Tổ đình Ba La Mật366 Nguyễn Sinh Cung, TP. Huế
← Phạn bản GRETIL — chữ DevanāgarīTrang 2/2

Phạn tạng · Phạn bản GRETIL — chữ Devanāgarī · Chưa xếp loại

निदानसंयुक्त

Thông tin
GRETIL — C. Tripāṭhī: Fünfundzwanzig Sūtras des Nidānasaṃyukta. Berlin 1962 (Sanskrittexte aus den Turfanfunden, VIII).chữ Devanāgarī do máy chuyển tự từ bản IAST của GRETILCC BY-NC-SA 4.0

निद्स 22.26 एतद् एव भगवान् आयुष्मत आनन्दस्य प्रत्याचारयति ।

sūtra 23: dṛṣṭisampanna (der rechten ansicht teilhaft)

निद्स 23.1 राजगृहे निदानम् ।

निद्स 23.2 तेन खलु समयेनायुष्माञ् छारिपुत्र आयुष्मांश् च महाकोष्ठिलो राजगृहे विहरतो गृध्रकूटे पर्वते ।

निद्स 23.3 अथायुष्मान् महाकोष्ठिलः सायाह्ने प्रतिसंलयनाद् व्युत्थाय येनायुष्माञ् छारिपुत्रस् तेनोपजगाम । उपेत्यायुष्मता शारिपुत्रेण सार्धं संमुखं सम्मोदनीं संरंजनीं कथां विविधाम् उपसंहृत्यैकान्ते न्यषीदत् । एकान्तनिषण्ण आयुष्मान् महाकोष्ठिल आयुष्मन्तं शारिपुत्रम् इदम् अवोचत् ।

निद्स 23.4 पृच्छाम आयुष्मञ् छारिपुत्र कञ्चिद् एव प्रदेशम् । सचेद् अवकाशं कुर्याः प्रश्नस्य व्याकरणाय ।

निद्स 23.5 पृच्छायुष्मन् महाकोस्ठिल । श्रुत्वा ते वेदयिष्यामि ।

निद्स 23.6 कियतायुष्मञ् छारिपुत्र आर्यश्रावको ऽस्मिन् धर्मविनये दृष्टिसंपन्नश् च भवति । ऋज्व्या च दृष्ट्या समन्वागतो भवति । बुद्धे चावेत्यप्रसादेन समन्वागतो भवति । आगत इमं सद्धर्मम् उपगत इमं सद्धर्मम् अवैति सद्धर्मम् इत्य् उच्यते ।

निद्स 23.7अ यतश् चायं महाकोष्ठिल आर्यश्रावको ऽकुशलं यथाभूतं प्रजानाति । अकुशलमूलं यथाभूतं प्रजानाति । कुशलं यथाभूतं प्रजानाति । कुशलमूलं यथाभूतं प्रजानाति ।

निद्स 23.7ब् किम् अकुशलं यथाभूतं प्रजानाति । अकुशलं कायकर्म वाक्कर्म मनःकर्म । इदम् अकुशलम् । एवम् अकुशलं यथाभूतं प्रजानाति ।

निद्स 23.7च् किम् अकुशलमूलं यथाभूतं प्रजानाति । त्रीण्य् अकुशलमूलानि । लोभो ऽकुशलमूलम् । द्वेषो मोहो ऽकुशलमूलम् । इदम् अकुशलमूलम् । एवम् अकुशलमूलं यथाभूतं प्रजानाति ।

निद्स 23.7द् कुशलं कायकर्म वाक्कर्म मनःकर्म । इदं कुशलम् । एवं कुशलं यथाभूतं प्रजानाति ।

