुभूतिर् आह: नो भगवन्.
भगवान् आह: तत् किं मन्यसे सुभूते, यस्य न संज्ञा न समज्ञा न प्रज्ञप्तिर् न व्यवहारो न नाम न नामप्रज्ञप्तिर् न कायो न कायकर्म न वाक् न वाक्कर्म न मनो न मनस्कर्म नोत्पादो न निरोधो न संक्लेशो न व्यवदानम् अपि नु स प्रज्ञापारमितायां शिक्षित्वा सर्वाकारज्ञतायां निर्यास्यति?
सुभूतिर् आह: नो भगवन्.
भगवान् आह: एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां शिक्षित्वा सर्वाकारज्ञतायां निर्यास्यति, अनुपलम्भयोगेन.
सुभूतिर् आह: एवं भगवन् बोधिसत्त्वेन महासत्त्वेन प्रज्ञापारमितायां शिक्षमाणेन मायापुरुषेणैव शिक्षितव्यं भगवत्य् अनुत्तरायां सम्यक्संबोधौ, तत् कस्य हेतोः? तथा हि भगवन् स एव मायापुरुषो वेदितव्यः, यद् उत पञ्चोपादानस्कन्धाः.
भगवान् आह: तत् किं मन्यसे सुभूते, अपि त्व् अमी पञ्चोपादानस्कन्धाः प्रज्ञापारमितायां शिक्षित्वा सर्वाकारज्ञतायां निर्यास्यन्ति?
सुभूतिर् आह: नो भगवंस्, तत् कस्य हेतोः? तथा हि भगवन्न् अभावस्वभावाः पञ्चोपादानस्कन्धाः. एवं स्वप्नोपमाः पञ्चस्कन्धाःस्वप्नश् चाभावस्वभावो नोपलभ्यते, तथैव पञ्चस्कन्धा अभावस्वभावतया नोपलभ्यन्ते.
भगवान् आह: तत् किं मन्यसे सुभूते प्रतिश्रुत्कोपमाः पञ्चस्कन्धाः, प्रतिभासोपमाः निर्मितकोपमाः प्रतिबिम्बोपमाः पञ्चस्कन्धाः प्रज्ञापारमितायां शिक्षित्वा सर्वाकारज्ञतायां निर्यास्यन्ति?
सुभूतिर् आह: नो भगवंस्, तत् कस्य हेतोः? तथा हि भगवन्न् अभावस्वभावाप्रतिश्रुत्का, एवं प्रतिभासो निर्मितकं प्रतिबिम्बं तथैव पञ्चस्कन्धा अभावस्वभावतया नोपलभ्यन्ते, तथा हि भगवन् मायोपमं रूपं मायोपमा वेदना मायोपमा संज्ञा मायोपमाः संस्कारा मायोपमं विज्ञानं, यच् च विज्ञानं तत् षडिन्द्रियं ते पञ्चस्कन्धास् ते चाध्यात्मशून्यतया नोपलभ्यन्ते, बहिर्धाशून्यतया नोपलभ्यन्ते, अध्यात्मबहिर्धाशून्यतया नोपलभ्यन्ते, यावद् अभावस्वभावशून्यतया नोपलभ्यन्ते. सचेद् एवं भगवन् भाष्यमाणो यो बोधिसत्त्वो महासत्त्वो नावलीयते न संलीयते न विप्रतिसारी भवति नोत्रस्यति न संत्रस्यति न संत्रासम् आपद्यते, वेदितव्यम् अयं भगवन् निर्यास्यति सर्वज्ञतायां निर्यास्यति मार्गज्ञतायां सर्वाकारज्ञताम् अनुप्राप्स्यति.
इति तत्रैव नवमो ऽशैक्षमार्गप्रज्ञप्तिविकल्पः
इति द्वितीयो ग्राहकविकल्पः.
अथ खल्व् आयुष्मान् सुभूतिर् भगवन्तम् एतद् अवोचत्: मा खलु भगवन् नवयानसंप्रस्थितो बोधिसत्त्वो महासत्त्व इमं निर्देशं श्रुत्वा अवलीयेत संलीयेत विप्रतिसारी भवेत्, उत्त्रस्येत् संत्रस्येत् संत्रासम् आपद्येत.
भगवान् आह: सचेत् सुभूते नवयानसंप्रस्थितो बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकुशलो भवेन् न च कल्याणमित्रहस्तगतो भवेद् उत्त्रस्येत् संत्रस्येत् संत्रासम् आपद्येत.
सुभूतिर् आह: कतमद् भगवन् बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरत उपायकौशल्यं यत्र चरन् बोधिसत्त्वो महासत्त्वो नोत्त्रस्यति न संत्रस्यति न संत्रासम् आपद्यते?
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन रूपम् अनित्यम् इति प्रत्यवेक्षते न चोपलभते, वेदना सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेनानित्येति प्रत्यवेक्षते न चोपलभते, संज्ञासर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेनानित्येति प्रत्यवेक्षते न चोपलभते, संस्काराः सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेनानित्या इति प्रत्यवेक्षते न चोपलभते, विज्ञानं सर्वाकारज्ञताप्रतिसंयुक्तेन (psp1-2: 7) चित्तेनानित्यम् इति प्रत्यवेक्षते न चोपलभते, इदं सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरत उपायकौशल्यं वेदितव्यम्.
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन रूपं दुःखम् इति प्रत्यवेक्षते न चोपलभते, वेदना संज्ञा संस्काराः, सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन विज्ञानं दुःखम् इति प्रत्यवेक्षते न चोपलभते.
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन रूपं शून्यम् इति प्रत्यवेक्षते न चोपलभते, रूपम् अनात्मेति रूपं शान्तम् इति रूपं विविक्तम् इति रूपं शून्यम् इति रूपम् आनिमित्तम् इति रूपम् अप्रणिहितम् इति प्रत्यवेक्षते न चोपलभते, सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन वेदना संज्ञा संस्काराः, सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन विज्ञानं शून्यम् इति प्रत्यवेक्षते न चोपलभते, विज्ञानम् अनात्मेति विज्ञानं शान्तम् इति विज्ञानं विविक्तम् इति विज्ञानं शून्यम् इति विज्ञानम् आनिमित्तम् इति विज्ञानम् अप्रणिहितम् इति प्रत्यवेक्षते न चोपलभते, सर्वाकारज्ञताप्रतिसंयुक्तेन चित्तेन. इदं सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरत उपायकौशल्यं वेदितव्यम्.
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् सर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् यान् धर्मदेशनाङ् करोत्य् अनुपलम्भयोगेन इयं बोधिसत्त्वस्य महासत्त्वस्य दानपारमिता, या तेषाम् एव सर्वाकारज्ञताप्रतिसंयुक्तानां मनसिकाराणाम् अपरामर्षणता इयं बोधिसत्त्वस्य महासत्त्वस्य शीलपारमिता, या तेषाम् एव सर्वाकारज्ञताप्रतिसंयुक्तानां मनसिकाराणां क्षमणारोचनप्रत्यवेक्षणता, इयं बोधिसत्त्वस्य महासत्त्वस्य क्षान्तिपारमिता, या तेषाम् एव सर्वाकारज्ञताप्रतिसंयुक्तानां मनसिकाराणां अनुत्सृष्टिर्, इयं बोधिसत्त्वस्य महासत्त्वस्य वीर्यपारमिता, या च श्रावकप्रत्येकबुद्धप्रतिसंयुक्तानां मनसिकाराणाम् अनवकाशदानता अन्येषाम् अपि वा कुशलानां धर्माणाम् इयं बोधिसत्त्वस्य महासत्त्वस्य ध्यानपारमिता, एवं हि सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन् नोत्त्रस्यति न संत्रस्यति न संत्रासम् आपद्यते.
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् एवं प्रत्यवेक्षते न रूपशून्यतया रूपं शून्यं रूपम् एव शून्यता शून्यतैव रूपम्, न वेदनाशून्यतया वेदना शून्या वेदनैव शून्यता शून्यतैव वेदना, न संज्ञाशून्यतया संज्ञा शून्या संज्ञैव शून्यता शून्यतैव संज्ञा, न संस्कारशून्यतया संस्काराः शून्याः संस्कारा एव शून्यता शून्यतैव संस्काराः, न विज्ञानशून्यतया विज्ञानं शून्यं विज्ञानम् एव शून्यता शून्यतैव विज्ञानम्.
एवं न चक्षुःशून्यतया चक्षुः शून्यं चक्षुर् एव शून्यता शून्यतैव चक्षुः, न श्रोत्रशून्यतया श्रोत्रं शून्यं श्रोत्रम् एव शून्यता शून्यतैव श्रोत्रं, न घ्राणशून्यतया घ्राणं शून्यं घ्राणम् एव शून्यताशून्यतैव घ्राणं, न जिह्वाशून्यतया जिह्वा शून्या जिह्वैव शून्यताशून्यतैव जिह्वा, न कायशून्यतया कायः शून्यः काय एव शून्यताशून्यतैव कायः, न मनःशून्यतया मनः शून्यं मन एव शून्यताशून्यतैव मनः.
एवं न रूपशून्यतया रूपं शून्यं रूपम् एव शून्यता शून्यतैव रूपं, न शब्दशून्यतया शब्दः शून्यः शब्द एव शून्यता शून्यतैव शब्दः, न गन्धशून्यतया गन्धः शून्यः गन्ध एव शून्यता शून्यतैव गन्धः, न रसशून्यतया रसः शून्यः रस एव शून्यता शून्यतैव रसः, न स्प्रष्टव्यशून्यतया स्प्रष्टव्यं शून्यं स्प्रष्टव्यम् एव शून्यता शून्यतैव स्प्रष्टव्यं, न धर्मशून्यतया धर्माः शून्याःधर्मा एव शून्यता शून्यतैव धर्माः.
एवं न चक्षुर्विज्ञानशून्यतया चक्षुर्विज्ञानं शून्यं चक्षुर्विज्ञानम् एव शून्यता शून्यतैव चक्षुर्विज्ञानं, न श्रोत्रविज्ञानशून्यतया श्रोत्रविज्ञानं शून्यं श्रोत्रविज्ञानम् एव शून्यता शून्यतैव श्रोत्रविज्ञानं, न घ्राणविज्ञानशून्यतया घ्राणविज्ञानं शून्यं घ्राणविज्ञानम् एव शून्यता शून्यतैव घ्राणविज्ञानं, न जिह्वाविज्ञानशून्यतया जिह्वाविज्ञानं शून्यं जिह्वाविज्ञानम् एव शून्यता शून्यतैव जिह्वाविज्ञानं, न कायविज्ञानशून्यतया कायविज्ञानं शून्यं कायविज्ञानम् एव शून्यता शून्यतैव कायविज्ञानं, न मनोविज्ञानशून्यतया मनोविज्ञानं शून्यं मनोविज्ञानम् एव शून्यता शून्यतैव मनोविज्ञानम्.