निद्स 23.7ए किं कुशलमूलं यथाभूतं प्रजानाति । त्रीणि कुशलमूलानि । अलोभः कुशलमूलम् । अद्वेषो ऽमोहः कुशलमूलम् । इदं कुशलमूलम् । एवं कुशलमूलं यथाभूतं प्रजानाति ।

nidsa 23.7f yataś cāyuṣman mahākoṣṭhila āryāśrāvaka evam akuśalaṃ yathābhūtaṃ prajānāti | akuśalamūlaṃ yathābhūtaṃ prajānāti | kuśalaṃ yathābhūtaṃ prajānāti | kuśalamūlaṃ yathābhūtaṃ prajānāti |

निद्स 23.7ग् इयतार्यश्रावको ऽस्मिन् धर्मविनये दृष्टिसंपन्नश् च भवति । ऋज्व्या च दृष्ट्या समन्वागतो भवति । बुद्धे चावेत्यप्रसादेन समन्वागतो भवति । आगत इमं सद्धर्मम् उपगत इमं सद्धर्मम् अवैति सद्धर्मम् इत्य् उच्यते ।

निद्स 23.8 किन् न्व् आयुष्मञ् छारिपुत्र एष एव पर्यायः । अहो स्विद् अन्यो ऽपि । स्याद् आयुष्मन् महाकोष्ठिल अन्यो ऽपि ।

निद्स 23.9अ यतश् चार्यश्रावक आहारान् यथाभूतं प्रजानाति । आहारसमुदयम् आहारनिरोधम् आहारनिरोधगामिनीं प्रतिपदं यथाभूतं प्रजानाति ।

निद्स 23.9ब् किम् आहारान् यथाभूतं प्रजानाति । चत्वार आहाराः । कबडिंकार आहार औदारिकः सूक्ष्मश् च । स्पर्शो द्वितीयः । मनःसञ्चेतना तृतीयः । विज्ञानं चतुर्थः । इम आहाराः । एवम् आहारान् यथाभूतं प्रजानाति ।

निद्स 23.9च् किम् आहारसमुदयं यथाभूतं प्रजानाति । तृष्णा पौनर्भविकी नन्दिरागसहगता तत्रतत्राभिनन्दिनी । अयम् आहारसमुदयः । एवम् आहारसमुदयं यथाभूतं प्रजानाति ।

निद्स 23.9द् किम् आहारनिरोधं यथाभूतं प्रजानाति । यद् अस्या एव तृष्णायाः पौनर्भविक्या नन्दिरागसहगतायास् तत्रतत्राभिनन्दिन्या यद् अशेषं प्राहाणं प्रतिनिःसर्गो व्यन्तिभावः क्षयो विरागो निरोधो व्युपशमो ऽस्तंगमः । अयम् आहारनिरोधः । एवम् आहारनिरोधं यथाभूतं प्रजानाति ।

निद्स 23.9ए किम् आहारनिरोधगामिनीं प्रतिपदं यथाभूतं प्रजानाति । यदुतार्याष्टाङ्गो मार्गः । तद्यथा सम्यग्दृष्टिः सम्यक्संकल्पः सम्यग्वाक् सम्यक्कर्मान्तः सम्यगाजीवः सम्यग्व्यायामः सम्यक्स्मृतिः सम्यक्समाधिः । एष मार्गः । इयम् आहारनिरोधगामिनी प्रतिपत् । एवम् आहारनिरोधगामिनीं प्रतिपदं यथाभूतं प्रजानाति ।

nidsa 23.9f yataś cāryaśrāvaka evam āhārān yathābhūtaṃ prajānāti | āhārasamudayam āhāranirodham āhāranirodhagāminīṃ pratipadaṃ yathābhūtaṃ prajānāti |

निद्स 23.9ग् इयतार्यश्रावको ऽस्मिन् धर्मविनये दृष्टिसम्पन्नश् च भवति पूर्ववत् ।

निद्स 23.10 किन् न्व् आयुष्मञ् छारिपुत्र एष एव पर्यायः । अहो स्विद् अन्योऽपि । स्याद् आयुष्मन् महाकोष्ठिल अन्योऽपि ।