एवं न चक्षुःसंस्पर्शश् चक्षुःसंस्पर्शशून्यतया शून्यश् चक्षुःसंस्पर्श एव शून्यता शून्यतैव चक्षुःसंस्पर्शः, एवं न श्रोत्रघ्राणजिह्वाकायाः, न मनःसंस्पर्शो मनःसंस्पर्शशून्यतया शून्यो (psp1-2: 9) मनःसंस्पर्श एव शून्यता शून्यतैव मनःसंस्पर्शः.
एवं न चक्षुःसंस्पर्शप्रत्ययवेदयितं चक्षुःसंस्पर्शप्रत्ययवेदयितशून्यतया शून्यं चक्षुःसंस्पर्शप्रत्ययवेदयितम् एव शून्यता शून्यतैव चक्षुःसंस्पर्शप्रत्ययवेदयितं, न श्रोत्रसंस्पर्शप्रत्ययवेदयितं श्रोत्रसंस्पर्शप्रत्ययवेदयितशून्यतयाशून्यं श्रोत्रसंस्पर्शप्रत्ययवेदयितम् एव शून्यता शून्यतैवश्रोत्रसंस्पर्शप्रत्ययवेदयितं, न घ्राणसंस्पर्शप्रत्ययवेदयितं घ्राणसंस्पर्शप्रत्ययवेदयितशून्यतयाशून्यं घ्राणसंस्पर्शप्रत्ययवेदयितम् एव शून्यता शून्यतैव घ्राणसंस्पर्शप्रत्ययवेदयितं, न जिह्वासंस्पर्शप्रत्ययवेदयितं जिह्वासंस्पर्शप्रत्ययवेदयितशून्यतया शून्यं जिह्वासंस्पर्शप्रत्ययवेदयितम् एव शून्यता, शून्यतैव जिह्वासंस्पर्शप्रत्ययवेदयितम्, न कायसंस्पर्शप्रत्ययवेदयितं कायसंस्पर्शप्रत्ययवेदयितशून्यतया शून्यं कायसंस्पर्शप्रत्ययवेदयितम् एव शून्यता शून्यतैव कायसंस्पर्शप्रत्ययवेदयितं, न मनःसंस्पर्शप्रत्ययवेदयितं मनःसंस्पर्शप्रत्ययवेदयितशून्यतया शून्यं मनःसंस्पर्शप्रत्ययवेदयितम् एव शून्यता शून्यतैव मनःसंस्पर्शप्रत्ययवेदयितम्.
न स्मृत्युपस्थानशून्यतया स्मृत्युपस्थानानि शून्यानि स्मृत्युपस्थानान्य् एव शून्यता शून्यतैव स्मृत्युपस्थानानि, एवं सम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गानि, न मार्गशून्यतया मार्गः शून्यो मार्ग एव शून्यता शून्यतैव मार्गः, न बलवैशारद्यावेणिकबुद्धधर्मशून्यतया बुद्धधर्माः शून्या बुद्धधर्मा एव शून्यता शून्यतैव बुद्धधर्माः. इयं सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमिता. एवं हि सुभूते बोधिसत्त्वो महासत्त्वः प्रज्नापारमितायां चरन् नोत्त्रस्यति न संत्रस्यति न संत्रासम् आपद्यते.
इत्य् उपायकौशलं प्रथमः संपरिग्रहः
सुभूतिर् आह: कतमानि भगवन् बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्राणि यैः परिगृहीत इमं प्रज्नापारमितानिर्देशं श्रुत्वा नोत्त्रस्यति न संत्रस्यति न संत्रासम् आपद्यते?
भगवान् आह: इह सुभूते बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्रानि यान्य् अस्य रूपम् अनित्यम् इति धर्मं देशयन्ति तच् चानुपलम्भयोगेन, (psp1-2: 10) तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयन्ति, अन्यत्र सर्वाकारज्ञतायाः, वेदना संज्ञा संस्कारा, विज्ञानम् अनित्यम् इति धर्मं देशयन्ति तच् चानुपलम्भयोगेन, तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयन्ति, अन्यत्र सर्वाकारज्ञतायाः, अमूनि सुभूते बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्राणि.
पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्राणि यान्य् अस्य रूपं दुःखम् इति धर्मं देशयन्ति, रूपम् अनात्मेति शान्तम् इति विविक्तम् इति शून्यम् इति आनिमित्तम् इति अप्रणिहितम् इति धर्मं देशयन्ति तच् चानुपलम्भयोगेन, तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयन्ति, अन्यत्र सर्वाकारज्ञतायाः, वेदना संज्ञासंस्काराः, यान्य् अस्य विज्ञानं दुःखम् इति धर्मं देशयन्ति विज्ञानम् अनात्मेति शान्तम् इति विविक्तम् इति शून्यम् इति आनिमित्तम् इति अप्रणिहितम् इति धर्मं देशयन्ति तच् चानुपलम्भयोगेन, तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयन्ति, अन्यत्र सर्वाकारज्ञतायाः, अमूनि सुभूते बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्राणि.
पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्राणि यान्य् अस्य चक्षुर् अनित्यम् इति धर्मं देशयन्ति दुःखम् इति अनात्मेति शान्तम् इति विविक्तम् इति शून्यम् इति आनिमित्तम् इति अप्रणिहितम् इति धर्मं देशयन्ति तच् चानुपलम्भयोगेन, तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयन्ति, अन्यत्र सर्वाकारज्ञतायाः, एवं श्रोत्रं घ्राणं जिह्वा कायो मनो ऽनित्यम् इति धर्मं देशयन्ति दुःखम् इति अनात्मेति शान्तम् इति विविक्तम् इति शून्यम् इति आनिमित्तम् इति अप्रणिहितम् इति धर्मं देशयन्ति तच् चानुपलम्भयोगेन, तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयन्ति, अन्यत्र सर्वाकारज्ञतायाः, अमूनि सुभूते बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्राणि.
पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतः कल्याणमित्राणि यान्य् अस्य रूपम् अनित्यम् इति धर्मं देशयन्ति दुःखम् इति अनात्मेति शान्तम् इति विविक्तम् इति शून्यम् इति आनिमित्तम् इति अप्रणिहितम् इति धर्मं देशयन्ति तच् चानुपलम्भयोगेन, तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयन्ति, (psp1-2: 11) अन्यत्र सर्वाकारज्ञतायाः, एवं शब्दो गन्धो रसः स्प्रष्टव्यं धर्मा अनित्या इति धर्मं देशयन्ति, दुःखा इति अनात्मान इति शान्ता इति विविक्ता इति शून्या इति आनिमित्ता इति अप्रणिहिता इति धर्मं देशयन्ति तच् चानुपलम्भयोगेन, तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयन्ति, अन्यत्र सर्वाकारज्ञतायाः. अमूनि सुभूते बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्राणि.
पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्राणि यान्य् अस्य चक्षुर्विज्ञानं चक्षुःसंस्पर्शश् चक्षुःसंस्पर्शप्रत्ययवेदयितम् अनित्यम् इति धर्मं देशयन्ति, दुःखम् इति अनात्मेति शान्तम् इति विविक्तम् इति शून्यम् इति आनिमित्तम् इति अप्रणिहितम् इति धर्मं देशयन्ति तच् चानुपलम्भयोगेन, तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयन्ति, अन्यत्र सर्वाकारज्ञतायाः.
एवं श्रोत्रविज्ञानं श्रोत्रसंस्पर्शः श्रोत्रसंस्पर्शप्रत्ययवेदयितं, घ्राणविज्ञानं घ्राणसंस्पर्शो घ्राणसंस्पर्शप्रत्ययवेदयितं, जिह्वाविज्ञानं जिह्वासंस्पर्शो जिह्वासंस्पर्शप्रत्ययवेदयितं, कायविज्ञानं कायसंस्पर्शः कायसंस्पर्शप्रत्ययवेदयितं, मनोविज्ञानं मनःसंस्पर्शो मनःसंस्पर्शप्रत्ययवेदयितम् अनित्यम् इति धर्मं देशयन्ति, दुःखम् इति अनात्मेति शान्तम् इति विविक्तम् इति शून्यम् इति आनिमित्तम् इति अप्रणिहितम् इति धर्मं देशयन्ति तच् चानुपलम्भयोगेन, तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयन्ति, अन्यत्र सर्वाकारज्ञतायाः. इमानि सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतः कल्याणमित्राणि.
पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतः कल्याणमित्राणि यान्य् अस्य स्मृत्युपस्थानान्य् अनित्यानीति धर्मं देशयन्ति, दुःखानीति अनात्मानीति शान्तानीति विविक्तानीति शून्यानीति आनिमित्तानीति अप्रणिहितानीति धर्मं देशयन्ति तच् चानुपलम्भयोगेन, तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयन्ति, अन्यत्र सर्वाकारज्ञतायाः.
एवं सम्यक्प्रहाणानि ऋद्धिपादा इन्द्रियाणि बलानि बोध्यङ्गानि आर्याष्टाङ्गमार्गो ऽनित्य इति धर्मं देशयन्ति, दुःख इति अनात्मेति शान्त इति विविक्त इति शून्य इति आनिमित्त इति अप्रणिहित इति धर्मं देशयन्ति तच् (psp1-2: 12) चानुपलम्भयोगेन, तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयन्ति, अन्यत्र सर्वाकारज्ञतायाः.
एवम् अप्रमाणध्यानारूप्यसमापत्तयो ऽभिज्ञा अनित्या इति दुःखा इति अनात्मान इति शान्ता इति विविक्ता इति शून्या इति आनिमित्ता इति अप्रणिहिता इति धर्मं देशयन्ति, तच् चानुपलम्भयोगेन तानि च कुशलमूलानि न श्रावकप्रत्येकबुद्धभूमौ परिणामयन्ति, अन्यत्र सर्वाकारज्ञतायाः.
एवं वैशारद्यानि प्रतिसंविदो दशतथागतबलानि अष्टादशावेणिका बुद्धधर्मा अप्य् अनित्या इति धर्मं देशयन्ति, दुःखा इति अनात्मान इति शान्ता इति विविक्ता इति शून्या इति आनिमित्ता इति अप्रणिहिता इति धर्मं देशयन्ति तच् चानुपलम्भयोगेन, तानि च कुशलमूलनि न श्रावकप्रत्येकबुद्धभूमौ परिणामयन्ति, अन्यत्र सर्वाकारज्ञतायाः. इमानि सुभूते बोधिसत्त्वस्य महासत्त्वस्य कल्याणमित्राणि, यैः परिगृहीत इमं प्रज्ञापारमितानिर्देशं श्रुत्वा नोत्त्रस्यति न संत्रस्यति न संत्रासम् आपद्यते.