निद्स 23.11अ यतश् चार्यश्रावक आस्रवान् यथाभूतं प्रजानाति । आस्रवसमुदयम् आस्रवनिरोधम् आस्रवनिरोधगामिनीं प्रतिपदं यथाभूतं प्रजानाति ।

निद्स 23.11ब् किम् आस्रवान् यथाभूतं प्रजानाति । त्रय आस्रवाः । कामास्रवो भवास्रवो ऽविद्यास्रवः । इम आस्रवाः । एवम् आस्रवान् यथाभूतं प्रजानाति ।

निद्स 23.11च् किम् आस्रवसमुदयं यथाभूतं प्रजानाति । अविद्यासमुदयाद् आस्रवसमुदयः । अयम् आस्रवसमुदयः । एवम् आस्रवसमुदयं यथाभूतं प्रजानाति ।

निद्स 23.11द् किम् आस्रवनिरोधं यथाभूतं प्रजानाति । अविद्यानिरोधाद् आस्रवनिरोधः । एवम् आस्रवनिरोधं यथाभूतं प्रजानाति ।

निद्स 23.11ए किम् आस्रवनिरोधगामिनीं प्रतिपदं यथाभूतं प्रजानाति । आर्याष्टाङ्गो मार्गः पूर्ववत् ।

nidsa 23.11f yataś cāryaśrāvaka evam āsravān yathābhūtaṃ prajānāti | āsravasamudayam āsravanirodham āsravanirodhagāminīṃ pratipadaṃ yathābhūtaṃ prajānāti |

निद्स 23.11ग् इयतार्यश्रावको ऽस्मिन् धर्मविनये दृष्टिसम्पन्नश् च भवति पूर्ववत् ।

निद्स 23.12 किन् न्व् आयुष्मञ् छारिपुत्र एष एव पर्यायः । अहो स्विद् अन्योऽपि । स्याद् आयुष्मन् महाकोष्ठिल अन्योऽपि ।

निद्स 23.13अ यतश् चार्यश्रावको दुःखं यथाभूतं प्रजानाति । दुःखसमुदयं दुःखनिरोधं दुःखनिरोधगामिनीं प्रतिपदं यथाभूतं प्रजानाति ।

निद्स 23.13ब् किं दुःखं यथाभूतं प्रजानाति । जातिर् दुःखम् । जरा दुःखम् । व्याधिर् दुःखम् । मरणं दुःखम् । प्रियविप्रयोगो दुःखम् । अप्रियसंप्रयोगो दुःखम् । यद् अपीच्छते पर्येषमाणो न लभते तद् अपि दुःखम् । संक्षिप्तेन पञ्चोपादानस्कन्धा दुःखम् । इदं दुःखम् । एवं दुःखं यथाभूतं प्रजानाति ।

निद्स 23.13च् किं दुःखसमुदयं यथाभूतं प्रजानाति । तृष्णा पौनर्भविकी पूर्ववत् । अयं दुःखसमुदयः । एवं दुःखसमुदयं यथाभूतं प्रजानाति ।

निद्स 23.13द् किं दुःखनिरोधं यथाभूतं प्रजानाति । यद् अस्या एव तृष्णायाः पौनर्भविक्याः पूर्ववत् । अयं दुःखनिरोधः । एवं दुःखनिरोधं यथाभूतं प्रजानाति ।

निद्स 23.13ए किं दुःखनिरोधगामिनीं प्रतिपदं यथाभूतं प्रजानाति । आर्याष्टाङ्गोमार्गः पूर्ववत् । इयं दुःखनिरोधगामिनी प्रतिपत् । एवं दुःखनिरोधगामिनीं प्रतिपदं यथाभूतं प्रजानाति ।

nidsa 23.13f

निद्स 23.13ग् इयतार्यश्रावको ऽस्मिन् धर्मविनये दृष्टिसम्पन्नश् च भवति पूर्ववत् ।

निद्स 23.14 किन् न्व् आयुष्मञ् छारिपुत्र एष एव पर्यायः । अहो स्विद् अन्यो ऽपि । स्याद् आयुष्मन् महाकोष्ठिल अन्यो ऽपि ।