सुभूतिर् आह: कथं भगवन् बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायाम् अनुपायकुशलो भविष्यति पापमित्रहस्तगतश् च भविष्यति, य इमं प्रज्ञापारमितानिर्देशं श्रुत्वा उत्त्रसिष्यति संत्रसिष्यति संत्रासम् आपत्स्यते?
भगवान् आह: इह सुभूते बोधिसत्त्वो महासत्त्वो ऽपगतसर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः प्रज्ञापारमितां भावयति उपलभते, तया च प्रज्ञापारमितया मन्यते, अपगतसर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् ध्यानपारमितां भावयति उपलभते, तया च ध्यानपारमितया मन्यते, अपगतसर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् वीर्यपारमितां भावयति उपलभते, तया च वीर्यपारमितया मन्यते, अपगतसर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः क्षान्तिपारमितां भावयति उपलभते, तया च क्षान्तिपारमितया मन्यते, अपगतसर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः शीलपारमितां भावयति उपलभते, तया च शीलपारमितया मन्यते, अपगतसर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् दानपारमितां भावयति उपलभते, तया च दानपारमितया मन्यते.
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां (psp1-2: 13) चरन्न् अपगतसर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारै रूपम् अध्यात्मशून्यम् इति मनसिकरोति, रूपं बहिर्धाशून्यम् इति मनसिकरोति, रूपम् अध्यात्मबहिर्धाशून्यम् इति मनसिकरोति, यावद् रूपम् अभावस्वभावशून्यम् इति मनसिकरोति, एवम् अपगतसर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैर् वेदना संज्ञा संस्कारा विज्ञानम् अध्यात्मशून्यम् इति मनसिकरोति, बहिर्धाशून्यम् इति मनसिकरोति, अध्यात्मबहिर्धाशून्यम् इति मनसिकरोति, यावद् अभावस्वभावशून्यम् इति मनसिकरोति, अपगतसर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैस् तां चाध्यात्मशून्यतां बहिर्धाशून्यताम् अध्यात्मबहिर्धाशून्यतां यावद् अभावस्वभावशून्यताम् उपलभते ताभिश् च शून्यताभिर् मन्यते उपलम्भयोगेन.
चक्षुर् अध्यात्मशून्यम् इति मनसिकरोति, बहिर्धाशून्यम् इति मनसिकरोति, अध्यात्मबहिर्धाशून्यम् इति मनसिकरोति, यावद् अभावस्वभावशून्यम् इति मनसिकरोति, ताश् च शून्यता उपलभते तया च मन्यते उपलम्भयोगेन, एवं श्रोत्रं घ्राणं जिह्वा कायो मनो ऽध्यात्मशून्यम् इति मनसिकरोति, बहिर्धाशून्यम् इति मनसिकरोति, अध्यात्मबहिर्धाशून्यम् इति मनसिकरोति, यावद् अभावस्वभावशून्यम् इति मनसिकरोति, ताश् च शून्यता उपलभते तया च मन्यते उपलम्भयोगेन. एवं रूपशब्धगन्धरसस्प्रष्टव्यधर्मेषु कर्त्तव्यं, यावच् चक्षुर्विज्ञानंश्रोत्रघ्राणजिह्वाकायमनोविज्ञानं, एवं चक्षुःसंस्पर्शः श्रोत्रघ्राणजिह्वाकायमनःसंस्पर्शः, चक्षुःसंस्पर्शप्रत्ययवेदयितम् अध्यात्मशून्यम् इति मनसिकरोति, बहिर्धाशून्यम् इति मनसिकरोति, अध्यात्मबहिर्धाशून्यम् इति मनसिकरोति, यावद् अभावस्वभावशून्यम् इति मनसिकरोति, ताश् च शून्यता उपलभते तया च मन्यते उपलम्भयोगेन.
एवम् अविद्या यावज् जरामरणम् अध्यात्मशून्यम् इति मनसिकरोति, बहिर्धाशून्यम् इति मनसिकरोति, अध्यात्मबहिर्धाशून्यम् इति मनसिकरोति, यावद् अभावस्वभावशून्यम् इति मनसिकरोति, ताश् च शूअन्यता उपलभते, तेभिर् मन्यते उपलम्भयोगेन.
पुनर् अपरं सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां (psp1-2: 14) चरन्न् अपगतसर्वाकारज्ञताप्रतिसंयुक्तैर् मनसिकारैः स्मृत्युपस्थानानि भावयति तानि च स्मृत्युपस्थानानि उपलभते तैश् च मन्यते उपलम्भयोगेन, एवं सम्यक्प्रहाणानि ऋद्धिपादानीन्द्रियाणि बलानि बोध्यङ्गानि मार्गान् अप्रमाणानि ध्यानानि आरूप्यसमापत्तीः, अभिज्ञाः प्रतिसंविदो दशतथागतबलानि वैशारद्यानि अष्टादशावेणिकान् बुद्धधर्मान् भावयति तांश् च बुद्धधर्मान् उपलभते तैश् च मन्यते उपलम्भयोगेन. एवं खलु सुभूते बोधिसत्त्वो महासत्त्वः प्रज्ञापारमितायां चरन्न् अनुपायकुशल इमं प्रज्ञापारमितानिर्देशं श्रुत्वा उत्त्रस्यति संत्रस्यति संत्रासम् आपद्यते.