निद्स 23.15अ यतश् चार्यश्रावको जरामरणं यथाभूतं प्रजानाति । जरामरणसमुदयं जरामरणनिरोधं जरामरणनिरोधगामिनीं प्रतिपदं यथाभूतं प्रजानाति ।

निद्स 23.15ब् किं जरामरणं यथाभूतं प्रजानाति । पूर्ववद् यथा आदिसूत्रे ।

निद्स 23.15च् किं जरामरणसमुदयं यथाभूतं प्रजानाति । जातिसमुदयाज् जरामरणसमुदयः ।

निद्स 23.15द् एवं जातिनिरोधाज् जरामरणनिरोधः ।

निद्स 23.15ए आर्याष्टाङ्गो मार्गः पूर्ववत् ।

nidsa 23.15f yataś cāryaśrāvaka evaṃ jarāmaraṇaṃ yathābhūtaṃ prajānāti | jarāmaraṇasamudayaṃ jarāmaraṇanirodhaṃ jarāmaraṇanirodhagāminīṃ pratipadaṃ yathābhūtaṃ prajānāti |

निद्स 23.15ग् इयतार्यश्रावको ऽस्मिन् धर्मविनये दृष्टिसम्पन्नश् च भवति पूर्ववत् ।

निद्स 23.16 एवं जातिर् भव उपादानं तृष्णा वेदना स्पर्शः षदायतनं नामरूपं विज्ञानं संस्काराः ।

निद्स 23.17अ यतश् चार्यश्रावकः संस्कारान् यथाभूतं प्रजानाति । संस्कारसमुदयं संस्कारनिरोधं संस्कारनिरोधगामिनीं प्रतिपदं यथाभूतं प्रजानाति ।

निद्स 23.17ब् किं संस्कारान् यथाभूतं प्रजानाति । त्रयः संस्काराः । कायसंस्कारो वाक्संस्कारो मनःसंस्कारः ।

निद्स 23.17च् किं संस्कारसमुदयं यथाभूतं प्रजानाति । अविद्यायाः समुदयात् संस्कारसमुदयः । अयं संस्कारसमुदयः । एवं संस्कारसमुदयं यथाभूतं प्रजानाति ।

निद्स 23.17द् किं संस्कारनिरोधं यथाभूतं प्रजानाति / अविद्याया निरोधात् संस्कारनिरोधः । अयं संस्कारनिरोधः ।

निद्स 23.17ए किं संस्कारनिरोधगामिनीं प्रतिपदं यथाभूतं प्रजानाति । आर्याष्टाङ्गो मार्गः पूर्ववत् ।

nidsa 23.17f yataś cāyuṣman mahākoṣṭhila āryaśrāvaka evaṃ saṃskārān yathābhūtaṃ prajānāti saṃskārasamudayaṃ saṃskāranirodhaṃ saṃskāranirodhagāminīṃ pratipadaṃ yathābhūtaṃ prajānāti |

निद्स 23.17ग् इयतार्यश्रावको ऽस्मिन् धर्मविनये दृष्टिसंपन्नश् च भवति । ऋज्व्या च दृष्ट्या समन्वागतो भवति । बुद्धे चावेत्यप्रसादेन समन्वागतो भवति । आगत इमं सद्धर्मम् उपगत इमं सद्धर्मम् अवैति सद्धर्मम् इत्य् उच्यते ।

निद्स 23.18 किन् न्व् आयुष्मञ् छारिपुत्र एष एव पर्यायः । अहो स्विद् अन्यो ऽपि ।

निद्स 23.19 अतिसरस्य् अतिसरस्य् आयुष्मन् महाकोष्ठिल । न शक्ष्यसे प्रश्नान् आपर्यन्तम् उद्गृहीतुं यतश् चर्यश्रावकस्याविद्या विरक्ता भवति विद्योत्पन्ना ।