सुभूतिर् आह: कथं भगवन् बोधिसत्त्वो महासत्त्वः पापमित्रपरिगृहीतो भवति, येन पापमित्रपरिग्रहेणेमं प्रज्ञापारमितानिर्देशं श्रुत्वा उत्त्रस्यति संत्रस्यति संत्रासम् आपद्यते?
भगवान् आह: इह सुभूते बोधिसत्त्वस्य महासत्त्वस्य यः प्रज्ञापारमिताया विवेचयति, ध्यानपारमिताया वीर्यपारमितायाः क्षान्तिपारमितायाः शीलपारमिताया दानपारमिताया विवेचयति, नात्र शिक्षितव्यम् इति नैतत् तथागतेनार्हता सम्यक्संबुद्धेन भाषितम् इति कविकृतान्य् एतानि काव्यानि नैतानि श्रोतव्यानि नोद्ग्रहीतव्यानि न पर्यवाप्तव्यानि न धारयितव्यानि न वाचयितव्यानि न मनसिकर्तव्यानि नापि परेभ्यो देशयितव्यानि, इदं सुभूते बोधिसत्त्वस्य महासत्त्वस्य पापमित्रं वेदितव्यम्.
पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य पापमित्रं यो ऽस्य न मारकर्माण्य् उपदिशति, न मारदोषान् आचष्टे, इति हि मारः पापीयान् बुद्धवेषेण विवेचयति बोधिसत्त्वं महासत्त्वम् उपसंक्रम्यैवं ब्रवीति: किं ते कुलपुत्र प्रज्ञापारमितया भावितया? किं ते ध्यानपारमितया भावितया? किं ते वीर्यपारमितया भावितया? किं ते क्षान्तिपारमितया भावितया? किं ते शीलपारमितया भावितया? किं ते दानपारमितया भावितया? इदं सुभूते बोधिसत्त्वस्य महासत्त्वस्य पापमित्रं वेदितव्यम्.
पुनर् अपरं सुभूते मारः पापीयान् बुद्धवेषेण श्रावकभूमिप्रतिसंयुक्तानि सूत्राणि गेयं व्याकरणं गाथोदानं निदानम् इतिवृत्तकं जातकानि वैपुल्यम् अद्भुतधर्मावदानोपदेशम् उपदेक्ष्यति प्रकाशयिष्यति विभजिष्यति उत्तानीकरिष्यति संप्रकाशयिष्यति, इमान्य् एवंरूपाणि (psp1-2: 15) मारकर्माणि चाख्यातानि नावबोधयति, इदम् अपि सुभूते बोधिसत्त्वस्य महासत्त्वस्य पापमित्रं वेदितव्यम्.
पुनर् अपरं सुभूते बोधिसत्त्वं महासत्त्वम् उपसंक्रम्यैवं वक्ष्यति; न ते कुलपुत्र किंचिद् बोधिचित्तं नापि त्वम् अविनिवर्तनीयो नापि त्वं शक्ष्यस्य् अनुत्तरां सम्यक्संबोधिम् अभिसंबोद्धुं, य इमान्य् एवंरूपाणि मारकर्माण्य् आख्यातानि नावबोधयति, इदम् अपि सुभूते बोधिसत्त्वस्य महासत्त्वस्य पापमित्रं वेदितव्यम्.
पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य बुद्धवेषेणोपसंक्रम्यैवं वक्ष्यति; चक्षुः कुलपुत्र शून्यम् आत्मना चात्मीयेन च, एवं श्रोत्रं घ्राणं जिह्वा कायो मनः शून्यम् आत्मना चात्मीयेन च, रूपं शून्यम् आत्मना चात्मीयेन च, एवं शब्दो गन्धो रसः स्प्रष्टव्यानि धर्माः शून्या आत्मना चात्मीयेन च, चक्षुर्विज्ञानं शून्यम् आत्मना चात्मीयेन च, एवं श्रोत्रविज्ञानं घ्राणविज्ञानं जिह्वाविज्ञानं कायविज्ञानं मनोविज्ञानं शून्यम् आत्मना चात्मीयेन च, चक्षुःसंस्पर्शः शून्य आत्मना चात्मीयेन च, एवं श्रोत्रसंस्पर्शो घ्राणसंस्पर्शो जिह्वासंस्पर्शः कायसंस्पर्शो मनःसंस्पर्शः शून्य आत्मना चात्मीयेन च, चक्षुःसंस्पर्शप्रत्ययवेदयितं शून्यम् आत्मना चात्मीयेन च, एवं श्रोत्रसंस्पर्शप्रत्ययवेदयितं घ्राणसंस्पर्शप्रत्ययवेदयितं जिह्वासंस्पर्शप्रत्ययवेदयितं कायसंस्पर्शप्रत्ययवेदयितं मनःसंस्पर्शप्रत्ययवेदयितं शून्यम् आत्मना चात्मीयेन च, दानपारमिता शून्या आत्मना चात्मीयेन च, एवं शीलपारमिता क्षान्तिपारमिता वीर्यपारमिता ध्यानपारमिता प्रज्ञापारमिता शून्या आत्मना चात्मीयेन च, स्मृत्युपस्थानानि शून्यानि आत्मना चात्मीयेन च, एवं सम्यक्प्रहाणानि ऋद्धिपादा इन्द्रियानि बलानि बोध्यङ्गानि मार्गा यावद् आवेणिका बुद्धधर्माः शून्या आत्मना चात्मीयेनच, किं करिष्यस्य् अनुत्तरां सम्यक्संबोधिम् अभिसंबुध्य य इमान्य् एवंरूपाणि मारकर्माणि नाचष्टे नोपदिशति, इदं सुभूते बोधिसत्त्वस्य महासत्त्वस्य पापमित्रं वेदितव्यम्.