निद्स 23.20 अथ किन् न्व् अस्योत्तरे करणीयम् इति तौ सत्पुरुषाव् अन्योन्यभाषितम् अभिनन्द्यानुमोद्य उत्थायासनात् प्रक्रान्तौ ।/

सूत्र 24: भूतम् इदम्

निद्स 24.1 तत्र भगवान् आयुष्मन्तं शारिपुत्रम् आमन्त्रयति ।

निद्स 24.2अ उक्तम् इदं शारिपुत्र मया परायणेष्व् अजितप्रश्नेषु ।

ये च सङ्ख्यातधर्माणि ये च शैक्षाः पृथग्विधाः । तेषां मे निपकस्येर्यां पृष्टः प्रब्रूहि मारिष // //

निद्स 24.2ब् के शारिपुत्र शैक्षाः के च सङ्ख्यातधर्माणि ।

निद्स 24.3 एवम् उक्त आयुष्माञ् छारिपुत्रस् तूष्णी ।

निद्स 24.4 द्विर् अपि त्रिर् अपि भगवान् आयुष्मन्तं शारिपुत्रम् इदम् अवोचत् ।

निद्स 24.5 उक्तम् इदं शारिपुत्र मया परायणेस्व् अजितप्रश्नेषु ।

ये च सङ्ख्यातधर्माः पूर्ववत् ।

निद्स 24.6 द्विर् अपि त्रिर् अप्य् आयुष्माञ् छारिपुत्रस् तूष्णीम् अभूत् ।

निद्स 24.7 तत्र भगवान् आयुष्मन्तं शारिपुत्रम् आमन्त्रयति ।

निद्स 24.8 भूतम् इदं शारिपुत्र ।

निद्स 24.9 एवम् एतद् भूतं भदन्त । भूतस्य भदन्त भिक्षुर् निर्विदे विरागाय निरोधाय प्रतिपन्नो भवति ।

निद्स 24.10 तदाहारसंभवः । तदाहारसंभवस्य भिक्षुर् निर्विदे विरागाय निरोधाय प्रतिपन्नो भवति ।

निद्स 24.11 तदाहारनिरोध इति । यद् भूतं तन् निरोधधर्मम् इति विदित्वा निरोधधर्मस्य भिक्षुर् निर्विदे विरागाय निरोधाय प्रतिपन्नो भवति ।

निद्स 24.12 इम उच्यन्ते शैक्षाः ।

निद्स 24.13 भूतम् इदं शारिपुत्र ।

निद्स 24.14 एवम् एतद् भूतं भदन्त । भूतस्य भदन्त भिक्षुर् निर्विदे विरागाय निरोधायानुपादायास्रवेभ्यः सम्यक्सुविमुक्तचित्तो भवति ।

निद्स 24.15 तदाहारसंभवः । तदाहारसंभवस्य भिक्षुर् निर्विदे विरागाय निरोधायानुपादायास्रवेभ्यः सम्यक्सुविमुक्तचित्तो भवति ।

निद्स 24.16 तदाहारनिरोध इति । यद् भूतं तन् निरोधधर्मम् इति विदित्वा निरोधधर्मस्य भिक्षुर् निर्विदे विरागाय निरोधायानुपादायास्रवेभ्यः सम्यक्सुविमुक्तचित्तो भवति ।

निद्स 24.17 इम उच्यन्ते सङ्ख्यातधर्माणः ।

निद्स 24.18 एवम् एतच् च्छारिपुत्र भूतम् । एवम् एतच् च्छारिपुत्र भूतस्य भिक्षुर् निर्विदे विरागाय पूर्ववद् यावत् सङ्ख्यातधर्माणः ।