पुनर् अपरं सुभूते मारः पापीयान् बोधिसत्त्वं महासत्त्वं प्रत्येकबुद्धवेषेणोपसंक्रम्यैवं वक्ष्यति; शून्या कुलपुत्र पूर्वा दिग् बुद्धैर् भगवद्भिर् बोधिसत्त्वैः श्रावकैश् च नात्र बुद्धो न बोधिर् न बोधिसत्त्वो न श्रावकः, एवं समन्ताद् दश दिशः शून्या (psp1-2: 16) बुद्धैर् भगवद्भिर् बोधिसत्त्वैः श्रावकैश् च नात्र बुद्धो न बोधिर् न बोधिसत्त्वो न श्रावकः, य इमान्य् एवंरूपाणि मारकर्माणि नोपदेक्ष्यन्ति, इमानि सुभूते बोधिसत्त्वस्य महासत्त्वस्य पापमित्राणि वेदितव्यानि.
पुनर् अपरं सुभूते मारः पापीयान् श्रमणवेषेणोपसंक्रम्य बोधिसत्त्वं महासत्त्वं सर्वाकारज्ञताप्रतिसंयुक्तेभ्यो मनसिकारेभ्यो विवेक्ष्य श्रावकप्रत्येकबुद्धप्रतिसंयुक्तैर् मनसिकारैर् अनुशासिष्यति अववदिष्यति, य इदम् एवंरूपं मारकर्म नोपदेक्ष्यति, इदं सुभूते बोधिसत्त्वस्य महासत्त्वस्य पापमित्रं वेदितव्यम्.
पुनर् अपरं सुभूते मारः पापीयान् उपाध्यायाचार्यवेषेणोपसंक्रम्य बोधिसत्त्वं महासत्त्वं बोधिसत्त्वचर्याया विवेचयिष्यति सर्वाकारज्ञताप्रतिसंयुक्तेभ्यो मनसिकारेभ्यो विवेचयिष्यति, स्मृत्युपस्थानेषु नियोजयिष्यति सम्यक्प्रहाणेषु ऋद्धिपादेषु इन्द्रियेषु बलेषु बोध्यङ्गेषु मार्गे नियोजयिष्यति शून्यतायाम् आनिमित्ते ऽप्रणिहिते नियोजयिष्यति, इमान्य् एवंरूपान् धर्मान् साक्षात्कृत्वा श्रावकभूमिं साक्षात्कुरुष्व, किं ते करिष्यत्य् अनुत्तरां सम्यक्संबोधिं य इमान्य् एवंरूपाणि मारकर्माणि नाचष्टे नोपदिशति, इदं सुभूते बोधिसत्त्वस्य महासत्त्वस्य पापमित्रं वेदितव्यम्.
पुनर् अपरं सुभूते मारः पापीयान् मातापितृवेषेणोपसंक्रम्य बोधिसत्त्वं महासत्त्वम् एवं वक्ष्यति; एहि त्वं कुलपुत्र स्रोतआपत्तिफलसाक्षात्क्रियायै योगम् आपद्यस्व सकृदागामिफलसाक्षात्क्रियायै अनागामिफलसाक्षात्क्रियायै अर्हत्त्वफलसाक्षात्क्रियायै योगम् आपद्यस्व किं ते ऽनुत्तरया सम्यक्संबोध्या अभिसंबुद्धया यस्याः कृतशो ऽसंख्येयान् अप्रमेयान् कल्पान् संसारे संसरता हस्तच्छेदाः पादच्छेदाश् चानुभवितव्याः, य इमान्य् एवंरूपाणि मारकर्माणि नोपदेक्ष्यति नाख्यास्यति, इदं सुभूते बोधिसत्त्वस्य महासत्त्वस्य पापमित्रं वेदितव्यम्.
पुनर् अपरं सुभूते बोधिसत्त्वस्य महासत्त्वस्य मारः पापीयान् भिक्षुवेषेणोपसंक्रम्य रूपम् अनित्यम् इति देशयिष्यत्य् उपलम्भयोगेन, रूपं दुःखम् अनात्मकं शान्तं विविक्तं शून्यम् आनिमित्तम् अप्रणिहितम् इति देशयिष्यत्य् उपलम्भयोगेन, वेदना संज्ञा संस्कारा विज्ञानम् अनित्यम् (psp1-2: 17) इति देशयिष्यत्य् उपलम्भयोगेन, विज्नानं दुःखम् अनात्मकं शान्तं विविक्तं शून्यम् आनिमित्तम् अप्रणिहितम् इति देशयिष्यत्य् उपलम्भयोगेन, चक्षुः श्रोत्रं घ्राणं जिह्वा कायो मनो ऽनित्यं दुःखम् अनात्मकं शान्तं विविक्तं शून्यम् आनिमित्तम् अप्रणिहितम् इति देशयिष्यत्य् उपलम्भयोगेन, एवं यावत् स्मृत्युपस्थानान्य् अनित्यानि दुःखान्य् अनात्मकानि शान्तानि विविक्तानि शून्यानि आनिमित्तानि अप्रणिहितानीति देशयिष्यत्य् उपलम्भयोगेन, एवं सम्यक्प्रहाणानि ऋद्धिपादा इन्द्रियाणि बलानि बोध्यङ्गानि मार्गो ऽनित्यो दुःखो ऽनात्मकः शान्तो विविक्तः शून्य आनिमित्तो ऽप्रणिहित इति देशयिष्यत्य् उपलम्भयोगेन, यावद् बुद्धधर्मा अपि अनित्या दुःखा अनात्मकाः शान्ता विविक्ताः शून्या आनिमित्ता अप्रणिहिता इति देशयिष्यत्य् उपलम्भयोगेन, य इमान्य् एवंरूपाणि मारकर्माणि नोपदेक्ष्यति नाख्यास्यति, इदम् अपि सुभूते बोधिसत्त्वस्य महासत्त्वस्य पापमित्रं वेदितव्यं विदित्वा च परिवर्जयितव्यम्.