निद्स 24.19 अथ भगवान् उत्थायासनाद् विहारं प्राविशत् प्रतिसंलयनाय ।

निद्स 24.20 अथायुष्माञ् छारिपुत्रो ऽचिरप्रक्रान्तं भगवन्तं विदित्वा भिक्षून् आमन्त्रयति ।

निद्स 24.21 अप्रतिसंविदितं माम् आयुष्मन्तो भगवान् एतं प्रथमं प्रश्नं पृष्टवान् । तस्य मे ऽभूद् अपूर्वं धन्धायितत्वम् ।

निद्स 24.22 यतश् च मे भगवांस् तत् प्रथमं प्रश्नव्याकरणम् अभ्यनुमोदितवान् तस्य मे एतद् अभवत् ।

निद्स 24.23 सचेत् केवलिकां रात्रिं भगवान् एतम् एवार्थम् अन्यैः पदैर् अन्यैर् व्यञ्जनैः प्रश्नं पृच्छेत् केवलिकाम् अप्य् अहं रात्रिं भगवत एतम् एवार्थम् अन्यैः पदैर् अन्यैर् व्यञ्जनैः प्रश्नं पृष्टो व्याकुर्याम् ।

निद्स 24.24 सचेद् एकम् दिवसम् । एकं रात्रिदिवसम् । सप्तापि रात्रिदिवसानि भगवान् माम् एतम् एवार्थम् अन्यैः पदैर् अन्यैर् व्यञ्जनैः प्रश्नं पृच्छेत् । सप्ताप्य् अहं रात्रिदिवसानि भगवत एतम् एवार्थम् अन्यैः पदैर् अन्यैर् व्यञ्जनैः प्रश्नं पृष्टो व्याकुर्याम् ।

निद्स 24.25 अथान्यतरो भिक्षुर् येन भगवांस् तेनोपजगाम । उपेत्य भगवत्पादौ शिरसा वन्दित्वैकान्ते ऽस्थात् । एकान्तस्थितः स भिक्षुर् भगवन्तम् इदम् अवोचत् ।

निद्स 24.26 आयुष्मता भदन्त शारिपुत्रेण उदारार्षही वाग् भाषितैकांश उद्गृहीतः परिषदि सम्यक्सिंहनादो नादितः ।

निद्स 24.27 अप्रतिसंविदितं माम् आयुष्मन्तो भगवान् एतं पूर्ववत् ।

निद्स 24.28 सचेत् केवलिकाम् अप्य् अहं रात्रिम् आयुष्मन्तं शारिपुत्रम् एतम् एवार्थम् अन्यैः पदैर् अन्यैर् व्यञ्जनैः प्रश्नं पृच्छेयं यावत् सप्तापि रात्रिदिवसानि शारिपुत्र एतम् एवार्थम् अन्यैः पदैर् अन्यैर् व्यञ्जनैः प्रश्नं पृष्टो व्याकुर्यात् ।

nidsa 24.29 tathā hi śāriputrasya bhikṣor dharmadhātuḥ supratividdhaḥ | sūtra 25: abhavya (unfähig)

निद्स 25.1 मगधेषु निदानम् ।

निद्स 25.2 त्रय इमे भिक्षवो धर्माः संविद्यन्ते अनिष्टा अकान्ता अमनापा लोकस्य । कतमे त्रयः / तद्यथा व्याधिर् जरा मरणम् । इमे चेत् त्रयो धर्मा अनिष्टा अकान्ता अमनापा लोकस्य नाभविष्यन् तथागता अर्हन्तः सम्यक्संबुद्धा लोके न उत्पत्स्यन्ते + + + + सुप्रवेदितस्य धर्मविनयस्य प्रकाशनाय ।

निद्स 25.3 यस्मात् तु व्याधिर् जरा मरणम् इमे त्रयो धर्मा अनिष्टा अकान्ता अमनापा लोकस्य भवन्ति तस्मात् तथागता अर्हन्तः सम्यक्संबुद्धा लोके उत्पद्यन्ते सुप्रवेदितस्य धर्मविनयस्य प्रकासनाय ।

निद्स 25.4 त्रीन् धर्मान् अप्रहाय अभव्यो व्याधिं जरां मरणं प्रहातुम् । कतमांस् त्रीन् । तद्यथा रागद्वेषमोहम् । इमांस् त्रीन् धर्मान् अप्रहाय अभव्योव्याधिं जरां मरणं प्रहातुम् ।

निद्स 25.5 त्रीन् धर्मान् अप्रहाय अभव्यो रागद्वेषमोहं प्रहातुम् । कतमांस् त्रीन् । तद्यथा सत्कायदृष्टिं शीलव्रतपरामर्शं विचिकित्साम् । इमांस् त्रीन् धर्मान् अप्रहाय अभव्यो रागद्वेषमोहं प्रहातुम् ।

निद्स 25.6 त्रीन् धर्मान् अप्रहाय अभव्यो सत्कायदृष्टिं शीलव्रतपरामर्शं विचिकित्सां च प्रहातुम् । कतमांस् त्रीन् । अयोनिशो मनसिकारं कुमार्गसेवनां लीनचित्ततां च । इमांस् त्रीन् धर्मान् अप्रहाय अभव्यो सत्कायदृष्टिं शिलव्रतपरामर्शं विचिकित्सां च प्रहातुम् ।

निद्स 25.7 त्रीन् धर्मान् अप्रहाय अभव्यो अयोनिशो मनसिकारं कुमार्गसेवनां लीचचित्ततां च प्रहातुम् । कतमांस् त्रीन् । मुष्टस्मृतिताम् असंप्रजन्यं विक्षेपं च । इमांस् त्रीन् धर्मानप्रहाय अभव्यो अयोनिशो मनसिकारं कुमार्गसेवनां लीनचित्ततां च प्रहातुम् । निद्स 25.8 त्रीन् धर्मान् अप्रहाय अभव्यो मुष्टस्मृतिताम् असंप्रजन्यं विक्षेपं च प्रहातुम् । कतमांस् त्रीन् । औद्धत्यम् असंवरं दुःशीलं च । इमांस् त्रीन् धर्मान् अप्रहाय अभव्यो मुष्टस्मृतिताम् असंप्रजन्यं विक्षेपं च प्रहातुम् ।

निद्स 25.9 त्रीन् धर्मान् अप्रहाय अभव्यो औद्धत्यम् असंवरं दुःशीलं च प्रहातुम् । कतमांस् त्रीन् । आश्रद्ध्यम् अवदान्यतां कौसीद्यम् । इमांस् त्रीन् धर्मान् अप्रहाय अभव्यो औद्धत्यम् असंवरं दुःशीलं च प्रहातुम् ।