इति कल्याणमित्रद्वितीयसंपरिग्रहः
इत्य् उक्तं निर्वेधाङ्गं चतुर्विधम्
सुभूतिर् आह: बोधिसत्त्वो बोधिसत्त्व इति भगवन्न् उच्यते, बोधिसत्त्व इति भगवन् कः पदार्थः?
भगवान् आह: अपदार्थः सुभूते बोधिसत्त्वपदार्थः. तत् कस्य हेतोः? न हि सुभूते बोधेर् उत्पादो ऽस्तिता वा नास्तिता वा विद्यते वोपलभ्यते, तस्माद् अपदार्थः सुभूते बोधिसत्त्वपदार्थः.
इति गोत्रस्वरूपम्
तद्यथापि नाम सुभूते आकाशे शकुनेः पदं न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते,
तद्यथापि नाम सुभूते स्वप्नस्य पदं न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते,
तद्यथापि नाम सुभूते मायायाः पदं न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते,
तद्यथापि नाम सुभूते मरीच्याः पदं न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते, एवं प्रतिश्रुत्कायाः प्रतिभासस्य प्रतिबिंबस्य गन्धर्वनगरस्य निर्मितस्यपदं न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते.
इत्य् उष्मगताधारः
तद्यथापि नाम सुभूते भूतकोट्याः पदं न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते,
तद्यथापि नाम सुभूते तथतायाः पदं न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते, एवम् अवितथताया अनन्यतथताया धर्मताया धर्मधातोर् धर्मस्थितिताया धर्मनियामतायाः सत्यतायाः पदं न विद्यते नोपलभ्यते, एवम् एव बोधिसत्त्वस्य पदार्थो न विद्यते नोपलभ्यते.
इति मूर्धगताधारः
तद्यथापि नाम सुभूते मायापुरुषस्य रूपस्य पदं न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते, एवं वेदना संज्ञा संस्काराः,
तद्यथापि नाम सुभूते मायापुरुषस्य विज्ञानस्य पदं न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते,
तद्यथापि नाम सुभूते मायापुरुषस्य चक्षुषः पदार्थो न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते, एवं श्रोत्रघ्राणजिह्वाकायाः,
तद्यथापि नाम सुभूते मायापुरुषस्य मनसः पदार्थो न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते,
तद्यथापि नाम सुभूते मायापुरुषस्य रूपशब्दगन्धरसस्प्रष्टव्यधर्माणां पदार्थो न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते,
तद्यथापि नाम सुभूते मायापुरुषस्य चक्षुरूपचक्षुर्विज्ञानपदार्थो न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते, एवं श्रोत्रशब्दश्रोत्रविज्ञानघ्राणगन्धघ्राणविज्ञानजिह्वारसजिह्वाविज्ञानकायस्प्रष्टव्यकायविज्ञानपदार्थः, (psp1-2: 19)
तद्यथा ऽपि नाम सुभूते मायापुरुषस्य मनोधर्ममनोविज्ञानपदार्थो न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते.
इति क्षान्तिगताधारः
तद्यथापि नाम सुभूते मायापुरुषस्य अध्यात्मशून्यतायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते,
तद्यथापि नाम सुभूते मायापुरुषस्य बहिर्धाशून्यतायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते,
तद्यथापि नाम सुभूते मायापुरुषस्य अध्यात्मबहिर्धाशून्यतायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते, यावद् विस्तरेण,
तद्यथापि नाम सुभूते मायापुरुषस्य अभावस्वभावशून्यतायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते,
तद्यथापि नाम सुभूते मायापुरुषस्य पारमितासु स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादेन्द्रियबलबोध्यङ्गमार्गेष्व् अप्रमाणेषु दशबलवैशारद्यप्रतिसंविदावेणिकबुद्धधर्मेषु स्कन्धेषु धातुषु आयतनेषु प्रतीत्यसमुत्पादेषु ध्यानारूप्यसमापत्त्यभिज्ञासु चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते.
इत्य् अग्रधर्मगताधारः
तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य रूपपदार्थो न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य (psp1-2: 20) महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते,
तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य वेदना संज्ञा संस्कारा विज्ञानपदार्थो न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते,
तद्यथापि नाम सुभूते तथागतस्यार्हतः सम्यक्संबुद्धस्य चक्षुःपदार्थो न विद्यते नोपलभ्यते, एवम् एव सुभूते बोधिसत्त्वस्य महासत्त्वस्य प्रज्ञापारमितायां चरतो बोधिसत्त्वपदार्थो न विद्यते नोपलभ्यते,
Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.