निद्स 25.10 त्रीन् धर्मान् अप्रहाय अभव्यो आश्रद्ध्यम् अवदान्यतां कौसीद्यं प्रहातुम् । कतमांस् त्रीन् । आर्याणाम् अदर्शनकामताम् आर्यस्य धर्मस्य अश्रवणकामताम् उपालंभचित्ततां च । इमांस् त्रीन् धर्मान् अप्रहाय अभव्यो आश्रद्ध्यम् अवदान्यतां कौसीद्यं प्रहातुम् । निद्स 25.11 त्रीन् धर्मान् अप्रहाय अभव्यो आर्याणाम् अदर्शनकामताम् आर्यस्य धर्मस्य अश्रवणकामताम् उपालंभचित्ततां च प्रहातुम् । कतमांस् त्रीन् । अनादर्यं दौर्वचस्यं पापमित्रतां च । इमांस् त्रीन् धर्मान् अप्रहाय अभव्यो आर्याणाम् अदर्शनकामताम् आर्यस्य धर्मस्य अश्रवणकामताम् उपालंभचित्ततां च प्रहातुम् । निद्स 25.12 त्रीन् धर्मान् अप्रहाय अभव्यो अनादर्यं दौर्वचस्यं पापमित्रतां च प्रहातुम् । कतमांस् त्रीन् । आह्रीक्यम् अनपत्राप्यं प्रमादम् । इमांस् त्रीन् धर्मान् अप्रहाय अभव्यो अनादर्यं दौर्वचस्यं पापमित्रतां च प्रहातुम् । निद्स 25.13 तत् कस्माद् धेतोः । अह्रीमान् अनपत्रापी प्रमत्तो भवति । स प्रमत्तः सन्न् अनादरो भवति । स अनादरः समानः पापमित्रो भवति । स पापमित्रः समानः + + + + + + + + + + .ओ भवत्य् उपालंभचित्तो भवति । स उपालंभचित्तः समानो ऽश्रद्धो भवति । सो ऽश्रद्धः समानो + + + भवति । स + + + + समानः + + + + + + + + + + दुःशीलो भवति । स औद्धत्यकामः । स मुष्टस्मृतिताम् असंप्रजन्यं विक्षेपं + + + + + + + + + + + + + लीनचित्तो भवति । स लीनचित्तः समानो विचिकित्सां सत्कायदृष्टिं च निविशति । शीलव्रतं परामृशति । अतीर्णकाङ्क्षः समानः सरागद्वेषमोहो भवति । अवीतरागद्वेषमोहो अभव्यो व्याधिम् जरां मरणम् अपक्रामितुम् ।

निद्स 25.14 त्रींस् तु धर्मान् प्रहाय भव्यो व्याधिं जरां मरणं प्रहातुम् । कतमांस् त्रीन् । रागद्वेषमोहान् । इमांस् त्रीन् धर्मान् प्रहाय भव्यो व्याधिं जरां मरणं प्रहातुम् । निद्स 25.15 त्रींस् तु धर्मान् प्रहाय भव्यो रागद्वेषमोहान् प्रहातुम् । कतमांस् त्रीन् । सत्कायदृष्टिं शीलव्रतपरामर्शं विचिकित्साम् । इमांस् त्रीन् धर्मान् प्रहाय भव्योरागद्वेषमोहान् प्रहातुम् ।

निद्स 25.16 त्रींस् तु धर्मान् प्रहाय भव्यः सत्कायदृष्टिं शीलव्रतपरामर्शं विचिकित्सां च प्रहातुम् । कतमांस् त्रीन् । अयोनिशो मनसिकारं कुमार्गसेवनां लीनचित्ततां च । इमांस् त्रीन् धर्मान् प्रहाय भव्यः सत्कायदृष्टिं शीलव्रतपरामर्शं विचिकित्सां च प्रहातुम् ।

निद्स 25.17 त्रींस् तु धर्मान् प्रहाय भव्यो अयोनिशो मनसिकारं कुमार्गसेवनां लीनचित्ततां च प्रहातुम् । कतमांस् त्रीन् । मुष्टस्मृतिताम् असंप्रजन्यं विक्षेपं च । इमांस् त्रीन् धर्मान् प्रहाय भव्यो अयोनिशो मनसिकारं कुमार्गसेवनां लीनचित्ततां च प्रहातुम् ।

Nguồn: Bản Phạn còn sót, từ GRETIL (ĐH Göttingen) — trọn phần Phật giáo: kinh Đại thừa · luận · luật · mật giáo · kinh A-hàm · thí dụ · tán ca · thi ca. Bản Devanāgarī là phép CHUYỂN TỰ TẠI MÁY từ bản IAST, không phải bản GRETIL phát hành. Giấy phép và ấn bản in gốc ghi ở từng bài, thuộc về người nhập liệu và nhà xuất bản đứng tên; phần lớn là CC BY-NC-SA. Gói này phát hành trên GitHub cho người dùng app, để nghiên cứu và đối chiếu, không nhằm mục đích thương mại. Ai muốn gỡ bài của mình khỏi gói xin báo, sẽ gỡ ngay.